विस्तारः (द्रष्टुं नोद्यम्)
आग्न्याधेयब्राह्मणम् अग्न्यार्षेयम्
कृत्तिकापक्षः
विश्वास-प्रस्तुतिः
कृत्ति॑कास्व् +++(चन्द्रे सूर्ये वा सति)+++ अ॒ग्निम् आद॑धीत ।
मूलम्
कृत्ति॑कास्व् अ॒ग्निम् आद॑धीत ।
मूलम्
ए॒तद्वा अ॒ग्नेर्नक्ष॑त्त्रम् । यत्कृत्ति॑काः ।
विश्वास-प्रस्तुतिः
ए॒तद् वा अ॒ग्नेर् नक्ष॑त्त्रम् यत् कृत्ति॑काः +++(यतस् तस्मिन् युगे विषुव-सूर्यस्थानं तत्रासीत्)+++ ।+++(5)+++
मूलम्
ए॒तद् वा अ॒ग्नेर् नक्ष॑त्त्रय्ँ॒ यत् कृत्ति॑काः ।
भट्टभास्कर-टीका
1अथ आप्रपाठकसमाप्तेः आग्न्याधेयब्राह्मणमग्न्यार्षेयम् - कृत्तिकास्वग्निमादधीतेत्यादि ॥ अग्नेर्नक्षत्रं अग्निदेवत्यत्वात् ।
विश्वास-प्रस्तुतिः
स्वाया॑मै॒वैन॑न् दे॒वता॑याम् आ॒धाय॑ ब्रह्मवर्च॒सी भ॑वति ।
मूलम्
स्वाया॑मै॒वैन॑न्दे॒वता॑यामा॒धाय॑ । ब्र॒ह्म॒व॒र्च॒सी भ॑वति ।
भट्टभास्कर-टीका
ब्रह्मवर्चसी आत्मीयदेवतालाभेन आत्मीयस्वरूपसमृद्धिः । ‘ब्रह्महस्तिभ्यां वर्चसः’ इत्यच् समासान्तः ।
विश्वास-प्रस्तुतिः
मुखव्ँ॒ वा ए॒तन् नक्ष॑त्त्राणाम्, यत् कृत्ति॑काः ।
मूलम्
मुखव्ँ॒वा ए॒तन्नक्ष॑त्त्राणाम् । यत्कृत्ति॑काः ।
भट्टभास्कर-टीका
मुखमिति । देवनक्षत्राणां प्रथमत्वात् ।
विश्वास-प्रस्तुतिः
यᳵ कृत्ति॑कास्व् अ॒ग्निम् आ॑ध॒त्ते मुख्य॑ ए॒व भ॑वति ।
मूलम्
यᳵ कृत्ति॑कास्व॒ग्निमा॑ध॒त्ते । मुख्य॑ ए॒व भ॑वति ।
भट्टभास्कर-टीका
मुख्य इति । प्रधानभूतः अविशेषात् सर्वेषाम् । मुखमुपक्रमः, तत्र भवो मुख्यः । शरीरावयवाद्यत्, ‘यतो नावः’ इत्याद्युदात्तत्वम्। यद्वा मुखमिव मुख्यः । ‘शाखादिभ्यश्च’ इति यः, व्यत्ययेनाद्युदात्तत्वम् ॥
रोहिणीपक्षः
विश्वास-प्रस्तुतिः
अथो॒ खलु॑ अग्निनक्ष॒त्त्रम् इत्य् अप॑चायन्ति+++(=निन्दन्ति)+++ ।
मूलम्
अथो॒ खलु॑ ॥ 6 ॥
अ॒ग्नि॒न॒क्ष॒त्त्रमित्यप॑चायन्ति ।
भट्टभास्कर-टीका
2अथो खल्विति ॥ पक्षान्तरमस्तीत्यर्थः । तदेवाह - अग्निनक्षत्रमेतदिति केचित् कृत्तिका अपचायन्ति निन्दन्ति न पूजयन्ति । चायतिस्स्वरितेद्भौवादिकः पूजाकर्मा । स इदानीमपपूर्वः पूजानिवृत्तिकर्मा ।
विश्वास-प्रस्तुतिः
