-उट्टङ्कितपाठः पराङ्कुशाचार्यजालक्षेत्राल् लब्धः। अध्ययनसम्पादनसौकर्याभ्याम् अत्र रक्षितः।
ब्रह्म॒ सन्ध॑त्त॒न्तन्मे॑ जिन्वतम् ।
क्ष॒त्त्रँ सन्ध॑त्त॒न्तन्मे॑ जिन्वतम् ।
इषँ॒ सन्ध॑त्त॒न्ताम्मे॑ जिन्वतम् ।
ऊर्जँ॒ सन्ध॑त्त॒न्ताम्मे॑ जिन्वतम् ।
र॒यिँ सन्ध॑त्त॒न्ताम्मे॑ जिन्वतम् ।
पुष्टिँ॒ सन्ध॑त्त॒न्ताम्मे॑ जिन्वतम् ।
प्र॒जाँ सन्ध॑त्त॒न्ताम्मे॑ जिन्वतम् ।
प॒शून्त्सन्ध॑त्त॒न्तान्मे॑ जिन्वतम् ।
स्तु॒तो॑ऽसि॒ जन॑धाः ।
दे॒वास्त्वा॑ शुक्र॒पाᳶ प्रण॑यन्तु ॥ 1 ॥
सु॒वीरा॑ᳶ प्र॒जाᳶ प्र॑ज॒नय॒न्परी॑हि ।
शु॒क्रश्शु॒क्रशो॑चिषा ।
स्तु॒तो॑ऽसि॒ जन॑धाः ।
दे॒वास्त्वा॑ मन्थि॒पाᳶ प्रण॑यन्तु ।
सु॒प्र॒जाᳶ प्र॒जाᳶ प्र॑ज॒नय॒न्परी॑हि ।
म॒न्थी म॒न्थिशो॑चिषा ।
स॒ञ्ज॒ग्मा॒नौ दि॒व आपृ॑थि॒व्यायुः॑ ।
सन्ध॑त्त॒न्तन्मे॑ जिन्वतम् ।
प्रा॒णँ सन्ध॑त्त॒न्तम्मे॑ जिन्वतम् ।
अ॒पा॒नँ सन्ध॑त्त॒न्तम्मे॑ जिन्वतम् ॥ 2 ॥
व्या॒नँ सन्ध॑त्त॒न्तम्मे॑ जिन्वतम् ।
चक्षु॒स्सन्ध॑त्त॒न्तन्मे॑ जिन्वतम् ।
श्रोत्रँ॒ सन्ध॑त्त॒न्तन्मे॑ जिन्वतम् ।
मन॒स्सन्ध॑त्त॒न्तन्मे॑ जिन्वतम् ।
वाचँ॒ सन्ध॑त्त॒न्ताम्मे॑ जिन्वतम् ।
आयु॑स्स्थ॒ आयु॑र्मे धत्तम् ।
आयु॑र्य॒ज्ञाय॑ धत्तम् ।
आयु॑र्य॒ज्ञप॑तये धत्तम् ।
प्रा॒णस्स्थ॑ᳶ प्रा॒णम्मे॑ धत्तम् ।
प्रा॒णय्ँ य॒ज्ञाय॑ धत्तम् ॥ 3 ॥
प्रा॒णय्ँ य॒ज्ञप॑तये धत्तम् ।
चक्षु॑स्स्थ॒श्चक्षु॑र्मे धत्तम् ।
चक्षु॑र्य॒ज्ञाय॑ धत्तम् ।
चक्षु॑र्य॒ज्ञप॑तये धत्तम् ।
श्रोत्रँ॑ स्थ॒श्श्रोत्र॑म्मे धत्तम् ।
श्रोत्रय्ँ॑ य॒ज्ञाय॑ धत्तम् ।
श्रोत्रय्ँ॑ य॒ज्ञप॑तये धत्तम् ।
तौ दे॑वौ शुक्रामन्थिनौ ।
क॒ल्पय॑त॒न्दैवी॒र्विशः॑ ।
क॒ल्पय॑त॒म्मानु॑षीः ॥ 4 ॥
इष॒मूर्ज॑म॒स्मासु॑ धत्तम् ।
प्रा॒णान्प॒शुषु॑ ।
प्र॒जाम्मयि॑ च॒ यज॑माने च ।
निर॑स्त॒श्शण्डः॑ ।
निर॑स्तो॒ मर्कः॑ ।
अप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुना॑ ।
शु॒क्रस्य॑ स॒मिद॑सि ।
म॒न्थिन॑स्स॒मिद॑सि ।
स प्र॑थ॒मस्सङ्कृ॑तिर्वि॒श्वक॑र्मा ।
स प्र॑थ॒मो मि॒त्रो वरु॑णो अ॒ग्निः ।
स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वान् ।
तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होमि ॥ 5 ॥
कृत्ति॑कास्व॒ग्निमाद॑धीत ।
ए॒तद्वा अ॒ग्नेर्नक्ष॑त्त्रम् ।
यत्कृत्ति॑काः ।
स्वाया॑मै॒वैन॑न्दे॒वता॑यामा॒धाय॑ ।
ब्र॒ह्म॒व॒र्च॒सी भ॑वति ।
मुखव्ँ॒वा ए॒तन्नक्ष॑त्त्राणाम् ।
यत्कृत्ति॑काः ।
यᳵ कृत्ति॑कास्व॒ग्निमा॑ध॒त्ते ।
मुख्य॑ ए॒व भ॑वति ।
अथो॒ खलु॑ ॥ 6 ॥
अ॒ग्नि॒न॒क्ष॒त्त्रमित्यप॑चायन्ति ।
गृ॒हान् ह॒ दाहु॑को भवति ।
प्र॒जाप॑ती रोहि॒ण्याम॒ग्निम॑सृजत ।
तन्दे॒वा रो॑हि॒ण्यामाद॑धत ।
ततो॒ वै ते सर्वा॒न्रोहा॑नरोहन् ।
तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम् ।
यो रो॑हि॒ण्याम॒ग्निमा॑ध॒त्ते ।
ऋ॒ध्नोत्ये॒व ।
सर्वा॒न्रोहा॑न्रोहति ।
दे॒वा वै भ॒द्रास्सन्तो॒ऽग्निमाधि॑त्सन्त ॥7 ॥
तेषा॒मना॑हितो॒ऽग्निरासी॑त् ।
अथै॑भ्यो वा॒मव्ँवस्वपा॑क्रामत् ।
ते पुन॑र्वस्वो॒राद॑धत ।
ततो॒ वै तान् वा॒मव्ँवसू॒पाव॑र्तत ।
यᳶ पु॒राऽभ॒द्रस्सन्पापी॑या॒न्त्स्यात् ।
स पुन॑र्वस्वोर॒ग्निमाद॑धीत ।
पुन॑रे॒वैनव्ँ॑वा॒मव्ँवसू॒पाव॑र्तते ।
भ॒द्रो भ॑वति ।
यᳵ का॒मये॑त॒ दानका॑मा मे प्र॒जास्स्यु॒रिति॑ ।
स पूर्व॑यो॒ᳶ फल्गु॑न्योर॒ग्निमाद॑धीत ॥ 8 ॥
अ॒र्य॒म्णो वा ए॒तन्नक्ष॑त्त्रम् ।
यत्पूर्वे॒ फल्गु॑नी ।
अ॒र्य॒मेति॒ तमा॑हु॒र्यो ददा॑ति ।
दान॑कामा अस्मै प्र॒जा भ॑वन्ति ।
यᳵ का॒मये॑त भ॒गी स्या॒मिति॑ ।
स उत्त॑रयो॒ᳶ फल्गु॑न्योर॒ग्निमाद॑धीत ।
भग॑स्य॒ वा ए॒तन्नक्ष॑त्त्रम् ।
यदुत्त॑रे॒ फल्गु॑नी ।
भ॒ग्ये॑व भ॑वति ।
का॒ल॒क॒ञ्जा वै नामासु॑रा आसन्न् ॥9॥
ते सु॑व॒र्गाय॑ लो॒काया॒ग्निम॑चिन्वत ।
पुरु॑ष॒ इष्ट॑का॒मुपा॑दधा॒त्पुरु॑ष॒ इष्ट॑काम् ।
स इन्द्रो॑ ब्राह्म॒णो ब्रुवा॑ण॒ इष्ट॑का॒मुपा॑धत्त ।
ए॒षा मे॑ चि॒त्रा नामेति॑ ।
ते सु॑व॒र्गल्ँ लो॒कमा प्रारो॑हन् ।
स इन्द्र॒ इष्ट॑का॒मावृ॑हत् ।
तेऽवा॑कीर्यन्त ।
ये॑ऽवाकी॑र्यन्त ।
त ऊर्णा॒वभ॑योऽभवन् ।
द्वावुद॑पतताम् ॥10॥
तौ दि॒व्यौ श्वाना॑वभवताम् ।
यो भ्रातृ॑व्यवा॒न्त्स्यात् ।
स चि॒त्राया॑म॒ग्निमाद॑धीत ।
अ॒व॒कीर्यै॒व भ्रातृ॑व्यान् ।
ओजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑मा॒त्मन्ध॑त्ते ।
व॒सन्ता॑ ब्राह्म॒णो॑ऽग्निमाद॑धीत ।
व॒स॒न्तो वै ब्रा॑ह्म॒णस्य॒र्तुः ।
स्व ए॒वैन॑मृ॒तावा॒धाय॑ ।
ब्र॒ह्म॒व॒र्च॒सी भ॑वति ।
मुखव्ँ॒वा ए॒तदृ॑तू॒नाम् ॥11॥
यद्व॑स॒न्तः ।
यो व॒सन्ता॒ऽग्निमा॑ध॒त्ते ।
मुख्य॑ ए॒व भ॑वति ।
अथो॒ योनि॑मन्तमे॒वैन॒म्प्रजा॑त॒माध॑त्ते ।
ग्री॒ष्मे रा॑ज॒न्य॑ आद॑धीत ।
ग्री॒ष्मो वै रा॑ज॒न्य॑स्य॒र्तुः ।
स्व ए॒वैन॑मृ॒तावा॒धाय॑ ।
इ॒न्द्रि॒या॒वी भ॑वति ।
श॒रदि॒ वैश्य॒ आद॑धीत ।
श॒रद्वै वैश्य॑स्य॒र्तुः ॥12॥
स्व ए॒वैन॑मृ॒तावा॒धाय॑ ।
प॒शु॒मान्भ॑वति ।
न पूर्व॑यो॒ᳶ फल्गु॑न्योर॒ग्निमाद॑धीत ।
ए॒षा वै ज॑घ॒न्या॑ रात्रि॑स्सव्ँवत्स॒रस्य॑ ।
यत्पूर्वे॒ फल्गु॑नी ।
पृ॒ष्टि॒त ए॒व सव्ँ॑वत्स॒रस्या॒ग्निमा॒धाय॑ ।
पापी॑यान्भवति ।
उत्त॑रयो॒राद॑धीत ।
ए॒षा वै प्र॑थ॒मा रात्रि॑स्सव्ँवत्स॒रस्य॑ ।
यदुत्त॑रे॒ फल्गु॑नी ।
मु॒ख॒त ए॒व सव्ँ॑वत्स॒रस्या॒ग्निमा॒धाय॑ ।
वसी॑यान्भवति ।
अथो॒ खलु॑ ।
य॒दैवैनय्ँ॑ य॒ज्ञ उ॑प॒नमे॑त् ।
अथाद॑धीत ।
सैवास्यर्द्धिः॑ ॥13॥
उद्ध॑न्ति ।
यदे॒वास्या॑ अमे॒ध्यम् ।
तदप॑हन्ति ।
अ॒पोऽवो॑क्षति॒ शान्त्यै॑ ।
सिक॑ता॒ निव॑पति ।
ए॒तद्वा अ॒ग्नेर्वै॑श्वान॒रस्य॑ रू॒पम् ।
रू॒पेणै॒व वै॑श्वान॒रमव॑रुन्धे ।
ऊषा॒न्निव॑पति ।
पुष्टि॒र्वा ए॒षा प्र॒जन॑नम् ।
यदूषाः॑ ॥14॥
पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निमाध॑त्ते ।
अथो॑ सं॒ज्ञान॑ ए॒व ।
सं॒ज्ञानँ॒ ह्ये॑तत्प॑शू॒नाम् ।
यदूषाः॑ ।
द्यावा॑पृथि॒वी स॒हास्ता॑म् ।
ते वि॑य॒ती अ॑ब्रूताम् ।
अस्त्वे॒व नौ॑ स॒ह य॒ज्ञिय॒मिति॑ ।
यद॒मुष्या॑ य॒ज्ञिय॒मासी॑त् ।
तद॒स्याम॑दधात् ।
त ऊषा॑ अभवन्न् ॥15॥
यद॒स्या य॒ज्ञिय॒मासी॑त् ।
तद॒मुष्या॑मदधात् ।
तद॒दश्च॒न्द्रम॑सि कृ॒ष्णम् ।
ऊषा॑न्नि॒वप॑न्न॒दो ध्या॑येत् ।
द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒ऽग्निमाध॑त्ते ।
अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत ।
आ॒खू रू॒पङ्कृ॒त्वा ।
स पृ॑थि॒वीम्प्रावि॑शत् ।
स ऊ॒तीᳵ कु॑र्वा॒णᳶ पृ॑थि॒वीमनु॒ सम॑चरत् ।
तदा॑खुकरी॒षम॑भवत् ॥16॥
यदा॑खुकरी॒षँ स॑म्भा॒रो भव॑ति ।
यदे॒वास्य॒ तत्र॒ न्य॑क्तम् ।
तदे॒वाव॑रुन्धे ।
ऊर्जव्ँ॒वा ए॒तँ रस॑म्पृथि॒व्या उ॑प॒दीका॒ उद्दि॑हन्ति ।
यद्व॒ल्मीक॑म् ।
यद्व॑ल्मीकव॒पा स॑म्भा॒रो भव॑ति ।
ऊर्ज॑मे॒व रस॑म्पृथि॒व्या अव॑रुन्धे ।
अथो॒ श्रोत्र॑मे॒व ।
श्रोत्रँ॒ ह्ये॑तत्पृ॑थि॒व्याः ।
यद्व॒ल्मीकः॑ ॥ 17 ॥
अब॑धिरो भवति ।
य ए॒वव्ँ वेद॑ ।
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
तासा॒मन्न॒मुपा॑क्षीयत ।
ताभ्य॒स्सूद॒मुप॒प्राभि॑नत् ।
ततो॒ वै तासा॒मन्न॒न्नाक्षी॑यत ।
यस्य॒ सूद॑स्सम्भा॒रो भव॑ति ।
नास्य॑ गृ॒हेऽन्न॑ङ्क्षीयते ।
आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत् ।
तेन॑ प्र॒जाप॑तिरश्राम्यत् ॥18॥
क॒थमि॒दँ स्या॒दिति॑ ।
सो॑ऽपश्यत्पुष्करप॒र्णन्तिष्ठ॑त् ।
सो॑ऽमन्यत ।
अस्ति॒ वै तत् ।
यस्मि॑न्नि॒दमधि॒ तिष्ठ॒तीति॑ ।
स व॑रा॒हो रू॒पङ्कृ॒त्वोप॒ न्य॑मज्जत् ।
स पृ॑थि॒वीम॒ध आ॑र्च्छत् ।
तस्या॑ उप॒हत्योद॑मज्जत् ।
तत्पु॑ष्करप॒र्णे॑ऽप्रथयत् ।
यदप्र॑थयत् ॥19॥
तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वम् ।
अभू॒द्वा इ॒दमिति॑ ।
तद्भूम्यै॑ भूमि॒त्वम् ।
तान्दिशोऽनु॒ वात॒स्सम॑वहत् ।
ताँ शर्क॑राभिरदृँहत् ।
शव्ँ वै नो॑ऽभू॒दिति॑ ।
तच्छर्क॑राणाँ शर्कर॒त्वम् ।
यद्व॑रा॒हवि॑हतँ सम्भा॒रो भव॑ति ।
अ॒स्यामे॒वाछ॑म्बट्कारम॒ग्निमाध॑त्ते ।
शर्क॑रा भवन्ति॒ धृत्यै॑ ॥20॥
अथो॑ श॒न्त्वाय॑ ।
सरे॑ता अ॒ग्निरा॒धेय॒ इत्या॑हुः ।
आपो॒ वरु॑णस्य॒ पत्न॑य आसन् ।
ता अ॒ग्निर॒भ्य॑ध्यायत् ।
तास्सम॑भवत् ।
तस्य॒ रेत॒ᳶ परा॑ऽपतत् ।
तद्धिर॑ण्यमभवत् ।
यद्धिर॑ण्यमु॒पास्य॑ति ।
सरे॑तसमे॒वाग्निमाध॑त्ते ।
पुरु॑ष॒ इन्न्वै स्वाद्रेत॑सो बीभत्सत॒ इत्या॑हुः ॥21 ॥
उ॒त्त॒र॒त उपा॑स्य॒त्यबी॑भत्सायै ।
अति॒प्रय॑च्छति ।
आर्ति॑मे॒वाति॒प्रय॑च्छति ।
अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत ।
अश्वो॑ रू॒पङ्कृ॒त्वा ।
सो॑ऽश्व॒त्थे सव्ँ॑वत्स॒रम॑तिष्ठत् ।
तद॑श्व॒त्थस्या॑श्वत्थ॒त्वम् ।
यदाश्व॑त्थस्सम्भा॒रो भव॑ति ।
यदे॒वास्य॒ तत्र॒ न्य॑क्तम् ।
तदे॒वाव॑रुन्धे ॥22॥
दे॒वा वा ऊर्ज॒व्व्ँय॑भजन्त ।
तत॑ उदु॒म्बर॒ उद॑तिष्ठत् ।
ऊर्ग्वा उ॑दु॒म्बरः॑ ।
यदौदु॑म्बरस्सम्भा॒रो भव॑ति ।
ऊर्ज॑मे॒वाव॑रुन्धे ।
तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत् ।
तङ्गा॑य॒त्र्याऽह॑रत् ।
तस्य॑ प॒र्णम॑च्छिद्यत ।
तत्प॒र्णो॑ऽभवत् ।
तत्प॒र्णस्य॑ पर्ण॒त्वम् ॥23॥
यस्य॑ पर्ण॒मय॑स्सम्भा॒रो भव॑ति ।
सो॒म॒पी॒थमे॒वाव॑रुन्धे ।
दे॒वा वै ब्रह्म॑न्नवदन्त ।
तत्प॒र्ण उपा॑शृणोत् ।
सु॒श्रवा॒ वै नाम॑ ।
यत्प॑र्ण॒मय॑स्सम्भा॒रो भव॑ति ।
ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ।
प्र॒जाप॑तिर॒ग्निम॑सृजत ।
सो॑ऽबिभे॒त्प्र मा॑ धक्ष्य॒तीति॑ ।
तँ श॒म्या॑ऽशमयत् ॥24॥
तच्छ॒म्यै॑ शमि॒त्वम् ।
यच्छ॑मी॒मय॑स्सम्भा॒रो भव॑ति ।
शान्त्या॒ अप्र॑दाहाय ।
अ॒ग्नेस्सृ॒ष्टस्य॑ य॒तः ।
विक॑ङ्कत॒म्भा आ॑र्च्छत् ।
यद्वैक॑ङ्कतस्सम्भा॒रो भव॑ति ।
भा ए॒वाव॑रुन्धे ।
सहृ॑दयो॒ऽग्निरा॒धेय॒ इत्या॑हुः ।
म॒रुतो॒ऽद्भिर॒ग्निम॑तमयन् ।
तस्य॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दन् ।
साऽशनि॑रभवत् ।
यद॒शनि॑हतस्य वृ॒क्षस्य॑ सम्भा॒रो भव॑ति ।
सहृ॑दयमे॒वाग्निमाध॑त्ते ॥25॥
द्वा॒द॒शसु॑ विक्रा॒मेष्व॒ग्निमा द॑धीत ।
द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रादे॒वैन॑मव॒रुद्ध्याध॑त्ते ।
यद्द्वा॑द॒शसु॑ विक्रा॒मेष्वा॒दधी॑त ।
परि॑मित॒मव॑रुन्धीत ।
चक्षु॑र्निमित॒ आद॑धीत ।
इय॒द्द्वाद॑श विक्रा॒मा (३) इति॑ ।
परि॑मितञ्चै॒वाप॑रिमित॒ञ्चाव॑रुन्धे ।
अनृ॑तव्ँ॒ वै वा॒चा व॑दति ।
अनृ॑त॒म्मन॑सा ध्यायति ॥26॥
चक्षु॒र्वै स॒त्यम् ।
अद्रा(३)गित्या॑ह ।
अद॑र्श॒मिति॑ ।
तत्स॒त्यम् ।
यश्चक्षु॑र्निमिते॒ऽग्निमा॑ध॒त्ते ।
स॒त्य ए॒वैन॒माध॑त्ते ।
तस्मा॒दाहि॑ताग्नि॒र्नानृ॑तव्ँवदेत् ।
नास्य॑ ब्राह्म॒णोऽना॑श्वान्गृ॒हे व॑सेत् ।
स॒त्ये ह्य॑स्या॒ग्निराहि॑तः ।
आ॒ग्ने॒यी वै रात्रिः॑ ॥27॥
आ॒ग्ने॒याᳶ प॒शवः॑ ।
ऐ॒न्द्रमहः॑ ।
नक्त॒ङ्गार्ह॑पत्य॒मा द॑धाति ।
प॒शूने॒वाव॑ रुन्धे ।
दिवा॑ऽऽहव॒नीय॑म् ।
इ॒न्द्रि॒यमे॒वाव॑रुन्धे ।
अ॒र्धोदि॑ते॒ सूर्य॑ आहव॒नीय॒माद॑धाति ।
ए॒तस्मि॒न्वै लो॒के प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
प्र॒जा ए॒व तद्यज॑मानस्सृजते ।
अथो॑ भू॒तञ्चै॒व भ॑वि॒ष्यच्चाव॑रुन्धे ॥28॥
इडा॒ वै मा॑न॒वी य॑ज्ञानूका॒शिन्या॑सीत् ।
साऽशृ॑णोत् ।
असु॑रा अ॒ग्निमाद॑धत॒ इति॑ ।
तद॑गच्छत् ।
त आ॑हव॒नीय॒मग्र॒ आद॑धत ।
अथ॒ गार्ह॑पत्यम् ।
अथा॑न्वाहार्य॒पच॑नम् ।
साऽब्र॑वीत् ।
प्र॒तीच्ये॑षाँ॒ श्रीर॑गात् ।
भ॒द्रा भू॒त्वा परा॑भविष्य॒न्तीति॑ ॥29॥
यस्यै॒वम॒ग्निरा॑धी॒यते॑ ।
प्र॒तीच्य॑स्य॒ श्रीरे॑ति ।
भ॒द्रो भू॒त्वा परा॑भवति ।
साऽशृ॑णोत् ।
दे॒वा अ॒ग्निमाद॑धत॒ इति॑ ।
तद॑गच्छत् ।
ते॑ऽन्वाहार्य॒पच॑न॒मग्र॒ आद॑धत ।
अथ॒ गार्ह॑पत्यम् ।
अथा॑हव॒नीय॑म् ।
साऽब्र॑वीत् ॥30॥
प्राच्ये॑षाँ॒ श्रीर॑गात् ।
भ॒द्रा भू॒त्वा सु॑व॒र्गल्ल्ँ लो॒कमे॑ष्यन्ति ।
प्र॒जान्तु न वे॑त्स्यन्त॒ इति॑ ।
यस्यै॒वम॒ग्निरा॑धी॒यते॑ ।
प्राच्य॑स्य॒ श्रीरे॑ति ।
भ॒द्रो भू॒त्वा सु॑व॒र्गल्ँ लो॒कमे॑ति ।
प्र॒जान्तु न वि॑न्दते ।
साऽब्र॑वी॒दिडा॒ मनु॑म् ।
तथा॒ वा अ॒हन्तवा॒ग्निमाधा॑स्यामि ।
यथा॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्ज॑नि॒ष्यसे॑ ॥ 31 ॥
प्रत्य॒स्मिल्ँ लो॒के स्था॒स्यसि॑ ।
अ॒भि सु॑व॒र्गल्ँ लो॒कञ्जे॒ष्यसीति॑ ।
गार्ह॑पत्य॒मग्र॒ आद॑धात् ।
गार्ह॑पत्यव्ँ॒ वा अनु॑ प्र॒जाᳶ प॒शव॒ᳶ प्रजा॑यन्ते ।
गार्ह॑पत्येनै॒वास्मै॑ प्र॒जाम्प॒शून्प्राज॑नयत् ।
अथा॑न्वाहार्य॒पच॑नम् ।
ति॒र्यङ्ङि॑व॒ वा अ॒यल्ँ लो॒कः ।
अ॒स्मिन्नै॒व तेन॑ लो॒के प्रत्य॑तिष्ठत् ।
अथा॑हव॒नीय॑म् ।
तेनै॒व सु॑व॒र्गल्ँ लो॒कम॒भ्य॑जयत् ॥32॥
यस्यै॒वम॒ग्निरा॑धी॒यते॑ ।
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ।
प्रत्य॒स्मिल्ँ लो॒के ति॑ष्ठति ।
अ॒भि सु॑व॒र्गल्ँ लो॒कञ्ज॑यति ।
यस्य॒ वा अय॑थादेवतम॒ग्निरा॑धी॒यते॑ ।
आ दे॒वता॑भ्यो वृश्च्यते ।
पापी॑यान्भवति ।
यस्य॑ यथादेव॒तम् ।
न दे॒वता॑भ्य॒ आवृ॑श्च्यते ।
वसी॑यान्भवति ॥33॥ भृगू॑णा॒न्त्वाऽङ्गि॑रसाव्व्ँरतपते व्र॒तेनाद॑धा॒मीति॑ भृग्वङ्गि॒रसा॒माद॑ध्यात् ।
आ॒दि॒त्याना॑न्त्वा दे॒वाना॑व्व्ँरतपते व्र॒तेनाद॑धा॒मीत्य॒न्यासा॒म्ब्राह्म॑णीनाम्प्र॒जाना॑म् ।
वरु॑णस्य त्वा॒ राज्ञो॑ व्रतपते व्र॒तेनाद॑धा॒मीति॒ राज्ञः॑ ।
इन्द्र॑स्य त्वेन्द्रि॒येण॑ व्रतपते व्र॒तेनाद॑धा॒मीति॑ राज॒न्य॑स्य ।
मनो॑स्त्वा ग्राम॒ण्यो॑ व्रतपते व्र॒तेनाद॑धा॒मिति॒ वैश्य॑स्य ।
ऋ॒भू॒णान्त्वा॑ दे॒वाना॑व्व्ँरतपते व्र॒तेनाद॑धा॒मीति॑ रथका॒रस्य॑ ।
य॒था॒दे॒व॒तम॒ग्निराधी॑यते ।
न दे॒वता॑भ्य॒ आवृ॑श्च्यते ।
वसी॑यान्भवति ॥34॥
प्र॒जाप॑तिर्वा॒चस्स॒त्यम॑पश्यत् ।
तेना॒ग्निमाध॑त्त ।
तेन॒ वै स आ॑र्ध्नोत् ।
भूर्भुव॒स्सुव॒रित्या॑ह ।
ए॒तद्वै वा॒चस्स॒त्यम् ।
य ए॒तेना॒ग्निमा॑ध॒त्ते ।
ऋ॒ध्नोत्ये॒व ।
अथो॑ स॒त्यप्रा॑शूरे॒व भ॑वति ।
अथो॒ य ए॒वव्ँवि॒द्वान॑भि॒चर॑ति ।
स्तृ॒णु॒त ए॒वैन॑म् ॥35॥
भूरित्या॑ह ।
प्र॒जा ए॒व तद्यज॑मानस्सृजते ।
भुव॒ इत्या॑ह ।
अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ।
सुव॒रित्या॑ह ।
सु॒व॒र्ग ए॒व लो॒के प्रति॑तिष्ठति ।
त्रि॒भिर॒क्षरै॒र्गार्ह॑पत्य॒मा द॑धाति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒ष्वे॑वैनल्ँ॑ लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते ।
सर्वै॑ᳶ प॒ञ्चभि॑राहव॒नीय॑म् ॥36॥
सु॒व॒र्गाय॒ वा ए॒ष लो॒कायाधी॑यते ।
यदा॑हव॒नीयः॑ ।
सु॒व॒र्ग ए॒वास्मै॑ लो॒के वा॒चस्स॒त्यँ सर्व॑माप्नोति ।
त्रि॒भिर्गार्ह॑पत्य॒माद॑धाति ।
प॒ञ्चभि॑राहव॒नीय॑म् ।
अ॒ष्टौ सम्प॑द्यन्ते ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रो॑ऽग्निः ।
यावा॑ने॒वाग्निः ।
तमाध॑त्ते ॥37॥
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ता अ॑स्मात्सृ॒ष्टाᳶ परा॑चीरायन् ।
ताभ्यो॒ ज्योति॒रुद॑गृह्णात् ।
तञ्ज्योति॒ᳶ पश्य॑न्तीᳶ प्र॒जा अ॒भिस॒माव॑र्तन्त ।
उ॒परी॑वा॒ग्निमुद्गृ॑ह्णीयादु॒द्धर॑न् ।
ज्योति॑रे॒व पश्य॑न्तीᳶ प्र॒जा यज॑मानम॒भि स॒माव॑र्तन्ते ।
प्र॒जाप॑ते॒रक्ष्य॑श्वयत् ।
तत्परा॑ऽपतत् ।
तदश्वो॑ऽभवत् ।
तदश्व॑स्याश्व॒त्वम् ॥38॥
ए॒ष वै प्र॒जाप॑तिः ।
यद॒ग्निः ।
प्रा॒जा॒प॒त्योऽश्वः॑ ।
यदश्व॑म्पु॒रस्ता॒न्नय॑ति ।
स्वमे॒व चक्षु॒ᳶ पश्य॑न्प्र॒जाप॑ति॒रनूदे॑ति ।
व॒ज्री वा ए॒षः ।
यदश्वः॑ ।
यदश्व॑म्पु॒रस्ता॒न्नय॑ति ।
जा॒ताने॒व भ्रातृ॑व्या॒न्प्रणु॑दते ।
पुन॒राव॑र्तयति ॥ 39॥
ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते ।
न्या॑हव॒नीयो॒ गार्ह॑पत्यमकामयत ।
निगार्ह॑पत्य आहव॒नीय॑म् ।
तौ वि॒भाज॒न्नाश॑क्नोत् ।
सोऽश्व॑ᳶ पूर्व॒वाड्भू॒त्वा ।
प्राञ्च॒म्पूर्व॒मुद॑वहत् ।
तत्पू॑र्व॒वाह॑ᳶ पूर्ववा॒ट्त्वम् ।
यदश्व॑म्पु॒रस्ता॒न्नय॑ति ।
विभ॑क्तिरे॒वैन॑यो॒स्सा ।
अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते ॥40॥
यदु॒पर्यु॑परि॒ शिरो॒ हरे॑त् ।
प्रा॒णान्विच्छि॑न्द्यात् ।
अ॒धो॑ऽध॒श्शिरो॑ हरति ।
प्रा॒णाना॑ङ्गोपी॒थाय॑ ।
इय॒त्यग्रे॑ हरति ।
अथेय॒त्यथेय॑ति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒ष्वे॑वैनल्ँ॑ लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते ।
प्र॒जाप॑तिर॒ग्निम॑सृजत ।
सो॑ऽबिभे॒त्प्र मा॑ धक्ष्य॒तीति॑ ॥41॥
तस्य॑ त्रे॒धा म॑हि॒मानव्ँ॒ व्यौ॑हत् ।
शान्त्या॒ अप्र॑दाहाय ।
यत्त्रे॒धाऽग्निरा॑धी॒यते॑ ।
म॒हि॒मान॑मे॒वास्य॒ तद्व्यू॑हति ।
शान्त्या॒ अप्र॑दाहाय ।
पुन॒राव॑र्तयति ।
म॒हि॒मान॑मे॒वास्य॒ सन्द॑धाति ।
प॒शुर्वा ए॒षः ।
यदश्वः॑ ।
ए॒ष रु॒द्रः ॥42॥
यद॒ग्निः ।
यदश्व॑स्य प॒दे॑ऽग्निमा॑द॒ध्यात् ।
रु॒द्राय॑ प॒शूनपि॑दध्यात् ।
अ॒प॒शुर्यज॑मानस्स्यात् ।
यन्नाक्र॒मये॑त् ।
अन॑वरुद्धा अस्य प॒शव॑स्स्युः ।
पा॒र्श्व॒त आक्र॑मयेत् ।
यथाऽऽहि॑तस्या॒ग्नेरङ्गा॑रा अभ्यव॒वर्ते॑रन् ।
अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति ।
न रु॒द्रायापि॑दधाति ॥43॥
त्रीणि॑ ह॒वीँषि॒ निर्व॑पति ।
वि॒राज॑ ए॒व विक्रा॑न्तय्ँ॒यज॑मा॒नोऽनु॒विक्र॑मते ।
अ॒ग्नये॒ पव॑मानाय ।
अ॒ग्नये॑ पाव॒काय॑ ।
अ॒ग्नये॒ शुच॑ये ।
यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति ।
पु॒नात्ये॒वैन॑म् ।
यद॒ग्नये॑ पाव॒काय॑ ।
पू॒त ए॒वास्मि॑न्न॒न्नाद्य॑न्दधाति ।
यद॒ग्नये॒ शुच॑ये ।
ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति ॥44॥
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ ।
अ॒ग्नौ वा॒मव्ँवसु॒ सन्न्य॑दधत ।
इ॒दमु॑ नो भविष्यति ।
यदि॑ नो जे॒ष्यन्तीति॑ ।
तद॒ग्निर्नोत्सह॑मशक्नोत् ।
तत्त्रे॒धा विन्य॑दधात् ।
प॒शुषु॒ तृती॑यम् ।
अ॒प्सु तृती॑यम् ।
आ॒दि॒त्ये तृती॑यम् ॥45॥
तद्दे॒वा वि॒जित्य॑ ।
पुन॒रवा॑रुरुत्सन्त ।
ते॑ऽग्नये॒ पव॑मानाय पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपन् ।
प॒शवो॒ वा अ॒ग्निᳶ पव॑मानः ।
यदे॒व प॒शुष्वासी॑त् ।
तत्तेनावा॑रुन्धत ।
ते॑ऽग्नये॑ पाव॒काय॑ ।
आपो॒ वा अ॒ग्निᳶ पा॑व॒कः ।
यदे॒वाप्स्वासी॑त् ।
तत्तेनावा॑रुन्धत ॥46॥
ते॑ऽग्नये॒ शुच॑ये ।
अ॒सौ वा आ॑दि॒त्यो॑ऽग्निश्शुचिः॑ ।
यदे॒वादि॒त्य आसी॑त् ।
तत्तेनावा॑रुन्धत ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
त॒नुवो॒ वावैता अ॑ग्न्या॒धेय॑स्य ।
आ॒ग्ने॒यो वा अ॒ष्टाक॑पालोऽग्न्या॒धेय॒मिति॑ ।
यत्तन्नि॒र्वपे॑त् ।
नैतानि॑ ।
यथा॒ऽऽत्मा स्यात् ॥47॥
नाङ्गा॑नि ।
ता॒दृगे॒व तत् ।
यदे॒तानि॑ नि॒र्वपे॑त् ।
न तम् ।
यथाऽङ्गा॑नि॒ स्युः ।
नात्मा ।
ता॒दृगे॒व तत् ।
उ॒भया॑नि स॒ह नि॒रुप्या॑णि ।
य॒ज्ञस्य॑ सात्म॒त्वाय॑ ।
उ॒भयव्ँ॒वा ए॒तस्ये॑न्द्रि॒यव्ँवी॒र्य॑माप्यते ॥48॥
यो॑ऽग्निमा॑ध॒त्ते ।
ऐ॒न्द्रा॒ग्नमेका॑दशकपाल॒मनु॒ निर्व॑पेत् ।
आ॒दि॒त्यञ्च॒रुम् ।
इ॒न्द्रा॒ग्नी वै दे॒वाना॒मया॑तमायामानौ ।
ये ए॒व दे॒वते॒ अया॑तयाम्नी ।
ताभ्या॑मे॒वास्मा॑ इन्द्रि॒यव्ँवी॒र्य॑मव॑ रुन्धे ।
आ॒दि॒त्यो भ॑वति ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्यामे॒व प्रति॑तिष्ठति ।
धे॒न्वै वा ए॒तद्रेतः॑ ॥49॥
यदाज्य॑म् ।
अ॒न॒डुह॑स्तण्डु॒लाः ।
मि॒थु॒नमे॒वाव॑रुन्धे ।
घृ॒ते भ॑वति ।
य॒ज्ञस्यालू॑क्षान्तत्वाय ।
च॒त्वार॑ आर्षे॒याᳶ प्राश्ञ॑न्ति ।
दि॒शामे॒व ज्योति॑षि जुहोति ।
प॒शवो॒ वा ए॒तानि॑ ह॒वीँषि॑ ।
ए॒ष रु॒द्रः ।
यद॒ग्निः ॥50॥
यत्स॒द्य ए॒तानि॑ ह॒वीँषि॑ नि॒र्वपे॑त् ।
रु॒द्राय॑ प॒शूनपि॑ दध्यात् ।
अ॒प॒शुर्यज॑मानस्स्यात् ।
यन्नानु॑नि॒र्वपे॑त् ।
अन॑वरुद्धा अस्य प॒शव॑स्स्युः ।
द्वा॒द॒शसु॒ रात्री॒ष्वनु॒ निर्व॑पेत् ।
सव्ँ॒व॒त्स॒रप्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः ।
सव्ँ॒व॒त्स॒रेणै॒वास्मै॑ रु॒द्रँ श॑मयि॒त्वा ।
प॒शूनव॑रुन्धे ।
यदेक॑मेकमे॒तानि॑ ह॒वीँषि॑ नि॒र्वपे॑त् ॥51॥
यथा॒ त्रीण्या॒वप॑नानि पू॒रये॑त् ।
ता॒दृक्तत् ।
न प्र॒जन॑न॒मुच्छिँ॑षेत् ।
एक॑न्नि॒रुप्य॑ ।
उत्त॑रे॒ सम॑स्येत् ।
तृ॒तीय॑मे॒वास्मै॑ लो॒कमुच्छिँ॑षति प्र॒जन॑नाय ।
तम्प्र॒जया॑ प॒शुभि॒रनु॒प्रजा॑यते ।
अथो॑ य॒ज्ञस्यै॒वैषाऽभिक्रा॑न्तिः ।
र॒थ॒च॒क्रम्प्रव॑र्तयति ।
म॒नु॒ष्य॒र॒थेनै॒व दे॑वर॒थम्प्र॒त्यव॑रोहति ॥52॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
हो॒त॒व्य॑मग्निहो॒त्राँ (३)न हो॑त॒व्या (३) मिति॑ ।
यद्यजु॑षा जुहु॒यात् ।
अय॑थापूर्व॒माहु॑ती जुहुयात् ।
यन्न जु॑हु॒यात् ।
अ॒ग्निᳶ परा॑भवेत् ।
तू॒ष्णीमे॒व हो॑त॒व्य॑म् ।
