विस्तारः (द्रष्टुं नोद्यम्)
सोमयाग-शेषभूताः शुक्रा-मन्थि-ग्रह-प्रचारार्था मन्त्राः
भट्टभास्कर-टीका
अथ प्रथमाष्टकम् - अग्न्याधेयब्राह्मणम्
भट्टभास्करविरचिते ब्राह्मणभाष्ये प्रथमाष्टके प्रथमः प्रपाठकः
भट्टभास्करभाष्यभूमिका
वन्दे वेदामरतरुं नानाशाखोपशोभितम् ।
स्वर्गापवर्गफलदं विबुधैरुपसेवितम् ॥ १ ॥
वन्दे निश्श्रेयसोपायधर्मब्रह्मात्मबोधिने ।
वेदाय सर्वगुरवे शिवाय च नमोनमः ॥ २ ॥
ईशानस्सर्वविद्यानां भूतानामीश्वरः परः ।
पुनातु सर्वदा युष्मान् शब्दब्रह्मतनुश्शिवः ॥ ३ ॥
भास्करोक्त-विनियोगः
अथ पारक्षुद्राननुक्रमिष्यामः ।
अनारभ्याधीतानां प्रकृत्यर्थत्वात् तत्-तल्-लिङ्ग-वचनाभ्यां नीयमानानि विकृत्य्-अर्थानि ।
तत्राद्योऽनुवाकश्शुक्रामन्थिग्रहप्रचारे विनियुक्तः ॥
1तत्र जघनेनोत्तरवेदिं ग्रहावरत्नी वा सन्धत्तो ऽध्वर्युः प्रतिप्रस्थाता च -
ब्रह्म संधत्तमिति यजूंषि ॥
मूलम्
ब्रह्म॒ सन्ध॑त्त॒न्तन्मे॑ जिन्वतम् ।
विश्वास-प्रस्तुतिः
ब्रह्म॒ सन्ध॑त्तम् +++(मया सह)+++। तन् +++(ब्रह्म)+++ मे॑ जिन्वतम्+++(=प्रीणयतम्)+++ ।
मूलम्
ब्रह्म॒ सन्ध॑त्त॒न्तन्मे॑ जिन्वतम् ।
भट्टभास्कर-टीका
ग्रहकाण्डत्वात् सोमार्षेयम् । ब्रह्म ब्राह्मणजातिं ब्रह्मवर्चसं वा मदीयं संधत्तं संहितं अविच्छिन्नं कुरुत मया सह ।
किञ्च - तत् ब्रह्म मे जिन्वतं प्रीणयतम् । जिवि प्रीणने, इदित्त्वान्नुम् । एवं क्षत्रादिषु द्रष्टव्यम् ।
मूलम्
क्ष॒त्त्रँ सन्ध॑त्त॒न्तन्मे॑ जिन्वतम् ।
विश्वास-प्रस्तुतिः
क्ष॒त्त्रँ सन्ध॑त्तम् +++(मया सह)+++। तन् मे॑ जिन्वतम् ।
मूलम्
क्ष॒त्त्रँ सन्ध॑त्तम् ।
तन् मे॑ जिन्वतम् ।
भट्टभास्कर-टीका
क्षत्रं क्षत्रियजातिं बलं वा ।
मूलम्
इषँ॒ सन्ध॑त्त॒न्ताम्मे॑ जिन्वतम् ।
विश्वास-प्रस्तुतिः
इषँ॒+++(=अन्नम्)+++ सन्ध॑त्तम् +++(मया सह)+++। ताम् मे॑ जिन्वतम् ।
मूलम्
इषँ॒ सन्ध॑त्तम् ।
ताम् मे॑ जिन्वतम् ।
भट्टभास्कर-टीका
इट् अन्नम् ।
मूलम्
ऊर्जँ॒ सन्ध॑त्त॒न्ताम्मे॑ जिन्वतम् ।
विश्वास-प्रस्तुतिः
ऊर्जँ॒+++(=रसं)+++ सन्ध॑त्तम् +++(मया सह)+++। ताम् मे॑ जिन्वतम् ।
मूलम्
ऊर्जँ॒ सन्ध॑त्तम् ।
ताम् मे॑ जिन्वतम् ।
भट्टभास्कर-टीका
ऊर्क् रसः, तां उर्जं दुग्धादिम् ।
मूलम्
र॒यिँ सन्ध॑त्त॒न्ताम्मे॑ जिन्वतम् ।