गृ॒हान् ह॒ दाहु॑को भवति ।
मूलम्
गृ॒हान् ह॒ दाहु॑को भवति ।
भट्टभास्कर-टीका
अपचायनहेतुमाह - कृत्तिकास्वाहितोऽग्निराधातुर्गृहान् दाहुको भवति गृहाणां दहनशीलस्स्यात् । छान्दस उकङ् । ‘न लोकाव्यय’ इति षष्ठीप्रतिषेधः ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑ती रोहि॒ण्याम् अ॒ग्निम॑सृजत +++(यतः पूर्वयुगे विषुवसूर्यस्थानं तत्रासीत्)+++ ।
तन् दे॒वा रो॑हि॒ण्याम् आद॑धत ।
मूलम्
प्र॒जाप॑ती रोहि॒ण्याम् अ॒ग्निम् अ॑सृजत ।
तन् दे॒वा रो॑हि॒ण्याम् आद॑धत ।
भट्टभास्कर-टीका
रोहिण्यां अग्नेर्जन्मदिने अग्निं आदधत ।
विश्वास-प्रस्तुतिः
ततो॒ वै ते सर्वा॒न् रोहा॑न् अरोहन् ।
मूलम्
ततो॒ वै ते सर्वा॒न् रोहा॑न् अरोहन् ।
भट्टभास्कर-टीका
तत डति । ते देवाः सर्वान् रोहान् रोढव्यान् कामान् अरोहन् आरूढवन्तः प्राप्तवन्तः । यद्वा - सर्वान्रोहानुच्छ्रायान् अरोहन् आरोहन्त ।
विश्वास-प्रस्तुतिः
तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम् ।
मूलम्
तद् रो॑हि॒ण्यै रो॑हिणि॒त्वम् ।
विश्वास-प्रस्तुतिः
यो रो॑हि॒ण्याम् अ॒ग्निम् आ॑ध॒त्ते ऋ॒ध्नोत्ये॒व ।
सर्वा॒न् रोहा॑न् रोहति ।
मूलम्
यो रो॑हि॒ण्याम॒ग्निमा॑ध॒त्ते । ऋ॒ध्नोत्ये॒व ।
भट्टभास्कर-टीका
तद्रोहिण्यै रोहिणित्वमिति । रोहन्त्यस्यामिति रोहिणी । औणादिक इतच्प्रत्ययः, ‘वर्णादनुदात्तात्’ इति ङीब्नकारौ, ‘त्वे च’ इति ह्रस्वत्वत् ॥
पुनर्वसुपक्षः
विश्वास-प्रस्तुतिः
दे॒वा वै भ॒द्रास् सन्तो॒ ऽग्निम् आधि॑त्सन्त ॥7 ॥
मूलम्
दे॒वा वै भ॒द्रास् सन्तो॒ ऽग्निम् आधि॑त्सन्त ॥7 ॥
भट्टभास्कर-टीका
3देवा वा इत्यादि ॥ भद्राः समृद्धाः सन्तः अपि देवाः अग्निमाधित्सन्त आधातुमैच्छन् ।
विश्वास-प्रस्तुतिः
तेषा॒म् अना॑हितो॒ ऽग्निर् आसी॑त् ।
मूलम्
तेषा॒म् अना॑हितो॒ ऽग्निर् आसी॑त् ।
भट्टभास्कर-टीका
तदेवाह - तेषामनाहित एव असीत् ।
विश्वास-प्रस्तुतिः
अथै॑भ्यो वा॒मव्ँ वस्व् अपा॑क्रामत् ।
मूलम्
अथै॑भ्यो वा॒मव्ँ वस्व् अपा॑क्रामत् ।
भट्टभास्कर-टीका
अथ अनन्तरं एभ्यो भद्रेभ्योऽप्यग्निमादधानेभ्यो देवेभ्यो वामं वननीयं वस्वपाक्रामत् देवान् हित्वा अपागमत् ।