य॒था॒पू॒र्वमाहु॑ती जु॒होति॑ ।
नाग्निᳶ परा॑भवति ।
अ॒ग्नीधे॑ ददाति ॥53॥
अ॒ग्निमु॑खाने॒वर्तून्प्री॑णाति ।
उ॒प॒बर्ह॑णन्ददाति ।
रू॒पाणा॒मव॑रुद्ध्यै ।
अश्व॑म्ब्र॒ह्मणे॑ ।
इ॒न्द्रि॒यमे॒वाव॑रुन्धे ।
धे॒नुँ होत्रे॑ ।
आ॒शिष॑ ए॒वाव॑रुन्धे ।
अ॒न॒ड्वाह॑मध्व॒र्यवे॑ ।
वह्नि॒र्वा अ॑न॒ड्वान् ।
वह्नि॑रध्व॒र्युः ॥54॥
वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे ।
मि॒थु॒नौ गावौ॑ ददाति ।
मि॒थु॒नस्याव॑रुद्ध्यै ।
वासो॑ ददाति ।
स॒र्व॒दे॒व॒त्यव्ँ॑ वै वासः॑ ।
सर्वा॑ ए॒व दे॒वता॑ᳶ प्रीणाति ।
आ द्वा॑द॒शभ्यो॑ ददाति ।
द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒र ए॒व प्रति॑तिष्ठति ।
काम॑मू॒र्ध्वन्देय॑म् ।
अप॑रिमित॒स्याव॑रुद्ध्यै ॥55॥
घ॒र्मश्शिर॒स्तद॒यम॒ग्निः ।
सम्प्रि॑यᳶ प॒शुभि॑र्भुवत् ।
छ॒र्दिस्तो॒काय॒ तन॑याय यच्छ ।
वात॑ᳶ प्रा॒णस्तद॒यम॒ग्निः ।
सम्प्रि॑यᳶ प॒शुभि॑र्भुवत् ।
स्व॒दि॒तन्तो॒काय॒ तन॑याय पि॒तुम्प॑च ।
प्राची॒मनु॑ प्र॒दिश॒म्प्रेहि॑ वि॒द्वान् ।
अ॒ग्नेर॑ग्ने पु॒रो अ॑ग्निर्भवे॒ह ।
विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि ।
ऊर्ज॑न्नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥56॥
अ॒र्कश्चक्षु॒स्तद॒सौ सूर्य॒स्तद॒यम॒ग्निः ।
सम्प्रि॑यᳶ प॒शुभि॑र्भुवत् ।
यत्ते॑ शुक्र शु॒क्रव्ँवर्च॑श्शु॒क्रा त॒नूः ।
शु॒क्रञ्ज्योति॒रज॑स्रम् ।
तेन॑ मे दीदिहि॒ तेन॒ त्वाऽऽद॑धे ।
अ॒ग्निना॑ऽग्ने॒ ब्रह्म॑णा ।
आ॒न॒शे व्या॑नशे॒ सर्व॒मायु॒र्व्या॑नशे ।
ये ते॑ अग्ने शि॒वे त॒नुवौ॑ ।
वि॒राट्च॑ स्व॒राट्च॑ ।
ते मावि॑शता॒न्ते मा॑ जिन्वताम् ॥57॥
ये ते॑ अग्ने शि॒वे त॒नुवौ॑ ।
स॒म्राट्चा॑भि॒भूश्च॑ ।
ते मावि॑शता॒न्ते मा॑ जिन्वताम् ।
ये ते॑ अग्ने शि॒वे त॒नुवौ॑ ।
वि॒भूश्च॑ परि॒भूश्च॑ ।
ते मा वि॑शता॒न्ते मा॑ जिन्वताम् ।
ये ते॑ अग्ने शि॒वे त॒नुवौ॑ ।
प्र॒भ्वी च॒ प्रभू॑तिश्च ।
ते मा वि॑शता॒न्ते मा॑ जिन्वताम् ।
यास्ते॑ अग्ने शि॒वास्त॒नुवः॑ ।
ताभि॒स्त्वाऽऽद॑धे ।
यास्ते॑ अग्ने घो॒रास्त॒नुवः॑ ।
ताभि॑र॒मुङ्ग॑च्छ ॥58॥
इ॒मे वा ए॒ते लो॒का अ॒ग्नयः॑ ।
ते यदव्या॑वृत्ता आधी॒येर॑न् ।
शो॒चये॑यु॒र्यज॑मानम् ।
घ॒र्मश्शिर॒ इति॒ गार्ह॑पत्य॒माद॑धाति ।
वात॑ᳶ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम् ।
अ॒र्कश्चक्षु॒रित्या॑हव॒नीय॑म् ।
तेनै॒वैना॒न्व्याव॑र्तयति ।
तथा॒ न शो॑चयन्ति॒ यज॑मानम् ।
र॒थ॒न्त॒रम॒भिगा॑यते॒ गार्ह॑पत्य आधी॒यमा॑ने ।
राथ॑न्तरो॒ वा अ॒यल्ँ लो॒कः ॥59॥
अ॒स्मिन्ने॒वैनल्ँ॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते ।
वा॒म॒दे॒व्यम॒भिगा॑यत उद्ध्रि॒यमा॑णे ।
अ॒न्तरि॑क्षव्ँ॒ वै वा॑मदे॒व्यम् ।
अ॒न्तरि॑क्ष ए॒वैन॒म्प्रति॑ष्ठित॒माध॑त्ते ।
अथो॒ शान्ति॒र्वै वा॑मदे॒व्यम् ।
शा॒न्तमे॒वैन॑म्पश॒व्य॑मुद्ध॑रते ।
बृ॒हद॒भिगा॑यत आहव॒नीय॑ आधी॒यमा॑ने ।
बार्ह॑तो॒ वा अ॒सौ लो॒कः ।
अ॒मुष्मि॑न्ने॒वैनल्ँ॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते ।
प्र॒जाप॑तिर॒ग्निम॑सृजत ॥60॥
सोऽश्वो॒ऽवारो॑ भू॒त्वा परा॑ङैत् ।
तव्ँवा॑रव॒न्तीये॑नावारयत ।
तद्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम् ।
श्यै॒तेन॑ श्ये॒ती अ॑कुरुत ।
तच्छ्यै॒तस्य॑ श्यैत॒त्वम् ।
यद्वा॑रव॒न्तीय॑मभि॒गाय॑ते ।
वा॒र॒यि॒त्वैवैन॒म्प्रति॑ष्ठित॒माध॑त्ते ।
श्यै॒तेन॑ श्ये॒ती कु॑रुते ।
घ॒र्मश्शिर॒ इति॒ गार्ह॑पत्य॒माद॑धाति ।
सशी॑र्षाणमे॒वैन॒माध॑त्ते ॥61॥
उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मति ।
रु॒द्रो वा ए॒षः ।
यद॒ग्निः ।
स आ॑धी॒यमा॑न ईश्व॒रो यज॑मानस्य प॒शून् हिँसि॑तोः ।
सम्प्रि॑यᳶ प॒शुभि॑र्भुव॒दित्या॑ह ।
प॒शुभि॑रे॒वैनँ॒ सम्प्रि॑यङ्करोति ।
प॒शू॒नामहिँ॑सायै ।
छ॒र्दिस्तो॒काय॒ तन॑याय य॒च्छेत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
वात॑ᳶ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम् ॥62॥
सप्रा॑णमे॒वैन॒माध॑त्ते ।
स्व॒दि॒तन्तो॒काय॒ तन॑याय पि॒तुम्प॒चेत्या॑ह ।
अन्न॑मे॒वास्मै॑ स्वदयति ।
प्राची॒मनु॑ प्र॒दिश॒म्प्रेहि॑ वि॒द्वानित्या॑ह ।
विभ॑क्तिरे॒वैन॑यो॒स्सा ।
अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते ।
ऊर्ज॑न्नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
अ॒र्कश्चक्षु॒रित्या॑हव॒नीय॑म् ।
अ॒र्को वै दे॒वाना॒मन्न॑म् ॥63॥
अन्न॑मे॒वाव॑रुन्धे ।
तेन॑ मे दीदि॒हीत्या॑ह ।
समि॑न्ध ए॒वैन॑म् ।
आ॒न॒शे व्या॑नश॒ इति॒ त्रिरुदि॑ङ्गयति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒ष्वे॑वैनल्ँ॑ लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते ।
तत्तथा॒ न का॒र्य॑म् ।
वीङ्गि॑त॒मप्र॑तिष्ठित॒माद॑धीत ।
उ॒द्धृत्यै॒वाधाया॑भि॒मन्त्रियः॑ ।
अवी॑ङ्गितमे॒वैन॒म्प्रति॑ष्ठित॒माध॑त्ते ।
वि॒राट्च॑ स्व॒राट्च॒ यास्ते॑ अग्ने शि॒वास्त॒नुव॒स्ताभि॒स्त्वाऽऽद॑ध॒ इत्या॑ह ।
ए॒ता वा अ॒ग्नेश्शि॒वास्त॒नुवः॑ ।
ताभि॑रे॒वैनँ॒ सम॑र्धयति ।
यास्ते॑ अग्ने घो॒रास्त॒नुव॒स्ताभि॑र॒मुङ्ग॒च्छेति॑ ब्रूया॒द्यन्द्वि॒ष्यात् ।
ताभि॑रे॒वैन॒म्परा॑भावयति ॥64॥
श॒मी॒ग॒र्भाद॒ग्निम्म॑न्थति ।
ए॒षा वा अ॒ग्नेर्य॒ज्ञिया॑ त॒नूः ।
तामे॒वास्मै॑ जनयति ।
अदि॑तिᳶ पु॒त्त्रका॑मा ।
सा॒ध्येभ्यो॑ दे॒वेभ्यो॑ ब्रह्मौद॒नम॑पचत् ।
तस्या॑ उ॒च्छेष॑णमददुः ।
तत्प्राश्ञा॑त् ।
सा रेतो॑ऽधत्त ।
तस्यै॑ धा॒ता चा॑र्य॒मा चा॑जायेताम् ।
सा द्वि॒तीय॑मपचत् ॥65॥
तस्या॑ उ॒च्छेष॑णमददुः ।
तत्प्राश्ञा॑त् ।
सा रेतो॑ऽधत्त ।
तस्यै॑ मि॒त्रश्च॒ वरु॑णश्चाजायेताम् ।
सा तृ॒तीय॑मपचत् ।
तस्या॑ उ॒च्छेष॑णमददुः ।
तत्प्राश्ञा॑त् ।
सा रेतो॑ऽधत्त ।
तस्या॒ अँश॑श्च॒ भग॑श्चाजायेताम् ।
सा च॑तु॒र्थम॑पचत् ॥66॥
तस्या॑ उ॒च्छेष॑णमददुः ।
तत्प्राश्ञा॑त् ।
सा रेतो॑ऽधत्त ।
तस्या॒ इन्द्र॑श्च॒ विव॑स्वाँश्चाजायेताम् ।
ब्र॒ह्मौ॒द॒नम्प॑चति ।
रेत॑ ए॒व तद्द॑धाति ।
प्राश्ञ॑न्ति ब्राह्म॒णा ओ॑द॒नम् ।
यदाज्य॑मु॒च्छिष्य॑ते ।
तेन॑ स॒मिधो॒ऽभ्यज्याद॑धाति ।
उ॒च्छेष॑णा॒द्वा अदि॑ती॒ रेतो॑ऽधत्त ॥67॥
उ॒च्छेष॑णादे॒व तद्रेतो॑ धत्ते ।
अस्थि॒ वा ए॒तत् ।
यत्स॒मिधः॑ ।
ए॒तद्रेतः॑ ।
यदाज्य॑म् ।
यदाज्ये॑न स॒मिधो॒ऽभ्यज्या॒दधा॑ति ।
अस्थ्ये॒व तद्रेत॑सि दधाति ।
ति॒स्र आद॑धाति मिथुन॒त्वाय॑ ।
इय॑तीर्भवन्ति ।
प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑ताः ॥68॥
इय॑तीर्भवन्ति ।
य॒ज्ञ॒प॒रुषा॒ सम्मि॑ताः ।
इय॑तीर्भवन्ति ।
ए॒ताव॒द्वै पुरु॑षे वी॒र्य॑म् ।
वी॒र्य॑सम्मिताः ।
आ॒र्द्रा भ॑वन्ति ।
आ॒र्द्रमि॑व॒ हि रेत॑स्सि॒च्यते॑ ।
चित्रि॑यस्याश्व॒त्थस्याद॑धाति ।
चि॒त्रमे॒व भ॑वति ।
घृ॒तव॑तीभि॒राद॑धाति ॥ 69॥
ए॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॑ ।
यद्घृ॒तम् ।
प्रि॒येणै॒वैन॒न्धाम्ना॒ सम॑र्धयति ।
अथो॒ तेज॑सा ।
गा॒य॒त्रीभि॑र्ब्राह्म॒णस्याद॑ध्यात् ।
गा॒य॒त्रछ॑न्दा॒ वै ब्रा॑ह्म॒णः ।
स्वस्य॒ छन्द॑सᳶ प्रत्ययन॒स्त्वाय॑ ।
त्रि॒ष्टुग्भी॑ राज॒न्य॑स्य ।
त्रि॒ष्टुप्छ॑न्दा॒ वै रा॑ज॒न्यः॑ ।
स्वस्य॒ छन्द॑सᳶ प्रत्ययन॒स्त्वाय॑ ॥70॥
जग॑तीभि॒र्वैश्य॑स्य ।
जग॑तीछन्दा॒ वै वैश्यः॑ ।
स्वस्य॒ छन्द॑सᳶ प्रत्ययन॒स्त्वाय॑ ।
तँ सव्ँ॑वत्स॒रङ्गो॑पायेत् ।
सव्ँ॒व॒त्स॒रँ हि रेतो॑ हि॒तव्ँवर्ध॑ते ।
यद्ये॑नँ सव्ँवत्स॒रे नोप॒नमे॑त् ।
स॒मिध॒ᳶ पुन॒राद॑ध्यात् ।
रेत॑ ए॒व तद्धि॒तव्ँवर्ध॑मानमेति ।
न माँ॒सम॑श्ञीयात् ।
न स्त्रिय॒मुपे॑यात् ॥71॥
यन्माँ॒सम॑श्ञी॒यात् ।
यत्स्त्रिय॑मुपे॒यात् ।
निर्वी॑र्यस्स्यात् ।
नैन॑म॒ग्निरुप॑नमेत् ।
श्व आ॑धा॒स्यमा॑नो ब्रह्मौद॒नम्प॑चति ।
आ॒दि॒त्या वा इ॒त उ॑त्त॒मास्सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
ते वा इ॒तो यन्त॒म्प्रति॑नुदन्ते ।
ए॒ते खलु॒ वावादि॒त्याः ।
यद्ब्रा॑ह्म॒णाः ।
तैरे॒व स॒न्त्वङ्ग॑च्छति ॥72॥
नैन॒म्प्रति॑नुदन्ते ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
क्वा॑ सः ।
अ॒ग्निᳵ का॒र्यः॑ ।
यो॑ऽस्मै प्र॒जाम्प॒शून्प्र॑ज॒नय॒तीति॑ ।
शल्कै॒स्ताँरात्रि॑म॒ग्निमि॑न्धीत ।
तस्मि॑न्नुपव्यु॒षम॒रणी॒ निष्ट॑पेत् ।
यथ॑र्ष॒भाय॑ वाशि॒ता न्या॑विच्छा॒यति॑ ।
ता॒दृगे॒व तत् ।
अ॒पो॒दूह्य॒ भस्मा॒ग्निम्म॑न्थति ॥73॥
सैव साऽग्नेस्सन्त॑तिः ।
तम्म॑थि॒त्वा प्राञ्च॒मुद्ध॑रति ।
सव्ँ॒व॒त्स॒रमे॒व तद्रेतो॑ हि॒तम्प्रज॑नयति ।
अना॑हित॒स्तस्या॒ग्निरित्या॑हुः ।
यस्स॒मिधोऽना॑धाया॒ग्निमा॑ध॒त्त इति॑ ।
तास्सव्ँ॑वत्स॒रे पु॒रस्ता॒दाद॑ध्यात् ।
सव्ँ॒व॒त्सरादे॒वैन॑मव॒रुध्याध॑त्ते ।
यदि॑ सव्ँवत्स॒रेऽनाद॒ध्यात् ।
द्वा॒द॒श्या॑म्पु॒रस्ता॒दाद॑ध्यात् ।
सव्ँ॒व॒त्स॒रप्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः ।
सव्ँ॒व॒त्स॒रमे॒वास्याहि॑ता भवन्ति ।
यदि॑ द्वाद॒श्या॑न्नाद॒ध्यात् ।
त्र्य॒हे पु॒रस्ता॒दाद॑ध्यात् ।
आहि॑ता ए॒वास्य॑ भवन्ति ॥74॥
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
स रि॑रिचा॒नो॑ऽमन्यत ।
स तपो॑ऽतप्यत ।
स आ॒त्मन्वी॒र्य॑मपश्यत् ।
तद॑वर्धत ।
तद॑स्मा॒त्सह॑सो॒र्ध्वम॑सृज्यत ।
सा वि॒राड॑भवत् ।
तान्दे॑वासु॒रा व्य॑गृह्णत ।
सो॑ऽब्रवीत्प्र॒जाप॑तिः ।
मम॒ वा ए॒षा ॥75॥
दोहा॑ ए॒व यु॒ष्माक॒मिति॑ ।
सा तत॒ᳶ प्राच्युद॑क्रामत् ।
तत्प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णात् ।
अथ॑र्व पि॒तुम्मे॑ गोपा॒येति॑ ।
सा द्वि॒तीय॒मुद॑क्रामत् ।
तत्प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णात् ।
नर्य॑ प्र॒जाम्मे॑ गोपा॒येति॑ ।
सा तृ॒तीय॒मुद॑क्रामत् ।
तत्प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णात् ।
शँस्य॑ प॒शून्मे॑ गोपा॒येति॑ ॥76॥
सा च॑तु॒र्थमुद॑क्रामत् ।
तत्प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णात् ।
सप्र॑थ स॒भाम्मे॑ गोपा॒येति॑ ।
सा प॑ञ्च॒ममुद॑क्रामत् ।
तत्प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णात् ।
अहे॑ बुध्निय॒ मन्त्र॑म्मे गोपा॒येति॑ ।
अ॒ग्नीन् वाव सा तान्व्य॑क्रमत ।
तान्प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णात् ।
अथो॑ प॒ङ्क्तिमे॒व ।
प॒ङ्क्तिर्वा ए॒षा ब्रा॑ह्म॒णे प्रवि॑ष्टा ॥77॥
तामा॒त्मनोऽधि॒ निर्मि॑मीते ।
यद॒ग्निरा॑धी॒यते॑ ।
तस्मा॑दे॒ताव॑न्तो॒ऽग्नय॒ आधी॑यन्ते ।
पाङ्क्तव्ँ॒वा इ॒दँ सर्व॑म् ।
पाङ्क्ते॑नै॒व पाङ्क्तँ॑ स्पृणोति ।
अथ॑र्व पि॒तुम्मे॑ गोपा॒येत्या॑ह ।
अन्न॑मे॒वैतेन॑ स्पृणोति ।
नर्य॑ प्र॒जाम्मे॑ गोपा॒येत्या॑ह ।
प्र॒जामे॒वैतेन॑ स्पृणोति ।
शँस्य॑ प॒शून्मे॑ गोपा॒येत्या॑ह ॥ 78॥
प॒शूने॒वैतेन॑ स्पृणोति ।
सप्र॑थ स॒भाम्मे॑ गोपा॒येत्या॑ह ।
स॒भामे॒वैतेने॑न्द्रि॒यँ स्पृ॑णोति ।
अहे॑ बुध्निय॒ मन्त्र॑म्मे गोपा॒येत्या॑ह ।
मन्त्र॑मे॒वैतेन॒ श्रियँ॑ स्पृणोति ।
यदा॑न्वाहार्य॒पच॑नेऽन्वाहा॒र्य॑म्पच॑न्ति ।
तेन॒ सो॑ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
यद्गार्ह॑पत्य॒ आज्य॑मधि॒श्रय॑न्ति॒ सम्पत्नी॑र्या॒जय॑न्ति ।
तेन॒ सो॑ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
यदा॑हव॒नीये॒ जुह्व॑ति ॥ 79॥
तेन॒ सो॑ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
यत्स॒भायाव्ँ॑वि॒जय॑न्ते ।
तेन॒ सो॑ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
यदा॑वस॒थेऽन्नँ॒ हर॑न्ति ।
तेन॒ सो॑ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
तथा॑ऽस्य॒ सर्वे॑ प्री॒ता अ॒भीष्टा॒ आधी॑यन्ते ।
प्र॒व॒स॒थमे॒ष्यन्ने॒वमुप॑तिष्ठे॒तैक॑मेकम् ।
यथा॑ ब्राह्म॒णाय॑ गृहेवा॒सिने॑ परि॒दाय॑ गृ॒हानेति॑ ।
ता॒दृगे॒व तत् ।
पुन॑रा॒गत्योप॑तिष्ठते ।
सा भा॑गेयमे॒वैषा॒न्तत् ।
सा तत॑ ऊ॒र्ध्वारो॑हत् ।
सा रो॑हि॒ण्य॑भवत् ।
तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम् ।
रो॒हि॒ण्याम॒ग्निमाद॑धीत ।
स्व ए॒वैनय्ँ॒योनौ॒ प्रति॑ष्ठित॒माध॑त्ते ।
ऋ॒ध्नोत्ये॑नेन ॥80॥
उ॒द्ध॒न्यमा॑नम॒स्या अ॑मे॒ध्यम् ।
अप॑ पा॒प्मानय्ँ॒यज॑मानस्य हन्तु ।
शि॒वा न॑स्सन्तु प्र॒दिश॒श्चत॑स्रः ।
शन्नो॑ मा॒ता पृ॑थि॒वी तोक॑साता ।
शन्नो॑ दे॒वीर॒भिष्ट॑ये ।
आपो॑ भवन्तु पी॒तये॑ ।
शय्ँयोर॒भि स्र॑वन्तु नः ।
वै॒श्वा॒न॒रस्य॑ रू॒पम् ।
पृ॒थि॒व्याम्प॑रि॒स्रसा॑ ।
स्यो॒नमा वि॑शन्तु नः ॥1॥
यदि॒दन्दि॒वो यद॒दᳶ पृ॑थि॒व्याः ।
स॒ञ्ज॒ज्ञा॒ने रोद॑सी सम्बभू॒वतुः॑ ।
ऊषा॑न्कृ॒ष्णम॑वतु कृ॒ष्णमूषाः॑ ।
इ॒होभयो॑र्य॒ज्ञिय॒माग॑मिष्ठाः ।
ऊ॒तीᳵ कु॑र्वा॒णो यत्पृ॑थि॒वीमच॑रः ।
गु॒हा॒कार॑माखुरू॒पम्प्र॒तीत्य॑ ।
तत्ते॒ न्य॑क्तमि॒ह स॒म्भर॑न्तः ।
श॒तञ्जी॑वेम श॒रद॒स्सवी॑राः ।
ऊर्ज॑म्पृथि॒व्या रस॑मा॒भर॑न्तः ।
श॒तञ्जी॑वेम श॒रद॑ᳶ पुरू॒चीः ॥2॥
व॒म्रीभि॒रनु॑वित्त॒ङ्गुहा॑सु ।
श्रोत्र॑न्त उ॒र्व्यब॑धिरा भवामः ।
प्र॒जाप॑तिसृष्टानाम्प्र॒जाना॑म् ।
क्षु॒धोऽप॑हत्यै सुवि॒तन्नो॑ अस्तु ।
उप॒ प्रभि॑न्न॒मिष॒मूर्ज॑म्प्र॒जाभ्यः॑ ।
सूद॑ङ्गृ॒हेभ्यो॒ रस॒माभ॑रामि ।
यस्य॑ रू॒पम्बिभ्र॑दि॒मामवि॑न्दत् ।
गुहा॒ प्रवि॑ष्टाँ सरि॒रस्य॒ मध्ये॑ ।
तस्ये॒दव्ँविह॑तमा॒भर॑न्तः ।
अछ॑म्बट्कारम॒स्याव्ँवि॑धेम ॥3॥
यत्प॒र्यप॑श्यत्सरि॒रस्य॒ मध्ये॑ ।
उ॒र्वीमप॑श्य॒ज्जग॑तᳶ प्रति॒ष्ठाम् ।
तत्पुष्क॑रस्या॒यत॑ना॒द्धि जा॒तम् ।
प॒र्णम्पृ॑थि॒व्याᳶ प्रथ॑नँ हरामि ।
याभि॒रदृँ॑ह॒ज्जग॑तᳶ प्रति॒ष्ठाम् ।
उ॒र्वीमि॒माव्ँवि॑श्वज॒नस्य॑ भ॒र्त्रीम् ।
ता न॑श्शि॒वाश्शर्क॑रास्सन्तु॒ सर्वाः॑ ।
अ॒ग्ने रेत॑श्च॒न्द्रँ हिर॑ण्यम् ।
अ॒द्भ्यस्सम्भू॑तम॒मृत॑म्प्र॒जासु॑ ।
तत्स॒म्भर॑न्नुत्तर॒तो नि॒धाय॑ ॥4॥
अ॒ति॒प्र॒यच्छ॒न्दुरि॑तिन्तरेयम् ।
अश्वो॑ रू॒पङ्कृ॒त्वा यद॑श्व॒त्थेऽति॑ष्ठः ।
सव्ँ॒व॒त्स॒रन्दे॒वेभ्यो॑ नि॒लाय॑ ।
तत्ते॒ न्य॑क्तमि॒ह स॒म्भर॑न्तः ।
श॒तञ्जी॑वेम श॒रद॒स्सवी॑राः ।
ऊ॒र्जᳶ पृ॑थि॒व्या अध्युत्थि॑तोऽसि ।
वन॑स्पते श॒तव॑ल्शो॒ विरो॑ह ।
त्वया॑ व॒यमिष॒मूर्ज॒म्मद॑न्तः ।
रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ।
गा॒य॒त्रि॒या ह्रि॒यमा॑णस्य॒ यत्ते॑ ॥5॥
प॒र्णमप॑तत्तृ॒तीय॑स्यै दि॒वोऽधि॑ ।
सो॑ऽयम्प॒र्णस्सो॑मप॒र्णाद्धि जा॒तः ।
ततो॑ हरामि सोमपी॒थस्याव॑रुद्ध्यै ।
दे॒वाना॑म्ब्रह्मवा॒दव्ँवद॑ताय्ँ॒यत् ।
उ॒पाशृ॑णोस्सु॒श्रवा॒ वै श्रु॒तो॑ऽसि ।
ततो॒ मामावि॑शतु ब्रह्मवर्च॒सम् ।
तत्स॒म्भरँ॒ स्तदव॑रुन्धीय सा॒क्षात् ।
यया॑ ते सृ॒ष्टस्या॒ग्नेः ।
हे॒तिमश॑मयत्प्र॒जाप॑तिः ।
तामि॒मामप्र॑दाहाय ॥6॥
श॒मीँ शान्त्यै॑ हराम्य॒हम् ।
यत्ते॑ सृ॒ष्टस्य॑ य॒तः ।
विक॑ङ्कत॒म्भा आ॑र्च्छज्जातवेदः ।
तया॑ भा॒सा सम्मि॑तः ।
उ॒रुन्नो॑ लो॒कमनु॒ प्रभा॑हि ।
यत्ते॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दञ्जातवेदः ।
म॒रुतो॒ऽद्भिस्त॑मयि॒त्वा ।
ए॒तत्ते॒ तद॑श॒नेस्सम्भ॑रामि ।
सात्मा॑ अग्ने॒ सहृ॑दयो भवे॒ह ।
चित्रि॑यादश्व॒त्थात्सम्भृ॑ता बृह॒त्यः॑ ॥7॥
शरी॑रम॒भि सँस्कृ॑तास्स्थ ।
प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑ताः ।
ति॒स्रस्त्रि॒वृद्भि॑र्मिथु॒नाᳶ प्रजा॑त्यै ।
अ॒श्व॒त्थाद्ध॑व्यवा॒हाद्धि जा॒ताम् ।
अ॒ग्नेस्त॒नूय्ँ य॒ज्ञियाँ॒ सम्भ॑रामि ।
शा॒न्तयो॑निँ शमीग॒र्भम् ।
अ॒ग्नये॒ प्रज॑नयि॒तवे॑ ।
यो अ॑श्व॒त्थश्श॑मीग॒र्भः ।
आ॒रु॒रोह॒ त्वे सचा॑ ।
तन्ते॑ हरामि॒ ब्रह्म॑णा ॥8॥
य॒ज्ञियैः॑ के॒तुभि॑स्स॒ह ।
यन्त्वा॑ स॒मभ॑रञ्जातवेदः ।
य॒था॒श॒री॒रम्भू॒तेषु॒ न्य॑क्तम् ।
स सम्भृ॑तस्सीद शि॒वᳶ प्र॒जाभ्यः॑ ।
उ॒रुन्नो॑ लो॒कमनु॑नेषि वि॒द्वान् ।
प्रवे॒धसे॑ क॒वये॒ मेध्या॑य ।
वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे॑ ।
यतो॑ भ॒यमभ॑य॒न्तन्नो॑ अस्तु ।
अव॑ दे॒वान् य॑जे॒हेड्या॑न् ।
स॒मिधा॒ऽग्निन्दु॑वस्यत ॥9॥
घृ॒तैर्बो॑धय॒ताति॑थिम् ।
आऽस्मि॑न् ह॒व्या जु॑होतन ।
उप॑ त्वाऽग्ने ह॒विष्म॑तीः ।
घृ॒ताची॑र्यन्तु हर्यत ।
जु॒षस्व॑ स॒मिधो॒ मम॑ ।
तन्त्वा॑ स॒मिद्भि॑रङ्गिरः ।
घृ॒तेन॑ वर्धयामसि ।
बृ॒हच्छो॑चा यविष्ठ्य ।
स॒मि॒ध्यमा॑नᳶ प्रथ॒मो नु धर्मः॑ ।
सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः ॥10॥
शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः ।
सु॒य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् ।
घृ॒तप्र॑तीको घृ॒तयो॑निर॒ग्निः ।
घृ॒तैस्समि॑द्धो घृ॒तम॒स्यान्न॑म् ।
घृ॒त॒प्रुष॑स्त्वा स॒रितो॑ वहन्ति ।
घृ॒तम्पिब॑न्त्सु॒यजा॑ यक्षि दे॒वान् ।
आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णः ।
घृ॒तप्र॑तीको घृ॒तयो॑निरेधि ।
घृ॒तम्पी॒त्वा मधु॒ चारु॒ गव्य॑म् ।
पि॒तेव॑ पु॒त्रम॒भिर॑क्षतादि॒मम् ॥11॥
त्वाम॑ग्ने समिधा॒नय्ँय॑विष्ठ ।
दे॒वा दू॒तञ्च॑क्रिरे हव्य॒वाह॑म् ।
उ॒रु॒ज्रय॑सङ्घृ॒तयो॑नि॒माहु॑तम् ।
त्वे॒षञ्चक्षु॑र्दधिरे चोद॒यन्व॑ति ।
त्वाम॑ग्ने प्र॒दिव॒ आहु॑तङ्घृ॒तेन॑ ।
सु॒म्ना॒यव॑स्सुष॒मिधा॒ समी॑धिरे ।
स वा॑वृधा॒न ओष॑धीभिरुक्षि॒तः ।
उ॒रु ज्रयाँ॑सि॒ पार्थि॑वा॒ विति॑ष्ठसे ।
घृ॒तप्र॑तीकव्ँव ऋ॒तस्य॑ धूर्षद॑म् ।
अ॒ग्निम्मि॒त्रन्न स॑मिधा॒न ऋ॑ञ्जते ॥12॥
इन्धा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑त् ।
शु॒क्रव॑र्णा॒मुदु॑ नो यँसते॒ धिय॑म् ।
प्र॒जा अ॑ग्ने॒ सव्ँवा॑सय ।
आशा॑श्च प॒शुभि॑स्स॒ह ।
रा॒ष्ट्राण्य॑स्मा॒ आधे॑हि ।
यान्यास॑न्त्सवि॒तुस्स॒वे ।
म॒ही वि॒श्पत्नी॒ सद॑ने ऋ॒तस्य॑ ।
अ॒र्वाची॒ एत॑न्धरुणे रयी॒णाम् ।
अ॒न्तर्व॑त्नी॒ जन्य॑ञ्जा॒तवे॑दसम् ।
अ॒ध्व॒राणा॑ञ्जनयथᳶ पुरो॒गाम् ॥13॥
आरो॑हतन्द॒शतँ॒ शक्व॑री॒र्मम॑ ।
ऋ॒तेना॑ग्न॒ आयु॑षा॒ वर्च॑सा स॒ह ।
ज्योग्जीव॑न्त॒ उत्त॑रामुत्तराँ॒ समा॑म् ।
दर्श॑म॒हम्पू॒र्णमा॑सय्ँ य॒ज्ञय्ँयथा॒ यजै॑ ।
ऋत्वि॑यवती स्थो अ॒ग्निरे॑तसौ ।
गर्भ॑न्दधाथा॒न्ते वा॑म॒हन्द॑दे ।
तत्स॒त्यय्ँयद्वी॒रम्बि॑भृथः ।
वी॒रञ्ज॑नयि॒ष्यथः॑ ।
ते मत्प्रा॒तᳶ प्रज॑निष्येथे ।
ते मा॒ प्रजा॑ते॒ प्रज॑नयि॒ष्यथः॑ ॥14॥
प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ सुव॒र्गे लो॒के ।
अनृ॑तात्स॒त्यमुपै॑मि ।
मा॒नु॒षाद्देव्य॒मुपै॑मि ।
दैवीव्ँ॒वाचय्ँ॑यच्छामि ।
शल्कै॑र॒ग्निमि॑न्धा॒नः ।
उ॒भौ लो॒कौ स॑नेम॒हम् ।
उ॒भयो॑र्लो॒कयो॑र्ऋ॒ध्वा ।
अति॑ मृ॒त्युन्त॑राम्य॒हम् ।
जात॑वेदो॒ भुव॑नस्य॒ रेतः॑ ।
इ॒ह सि॑ञ्च॒ तप॑सो॒ यज्ज॑नि॒ष्यते॑ ॥15॥
अ॒ग्निम॑श्व॒त्थादधि॑ हव्य॒वाह॑म् ।
श॒मी॒ग॒र्भाज्ज॒नय॒न्यो म॑यो॒भूः ।
अ॒यन्ते॒ योनि॑र्ऋ॒त्वियः॑ ।
यतो॑ जा॒तो अरो॑चथाः ।
तञ्जा॒नन्न॑ग्न॒ आरो॑ह ।
अथा॑ नो वर्धया र॒यिम् ।
अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑ ।
येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अदा॑दि॒दय्ँय॒मो॑ऽव॒सान॑म्पृथि॒व्याः ।
अक्र॑न्नि॒मम्पि॒तरो॑ लो॒कम॑स्मै ॥16॥
अ॒ग्नेर्भस्मा॑स्य॒ग्नेᳶ पुरी॑षमसि ।
सं॒ज्ञान॑मसि काम॒धर॑णम् ।
मयि॑ ते काम॒धर॑णम्भूयात् ।
सव्ँव॑स्सृजामि॒ हृद॑यानि ।
सँसृ॑ष्ट॒म्मनो॑ अस्तु वः ।
संँसृ॑ष्टᳶ प्रा॒णो अ॑स्तु वः ।
सय्ँया व॑ᳶ प्रि॒यास्त॒नुवः॑ ।
सम्प्रि॒या हृद॑यानि वः ।
आ॒त्मा वो॑ अस्तु॒ सम्प्रि॑यः ।
सम्प्रि॑यास्त॒नुवो॒ मम॑ ॥17 ॥
कल्पे॑ता॒न्द्यावा॑पृथि॒वी ।
कल्प॑न्ता॒माप॒ ओष॑धीः ।
कल्प॑न्ताम॒ग्नय॒ᳶ पृथ॑क् ।
मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः ।
ये॑ऽग्नय॒स्सम॑नसः ।
अ॒न्त॒रा द्यावा॑पृथि॒वी ।
वास॑न्तिकावृ॒तू अ॒भि कल्प॑मानाः ।
इन्द्र॑मिव दे॒वा अ॒भिसव्ँवि॑शन्तु ।
दि॒वस्त्वा॑ वी॒र्ये॑ण ।
पृ॒थि॒व्यै म॑हि॒म्ना ॥18॥
अ॒न्तरि॑क्षस्य॒ पोषे॑ण ।
स॒र्वप॑शु॒माद॑धे ।
अजी॑जनन्न॒मृत॒म्मर्त्या॑सः ।
अ॒स्रे॒माण॑न्त॒रणिव्ँ॑वी॒डुज॑म्भम् ।
दश॒ स्वसा॑रो अ॒ग्रुव॑स्समी॒चीः ।
पुमाँ॑सञ्जा॒तम॒भि सँर॑भन्ताम् ।
प्र॒जाप॑तेस्त्वा प्रा॒णेनाभि॒ प्राणि॑मि ।
पू॒ष्णᳶ पोषे॑ण॒ मह्य॑म् ।
दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय ।
श॒तँ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से ॥19॥
जी॒वात्वै पुण्या॑य ।
अ॒हन्त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् ।
ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि ।
ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने ।
पु॒त्रᳶ पि॒त्रे लो॑क॒कृज्जा॑तवेदः ।
प्रा॒णे त्वा॒ऽमृत॒माद॑धामि ।