विश्वास-प्रस्तुतिः
र॒यिँ सन्ध॑त्तम् +++(मया सह)+++। ताम् मे॑ जिन्वतम् ।
मूलम्
र॒यिँ सन्ध॑त्तम् ।
ताम् मे॑ जिन्वतम् ।
भट्टभास्कर-टीका
रयिं धनं हिरण्यादि ।
मूलम्
पुष्टिँ॒ सन्ध॑त्त॒न्ताम्मे॑ जिन्वतम् ।
विश्वास-प्रस्तुतिः
पुष्टिँ॒ सन्ध॑त्तम् +++(मया सह)+++। ताम् मे॑ जिन्वतम् ।
मूलम्
पुष्टिँ॒ सन्ध॑त्तम् ।
ताम् मे॑ जिन्वतम् ।
भट्टभास्कर-टीका
पुष्टिः वृद्धिः अविशेषात्सर्वस्य ।
मूलम्
प्र॒जाँ सन्ध॑त्त॒न्ताम्मे॑ जिन्वतम् ।
विश्वास-प्रस्तुतिः
प्र॒जाँ सन्ध॑त्तम् +++(मया सह)+++। ताम् मे॑ जिन्वतम् ।
मूलम्
प्र॒जाँ सन्ध॑त्तम् ।
ताम् मे॑ जिन्वतम् ।
भट्टभास्कर-टीका
प्रजापुत्रपौत्रादिः ।
मूलम्
प॒शून्त्सन्ध॑त्त॒न्तान्मे॑ जिन्वतम् ।
विश्वास-प्रस्तुतिः
प॒शून्त् सन्ध॑त्तम् +++(मया सह)+++। तान्मे॑ जिन्वतम् ।
मूलम्
प॒शून्त् सन्ध॑त्तम् ।
तान् मे॑ जिन्वतम् ।
भट्टभास्कर-टीका
पशवो गवाश्वादयः ॥
भास्करोक्त-विनियोगः
2अथ ग्रहावध्वर्यू आददाते अध्वर्युः प्रतिप्रस्थाता चस्तुतोसीति ॥
विश्वास-प्रस्तुतिः
स्तु॒तो॑ ऽसि॒ जन॑धाः ।
दे॒वास् त्वा॑ शुक्र॒+++(पात्रस्थ-सोम)+++पाᳶ प्रण॑यन्तु ॥ 1 ॥
मूलम्
स्तु॒तो॑ ऽसि॒ जन॑धाः ।
दे॒वास् त्वा॑ शुक्र॒पाᳶ प्रण॑यन्तु ॥ 1 ॥
भट्टभास्कर-टीका
स्तुतोसि अस्माभिः, सर्वैर्वा । जनधाः! जनानां धारयितः! । समानवाक्ये पदात्परत्वाभावात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ।
शुक्रपाः शुक्रपात्रस्यं सोमं ये पिबन्ति ते देवाः त्वा प्रणयन्तु प्रस्थापयन्तु ॥
मूलम्
सु॒वीरा॑ᳶ प्र॒जाᳶ प्र॑ज॒नय॒न्परी॑हि । शु॒क्रश्शु॒क्रशो॑चिषा ।
भास्करोक्त-विनियोगः
3दक्षिणेनोत्तरवेदिमध्वर्युः प्रतिपद्यते - सुवीरा इति ॥
विश्वास-प्रस्तुतिः
+++(हे ग्रह!)+++ सु॒वीरा॑ᳶ प्र॒जाᳶ प्र॑ज॒नय॒न् परी॑हि शु॒क्रश् शु॒क्र-शो॑चिषा ।
मूलम्
सु॒वीरा॑ᳶ प्र॒जाᳶ प्र॑ज॒नय॒न् परी॑हि शु॒क्रश् शु॒क्रशो॑चिषा ।
भट्टभास्कर-टीका
वीराः पुत्रादयः विक्रान्ता वा । शोभनवीराः सर्वाः प्रजाः सर्वेषामस्माकमेव वा लिप्सूनां प्रजनयन् उत्पादयत् परीहि सर्वतो गच्छ । हेतौ शतृप्रत्ययः, प्रजननार्थमित्यर्थः । ‘वीरवीर्यौ च’ इत्युत्तरपदाद्युदात्तत्वम् । शुक्रश्शुक्रशोचिषा निर्मलतेजसा, इत्थंभूतः । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - शुक्रशोचिषा शरीरेण इत्थंभूतः परीहीति ॥