विश्वास-प्रस्तुतिः
ते पुन॑र्-वस्वो॒र् आद॑धत ।
मूलम्
ते पुन॑र्वस्वो॒र् आद॑धत ।
भट्टभास्कर-टीका
अथ ते अपक्रान्तवामवसुकाः पुनर्वस्वोः अग्निं .आदधत ।
विश्वास-प्रस्तुतिः
ततो॒ वै तान् वा॒मव्ँ वसू॒पाव॑र्तत ।
मूलम्
ततो॒ वै तान् वा॒मव्ँ वसू॒पाव॑र्तत ।
भट्टभास्कर-टीका
ततो वा इत्यादि । गतम् । उपावर्तत उपसंप्राप्तोत् ।
विश्वास-प्रस्तुतिः
यᳶ पु॒रा ऽभ॒द्रस् सन् पापी॑या॒न्त् स्यात्,
स पुन॑र्वस्वोर् अ॒ग्निम् आद॑धीत ।
मूलम्
यᳶ पु॒राऽभ॒द्रस्सन्पापी॑या॒न्त्स्यात् । स पुन॑र्वस्वोर॒ग्निमाद॑धीत ।
भट्टभास्कर-टीका
पापीयानिति । अग्न्याधानात्प्राक् नैर्धन्यात् पापतरः ।
विश्वास-प्रस्तुतिः
पुन॑र् ए॒वैनव्ँ॑ वा॒मव्ँ वसू॒पाव॑र्तते ।
भ॒द्रो भ॑वति ।
+++(पुनरुपावृत्तं वस्वनयोरिति पुनर्वसू इति भावः ॥)+++
मूलम्
पुन॑र् ए॒वैनव्ँ॑ वा॒मव्ँ वसू॒पाव॑र्तते ।
भ॒द्रो भ॑वति ।
पुनरुपावृत्तं वस्वनयोरिति पुनर्वसू इति भावः ॥
पूर्वफल्गुनीपक्षः
विश्वास-प्रस्तुतिः
यᳵ का॒मये॑त॒ दानका॑मा मे प्र॒जास् स्यु॒र् इति॒ ..
स पूर्व॑यो॒ᳶ फल्गु॑न्योर् अ॒ग्निम् आद॑धीत ॥ 8 ॥
मूलम्
यᳵ का॒मये॑त॒ दानका॑मा मे प्र॒जास्स्यु॒रिति॑ । स पूर्व॑यो॒ᳶ फल्गु॑न्योर॒ग्निमाद॑धीत ॥ 8 ॥
भट्टभास्कर-टीका
4दानकामा इति ॥ मम प्रजा दानकामास्सर्वेभ्यस्स्युरिति । यद्वा- सर्वाः प्रजाः मे मह्यं दानकामाः दातुकामाः स्युरिति, वक्ष्यति - ‘दानकामा अस्मै मज्जा भवन्ति ’ इति ।
विश्वास-प्रस्तुतिः
अ॒र्य॒म्णो वा ए॒तन् नक्ष॑त्त्रय्ँ यत् पूर्वे॒ फल्गु॑नी ।
“अ॒र्य॒मे"ति॒ तम् आ॑हु॒र् यो ददा॑ति ।
दान॑कामा अस्मै प्र॒जा भ॑वन्ति ।
मूलम्
अ॒र्य॒म्णो वा ए॒तन्नक्ष॑त्त्रम् ।
यत्पूर्वे॒ फल्गु॑नी ।
“अ॒र्य॒मे"ति॒ तमा॑हु॒र् यो ददा॑ति ।
दान॑कामा अस्मै प्र॒जा भ॑वन्ति ।
भट्टभास्कर-टीका
यो ददातीति । अरीन् यमयति दानेन वशीकरोतीति अर्यमा । पृषोदरादिः ॥
मूलम्
यᳵ का॒मये॑त भ॒गी स्या॒मिति॑ । स उत्त॑रयो॒ᳶ फल्गु॑न्योर॒ग्निमाद॑धीत ।
उत्तर-फल्गुनीपक्षः
विश्वास-प्रस्तुतिः
यᳵ का॒मये॑त भ॒गी स्या॒म् इति॑ ..