अ॒न्ना॒दम॒न्नाद्या॑य ।
गो॒प्तार॒ङ्गुप्त्यै॑ ।
सु॒गा॒र्ह॒प॒त्यो वि॒दह॒न्नरा॑तीः ।
उ॒षस॒श्श्रेय॑सीश्श्रेयसी॒र्दध॑त् ॥20॥
अग्ने॑ स॒पत्नाँ॑ अप॒ बाध॑मानः ।
रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ धेहि ।
इ॒मा उ॒ मामुप॑तिष्ठन्तु॒ रायः॑ ।
आ॒भिᳶ प्र॒जाभि॑रि॒ह सव्ँव॑सेय ।
इ॒हो इडा॑ तिष्ठतु विश्वरू॒पी ।
मध्ये॒ वसो॑र्दीदिहि जातवेदः ।
ओज॑से॒ बला॑य॒ त्वोद्य॑च्छे ।
वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से ।
स॒प॒त्न॒तूर॑सि वृत्र॒तूः ।
यस्ते॑ दे॒वेषु॑ महि॒मा सु॑व॒र्गः ॥21॥
यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः ।
पुष्टि॒र्या ते॑ मनु॒ष्ये॑षु पप्र॒थे ।
तया॑ नो अग्ने जु॒षमा॑ण॒ एहि॑ ।
दि॒वᳶ पृ॑थि॒व्याᳶ पर्य॒न्तरि॑क्षात् ।
वाता॑त्प॒शुभ्यो॒ अध्योष॑धीभ्यः ।
यत्र॑यत्र जातवेदस्सम्ब॒भूथ॑ ।
ततो॑ नो अग्ने जु॒षमा॑ण॒ एहि॑ ।
प्राची॒मनु॑ प्र॒दिश॒म्प्रेहि॑ वि॒द्वान् ।
अ॒ग्नेर॑ग्ने पु॒रोअ॑ग्निर्भवे॒ह ।
विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि ॥22॥
ऊर्ज॑न्नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।
अन्व॒ग्निरु॒षसा॒मग्र॑मख्यत् ।
अन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः ।
अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीन् ।
अनु॒ द्यावा॑पृथि॒वी आत॑तान ।
विक्र॑मस्व म॒हाँ अ॑सि ।
वे॒दि॒षन्मानु॑षेभ्यः ।
त्रि॒षु लो॒केषु॑ जागृहि ।
यदि॒दन्दि॒वो यद॒दᳶ पृ॑थि॒व्याः ।
सव्ँ॒वि॒दा॒ने रोद॑सी सम्बभू॒वतुः॑ ॥23॥
तयोः॑ पृ॒ष्ठे सी॑दतु जा॒तवे॑दाः ।
श॒म्भूᳶ प्र॒जाभ्य॑स्त॒नुवे॑ स्यो॒नः ।
प्रा॒णन्त्वा॒ऽमृत॒ आ द॑धामि ।
अ॒न्ना॒दम॒न्नाद्या॑य ।
गो॒प्तार॒ङ्गुप्त्यै॑ ।
यत्ते॑ शुक्र शु॒क्रव्ँवर्च॑श्शु॒क्रा त॒नूः ।
शु॒क्रञ्ज्योति॒रज॑स्रम् ।
तेन॑ मे दीदिहि॒ तेन॒ त्वाऽऽद॑धे ।
अ॒ग्निना॑ऽग्ने॒ ब्रह्म॑णा ।
आ॒न॒शे व्या॑नशे॒ सर्व॒मायु॒र्व्या॑नशे ॥ 24॥
नर्य॑ प्र॒जाम्मे॑ गोपाय ।
अ॒मृ॒त॒त्वाय॑ जी॒वसे॑ ।
जा॒ताञ्ज॑नि॒ष्यमा॑णाञ्च ।
अ॒मृते॑ स॒त्ये प्रति॑ष्ठिताम् ।
अथ॑र्व पि॒तुम्मे॑ गोपाय ।
रस॒मन्न॑मि॒हायु॑षे ।
अद॑ब्धा॒योऽशी॑ततनो ।
अवि॑षन्नᳶ पि॒तुङ्कृ॑णु ।
शँस्य॑ प॒शून्मे॑ गोपाय ।
द्वि॒पादो॒ ये चतु॑ष्पदः ॥25॥
अ॒ष्टाश॑फाश्च॒ य इ॒हाग्ने॑ ।
ये चैक॑शफा आशु॒गाः ।
सप्र॑थ स॒भाम्मे॑ गोपाय ।
ये च॒ सभ्या॑स्सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒मायु॒रुपा॑सताम् ।
अहे॑ बुध्निय॒ मन्त्र॑म्मे गोपाय ।
यमृष॑यस्त्रैवि॒दा वि॒दुः ।
ऋच॒स्सामा॑नि॒ यजूँ॑षि ।
सा हि श्रीर॒मृता॑ स॒ताम् ॥26॥
चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः॑ ।
घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये॑ ।
म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय ।
मह्य॑न्धुक्ष्व॒ यज॑मानाय॒ कामा॑न् ।
इ॒हैव सन्तत्र॑ स॒तो वो॑ अग्नयः ।
प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि ।
ति॒रो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् ।
ज्योति॑षा वो वैश्वान॒रेणोप॑तिष्ठे ।
प॒ञ्च॒धाऽग्नीन्व्य॑क्रामत् ।
वि॒राट्त्सृ॒ष्टा प्र॒जाप॑तेः ।
ऊ॒र्ध्वाऽऽरो॑हद्रोहि॒णी ।
योनि॑र॒ग्नेᳶ प्रति॑ष्ठितिः ॥27॥
नवै॒तान्यहा॑नि भवन्ति ।
नव॒ वै सु॑व॒र्गा लो॒काः ।
यदे॒तान्यहा॑न्युप॒यन्ति॑ ।
न॒वस्वे॒व तत्सु॑व॒र्गेषु॑ लो॒केषु॑ स॒त्रिण॑ᳶ प्रति॒तिष्ठ॑न्तो यन्ति ।
अ॒ग्नि॒ष्टो॒माᳶ पर॑स्सामानᳵ का॒र्या॑ इत्या॑हुः ।
अ॒ग्नि॒ष्टो॒मस॑म्मितस्सुव॒र्गो लो॒क इति॑ ।
द्वाद॑शाग्निष्टो॒मस्य॑ स्तो॒त्राणि॑ ।
द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः ।
तत्तन्न सूर्क्ष्य॑म् ।
उ॒क्थ्या॑ ए॒व स॑प्तद॒शाᳶ पर॑स्सामानᳵ का॒र्याः॑ ॥28॥
प॒शवो॒ वा उ॒क्थानि॑ ।
प॒शू॒नामव॑रुद्ध्यै ।
वि॒श्व॒जि॒द॒भि॒जिता॑वग्निष्टो॒मौ ।
उ॒क्थ्या॑स्सप्तद॒शाᳶ पर॑स्समानः ।
ते सँस्तु॑ता वि॒राज॑म॒भिसम्प॑द्यन्ते ।
द्वे चर्चा॒वति॑रिच्येते ।
एक॑या॒ गौरति॑रिक्तः ।
एक॒याऽऽयु॑रू॒नः ।
सु॒व॒र्गो वै लो॒को ज्योतिः॑ ।
ऊर्ग्वि॒राट् ॥29॥
सु॒व॒र्गमे॒व तेन॑ लो॒कम॒भिज॑यन्ति ।
यत्परँ॒ राथ॑न्तरम् ।
तत्प्र॑थ॒मेऽह॑न्का॒र्य॑म् ।
बृ॒हद्द्वि॒तीये॑ ।
वै॒रू॒पन्तृ॒तीये॑ ।
वै॒रा॒जञ्च॑तु॒र्थे ।
शा॒क्व॒रम्प॑ञ्च॒मे ।
रै॒व॒तँ ष॒ष्ठे ।
तदु॑ पृ॒ष्ठेभ्यो॒ नय॑न्ति ।
स॒न्तन॑य ए॒ते ग्रहा॑ गृह्यन्ते ॥30॥
अ॒ति॒ग्रा॒ह्या॑ᳶ पर॑स्सामसु ।
इ॒माने॒वैतैर्लो॒कान्त्सन्त॑न्वन्ति ।
मि॒थु॒ना ए॒ते ग्रहा॑ गृह्यन्ते ।
अ॒ति॒ग्रा॒ह्या॑ᳶ पर॑स्सामसु ।
मि॒थु॒नमे॒व तैर्यज॑माना॒ अव॑रुन्धते ।
बृ॒हत्पृ॒ष्ठम्भ॑वति ।
बृ॒हद्वै सु॑व॒र्गो लो॒कः ।
बृ॒ह॒तैव सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति ।
त्र॒य॒स्त्रिँ॒शिनाम॒ साम॑ ।
माध्य॑न्दिने॒ पव॑माने भवति ॥31॥
त्रय॑स्त्रिँश॒द्वै दे॒वताः॑ ।
दे॒वता॑ ए॒वाव॑रुन्धते ।
ये वा इ॒तᳶ परा॑ञ्चँ सव्ँवत्स॒रमु॑प॒यन्ति॑ ।
न है॑न॒न्ते स्व॒स्ति सम॑श्ञुवते ।
अथ॒ ये॑ऽमुतो॒ऽर्वाञ्च॑मुप॒यन्ति॑ ।
ते है॑नँ स्व॒स्ति सम॑श्ञुवते ।
ए॒तद्वा अ॒मुतो॒ऽर्वाञ्च॒मुप॑यन्ति ।
यदे॒वम् ।
यो ह॒ खलु॒ वाव प्र॒जाप॑तिः ।
स उ॑वे॒वेन्द्रः॑ ।
तदु॑ दे॒वेभ्यो॒ नय॑न्ति ॥32॥
सन्त॑ति॒र्वा ए॒ते ग्रहाः॑ ।
यत्पर॑स्सामानः ।
वि॒षू॒वान्दि॑वाकी॒र्त्य॑म् ।
यथा॒ शाला॑यै॒ पक्ष॑सी ।
ए॒वँ सव्ँ॑वत्स॒रस्य॒ पक्ष॑सी ।
यदे॒तेन गृ॒ह्येर॑न् ।
विषू॑ची सव्ँवत्स॒रस्य॒ पक्ष॑सी॒ व्यव॑स्रँसेयाताम् ।
आर्ति॒मार्च्छे॑युः ।
यदे॒ते गृ॒ह्यन्ते॑ ।
यथा॒ शाला॑यै॒ प॑क्षसी मध्य॒मव्ँवँ॒शम॒भिस॑मा॒यच्छ॑ति ॥33॥
ए॒वँ सव्ँ॑वत्स॒रस्य॒ पक्ष॑सी दिवाकी॒र्त्य॑म॒भिसन्त॑न्वन्ति ।
नार्ति॒मार्च्छ॑न्ति ।
ए॒क॒विँ॒शमह॑र्भवति ।
शु॒क्राग्रा॒ ग्रहा॑ गृह्यन्ते ।
प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ।
सौ॒र्य॑ ए॒तदह॑ᳶ प॒शुराल॑भ्यते ।
सौ॒र्यो॑ऽतिग्रा॒ह्यो॑ गृह्यते ।
अह॑रे॒व रू॒पेण॒ सम॑र्धयन्ति ।
अथो॒ अह्न॑ ए॒वैष ब॒लिर्ह्रि॑यते ।
स॒प्तैतदह॑रतिग्रा॒ह्या॑ गृह्यन्ते ॥34॥
स॒प्त वै शी॑र्ष॒ण्या॑ᳶ प्रा॒णाः ।
अ॒सावा॑दि॒त्यश्शिर॑ᳶ प्र॒जाना॑म् ।
शी॒र्षन्ने॒व प्र॒जाना॑म्प्रा॒णान्द॑धाति ।
तस्मा॑त्स॒प्त शी॒र्षन्प्रा॒णाः ।
इन्द्रो॑ वृ॒त्रँ ह॒त्वा ।
असु॑रान्परा॒भाव्य॑ ।
स इ॒माल्ँ लो॒कान॒भ्य॑जयत् ।
तस्या॒सौ लो॒कोऽन॑भिजित आसीत् ।
तव्ँवि॒श्वक॑र्मा भू॒त्वाऽभ्य॑जयत् ।
यद्वै॑श्वकर्म॒णो गृ॒ह्यते॑ ॥35॥
सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
प्र वा ए॒ते॑ऽस्माल्लो॒काच्च्य॑वन्ते ।
ये वै॑श्वकर्म॒णङ्गृ॒ह्णते॑ ।
आ॒दि॒त्यश्श्वो गृ॑ह्यते ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्यामे॒व प्रति॑तिष्ठन्ति ।
अ॒न्यो॑न्यो गृह्येते ।
विश्वा॑न्ये॒वान्येन॒ कर्मा॑णि कुर्वा॒णा य॑न्ति ।
अ॒स्याम॒न्येन॒ प्रति॑तिष्ठन्ति ।
तावाऽप॑रा॒र्धात्सव्ँ॑वत्स॒रस्या॒न्यो॑न्यो गृह्येते ।
तावु॒भौ स॒ह म॑हाव्र॒ते गृ॑ह्येते ।
य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वा ।
उ॒भयो॑र्लो॒कयो॒ᳶ प्रति॑तिष्ठन्ति ।
अ॒र्क्य॑मु॒क्थम्भ॑वति ।
अ॒न्नाद्य॒स्याव॑रुध्यै ॥ 36॥
ए॒क॒विँ॒श ए॒ष भ॑वति ।
ए॒तेन॒ वै दे॒वा ए॑कविँ॒शेन॑ ।
आ॒दि॒त्यमि॒त उ॑त्त॒मँ सु॑व॒र्गल्ँ लो॒कमारो॑हयन् ।
स वा ए॒ष इ॒त ए॑कविँ॒शः ।
तस्य॒ दशा॒वस्ता॒दहा॑नि ।
दश॑ प॒रस्ता॑त् ।
स वा ए॒ष वि॒राज्यु॑भ॒यत॒ᳶ प्रति॑ष्ठितः ।
वि॒राजि॒ हि वा ए॒ष उ॑भ॒यत॒ᳶ प्रति॑ष्ठितः ।
तस्मा॑दन्त॒रेमौ लो॒कौ यन् ।
सर्वे॑षु सुव॒र्गेषु॑ लो॒केष्व॑भि॒तप॑न्नेति ॥37॥
दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
परा॑चोऽतिपा॒दाद॑बिभयुः ।
तञ्छन्दो॑भिरदृँह॒न्धृत्यै॑ ।
दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
अवा॑चोऽवपा॒दाद॑बिभयुः ।
तम्प॒ञ्चभी॑ र॒श्मिभि॒रुद॑वयन् ।
तस्मा॑देकविँ॒शेऽह॒न्पञ्च॑ दिवाकी॒र्त्या॑नि क्रियन्ते ।
र॒श्मयो॒ वै दि॑वाकी॒र्त्या॑नि ।
ये गा॑य॒त्रे ।
ते गा॑य॒त्रीषूत्त॑रयो॒ᳶ पव॑मानयोः ॥38॥
म॒हादि॑वाकीर्त्यँ॒ होतु॑ᳶ पृ॒ष्ठम् ।
वि॒क॒र्णम्ब्र॑ह्मसा॒मम् ।
भा॒सो॑ऽग्निष्टो॒मः ।
अथै॒तानि॒ परा॑णि ।
परै॒र्वै दे॒वा आ॑दि॒त्यँ सु॑व॒र्गल्ँ लो॒कम॑पारयन् ।
यदपा॑रयन् ।
तत्परा॑णाम्पर॒त्वम् ।
पा॒रय॑न्त्येन॒म्परा॑णि ।
य ए॒वव्ँ वेद॑ ।
अथै॒तानि॒ स्परा॑णि ।
स्परै॒र्वै दे॒वा आ॑दि॒त्यँ सु॑व॒र्गल्ँ लो॒कम॑स्पारयन् ।
यदस्पा॑रयन् ।
तत्स्परा॑णाँ स्पर॒त्वम् ।
स्पा॒रय॑न्त्यैनँ॒ स्परा॑णि ।
य ए॒वव्ँ वेद॑ ॥39॥
अप्र॑तिष्ठाव्ँ॒वा ए॒ते ग॑च्छन्ति ।
येषाँ॑ सव्ँवत्स॒रेऽना॒प्तेऽथ॑ ।
ए॒का॒द॒शिन्या॒प्यते॑ ।
वै॒ष्ण॒वव्ँवा॑म॒नमाल॑भन्ते ।
य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञमे॒वाल॑भन्ते॒ प्रति॑ष्ठित्यै ।
ऐ॒न्द्रा॒ग्नमाल॑भन्ते ।
इ॒न्द्रा॒ग्नी वै दे॒वाना॒मया॑तयामानौ ।
ये ए॒व दे॒वते॒ अया॑तयाम्नी ।
ते ए॒वाल॑भन्ते ॥ 40॥
वै॒श्व॒दे॒वमाल॑भन्ते ।
दे॒वता॑ ए॒वाव॑रुन्धते ।
द्या॒वा॒पृ॒थिव्या॑न्धे॒नुमाल॑भन्ते ।
द्यावा॑पृथि॒व्योरे॒व प्रति॑तिष्ठन्ति ।
वा॒य॒व्यव्ँ॑व॒त्समाल॑भन्ते ।
वा॒युरे॒वैभ्यो॑ यथाऽऽयत॒नाद्दे॒वता॒ अव॑रुन्धे ।
आ॒दि॒त्यामविव्ँ॑व॒शामाल॑भन्ते ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्यामे॒व प्रति॑तिष्ठन्ति ।
मै॒त्रा॒व॒रु॒णीमाल॑भन्ते ॥41॥
मि॒त्रेणै॒व य॒ज्ञस्य॒ स्वि॑ष्टँ शमयन्ति ।
वरु॑णेन॒ दुरि॑ष्टम् ।
प्रा॒जा॒प॒त्यन्तू॑प॒रम्म॑हाव्र॒त आल॑भन्ते ।
प्रा॒जा॒प॒त्यो॑ऽतिग्रा॒ह्यो॑ गृह्यते ।
अह॑रे॒व रू॒पेण॒ सम॑र्धयन्ति ।
अथो॒ अह्न॑ ए॒वैष ब॒लिर्ह्रि॑यते ।
आ॒ग्ने॒यमा ल॑भन्ते॒ प्रति॒ प्रज्ञा॑त्यै ।
अ॒ज॒पे॒त्वान् वा ए॒ते पूर्वै॒र्मासै॒रव॑रुन्धते ।
यदे॒ते ग॒व्याᳶ प॒शव॑ आल॒भ्यन्ते॑ ।
उ॒भये॑षाम्पशू॒नामव॑रुद्ध्यै ॥42॥
यदति॑रिक्तामेकाद॒शिनी॑मा॒लभे॑रन् ।
अप्रि॑य॒म्भ्रातृ॑व्यम॒भ्यति॑रिच्येत ।
यद्द्वौद्वौ॑ प॒शू स॒मस्ये॑युः ।
कनी॑य॒ आयु॑ᳵ कुर्वीरन् ।
यदे॒ते ब्राह्म॑णवन्तᳶ प॒शव॑ आल॒भ्यन्ते॑ ।
नाप्रि॑य॒म्भ्रातृ॑व्यम॒भ्य॑ति॒रिच्य॑ते ।
न कनी॑य॒ आयु॑ᳵ कुर्वते ॥43॥
प्र॒जाप॑तिᳶ प्र॒जास्सृ॒ष्ट्वा वृ॒त्तो॑ऽशयत् ।
तन्दे॒वा भू॒तानाँ॒ रस॒न्तेज॑स्स॒म्भृत्य॑ ।
तेनै॑नमभिषज्यन् ।
म॒हान॑वव॒र्तीति॑ ।
तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् ।
म॒हद्व्र॒तमिति॑ ।
तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् ।
म॒ह॒तो व्र॒तमिति॑ ।
तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् ।
प॒ञ्च॒विँ॒शस्स्तोमो॑ भवति ॥ 44॥
चतु॑र्विँशत्यर्धमासस्सव्ँवत्स॒रः ।
यद्वा ए॒तस्मि॑न्त्सव्ँवत्स॒रेऽधि॒प्राजा॑यत ।
तदन्न॑म्पञ्चविँ॒शम॑भवत् ।
म॒ध्य॒तᳵ क्रि॑यते ।
म॒ध्य॒तो ह्यन्न॑मशि॒तन्धि॒नोति॑ ।
अथो॑ मध्य॒त ए॒व प्र॒जाना॒मूर्ग्धी॑यते ।
अथ॒ यद्वा इ॒दम॑न्त॒तᳵ क्रि॒यते॑ ।
तस्मा॑दुद॒न्ते प्र॒जास्समे॑धन्ते ।
अ॒न्त॒तᳵ क्रि॑यते प्र॒जन॑नायै॒व ।
त्रि॒वृच्छिरो॑ भवति ॥45॥
त्रे॒धा॒वि॒हि॒तँ हि शिरः॑ ।
लोम॑ छ॒वीरस्थि॑ ।
परा॑चा स्तुवन्ति ।
तस्मा॒त्तत्स॒दृगे॒व ।
न मेद्य॒तोऽनु॑ मेद्यति ।
न कृश्य॒तोऽनु॑ कृश्यति ।
प॒ञ्च॒द॒शो॑ऽन्यᳶ प॒क्षो भ॑वति ।
स॒प्त॒द॒शो॑ऽन्यः ।
तस्मा॒द्वयाँ॑ स्यन्यत॒रम॒र्धम॒भिप॒र्याव॑र्तन्ते ।
अ॒न्य॒त॒रतो॒ हि तद्गरी॑यᳵ क्रि॒यते॑ ॥46॥
प॒ञ्च॒विँ॒श आ॒त्मा भ॑वति ।
तस्मा॑न्मध्य॒तᳶ प॒शवो॒ वरि॑ष्ठाः ।
ए॒क॒विँ॒शम्पुच्छ॑म् ।
द्वि॒पदा॑सु स्तुवन्ति॒ प्रति॑ष्ठित्यै ।
सर्वे॑ण स॒ह स्तु॑वन्ति ।
सर्वे॑ण॒ ह्या॑त्मना॑ऽऽत्म॒न्वी ।
स॒होत्पत॑न्ति ।
एकै॑का॒मुच्छिँ॑षन्ति ।
आ॒त्मन्न् ह्यङ्गा॑नि ब॒द्धानि॑ ।
न वा ए॒तेन॒ सर्व॒ᳶ पुरु॑षः ॥47॥
यदि॒तइ॑तो॒ लोमा॑नि द॒तो न॒खान् ।
प॒रि॒माद॑ᳵ क्रियन्ते ।
तान्ये॒व तेन॒ प्रत्यु॑प्यन्ते ।
औदु॑म्बर॒स्तल्पो॑ भवति ।
ऊर्ग्वा अन्न॑मुदु॒म्बरः॑ ।
ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुध्यै ।
यस्य॑ तल्प॒सद्य॒मन॑भिजितँ॒ स्यात् ।
स दे॒वानाँ॒ साम्य॑क्षे ।
त॒ल्प॒सद्य॑म॒भिज॑या॒नीति॒ तल्प॑मा॒रुह्योद्गा॑येत् ।
त॒ल्प॒सद्य॑मे॒वाभिज॑यति ॥48॥
यस्य॑ तल्प॒सद्य॑म॒भिजि॑तँ॒ स्यात् ।
स दे॒वानाँ॒ साम्य॑क्षे ।
त॒ल्प॒सद्य॒म्मा परा॑जे॒षीति॒ तल्प॑मा॒रुह्योद्गा॑येत् ।
न त॑ल्प॒सद्य॒म्परा॑जयते ।
प्ले॒ङ्खे शँ॑सति ।
महो॒ वै प्ले॒ङ्खः ।
मह॑स ए॒वान्नाद्य॒स्याव॑रुद्ध्यै ।
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
त आ॑दि॒त्ये व्याय॑च्छन्त ।
तन्दे॒वास्सम॑जयन्न् ॥49॥
ब्रा॒ह्म॒णश्च॑ शू॒द्रश्च॑ चर्मक॒र्ते व्याय॑च्छेते ।
दैव्यो॒ वै वर्णो॑ ब्राह्म॒णः ।
अ॒सु॒र्य॑श्शू॒द्रः ।
इ॒मे॑ऽरात्सुरि॒मे सु॑भू॒तम॑क्र॒न्नित्य॑न्यत॒रो ब्रू॑यात् ।
इ॒म उ॑द्वासीका॒रिण॑ इ॒मे दु॑र्भू॒तम॑क्र॒न्नित्य॑न्यत॒रः ।
यदे॒वैषाँ॑ सुकृ॒तय्ँया राद्धिः॑ ।
तद॑न्यत॒रो॑ऽभिश्री॑णाति ।
यदे॒वैषा॑न्दुष्कृ॒तय्ँयाऽरा॑द्धिः ।
तद॑न्यत॒रोऽप॑हन्ति ।
ब्रा॒ह्म॒णस्सञ्ज॑यति ।
अ॒मुमे॒वादि॒त्यम्भ्रातृ॑व्यस्य॒ सव्ँवि॑न्दन्ते ॥50॥
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ ।
अ॒ग्नीषोम॑योस्तेज॒स्विनी॑स्त॒नूस्सन्न्य॑दधत ।
इ॒दमु॑ नो भविष्यति ।
यदि॑ नो जे॒ष्यन्तीति॑ ।
तेना॒ग्नीषोमा॒वपा॑क्रामताम् ।
ते दे॒वा वि॒जित्य॑ ।
अ॒ग्नीषोमा॒वन्वै॑च्छन् ।
ते॑ऽग्निमन्व॑विन्दन्नृ॒तुषूत्स॑न्नम् ।
तस्य॒ विभ॑क्तीभिस्तेज॒स्विनी॑स्त॒नूरवा॑रुन्धत ॥1॥
ते सोम॒मन्व॑विन्दन् ।
तम॑घ्नन् ।
तस्य॑ यथाऽभि॒ज्ञाय॑न्त॒नूर्व्य॑गृह्णत ।
ते ग्रहा॑ अभवन् ।
तद्ग्रहा॑णाङ्ग्रह॒त्वम् ।
यस्यै॒वव्ँवि॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते॑ ।
तस्य॒ त्वे॑व गृ॑ही॒ताः ।
नाना॑ऽऽग्नेयम्पुनरा॒धेये॑ कुर्यात् ।
यदना॑ग्नेयम्पुनरा॒धेये॑ कु॒र्यात् ।
व्यृ॑द्धमे॒व तत् ॥2॥
अना॑ग्नेयव्ँ॒वा ए॒तत्क्रि॑यते ।
यत्स॒मिध॒स्तनू॒नपा॑तमि॒डो ब॒र्हिर्य॑जति ।
उ॒भावा॑ग्ने॒यावाज्य॑भागौ स्याताम् ।
अना॑ज्यभागौ भवत॒ इत्या॑हुः ।
यदु॒भावा॑ग्ने॒याव॒न्वञ्चा॒विति॑ ।
अ॒ग्नये॒ पव॑माना॒योत्त॑रस्स्यात् ।
यत्पव॑मानाय ।
तेनाज्य॑भागः ।
तेन॑ सौ॒म्यः ।
बुध॑न्वत्याग्ने॒यस्याज्य॑भागस्य पुरोऽनुवा॒क्या॑ भवति ॥3॥
यथा॑ सु॒प्तम्बो॒धय॑ति ।
ता॒दृगे॒व तत् ।
अ॒ग्निन्य॑क्ताᳶ पत्नीसय्ँया॒जाना॒मृच॑स्स्युः ।
तेना॑ग्ने॒यँ सर्व॑म्भवति ।
ए॒क॒धा ते॑ज॒स्विनी॑न्दे॒वता॒मुपै॒तीत्या॑हुः ।
सैन॑मीश्व॒रा प्र॒दह॒ इति॑ ।
नेति॑ ब्रूयात् ।
प्र॒जन॑नव्ँ॒ वा अ॒ग्निः ।
प्र॒जन॑नमे॒वोपै॒तीति॑ ।
कृ॒तय॑जु॒स्सम्भृ॑तसम्भार॒ इत्या॑हुः ॥4॥
न स॒म्भृत्या॑स्सम्भा॒राः ।
न यजु॑ᳵ का॒र्य॑मिति॑ ।
अथो॒ खलु॑ ।
स॒म्भृत्या॑ ए॒व स॑म्भा॒राः ।
का॒र्यय्ँ॑यजुः॑ ।
पु॒न॒रा॒धेय॑स्य॒ समृ॑द्ध्यै ।
तेनो॑पाँ॒शु प्रच॑रति ।
एष्य॑ इव॒ वा ए॒षः ।
यत्पु॑नरा॒धेयः॑ ।
यथो॑पाँ॒शु न॒ष्टमि॒च्छति॑ ॥5॥
ता॒दृगे॒व तत् ।
उ॒च्चैस्स्वि॑ष्ट॒कृत॒मुत्सृ॑जति ।
यथा॑ न॒ष्टव्ँवि॒त्त्वा प्राहा॒यमिति॑ ।
ता॒दृगे॒व तत् ।
ए॒क॒धा ते॑ज॒स्विनी॑न्दे॒वता॒मुपै॒तीत्या॑हुः ।
सैन॑मीश्व॒रा प्र॒दह॒ इति॑ ।
तत्तथा॒ नोपै॑ति ।
प्र॒या॒जा॒नू॒या॒जेष्वे॒व विभ॑क्तीᳵ कुर्यात् ।
य॒था॒पू॒र्वमाज्य॑भागौ॒ स्याता॑म् ।
ए॒वम्प॑त्नीसय्ँया॒जाः ॥6॥
तद्वै॑श्वान॒रव॑त्प्र॒जन॑नवत्तर॒मुपै॒तीति॑ ।
तदा॑हुः ।
व्यृ॑द्धव्ँ॒वा ए॒तत् ।
अना॑ग्नेयव्ँ॒वा ए॒तत्क्रि॑यत॒ इति॑ ।
नेति॑ ब्रूयात् ।
अ॒ग्निम्प्र॑थ॒मव्ँविभ॑क्तीनाय्ँयजति ।
अ॒ग्निमु॑त्त॒मम्प॑त्नीसय्ँया॒जाना॑म् ।
तेना॑ग्ने॒यम् ।
तेन॒ समृ॑द्धङ्क्रियत॒ इति॑ ॥7॥
दे॒वा वै यथा॒दर्शय्ँ॑ य॒ज्ञानाह॑रन्त ।
यो॑ऽग्निष्टो॒मम् ।
य उ॒क्थ्य॑म् ।
यो॑ऽतिरा॒त्रम् ।
ते स॒हैव सर्वे॑ वाज॒पेय॑मपश्यन् ।
ते ।
अ॒न्यो॑ऽन्यस्मै॒ नाति॑ष्ठन्त ।
अ॒हम॒नेन॑ यजा॒ इति॑ ।
ते॑ऽब्रुवन् ।
आ॒जिम॒स्य धा॑वा॒मेति॑ ॥8॥
तस्मि॑न्ना॒जिम॑धावन् ।
तम्बृह॒स्पति॒रुद॑जयत् ।
तेना॑यजत ।
स स्वारा॑ज्यमगच्छत् ।
तमिन्द्रो॑ऽब्रवीत् ।
माम॒नेन॑ याज॒येति॑ ।
तेनेन्द्र॑मयाजयत् ।
सोऽग्र॑न्दे॒वता॑ना॒म्पर्यै॑त् ।
अग॑च्छ॒त्स्वारा॑ज्यम् ।
अति॑ष्ठन्तास्मै॒ ज्यैष्ठ्या॑य ॥9॥
य ए॒वव्ँवि॒द्वान् वा॑ज॒पेये॑न॒ यज॑ते ।
गच्छ॑ति॒ स्वारा॑ज्यम् ।
अग्रँ॑ समा॒नाना॒म्पर्ये॑ति ।
तिष्ठ॑न्तेऽस्मै॒ ज्यैष्ठ्या॑य ।
स वा ए॒ष ब्रा॑ह्म॒णस्य॑ चै॒व रा॑ज॒न्य॑स्य च य॒ज्ञः ।
तव्ँवा ए॒तव्ँवा॑ज॒पेय॒ इत्या॑हुः ।
वा॒जाप्यो॒ वा ए॒षः ।
वाजँ॒ ह्ये॑तेन॑ दे॒वा ऐप्स॑न् ।
सोमो॒ वै वा॑ज॒पेयः॑ ।
यो वै सोमव्ँ॑वाज॒पेयव्ँ॒वेद॑ ॥10॥
वा॒ज्ये॑वैन॑म्पी॒त्वा भ॑वति ।
आऽस्य॑ वा॒जी जा॑यते ।
अन्नव्ँ॒ वै वा॑ज॒पेयः॑ ।
य ए॒वव्ँ वेद॑ ।
अत्यन्न॑म् ।
आऽस्या॑न्ना॒दो जा॑यते ।
ब्रह्म॒ वै वा॑ज॒पेयः॑ ।
य ए॒वव्ँ वेद॑ ।
अत्ति॒ ब्रह्म॒णाऽन्न॑म् ।
आऽस्य॑ ब्र॒ह्मा जा॑यते ॥11॥
वाग्वै वाज॑स्य प्रस॒वः ।
य ए॒वव्ँ वेद॑ ।
क॒रोति॑ वा॒चा वी॒र्य॑म् ।
ऐनव्ँ॑वा॒चा ग॑च्छति ।
अपि॑वतीव्ँ॒वाचव्ँ॑वदति ।
प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् ।
स आ॒त्मन्वा॑ज॒पेय॑मधत्त ।
तन्दे॒वा अ॑ब्रुवन् ।
ए॒ष वाव य॒ज्ञः ।
यद्वा॑ज॒पेयः॑ ॥12॥
अप्ये॒व नोऽत्रा॒स्त्विति॑ ।
तेभ्य॑ ए॒ता उज्जि॑ती॒ᳶ प्राय॑च्छत् ।
ता वा ए॒ता उज्जि॑तयो॒ व्याख्या॑यन्ते ।
य॒ज्ञस्य॑ सर्व॒त्वाय॑ ।
दे॒वता॑ना॒मनि॑र्भागाय ।
दे॒वा वै ब्रह्म॑ण॒श्चान्न॑स्य च॒ शम॑ल॒मपा॑घ्नन् ।
यद्ब्रह्म॑ण॒श्शम॑ल॒मासी॑त् ।
सा गाथा॑ नाराशँ॒स्य॑भवत् ।
यदन्न॑स्य ।
सा सुरा॑ ॥13॥
तस्मा॒द्गाय॑तश्च म॒त्तस्य॑ च॒ न प्र॑ति॒गृह्य॑म् ।
यत्प्र॑तिगृह्णी॒यात् ।
शम॑ल॒म्प्रति॑गृह्णीयात् ।
सर्वा॒ वा ए॒तस्य॒ वाचोऽव॑रुद्धाः ।
यो वा॑जपेयया॒जी ।
या पृ॑थि॒व्याय्ँयाऽग्नौ या र॑थन्त॒रे ।
याऽन्तरि॑क्षे॒ या वा॒यौ या वा॑मदे॒व्ये ।
या दि॒वि याऽऽदि॒त्ये या बृ॑ह॒ति ।
याऽप्सु यौष॑धीषु॒ या वन॒स्पति॑षु ।
तस्मा॑द्वाजपेयया॒ज्यार्त्वि॑जीनः ।
सर्वा॒ ह्य॑स्य॒ वाचोऽव॑रुद्धाः ॥14॥
दे॒वा वै यद॒न्यैर्ग्रहै॑र्य॒ज्ञस्य॒ नावारु॑न्धत ।
तद॑तिग्रा॒ह्यै॑रति॒गृह्यावा॑रुन्धत ।
तद॑तिग्र॒ह्या॑णामतिग्राह्य॒त्वम् ।
यद॑तिग्रा॒ह्या॑ गृ॒ह्यन्ते॑ ।
यदे॒वान्यैर्ग्रहै॑र्य॒ज्ञस्य॒ नाव॑रु॒न्धे ।
तदे॒व तैर॑ति॒गृह्याव॑रुन्धे ।
पञ्च॑ गृह्यन्ते ।
पाङ्क्तो॑ य॒ज्ञः ।
यावा॑ने॒व य॒ज्ञः ।
तमा॒प्त्वाऽव॑रुन्धे ॥15॥
सर्व॑ ऐ॒न्द्रा भ॑वन्ति ।
ए॒क॒धैव यज॑मान इन्द्रि॒यन्द॑धति ।
स॒प्तद॑श प्राजाप॒त्या ग्रहा॑ गृह्यन्ते ।
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।
एक॑य॒र्चा गृ॑ह्णाति ।
ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति ।
सो॒म॒ग्र॒हाँश्च॑ सुराग्र॒हाँश्च॑ गृह्णाति ।
ए॒तद्वै दे॒वाना॑म्पर॒ममन्न॑म् ।
यत्सोमः॑ ॥16॥
ए॒तन्म॑नु॒ष्या॑णाम् ।
यत्सुरा॑ ।
प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑रम॒न्नाद्य॒मव॑रुन्धे ।
सो॒म॒ग्र॒हान्गृ॑ह्णाति ।
ब्रह्म॑णो॒ वा ए॒तत्तेजः॑ ।
यत्सोमः॑ ।
ब्रह्म॑ण ए॒व तेज॑सा॒ तेजो॒ यज॑माने दधाति ।
सु॒रा॒ग्र॒हान्गृ॑ह्णाति ।
अन्न॑स्य॒ वा ए॒तच्छम॑लम् ।
यत्सुरा॑ ॥17॥
अन्न॑स्यै॒व शम॑लेन॒ शम॑लय्ँ॒यज॑माना॒दप॑हन्ति ।
सो॒म॒ग्र॒हाँश्च॑ सुराग्र॒हाँश्च॑ गृह्णाति ।
पुमा॒न्वै सोमः॑ ।
स्त्री सुरा॑ ।
तन्मि॑थु॒नम् ।
मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय ।
आ॒त्मान॑मे॒व सो॑मग्र॒हैस्स्पृ॑णोति ।
जा॒याँ सु॑राग्र॒हैः ।
तस्मा॑द्वाजपेयया॒ज्य॑मुष्मिल्ँ॑ लो॒के स्त्रियँ॒ सम्भ॑वति ।
वा॒ज॒पेया॑भिजितँ॒ ह्य॑स्य ॥18॥
पूर्वे॑ सोमग्र॒हा गृ॑ह्यन्ते ।
अप॑रे सुराग्र॒हाः ।
पु॒रो॒ऽक्षँ सो॑मग्र॒हान्त्सा॑दयति ।
प॒श्चा॒द॒क्षँ सु॑राग्र॒हान् ।
पा॒प॒व॒स्य॒सस्य॒ विधृ॑त्यै ।
ए॒ष वै यज॑मानः ।
यत्सोमः॑ ।
अन्नँ॒ सुरा॑ ।
सो॒म॒ग्र॒हाँश्च॑ सुराग्र॒हाँश्च॒ व्यति॑षजति ।
अ॒न्नाद्ये॑नै॒वैन॒व्व्ँयति॑षजति ॥19॥
स॒म्पृच॑स्स्थ॒ सम्मा॑ भ॒द्रेण॑ पृ॒ङ्क्तेत्या॑ह ।
अन्नव्ँ॒ वै भ॒द्रम् ।
अ॒न्नाद्ये॑नै॒वैनँ॒ सँसृ॑जति ।
अन्न॑स्य॒ वा ए॒तच्छम॑लम् ।
यत्सुरा॑ ।
पा॒प्मेव॒ खलु॒ वै शम॑लम् ।
पा॒प्मना॒ वा ए॑नमे॒तच्छम॑लेन॒ व्यति॑षजति ।
यत्सो॑मग्र॒हाँश्च॑ सुराग्र॒हाँश्च॑ व्यति॒षज॑ति ।
वि॒पृच॑स्स्थ॒ वि मा॑ पा॒प्मना॑ पृ॒ङ्क्तेत्या॑ह ।