भास्करोक्त-विनियोगः
4अथ प्रतिप्रस्थाता +++(ऽऽददाति मन्थिगृहम्)+++ - स्तुतोसीति ॥
विश्वास-प्रस्तुतिः
स्तु॒तो॑ ऽसि॒ जन॑धाः ।
दे॒वास् त्वा॑ मन्थि॒+++(पात्रस्थ-सोम)+++पाᳶ प्रण॑यन्तु ।
मूलम्
स्तु॒तो॑ ऽसि॒ जन॑धाः ।
दे॒वास् त्वा॑ मन्थि॒पाᳶ प्रण॑यन्तु ।
भट्टभास्कर-टीका
व्याख्यातम् । (स्तुतोसि अस्माभिः, सर्वैर्वा । जनधाः! जनानां धारयितः! । समानवाक्ये पदात्परत्वाभावात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ।)
मन्थिपाः मन्थिपात्रस्थं सोमं ये पिबन्ति ते मन्थिपाः ॥
भास्करोक्त-विनियोगः
5अथोत्तरेणोत्तरवेदिं प्रतिप्रस्थाता प्रतिपद्यते - सुप्रजा इति ॥
विश्वास-प्रस्तुतिः
सु॒प्र॒जाᳶ प्र॒जाᳶ प्र॑ज॒नय॒न् परी॑हि म॒न्थी म॒न्थि-शो॑चिषा ।
मूलम्
सु॒प्र॒जाᳶ प्र॒जाᳶ प्र॑ज॒नय॒न्परी॑हि । म॒न्थी म॒न्थिशो॑चिषा ।
भट्टभास्कर-टीका
शोभनापत्यास्सर्वाः प्रजाः अस्मदीया वा प्रजनयन् परीहि । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम्, व्यत्ययेन समासान्ताभावः । मन्थी मन्थ्याख्यस्त्वं मन्थिशोचिषा अरीणां मन्थनहेतुना तेजसा इत्थंभूतः । बहुव्रीहिर्वा पूर्ववत् ॥
मूलम्
स॒ञ्ज॒ग्मा॒नौ दि॒व आपृ॑थि॒व्यायुः॑ । सन्ध॑त्त॒न्तन्मे॑ जिन्वतम् ।
भास्करोक्त-विनियोगः
6अथाग्रेणोत्तरवेदिं ग्रहावरत्नी वा सन्धत्तोऽध्वर्युः प्रतिप्रस्थाता च - सञ्जग्मानाविति ॥
विश्वास-प्रस्तुतिः
स॒ञ्ज॒ग्मा॒नौ दि॒व आपृ॑थि॒व्या ऽऽयु॑स् सन्ध॑त्तम् ।
+++(आयुस्)+++ तन् मे॑ जिन्वतम्+++(=प्रीणयतम्)+++ ।
मूलम्
स॒ञ्ज॒ग्मा॒नौ दि॒व आपृ॑थि॒व्यायु॑स् सन्ध॑त्तम् ।
तन् मे॑ जिन्वतम् ।
भट्टभास्कर-टीका
सञ्जग्मानौ परस्परं आयुः संहितं स्थापयतम् । अनेन दिवः दिवा । व्यत्ययेन तृतीयार्थे षष्ठी । आपृथिव्या च । आकारस्समुच्चये, दिविष्ठैर्भूमिष्ठैश्चेत्यर्थः । यद्वा - दिव आ, अभिव्याप्तावाकारः, द्युलोकं गृहीत्वा दिवं पृथिवी पृथिवीं चाभिव्याप्य । द्वितीयाकारः प्रश्लिष्यते । आ दिवः आ च पृथिव्याः अनयोः त्रिषु लोकेषु युक्तै सायुस्संधत्तमिति । यद्वा - आपृथिव्याः सञ्जम्मानौ परस्परत एव युवां ममायुस्संधत्तम् । संपूर्वाद्गमेः छान्दसस्य लिटः कानजादेशः, ‘समोगमृच्छि’ इत्यात्मनपेदम् ।