स उत्त॑रयो॒ᳶ फल्गु॑न्योर् अ॒ग्निम् आद॑धीत ।
भग॑स्य॒ वा ए॒तन् नक्ष॑त्त्रय्ँ यद् उत्त॑रे॒ फल्गु॑नी ।
भ॒ग्य् ए॑व भ॑वति ।
मूलम्
यᳵ का॒मये॑त “भ॒गी स्या॒मि"ति॒ स उत्त॑रयो॒ᳶ फल्गु॑न्योर् अ॒ग्निम् आद॑धीत ।
भग॑स्य॒ वा ए॒तन् नक्ष॑त्त्रय्ँ॒ यद् उत्त॑रे॒ फल्गु॑नी ।
भ॒ग्य् ए॑व भ॑वति ।
भट्टभास्कर-टीका
5भगी ऐश्वर्यादिमान् -
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥
इति स्मृतेः ॥
चित्रापक्षः
विश्वास-प्रस्तुतिः
का॒ल॒क॒ञ्जा वै नामासु॑रा आसन् ।
ते सु॑व॒र्गाय॑ लो॒काया॒ग्निम् अ॑चिन्वत ।
मूलम्
का॒ल॒क॒ञ्जा वै नामासु॑रा आसन् ।
ते सु॑व॒र्गाय॑ लो॒काया॒ग्निम् अ॑चिन्वत ।
भट्टभास्कर-टीका
6कालकञ्जा इति संज्ञाः ।
विश्वास-प्रस्तुतिः
पुरु॑ष॒ इष्ट॑का॒म् उपा॑दधा॒त्, पुरु॑ष॒ इष्ट॑काम् +++(वीप्सार्थं द्विर्वचनम् ।)+++।
मूलम्
पुरु॑ष॒ इष्ट॑का॒म् उपा॑दधा॒त् ,पुरु॑ष॒ इष्ट॑काम् ।
भट्टभास्कर-टीका
पुरुष इति । ते एकैकः पुरुषः एकामेका इष्टकामुपादधात् । वीप्सार्थं द्विर्वचनम् ।
विश्वास-प्रस्तुतिः
स इन्द्रो॑ ब्राह्म॒णो ब्रुवा॑ण॒ इष्ट॑का॒म् उपा॑धत्त - ए॒षा मे॑ चि॒त्रा नामेति॑ ।
मूलम्
स इन्द्रो॑ ब्राह्म॒णो ब्रुवा॑ण॒ इष्ट॑का॒मुपा॑धत्त । ए॒षा मे॑ चि॒त्रा नामेति॑ ।
भट्टभास्कर-टीका
अथ तान् जेतुकाम इन्द्रो ब्राह्मणोऽहमिति ब्रुवाणः एकां इष्ठकामुपाधत्त । अकर्त्रभिप्रायक्रियाफलत्वादसुरेष्वात्मनेपदाभावः । एषा इष्टका मदीया चित्रा नामेति ब्रुवाण उपाधत्त ।
विश्वास-प्रस्तुतिः
ते सु॑व॒र्गल्ँ लो॒कमा प्रारो॑हन् ।
मूलम्
ते सु॑व॒र्गल्ँ लो॒कमा प्रारो॑हन् ।
भट्टभास्कर-टीका
अथ ते असुराः अग्निं चिन्वानाः स्वर्गं लोकं आरोढुं प्रारभन्त । प्रशब्दः प्रारम्भं द्योतयति ।
विश्वास-प्रस्तुतिः
स इन्द्र॒ इष्ट॑का॒म् आवृ॑हत्+++(=स्थानादाकृष्टवान्)+++ ।
मूलम्
स इन्द्र॒ इष्ट॑का॒म् आवृ॑हत् ।
भट्टभास्कर-टीका
तदानीमेव स इन्द्रः आत्मीयां इष्टकां आवृहत् स्थानादाकृष्टवान् । वृहू उद्यमने, तौदादिकः ।
विश्वास-प्रस्तुतिः
ते ऽवा॑कीर्यन्त ।