पा॒प्मनै॒वैनँ॒ शम॑लेन॒ व्याव॑र्तयति ॥20॥
तस्मा॑द्वाजपेयया॒जी पू॒तो मेध्यो॑ दक्षि॒ण्यः॑ ।
प्राङुद्द्र॑वति सोमग्र॒हैः ।
अ॒मुमे॒व तैर्लो॒कम॒भिज॑यति ।
प्र॒त्यङ्क्सु॑राग्र॒हैः ।
इ॒ममे॒व तैर्लो॒कम॒भिज॑यति ।
प्रति॑ष्ठन्ति सोमग्र॒हैः ।
याव॑दे॒व स॒त्यम् ।
तेन॑ सूयते ।
वा॒ज॒सृद्भ्य॑स्सुराग्र॒हान् ह॑रन्ति ।
अनृ॑तेनै॒व विशँ॒ सँसृ॑जति ।
हि॒र॒ण्य॒पा॒त्रम्मधो॑ᳶपू॒र्णन्द॑दाति ।
म॒ध॒व्यो॑ऽसा॒नीति॑ ।
ए॒क॒धा ब्र॒ह्मण॒ उप॑ हरति ।
ए॒क॒धैव यज॑मान॒ आयु॒स्तेजो॑ दधाति ॥21॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
नाग्नि॑ष्टो॒मो नोक्थ्यः॑ ।
न षो॑ड॒शी नाति॑रा॒त्रः ।
अथ॒ कस्मा॑द्वाज॒पेये॒ सर्वे॑ यज्ञक्र॒तवोऽव॑रुध्यन्त॒ इति॑ ।
प॒शुभि॒रिति॑ ब्रूयात् ।
आ॒ग्ने॒यम्प॒शुमाल॑भते ।
अ॒ग्नि॒ष्टो॒ममे॒व तेनाव॑रुन्धे ।
ऐ॒न्द्रा॒ग्नेनो॒क्थ्य॑म् ।
ऐ॒न्द्रेण॑ षोड॒शिन॑स्स्तो॒त्रम् ।
सा॒र॒स्व॒त्याऽति॑रा॒त्रम् ॥ 22॥
मा॒रु॒त्या बृ॑ह॒तस्स्तो॒त्रम् ।
ए॒ताव॑न्तो॒ वै य॑ज्ञक्र॒तवः॑ ।
तान्प॒शुभि॑रे॒वाव॑रुन्धे ।
आ॒त्मान॑मे॒व स्पृ॑णोत्यग्निष्टो॒मेन॑ ।
प्रा॒णा॒पा॒नावु॒क्थ्ये॑न ।
वी॒र्यँ॑ षोड॒शिन॑स्स्तो॒त्रेण॑ ।
वाच॑मतिरा॒त्रेण॑ ।
प्र॒जाम्बृ॑ह॒तस्स्तो॒त्रेण॑ ।
इ॒ममे॒व लो॒कम॒भिज॑यत्यग्निष्टो॒मेन॑ ।
अ॒न्तरि॑क्षमु॒क्थ्ये॑न ॥23॥
सु॒व॒र्गल्ँ लो॒कँ षो॑ड॒शिन॑स्स्तो॒त्रेण॑ ।
दे॒व॒याना॑ने॒व प॒थ आरो॑हत्यतिरा॒त्रेण॑ ।
नाकँ॑ रोहति बृह॒तस्स्तो॒त्रेण॑ ।
तेज॑ ए॒वात्मन्ध॑त्त आग्ने॒येन॑ प॒शुना॑ ।
ओजो॒ बल॑मैन्द्रा॒ग्नेन॑ ।
इ॒न्द्रि॒यमै॒न्द्रेण॑ ।
वाचँ॑ सारस्व॒त्या ।
उ॒भावे॒व दे॑वलो॒कञ्च॑ मनुष्यलो॒कञ्चा॒भिज॑यति मारु॒त्या व॒शया॑ ।
स॒प्तद॑श प्राजाप॒त्यान्प॒शूनाल॑भते ।
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ॥24॥
प्र॒जाप॑ते॒राप्त्यै॑ ।
श्या॒मा एक॑रूपा भवन्ति ।
ए॒वमि॑व॒ हि प्र॒जाप॑ति॒स्समृ॑द्ध्यै ।
तान्पर्य॑ग्निकृता॒नुत्सृ॑जति ।
म॒रुतो॑ य॒ज्ञम॑जिघाँसन्प्र॒जाप॑तेः ।
तेभ्य॑ ए॒ताम्मा॑रु॒तीव्ँव॒शामाल॑भत ।
तयै॒वैना॑नशमयत् ।
मा॒रु॒त्या प्र॒चर्य॑ ।
ए॒तान्त्संज्ञ॑पयेत् ।
म॒रुत॑ ए॒व श॑मयि॒त्वा ॥25॥
ए॒तैᳶ प्रच॑रति ।
य॒ज्ञस्याघा॑ताय ।
ए॒क॒धा व॒पा जु॑होति ।
ए॒क॒दे॒व॒त्या॑ हि ।
ए॒ते ।
अथो॑ एक॒धैव यज॑माने वी॒र्य॑न्दधाति ।
नै॒वा॒रेण॑ स॒प्तद॑शशरावेणै॒तर्हि॒ प्रच॑रति ।
ए॒तत्पु॑रोडाशा॒ ह्ये॑ते ।
अथो॑ पशू॒नामे॒व छि॒द्रमपि॑दधाति ।
सा॒र॒स्व॒त्योत्त॒मया॒ प्रच॑रति ।
वाग्वै सर॑स्वती ।
तस्मा॑त्प्रा॒णानाव्ँ॒वागु॑त्त॒मा ।
अथो॑ प्र॒जाप॑तावे॒व य॒ज्ञम्प्रति॑ष्ठापयति ।
प्र॒जाप॑ति॒र्हि वाक् ।
अप॑न्नदती भवति ।
तस्मा॑न्मनु॒ष्या॑स्सर्वाव्ँ॒वाचव्ँ॑वदन्ति ॥26॥
सा॒वि॒त्रञ्जु॑होति॒ कर्म॑णᳵकर्मणᳶ पु॒रस्ता॑त् ।
कस्तद्वे॒देत्या॑हुः ।
यद्वा॑ज॒पेय॑स्य॒ पूर्वय्ँ॒यदप॑र॒मिति॑ ।
स॒वि॒तृप्र॑सूत ए॒व य॑थापू॒र्वङ्कर्मा॑णि करोति ।
सव॑नेसवने जुहोति ।
आ॒क्रम॑णमे॒व तत्सेतुय्ँ॒यज॑मानᳵ कुरुते ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति न॒ इत्या॑ह ।
वाग्वै दे॒वाना॑म्पु॒राऽन्न॑मासीत् ।
वाच॑मे॒वास्मा॒ अन्नँ॑ स्वदयति ॥27॥
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै ।
वाज॑स्य॒ नु प्र॑स॒वे मा॒तर॑म्म॒हीमित्या॑ह ।
यच्चै॒वेयम् ।
यच्चा॒स्यामधि॑ ।
तदे॒वाव॑रुन्धे ।
अथो॒ तस्मि॑न्ने॒वोभये॒ऽभिषि॑च्यते ।
अ॒प्स्व॑न्तर॒मृत॑म॒प्सु भे॑ष॒जमित्यश्वा॑न्पल्पूलयति ।
अ॒प्सु वा अश्व॑स्य॒ तृती॑य॒म्प्रवि॑ष्टम् ।
तद॑नु॒वेन॒न्वव॑प्लवते ।
यद॒प्सु प॑ल्पू॒लय॑ति ॥28॥
यदे॒वास्या॒प्सु प्रवि॑ष्टम् ।
तदे॒वाव॑रुन्धे ।
ब॒हु वा अश्वो॑ऽमे॒ध्यमुप॑गच्छति ।
यद॒प्सु प॑ल्पू॒लय॑ति ।
मेध्या॑ने॒वैना॑न्करोति ।
वा॒युर्वा॑ त्वा॒ मनु॑र्वा॒ त्वेत्या॑ह ।
ए॒ता वा ए॒तन्दे॒वता॒ अग्रे॒ अश्व॑मयुञ्जन् ।
ताभि॑रे॒वैना॑न्युनक्ति ।
स॒वस्योज्जि॑त्यै ।
यजु॑षा युनक्ति॒ व्यावृ॑त्त्यै ॥29॥
अपा॑न्नपादाशुहेम॒न्निति॒ सम्मा॑र्ष्टि ।
मेध्या॑ने॒वैना॑न्करोति ।
अथो॒ स्तौत्ये॒वैना॑ना॒जिँ स॑रिष्य॒तः ।
वि॒ष्णु॒क्र॒मान्क्र॑मते ।
विष्णु॑रे॒व भू॒त्वेमाल्ँ लो॒कान॒भिज॑यति ।
वै॒श्व॒दे॒वो वै रथः॑ ।
अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथय्ँ॒यावित्या॑ह ।
या ए॒व दे॒वता॒ रथे॒ प्रवि॑ष्टाः ।
ताभ्य॑ ए॒व नम॑स्करोति ।
आ॒त्मनोऽना॑र्त्यै ।
अश॑मरथम्भावुकोऽस्य॒ रथो॑ भवति ।
य ए॒वव्ँ वेद॑ ॥30॥
दे॒वस्या॒हँ स॑वि॒तुᳶ प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाज॑ञ्जेष॒मित्या॑ह ।
स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वाज॒मुज्ज॑यति ।
दे॒वस्या॒हँ स॑वि॒तुᳶ प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर्षि॑ष्ठ॒न्नाकँ॑ रुहेय॒मित्या॑ह ।
स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वर्षि॑ष्ठ॒न्नाकँ॑ रोहति ।
चात्वा॑ले रथच॒क्रन्निमि॑तँ रोहति ।
अतो॒ वा अङ्गि॑रस उत्त॒मास्सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
सा॒क्षादे॒व यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति ।
आवे॑ष्टयति ।
वज्रो॒ वै रथः॑ ।
वज्रे॑णै॒व दिशो॒ऽभिज॑यति ॥31॥
वा॒जिनाँ॒ साम॑ गायते ।
अन्नव्ँ॒ वै वाजः॑ ।
अन्न॑मे॒वाव॑रुन्धे ।
वा॒चो वर्ष्म॑ दे॒वेभ्योऽपा॑क्रामत् ।
तद्वन॒स्पती॒न्प्रावि॑शत् ।
सैषा वाग्वन॒स्पति॑षु वदति ।
या दु॑न्दु॒भौ ।
तस्मा॑द्दुन्दु॒भिस्सर्वा॒ वाचोऽति॑वदति ।
दु॒न्दु॒भीन्त्स॒माघ्न॑न्ति ।
प॒र॒मा वा ए॒षा वाक् ॥32॥
या दु॑न्दु॒भौ ।
प॒र॒मयै॒व वा॒चाऽव॑राव्ँ॒वाच॒म॑वरुन्धे ।
अथो॑ वा॒च ए॒व वर्ष्म॒ यज॑मा॒नोऽव॑रुन्धे ।
इन्द्रा॑य॒ वाचव्ँ॑वद॒तेन्द्रव्ँ॒वाज॑ञ्जापय॒तेन्द्रो॒ वाज॑मजयि॒दित्या॑ह ।
ए॒ष वा ए॒तर्हीन्द्रः॑ ।
यो यज॑ते ।
यज॑मान ए॒व वाज॒मुज्ज॑यति ।
स॒प्तद॑श प्रव्या॒धाना॒जिन्धा॑वन्ति ।
स॒प्त॒द॒शँ स्तो॒त्रम्भ॑वति ।
स॒प्तद॑शसप्तदश दीयन्ते ॥33॥
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ।
प्र॒जा॑पते॒राप्त्यै॑ ।
अर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह ।
अ॒ग्निर्वा अर्वा॑ ।
वा॒युस्सप्तिः॑ ।
आ॒दि॒त्यो वा॒जी ।
ए॒ताभि॑रे॒वास्मै॑ दे॒वता॑भिर्देवर॒थय्ँयु॑नक्ति ।
प्र॒ष्टि॒वा॒हिनय्ँ॑युनक्ति ।
प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः ।
दे॒व॒र॒थमे॒वास्मै॑ युनक्ति ॥34॥
वाजि॑नो॒ वाज॑न्धावत॒ काष्ठा॑ङ्गच्छ॒तेत्या॑ह ।
सु॒व॒र्गो वै लो॒कᳵ काष्ठा॑ ।
सु॒व॒र्गमे॒व लो॒कय्ँय॑न्ति ।
सु॒व॒र्गव्ँवा ए॒ते लो॒कय्ँय॑न्ति ।
य आ॒जिन्धाव॑न्ति ।
प्राञ्चो॑ धावन्ति ।
प्राङि॑व॒ हि सु॑व॒र्गो लो॒कः ।
च॒त॒सृभि॒रनु॑ मन्त्रयते ।
च॒त्वारि॒ छन्दाँ॑सि ।
छन्दो॑भिरे॒वैना॑न्त्सुव॒र्गल्ँ लो॒कङ्ग॑मयति ॥35॥
प्र वा ए॒ते॑ऽस्माल्लो॒काच्च्य॑वन्ते ।
य आ॒जिन्धाव॑न्ति ।
उद॑ञ्च॒ आव॑र्तन्ते ।
अ॒स्मादे॒व तेन॑ लो॒कान्नय॑न्ति ।
र॒थ॒वि॒मो॒च॒नीय॑ञ्जुहोति॒ प्रति॑ष्ठित्त्यै ।
आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दित्या॑ह ।
अन्नव्ँ॒ वै वाजः॑ ।
अन्न॑मे॒वाव॑रुन्धे ।
य॒था॒लो॒कव्ँवा ए॒त उज्ज॑यन्ति ।
य आ॒जिन्धाव॑न्ति ॥36॥
कृ॒ष्णल॑ङ्कृष्णलव्ँवाज॒सृद्भ्य॒ᳶ प्रय॑च्छति ।
यमे॒व ते वाजल्ँ॑ लो॒कमु॒ज्जय॑न्ति ।
तम्प॑रि॒क्रीयाव॑रुन्धे ।
ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति ।
ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति ।
दे॒वा वा ओष॑धीष्वा॒जिम॑युः ।
ता बृह॒स्पति॒रुद॑जयत् ।
स नी॒वारा॒न्निर॑वृणीत ।
तन्नी॒वारा॑णान्नीवार॒त्वम् ।
नै॒वा॒रश्च॒रुर्भ॑वति ॥37 ॥
ए॒तद्वै दे॒वाना॑म्पर॒ममन्न॑म् ।
यन्नी॒वाराः॑ ।
प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑रम॒न्नाद्य॒मव॑रुन्धे ।
स॒प्तद॑शशरावो भवति ।
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्ये॑ ।
क्षी॒रे भ॑वति ।
रुच॑मे॒वास्मि॑न्दधाति ।
स॒र्पिष्वा॑न्भवति मेध्य॒त्वाय॑ ।
बा॒र्ह॒स्प॒त्यो वा ए॒ष दे॒वत॑या ॥38॥
यो वा॑ज॒पेये॑न॒ यज॑ते ।
बा॒र्ह॒स्प॒त्य ए॒ष च॒रुः ।
अश्वा॑न्त्सरिष्य॒तस्स॒स्रुष॒श्चाव॑ घ्रापयति ।
यमे॒व ते वाजल्ँ॑ लो॒कमु॒ज्जय॑न्ति ।
तमे॒वाव॑रुन्धे ।
अजी॑जिपत वनस्पतय॒ इन्द्रव्ँ॒वाजव्ँ॒विमु॑च्यध्व॒मिति॑ दुन्दु॒भीन् विमु॑ञ्चति ।
यमे॒व ते वाजल्ँ॑ लो॒कमि॑न्द्रि॒यन्दु॑न्दु॒भय॑ उ॒ज्जय॑न्ति ।
तमे॒वाव॑रुन्धे ॥39॥
ता॒र्प्यय्ँयज॑मान॒म्परि॑धापयति ।
य॒ज्ञो वै ता॒र्प्यम् ।
य॒ज्ञेनै॒वैनँ॒ सम॑र्धयति ।
द॒र्भ॒मय॒म्परि॑धापयति ।
प॒वित्रव्ँ॒ वै द॒र्भाः ।
पु॒नात्ये॒वैन॑म् ।
वाजव्ँ॒वा ए॒षोऽव॑रुरुत्सते ।
यो वा॑ज॒पये॑न॒ यज॑ते ।
ओष॑धय॒ᳵ खलु॒ वै वाजः॑ ।
यद्द॑र्भ॒मय॑म्परिधा॒पय॑ति ॥40॥
वाज॒स्याव॑रुद्ध्यै ।
जाय॒ एहि॒ सुवो॒ रोहा॒वेत्या॑ह ।
पत्नि॑या ए॒वैष य॒ज्ञस्या॑न्वार॒म्भोऽन॑वच्छित्त्यै ।
स॒प्तद॑शारत्नि॒र्यूपो॑ भवति ।
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।
तू॒प॒रश्चतु॑रश्रिर्भवति ।
गौ॒धू॒मञ्च॒षाल॑म् ।
न वा ए॒ते व्री॒हयो॒ न यवाः॑ ।
यद्गो॒धूमाः॑ ॥41॥
ए॒वमि॑व॒ हि प्र॒जाप॑ति॒स्समृ॑द्ध्यै ।
अथो॑ अ॒मुमे॒वास्मै॑ लो॒कमन्न॑वन्तङ्करोति ।
वासो॑भिर्वेष्टयति ।
ए॒ष वै यज॑मानः ।
यद्यूपः॑ ।
स॒र्व॒दे॒व॒त्यव्ँ॑वासः॑ ।
सर्वा॑भिरे॒वैन॑न्दे॒वता॑भि॒स्सम॑र्धयति ।
अथो॑ आ॒क्रम॑णमे॒व तत्सेतुय्ँ॒यज॑मानᳵ कुरुते ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
द्वाद॑श वाजप्रस॒वीया॑नि जुहोति ॥42॥
द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रमे॒व प्री॑णाति ।
अथो॑ सव्ँवत्स॒रमे॒वास्मा॒ उप॑दधाति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
द॒शभि॒ᳵ कल्पै॑ रोहति ।
नव॒ वै पुरु॑षे प्रा॒णाः ।
नाभि॑र्दश॒मी ।
प्रा॒णाने॒व य॑थास्था॒नङ्क॑ल्पयि॒त्वा ।
सु॒व॒र्गल्ँ लो॒कमे॑ति ।
ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम् ॥43 ॥
याव॑त्प्रा॒णाः ।
याव॑दे॒वास्यास्ति॑ ।
तेन॑ स॒ह सु॑व॒र्गल्ँ लो॒कमे॑ति ।
सुव॑र्दे॒वाँ अ॑ग॒न्मेत्या॑ह ।
सु॒व॒र्गमे॒व लो॒कमे॑ति ।
अ॒मृता॑ अभू॒मेत्या॑ह ।
अ॒मृत॑मिव॒ हि सु॑व॒र्गो लो॒कः ।
प्र॒जाप॑तेᳶ प्र॒जा अ॑भू॒मेत्या॑ह ।
प्रा॒जा॒प॒त्यो वा अ॒यल्ँ लो॒कः ।
अ॒स्मादे॒व तेन॑ लो॒कान्नैति॑ ॥44॥
सम॒हम्प्र॒जया॒ सम्मया॑ प्र॒जेत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
आ॒स॒पु॒टैर्घ्न॑न्ति ।
अन्नव्ँ॒वा इ॒यम् ।
अ॒न्नाद्ये॑नै॒वैनँ॒ सम॑र्धयन्ति ।
ऊषै॑र्घ्नन्ति ।
ए॒ते हि सा॒क्षादन्न॑म् ।
यदूषाः॑ ।
सा॒क्षादे॒वैन॑म॒न्नाद्ये॑न॒ सम॑र्धयन्ति ।
पु॒रस्ता॑त्प्र॒त्यञ्चं॑ घ्नन्ति ॥45॥
पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते॑ ।
शी॒र्ष॒तो घ्न॑न्ति ।
शी॒र्ष॒तो ह्यन्न॑म॒द्यते॑ ।
दि॒ग्भ्यो घ्न॑न्ति ।
दि॒ग्भ्य ए॒वास्मा॑ अ॒न्नाद्य॒मव॑रुन्धते ।
ई॒श्व॒रो वा ए॒ष परा॑ङ्प्र॒दघः॑ ।
यो यूपँ॒ रोह॑ति ।
हिर॑ण्यम॒ध्यव॑रोहति ।
अ॒मृतव्ँ॒ वै हिर॑ण्यम् ।
अ॒मृतँ॑ सुव॒र्गो लो॒कः ॥46॥
अ॒मृत॑ ए॒व सु॑व॒र्गे लो॒के प्रति॑तिष्ठति ।
श॒तमा॑नम्भवति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।
पुष्ट्यै॒ वा ए॒तद्रू॒पम् ।
यद॒जा ।
त्रिस्सव्ँ॑वत्स॒रस्या॒न्यान्प॒शून्परि॒ प्रजा॑यते ।
ब॒स्ता॒जि॒नम॒ध्यव॑ रोहति ।
पुष्ट्या॑मे॒व प्र॒जन॑ने॒ प्रति॑तिष्ठति ॥47॥
स॒प्तान्न॑हो॒माञ्जु॑होति ।
स॒प्त वा अन्ना॑नि ।
याव॑न्त्ये॒वान्ना॑नि ।
तान्ये॒वाव॑रुन्धे ।
स॒प्त ग्रा॒म्या ओष॑धयः ।
स॒प्तार॒ण्याः ।
उ॒भयी॑षा॒मव॑रुद्ध्यै ।
अन्न॑स्यान्नस्य जुहोति ।
अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ।
यद्वा॑जपेयया॒ज्यन॑वरुद्धस्याश्ञी॒यात् ॥48॥
अव॑रुद्धेन॒ व्यृ॑द्ध्येत ।
सर्व॑स्य समव॒दाय॑ जुहोति ।
अन॑वरुद्ध॒स्याव॑रुद्ध्यै ।
औदु॑म्बरेण स्रु॒वेण॑ जुहोति ।
ऊर्ग्वा अन्न॑मुदु॒म्बरः॑ ।
ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै ।
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्या॑ह ।
स॒वि॒तृप्र॑सूत ए॒वैन॒म्ब्रह्म॑णा दे॒वता॑भिर॒भिषि॑ञ्चति ।
अन्न॑स्यान्नस्या॒भिषि॑ञ्चति ।
अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ॥49॥
पु॒रस्ता॑त्प्र॒त्यञ्च॑म॒भिषि॑ञ्चति ।
पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते॑ ।
शी॒र्ष॒तो॑ऽभिषि॑ञ्चति ।
शी॒र्ष॒तो ह्यन्न॑म॒द्यते॑ ।
आ मुखा॑द॒न्वव॑स्रावयति ।
मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्य॑न्दधाति ।
अ॒ग्नेस्त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह ।
ए॒ष वा अ॒ग्नेस्स॒वः ।
तेनै॒वैन॑म॒भिषि॑ञ्चति ।
इन्द्र॑स्य त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह ॥50॥
इ॒न्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति ।
बृह॒स्पते॑स्त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒वैन॑म॒भिषि॑ञ्चति ।
सो॒म॒ग्र॒हाँश्चा॑वदानी॒यानि॑ च॒र्त्विग्भ्य॒ उप॑हरन्ति ।
अ॒मुमे॒व तैर्लो॒कमन्न॑वन्तङ्करोति ।
सु॒रा॒ग्र॒हाँश्चा॑नवदानी॒यानि॑ च वाज॒सृद्भ्यः॑ ।
इ॒ममे॒व तैर्लो॒कमन्न॑वन्तङ्करोति ।
अथो॑ उ॒भयी॑ष्वे॒वाभिषि॑च्यते ।
वि॒मा॒थङ्कु॑र्वते वाज॒सृतः॑ ॥51॥
इ॒न्द्रि॒यस्याव॑रुद्ध्यै ।
अनि॑रुक्ताभिᳶ प्रातस्सव॒ने स्तु॑वते ।
अनि॑रुक्तᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।
वाज॑वतीभि॒र्माध्य॑न्दिने ।
अन्नव्ँ॒ वै वाजः॑ ।
अन्न॑मे॒वाव॑रुन्धे ।
शि॒पि॒वि॒ष्टव॑तीभिस्तृतीयसव॒ने ।
य॒ज्ञो वै विष्णुः॑ ।
प॒शव॒श्शिपिः॑ ।
य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति ।
बृ॒हदन्त्य॑म्भवति ।
अन्त॑मे॒वैनँ॑ श्रि॒यै ग॑मयति ॥52॥
नृ॒षद॒न्त्वेत्या॑ह ।
प्र॒जा वै नॄन् ।
प्र॒जाना॑मे॒वैतेन॑ सूयते ।
द्रु॒षद॒मित्या॑ह ।
वन॒स्पत॑यो॒ वै द्रु ।
वन॒स्पती॑नामे॒वैतेन॑ सूयते ।
भु॒व॒न॒सद॒मित्या॑ह ।
य॒दा वै वसी॑या॒न्भव॑ति ।
भुव॑नमग॒न्निति॒ वै तमा॑हुः ।
भुव॑नमे॒वैतेन॑ गच्छति ॥ 53 ॥
अ॒प्सु॒षद॑न्त्वा घृत॒सद॒मित्या॑ह ।
अ॒पामे॒वैतेन॑ घृ॒तस्य॑ सूयते ।
व्यो॒म॒सद॒मित्या॑ह ।
य॒दा वै वसी॑या॒न्भव॑ति ।
व्यो॑माग॒न्निति॒ वै तमा॑हुः ।
व्यो॑मै॒वैते॑न गच्छति ।
पृ॒थि॒वि॒षद॑न्त्वाऽन्तरिक्ष॒सद॒मित्या॑ह ।
ए॒षामे॒वैतेन॑ लो॒कानाँ॑ सूयते ।
तस्मा॑द्वाजपेयया॒जी न कञ्च॒न प्र॒त्यव॑रोहति ।
अपी॑व॒ हि दे॒वता॑नाँ सू॒यते॑ ॥ 54 ॥
ना॒क॒सद॒मित्या॑ह ।
य॒दा वै वसी॑या॒न्भव॑ति ।
नाक॑मग॒न्निति॒ वै तमा॑हुः ।
नाक॑मे॒वैतेन॑ गच्छति ।
ये ग्रहा॑ᳶ पञ्चज॒नीना॒ इत्या॑ह ।
प॒ञ्च॒ज॒नाना॑मे॒वैतेन॑ सूयते ।
अ॒पाँ रस॒मुद्व॑यस॒मित्या॑ह ।
अ॒पामे॒वैतेन॒ रस॑स्य सूयते ।
सूर्य॑रश्मिँ स॒माभृ॑त॒मित्या॑ह सशुक्र॒त्वाय॑ ॥ 55 ॥
इन्द्रो॑ वृ॒त्रँ ह॒त्वा ।
असु॑रान्परा॒भाव्य॑ ।
सो॑ऽमावा॒स्या॑म्प्रत्याग॑च्छत् ।
ते पि॒तर॑ᳶ पूर्वे॒द्युराग॑च्छन् ।
पि॒तॄन् य॒ज्ञो॑ऽगच्छत् ।
तन्दे॒वाᳶ पुन॑रयाचन्त ।
तमे॑भ्यो॒ न पुन॑रददुः ।
ते॑ऽब्रुव॒न्वरव्ँ॑वृणामहै ।
अथ॑ व॒ᳶ पुन॑र्दास्यामः ।
अ॒स्मभ्य॑मे॒व पू॑र्वे॒द्युᳵ क्रि॑याता॒ इति॑ ॥ 56 ॥
तमे॑भ्य॒ᳶ पुन॑रददुः ।
तस्मा॑त्पि॒तृभ्य॑ᳶ पूर्वे॒द्युᳵ क्रि॑यते ।
यत्पि॒तृभ्य॑ᳶ पूर्वे॒द्युᳵ क॒रोति॑ ।
पि॒तृभ्य॑ ए॒व तद्य॒ज्ञन्नि॒ष्क्रीय॒ यज॑मान॒ᳶ प्रत॑नुते ।
सोमा॑य पि॒तृपी॑ताय स्व॒धा नम॒ इत्या॑ह ।
पि॒तुरे॒वाधि॑ सोमपी॒थमव॑रुन्धे ।
न हि पि॒ता प्र॒मीय॑माण॒ आहै॒ष सो॑मपी॒थ इति॑ ।
इ॒न्द्रि॒यव्ँ वै सो॑मपी॒थः ।
इ॒न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्धे ।
तेने॑न्द्रि॒येण॑ द्वि॒तीया॑ञ्जा॒याम॒भ्य॑श्ञुते ॥ 57 ॥
ए॒तद्वै ब्राह्म॑णम्पु॒रा वा॑जवश्रव॒सा वि॒दाम॑क्रन् ।
तस्मा॒त्ते द्वेद्वे॑ जा॒ये अ॒भ्या॑क्षत ।
य ए॒वव्ँ वेद॑ ।
अ॒भि द्वि॒तीया॑ञ्जा॒याम॑श्ञुते ।
अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा नम॒ इत्या॑ह ।
य ए॒व पि॑तृ॒णाम॒ग्निः ।
तम्प्री॑णाति ।
ति॒स्र आहु॑तीर्जुहोति ।
त्रिर्निद॑धाति ।
षट्त्सम्प॑द्यन्ते ॥ 58 ॥
षड्वा ऋ॒तवः॑ ।
ऋ॒तूने॒व प्री॑णाति ।
तू॒ष्णीम्मेक्ष॑ण॒माद॑धाति ।
अस्ति॑ वा॒ हि ष॒ष्ठ ऋ॒तुर्न वा॑ ।
दे॒वान् वै पि॒तॄन्प्री॒तान् ।
म॒नु॒ष्या॑ᳶ पि॒तरोऽनु॒ प्रपि॑पते ।
ति॒स्र आहु॑तीर्जुहोति ।
त्रिर्निद॑धाति ।
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ॥ 59 ॥
ऋ॒तव॒ᳵ खलु॒ वै दे॒वाᳶ पि॒तरः॑ ।
ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति ।
तान्प्री॒तान् ।
म॒नु॒ष्या॑ᳶ पि॒तरोऽनु॒ प्रपि॑पते ।
स॒कृ॒दा॒च्छि॒न्नम्ब॒र्हिर्भ॑वति ।
स॒कृदि॑व॒ हि पि॒तरः॑ ।
त्रिर्निद॑धाति ।
तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ ।
ताने॒व प्री॑णाति ।
परा॒ङाव॑र्तते ॥ 60 ॥
ह्लीका॒ हि पि॒तरः॑ ।
ओष्मणो॑ व्या॒वृत॒ उपा॑स्ते ।
ऊ॒ष्मभा॑गा॒ हि पि॒तरः॑ ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
प्राश्या (3) न्न प्राश्या (3) मिति॑ ।
यत्प्रा॑श्ञी॒यात् ।
जन्य॒मन्न॑मद्यात् ।
प्र॒मायु॑कस्स्यात् ।
यन्न प्रा॑श्ञी॒यात् ।
अह॑विस्स्यात् ॥ 61 ॥
पि॒तृभ्य॒ आवृ॑श्च्येत ।
अ॒व॒घ्रेय॑मे॒व ।
तन्नेव॒ प्राशि॑त॒न्नेवाप्रा॑शितम् ।
वी॒रव्ँवा॒ वै पि॒तर॑ᳶ प्र॒यन्तो॒ हर॑न्ति ।
वी॒रव्ँवा॑ ददति ।
द॒शाञ्छि॑नत्ति ।
हर॑णभागा॒ हि पि॒तरः॑ ।
पि॒तॄने॒व नि॒रव॑दयते ।
उत्त॑र॒ आयु॑षि॒ लोम॑ छिन्दीत ।
पि॒तृ॒णाँ ह्ये॑तर्हि॒ नेदी॑यः ॥ 62 ॥
नम॑स्करोति ।
न॒म॒स्का॒रो हि पि॑तृ॒णाम् ।
नमो॑ वᳶ पितरो॒ रसा॑य ।
नमो॑ वᳶ पितर॒श्शुष्मा॑य ।
नमो॑ वᳶ पितरो जी॒वाय॑ ।
नमो॑ वᳶ पितरस्स्व॒धायै॑ ।
नमो॑ वᳶ पितरो म॒न्यवे॑ ।
नमो॑ वᳶ पितरो घो॒राय॑ ।
पित॑रो॒ नमो॑ वः ।
य ए॒तस्मिल्ँ॑ लो॒के स्थ ॥ 63 ॥
यु॒ष्माँस्तेऽनु॑ ।
ये॑ऽस्मिल्ँ लो॒के ।
मान्तेऽनु॑ ।
य ए॒तस्मिल्ँ॑ लो॒के स्थ ।
यू॒यन्तेषाव्ँ॒वसि॑ष्ठा भूयास्त ।
ये॑ऽस्मिल्ँ लो॒के ।
अ॒हन्तेषाव्ँ॒वसि॑ष्ठो भूयास॒मित्या॑ह ।
वसि॑ष्ठस्समा॒नाना॑म्भवति ।
य ए॒वव्ँवि॒द्वान्पि॒तृभ्य॑ᳵ क॒रोति॑ ।
ए॒ष वै म॑नु॒ष्या॑णाय्ँ य॒ज्ञः ॥ 64 ॥
दे॒वानाव्ँ॒वा इत॑रे य॒ज्ञाः ।
तेन॒ वा ए॒तत्पि॑तृलो॒के च॑रति ।
यत्पि॒तृभ्य॑ᳵ क॒रोति॑ ।
स ई॑श्व॒रᳶ प्रमे॑तोः ।
प्रा॒जा॒प॒त्यय॒र्चा पुन॒रैति॑ ।
य॒ज्ञो वै प्र॒जाप॑तिः ।
य॒ज्ञेनै॒व स॒ह पुन॒रैति॑ ।
न प्र॒मायु॑को भवति ।
पि॒तृ॒लो॒के वा ए॒तद्यज॑मानश्चरति ।
यत्पि॒तृभ्य॑ᳵ क॒रोति॑ ।
स ई॑श्व॒र आर्ति॒मार्तोः॑ ।
प्र॒जाप॑ति॒स्त्वावैन॒न्तत॒ उन्ने॑तुमर्ह॒तीत्या॑हुः ।
यत्प्रा॑जाप॒त्यय॒र्चा पुन॒रैति॑ ।
प्र॒जाप॑तिरे॒वैन॒न्तत॒ उन्न॑यति ।
नार्ति॒मार्च्छ॑ति॒ यज॑मानः ॥ 65 ॥
उ॒भये॒ वा ए॒ते प्र॒जाप॑ते॒रध्य॑सृज्यन्त ।
दे॒वाश्चासु॑राश्च ।
तान्न व्य॑जानात् ।
इ॒मे॑ऽन्य इ॒मे॑ऽन्य इति॑ ।
स दे॒वानँ॒शून॑करोत् ।
तान॒भ्य॑षुणोत् ।
तान्प॒वित्रे॑णापुनात् ।
तान्प॒रस्ता॑त्प॒वित्र॑स्य॒ व्य॑गृह्णात् ।
ते ग्रहा॑ अभवन् ।
तद्ग्रहा॑णाङ्ग्रह॒त्वम् ॥1॥
दे॒वता॒ वा ए॒ता यज॑मानस्य गृ॒हे गृ॑ह्यन्ते ।
यद्ग्रहाः॑ ।
वि॒दुरे॑नन्दे॒वाः ।
यस्यै॒वव्ँवि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते॑ ।
ए॒षा वै सोम॒स्याहु॑तिः ।
यदु॑पाँ॒शुः ।
सोमे॑न दे॒वाँस्त॑र्पया॒णीति॒ खलु॒ वै सोमे॑न यजते ।
यदु॑पाँ॒शुञ्जु॒होति॑ ।
सोमे॑नै॒व तद्दे॒वाँस्त॑र्पयति ।
यद्ग्रहा॑ञ्जु॒होति॑ ॥2॥
दे॒वा ए॒व तद्दे॒वान्ग॑च्छन्ति ।
यच्च॑म॒साञ्जु॒होति॑ ।
तेनै॒वानु॑रूपेण॒ यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति ।
किन्न्वे॑तदग्र॑ आसी॒दित्या॑हुः ।
यत्पात्रा॒णीति॑ ।
इ॒यव्ँवा ए॒तदग्र॑ आसीत् ।
मृ॒न्मया॑नि॒ वा ए॒तान्या॑सन् ।
तैर्दे॒वा न व्या॒वृत॑मगच्छन् ।
त ए॒तानि॑ दारु॒मया॑णि॒ पात्रा॑ण्यपश्यन् ।
तान्य॑कुर्वत ॥3॥
तैर्वै ते व्या॒वृत॑मगच्छन् ।
यद्दा॑रु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति ।
व्या॒वृत॑मे॒व तैर्यज॑मानो गच्छति ।
यानि॑ दारु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति ।
अ॒मुमे॒व तैर्लो॒कम॒भिज॑यति ।
यानि॑ मृ॒न्मया॑नि ।
इ॒ममे॒व तैर्लो॒कम॒भिज॑यति ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
काश्चत॑स्रस्स्था॒लीर्वा॑य॒व्या॑स्सोम॒ग्रह॑णी॒रिति॑ ।
दे॒वा वै पृश्ञि॑मदुह्रन्न् ॥4॥
तस्या॑ ए॒ते स्तना॑ आसन् ।