तच्चायुर्मम जिन्वतं प्रीणयतम् । प्रीत्या वृद्धिर्लक्ष्यते । गतमन्यत् ।
मूलम्
प्रा॒णँ सन्ध॑त्त॒न्तम्मे॑ जिन्वतम् ।
विश्वास-प्रस्तुतिः
प्रा॒णँ सन्ध॑त्तम् ।
तन् मे॑ जिन्वतम् ।
मूलम्
प्रा॒णँ सन्ध॑त्तम् ।
तन् मे॑ जिन्वतम् ।
भट्टभास्कर-टीका
प्राण ऊर्ध्ववृत्तिः ।
मूलम्
अ॒पा॒नँ सन्ध॑त्त॒न्तम्मे॑ जिन्वतम् ॥ 2 ॥
विश्वास-प्रस्तुतिः
अ॒पा॒नँ सन्ध॑त्तम् ।
तन् मे॑ जिन्वतम् ॥ 2 ॥
मूलम्
अ॒पा॒नँ सन्ध॑त्तम् ।
तन् मे॑ जिन्वतम् ॥ 2 ॥
भट्टभास्कर-टीका
अपानोऽधोवृत्तिः ।
मूलम्
व्या॒नँ सन्ध॑त्त॒न्तम्मे॑ जिन्वतम् ।
विश्वास-प्रस्तुतिः
व्या॒नँ सन्ध॑त्तम् ।
तम् मे॑ जिन्वतम् ।
मूलम्
व्या॒नँ सन्ध॑त्तम् ।
तम् मे॑ जिन्वतम् ।
भट्टभास्कर-टीका
व्यानो विषूचीनवृत्तिः । अन्यवृत्तीनामेतत्त्रयमुपलक्षणम्, ।
मूलम्
चक्षु॒स्सन्ध॑त्त॒न्तन्मे॑ जिन्वतम् । श्रोत्रँ॒ सन्ध॑त्त॒न्तन्मे॑ जिन्वतम् । मन॒स्सन्ध॑त्त॒न्तन्मे॑ जिन्वतम् । वाचँ॒ सन्ध॑त्त॒न्ताम्मे॑ जिन्वतम् ।
विश्वास-प्रस्तुतिः
चक्षु॒स् सन्ध॑त्तम् ।
तन् मे॑ जिन्वतम् ।
श्रोत्रँ॒ सन्ध॑त्तम् ।
तन् मे॑ जिन्वतम् ।
मन॒स्सन्ध॑त्तम् ।
तन् मे॑ जिन्वतम् ।
वाचँ॒ सन्ध॑त्तम् ।
ताम् मे॑ जिन्वतम् ।
मूलम्
चक्षु॒स् सन्ध॑त्तम् ।
तन् मे॑ जिन्वतम् ।
श्रोत्रँ॒ सन्ध॑त्तम् ।
तन् मे॑ जिन्वतम् ।
मन॒स्सन्ध॑त्तम् ।
तन् मे॑ जिन्वतम् ।
वाचँ॒ सन्ध॑त्तम् ।
ताम् मे॑ जिन्वतम् ।
भट्टभास्कर-टीका
चक्षुश्श्रोत्रे ज्ञानेन्द्रियाणाम्, वाक्तु कर्मेन्द्रियाणाम् ।
मूलम्
आयु॑स्स्थ॒ आयु॑र्मे धत्तम् ।
विश्वास-प्रस्तुतिः
आयु॑स् स्थः ।
आयु॑र् मे धत्तम् ।
आयु॑र् य॒ज्ञाय॑ धत्तम् ।
आयु॑र् य॒ज्ञ-प॑तये धत्तम् ।
मूलम्
आयु॑स् स्थः ।
आयु॑र् मे धत्तम् ।
आयु॑र् य॒ज्ञाय॑ धत्तम् ।
आयु॑र् य॒ज्ञ-प॑तये धत्तम् ।
भट्टभास्कर-टीका
आयुस्स्थः आयुषो जीवनस्य अन्नस्य वा हेतू स्थः ।
तौ युवां मम आयुर्धत्तं धारयतम् । मयि वा स्थापयतम् ।मह्यं वा दत्तम् ।
यज्ञाय च आयुर्धत्तम्, अविच्छेदेन समाप्तिर्यज्ञस्यायुः ।
यज्ञपतये यजमानाय च आयुर्धत्तं अविघ्नयागसमाप्त्या आयुष्मन्तमेनं कुरुतम् ।
मूलम्
प्रा॒णस्स्थ॑ᳶ प्रा॒णम्मे॑ धत्तम् ।
विश्वास-प्रस्तुतिः
प्रा॒णस् स्थः॑ ।