मूलम्
ते ऽवा॑कीर्यन्त ।
भट्टभास्कर-टीका
अथासुरा इष्टकाकर्षणेन नष्टाग्निका अवाकीर्यन्त अवपतिताः स्वर्गारोहणासामर्थ्यं गमिताः । यद्वा - स्वर्गारोहणपरिपन्थिना अग्निनाशनिमित्तेन पापेन संयुक्ताः अवकीर्णाः अभवन् ।
विश्वास-प्रस्तुतिः
ये॑ऽवाकी॑र्यन्त त “ऊर्णा॒व्+अभ॑यो”+++(=ऊर्णनाभयो)+++ ऽभवन् ।
मूलम्
ये॑ऽवाकी॑र्यन्त । त ऊर्णा॒वभ॑योऽभवन् ।
भट्टभास्कर-टीका
तत्र ये अवकीर्णाः ते ऊर्णावभयोऽभवन् । असमस्तमेव पदद्वयं कीटविशेषस्य ऊर्णनाभिनाम्न आख्या, यथा - ‘अपा नपात्’ इत्यग्निविशेषस्य । आत्मना निर्मितो यन्त्रविशेषः ऊर्णा, यस्मिन् छादनात्मके अयमभीतो व सति । तत्र बिभेतेरौणादिके विच्प्रत्यये नञ्समासे जसि गुणे अभयः, क्विपि वा छान्दसं ह्रस्वत्वम् ।
विश्वास-प्रस्तुतिः
द्वाव् उद॑पतताम् ॥10॥ तौ दि॒व्यौ श्वाना॑व् अभवताम् ।
यो भ्रातृ॑व्यवा॒न्त् स्यात् स चि॒त्राया॑म् अ॒ग्निमाद॑धीत ।
मूलम्
द्वाव् उद॑पतताम् ॥10॥
तौ दि॒व्यौ श्वाना॑व् अभवताम् ।
यो भ्रातृ॑व्यवा॒न्त्स्यात् । स चि॒त्राया॑म॒ग्निमाद॑धीत ।
भट्टभास्कर-टीका
द्वावित्यादि॥ गतम् । चित्रायां तथा कृतवानिति । यद्वा - यस्मादेव चित्रानामेष्टकोपधानात् इन्द्रोऽसुरान् अजयत् तस्मादन्योपि भ्रातृव्यवान् चित्रानाम्नि नक्षत्रे अग्निमादधीत ।
विश्वास-प्रस्तुतिः
अ॒व॒कीर्यै॒व भ्रातृ॑व्यान् ओजो॒ बल॑म् इन्द्रि॒यव्ँ वी॒र्य॑म् आ॒त्मन् ध॑त्ते ।
मूलम्
अ॒व॒कीर्यै॒व भ्रातृ॑व्यान् । ओजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑मा॒त्मन्ध॑त्ते ।
भट्टभास्कर-टीका
अवकीर्येत्यादि गतम् । तेषामप्योजआदिकमात्मनि स्थापयति ॥
वसन्तः
विश्वास-प्रस्तुतिः
व॒सन्ता॑ ब्राह्म॒णो॑ ऽग्निम् आद॑धीत ।
व॒स॒न्तो वै ब्रा॑ह्म॒णस्य॒र्तुः ।
मूलम्
व॒सन्ता॑ ब्राह्म॒णो॑ ऽग्निम् आद॑धीत ।
व॒स॒न्तो वै ब्रा॑ह्म॒णस्य॒र्तुः ।
मूलम्
स्व ए॒वैन॑मृ॒तावा॒धाय॑ । ब्र॒ह्म॒व॒र्च॒सी भ॑वति ।
विश्वास-प्रस्तुतिः
स्व ए॒वैन॑म् ऋ॒ताव् आ॒धाय॑ ब्रह्मवर्च॒सी भ॑वति ।
मूलम्
स्व ए॒वैन॑म् ऋ॒ताव् आ॒धाय॑ ब्रह्म-वर्च॒सी भ॑वति ।