इ॒यव्ँ वै पृश्ञिः॑ ।
तामा॑दि॒त्या आ॑दित्यस्था॒ल्या चतु॑ष्पदᳶ प॒शून॑दुह्रन् ।
यदा॑दित्यस्था॒ली भव॑ति ।
चतु॑ष्पद ए॒व तया॑ प॒शून् यज॑मान इ॒मान्दु॑हे ।
तामिन्द्र॑ उक्थ्यस्था॒ल्येन्द्रि॒यम॑दुहत् ।
यदु॑क्थ्यस्था॒ली भव॑ति ।
इ॒न्द्रि॒यमे॒व तया॒ यज॑मान इ॒मान्दु॑हे ।
ताव्ँविश्वे॑ दे॒वा आ॑ग्रयणस्था॒ल्योर्ज॑मदुह्रन् ।
यदा॑ग्रयणस्था॒ली भव॑ति ॥5॥
ऊर्ज॑मे॒व तया॒ यज॑मान इ॒मान्दु॑हे ।
ताम्म॑नु॒ष्या॑ ध्रुवस्था॒ल्याऽऽयु॑रदुह्रन् ।
यद्ध्रु॑वस्था॒ली भव॑ति ।
आयु॑रे॒व तया॒ यज॑मान इ॒मान्दु॑हे ।
स्था॒ल्या गृ॒ह्णाति॑ ।
वा॒य॒व्ये॑न जुहोति ।
तस्मा॑द॒न्येन॒ पात्रे॑ण प॒शून्दु॒हन्ति॑ ।
अ॒न्येन॒ प्रति॑गृह्णन्ति ।
अथो॑ व्या॒वृत॑मे॒व तद्यज॑मानो गच्छति ॥6॥
यु॒वँ सु॒राम॑मश्विना ।
नमु॑चावासु॒रे सचा॑ ।
वि॒पि॒पा॒ना शु॑भस्पती ।
इन्द्र॒ङ्कर्म॑स्वावतम् ।
पु॒त्त्रमि॑व पि॒तरा॑व॒श्विनो॒भा ।
इन्द्राव॑त॒ङ्कर्म॑णा दँ॒सना॑भिः ।
यत्सु॒राम॒व्व्ँयपि॑ब॒श्शची॑भिः ।
सर॑स्वती त्वा मघवन्नभीष्णात् ।
अहा॑व्यग्ने ह॒विरा॒स्ये॑ते ।
स्रु॒चीव॑ घृ॒तञ्च॒मू इ॑व॒ सोमः॑ ॥7॥
वा॒ज॒सनिँ॑ र॒यिम॒स्मे सु॒वीर॑म् ।
प्र॒श॒स्तन्धे॑हि य॒शस॑म्बृ॒हन्त॑म् ।
यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणः॑ ।
व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः ।
की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ ।
हृ॒दा म॒तिञ्ज॑नय॒ चारु॑म॒ग्नये॑ ।
नाना॒ हि वा॑न्दे॒वहि॑तँ॒ सदो॑ मि॒तम् ।
मा सँसृ॑क्षाथाम्पर॒मे व्यो॑मन् ।
सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः ।
मा मा॑ हिँसी॒स्स्वाय्ँयोनि॑मावि॒शन्न् ॥8॥
यदत्र॑ शि॒ष्टँ र॒सिन॑स्सु॒तस्य॑ ।
यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः ।
अ॒हन्तद॑स्य॒ मन॑सा शि॒वेन॑ ।
सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ।
द्वे स्रु॒ती अ॑शृणवम्पितृ॒णाम् ।
अ॒हन्दे॒वाना॑मु॒त मर्त्या॑नाम् ।
ताभ्या॑मि॒दव्ँविश्व॒म्भुव॑नँ॒ समे॑ति ।
अ॒न्त॒रा पूर्व॒मप॑रञ्च के॒तुम् ।
यस्ते॑ देव वरुण गाय॒त्रछ॑न्दा॒ᳶ पाशः॑ ।
तन्त॑ ए॒तेनाव॑यजे ॥9॥
यस्ते॑ देव वरुण त्रि॒ष्टुप्छ॑न्दा॒ᳶ पाशः॑ ।
तन्त॑ ए॒तेनाव॑यजे ।
यस्ते॑ देव वरुण॒ जग॑तीछन्दा॒ᳶ पाशः॑ ।
तन्त॑ ए॒तेनाव॑यजे ।
सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते ।
यो राजा॒ सन्रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते ।
दे॒व॒सु॒वामे॒तानि॑ ह॒वीँषि॑ भवन्ति ।
ए॒ताव॑न्तो॒ वै दे॒वानाँ॑ स॒वाः ।
त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति ।
त ए॑न॒म्पुन॑स्सुवन्ते रा॒ज्याय॑ ।
दे॒व॒सू राजा॑ भवति ॥10॥
उद॑स्थाद्दे॒व्यदि॑तिर्विश्वरू॒पी ।
आयु॑र्य॒ज्ञप॑तावधात् ।
इन्द्रा॑य कृण्व॒ती भा॒गम् ।
मि॒त्राय॒ वरु॑णाय च ।
इ॒यव्ँ वा अ॑ग्निहो॒त्री ।
इ॒यव्ँवा ए॒तस्य॒ निषी॑दति ।
यस्या॑ग्निहो॒त्री नि॒षीद॑ति ।
तामुत्था॑पयेत् ।
उद॑स्थाद्दे॒व्यदि॑ति॒रिति॑ ।
इ॒यव्ँ वै दे॒व्यदि॑तिः ॥11॥
इ॒मामे॒वास्मा॒ उत्था॑पयति ।
आयु॑र्य॒ज्ञप॑तावधा॒दित्या॑ह ।
आयु॑रे॒वास्मि॑न्दधाति ।
इन्द्रा॑य कृण्व॒ती भा॒गम्मि॒त्राय॒ वरु॑णाय॒ चेत्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
अव॑र्तिव्ँ॒वा ए॒षैतस्य॑ पा॒प्मान॑म्प्रति॒ख्याय॒ निषी॑दति ।
यस्या॑ग्निहो॒त्र्युप॑सृष्टा नि॒षीद॑ति ।
तान्दु॒ग्ध्वा ब्रा॑ह्म॒णाय॑ दद्यात् ।
यस्यान्न॒न्नाद्यात् ।
अव॑र्तिमे॒वास्मि॑न्पा॒प्मान॒म्प्रति॑मुञ्चति ॥12॥
दु॒ग्ध्वा द॑दाति ।
न ह्यदृ॑ष्टा॒ दक्षि॑णा दी॒यते॑ ।
पृ॒थि॒वीव्ँवा ए॒तस्य॒ पय॒ᳶ प्रवि॑शति ।
यस्या॑ग्निहो॒त्रन्दु॒ह्यमा॑नँ॒ स्कन्द॑ति ।
यद॒द्य दु॒ग्धम्पृ॑थि॒वीमस॑क्त ।
यदोष॑धीर॒प्यस॑र॒द्यदापः॑ ।
पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ ।
पयो॑ व॒त्सेषु॒ पयो॑ अस्तु॒ तन्मयीत्या॑ह ।
पय॑ ए॒वात्मन्गृ॒हेषु॑ प॒शुषु॑ धत्ते ।
अ॒प उप॑सृजति ॥13॥
अ॒द्भिरे॒वैन॑दाप्नोति ।
यो वै य॒ज्ञस्यार्ते॒ नाना॑र्तँ सँसृ॒जति॑ ।
उ॒भे वै ते तर्ह्यार्च्छ॑तः ।
आर्च्छ॑ति॒ खलु॒ वा ए॒तद॑ग्निहो॒त्रम् ।
यद्दु॒ह्यमा॑नँ॒ स्कन्द॑ति ।
यद॑भिदु॒ह्यात् ।
आर्ते॒ नाना॑र्तय्ँ य॒ज्ञस्य॒ सँसृ॑जेत् ।
तदे॒व या॒दृक्की॒दृक्च॑ होत॒व्य॑म् ।
अथा॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।
अना॑र्तेनै॒वार्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति ॥14॥
यद्युद्द्रु॑तस्य॒ स्कन्दे॑त् ।
यत्ततोऽहु॑त्वा॒ पुन॑रे॒यात् ।
य॒ज्ञव्ँविच्छि॑न्द्यात् ।
यत्र॒ स्कन्दे॑त् ।
तन्नि॒षद्य॒ पुन॑र्गृह्णीयात् ।
यत्रै॒व स्कन्द॑ति ।
तत॑ ए॒वैन॒त्पुन॑र्गृह्णाति ।
तदे॒व या॒दृक्की॒दृक्च॑ होत॒व्य॑म् ।
अथा॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।
अना॑र्तेनै॒वार्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति ॥15॥
वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते ।
यस्या॑ग्निहो॒त्रे॑ऽधिश्रि॑ते॒ श्वाऽन्त॒रा धाव॑ति ।
रु॒द्रᳵ खलु॒ वा ए॒षः ।
यद॒ग्निः ।
यद्गाम॑न्वत्या व॒र्तये॑त् ।
रु॒द्राय॑ प॒शूनपि॑ दध्यात् ।
अ॒प॒शुर्यज॑मानस्स्यात् ।
यद॒पो॑ऽन्वतिषि॒ञ्चेत् ।
अ॒ना॒द्यम॒ग्नेरापः॑ ।
अ॒ना॒द्यमा॑भ्या॒मपि॑ दध्यात् ।
गार्ह॑पत्या॒द्भस्मा॒दाय॑ ।
इ॒दव्ँविष्णु॒र्विच॑क्रम॒ इति॑ वैष्ण॒व्यर्चाऽऽह॑व॒नीया॑द्ध्वँ॒सय॒न्नुद्र॑वेत् ।
य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञेनै॒व य॒ज्ञँ सन्त॑नोति ।
भस्म॑ना प॒दमपि॑ वपति॒ शान्त्यै॑ ॥ 16॥
नि वा ए॒तस्या॑हव॒नीयो॒ गार्ह॑पत्यङ्कामयते ।
निगार्ह॑पत्य आहव॒नीय॑म् ।
यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभिनि॒म्रोच॑ति ।
द॒र्भेण॒ हिर॑ण्यम्प्र॒बद्ध्य॑ पु॒रस्ता॑द्धरेत् ।
अथा॒ग्निम् ।
अथा॑ग्निहो॒त्रम् ।
यद्धिर॑ण्यम्पु॒रस्ता॒द्धर॑ति ।
ज्योति॒र्वै हिर॑ण्यम् ।
ज्योति॑रे॒वैन॒म्पश्य॒न्नुद्ध॑रति ।
यद॒ग्निम्पूर्वँ॒ हर॒त्यथा॑ग्निहो॒त्रम् ॥17॥
भा॒ग॒धेये॑नै॒वैन॒म्प्रण॑यति ।
ब्रा॒ह्म॒ण आ॑र्षे॒य उद्ध॑रेत् ।
ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः॑ ।
सर्वा॑भिरे॒वैन॑न्दे॒वता॑भि॒रुद्ध॑रति ।
अ॒ग्नि॒हो॒त्रमु॑प॒साद्यातमि॑तोरासीत ।
व्र॒तमे॒व ह॒तमनु॑म्रियते ।
अन्तव्ँ॒वा ए॒ष आ॒त्मनो॑ गच्छति ।
यस्ताम्य॑ति ।
अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति ।
यस्या॒ग्निमनु॑द्धृ॒तँ॒ सूर्यो॒ऽभिनि॒म्रोच॑ति ॥18॥
पुन॑स्स॒मन्य॑ जुहोति ।
अन्ते॑नै॒वान्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति ।
वरु॑णो॒ वा ए॒तस्य॑ य॒ज्ञङ्गृ॑ह्णाति ।
यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभिनि॒म्रोच॑ति ।
वा॒रु॒णञ्च॒रुन्निर्व॑पेत् ।
तेनै॒व य॒ज्ञन्निष्क्री॑णीते ।
नि वा ए॒तस्या॑हव॒नीयो॒ गार्ह॑पत्यङ्कामयते ।
नि गार्ह॑पत्य आहव॒नीय॑म् ।
यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभ्यु॑देति॑ ।
च॒तु॒र्गृ॒ही॒तमाज्य॑म्पु॒रस्ता॑द्धरेत् ॥19॥
अथा॒ग्निम् ।
अथा॑ग्निहो॒त्रम् ।
यदाज्य॑म्पु॒रस्ता॒द्धर॑ति ।
ए॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॑ ।
यदाज्य॑म् ।
प्रि॒येणै॒वैन॒न्धाम्ना॒ सम॑र्धयति ।
यद॒ग्निम्पूर्वँ॒ हर॒त्यथा॑ग्निहो॒त्रम् ।
भा॒ग॒धेये॑नै॒वैन॒म्प्रण॑यति ।
ब्रा॒ह्म॒ण आ॑र्षे॒य उद्ध॑रेत् ।
ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः॑ ॥20॥
सर्वा॑भिरे॒वैन॑न्दे॒वता॑भि॒रुद्ध॑रति ।
परा॑ची॒ वा ए॒तस्मै॑ व्यु॒च्छन्ती॒ व्यु॑च्छति ।
यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभ्यु॑देति॑ ।
उ॒षाᳵ के॒तुना॑ जुषताम् ।
य॒ज्ञन्दे॒वेभि॑रिन्वि॒तम् ।
दे॒वेभ्यो॒ मधु॑मत्तमँ॒ स्वाहेति॑ प्र॒त्यङ्नि॒षद्याज्ये॑न जुहुयात् ।
प्र॒तीची॑मे॒वास्मै॒ विवा॑सयति ।
अ॒ग्नि॒हो॒त्रमु॑प॒साद्यातमि॑तोरासीत ।
व्र॒तमे॒व ह॒तमनु॑ म्रियते ।
अन्तव्ँ॒वा ए॒ष आ॒त्मनो॑ गच्छति ॥21॥
यस्ताम्य॑ति ।
अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति ।
यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभ्यु॑देति॑ ।
पुन॑स्स॒मन्य॑ जुहोति ।
अन्ते॑नै॒वान्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति ।
मि॒त्रो वा ए॒तस्य॑ य॒ज्ञङ्गृ॑ह्णाति ।
यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभ्यु॑देति॑ ।
मै॒त्रञ्च॒रुन्निर्व॑पेत् ।
तेनै॒व य॒ज्ञन्निष्क्री॑णीते ।
यस्या॑हव॒नीयेऽनु॑द्वाते॒ गार्ह॑पत्य उ॒द्वाये॑त् ॥22॥
यदा॑हव॒नीय॒मनु॑द्वाप्य॒ गार्ह॑पत्य॒म्मन्थे॑त् ।
विच्छि॑न्द्यात् ।
भ्रातृ॑व्यमस्मै जनयेत् ।
यद्वै य॒ज्ञस्य॑ वास्त॒व्य॑ङ्क्रि॒यते॑ ।
तदनु॑ रु॒द्रोऽव॑चरति ।
यत्पूर्व॑मन्वव॒स्येत् ।
वा॒स्त॒व्य॑म॒ग्निमुपा॑सीत ।
रु॒द्रो॑ऽस्य प॒शून्घातु॑कस्स्यात् ।
आ॒ह॒व॒नीय॑मु॒द्वाप्य॑ ।
गार्ह॑पत्यम्मन्थेत् ॥23॥
इ॒तᳶ प्र॑थ॒मञ्ज॑ज्ञे अ॒ग्निः ।
स्वाद्योने॒रधि॑ जा॒तवे॑दाः ।
स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या ।
दे॒वेभ्यो॑ ह॒व्यव्ँव॑हतु प्रजा॒नन्निति॑ ।
छन्दो॑भिरे॒वैनँ॒ स्वाद्योने॒ᳶ प्रज॑नयति ।
गार्ह॑पत्यम्मन्थति ।
गार्ह॑पत्यव्ँ॒ वा अन्वाहि॑ताग्नेᳶ प॒शव॒ उप॑ तिष्ठन्ते ।
स यदु॒द्वाय॑ति ।
तदनु॑ प॒शवोऽप॑ क्रामन्ति ।
इ॒षे र॒य्यै र॑मस्व ॥24॥
सह॑से द्यु॒म्नाय॑ ।
ऊ॒र्जेऽपत्या॒येत्या॑ह ।
प॒शवो॒ वै र॒यिः ।
प॒शूने॒वास्मै॑ रमयति ।
सा॒र॒स्व॒तौ त्वोत्सौ॒ समि॑न्धाता॒मित्या॑ह ।
ऋ॒क्सा॒मे वै सा॑रस्व॒तावुत्सौ॑ ।
ऋ॒क्सा॒माभ्या॑मे॒वैनँ॒ समि॑न्धे ।
स॒म्राड॑सि वि॒राड॒सीत्या॑ह ।
र॒थ॒न्त॒रव्ँ वै स॒म्राट् ।
बृ॒हद्वि॒राट् ॥25॥
ताभ्या॑मे॒वैनँ॒ समि॑न्धे ।
वज्रो॒ वै च॒क्रम् ।
वज्रो॒ वा ए॒तस्य॑ य॒ज्ञव्ँविच्छि॑नत्ति ।
यस्यानो॑ वा॒ रथो॑ वाऽन्त॒राऽग्नी याति॑ ।
आ॒ह॒व॒नीय॑मु॒द्वाप्य॑ ।
गार्ह॑पत्या॒दुद्ध॑रेत् ।
यद॑ग्ने॒ पूर्व॒म्प्रभृ॑तम्प॒दँ हि ते॑ ।
सूर्य॑स्य र॒श्मीनन्वा॑त॒तान॑ ।
तत्र॑ रयि॒ष्ठामनु॒ सम्भ॑रै॒तम् ।
सन्न॑स्सृज सुम॒त्या वाज॑व॒त्येति॑ ॥26॥
पूर्वे॑णै॒वास्य॑ य॒ज्ञेन॑ य॒ज्ञमनु॒ सन्त॑नोति ।
त्वम॑ग्ने स॒प्रथा॑ अ॒सीत्या॑ह ।
अ॒ग्निस्सर्वा॑ दे॒वताः॑ ।
दे॒वता॑भिरे॒व य॒ज्ञँ सन्त॑नोति ।
अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
अ॒ग्निमे॒व प॑थि॒कृतँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वैनय्ँ॑ य॒ज्ञिय॒म्पन्था॒मपि॑नयति ।
अ॒न॒ड्वान्दक्षि॑णा ।
व॒ही ह्ये॑ष समृ॑द्ध्यै ॥27॥
यस्य॑ प्रातस्सव॒ने सोमो॑ऽति॒रिच्य॑ते ।
माध्य॑न्दिनँ॒ सव॑नङ्का॒मय॑मानो॒ऽभ्यति॑रिच्यते ।
गौर्ध॑यति म॒रुता॒मिति॒ धय॑द्वतीषु कुर्वन्ति ।
हि॒नस्ति॒ वै स॒न्ध्यधी॑तम् ।
स॒न्धीव॒ खलु॒ वा ए॒तत् ।
यत्सव॑नस्याति॒रिच्य॑ते ।
यद्धय॑द्वतीषु कु॒र्वन्ति॑ ।
स॒न्धेश्शान्त्यै॑ ।
गा॒य॒त्रँ साम॑ भवति पञ्चद॒शस्स्तोमः॑ ।
तेनै॒व प्रा॑तस्सव॒नान्नय॑न्ति ॥28॥
म॒रुत्व॑तीषु कुर्वन्ति ।
तेनै॒व माध्य॑न्दिना॒त्सव॑ना॒न्नय॑न्ति ।
होतु॑श्चम॒समनून्न॑यन्ते ।
होताऽनु॑ शँसति ।
म॒ध्य॒त ए॒व य॒ज्ञँ स॒माद॑धाति ।
यस्य॒ माध्य॑न्दिने॒ सव॑ने॒ सोमो॑ऽति॒रिच्य॑ते ।
आ॒दि॒त्यन्तृ॑तीयसव॒नङ्का॒मय॑मानो॒ऽभ्यति॑रिच्यते ।
गौ॒रि॒वी॒तँ साम॑ भवति ।
अति॑रिक्तव्ँ॒ वै गौ॑रिवी॒तम् ।
अति॑रिक्तय्ँ॒यत्सव॑नस्याति॒रिच्य॑ते ॥29॥
अति॑रिक्तस्य॒ शान्त्यै॑ ।
बण्म॒हाँ अ॑सि सू॒र्येति॑ कुर्वन्ति ।
यस्यै॒वादि॒त्यस्य॒ सव॑नस्य॒ कामे॑नाति॒रिच्य॑ते ।
तेनै॒वैन॒ङ्कामे॑न॒ सम॑र्धयन्ति ।
गौ॒रि॒वी॒तँ साम॑ भवति ।
तेनै॒व माध्य॑न्दिना॒त्सव॑ना॒न्नय॑न्ति ।
स॒प्त॒द॒शस्स्तोमः॑ ।
तेनै॒व तृ॑तीयसव॒नान्नय॑न्ति ।
होतु॑श्चम॒समनून्न॑यन्ते ।
होताऽनु॑ शँसति ॥30॥
म॒ध्य॒त ए॒व य॒ज्ञँ स॒माद॑धाति ।
यस्य॑ तृतीयसव॒ने सोमो॑ऽति॒रिच्ये॑त ।
उ॒क्थ्य॑ङ्कुर्वीत ।
यस्यो॒क्थ्ये॑ऽति॒रिच्ये॑त ।
अ॒ति॒रा॒त्रङ्कु॑र्वीत ।
यस्या॑तिरा॒त्रे॑ऽति॒रिच्य॑ते ।
तत्त्वै दु॑ष्प्रज्ञा॒नम् ।
यज॑मानव्ँ॒वा ए॒तत्प॒शव॑ आ॒साह्य॑यन्ति ।
बृ॒हत्साम॑ भवति ।
बृ॒हद्वा इ॒माल्ँ लो॒कान्दा॑धार ।
बार्ह॑ताᳶ प॒शवः॑ ।
बृ॒ह॒तैवास्मै॑ प॒शून्दा॑धार ।
शि॒पि॒वि॒ष्टव॑तीषु कुर्वन्ति ।
शि॒पि॒वि॒ष्टो वै दे॒वाना॑म्पु॒ष्टम् ।
पुष्ट्यै॒वैनँ॒ सम॑र्धयन्ति ।
होतु॑श्चम॒समनून्न॑यन्ते ।
होताऽनु॑शँसति ।
म॒ध्य॒त ए॒व य॒ज्ञँ स॒माद॑धाति ॥31॥
एकै॑को॒ वै ज॒नता॑या॒मिन्द्रः॑ ।
एकव्ँ॒वा ए॒ताविन्द्र॑म॒भि सँसु॑नुतः ।
यौ द्वौ सँ॑ सुनु॒तः ।
प्र॒जाप॑ति॒र्वा ए॒ष विता॑यते ।
यद्य॒ज्ञः ।
तस्य॒ ग्रावा॑णो॒ दन्ताः॑ ।
अ॒न्य॒त॒रव्ँवा ए॒ते सँ॑सुन्व॒तोर्निर्ब॑प्सति ।
पूर्वे॑णोप॒सृत्या॑ दे॒वता॒ इत्या॑हुः ।
पू॒र्वो॒प॒सृ॒तस्य॒ वै श्रेया॑न्भवति ।
एति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै ॥32॥
म॒रुत्व॑तीᳶ प्रति॒पदः॑ ।
म॒रुतो॒ वै दे॒वाना॒मप॑राजितमा॒यत॑नम् ।
दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने यतते ।
उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः ।
इ॒यव्ँ वाव र॑थन्त॒रम् ।
अ॒सौ बृ॒हत् ।
आ॒भ्यामे॒वैन॑म॒न्तरे॑ति ।
वा॒चश्च॒ मन॑सश्च ।
प्रा॒णाच्चा॑पा॒नाच्च॑ ।
दि॒वश्च॑ पृथि॒व्याश्च॑ ॥33॥
सर्व॑स्माद्वि॒त्ताद्वेद्या॑त् ।
अ॒भि॒व॒र्तो ब्र॑ह्मसा॒मम्भ॑वति ।
सु॒व॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्यै ।
अ॒भि॒जिद्भ॑वति ।
सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
वि॒श्व॒जिद्भ॑वति ।
विश्व॑स्य॒ जित्यै॑ ।
यस्य॒ भूयाँ॑सो यज्ञक्र॒तव॒ इत्या॑हुः ।
स दे॒वता॑ वृङ्क्त॒ इति॑ ।
यद्य॑ग्निष्टो॒मस्सोम॑ᳶ प॒रस्ता॒त्स्यात् ॥34॥
उ॒क्थ्य॑ङ्कुर्वीत ।
यद्यु॒क्थ्य॑स्स्यात् ।
अ॒ति॒रा॒त्रङ्कु॑र्वीत ।
य॒ज्ञ॒क्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते ।
यो वै छन्दो॑भिरभि॒भव॑ति ।
स सँ॑सुन्व॒तोर॒भिभ॑वति ।
सव्ँ॒वे॒शाय॑ त्वोपवे॒शाय॒ त्वेत्या॑ह ।
छन्दाँ॑सि॒ वै सव्ँ॑वे॒श उ॑पवे॒शः ।
छन्दो॑भिरे॒वास्य॒ छन्दाँ॑स्य॒भिभ॑वति ।
इ॒ष्टर्गो॒ वा ऋ॒त्विजा॑मध्व॒र्युः ॥35 ॥
इ॒ष्टर्ग॒ᳵ खलु॒ वै पूर्वो॒ऽर्ष्टुः क्षी॑यते ।
प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒मित्या॑ह ।
प्रा॒णा॒पा॒नयो॑रे॒व श्र॑यते ।
प्राणा॑पानौ॒ मा मा॑हासिष्ट॒मित्या॑ह ।
नैन॑म्पु॒राऽऽयु॑षᳶ प्राणापा॒नौ ज॑हितः ।
आर्तिव्ँ॒वा ए॒ते निय॑न्ति ।
येषा॑न्दीक्षि॒ताना॑म्प्र॒मीय॑ते ।
तय्ँयद॑व॒वर्जे॑युः ।
क्रू॒र॒कृता॑मिवैषाल्ँ लो॒कस्स्या॑त् ।
आह॑र द॒हेति॑ ब्रूयात् ॥36॥
तन्द॑क्षिण॒तो वेद्यै॑ नि॒धाय॑ ।
स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॑युः ।
इ॒यव्ँ वै सर्प॑तो॒ राज्ञी॑ ।
अ॒स्या ए॒वैन॒म्परि॑ददति ।
व्यृ॑द्ध॒न्तदित्या॑हुः ।
यत्स्तु॒तमन॑नुशस्त॒मिति॑ ।
होता॑ प्रथ॒मᳶ प्रा॑चीनावी॒ती मा॑र्जा॒लीय॒म्परी॑यात् ।
या॒मीर॑नुब्रु॒वन् ।
स॒र्प॒रा॒ज्ञीना॑ङ्कीर्तयेत् ।
उ॒भयो॑रे॒वैनल्ँ॑ लो॒कयो॒ᳶ परि॑ददति ॥37॥
अथो॑ धु॒वन्त्ये॒वैन॑म् ।
अथो॒ न्ये॑वास्मै॑ ह्नुवते ।
त्रिᳶ परि॑यन्ति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॑ धुवते ।
त्रिᳶ पुन॒ᳶपरि॑यन्ति ।
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑रे॒वैन॑न्धुवते ।
अग्न॒ आयूँ॑षि पवस॒ इति॑ प्रति॒पद॑ङ्कुर्वीरन् ।
र॒थ॒न्त॒रसा॑मैषाँ॒ सोम॑स्स्यात् ।
आयु॑रे॒वात्मन्द॑धते ।
अथो॑ पा॒प्मान॑मे॒व वि॒जह॑तो यन्ति ॥38॥
अ॒सु॒र्यव्ँ॑वा ए॒तस्मा॒द्वर्ण॑ङ्कृ॒त्वा ।
प॒शवो॑ वी॒र्य॑मप॑ क्रामन्ति ।
यस्य॒ यूपो॑ वि॒रोह॑ति ।
त्वा॒ष्ट्रम्ब॑हुरू॒पमाल॑भेत ।
त्वष्टा॒ वै रू॒पाणा॑मीशे ।
य ए॒व रू॒पाणा॒मीशे॑ ।
सो॑ऽस्मिन्प॒शून्वी॒र्यय्ँ॑यच्छति ।
नास्मा॑त्प॒शवो॑ वी॒र्य॑मप॑ क्रामन्ति ।
आर्तिव्ँ॒वा ए॒ते निय॑न्ति ।
येषा॑न्दीक्षि॒ताना॑म॒ग्निरु॒द्वाय॑ति ॥ 39॥
यदा॑हव॒नीय॑ उ॒द्वाये॑त् ।
यत्तम्मन्थे॑त् ।
विच्छि॑न्द्यात् ।
भ्रातृ॑व्यमस्मै जनयेत् ।
यदा॑हव॒नीय॑ उ॒द्वाये॑त् ।
आग्नी॑द्ध्रा॒दुद्ध॑रेत् ।
यदाग्नी॑द्ध्र उ॒द्वाये॑त् ।
गार्ह॑पत्या॒दुद्ध॑रेत् ।
यद्गार्ह॑पत्य उ॒द्वाये॑त् ।
अत॑ ए॒व पुन॑र्मन्थेत् ॥40॥
अत्र॒ वाव स निल॑यते ।
यत्र॒ खलु॒ वै निली॑नमुत्त॒मम्पश्य॑न्ति ।
तदे॑नमिच्छन्ति ।
यस्मा॒द्दारो॑रु॒द्वाये॑त् ।
तस्या॒रणी॑ कुर्यात् ।
क्रु॒मु॒कमपि॑ कुर्यात् ।
ए॒षा वा अ॒ग्नेᳶ प्रि॒या त॒नूः ।
यत्क्रु॑मु॒कः ।
प्रि॒ययै॒वैन॑न्त॒नुवा॒ सम॑र्धयति ।
गार्ह॑पत्यम्मन्थति ॥ 41 ॥
गार्ह॑पत्यो॒ वा अ॒ग्नेर्योनिः॑ ।
स्वादे॒वैनय्ँ॒योने॑र्जनयति ।
नास्मै॒ भ्रातृ॑व्यञ्जनयति ।
यस्य॒ सोम॑ उप॒दस्ये॑त् ।
सु॒वर्णँ॒ हिर॑ण्यन्द्वे॒धा वि॒च्छिद्य॑ ।
ऋ॒जी॒षे॑ऽन्यदा॑धूनु॒यात् ।
जु॒हु॒याद॒न्यत् ।
सोम॑मे॒वाभि॑षु॒णोति॑ ।
सोम॑ञ्जुहोति ।
सोम॑स्य॒ वा अ॑भिषू॒यमा॑णस्य प्रि॒या त॒नूरुद॑क्रामत् ॥ 42॥
तत्सु॒वर्णँ॒ हिर॑ण्यमभवत् ।
यत्सु॒वर्णँ॒ हिर॑ण्यङ्कु॒र्वन्ति॑ ।
प्रि॒ययै॒वैन॑न्त॒नुवा॒ सम॑र्धयन्ति ।
यस्याक्री॑तँ॒ सोम॑मप॒हरे॑युः ।
क्री॒णी॒यादे॒व ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
यस्य॑ क्री॒तम॑प॒हरे॑युः ।
आ॒दा॒राँश्च॑ फाल्गु॒नानि॑ चा॒भिषु॑णुयात् ।
गा॒य॒त्री यँ सोम॒माह॑रत् ।
तस्य॒ योऽँ॑शुᳶ प॒राऽप॑तत् ॥43॥
त आ॑दा॒रा अ॑भवन् ।
इन्द्रो॑ वृ॒त्रम॑हन् ।
तस्य॑ व॒ल्कᳶ परा॑ऽपतत् ।
तानि॑ फाल्गु॒नान्य॑भवन् ।
प॒शवो॒ वै फा॑ल्गु॒नानि॑ ।
प॒शव॒स्सोमो॒ राजा॑ ।
यदा॑दा॒राँश्च॑ फाल्गु॒नानि॑ चाभिषु॒णोति॑ ।
सोम॑मे॒व राजा॑नम॒भिषु॑णोति ।
शृ॒तेन॑ प्रातस्सव॒ने श्री॑णीयात् ।
द॒ध्ना म॒ध्यन्दि॑ने ॥44॥
नी॒त॒मि॒श्रेण॑ तृतीयसव॒ने ।
अ॒ग्नि॒ष्टो॒मस्सोम॑स्स्याद्रथन्त॒रसा॑मा ।
य ए॒वर्त्विजो॑ वृ॒तास्स्युः ।
त ए॑नय्ँ याजयेयुः ।
एका॒ङ्गान्दक्षि॑णान्दद्या॒त्तेभ्य॑ ए॒व ।
पुन॒स्सोम॑ङ्क्रीणीयात् ।
य॒ज्ञेनै॒व तद्य॒ज्ञमि॑च्छति ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
सर्वा॑भ्यो॒ वा ए॒ष दे॒वता॑भ्य॒स्सर्वे॑भ्यᳶ पृ॒ष्ठेभ्य॑ आ॒त्मान॒मागु॑रते ।
यस्स॒त्त्राया॑गु॒रते॑ ।
ए॒तावा॒न्खलु॒ वै पुरु॑षः ।
याव॑दस्य वि॒त्तम् ।
स॒र्व॒वे॒द॒सेन॑ यजेत ।
सर्व॑पृष्ठोऽस्य॒ सोम॑स्स्यात् ।
सर्वा॑भ्य ए॒व दे॒वता॑भ्य॒स्सर्वे॑भ्यᳶ पृ॒ष्ठेभ्य॑ आ॒त्मान॒न्निष्क्री॑णीते ॥ 45 ॥
पव॑मान॒स्सुव॒र्जनः॑ ।
प॒वित्रे॑ण॒ विच॑र्षणिः ।
यᳶ पोता॒ स पु॑नातु मा ।
पु॒नन्तु॑ मा देवज॒नाः ।
पु॒नन्तु॒ मन॑वो धि॒या ।
पु॒नन्तु॒ विश्व॑ आ॒यवः॑ ।
जात॑वेदᳶ प॒वित्र॑वत् ।
प॒वित्रे॑ण पुनाहि मा ।
शु॒क्रेण॑ देव॒ दीद्य॑त् ।
अग्ने॒ क्रत्वा॒ क्रतूँ॒रनु॑ ॥46॥
यत्ते॑ प॒वित्र॑म॒र्चिषि॑ ।
अग्ने॒ वित॑तमन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे ।
उ॒भाभ्या॑न्देव सवितः ।
प॒वित्रे॑ण स॒वेन॑ च ।
इ॒दम्ब्रह्म॑ पुनीमहे ।
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॑त् ।
यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः ।
तया॒ मद॑न्तस्सध॒माद्ये॑षु ।
व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥47॥
वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु ।
वात॑ᳶ प्रा॒णेने॑षि॒रो म॑यो॒भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः ।
ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् ।
बृ॒हद्भि॑स्सवित॒स्तृभिः॑ ।
वर्षि॑ष्ठैर्देव॒ मन्म॑भिः ।
अग्ने॒ दक्षै॑ᳶ पुनाहि मा ।
येन॑ दे॒वा अपु॑नत ।
येनापो॑ दि॒व्यङ्कशः॑ ।
तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥48॥
इ॒दम्ब्रह्म॑ पुनीमहे ।
यᳶ पा॑वमा॒नीर॒ध्येति॑ ।
ऋषि॑भि॒स्सम्भृ॑तँ॒ रस॑म् ।
सर्वँ॒ स पू॒तम॑श्ञाति ।
स्व॒दि॒तम्मा॑त॒रिश्व॑ना ।
पा॒व॒मा॒नीर्यो अ॒ध्येति॑ ।
ऋषि॑भि॒स्सम्भृ॑तँ॒ रस॑म् ।
तस्मै॒ सर॑स्वती दुहे ।
क्षी॒रँ स॒र्पिर्मधू॑द॒कम् ।
पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः ॥49॥
सु॒दुघा॒ हि पय॑स्वतीः ।
ऋषि॑भि॒स्सम्भृ॑तो॒ रसः॑ ।
ब्रा॒ह्म॒णेष्व॒मृतँ॑ हि॒तम् ।
पा॒व॒मानीर्दि॑शन्तु नः ।
इ॒मल्ँ लो॒कमथो॑ अ॒मुम् ।
कामा॒न्त्सम॑र्धयन्तु नः ।
दे॒वीर्दे॒वैस्स॒माभृ॑ताः ।
पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः ।
सु॒दुघा॒ हि घृ॑त॒श्चुतः॑ ।
ऋषि॑भि॒स्सम्भृ॑तो॒ रसः॑ ॥50॥
ब्रा॒ह्म॒णेष्व॒मृतँ॑ हि॒तम् ।