प्रा॒णम् मे॑ धत्तम् ।
प्रा॒णय्ँ य॒ज्ञाय॑ धत्तम् ॥ 3 ॥
प्रा॒णय्ँ य॒ज्ञ-प॑तये धत्तम् ।
मूलम्
प्रा॒णस् स्थः॑ ।
प्रा॒णम् मे॑ धत्तम् ।
प्रा॒णय्ँ य॒ज्ञाय॑ धत्तम् ॥ 3 ॥
प्रा॒णय्ँ य॒ज्ञ-प॑तये धत्तम् ।
मूलम्
चक्षु॑स्स्थ॒श्चक्षु॑र्मे धत्तम् ।
विश्वास-प्रस्तुतिः
चक्षु॑स् स्थः ।
चक्षु॑र् मे धत्तम् ।
चक्षु॑र् य॒ज्ञाय॑ धत्तम् ।
चक्षु॑र् य॒ज्ञ-प॑तये धत्तम् ।
मूलम्
चक्षु॑स् स्थः ।
चक्षु॑र् मे धत्तम् ।
चक्षु॑र् य॒ज्ञाय॑ धत्तम् ।
चक्षु॑र् य॒ज्ञ-प॑तये धत्तम् ।
मूलम्
श्रोत्रँ॑ स्थ॒श्श्रोत्र॑म्मे धत्तम् ।
विश्वास-प्रस्तुतिः
श्रोत्रँ॑ स्थः।
श्रोत्र॑म् मे धत्तम् ।
श्रोत्रय्ँ॑ य॒ज्ञाय॑ धत्तम् ।
श्रोत्रय्ँ॑ य॒ज्ञ-प॑तये धत्तम् ।
मूलम्
श्रोत्रँ॑ स्थः।
श्रोत्र॑म् मे धत्तम् ।
श्रोत्रय्ँ॑ य॒ज्ञाय॑ धत्तम् ।
श्रोत्रय्ँ॑ य॒ज्ञ-प॑तये धत्तम् ।
भट्टभास्कर-टीका
एवं प्राणादिष्वपि व्याख्येयम् ॥
मूलम्
तौ दे॑वौ शुक्रामन्थिनौ । क॒ल्पय॑त॒न्दैवी॒र्विशः॑ । क॒ल्पय॑त॒म् मानु॑षीः ॥ 4 ॥
विश्वास-प्रस्तुतिः
तौ दे॑वौ शुक्रा-मन्थिनौ क॒ल्पय॑त॒न् दैवी॒र् विशः॑ ।
क॒ल्पय॑त॒म् मानु॑षीः ॥ 4 ॥
मूलम्
तौ दे॑वौ शुक्रा-मन्थिनौ क॒ल्पय॑त॒न् दैवी॒र् विशः॑ ।
क॒ल्पय॑त॒म् मानु॑षीः ॥ 4 ॥
भट्टभास्कर-टीका
7तौ हे देवौ! शुक्रामन्थिनौ! शुक्रामन्थिपात्रयोः स्थित्वा सोमं पिबन्तौ तौ युवां दैवीः देवानां सम्बन्धिनीः विशः प्रजाः कल्पयतं देवकार्यसमर्थाः कुरुतम् । ‘देवाद्यङङौ’ इत्यङ् ।
मानुषीः मनुष्यसम्बन्धिनीश्च विशः कल्पयतम् । ‘मनोर्जातौ’ इत्यङ्, षुगागमश्च ।
विश्वास-प्रस्तुतिः
इष॒म् ऊर्ज॑म् अ॒स्मासु॑ धत्तम् ।
प्रा॒णान् प॒शुषु॑ +++(धत्तम्)+++।
प्र॒जाम् मयि॑ च॒ यज॑माने च +++(धत्तम् )+++।
मूलम्
इष॒म् ऊर्ज॑म् अ॒स्मासु॑ धत्तम् ।
प्रा॒णान् प॒शुषु॑ +++(धत्तम्)+++।
प्र॒जाम् मयि॑ च॒ यज॑माने च +++(धत्तम् )+++।
भट्टभास्कर-टीका
इषमूर्जं च अस्मासु धत्तं स्थापयतम् ।
तदर्थं पशुषु गवादिषु प्राणान् धत्तम् ।
प्रजां पुत्रादिकां प्रनननसामर्थ्यं वा मयि च यजमाने च धत्तम् ॥
भास्करोक्त-विनियोगः
8अप्रोक्षितौ शकलौ बहिर्वेदि निरस्यतः - निरस्त इति ॥
निरस्तः शण्डः इत्यध्वर्युः, निरस्तो मर्क इति प्रतिप्रस्थाता ।
विश्वास-प्रस्तुतिः