भट्टभास्कर-टीका
7वसन्तेति ॥ ‘सुपां सुलुक्’ इति सप्तम्या आकारः । वसन्तो वा इति । प्राथम्यात् ।
विश्वास-प्रस्तुतिः
मुखव्ँ॒ वा ए॒तद् ऋ॑तू॒नाय्ँ यद् व॑स॒न्तः ।
मूलम्
मुखव्ँ॒वा ए॒तदृ॑तू॒नाम् ॥11॥
यद्व॑स॒न्तः ।
विश्वास-प्रस्तुतिः
यो व॒सन्ता॒ ऽग्निम् आ॑ध॒त्ते मुख्य॑ ए॒व भ॑वति ।
मूलम्
यो व॒सन्ता॒ऽग्निमा॑ध॒त्ते । मुख्य॑ ए॒व भ॑वति ।
भट्टभास्कर-टीका
मुखं वा इति । ‘मधुश्च माधवश्च’ इत्यारम्भात् ।
विश्वास-प्रस्तुतिः
अथो॒ योनि॑मन्तम् ए॒वैन॒म् प्रजा॑त॒म् आध॑त्ते ।
मूलम्
अथो॒ योनि॑मन्तम् ए॒वैन॒म् प्रजा॑त॒म् आध॑त्ते ।
भट्टभास्कर-टीका
अथो अपि च एनं अग्निं योनिमन्तं प्रजननसामर्थ्यवन्तं प्रजातं प्रादुर्भूतप्रजातिं च आधत्ते । आधातुस्तत्स्व त्वात्तत्स्वमग्नेः, वसतस्य च प्राधान्येन योनिस्थानीयत्वात् ॥
ग्रीष्मः
विश्वास-प्रस्तुतिः
ग्री॒ष्मे रा॑ज॒न्य॑ आद॑धीत ।
ग्री॒ष्मो वै रा॑ज॒न्य॑स्य॒र्तुः ।
मूलम्
ग्री॒ष्मे रा॑ज॒न्य॑ आद॑धीत ।
ग्री॒ष्मो वै रा॑ज॒न्य॑स्य॒र्तुः ।
विश्वास-प्रस्तुतिः
स्व ए॒वैन॑म् ऋ॒ताव् आ॒धाय॑ इन्द्रिया॒वी भ॑वति ।
मूलम्
स्व ए॒वैन॑मृ॒तावा॒धाय॑ । इ॒न्द्रि॒या॒वी भ॑वति ।
शरत्
विश्वास-प्रस्तुतिः
श॒रदि॒ वैश्य॒ आद॑धीत ।
श॒रद् वै वैश्य॑स्य॒र्तुः ॥12॥
मूलम्
श॒रदि॒ वैश्य॒ आद॑धीत ।
श॒रद् वै वैश्य॑स्य॒र्तुः ॥12॥
विश्वास-प्रस्तुतिः
स्व ए॒वैन॑म् ऋ॒ताव् आ॒धाय॑ प॒शु॒मान् भ॑वति ।
मूलम्
स्व ए॒वैन॑मृ॒तावा॒धाय॑ । प॒शु॒मान्भ॑वति ।
भट्टभास्कर-टीका
8ग्रीष्मे राजन्य इत्यादि ॥ गतम् ॥
उत्तर-फल्गुनीपक्षः
विश्वास-प्रस्तुतिः
न पूर्व॑यो॒ᳶ फल्गु॑न्योर् +++(पौर्णमास्याम्)+++ अ॒ग्निम् आद॑धीत ।
मूलम्
न पूर्व॑यो॒ᳶ फल्गु॑न्योर् अ॒ग्निम् आद॑धीत ।
भट्टभास्कर-टीका
9न पूर्वयोरिति ॥ उत्तरयोः फल्गुयोः विधानार्थेयं पूर्वयोर्निन्दा, अवचनादेव निवृत्तिसिद्धेः । तेन यदा पर्वूफल्गुनीयुक्ता पौर्णमासी तदा वसन्त एव न भवतीत्यनेन दर्शयति ।
विश्वास-प्रस्तुतिः
ए॒षा वै ज॑घ॒न्या॑ रात्रि॑स्सव्ँवत्स॒रस्य॑ यत् पूर्वे॒ फल्गु॑नी +++(पुरोत्तरायणात् प्राक् खल्ववर्तत)+++ ।