येन॑ दे॒वाᳶ प॒वित्रे॑ण ।
आ॒त्मान॑म्पु॒नते॒ सदा॑ ।
तेन॑ स॒हस्र॑धारेण ।
पा॒व॒मा॒न्यᳶ पु॑नन्तु मा ।
प्रा॒जा॒प॒त्यम्प॒वित्र॑म् ।
श॒तोद्या॑मँ हिर॒ण्मय॑म् ।
तेन॑ ब्रह्म॒विदो॑ व॒यम् ।
पू॒तम्ब्रह्म॑ पुनीमहे ।
इन्द्र॑स्सुनी॒ती स॒ह मा॑ पुनातु ।
सोम॑स्स्व॒स्त्या वरु॑णस्स॒मीच्या॑ ।
य॒मो राजा॑ प्रमृ॒णाभि॑ᳶ पुनातु मा ।
जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु ॥51॥
प्र॒जा वै स॒त्रमा॑सत॒ तप॒स्तप्य॑माना॒ अजु॑ह्वतीः ।
दे॒वा अ॑पश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्णँ स्व॒धाम् ।
तमुपोद॑तिष्ठ॒न्तम॑जुहवुः ।
तेना॑र्धमा॒स ऊर्ज॒मवा॑रुन्धत ।
तस्मा॑दर्धमा॒से दे॒वा इ॑ज्यन्ते ।
पि॒तरो॑ऽपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्णँ स्व॒धाम् ।
तमुपोद॑तिष्ठ॒न्तम॑जुहवुः ।
तेन॑ मा॒स्यूर्ज॒मवा॑रुन्धत ।
तस्मा॑न्मा॒सि पि॒तृभ्य॑ᳵ क्रियते ।
म॒नु॒ष्या॑ अपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्णँ स्व॒धाम् ॥52॥
तमुपोद॑तिष्ठ॒न्तम॑जुहवुः ।
तेन॑ द्व॒यीमूर्ज॒मवा॑रुन्धत ।
तस्मा॒द्द्विरह्नो॑ मनु॒ष्ये॑भ्य॒ उप॑ह्रियते ।
प्रा॒तश्च॑ सा॒यञ्च॑ ।
प॒शवो॑ऽपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्णँ स्व॒धाम् ।
तमुपोद॑तिष्ठ॒न्तम॑जुहवुः ।
तेन॑ त्र॒यीमूर्ज॒मवा॑रुन्धत ।
तस्मा॒त्त्रिरह्न॑ᳶ प॒शव॒ᳶ प्रेर॑ते ।
प्रा॒तस्स॑ङ्ग॒वे सा॒यम् ।
असु॑रा अपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्णँ स्व॒धाम् ॥53॥
तमुपोद॑तिष्ठ॒न्तम॑जुहवुः ।
तेन॑ सव्ँ॑वत्स॒र ऊर्ज॒मवा॑रुन्धत ।
ते दे॒वा अ॑मन्यन्त ।
अ॒मी वा इ॒दम॑भूवन् ।
यद्व॒यँ स्म इति॑ ।
त ए॒तानि॑ चातुर्मा॒स्यान्य॑पश्यन् ।
तानि॒ निर॑वपन् ।
तैरे॒वैषा॒न्तामूर्ज॑मवृञ्जत ।
ततो॑ दे॒वा अभ॑वन् ।
पराऽसु॑राः ॥54॥
यद्यज॑ते ।
यामे॒व दे॒वा ऊर्ज॑म॒वारु॑न्धत ।
तान्तेनाव॑रुन्धे ।
यत्पि॒तृभ्य॑ᳵ क॒रोति॑ ।
यामे॒व पि॒तर॒ ऊर्ज॑म॒वारु॑न्धत ।
तान्तेनाव॑रुन्धे ।
यदा॑वस॒थेऽन्नँ॒ हर॑न्ति ।
यामे॒व म॑नु॒ष्या॑ ऊर्ज॑म॒वारु॑न्धत ।
तान्तेनाव॑रुन्धे ।
यद्दक्षि॑णा॒न्ददा॑ति ॥55॥
यामे॒व प॒शव॒ ऊर्ज॑म॒वारु॑न्धत ।
तान्तेनाव॑रुन्धे ।
यच्चा॑तुर्मा॒स्यैर्यज॑ते ।
यामे॒वासु॑रा॒ ऊर्ज॑म॒वारु॑न्धत ।
तान्तेनाव॑रुन्धे ।
भव॑त्या॒त्मना॑ ।
परा॑स्य॒ भ्रातृ॑व्यो भवति ।
वि॒राजो॒ वा ए॒षा विक्रा॑न्तिः ।
यच्चा॑तुर्मा॒स्यानि॑ ।
वै॒श्व॒दे॒वेना॒स्मिल्ँ लो॒के प्रत्य॑तिष्ठत् ।
व॒रु॒ण॒प्र॒घा॒सैर॒न्तरि॑क्षे ।
सा॒क॒मे॒धैर॒मुष्मिल्ँ॑ लो॒के ।
ए॒ष ह॒ त्वावैतत्सर्व॑म्भवति ।
य ए॒वव्ँ वि॒द्वाँश्चा॑तुर्मा॒स्यैर्यज॑ते ॥56॥
अ॒ग्निर्वाव सव्ँ॑वत्स॒रः ।
आ॒दि॒त्यᳶ प॑रिवत्स॒रः ।
च॒न्द्रमा॑ इदावत्स॒रः ।
वा॒युर॑नुवत्स॒रः ।
यद्वै॑श्वदे॒वेन॒ यज॑ते ।
अ॒ग्निमे॒व तत्सव्ँ॑वत्स॒रमा॑प्नोति ।
तस्मा॑द्वैश्वदे॒वेन॒ यज॑मानः ।
सव्ँ॒व॒त्स॒रीणाँ॑ स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत ।
यद्व॑रुणप्रघा॒सैर्यज॑ते ।
आ॒दि॒त्यमे॒व तत्प॑रिवत्स॒रमा॑प्नोति ॥57॥
तस्मा॑द्वरुणप्रघा॒सैर्यज॑मानः ।
प॒रि॒व॒त्स॒रीणाँ॑ स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत ।
यत्सा॑कमे॒धैर्यज॑ते ।
च॒न्द्रम॑समे॒व तदि॑दावत्स॒रमा॑प्नोति ।
तस्मा॑त्साकमे॒धैर्यज॑मानः ।
इ॒दा॒व॒त्स॒रीणाँ॑ स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत ।
यत्पि॑तृय॒ज्ञेन॒ यज॑ते ।
दे॒वाने॒व तद॒न्वव॑स्यति ।
अथ॒वा अ॑स्य वा॒युश्चा॑नुवत्स॒रश्चाप्री॑ता॒वुच्छि॑ष्येते ।
यच्छु॑नासी॒रीये॑ण॒ यज॑ते ॥58 ॥
वा॒युमे॒व तद॑नुवत्स॒रमा॑प्नोति ।
तस्मा॑च्छुनासी॒रीये॑ण॒ यज॑मानः ।
अ॒नु॒व॒त्स॒रीणाँ॑ स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत ।
सव्ँ॒व॒त्स॒रव्ँ वा ए॒ष ई॑प्स॒तीत्या॑हुः ।
यश्चा॑तुर्मा॒स्यैर्यज॑त॒ इति॑ ।
ए॒ष ह॒ त्वै सव्ँ॑वत्स॒रमा॑प्नोति ।
य ए॒वव्ँ वि॒द्वाँश्चा॑तुर्मा॒स्यैर्यज॑ते ।
विश्वे॑ दे॒वास्सम॑यजन्त ।
ते॑ऽग्निमे॒वाय॑जन्त ।
त ए॒तल्ँ लो॒कम॑जयन्न् ॥59॥
यस्मि॑न्न॒ग्निः ।
यद्वै॑श्वदे॒वेन॒ यज॑ते ।
ए॒तमे॒व लो॒कञ्ज॑यति ।
यस्मि॑न्न॒ग्निः ।
अ॒ग्नेरे॒व सायु॑ज्य॒मुपै॑ति ।
य॒दा वै॑श्वदे॒वेन॒ यज॑ते ।
अथ॑ सव्ँवत्स॒रस्य॑ गृ॒हप॑तिमाप्नोति ।
य॒दा सव्ँ॑वत्स॒रस्य॑ गृ॒हप॑तिमा॒प्नोति॑ ।
अथ॑ सहस्रया॒जिन॑माप्नोति ।
य॒दा स॑हस्रया॒जिन॑मा॒प्नोति॑ ॥60॥
अथ॑ गृहमे॒धिन॑माप्नोति ।
य॒दा गृ॑हमे॒धिन॑मा॒प्नोति॑ ।
अथा॒ग्निर्भ॑वति ।
य॒दाग्निर्भव॑ति ।
अथ॒ गौर्भ॑वति ।
ए॒षा वै वै॑श्वदे॒वस्य॒ मात्रा॑ ।
ए॒तद्वा ए॒तेषा॑मव॒मम् ।
अतो॑तो॒ वा उत्त॑राणि॒ श्रेयाँ॑सि भवन्ति ।
यद्विश्वे॑ दे॒वास्स॒मय॑जन्त ।
तद्वै॑श्वदे॒वस्य॑ वैश्वदेव॒त्वम् ॥ 61 ॥
अथा॑दि॒त्यो वरु॑णँ॒ रा॑जानव्ँवरुणप्रघा॒सैर॑यजत ।
स ए॒तल्ँ लो॒कम॑जयत् ।
यस्मि॑न्नादि॒त्यः ।
यद्व॑रुणप्रघा॒सैर्यज॑ते ।
ए॒तमे॒व लो॒कञ्ज॑यति ।
यस्मि॑न्नादि॒त्यः ।
आ॒दि॒त्यस्यै॒व सायु॑ज्य॒मुपै॑ति ।
यदा॑दि॒त्यो वरु॑णँ॒ राजा॑नव्ँवरुणप्रघा॒सैरय॑जत ।
तद्व॑रुणप्रघा॒सानाव्ँ॑वरुणप्रघास॒त्वम् ।
अथ॒ सोमो॒ राजा॒ छन्दाँ॑सि साकमे॒धैर॑यजत ॥62॥
स ए॒तल्ँ लो॒कम॑जयत् ।
यस्मिँ॑श्च॒न्द्रमा॑ वि॒भाति॑ ।
यत्सा॑कमे॒धैर्यज॑ते ।
ए॒तमे॒व लो॒कञ्ज॑यति ।
यस्मिँ॑श्च॒न्द्रमा॑ वि॒भाति॑ ।
च॒न्द्रम॑स ए॒व सायु॑ज्य॒मुपै॑ति ।
सोमो॒ वै च॒न्द्रमाः॑ ।
ए॒ष ह॒ त्वै सा॒क्षात्सोम॑म्भक्षयति ।
य ए॒वव्ँ वि॒द्वान्त्सा॑कमे॒धैर्यज॑ते ।
यत्सोम॑श्च॒ राजा॒ छन्दाँ॑सि च स॒मैध॑न्त ॥63॥
तत्सा॑कमे॒धानाँ॑ साकमेध॒त्वम् ।
अथ॒र्तव॑ᳶ पि॒तर॑ᳶ प्र॒जाप॑तिम्पि॒तर॑म्पितृय॒ज्ञेना॑यजन्त ।
त ए॒तल्ँ लो॒कम॑जयन् ।
यस्मि॑न्नृ॒तवः॑ ।
यत्पि॑तृय॒ज्ञेन॒ यज॑ते ।
ए॒तमे॒व लो॒कञ्ज॑यति ।
यस्मि॑न्नृ॒तवः॑ ।
ऋ॒तू॒नामे॒व सायु॑ज्य॒मुपै॑ति ।
यदृ॒तव॑ᳶ पि॒तर॑ᳶ प्र॒जाप॑तिम्पि॒तर॑म्पितृय॒ज्ञेनाय॑जन्त ।
तत्पि॑तृय॒ज्ञस्य॑ पितृयज्ञ॒त्वम् ॥64॥
अथौष॑धय इ॒मन्दे॒वन्त्र्य॑म्बकैरयजन्त॒ प्रथे॑म॒हीति॑ ।
ततो॒ वै ता अ॑प्रथन्त ।
य ए॒वव्ँ वि॒द्वाँ स्त्र्य॑म्बकै॒र्यज॑ते ।
प्रथ॑ते प्र॒जया॑ प॒शुभिः॑ ।
अथ॑ वा॒युᳶ प॑रमे॒ष्ठिनँ॑ शुनासी॒रीये॑णायजत ।
स ए॒तल्ँ लो॒कम॑जयत् ।
यस्मि॑न्वा॒युः ।
यच्छु॑नासी॒रीये॑ण॒ यज॑ते ।
ए॒तमे॒व लो॒कञ्ज॑यति ।
यस्मि॑न्वा॒युः ॥65॥
वा॒योरे॒व सायु॑ज्य॒मुपै॑ति ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
प्र चा॑तुर्मास्यया॒जी मी॑य॒ता (३) न प्रमी॑य॒ता (३) इति॑ ।
जीव॒न्वा ए॒ष ऋ॒तूनप्ये॑ति ।
यदि॑ व॒सन्ता॑ प्र॒मीय॑ते ।
व॒स॒न्तो भ॑वति ।
यदि॑ ग्री॒ष्मे ग्री॒ष्मः ।
यदि॑ व॒र्षासु॑ व॒र्षाः ।
यदि॑ श॒रदि॑ श॒रत् ।
यदि॒ हेम॑न् हेम॒न्तः ।
ऋ॒तुर्भू॒त्वा सव्ँ॑वत्स॒रमप्ये॑ति ।
सव्ँ॒व॒त्स॒रᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ति॒र्वावैषः ॥66॥
अ॒ग्नेᳵ कृत्ति॑काः ।
शु॒क्रम्प॒रस्ता॒ज्ज्योति॑र॒वस्ता॑त् ।
प्र॒जाप॑ते रोहि॒णी ।
आप॑ᳶ प॒रस्ता॒दोष॑धयो॒ऽवस्ता॑त् ।
सोम॑स्येन्व॒का वित॑तानि ।
प॒रस्ता॒द्वय॑न्तो॒ऽवस्ता॑त् ।
रु॒द्रस्य॑ बा॒हू ।
मृ॒ग॒यव॑ᳶ प॒रस्ता॑द्विक्षा॒रो॑ऽवस्ता॑त् ।
आदि॑त्यै॒ पुन॑र्वसू ।
वात॑ᳶ प॒रस्ता॑दा॒र्द्रम॒वस्ता॑त् ॥ 1 ॥
बृह॒स्पते॑स्ति॒ष्यः॑ ।
जुह्व॑तᳶ प॒रस्ता॒द्यज॑माना अ॒वस्ता॑त् ।
स॒र्पाणा॑माश्रे॒षाः ।
अ॒भ्या॒गच्छ॑न्तᳶ प॒रस्ता॑दभ्या॒नृत्य॑न्तो॒ऽवस्ता॑त् ।
पि॒तृ॒णाम्म॒घाः ।
रु॒दन्त॑ᳶ प॒रस्ता॑दपभ्रँ॒शो॑ऽवस्ता॑त् ।
अ॒र्य॒म्णᳶ पूर्वे॒ फल्गु॑नी ।
जा॒या प॒रस्ता॑दृष॒भो॑ऽवस्ता॑त् ।
भग॒स्योत्त॑रे ।
व॒ह॒तव॑ᳶप॒रस्ता॒द्वह॑माना अ॒वस्ता॑त् ॥ 2 ॥
दे॒वस्य॑ सवि॒तुर् हस्तः॑ ।
प्र॒स॒वᳶ प॒रस्ता॑त्स॒निर॒वस्ता॑त् ।
इन्द्र॑स्य चि॒त्रा ।
ऋ॒तम्प॒रस्ता॑त्स॒त्यम॒वस्ता॑त् ।
वा॒योर्निष्ट्या॑ व्र॒ततिः॑ ।
प॒रस्ता॒दसि॑द्धिर॒वस्ता॑त् ।
इ॒न्द्रा॒ग्नि॒योर्विशा॑खे ।
यु॒गानि॑ प॒रस्ता॑त्कृ॒षमा॑णा अ॒वस्ता॑त् ।
मि॒त्रस्या॑नूरा॒धाः ।
अ॒भ्या॒रोह॑त्प॒रस्ता॑द॒भ्यारू॑ढम॒वस्ता॑त् ॥3 ॥
इन्द्र॑स्य रोहि॒णी ।
शृ॒णत्प॒रस्ता॑त्प्रतिशृ॒णद॒वस्ता॑त् ।
निर्ऋ॑त्यै मूल॒वर्ह॑णी ।
प्र॒ति॒भ॒ञ्जन्त॑ᳶ प॒रस्ता॑त्प्रतिशृ॒णन्तो॒ऽवस्ता॑त् ।
अ॒पाम्पूर्वा॑ अषा॒ढाः ।
वर्च॑ᳶ प॒रस्ता॒त्समि॑तिर॒वस्ता॑त् ।
विश्वे॑षान्दे॒वाना॒मुत्त॑राः ।
अ॒भि॒जय॑त्प॒रस्ता॑द॒भिजि॑तम॒वस्ता॑त् ।
विष्णो॑श्श्रो॒णा पृ॒च्छमा॑नाः ।
प॒रस्ता॒त्पन्था॑ अ॒वस्ता॑त् ॥ 4 ॥
वसू॑नाँ॒ श्रवि॑ष्ठाः ।
भू॒तम्प॒रस्ता॒द्भूति॑र॒वस्ता॑त् ।
इन्द्र॑स्य श॒तभि॑षक् ।
वि॒श्वव्य॑चाᳶप॒रस्ता॑द्वि॒श्वक्षि॑तिर॒वस्ता॑त् ।
अ॒जस्यैक॑पद॒ᳶपूर्वे॑ प्रोष्ठप॒दाः ।
वै॒श्वा॒न॒रम्प॒रस्ता॑द्वैश्वावस॒वम॒वस्ता॑त् ।
अहे॑र्बु॒ध्निय॒स्योत्त॑रे ।
अ॒भि॒षि॒ञ्चन्त॑ᳶ प॒रस्ता॑दभिषु॒ण्वन्तो॒ऽवस्ता॑त् ।
पू॒ष्णो रे॒वती॑ ।
गाव॑ᳶप॒रस्ता॑द्व॒त्सा अ॒वस्ता॑त् ।
अ॒श्विनो॑रश्व॒युजौ॑ ।
ग्राम॑ᳶ प॒रस्ता॒त्सेना॒ऽवस्ता॑त् ।
य॒मस्या॑प॒भर॑णीः ।
अ॒प॒कर्ष॑न्तᳶ प॒रस्ता॑दप॒वह॑न्तो॒ऽवस्ता॑त् ।
पू॒र्णा प॒श्चाद्यत्ते॑ दे॒वा अद॑धुः ॥ 5 ॥
यत्पुण्य॒न्नक्ष॑त्रम् ।
तद्बट्कु॑र्वीतोपव्यु॒षम् ।
य॒दा वै सूर्य॑ उ॒देति॑ ।
अथ॒ नक्ष॑त्र॒न्नैति॑ ।
याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त् ।
यत्र॑ जघ॒न्य॑म्पश्ये॑त् ।
ताव॑ति कुर्वीत यत्का॒री स्यात् ।
पु॒ण्या॒ह ए॒व कु॑रुते ।
ए॒वँ ह॒ वै य॒ज्ञेषु॑ञ्च श॒तद्यु॑म्नञ्च मा॒त्स्यो नि॑रवसाय॒याञ्च॑कार ॥ 6 ॥
यो वै न॑क्ष॒त्रिय॑म्प्र॒जाप॑तिव्ँ॒वेद॑ ।
उ॒भयो॑रेनल्ँ लो॒कयो॑र्विदुः ।
हस्त॑ ए॒वास्य॒ हस्तः॑ ।
चि॒त्रा शिरः॑ ।
निष्ट्या॒ हृद॑यम् ।
ऊ॒रू विशा॑खे ।
प्र॒ति॒ष्ठाऽनू॑रा॒धाः ।
ए॒ष वै न॑क्ष॒त्रिय॑ᳶ प्र॒जाप॑तिः ।
य ए॒वव्ँ वेद॑ ।
उ॒भयो॑रेनल्ँ लो॒कयो॑र्विदुः ॥ 7॥
अ॒स्मिँश्चा॒मुष्मिँ॑श्च ।
याङ्का॒मये॑त दुहि॒तर॑म्प्रि॒या स्या॒दिति॑ ।
तान्निष्ट्या॑यान्दद्यात् ।
प्रि॒यैव भ॑वति ।
नेव॒ तु पुन॒रा ग॑च्छति ।
अ॒भि॒जिन्नाम॒ नक्ष॑त्रम् ।
उ॒परि॑ष्टादषा॒ढाना॑म् ।
अ॒वस्ता॑च्छ्रो॒णायै॑ ।
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
ते दे॒वास्तस्मि॒न्नक्ष॑त्रे॒ऽभ्य॑जयन्न् ॥ 8 ॥
यद॒भ्यज॑यन् ।
तद॑भि॒जितो॑ऽभिजि॒त्त्वम् ।
यङ्का॒मये॑तानपज॒य्यञ्ज॑ये॒दिति॑ ।
तमे॒तस्मि॒न्नक्ष॑त्रे यातयेत् ।
अ॒न॒प॒ज॒य्यमे॒व ज॑यति ।
पा॒पप॑राजितमिव॒ तु ।
प्र॒जाप॑तिᳶ प॒शून॑सृजत ।
ते नक्ष॑त्त्रन्नक्षत्त्र॒मुपा॑तिष्ठन्त ।
ते स॒माव॑न्त ए॒वाभ॑वन् ।
ते रे॒वती॒मुपा॑तिष्ठन्त ॥ 9 ॥
ते रे॒वत्या॒म्प्राभ॑वन् ।
तस्मा॑द्रे॒वत्या॑म्पशू॒नाङ्कु॑र्वीत ।
यत्किञ्चा॑र्वा॒चीनँ॒ सोमा॑त् ।
प्रैव भ॑वन्ति ।
स॒लि॒लव्ँ वा इ॒दम॑न्त॒रासी॑त् ।
यदत॑रन् ।
तत्तार॑काणान्तारक॒त्वम् ।
यो वा इ॒ह यज॑ते ।
अ॒मुँ स लो॒कन्न॑क्षते ।
तन्नक्ष॑त्राणान्नक्षत्र॒त्वम् ॥ 10 ॥
दे॒व॒गृ॒हा वै नक्ष॑त्राणि ।
य ए॒वव्ँ वेद॑ ।
गृ॒ह्ये॑व भ॑वति ।
यानि॒ वा इ॒मानि॑ पृथि॒व्याश्चि॒त्राणि॑ ।
तानि॒ नक्ष॑त्राणि ।
तस्मा॑दश्ली॒लना॑मँ श्चि॒त्रे ।
नाव॑स्ये॒न्न य॑जेत ।
यथा॑ पापा॒हे कु॑रु॒ते ।
ता॒दृगे॒व तत् ।
दे॒व॒न॒क्ष॒त्राणि॒ वा अ॒न्यानि॑ ॥ 11 ॥
य॒म॒न॒क्ष॒त्राण्य॒न्यानि॑ ।
कृत्ति॑काᳶ प्रथ॒मम् ।
विशा॑खे उत्त॒मम् ।
तानि॑ देवनक्ष॒त्राणि॑ ।
अ॒नू॒रा॒धाᳶ प्र॑थ॒मम् ।
अ॒प॒भर॑णीरुत्त॒मम् ।
तानि॑ यमनक्ष॒त्राणि॑ ।
यानि॑ देवनक्ष॒त्राणि॑ ।
तानि॒ दक्षि॑णेन॒ परि॑यन्ति ।
यानि॑ यमनक्ष॒त्राणि॑ ॥ 12 ॥
तान्युत्त॑रेण ।
अन्वे॑षामरा॒त्स्मेति॑ ।
तद॑नूरा॒धाः ।
ज्ये॒ष्ठमे॑षामवधि॒ष्मेति॑ ।
तज्ज्ये॑ष्ठ॒घ्नी ।
मूल॑मेषावृक्षा॒मेति॑ ।
तन्मू॑ल॒वर्ह॑णी ।
यन्नास॑हन्त ।
तद॑षा॒ढाः ।
यदश्लो॑णत् ॥ 13 ॥
तच्छ्रो॒णा ।
यदशृ॑णोत् ।
तच्छ्रवि॑ष्ठाः ।
यच्छ॒तमभि॑षज्यन् ।
तच्छ॒तभि॑षक् ।
प्रो॒ष्ठ॒प॒देषूद॑यच्छन्त ।
रे॒वत्या॑मरवन्त ।
अ॒श्व॒युजो॑रयुञ्जत ।
अ॒प॒भर॑णी॒ष्वपा॑वहन् ।
तानि॒ वा ए॒तानि॑ यमनक्ष॒त्राणि॑ ।
यान्ये॒व दे॑वनक्ष॒त्राणि॑ ।
तेषु॑ कुर्वीत यत्का॒री स्यात् ।
पु॒ण्या॒ह ए॒व कु॑रुते ॥ 14 ॥
दे॒वस्य॑ सवि॒तुᳶ प्रा॒तᳶ प्र॑स॒वᳶ प्रा॒णः ।
वरु॑णस्य सा॒यमा॑स॒वो॑ऽपा॒नः ।
यत्प्र॑ती॒चीन॑म्प्रात॒स्तना॑त् ।
प्रा॒चीनँ॑ सङ्ग॒वात् ।
ततो॑ दे॒वा अ॑ग्निष्टो॒मन्निर॑मिमत ।
तत्तदात्त॑वीर्यन्निर्मा॒र्गः ।
मि॒त्रस्य॑ सङ्ग॒वः ।
तत्पुण्य॑न्तेज॒स्व्यहः॑ ।
तस्मा॒त्तर्हि॑ प॒शव॑स्स॒माय॑न्ति ।
यत्प्र॑ती॒चीनँ॑ सङ्ग॒वात् ॥ 15 ॥
प्रा॒चीन॑म्म॒ध्यन्दि॑नात् ।
ततो॑ दे॒वा उ॒क्थ्य॑न्निर॑मिमत ।
तत्तदात्त॑वीर्यन्निर्मा॒र्गः ।
बृह॒स्पते॑र्म॒ध्यन्दि॑नः ।
तत्पुण्य॑न्तेज॒स्व्यहः॑ ।
तस्मा॒त्तर्हि॒ तेक्ष्णि॑ष्ठन्तपति ।
यत्प्र॑ती॒चीन॑म्म॒ध्यन्दि॑नात् ।
प्रा॒चीन॑मपरा॒ह्णात् ।
ततो॑ दे॒वाष्षो॑ड॒शिन॒न्निर॑मिमत ।
तत्तदात्त॑वीर्यन्निर्मा॒र्गः ॥ 16 ॥
भग॑स्यापरा॒ह्णः ।
तत्पुण्य॑न्तेज॒स्व्यहः॑ ।
तस्मा॑दपरा॒ह्णे कु॑मा॒र्यो॑ भग॑मि॒च्छमा॑नाश्चरन्ति ।
यत्प्र॑ती॒चीन॑मपरा॒ह्णात् ।
प्रा॒चीनँ॑ सा॒यात् ।
ततो॑ दे॒वा अ॑तिरा॒त्रन्निर॑मिमत ।
तत्तदात्त॑वीर्यन्निर्मा॒र्गः ।
वरु॑णस्य सा॒यम् ।
तत्पुण्य॑न्तेज॒स्व्यहः॑ ।
तस्मा॒त्तर्हि॒ नानृ॑तव्ँवदेत् ॥ 17 ॥
ब्रा॒ह्म॒णो वा अ॑ष्टाविँ॒शो नक्ष॑त्राणाम् ।
स॒मा॒नस्याह्न॒ᳶ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राणि ।
च॒त्वार्य॑श्ली॒लानि॑ ।
तानि॒ नव॑ ।
यच्च॑ प॒रस्ता॒न्नक्ष॑त्राणाय्ँ॒यच्चा॒वस्ता॑त् ।
तान्येका॑दश ।
ब्रा॒ह्म॒णो द्वा॑द॒शः ।
य ए॒वव्ँ वि॒द्वान्त्सव्ँ॑वत्स॒रव्व्ँर॒तञ्चर॑ति ।
सव्ँ॒व॒त्स॒रेणै॒वास्य॑ व्र॒तङ्गु॒प्तम्भ॑वति ।
स॒मा॒नस्याह्न॒ᳶ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राणि ।
च॒त्वार्य॑श्ली॒लानि॑ ।
तानि॒ नव॑ ।
आ॒ग्ने॒यी रात्रिः॑ ।
ऐ॒न्द्रमहः॑ ।
तान्येका॑दश ।
आ॒दि॒त्यो द्वा॑द॒शः ।
य ए॒वव्ँ वि॒द्वान्त्सव्ँ॑वत्स॒रव्व्ँर॒तञ्चर॑ति ।
सव्ँ॒व॒त्स॒रेणै॒वास्य॑ व्र॒तङ्गु॒प्तम्भ॑वति ॥ 18 ॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
कति॒ पात्रा॑णि य॒ज्ञव्ँव॑ह॒न्तीति॑ ।
त्रयो॑द॒शेति॑ ब्रूयात् ।
स यद्ब्रू॒यात् ।
कस्तानि॒ निर॑मिमी॒तेति॑ ।
प्र॒जाप॑ति॒रिति॑ ब्रूयात् ।
स यद्ब्रू॒यात् ।
कुत॒स्तानि॒ निर॑मिमी॒तेति॑ ।
आ॒त्मन॒ इति॑ ।
प्रा॒णा॒पा॒नाभ्या॑मे॒वोपाँ॑श्वन्तर्या॒मौ निर॑मिमीत ॥ 19 ॥
व्या॒नादु॑पाँशु॒सव॑नम् ।
वा॒च ऐ॑न्द्रवाय॒वम् ।
द॒क्ष॒क्र॒तुभ्या॑म्मैत्रावरु॒णम् ।
श्रोत्रा॑दाश्वि॒नम् ।
चक्षु॑षश्शु॒क्राम॒न्थिनौ॑ ।
आ॒त्मन॑ आग्रय॒णम् ।
अङ्गे॑भ्य उ॒क्थ्य॑म् ।
आयु॑षो ध्रु॒वम् ।
प्र॒ति॒ष्ठाया॑ ऋतुपा॒त्रे ।
य॒ज्ञव्ँ वाव तम्प्र॒जाप॑ति॒र्निर॑मिमीत ।
स निर्मि॑तो॒ नाद्ध्रि॑यत॒ सम॑व्लीयत ।
स ए॒तान्प्र॒जाप॑तिरपिवा॒पान॑पश्यत् ।
तान्निर॑वपत् ।
तैर्वै स य॒ज्ञमप्य॑वपत् ।
यद॑पिवा॒पा भव॑न्ति ।
य॒ज्ञस्य॒ धृत्या॒ अस॑व्व्ँलयाय ॥ 20 ॥
ऋ॒तमे॒व प॑रमे॒ष्ठि ।
ऋ॒तन्नात्ये॑ति॒ किञ्च॒न ।
ऋ॒ते स॑मु॒द्र आहि॑तः ।
ऋ॒ते भूमि॑रि॒यँ श्रि॒ता ।
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ ।
तप॒ आक्रा॑न्तमु॒ष्णिहा॑ ।
शिर॒स्तप॒स्याहि॑तम् ।
वै॒श्वा॒न॒रस्य॒ तेज॑सा ।
ऋ॒तेना॑स्य॒ नि व॑र्तये ।
स॒त्येन॒ परि॑ वर्तये ।
तप॑सा॒ऽस्यानु॑ वर्तये ।
शि॒वेना॒स्योप॑ वर्तये ।
श॒ग्मेना॑स्या॒भि व॑र्तये ।
तदृ॒तन्तत्स॒त्यम् ।
तद्व्र॒तन्तच्छ॑केयम् ।
तेन॑ शकेय॒न्तेन॑ राध्यासम् ॥ 21 ॥
यद्घ॒र्मᳶ प॒र्यव॑र्तयत् ।
अन्ता॑न्पृथि॒व्या दि॒वः ।
अ॒ग्निरीशा॑न॒ ओज॑सा ।
वरु॑णो धी॒तिभि॑स्स॒ह ।
इन्द्रो॑ म॒रुद्भि॒स्सखि॑भिस्स॒ह ।
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ ।
तप॒ आक्रा॑न्तमु॒ष्णिहा॑ ।
शिर॒स्तप॒स्याहि॑तम् ।
वै॒श्वा॒न॒रस्य॒ तेज॑सा ।
ऋ॒तेना॑स्य॒ नि व॑र्तये ।
स॒त्येन॒ परि॑ वर्तये ।
तप॑सा॒ऽस्यानु॑ वर्तये ।
शि॒वेना॒स्योप॑ वर्तये ।
श॒ग्मेना॑स्या॒भि व॑र्तये ।
तदृ॒तन्तत्स॒त्यम् ।
तद्व्र॒तन्तच्छ॑केयम् ।
तेन॑ शकेय॒न्तेन॑ राध्यासम् ॥ 22 ॥
यो अ॒स्याᳶ पृ॑थि॒व्यास्त्व॒चि ।
नि॒व॒र्तय॒त्योष॑धीः ।
अ॒ग्निरीशा॑न॒ ओज॑सा ।
वरु॑णो धी॒तिभि॑स्स॒ह ।
इन्द्रो॑ म॒रुद्भि॒स्सखि॑भिस्स॒ह ।
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ ।
तप॒ आक्रा॑न्तमु॒ष्णिहा॑ ।
शिर॒स्तप॒स्याहि॑तम् ।
वै॒श्वा॒न॒रस्य॒ तेज॑सा ।
ऋ॒तेना॑स्य॒ नि व॑र्तये ।
स॒त्येन॒ परि॑ वर्तये ।
तप॑सा॒ऽस्यानु॑ वर्तये ।
शि॒वेना॒स्योप॑ वर्तये ।
श॒ग्मेना॑स्या॒भि व॑र्तये ।
तदृ॒तन्तत्स॒त्यम् ।
तद्व्र॒तन्तच्छ॑केयम् ।
तेन॑ शकेय॒न्तेन॑ राध्यासम् ॥ 23 ॥
एक॒म्मास॒मुद॑सृजत् ।
प॒र॒मे॒ष्ठी प्र॒जाभ्यः॑ ।
तेना॑भ्यो॒ मह॒ आव॑हत् ।
अ॒मृत॒म्मर्त्या॑भ्यः ।
प्र॒जामनु॒ प्र जा॑यसे ।
तदु॑ ते मर्त्या॒मृत॑म् ।
येन॒ मासा॑ अर्धमा॒साः ।
ऋ॒तव॑ᳶ परिवत्स॒राः ।
येन॒ ते ते॑ प्रजापते ।
ई॒जा॒नस्य॒ न्यव॑र्तयन् ।
तेना॒हम॒स्य ब्रह्म॑णा ।
निव॑र्तयामि जी॒वसे॑ ।
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ ।
तप॒ आक्रा॑न्तमु॒ष्णिहा॑ ।
शिर॒स्तप॒स्याहि॑तम् ।
वै॒श्वा॒न॒रस्य॒ तेज॑सा ।
ऋ॒तेना॑स्य॒ नि व॑र्तये ।
स॒त्येन॒ परि॑ वर्तये ।
तप॑सा॒ऽस्यानु॑ वर्तये ।
शि॒वेना॒स्योप॑ वर्तये ।
श॒ग्मेना॑स्या॒भि व॑र्तये ।
तदृ॒तन्तत्स॒त्यम् ।
तद्व्र॒तन्तच्छ॑केयम् ।
तेन॑ शकेय॒न्तेन॑ राध्यासम् ॥ 24 ॥
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत ।
तदसु॑रा अकुर्वत ।
तेऽसु॑रा ऊ॒र्ध्वम्पृ॒ष्ठेभ्यो॒ नाप॑श्यन् ।
ते केशा॒नग्रे॑ऽवपन्त ।
अथ॒ श्मश्रू॑णि ।
अथो॑पप॒क्षौ ।
तत॒स्तेऽवा॑ञ्च आयन् ।
परा॑ऽभवन् ।
यस्यै॒वव्ँवप॑न्ति ।
अवा॑ङेति ॥25॥
अथो॒ परै॒व भ॑वति ।
अथ॑ दे॒वा ऊ॒र्ध्वम्पृ॒ष्ठेभ्यो॑ऽपश्यन् ।
त उ॑पप॒क्षावग्रे॑ऽवपन्त ।
अथ॒ श्मश्रू॑णि ।
अथ॒ केशा॑न् ।
तत॒स्ते॑ऽभवन् ।
सु॒व॒र्गल्ँ लो॒कमा॑यन् ।
यस्यै॒वव्ँवप॑न्ति ।
भव॑त्या॒त्मना॑ ।
अथो॑ सुव॒र्गल्ँ लो॒कमे॑ति ॥ 26 ॥
अथै॒तन्मनु॑र्व॒प्त्रे मि॑थु॒नम॑पश्यत् ।
स श्मश्रू॒ण्यग्रे॑ऽवपत ।
अथो॑पप॒क्षौ ।
अथ॒ केशा॑न् ।
ततो॒ वै स प्राजा॑यत प्र॒जया॑ प॒शुभिः॑ ।
यस्यै॒वव्ँवप॑न्ति ।
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ।
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
ते सव्ँ॑वत्स॒रे व्याय॑च्छन्त ।
तान्दे॒वाश्चा॑तुर्मा॒स्यैरे॒वाभि प्रायु॑ञ्जत ॥ 27 ॥
वै॒श्व॒दे॒वेन॑ च॒तुरो॑ मा॒सो॑ऽवृञ्ज॒तेन्द्र॑राजानः ।
ताञ्छी॒र्षन्नि चाव॑र्तयन्त॒ परि॑ च ।
व॒रु॒ण॒प्र॒घा॒सैश्च॒तुरो॑ मा॒सो॑ऽवृञ्जत॒ वरु॑णराजानः ।
ताञ्छी॒र्षन्नि चाव॑र्तयन्त॒ परि॑ च ।
सा॒क॒मे॒धैश्च॒तुरो॑ मा॒सो॑ऽवृञ्जत॒ सोम॑राजानः ।
ताञ्छी॒र्षन्नि चाव॑र्तयन्त॒ परि॑ च ।
या सव्ँ॑वत्स॒र उ॑पजी॒वाऽऽसी॑त् ।
तामे॑षामवृञ्जत ।
ततो॑ दे॒वा अभ॑वन् ।
पराऽसु॑राः ॥ 28 ॥
य ए॒वव्ँ वि॒द्वाँश्चा॑तुर्मा॒स्यैर्यज॑ते ।
भ्रातृ॑व्यस्यै॒व मा॒सो वृ॒क्त्वा ।
शी॒र्षन्नि च॑ व॒र्तय॑ते॒ परि॑ च ।
यैषा सव्ँ॑वत्स॒र उ॑पजी॒वा ।
वृ॒ङ्क्ते ताम्भ्रातृ॑व्यस्य ।
क्षु॒धाऽस्य॒ भ्रातृ॑व्य॒ᳶ परा॑ भवति ।
लो॒हि॒ता॒य॒सेन॒ नि व॑र्तयते ।
यद्वा इ॒माम॒ग्निर्ऋ॒तावाग॑ते निव॒र्तय॑ति ।
ए॒तदे॒वैनाँ॑ रू॒पङ्कृ॒त्वा निव॑र्तयति ।
सा तत॒श्श्वश्वो॒ भूय॑सी॒ भव॑न्त्येति ॥ 29 ॥
प्र जा॑यते ।
य ए॒वव्ँ वि॒द्वाल्ँ लो॑हिताय॒सेन॑ निव॒र्तय॑ते ।
ए॒तदे॒व रू॒पङ्कृ॒त्वा नि व॑र्तयते ।
स तत॒श्श्वश्वो॒ भूया॒न्भव॑न्नेति ।
प्रैव जा॑यते ।
त्रे॒ण्या श॑ल॒ल्या नि व॑र्तयेत ।
त्रीणि॑त्रीणि॒ वै दे॒वाना॑मृ॒द्धानि॑ ।
त्रीणि॒ छन्दाँ॑सि ।
त्रीणि॒ सव॑नानि ।
त्रय॑ इ॒मे लो॒काः ॥ 30 ॥
ऋ॒ध्यामे॒व तद्वी॒र्य॑ ए॒षु लो॒केषु॒ प्रति॑ तिष्ठति ।
यच्चा॑तुर्मास्यया॒ज्या॑त्मनो॒ नाव॒द्येत् ।
दे॒वेभ्य॒ आवृ॑श्च्येत ।
च॒तृ॒षुच॑तृषु॒ मासे॑षु॒ नि व॑र्तयेत ।
प॒रोक्ष॑मे॒व तद्दे॒वेभ्य॑ आ॒त्मनोऽव॑द्य॒त्यना॑व्रस्काय ।
दे॒वानाव्ँ॒वा ए॒ष आनी॑तः ।
यश्चा॑तुर्मास्यया॒जी ।
य ए॒वव्ँ वि॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च ।
दे॒वता॑ ए॒वाप्ये॑ति ।
नास्य॑ रु॒द्रᳶ प्र॒जाम्प॒शून॒भि म॑न्यते ॥ 31 ॥
आयु॑षᳶ प्रा॒णँ सन्त॑नु ।
प्रा॒णाद॑पा॒नँ सन्त॑नु ।
अ॒पा॒नाद्व्या॒नँ सन्त॑नु ।
व्या॒नाच्चक्षु॒स्सन्त॑नु ।
चक्षु॑ष॒श्श्रोत्रँ॒ सन्त॑नु ।
श्रोत्रा॒न्मन॒स्सन्त॑नु ।