निर॑स्त॒श् शण्डः॑ ।
निर॑स्तो॒ मर्कः॑ ।
अप॑नुत्तौ॒ शण्डा॒-मर्कौ॑ स॒हामुना॑ ।
मूलम्
निर॑स्त॒श् शण्डः॑ ।
निर॑स्तो॒ मर्कः॑ ।
अप॑नुत्तौ॒ शण्डा॒-मर्कौ॑ स॒हामुना॑ ।
भट्टभास्कर-टीका
निरस्तो वहिः क्षिप्तः । शण्डामर्कौ चासुरपुरोहितौ यावपनुद्य इन्द्रायैव ग्रहौ हूयेते। ताभ्यां गृहीतावपि ।
किञ्च - एतौ शण्डामर्कौ अमुना अस्मद्द्वेष्येण पाप्मादिना सहापनुत्तौ अपास्तौ । ‘नुदविद’ इति नत्वाभावः ॥
भास्करोक्त-विनियोगः
9अथ प्रोक्षितावादत्तः
विश्वास-प्रस्तुतिः
शु॒क्रस्य॑ स॒मिद् अ॑सि +++(तां त्वामादधामि)+++ ।
मूलम्
शु॒क्रस्य॑ स॒मिद् अ॑सि +++(तां त्वामादधामि)+++ ।
भट्टभास्कर-टीका
शुक्रस्य समिदसि समिन्धन्यसीत्यध्वर्युः ।
विश्वास-प्रस्तुतिः
म॒न्थिन॑स् स॒मिद् अ॑सि । +++(तां त्वामादधामि)+++ ।
मूलम्
म॒न्थिन॑स् स॒मिद् अ॑सि । +++(तां त्वामादधामि)+++ ।
भट्टभास्कर-टीका
मन्थिनस्समिदसीति प्रतिप्रस्थाता । तां त्वामादधामीत्युभयत्र शेषः ॥
भास्करोक्त-विनियोगः
10पुरस्तात्प्रत्यञ्चावध्वर्यू जुहुतः - स प्रथम इति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः
स प्र॑थ॒मस् सङ्कृ॑तिर्+++(=सम्यक्कर्ता)+++ वि॒श्वक॑र्मा ।
स प्र॑थ॒मो मि॒त्रो वरु॑णो अ॒ग्निः ।
स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वान् ।
तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होमि ॥ 5 ॥
मूलम्
स प्र॑थ॒मस्सङ्कृ॑तिर्वि॒श्वक॑र्मा ।
स प्र॑थ॒मो मि॒त्रो वरु॑णो अ॒ग्निः ।
स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वान् ।
तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होमि ॥ 5 ॥
भट्टभास्कर-टीका
स इन्द्रः ‘तस्मादिन्द्रो देवतानां भूयिष्ठभाक्तमः’ * इति वक्ष्यमाणत्वात् प्रथमः प्रधानभूतो देवानां सङ्कृतिः सम्यक्कर्ता, सर्वस्य सङ्गतकृतिर्वा । विश्वकर्मा विश्वं करणीयं यस्य । स एव प्रथमः मित्रादिः स एव प्रथमो बृहस्पतिः । वनस्पत्यादित्वादाद्युदात्तत्वम् । चिकित्त्वान् चेकिता सर्वार्थज्ञानकुशलः । ‘कित ज्ञाने’ इत्यस्य लिटः क्वसुरादेशः । यस्मादेवमिन्द्रः सर्वदेवतात्मा, यस्माच्च तेन सर्वश्रेयोऽवाप्तिः तस्मा इन्द्राय सोमं सुतं आजुहोमि । आङ्मर्यादायाम् ॥
इति प्रथमाष्टके प्रथमोऽनुवाकः ।