मूलम्
ए॒षा वै ज॑घ॒न्या॑ रात्रि॑स्सव्ँवत्स॒रस्य॑ । यत्पूर्वे॒ फल्गु॑नी ।
भट्टभास्कर-टीका
तदेवाह - जघन्येति । संवत्सरस्य इयमेका पापा रात्रिः, अन्त्यत्वादस्याः ।
विश्वास-प्रस्तुतिः
पृ॒ष्टि॒त+++(=पृष्ठतः)+++ ए॒व सव्ँ॑वत्स॒रस्या॒ग्निम् आ॒धाय॑ पापी॑यान् भवति ।
मूलम्
पृ॒ष्टि॒त ए॒व सव्ँ॑वत्स॒रस्या॒ग्निमा॒धाय॑ । पापी॑यान्भवति ।
भट्टभास्कर-टीका
पृष्टितः पृष्ठतः ॥
विश्वास-प्रस्तुतिः
उत्त॑रयो॒र् आद॑धीत ।
मूलम्
उत्त॑रयो॒र् आद॑धीत ।
भट्टभास्कर-टीका
10उत्तरयोरित्यादि ॥ गतम् । उत्तरयोरिति फल्गुन्योरित्येव ।
विश्वास-प्रस्तुतिः
ए॒षा वै प्र॑थ॒मा रात्रि॑स् सव्ँवत्स॒रस्य॒ यद् उत्त॑रे॒ फल्गु॑नी ।
मूलम्
ए॒षा वै प्र॑थ॒मा रात्रि॑स्सव्ँवत्स॒रस्य॑ । यदुत्त॑रे॒ फल्गु॑नी ।
भट्टभास्कर-टीका
प्रथमा प्रधाना अपापा ।
विश्वास-प्रस्तुतिः
मु॒ख॒त ए॒व सव्ँ॑वत्स॒रस्या॒ग्निम् आ॒धाय॑ वसी॑यान् भवति ।
मूलम्
मु॒ख॒त ए॒व सव्ँ॑वत्स॒रस्या॒ग्निमा॒धाय॑ । वसी॑यान्भवति ।
भट्टभास्कर-टीका
मुखत एवेति । संवत्सरस्याभिमुखत एव स्थित्वा न पृष्ठतः स्थित्वा अग्निमाधाय वसुमत्तरो भवति । ‘विन्मतोर्लुक्’ ‘टेः’ इति टिलोपः ॥
यियक्षा
विश्वास-प्रस्तुतिः
अथो॒ खलु॑, य॒दैवैनय्ँ॑ य॒ज्ञ उ॑प॒नमे॑त् अथाद॑धीत । +++(‘नर्तून्सूर्क्षेत् न नक्षत्रम्’ इति ।)+++
सैवास्यर्द्धिः॑ ॥13॥+++(5)+++
मूलम्
अथो॒ खलु॑ । य॒दैवैनय्ँ॑ य॒ज्ञ उ॑प॒नमे॑त् । अथाद॑धीत ।
भट्टभास्कर-टीका
11अथो खल्विति ॥ पक्षान्तरमस्तीत्यर्थः ।
यदैव एनं यज्ञः सोमः उपनयेत् सोमेन यष्टव्यं मयेति अथ अनन्तरमेव आदधीत, ‘नर्तून्सूर्क्षेत् न नक्षत्रम्’ हति ।
विश्वास-प्रस्तुतिः
सैवास्यर्द्धिः॑ ॥13॥
मूलम्
सैवास्यर्द्धिः॑ ॥13॥
भट्टभास्कर-टीका
सैवास्य ऋद्धिः सैव यज्ञोपनतिरस्य, सर्वा ऋतुनक्षत्रादिसमृद्धिः, न तद्व्यतिरेकेण तत्सम्पत्तिः पर्येष्या । यद्वा - सैवास्य सर्वर्द्धिहेतुः । तद्धेतुत्वात्ताच्छब्धम् ॥
प्रथमाष्टके प्रथमप्रश्ने द्वितीयोऽनुवाकः ॥