मन॑सो॒ वाचँ॒ सन्त॑नु ।
वा॒च आ॒त्मानँ॒ सन्त॑नु ।
आ॒त्मन॑ᳶपृथि॒वीँ सन्त॑नु ।
पृ॒थि॒व्या अ॒न्तरि॑क्षँ॒ सन्त॑नु ।
अ॒न्तरि॑क्षा॒द्दिव॒ ँ॒सन्त॑नु ।
दिव॒स्सुव॒स्सन्त॑नु ॥ 32 ॥
इन्द्रो॑ दधी॒चो अ॒स्थभिः॑ ।
वृ॒त्राण्यप्र॑तिष्कुतः ।
ज॒घान॑ नव॒तीर्नव॑ ।
इ॒च्छन्नश्व॑स्य॒ यच्छिरः॑ ।
पर्व॑ते॒ष्वप॑श्रितम् ।
तद्वि॑दच्छर्य॒णाव॑ति ।
अत्राह॒ गोरम॑न्वत ।
नाम॒ त्वष्टु॑रपी॒च्य॑म् ।
इ॒त्था च॒न्द्रम॑सो गृ॒हे ।
इन्द्र॒मिद्गा॒थिनो॑ बृ॒हत् ॥ 33 ॥
इन्द्र॑म॒र्केभि॑र॒र्किणः॑ ।
इन्द्रव्ँ॒वाणी॑रनूषत ।
इन्द्र॒ इद्धर्यो॒स्सचा॑ ।
सम्मि॑श्ल॒ आव॑चो॒ युजा॑ ।
इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ।
इन्द्रो॑ दी॒र्घाय॒ चक्ष॑से ।
आ सूर्यँ॑ रोहयद्दि॒वि ।
वि गोभि॒रद्रि॑मैरयत् ।
इन्द्र॒ वाजे॑षु नो अव ।
स॒हस्र॑प्रधनेषु च ॥ 34 ॥
उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ ।
तमिन्द्रव्ँ॑वाजयामसि ।
म॒हे वृ॒त्राय॒ हन्त॑वे ।
स वृषा॑ वृष॒भो भु॑वत् ।
इन्द्र॒स्स दाम॑ने कृ॒तः ।
ओजि॑ष्ठ॒स्स बले॑ हि॒तः ।
द्यु॒म्नी श्लो॒की स सौ॒म्यः॑ ।
गि॒रा वज्रो॒ न सम्भृ॑तः ।
सब॑लो॒ अन॑पच्युतः ।
व॒व॒क्षुरु॒ग्रो अस्तृ॑तः ॥ 35 ॥
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
स प्र॒जाप॑ति॒रिन्द्र॑ञ्ज्ये॒ष्ठम्पु॒त्रमप॒ न्य॑धत्त ।
नेदे॑न॒मसु॑रा॒ बली॑याँसोऽहन॒न्निति॑ ।
प्र॒ह्रादो॑ ह॒ वै का॑याध॒वः ।
वि॒रोच॑नँ॒ स्वम्पु॒त्रमप॒ न्य॑धत्त ।
नेदे॑नन्दे॒वा अ॑हन॒न्निति॑ ।
ते दे॒वाᳶ प्र॒जाप॑तिमुपस॒मेत्यो॑चुः ।
नारा॒जक॑स्य यु॒द्धम॑स्ति ।
इन्द्र॒मन्वि॑च्छा॒मेति॑ ।
तय्ँय॑ज्ञक्र॒तुभि॒रन्वै॑च्छन्न् ॥ 36 ॥
तय्ँय॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दन् ।
तमिष्टि॑भि॒रन्वै॑च्छन् ।
तमिष्टि॑भि॒रन्व॑विन्दन् ।
तदिष्टी॑नामिष्टि॒त्वम् ।
एष्ट॑यो ह॒ वै नाम॑ ।
ता इष्ट॑य॒ इत्याच॑क्षते प॒रोक्षे॑ण ।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
तस्मा॑ ए॒तमा॑ग्नावैष्ण॒वमेका॑दशकपालन्दीक्ष॒णीय॒न्निर॑वपन् ।
तद॑प॒द्रुत्या॑तन्वत ।
तान्प॑त्नीसय्ँया॒जान्त॒ उपा॑नयन्न् ॥ 37 ॥
ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन् ।
ते प्रा॑य॒णीय॑म॒भि स॒मारो॑हन् ।
तद॑प॒द्रुत्या॑तन्वत ।
ताञ्छय्ँ॒य्व॑न्त॒ उपा॑नयन् ।
ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन् ।
त आ॑ति॒थ्यम॒भि स॒मारो॑हन् ।
तद॑प॒द्रुत्या॑तन्वत ।
तानिडा॑न्त॒ उपा॑नयन् ।
ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन् ।
तस्मा॑दे॒ता ए॒तद॑न्ता॒ इष्ट॑य॒स्सन्ति॑ष्ठन्ते ॥ 38 ॥
ए॒वँ हि दे॒वा अकु॑र्वत ।
इति॑ दे॒वा अ॑कुर्वत ।
इत्यु॒ वै म॑नु॒ष्याः॑ कुर्वते ।
ते दे॒वा ऊ॑चुः ।
यद्वा इ॒दमु॒च्चैर्य॒ज्ञेन॒ चरा॑म ।
तन्नोऽसु॑राᳶ पा॒प्माऽनु॑विन्दन्ति ।
उ॒पाँ॒शू॑प॒सदा॑ चराम ।
तथा॒ नोऽसु॑राᳶ पा॒प्मा नानु॑वेत्स्य॒न्तीति॑ ।
त उ॑पाँ॒शू॑प॒सद॑मतन्वत ।
ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ ॥ 39 ॥
स्रु॒वेणा॑घा॒रमा॒घार्य॑ ।
ति॒स्रᳶ परा॑ची॒राहु॑तीर् हु॒त्वा ।
स्रु॒वेणो॑प॒सद॑ञ्जुह॒वाञ्च॑क्रुः ।
उ॒ग्रव्ँवचो॒ अपा॑वधीन्त्वे॒षव्ँवचो॒ अपा॑वधीँ॒स्वाहेति॑ ।
अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रव्ँवचः॑ ।
एन॑श्च॒ वैर॑हत्यञ्च त्वे॒षव्ँवचः॑ ।
ए॒तँ ह॒ वाव तच्च॑तुर्धाविहि॒तम्पा॒प्मान॑न्दे॒वा अप॑जघ्निरे ।
तथो॑ ए॒वैतदे॑वव्ँ॒विद्यज॑मानः ।
ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ ।
स्रु॒वेणा॑घा॒रमा॒घार्य॑ ॥ 40 ॥
ति॒स्रᳶ परा॑ची॒राहु॑तीर्हु॒त्वा ।
स्रु॒वेणो॑प॒सद॑ञ्जुहोति ।
उ॒ग्रव्ँवचो॒ अपा॑वधीन्त्वे॒षव्ँवचो॒ अपा॑वधीँ॒ स्वाहेति॑ ।
अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रव्ँवचः॑ ।
एन॑श्च॒ वैर॑हत्यञ्च त्वे॒षव्ँवचः॑ ।
ए॒तमे॒व तच्च॑तुर्धाविहि॒तम्पा॒प्मानय्ँ॒यज॑मा॒नोऽप॑ हते ।
ते॑ऽभि॒नीयै॒वाह॑ᳶ प॒शुमाऽल॑भन्त ।
अह्न॑ ए॒व तद्दे॒वा अव॑र्तिम्पा॒प्मान॑म्मृ॒त्युमप॑जघ्निरे ।
तेना॑भि॒नीये॑व॒ रात्रे॒ᳶ प्राच॑रन् ।
रात्रि॑या ए॒व तद्दे॒वा अव॑र्तिम्पा॒प्मान॑म्मृ॒त्युमप॑जघ्निरे ॥ 41 ॥
तस्मा॑दभि॒नीयै॒वाह॑ᳶ प॒शुमा ल॑भेत ।
अह्न॑ ए॒व तद्यज॑मा॒नोऽव॑र्तिम्पा॒प्मान॒म्भ्रातृ॑व्या॒नप॑ नुदते ।
तेना॑भि॒नीये॑व॒ रात्रे॒ᳶ प्रच॑रेत् ।
रात्रि॑या ए॒व तद्यज॑मा॒नोऽव॑र्तिम्पा॒प्मान॒म्भ्रातृ॑व्या॒नप॑ नुदते ।
स ए॒ष उ॑पवस॒थीयेऽह॑न्द्विदेव॒त्य॑ᳶ प॒शुरा ल॑भ्यते ।
द्व॒यव्ँ वा अ॒स्मिल्ँ लो॒के यज॑मानः ।
अस्थि॑ च माँ॒सञ्च॑ ।
अस्थि॑ चै॒व तेन॑ माँ॒सञ्च॒ यज॑मान॒स्सँस्कु॑रुते ।
ता वा ए॒ताᳶ पञ्च॑ दे॒वताः॑ ।
अ॒ग्नीषोमा॑व॒ग्निर्मि॒त्रावरु॑णौ ॥ 42 ॥
प॒ञ्च॒प॒ञ्ची वै यज॑मानः ।
त्वङ्माँ॒सँ स्नावाऽस्थि॑ म॒ज्जा ।
ए॒तमे॒व तत्प॑ञ्चधाविहि॒तमा॒त्मानव्ँ॑वरुणपा॒शान्मु॑ञ्चति ।
भे॒ष॒जता॑यै निर्वरुण॒त्वाय॑ ।
तँ स॒प्तभि॒श्छन्दो॑भिᳶ प्रा॒तर॑ह्वयन् ।
तस्मा॑त्स॒प्त च॑तुरुत्त॒राणि॒ छन्दाँ॑सि प्रातरनुवा॒केऽनू॑च्यन्ते ।
तमे॒तयो॑पस॒मेत्योपा॑सीदन् ।
उपा॑स्मै गायता नर॒ इति॑ ।
तस्मा॑दे॒तया॑ बहिष्पवमा॒न उ॑प॒सद्यः॑ ॥ 43 ॥
स स॑मु॒द्र उ॑त्तर॒तᳶ प्राज्व॑लद्भूम्य॒न्तेन॑ ।
ए॒ष वाव स स॑मु॒द्रः ।
यच्चात्वा॑लः ।
ए॒ष उ॑वे॒व स भू॑म्य॒न्तः ।
यद्वे॑द्य॒न्तः ।
तदे॒तत्त्रि॑श॒लन्त्रि॑पूरु॒षम् ।
तस्मा॒त्तन्त्रि॑वित॒स्तङ्ख॑नन्ति ।
स सु॑वर्णरज॒ताभ्या॑ङ्कु॒शीभ्या॒म्परि॑गृहीत आसीत् ।
तय्ँयद॒स्या अध्य॒जन॑यन् ।
तस्मा॑दादि॒त्यः ॥ 44 ॥
अथ॒ यत्सु॑वर्णरज॒ताभ्या॑ङ्कु॒शीभ्या॒म्परि॑गृहीत॒ आसी॑त् ।
साऽस्य॑ कौशि॒कता॑ ।
तन्त्रि॒वृता॒ऽभि प्रास्तु॑वत ।
तन्त्रि॒वृताऽद॑दत ।
तन्त्रि॒वृताऽह॑रन् ।
याव॑ती त्रि॒वृतो॒ मात्रा॑ ।
तम्प॑ञ्चद॒शेना॒भि प्रास्तु॑वत ।
तम्प॑ञ्चद॒शेनाद॑दत ।
तम्प॑ञ्चद॒शेनाह॑रन् ।
याव॑ती पञ्चद॒शस्य॒ मात्रा॑ ॥ 45 ॥
तँ स॑प्तद॒शेना॒भि प्रास्तु॑वत ।
तँ स॑प्तद॒शेनाद॑दत ।
तँ स॑प्तद॒शेनाह॑रन् ।
याव॑ती सप्तद॒शस्य॒ मात्रा॑ ।
तस्य॑ सप्तद॒शेन॑ ह्रि॒यमा॑णस्य॒ तेजो॒ हरो॑ऽपतत् ।
तमे॑कविँ॒शेना॒भि प्रास्तु॑वत ।
तमे॑कविँ॒शेनाद॑दत ।
तमे॑कविँ॒शेनाह॑रन् ।
याव॑त्येकविँ॒शस्य॒ मात्रा॑ ।
ते यत्त्रि॒वृता॑ स्तु॒वते॑ ॥ 46 ॥
त्रि॒वृतै॒व तद्यज॑मान॒माद॑दते ।
तन्त्रि॒वृतै॒व ह॑रन्ति ।
याव॑ती त्रि॒वृतो॒ मात्रा॑ ।
अ॒ग्निर्वै त्रि॒वृत् ।
याव॒द्वा अ॒ग्नेर्दह॑तो धू॒म उ॒देत्यानु॒ व्येति॑ ।
ताव॑ती त्रि॒वृतो॒ मात्रा॑ ।
अ॒ग्नेरे॒वैन॒न्तत् ।
मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ्गमयन्ति ।
अथ॒ यत्प॑ञ्चद॒शेन॑ स्तु॒वते॑ ।
प॒ञ्च॒द॒शेनै॒व तद्यज॑मान॒माद॑दते ॥ 47 ॥
तम्प॑ञ्चद॒शेनै॒व ह॑रन्ति ।
याव॑ती पञ्चद॒शस्य॒ मात्रा॑ ।
च॒न्द्रमा॒ वै प॑ञ्चद॒शः ।
ए॒ष हि प॑ञ्चद॒श्याम॑पक्षी॒यते॑ ।
प॒ञ्च॒द॒श्यामा॑पू॒र्यते॑ ।
च॒न्द्रम॑स ए॒वैन॒न्तत् ।
मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ्गमयन्ति ।
अथ॒ यत्स॑प्तद॒शेन॑ स्तु॒वते॑ ।
स॒प्त॒द॒शेनै॒व तद्यज॑मान॒माद॑दते ।
तँ स॑प्तद॒शेनै॒व ह॑रन्ति ॥ 48 ॥
याव॑ती सप्तद॒शस्य॒ मात्रा॑ ।
प्र॒जाप॑ति॒र्वै स॑प्तद॒शः ।
प्र॒जाप॑तेरे॒वैन॒न्तत् ।
मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ्गमयन्ति ।
अथ॒ यदे॑कविँ॒शेन॑ स्तु॒वते॑ ।
ए॒क॒विँ॒शेनै॒व तद्यज॑मान॒माद॑दते ।
तमे॑कविँ॒शेनै॒व ह॑रन्ति ।
याव॑त्येकविँ॒शस्य॒ मात्रा॑ ।
अ॒सौ वा आ॑दि॒त्य ए॑कविँ॒शः ।
आ॒दि॒त्यस्यै॒वैन॒न्तत् ॥ 49 ॥
मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ्गमयन्ति ।
ते कु॒श्यौ॑ ।
व्य॑घ्नन् ।
ते अ॑होरा॒त्रे अ॑भवताम् ।
अह॑रे॒व सु॒वर्णा॑ऽभवत् ।
र॒ज॒ता रात्रिः॑ ।
स यदा॑दि॒त्य उ॒देति॑ ।
ए॒तामे॒व तत्सु॒वर्णा॑ङ्कु॒शीमनु॒ समे॑ति ।
अथ॒ यद॑स्त॒मेति॑ ।
ए॒तामे॒व तद्र॑ज॒ताङ्कु॒शीमनु॒सव्ँ वि॑शति ।
प्र॒ह्रादो॑ ह॒ वै का॑याध॒वः ।
वि॒रोच॑नँ॒ स्वम्पु॒त्रमुदा॑स्यत् ।
स प्र॑द॒रो॑ऽभवत् ।
तस्मा॑त्प्रद॒रादु॑द॒कन्नाचा॑मेत् ॥ 50 ॥
ये वै च॒त्वार॒स्स्तोमाः॑ ।
कृ॒तन्तत् ।
अथ॒ ये पञ्च॑ ।
कलि॒स्सः ।
तस्मा॒च्चतु॑ष्टोमः ।
तच्चतु॑ष्टोमस्य चतुष्टोम॒त्वम् ।
तदा॑हुः ।
क॒त॒मानि॒ तानि॒ ज्योतीँ॑षि ।
य ए॒तस्य॒ स्तोमा॒ इति॑ ।
त्रि॒वृत्प॑ञ्चद॒शस्स॑प्तद॒श ए॑कविँ॒शः ॥ 51 ॥
ए॒तानि॒ वाव तानि॒ ज्योतीँ॑षि ।
य ए॒तस्य॒ स्तोमाः॑ ।
सो॑ऽब्रवीत् ।
स॒प्त॒द॒शेन॑ ह्रि॒यमा॑णो॒ व्य॑लेशिषि ।
भि॒षज्य॑त॒ मेति॑ ।
तम॒श्विनौ॑ धा॒नाभि॑रभिषज्यताम् ।
पू॒षा क॑र॒म्भेण॑ ।
भार॑ती परिवा॒पेण॑ ।
मि॒त्रावरु॑णौ पय॒स्य॑या ।
तदा॑हुः ॥ 52 ॥
यद॒श्विभ्या॑न्धा॒नाः ।
पू॒ष्णᳵ क॑र॒म्भः ।
भार॑त्यै परिवा॒पः ।
मि॒त्रावरु॑णयोᳶ पय॒स्याऽथ॑ ।
कस्मा॑दे॒तेषाँ॑ ह॒विषा॒मिन्द्र॑मे॒व य॑ज॒न्तीति॑ ।
ए॒ता ह्ये॑नन्दे॒वता॒ इति॑ ब्रूयात् ।
ए॒तैर्ह॒विर्भि॒रभि॑षज्यँ॒ स्तस्मा॒दिति॑ ।
तव्ँवस॑वो॒ऽष्टाक॑पालेन प्रातस्सव॒ने॑ऽभिषज्यन् ।
रु॒द्रा एका॑दशकपालेन॒ माध्य॑न्दिने॒ सव॑ने ।
विश्वे॑ दे॒वा द्वाद॑शकपालेन तृतीयसव॒ने ॥ 53 ॥
स यद॒ष्टाक॑पालान्प्रातस्सव॒ने कु॒र्यात् ।
एका॑दशकपाला॒न्माध्य॑न्दिने॒ सव॑ने ।
द्वाद॑शकपालाँस्तृतीयसव॒ने ।
विलो॑म॒ तद्य॒ज्ञस्य॑ क्रियेत ।
एका॑दशकपालाने॒व प्रा॑तस्सव॒ने कु॑र्यात् ।
एका॑दशकपाला॒न्माध्य॑न्दिने॒ सव॑ने ।
एका॑दशकपालाँस्तृतीयसव॒ने ।
य॒ज्ञस्य॑ सलोम॒त्वाय॑ ।
तदा॑हुः ।
यद्वसू॑नाम्प्रातस्सव॒नम् ।
रु॒द्राणा॒म्माध्य॑न्दिनँ॒ सव॑नम् ।
विश्वे॑षान्दे॒वाना॑न्तृतीयसव॒नम् ।
अथ॒ कस्मा॑दे॒तेषाँ॑ ह॒विषा॒मिन्द्र॑मे॒व य॑ज॒न्तीति॑ ।
ए॒ता ह्ये॑नन्दे॒वता॒ इति॑ ब्रूयात् ।
ए॒तैर्ह॒विर्भि॒रभि॑षज्यँ॒ स्तस्मा॒दिति॑ ॥ 54 ॥
तस्यावा॑चोऽवपा॒दाद॑बिभयुः ।
तमे॒तेषु॑ स॒प्तसु॒ छन्द॑स्स्वश्रयन् ।
यदश्र॑यन् ।
तच्छ्रा॑य॒न्तीय॑स्य श्रायन्तीय॒त्वम् ।
यदवा॑रयन् ।
तद्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम् ।
तस्यावा॑च ए॒वाव॑पा॒दाद॑बिभयुः ।
तस्मा॑ ए॒तानि॑ स॒प्त च॑तुरुत्त॒राणि॒ छन्दाँ॒स्युपा॑दधुः ।
तेषा॒मति॒ त्रीण्य॑रिच्यन्त ।
न त्रीण्युद॑भवन्न् ॥ 55 ॥
स बृ॑ह॒तीमे॒वास्पृ॑शत् ।
द्वाभ्या॑म॒क्षरा॑भ्याम् ।
अ॒हो॒रा॒त्राभ्या॑मे॒व ।
तदा॑हुः ।
क॒त॒मा सा दे॒वाक्ष॑रा बृह॒ती ।
यस्या॒न्तत्प्र॒त्यति॑ष्ठत् ।
द्वाद॑श पौर्णमा॒स्यः॑ ।
द्वाद॒शाष्ट॑काः ।
द्वाद॑शामावा॒स्याः॑ ।
ए॒षा वाव सा दे॒वाक्ष॑रा बृह॒ती ॥ 56 ॥
यस्या॒न्तत्प्र॒त्यति॑ष्ठ॒दिति॑ ।
यानि॑ च॒ छन्दाँ॑स्य॒त्यरि॑च्यन्त ।
यानि॑ च॒ नोदभ॑वन् ।
तानि॒ निर्वी॑र्याणि ही॒नान्य॑मन्यन्त ।
साऽब्र॑वीद्बृह॒ती ।
मामे॒व भू॒त्वा ।
मामुप॒ सँश्र॑य॒तेति॑ ।
च॒तुर्भि॑र॒क्षरै॑रनु॒ष्टुग्बृ॑ह॒तीन्नोद॑भवत् ।
च॒तुर्भि॑र॒क्षरै॑ᳶ प॒ङ्क्तिर्बृ॑ह॒तीमत्य॑रिच्यत ।
तस्या॑मे॒तानि॑ च॒त्वार्य॒क्षरा॑ण्यप॒च्छिद्या॑दधात् ॥ 57 ॥
ते बृ॑ह॒ती ए॒व भू॒त्वा ।
बृ॒ह॒तीमुप॒ सम॑श्रयताम् ।
अ॒ष्टा॒भिर॒क्षरै॑रु॒ष्णिग्बृ॑ह॒तीन्नोद॑भवत् ।
अ॒ष्टा॒भिर॒क्षरै॑स्त्रि॒ष्टुग्बृ॑ह॒तीमत्य॑रिच्यत ।
तस्या॑मे॒तान्य॒ष्टाव॒क्षरा॑ण्यप॒च्छिद्या॑दधात् ।
ते बृ॑ह॒ती ए॒व भू॒त्वा ।
बृ॒ह॒तीमुप॒ सम॑श्रयताम् ।
द्वा॒द॒शभि॑र॒क्षरै॑र्गाय॒त्री बृ॑ह॒तीन्नोद॑भवत् ।
द्वा॒द॒शभि॑र॒क्षरै॒र्जग॑ती बृह॒तीमत्य॑रिच्यत ।
तस्या॑मे॒तानि॒ द्वाद॑शा॒क्षरा॑ण्यप॒च्छिद्या॑दधात् ॥ 58 ॥
ते बृ॑ह॒ती ए॒व भू॒त्वा ।
बृ॒ह॒तीमुप॒ सम॑श्रयताम् ।
सो॑ऽब्रवीत्प्र॒जाप॑तिः ।
छन्दाँ॑सि॒ रथो॑ मे भवत ।
यु॒ष्माभि॑र॒हमे॒तमध्वा॑न॒मनु॒ सञ्च॑रा॒णीति॑ ।
तस्य॑ गाय॒त्री च॒ जग॑ती च प॒क्षाव॑भवताम् ।
उ॒ष्णिक्च॑ त्रि॒ष्टुप्च॒ प्रष्ट्यौ॑ ।
अ॒नु॒ष्टुप्च॑ प॒ङ्क्तिश्च॒ धुर्यौ॑ ।
बृ॒ह॒त्ये॑वोद्धिर॑भवत् ।
स ए॒तञ्छ॑न्दोर॒थमा॒स्थाय॑ ।
ए॒तमध्वा॑न॒मनु॒ सम॑चरत् ।
ए॒तँ ह॒ वै छ॑न्दोर॒थमा॒स्थाय॑ ।
ए॒तमध्वा॑न॒मनु॒ सञ्च॑रति ।
येनै॒ष ए॒तत्स॒ञ्चर॑ति ।
य ए॒वव्ँ वि॒द्वान्त्सोमे॑न॒ यज॑ते ।
य उ॑ चैनमे॒वव्ँवेद॑ ॥ 59 ॥
अनु॑मत्यै पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पति ।
ये प्र॒त्यञ्च॒श्शम्या॑या अव॒शीय॑न्ते ।
तन्नै॑र्ऋ॒तमेक॑कपालम् ।
इ॒यव्ँ वा अनु॑मतिः ।
इ॒यन्निर्ऋ॑तिः ।
नै॒र्ऋ॒तेन॒ पूर्वे॑ण॒ प्रच॑रति ।
पा॒प्मान॑मे॒व निर्ऋ॑ति॒म्पूर्वा॑न्नि॒रव॑दयते ।
एक॑कपालो भवति ।
ए॒क॒धैव निर्ऋ॑तिन्नि॒रव॑दयते ।
यदहु॑त्वा॒ गार्ह॑पत्य ई॒युः ॥1॥
रु॒द्रो भू॒त्वाऽग्निर॑नू॒त्थाय॑ ।
अ॒ध्व॒र्युञ्च॒ यज॑मानञ्च हन्यात् ।
वीहि॒ स्वाहाऽऽहु॑तिञ्जुषा॒ण इत्या॑ह ।
आहु॑त्यै॒वैनँ॑ शमयति ।
नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानः ।
ए॒को॒ल्मु॒केन॑ यन्ति ।
तद्धि निर्ऋ॑त्यै भाग॒धेय॑म् ।
इ॒मान्दिशय्ँ॑यन्ति ।
ए॒षा वै निर्ऋ॑त्यै॒ दिक् ।
स्वाया॑मे॒व दि॒शि निर्ऋ॑तिन्नि॒रव॑दयते ॥2॥
स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा॑ ।
ए॒तद्वै निर्ऋ॑त्या आ॒यत॑नम् ।
स्व ए॒वायत॑ने॒ निर्ऋ॑तिन्नि॒रव॑दयते ।
ए॒ष ते॑ निर्ऋते भा॒ग इत्या॑ह ।
निर्दि॑शत्ये॒वैना॑म् ।
भूते॑ ह॒विष्म॑त्य॒सीत्या॑ह ।
भूति॑मे॒वोपाव॑र्तते ।
मु॒ञ्चेममँह॑स॒ इत्या॑ह ।
अँह॑स ए॒वैन॑म्मुञ्चति ।
अ॒ङ्गु॒ष्ठाभ्या॑ञ्जुहोति ॥3 ॥
अ॒न्त॒त ए॒व निर्ऋ॑तिन ्नि॒रव॑दयते ।
कृ॒ष्णव्ँ वास॑ᳵ कृ॒ष्णतू॑ष॒न्दक्षि॑णा ।
ए॒तद्वै निर्ऋ॑त्यै रू॒पम् ।
रू॒पेणै॒व निर्ऋ॑तिन्नि॒रव॑दयते ।
अप्र॑तीक्ष॒माय॑न्ति ।
निर्ऋ॑त्या अ॒न्तर्हि॑त्यै ।
स्वाहा॒ नमो॒ य इ॒दञ्च॒कारेति॒ पुन॒रेत्य॒ गार्ह॑पत्ये जुहोति ।
आहु॑त्यै॒व न॑म॒स्यन्तो॒ गार्ह॑पत्यमु॒पाव॑र्तन्ते ।
आ॒नु॒म॒तेन॒ प्रच॑रति ।
इ॒यव्ँ वा अनु॑मतिः ॥4॥
इ॒यमे॒वास्मै॑ रा॒ज्यमनु॑ मन्यते ।
धे॒नुर्दक्षि॑णा ।
इ॒मामे॒व धे॒नुङ्कु॑रुते ।
आ॒दि॒त्यञ्च॒रुन्निर्व॑पति ।
उ॒भयी॑ष्वे॒व प्र॒जास्व॒भिषि॑च्यते ।
दैवी॑षु च॒ मानु॑षीषु च ।
वरो॒ दक्षि॑णा ।
वरो॒ हि रा॒ज्यँ समृ॑द्ध्यै ।
आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपाल॒न्निर्व॑पति ।
अ॒ग्निस्सर्वा॑ दे॒वताः॑ ॥5॥
विष्णु॑र्य॒ज्ञः ।
दे॒वता॑श्चै॒व य॒ज्ञञ्चाव॑ रुन्धे ।
वा॒म॒नो व॒ही दक्षि॑णा ।
यद्व॒ही ।
तेना॑ग्ने॒यः ।
यद्वा॑म॒नः ।
तेन॑ वैष्ण॒वस्समृ॑द्ध्यै ।
अ॒ग्नी॒षो॒मीय॒मेका॑दशकपाल॒न्निर्व॑पति ।
अ॒ग्नीषोमा॑भ्याव्ँ॒वा इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॑ ।
यद॑ग्नीषो॒मीय॒मेका॑दशकपालन्नि॒र्वप॑ति ॥6॥
वार्त्र॑घ्नमे॒व विजि॑त्यै ।
हिर॑ण्य॒न्दक्षि॑णा॒ समृ॑द्ध्यै ।
इन्द्रो॑ वृ॒त्रँ ह॒त्वा ।
दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्या॑र्ध्यत ।
स ए॒तमै॑न्द्रा॒ग्नमेका॑दशकपालमपश्यत् ।
तन्निर॑वपत् ।
तेन॒ वै स दे॒वता॑श्चेन्द्रि॒यञ्चावा॑रुन्ध +++(अवरुन्धे इति पाठः साधुः इति भाति )+++।
यदै॑न्द्रा॒ग्नमेका॑दशकपालन्नि॒र्वप॑ति ।
दे॒वता॑श्चै॒व तेने॑न्द्रि॒यञ्च॒ यज॑मा॒नोऽव॑रुन्धे ।
ऋ॒ष॒भो व॒ही दक्षि॑णा ॥7॥
यद्व॒ही ।
तेना॑ग्ने॒यः ।
यदृ॑ष॒भः ।
तेनै॒न्द्रस्समृ॑द्ध्यै ।
आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति ।
ऐ॒न्द्रन्दधि॑ ।
यदा॑ग्ने॒यो भव॑ति ।
अ॒ग्निर्वै य॑ज्ञमु॒खम् ।
य॒ज्ञ॒मु॒खमे॒वर्द्धि॑म्पु॒रस्ता॑द्धत्ते ।
यदै॒न्द्रन्दधि॑ ॥8॥
इ॒न्द्रि॒यमे॒वाव॑रुन्धे ।
ऋ॒ष॒भो व॒ही दक्षि॑णा ।
यद्व॒ही ।
तेना॑ग्ने॒यः ।
यदृ॑ष॒भः ।
तेनै॒न्द्रस्समृ॑द्ध्यै ।
याव॑ती॒र्वै प्र॒जा ओष॑धीना॒महु॑ताना॒माश्ञ॑न् ।
ताᳶ परा॑ऽभवन् ।
आ॒ग्र॒य॒णम्भ॑वति हु॒ताद्या॑य ।
यज॑मान॒स्याप॑राभावाय ॥9॥
दे॒वा वा ओष॑धीष्वा॒जिम॑युः ।
ता इ॑न्द्रा॒ग्नी उद॑जयताम् ।
तावे॒तमै॑न्द्रा॒ग्नन्द्वाद॑शकपाल॒न्निर॑वृणाताम् ।
यदै॑न्द्रा॒ग्नो भव॒त्युज्जि॑त्यै ।
द्वाद॑शकपालो भवति ।
द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे ।
वै॒श्व॒दे॒वश्च॒रुर्भ॑वति ।
वै॒श्व॒दे॒वव्ँ वा अन्न॑म् ।
अन्न॑मे॒वास्मै॑ स्वदयति ॥10॥
प्र॒थ॒म॒जो व॒त्सो दक्षि॑णा॒ समृ॑द्ध्यै ।
सौ॒म्यँ श्या॑मा॒कञ्च॒रुन्निर्व॑पति ।
सोमो॒ वा अ॑कृष्टप॒च्यस्य॒ राजा॑ ।
अ॒कृ॒ष्ट॒प॒च्यमे॒वास्मै॑ स्वदयति ।
वासो॒ दक्षि॑णा ।
सौ॒म्यँ हि दे॒वत॑या॒ वास॒स्समृ॑द्ध्यै ।
सर॑स्वत्यै च॒रुन्निर्व॑पति ।
सर॑स्वते च॒रुम् ।
मि॒थु॒नमे॒वाव॑ रुन्धे ।
मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ।
एति॒ वा ए॒ष य॑ज्ञमु॒खादृध्याः॑ ।
यो॑ऽग्नेर्दे॒वता॑या॒ एति॑ ।
अ॒ष्टावे॒तानि॑ ह॒वीँषि॑ भवन्ति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रो॑ऽग्निः ।
तेनै॒व य॑ज्ञमु॒खादृध्या॑ अ॒ग्नेर्दे॒वता॑यै॒ नैति॑ ॥11॥
वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
तास्सृ॒ष्टा न प्राजा॑यन्त ।
सो॑ऽग्निर॑कामयत ।
अ॒हमि॒माᳶ प्रज॑नयेय॒मिति॑ ।
स प्र॒जाप॑तये॒ शुच॑मदधात् ।
सो॑ऽशोचत्प्र॒जामि॒च्छमा॑नः ।
तस्मा॒द्यञ्च॑ प्र॒जा भु॒नक्ति॒ यञ्च॒ न ।
तावु॒भौ शो॑चतᳶ प्र॒जामि॒च्छमा॑नौ ।
तास्व॒ग्निमप्य॑सृजत् ।
ता अ॒ग्निरध्यै॑त् ॥12॥
सोमो॒ रेतो॑ऽदधात् ।
स॒वि॒ता प्राज॑नयत् ।
सर॑स्वती॒ वाच॑मदधात् ।
पू॒षाऽपो॑षयत् ।
ते वा ए॒ते त्रिस्सव्ँ॑वत्स॒रस्य॒ प्रयु॑ज्यन्ते ।
ये दे॒वाᳶ पुष्टि॑पतयः ।
सव्ँ॒व॒त्स॒रो वै प्र॒जाप॑तिः ।
सव्ँ॒व॒त्स॒रेणै॒वास्मै॑ प्र॒जाᳶ प्राज॑नयत् ।
ताᳶ प्र॒जा जा॒ता म॒रुतो॑ऽघ्नन् ।
अ॒स्मानपि॒ न प्रायु॑क्ष॒तेति॑ ॥13॥
स ए॒तम्प्र॒जाप॑तिर्मारु॒तँ स॒प्तक॑पालमपश्यत् ।
तन्निर॑वपत् ।
ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत ।
यन्मा॑रु॒तो नि॑रु॒प्यते॑ ।
य॒ज्ञस्य॒ कॢप्त्यै॑ ।
प्र॒जाना॒मघा॑ताय ।
स॒प्तक॑पालो भवति ।
स॒प्तग॑णा॒ वै म॒रुतः॑ ।
ग॒ण॒श ए॒वास्मै॒ विश॑ङ्कल्पयति ।
स प्र॒जाप॑तिरशोचत् ॥14॥
याᳶ पूर्वा॑ᳶ प्र॒जा असृ॑क्षि ।
म॒रुत॒स्ता अ॑वधिषुः ।
क॒थमप॑रास्सृजे॒येति॑ ।
तस्य॒ शुष्म॑ आ॒ण्डम्भू॒तन्निर॑वर्तत ।
तद्व्युद॑हरत् ।
तद॑पोषयत् ।
तत्प्राजा॑यत ।
आ॒ण्डस्य॒ वा ए॒तद्रू॒पम् ।
यदा॒मिक्षा॑ ।
यद्व्यु॒द्धर॑ति ॥15॥
प्र॒जा ए॒व तद्यज॑मानᳶ पोषयति ।
वै॒श्व॒दे॒व्या॑मिक्षा॑ भवति ।
वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः ।
प्र॒जा ए॒वास्मै॒ प्रज॑नयति ।
वाजि॑न॒मान॑यति ।
प्र॒जास्वे॒व प्रजा॑तासु॒ रेतो॑ दधाति ।
द्या॒वा॒पृ॒थि॒व्य॑ एक॑कपालो भवति ।
प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑मुभ॒यत॒ᳶ परि॑गृह्णाति ।
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
सो॑ऽग्निर॑ब्रवीत् ॥16॥
मामग्रे॑ यजत ।
मया॒ मुखे॒नासु॑राञ्जेष्य॒थेति॑ ।
मान्द्वि॒तीय॒मिति॒ सोमो॑ऽब्रवीत् ।
मया॒ राज्ञा॑ जेष्य॒थेति॑ ।
मान्तृ॒तीय॒मिति॑ सवि॒ता ।
मया॒ प्रसू॑ता जेष्य॒थेति॑ ।
माञ्च॑तु॒र्थीमिति॒ सर॑स्वती ।
इ॒न्द्रि॒यव्ँ वो॒ऽहन्धा॑स्या॒मीति॑ ।
माम्प॑ञ्च॒ममिति॑ पू॒षा ।
मया॑ प्रति॒ष्ठया॑ जेष्य॒थेति॑ ॥17॥
ते॑ऽग्निना॒ मुखे॒नासु॑रानजयन् ।
सोमे॑न॒ राज्ञा॑ ।
स॒वि॒त्रा प्रसू॑ताः ।
सर॑स्वतीन्द्रि॒यम॑दधात् ।
पू॒षा प्र॑ति॒ष्ठाऽऽसी॑त् ।
ततो॒ वै दे॒वा व्य॑जयन्त ।
यदे॒तानि॑ ह॒वीँषि॑ निरु॒प्यन्ते॒ विजि॑त्यै ।
नोत्त॑रवे॒दिमुप॑वपति ।
प॒शवो॒ वा उ॑त्तरवे॒दिः ।
अजा॑ता इव॒ ह्ये॑तर्हि॑ प॒शवः॑ ॥18॥
त्रि॒वृद्ब॒र्हिर्भ॑वति ।
मा॒ता पि॒ता पु॒त्रः ।
तदे॒व तन्मि॑थु॒नम् ।
उल्ब॒ङ्गर्भो॑ ज॒रायु॑ ।
तदे॒व तन्मि॑थु॒नम् ।
त्रे॒धा ब॒र्हिस्सन्न॑द्धम्भवति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति ।
ए॒क॒धा पुन॒स्सन्न॑द्धम्भवति ।
एक॑ इव॒ ह्य॑यल्ँ लो॒कः ॥19॥
अ॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑तिष्ठति ।
प्र॒सुवो॑ भवन्ति ।
प्र॒थ॒म॒जामे॒व पुष्टि॒मव॑रुन्धे ।
प्र॒थ॒म॒जो व॒त्सो दक्षि॑णा॒ समृ॑द्ध्यै ।
पृ॒ष॒दा॒ज्यङ्गृ॑ह्णाति ।
प॒शवो॒ वै पृ॑षदा॒ज्यम् ।
प॒शूने॒वाव॑रुन्धे ।
प॒ञ्च॒गृ॒ही॒तम्भ॑वति ।
पाङ्क्ता॒ हि प॒शवः॑ ।
ब॒हु॒रू॒पम्भ॑वति ॥20॥
ब॒हु॒रू॒पा हि प॒शव॒स्समृ॑द्ध्यै ।
अ॒ग्निम्म॑न्थन्ति ।
अ॒ग्निमु॑खा॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
यद॒ग्निम्मन्थ॑न्ति ।
अ॒ग्निमु॑खा ए॒व तत्प्र॒जा यज॑मानस्सृजते ।
नव॑ प्रया॒जा इ॑ज्यन्ते ।
नवा॑नूया॒जाः ।
अ॒ष्टौ ह॒वीँषि॑ ।
द्वावा॑घा॒रौ ।
द्वावाज्य॑भागौ ॥21॥
त्रिँ॒शत्सम्प॑द्यन्ते ।
त्रिँ॒शद॑क्षरा वि॒राट् ।
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ।
यज॑मानो॒ वा एक॑कपालः ।
तेज॒ आज्य॑म् ।
यदेक॑कपाल॒ आज्य॑मा॒नय॑ति ।
यज॑मानमे॒व तेज॑सा॒ सम॑र्धयति ।
यज॑मानो॒ वा एक॑कपालः ।
प॒शव॒ आज्य॑म् ॥22॥
यदेक॑कपाल॒ आज्य॑मा॒नय॑ति ।
यज॑मानमे॒व प॒शुभि॒स्सम॑र्धयति ।
यदल्प॑मा॒नये॑त् ।
अल्पा॑ एनम्प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठेरन् ।
यद्ब॒ह्वा॑नये॑त् ।
ब॒हव॑ एनम्प॒शवोऽभु॑ञ्जन्त॒ उप॑तिष्ठेरन् ।
ब॒ह्वा॑नीया॒विᳶ पृ॑ष्ठङ्कुर्यात् ।
ब॒हव॑ ए॒वैन॑म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठन्ते ।
यज॑मानो॒ वा एक॑कपालः ।
यदेक॑कपालस्याव॒द्येत् ॥23॥
यज॑मान॒स्याव॑द्येत् ।
उद्वा॒ माद्ये॒द्यज॑मानः ।
प्र वा॑ मीयेत ।
स॒कृदे॒व हो॑त॒व्यः॑ ।
स॒कृदि॑व॒ हि सु॑व॒र्गो लो॒कः ।
हु॒त्वाऽभिजु॑होति ।
यज॑मानमे॒व सु॑व॒र्गल्ँ लो॒कङ्ग॑मयि॒त्वा ।
तेज॑सा॒ सम॑र्धयति ।
यज॑मानो॒ वा एक॑कपालः ।
सु॒व॒र्गो लो॒क आ॑हव॒नीयः॑ ॥24॥
यदेक॑कपालमाहव॒नीये॑ जु॒होति॑ ।
यज॑मानमे॒व सु॑व॒र्गल्ँ लो॒कङ्ग॑मयति ।
यद्धस्ते॑न जुहु॒यात् ।
सु॒व॒र्गाल्लो॒काद्यज॑मान॒मव॑विध्येत् ।
स्रु॒चा जु॑होति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
यत्प्राङ्पद्ये॑त ।
दे॒व॒लो॒कम॒भिज॑येत् ।
यद्द॑क्षि॒णा पि॑तृलो॒कम् ।
यत्प्र॒त्यक् ॥25॥
रक्षाँ॑सि य॒ज्ञँ ह॑न्युः ।
यदुदङ्ङ्॑ ।
म॒नु॒ष्य॒लो॒कम॒भिज॑येत् ।
प्रति॑ष्ठितो होत॒व्यः॑ ।
एक॑कपालव्ँ॒ वै प्र॑ति॒तिष्ठ॑न्त॒न्द्यावा॑पृथि॒वी अनु॒ प्रति॑तिष्ठतः ।
द्यावा॑पृथि॒वी ऋ॒तवः॑ ।
ऋ॒तून् य॒ज्ञः ।
य॒ज्ञय्ँयज॑मानः ।
यज॑मानम्प्र॒जाः ।
तस्मा॒त्प्रति॑ष्ठितो होत॒व्यः॑ ॥26॥
वा॒जिनो॑ यजति ।
अ॒ग्निर्वा॒युस्सूर्यः॑ ।
ते वै वा॒जिनः॑ ।
ताने॒व तद्य॑जति ।
अथो॒ खल्वा॑हुः ।
छन्दाँ॑सि॒ वै वा॒जिन॒ इति॑ ।
तान्ये॒व तद्य॑जति ।
ऋ॒क्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ॑ ।
तयो॑ᳶ परि॒धय॑ आ॒धान॑म् ।
वाजि॑नम्भाग॒धेय॑म् ॥27॥
यदप्र॑हृत्य परि॒धीञ्जु॑हु॒यात् ।
अ॒न्तरा॑धानाभ्याङ्घा॒सम्प्रय॑च्छेत् ।
प्र॒हृत्य॑ परि॒धीञ्जु॑होति ।
निरा॑धानाभ्यामे॒व घा॒सम्प्रय॑च्छति ।
ब॒र्हिषि॑ विषि॒ञ्चन्वाजि॑न॒मान॑यति ।
प्र॒जा वै ब॒र्हिः ।
रेतो॒ वाजि॑नम् ।
प्र॒जास्वे॒व रेतो॑ दधाति ।
स॒मु॒प॒हूय॑ भक्षयन्ति ।
ए॒तत्सो॑मपीथा॒ ह्ये॑ते ।
अथो॑ आ॒त्मन्ने॒व रेतो॑ दधते ।
यज॑मान उत्त॒मो भ॑क्षयति ।
प॒शवो॒ वै वाजि॑नम् ।
यज॑मान ए॒व प॒शून्प्रति॑ष्ठापयन्ति ॥28॥
प्र॒जाप॑तिस्सवि॒ता भू॒त्वा प्र॒जा अ॑सृजत ।
ता ए॑न॒मत्य॑मन्यन्त ।
ता अ॑स्मा॒दपा॑क्रामन् ।
ता वरु॑णो भू॒त्वा प्र॒जा वरु॑णेनाग्राहयत् ।
ताᳶ प्र॒जा वरु॑णगृहीताः ।
प्र॒जाप॑ति॒म्पुन॒रुपा॑धावन्ना॒थमि॒च्छमा॑नाः ।
स ए॒तान्प्र॒जाप॑तिर्वरुणप्रघा॒सान॑पश्यत् ।
तान्निर॑वपत् ।
तैर्वै स प्र॒जा व॑रुणपा॒शाद॑मुञ्चत् ।
यद्व॑रुणप्रघा॒सा नि॑रु॒प्यन्ते॑ ॥29॥
प्र॒जाना॒मव॑रुणग्राहाय ।
तासा॒न्दक्षि॑णो बा॒हुर्न्य॑क्न॒ आसी॑त् ।
स॒व्यᳶ प्रसृ॑तः ।
स ए॒तान्द्वि॒तीया॑न्दक्षिण॒तो वेदि॒मुद॑हन् ।
ततो॒ वै स प्र॒जाना॒न्दक्षि॑णम्बा॒हुम्प्रासा॑रयत् ।
यद्द्वि॒तीया॑न्दक्षिण॒तो वेदि॑मु॒द्धन्ति॑ ।
प्र॒जाना॑मे॒व तद्यज॑मानो॒ दक्षि॑णम्बा॒हुम्प्रसा॑रयति ।
तस्मा॑च्चातुर्मास्यया॒ज्य॑मुष्मिल्ँ॑ लो॒क उ॑भ॒याबा॑हुः ।
य॒ज्ञाभि॑जितँ॒ ह्य॑स्य ।
पृ॒थ॒मा॒त्राद्वैदी॒ अस॑म्भिन्ने भवतः ॥30॥
तस्मा॑त्पृथमा॒त्रव्व्यँँसौ॑ ।
उत्त॑रस्याव्ँ॒वेद्या॑मुत्तरवे॒दिमुप॑ वपति ।
प॒शवो॒ वा उ॑त्तरवे॒दिः ।
प॒शूने॒वाव॑रुन्धे ।
अथो॑ यज्ञप॒रुषोऽन॑न्तरित्यै ।
ए॒तद्ब्रा॑ह्मणान्ये॒व पञ्च॑ ह॒वीँषि॑ ।
अथै॒ष ऐ॑न्द्रा॒ग्नो भ॑वति ।
प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वाना॑म् ।
यदि॑न्द्रा॒ग्नी ।
यदै॑न्द्रा॒ग्नो भव॑ति ॥31॥
प्रा॒णा॒पा॒नावे॒वाव॑ रुन्धे ।
ओजो॒ बलव्ँ॒वा ए॒तौ दै॒वाना॑म् ।
यदि॑न्द्रा॒ग्नी ।
यदै॑न्द्रा॒ग्नो भव॑ति ।
ओजो॒ बल॑मे॒वाव॑रुन्धे ।
मा॒रु॒त्या॑मिक्षा॑ भवति ।
वा॒रु॒ण्या॑मिक्षा॑ ।
मे॒षी च॑ मे॒षश्च॑ भवतः ।
मि॒थु॒ना ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति ।
लो॒म॒शौ भ॑वतो मेध्य॒त्वाय॑ ॥32॥
श॒मी॒प॒र्णान्युप॑ वपति ।
घा॒समे॒वाभ्या॒मपि॑ यच्छति ।
प्र॒जाप॑तिम॒न्नाद्य॒न्नोपा॑नमत् ।
स ए॒तेन॑ श॒तेध्मे॑न ह॒विषा॒ऽन्नाद्य॒मवा॑रुन्ध ।
यत्प॑रश्श॒तानि॑ शमीप॒र्णानि॒ भव॑न्ति ।
अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
सौ॒म्यानि॒ वै क॒रीरा॑णि ।
सौ॒म्या खलु॒ वा आहु॑तिर्दि॒वो वृष्टि॑ञ्च्यावयति ।
यत्क॒रीरा॑णि॒ भव॑न्ति ।
सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑रुन्धे ।
का॒य एक॑कपालो भवति ।
प्र॒जाना॑ङ्क॒न्त्वाय॑ ।
प्र॒ति॒पू॒रु॒षङ्क॑रम्भपा॒त्राणि॑ भवन्ति ।
जा॒ता ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति ।
एक॒मति॑रिक्तम् ।
ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति ॥33॥
उत्त॑रस्याव्ँ॒वेद्या॑म॒न्यानि॑ ह॒वीँषि॑ सादयति ।
दक्षि॑णायाम्मारु॒तीम् ।
अ॒प॒धु॒रमे॒वैना॑ युनक्ति ।
अथो॒ ओज॑ ए॒वासा॒मव॑ हरति ।
तस्मा॒द्ब्रह्म॑णश्च क्ष॒त्राच्च॒ विशो॑ऽन्यतोऽपक्र॒मिणीः॑ ।
मा॒रु॒त्या पूर्व॑या॒ प्रच॑रति ।
अनृ॑तमे॒वाव॑ यजते ।
वा॒रु॒ण्योत्त॑रया ।
अ॒न्त॒त ए॒व वरु॑ण॒मव॑ यजते ।
यदे॒वाध्व॒र्युᳵ क॒रोति॑ ॥34॥
तत्प्र॑तिप्रस्था॒ता क॑रोति ।
तस्मा॒द्यच्छ्रेया॑न्क॒रोति॑ ।
तत्पापी॑यान्करोति ।
पत्नीव्ँ॑ वाचयति ।
मेध्या॑मे॒वैना॑ङ्करोति ।
अथो॒ तप॑ ए॒वैना॒मुप॑ नयति ।
यज्जा॒रँ सन्त॒न्न प्र॑ब्रू॒यात् ।
प्रि॒यं ज्ञा॒तिँ रु॑न्ध्यात् ।
अ॒सौ मे॑ जा॒र इति॒ निर्दि॑शेत् ।
नि॒र्दिश्यै॒वैनव्ँ॑वरुणपा॒शेन॑ ग्राहयति ॥35॥
प्र॒घा॒स्या॑न् हवामह॒ इति॒ पत्नी॑मु॒दान॑यति ।
अह्व॑तै॒वैना॑म् ।
यत्पत्नी॑ पुरोनुवा॒क्या॑मनुब्रू॒यात् ।
निर्वी॑र्यो॒ यज॑मानस्स्यात् ।
यज॑मा॒नोऽन्वा॑ह ।
आ॒त्मन्ने॒व वी॒र्य॑न्धत्ते ।
उ॒भौ या॒ज्याँ॑ सवीर्य॒त्वाय॑ ।
यद्ग्रामे॒ यदर॑ण्य॒ इत्या॑ह ।
य॒थो॒दि॒तमे॒व वरु॑ण॒मव॑यजते ।
य॒ज॒मा॒न॒दे॒व॒त्यो॑ वा आ॑हव॒नीयः॑ ॥36॥
भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑ दक्षि॑णः ।
यदा॑हव॒नीये॑ जुहु॒यात् ।
यज॑मानव्ँवरुणपा॒शेन॑ ग्राहयेत् ।
दक्षि॑णे॒ऽग्नौ जु॑होति ।
भ्रातृ॑व्यमे॒व व॑रुणपा॒शेन॑ ग्राहयति ।
शूर्पे॑ण जुहोति ।
अन्य॑मे॒व वरु॑ण॒मव॑ यजते ।
शी॒र्षन्न॑धि नि॒धाय॑ जुहोति ।
शी॒र्ष॒त ए॒व वरु॑ण॒मव॑ यजते ।
प्र॒त्यङ्तिष्ठ॑ञ्जुहोति ॥37॥
प्र॒त्यङ्ङे॒व व॑रुणपा॒शान्निर्मु॑च्यते ।
अक्र॒न्कर्म॑ कर्म॒कृत॒ इत्या॑ह ।
दे॒वानृ॒णन्नि॑रव॒दाय॑ ।
अ॒नृ॒णा गृ॒हानुप॒ प्रेतेति॒ वावैतदा॑ह ।
वरु॑णगृहीतव्ँ॒वा ए॒तद्य॒ज्ञस्य॑ ।
यद्यजु॑षा गृही॒तस्या॑ति॒रिच्य॑ते ।
तुषा॑श्च निष्का॒सश्च॑ ।
तुषै॑श्च निष्का॒सेन॑ चावभृ॒थमवै॑ति ।
वरु॑णगृहीतेनै॒व वरु॑ण॒मव॑यजते ।
अ॒पो॑ऽवभृ॒थमवै॑ति ॥38॥
अ॒प्सु वै वरु॑णः ।
सा॒क्षादे॒व वरु॑ण॒मव॑यजते ।
प्रति॑युतो॒ वरु॑णस्य॒ पाश॒ इत्या॑ह ।
व॒रु॒ण॒पा॒शादे॒व निर्मु॑च्यते ।
अप्र॑तीक्ष॒माय॑न्ति ।
वरु॑णस्या॒न्तर्हि॑त्यै ।
एधो॑ऽष्येधिषी॒महीत्या॑ह ।
स॒मिधै॒वाग्निन्न॑म॒स्यन्त॑ उ॒पाय॑न्ति ।
तेजो॑ऽसि॒ तेजो॒ मयि॑ धे॒हीत्या॑ह ।
तेज॑ ए॒वात्मन्ध॑त्ते ॥39 ॥
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
सो॑ऽग्निर॑ब्रवीत् ।
ममे॒यमनी॑कवती त॒नूः ।
ताम्प्री॑णीत ।
अथासु॑रान॒भिभ॑विष्य॒थेति॑ ।
ते दे॒वा अ॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपन् ।
सो॑ऽग्निरनी॑कवा॒न्त्स्वेन॑ भाग॒धेये॑न प्री॒तः ।
च॒तु॒र्धाऽनी॑कान्यजनयत ।
ततो॑ दे॒वा अभ॑वन् ।
पराऽसु॑राः ॥40॥
यद॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पालन्नि॒र्वप॑ति ।
अ॒ग्निमे॒वानी॑कवन्तँ॒ स्वेन॑ भाग॒धेये॑न प्रीणाति ।
सो॑ऽग्निरनी॑कवा॒न्त्स्वेन॑ भाग॒धेये॑न प्री॒तः ।
च॒तु॒र्धाऽनी॑कानि जनयते ।
अ॒सौ वा आ॑दि॒त्यो॑ऽग्निरनी॑कवान् ।
तस्य॑ र॒श्मयोऽनी॑कानि ।
सा॒कँ सूर्ये॑णोद्य॒ता निर्व॑पति ।
सा॒क्षादे॒वास्मा॒ अनी॑कानि जनयति ।
तेऽसु॑रा॒ᳶ परा॑जिता॒ यन्तः॑ ।
द्यावा॑पृथि॒वी उपा॑श्रयन्न् ॥41॥
ते दे॒वा म॒रुद्भ्य॑स्सान्तप॒नेभ्य॑श्च॒रुन्निर॑वपन् ।
यन्म॒रुद्भ्य॑स्सान्तप॒नेभ्य॑श्च॒रुन्नि॒र्वप॑ति ।
द्यावा॑पृथि॒वीभ्या॑मे॒व तदु॑भ॒यतो॒ यज॑मानो॒ भ्रातृ॑व्या॒न्त्सन्त॑पति ।
म॒ध्यन्दि॑ने॒ निर्व॑पति ।
तर्हि॒ हि तेक्ष्णि॑ष्ठ॒न्तप॑ति ।
च॒रुर्भ॑वति ।
स॒र्वत॑ ए॒वैना॒न्त्सन्त॑पति ।
ते दे॒वाश्श्वो॑विज॒यिन॒स्सन्तः॑ ।
सर्वा॑सान्दु॒ग्धे गृ॑हमे॒धीय॑ञ्च॒रुन्निर॑वपन्न् ॥42॥
आशि॑ता ए॒वाद्योप॑वसाम ।
कस्य॒ वाऽहे॒दम् ।
कस्य॑ वा॒ श्वो भ॑वि॒तेति॑ ।
स शृ॒तो॑ऽभवत् ।
तस्याहु॑तस्य॒ नाश्ञ॑न् ।
न हि दे॒वा अहु॑तस्या॒श्ञन्ति॑ ।
ते॑ऽब्रुवन् ।
कस्मा॑ इ॒मँ हो॑ष्याम॒ इति॑ ।
म॒रुद्भ्यो॑ गृहमे॒धिभ्य॒ इत्य॑ब्रुवन् ।
तम्म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ऽजुहवुः ॥43॥
ततो॑ दे॒वा अभ॑वन् ।
पराऽसु॑राः ।
यस्यै॒वव्ँ वि॒दुषो॑ म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ गृ॒हे जुह्व॑ति ।
भव॑त्या॒त्मना॑ ।
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ।
यद्वै य॒ज्ञस्य॑ पाक॒त्रा क्रि॒यते॑ ।
प॒श॒व्य॑न्तत् ।
पा॒क॒त्रा वा ए॒तत्क्रि॑यते ।
यन्नेध्माब॒र्हिर्भव॑ति ।
न सा॑मिधे॒नीर॒न्वाह॑ ॥44॥
न प्र॑या॒जा इ॒ज्यन्ते॑ ।
नानू॑या॒जाः ।
य ए॒वव्ँ वेद॑ ।
प॒शु॒मान्भ॑वति ।
आज्य॑भागौ यजति ।
य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति ।
म॒रुतो॑ गृहमे॒धिनो॑ यजति ।
भा॒ग॒धेये॑नै॒वैना॒न्त्सम॑र्धयति ।
अ॒ग्निँ स्वि॑ष्ट॒कृतय्ँ॑यजति॒ प्रति॑ष्ठित्यै ।
इडा॑न्तो भवति ।
प॒शवो॒ वा इडा॑ ।
प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑तिष्ठति ॥45॥
यत्पत्नी॑ गृहमे॒धीय॑स्याश्ञी॒यात् ।
गृ॒ह॒मे॒ध्ये॑व स्या॑त् ।
वि त्व॑स्य य॒ज्ञ ऋ॑ध्येत ।
यन्नाश्ञी॒यात् ।
अगृ॑हमेधी स्यात् ।
नास्य॑ य॒ज्ञो व्यृ॑द्ध्येत ।
प्रति॑वेशम्पचेयुः ।
तस्या॑श्ञीयात् ।
गृ॒ह॒मे॒ध्ये॑व भ॑वति ।
नास्य॑ य॒ज्ञो व्यृ॑द्ध्यते ॥46॥
ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वा ।
आशि॑ता अभवन् ।
आञ्ज॑ता॒भ्य॑ञ्जत ।
अनु॑ व॒त्सान॑वासयन् ।
तेभ्योऽसु॑राः॒ क्षुध॒म्प्राहि॑ण्वन् ।
सा दे॒वेषु॑ लो॒कमवि॑त्वा ।
असु॑रा॒न्पुन॑रगच्छत् ।
गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा ।
आशि॑ता भवन्ति ।
आञ्ज॑ते॒ऽभ्य॑ञ्जते ॥47॥
अनु॑ व॒त्सान् वा॑सयन्ति ।
भ्रातृ॑व्यायै॒व तद्यज॑मानः॒ क्षुध॒म्प्रहि॑णोति ।
ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वा ।
इन्द्रा॑य निष्का॒सन्न्य॑दधुः ।
अ॒स्माने॒व श्व इन्द्रो॒ निहि॑तभाग उपावर्ति॒तेति॑ ।
तानिन्द्रो॒ निहि॑तभाग उ॒पाव॑र्तत ।
गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा ।
इन्द्रा॑य निष्का॒सन्निद॑ध्यात् ।
इन्द्र॑ ए॒वैन॒न्निहि॑तभाग उ॒पाव॑र्तते ।
गार्ह॑पत्ये जुहोति ॥48॥
भा॒ग॒धेये॑नै॒वैनँ॒ सम॑र्धयति ।
ऋ॒ष॒भमाह्व॑यति ।
व॒ष॒ट्का॒र ए॒वास्य॒ सः ।
अथो॑ इन्द्रि॒यमे॒व तद्वी॒र्यय्ँ॑यज॑मानो॒ भ्रातृव्य॑स्य वृङ्क्ते ।
इन्द्रो॑ वृ॒त्रँ ह॒त्वा ।
परा॑म्परा॒वत॑मगच्छत् ।
अपा॑राध॒मिति॒ मन्य॑मानः ।
सो॑ऽब्रवीत् ।
क इ॒दव्ँवे॑दिष्य॒तीति॑।
ते॑ऽब्रुवन्म॒रुतो॒ वरव्ँ॑ वृणामहै ॥49॥
अथ॑ व॒यव्ँ वे॑दाम ।
अ॒स्मभ्य॑मे॒व प्र॑थ॒मँ ह॒विर्निरु॑प्याता॒ इति॑ ।
त ए॑न॒मध्य॑क्रीडन् ।
तत्क्री॒डिना॑ङ्क्रीडि॒त्वम् ।
यन्म॒रुद्भ्य॑ᳵ क्री॒डिभ्य॑ᳶ प्रथ॒मँ ह॒विर्नि॑रु॒प्यते॒ विजि॑त्यै ।
सा॒कँ सूर्ये॑णोद्य॒ता निर्व॑पति ।
ए॒तस्मि॒न्वै लो॒क इन्द्रो॑ वृ॒त्रम॑ह॒न्त्समृ॑द्ध्यै ।
ए॒तद्ब्रा॑ह्मणान्ये॒व पञ्च॑ ह॒वीँषि॑ ।
ए॒तद्ब्रा॑ह्मण ऐन्द्रा॒ग्नः ।
अथै॒ष ऐ॒न्द्रश्च॒रुर्भ॑वति ॥50॥
उ॒द्धारव्ँ वा ए॒तमिन्द्र॒ उद॑हरत ।
वृ॒त्रँ ह॒त्वा ।
अ॒न्यासु॑ दे॒वता॒स्वधि॑ ।
यदे॒ष ऐ॒न्द्रश्च॒रुर्भव॑ति ।
उ॒द्धा॒रमे॒व तय्ँयज॑मान॒ उद्ध॑रते ।
अ॒न्यासु॑ प्र॒जास्वधि॑ ।
वै॒श्व॒क॒र्म॒ण एक॑कपालो भवति ।
विश्वा॑न्ये॒व तेन॒ कर्मा॑णि॒ यज॑मा॒नोऽव॑रुन्धे ॥51॥
वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ता व॑रुणप्रघा॒सैर्व॑रुणपा॒शाद॑मुञ्चत् ।
सा॒क॒मे॒धैᳶ प्रत्य॑स्थापयत् ।
त्र्य॑म्बकै रु॒द्रन्नि॒रवा॑दयत ।
पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गल्ँ लो॒कम॑गमयत् ।
यद्वै॑श्वदे॒वेन॒ यज॑ते ।
प्र॒जा ए॒व तद्यज॑मानस्सृजते ।
ता व॑रुणप्रघा॒सैर्व॑रुणपा॒शान्मु॑ञ्चति ।
सा॒क॒मे॒धैᳶ प्रति॑ष्ठापयति ।
त्र्य॑म्बकै रु॒द्रन्नि॒रव॑दयते ॥52॥
पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गल्ँ लो॒कङ्ग॑मयति ।
द॒क्षि॒ण॒तᳶ प्रा॑चीनावी॒ती निर्व॑पति ।
द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् ।
अना॑दृत्य॒ तत् ।
उ॒त्त॒र॒त ए॒वोप॒वीय॒ निर्व॑पेत् ।
उ॒भये॒ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते॑ ।
अथो॒ यदे॒व द॑क्षिणा॒र्धे॑ऽधि॒श्रय॑ति ।
तेन॑ दक्षि॒णावृ॑त् ।
सोमा॑य पितृ॒मते॑ पुरो॒डाशँ॒ षट्क॑पाल॒न्निर्व॑पति ।
सव्ँ॒व॒त्स॒रो वै सोम॑ᳶ पितृ॒मान् ॥53॥
सव्ँ॒व॒त्स॒रमे॒व प्री॑णाति ।
पि॒तृभ्यो॑ बर्हि॒षद्भ्यो॑ धा॒नाः ।
मासा॒ वै पि॒तरो॑ बर्हि॒षदः॑ ।
मासा॑ने॒व प्री॑णाति ।
यस्मि॒न्वा ऋ॒तौ पुरु॑षᳶ प्र॒मीय॑ते ।
सो॑ऽस्या॒मुष्मिल्ँ॑ लो॒के भ॑वति ।
ब॒हु॒रू॒पा धा॒ना भ॑वन्ति ।
अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै ।
पि॒तृभ्यो॑ऽग्निष्वा॒त्तेभ्यो॑ म॒न्थम् ।
अ॒र्ध॒मा॒सा वै पि॒तरो॑ऽग्निष्वा॒त्ताः ॥54॥
अ॒र्ध॒मा॒साने॒व प्री॑णाति ।
अ॒भि॒वा॒न्या॑यै दु॒ग्धे भ॑वति ।
सा हि पि॑तृदेव॒त्य॑न्दु॒हे ।
यत्पू॒र्णम् ।
तन्म॑नु॒ष्या॑णाम् ।
उ॒प॒र्य॒र्धो दे॒वाना॑म् ।
अ॒र्धᳶ पि॑तृ॒णाम् ।
अ॒र्ध उप॑मन्थति ।
अ॒र्धो हि पि॑तृ॒णाम् ।
एक॒योप॑मन्थति ॥55॥
एका॒ हि पि॑तृ॒णाम् ।
द॒क्षि॒णोप॑मन्थति ।
द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् ।
अना॑र॒भ्योप॑मन्थति ।
तद्धि पि॒तॄन्गच्छ॑ति ।
इ॒मान्दिशव्ँ॒वेदि॒मुद्ध॑न्ति ।
उ॒भये॒ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते॑ ।
चतु॑स्स्रक्तिर्भवति ।
सर्वा॒ ह्यनु॒ दिश॑ᳶ पि॒तरः॑ ।
अखा॑ता भवति ॥56॥
खा॒ता हि दे॒वाना॑म् ।
म॒ध्य॒तो॑ऽग्निराधी॑यते ।
अ॒न्त॒तो हि दे॒वाना॑माधी॒यते॑ ।
वर्षी॑यानि॒ध्म इ॒ध्माद्भ॑वति॒ व्यावृ॑त्त्यै ।
परि॑श्रयति ।
अ॒न्तर्हि॑तो॒ हि पि॑तृलो॒को म॑नुष्यलो॒कात् ।
यत्परु॑षि दि॒नम् ।
तद्दे॒वाना॑म् ।
यद॑न्त॒रा ।
तन्म॑नु॒ष्या॑णाम् ॥57॥
यत्समू॑लम् ।
तत्पि॑तृ॒णाम् ।
समू॑लम्ब॒र्हिर्भ॑वति॒ व्यावृ॑त्त्यै ।
द॒क्षि॒णा स्तृ॑णाति ।
द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् ।
त्रिᳶ पर्ये॑ति ।
तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ ।
ताने॒व प्री॑णाति ।
त्रिᳶ पुन॒ᳶ पर्ये॑ति ।
षट्त्सम्प॑द्यन्ते ॥ 58॥
षड्वा ऋ॒तवः॑ ।
ऋ॒तूने॒व प्री॑णाति ।
यत्प्र॑स्त॒रय्ँयजु॑षा गृह्णी॒यात् ।
प्र॒मायु॑को॒ यज॑मानस्स्यात् ।
यन्न गृ॑ह्णी॒यात् ।
अ॒ना॒य॒त॒नस्स्या॑त् ।
तू॒ष्णीमे॒व न्य॑स्येत् ।
न प्र॒मायु॑को॒ भव॑ति ।
नाना॑यत॒नः ।
यत्त्रीन्प॑रि॒धीन्प॑रिद॒ध्यात् ॥59॥
मृ॒त्युना॒ यज॑मान॒म्परि॑गृह्णीयात् ।
यन्न प॑रिद॒ध्यात् ।
रक्षाँ॑सि य॒ज्ञँ ह॑न्युः ।
द्वौ प॑रि॒धी परि॑दधाति ।
रक्ष॑सा॒मप॑हत्यै ।
अथो॑ मृ॒त्योरे॒व यज॑मान॒मुत्सृ॑जति ।
यत्त्रीणि॑ त्रीणि ह॒वीँष्यु॑दा॒हरे॑युः ।
त्रय॑स्त्रय एषाँ सा॒कम्प्रमी॑येरन् ।
एकै॑कमनू॒चीना॑न्यु॒दाह॑रन्ति ।
एकै॑क ए॒वैषा॑म॒न्वञ्च॒ᳶ प्रमी॑यते ।
क॒शिपु॑ कशिप॒व्या॑य ।
उ॒प॒बर्ह॑णमुपबर्ह॒ण्या॑य ।
आञ्ज॑नमाञ्ज॒न्या॑य ।
अ॒भ्यञ्ज॑नमभ्यञ्ज॒न्या॑य ।
य॒था॒भा॒गमे॒वैना॑न्प्रीणाति ॥ 60॥
अ॒ग्नये॑ दे॒वेभ्य॑ᳶ पि॒तृभ्य॑स्समि॒ध्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह ।
उ॒भये॒ हि दै॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते॑ ।
एका॒मन्वा॑ह ।
एका॒ हि पि॑तृ॒णाम् ।
त्रिरन्वा॑ह ।
त्रिर्हि दे॒वाना॑म् ।
आ॒घा॒रावाघा॑रयति ।
य॒ज्ञ॒प॒रुषो॒रन॑न्तरित्यै ।
नार्षे॒यव्ँ वृ॑णीते ।
न होता॑रम् ॥61॥
यदा॑र्षे॒यव्ँवृ॑णी॒त ।
यद्धोता॑रम् ।
प्र॒मायु॑को॒ यज॑मानस्स्यात् ।
प्र॒मायु॑को॒ होता॑ ।
तस्मा॒न्न वृ॑णीते ।
यज॑मानस्य॒ होतु॑र्गोपी॒थाय॑ ।
अप॑ बर्हिषᳶ प्रया॒जान् य॑जति ।
प्र॒जा वै ब॒र्हिः ।
प्र॒जा ए॒व मृ॒त्योरुत्सृ॑जति ।
आज्य॑भागौ यजति ॥62॥
य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति ।
प्रा॒ची॒ना॒वी॒ती सोमय्ँ॑यजति ।
पि॒तृ॒दे॒व॒त्या॑ हि ।
ए॒षाऽऽहु॑तिः ।
पञ्च॒कृत्वोऽव॑द्यति ।
पञ्च॒ ह्ये॑ता दे॒वताः॑ ।
द्वे पु॑रोऽनुवा॒क्ये॑ ।
या॒ज्या॑ दे॒वता॑ वषट्का॒रः ।
ता ए॒व प्री॑णाति ।
सन्त॑त॒मव॑द्यति ॥63॥
ऋ॒तू॒नाँ सन्त॑त्यै ।
प्रैवैभ्य॒ᳶ पूर्व॑या पुरोऽनुवा॒क्य॑याऽऽह ।
प्रण॑यति द्वि॒तीय॑या ।
ग॒मय॑ति या॒ज्य॑या ।
तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ ।
अह्न॑ ए॒वैना॒न्पूर्व॑या पुरोऽनुवा॒क्य॑या॒ऽत्यान॑यति ।
रात्रि॑यै द्वि॒तीय॑या ।
ऐवैना॑न्या॒ज्य॑या गमयति ।
द॒क्षि॒ण॒तो॑ऽव॒दाय॑ ।
उद॒ङ्ङति॑क्रामति॒ व्यावृ॑त्त्यै ॥64॥
आ स्व॒धेत्याश्रा॑वयति ।
अस्तु॑ स्व॒धेति॑ प्र॒त्याश्रा॑वयति ।
स्व॒धा नम॒ इति॒ वष॑ट्करोति ।
स्व॒धा॒का॒रो हि पि॑तृ॒णाम् ।
सोम॒मग्रे॑ यजति ।
सोम॑प्रयाजा॒ हि पि॒तरः॑ ।
सोम॑म्पितृ॒मन्तय्ँ॑यजति ।
सव्ँ॒व॒त्स॒रो वै सोम॑ᳶ पितृ॒मान् ।
सव्ँ॒व॒त्स॒रमे॒व तद्य॑जति ।
पि॒तॄन्ब॑र्हि॒षदो॑ यजति ॥65॥
ये वै यज्वा॑नः ।
ते पि॒तरो॑ बर्हि॒षदः॑ ।
ताने॒व तद्य॑जति ।
पि॒तॄन॑ग्निष्वा॒त्तान् य॑जति ।
ये वा अय॑ज्वानो गृहमे॒धिनः॑ ।
ते पि॒तरो॑ऽग्निष्वा॒त्ताः ।
ताने॒व तद्य॑जति ।
अ॒ग्निङ्क॑व्य॒वाह॑नय्ँयजति ।
य ए॒व पि॑तृ॒णाम॒ग्निः ।
तमे॒व तद्य॑जति ॥66॥
अथो॒ यथा॒ऽग्निँ स्वि॑ष्ट॒कृतय्ँ॒यज॑ति ।
ता॒दृगे॒व तत् ।
ए॒तत्ते॑ तत॒ ये च॒ त्वामन्विति॑ ति॒सृषु॑ स्र॒क्तीषु॒ निद॑धाति ।
तस्मा॒दा तृ॒तीया॒त्पुरु॑षा॒न्नाम॒ न गृ॑ह्णन्ति ।
ए॒ताव॑न्तो॒ हीज्यन्ते॑ ।
अत्र॑ पितरो यथाभा॒गम्म॑न्दध्व॒मित्या॑ह ।
ह्लीका॒ हि पि॒तरः॑ ।
उद॑ञ्चो॒ निष्क्रा॑मन्ति ।
ए॒षा वै म॑नु॒ष्या॑णा॒न्दिक् ।
स्वामे॒व तद्दिश॒मनु॒ निष्क्रा॑मन्ति ॥67॥
आ॒ह॒व॒नीय॒मुप॑तिष्ठन्ते ।
न्ये॑वास्मै॒ तद्ध्नु॑वते ।
यत्स॒त्या॑हव॒नीये॑ ।
अथा॒न्यत्र॒ चर॑न्ति ।
आतमि॑तो॒रुप॑तिष्ठन्ते ।
अ॒ग्निमे॒वोप॑द्र॒ष्टार॑ङ्कृ॒त्वा ।
पि॒तॄन्नि॒रव॑दयन्ते ।
अन्तव्ँ॒वा ए॒ते प्रा॒णाना॑ङ्गच्छन्ति ।
य आतमि॑तोरुप॒तिष्ठ॑न्ते ।
सु॒स॒न्दृश॑न्त्वा व॒यमित्या॑ह ॥68॥
प्रा॒णो वै सु॑स॒न्दृक् ।
प्रा॒णमे॒वात्मन्द॑धते ।
योजा॒ न्वि॑न्द्र ते॒ हरी॒ इत्या॑ह ।
प्रा॒णमे॒व पुन॑रयुक्त ।
अक्ष॒न्नमी॑मदन्त॒ हीति॒ गार्ह॑पत्य॒मुप॑तिष्ठन्ते ।
अक्ष॒न्नमी॑मद॒न्ताथ॒ त्वोप॑तिष्ठामह॒ इति॒ वावैतदा॑ह ।
अमी॑मदन्त पि॒तर॑स्सो॒म्या इत्य॒भिप्रप॑द्यन्ते ।
अमी॑मदन्त पि॒तरोऽथ॑ त्वा॒ऽभिप्रप॑द्यामह॒ इति॒ वावैतदा॑ह ।
अ॒पᳶ परि॑षिञ्चति ।
मा॒र्जय॑त्ये॒वैना॑न् ॥69॥
अथो॑ त॒र्पय॑त्ये॒व ।
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ ।
य ए॒वव्ँ वेद॑ ।
अप॑ बर्हिषावनूया॒जौ य॑जति ।
प्र॒जा वै ब॒र्हिः ।
प्र॒जा ए॒व मृ॒त्योरुत्सृ॑जति ।
च॒तुर॑ᳶ प्रया॒जान् य॑जति ।
द्वाव॑नूया॒जौ ।
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तूने॒व प्री॑णाति ।
न पत्न्यन्वा॑स्ते ।
न सय्ँ या॑जयन्ति ।
यत्पत्न्य॒न्वासी॑त ।
यत्सय्ँ॑या॒जये॑युः ।
प्र॒मायु॑का स्यात् ।
तस्मा॒न्नान्वा॑स्ते ।
न सय्ँ या॑जयन्ति ।
पत्नि॑यै गोपी॒थाय॑ ॥70॥
प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न्निर्व॑पति ।
जा॒ता ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते ।
एक॒मति॑रिक्तम् ।
ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते ।
एक॑कपाला भवन्ति ।
ए॒क॒धैव रु॒द्रन्नि॒रव॑दयते ।
नाभिघा॑रयति ।
यद॑भिघा॒रये॑त् ।
अ॒न्त॒र॒व॒चा॒रिणँ॑ रु॒द्रङ्कु॑र्यात् ।
ए॒को॒ल्मु॒केन॑ यन्ति ॥ 71॥
तद्धि रु॒द्रस्य॑ भाग॒धेय॑म् ।
इ॒मान्दिशय्ँ॑यन्ति ।
ए॒षा वै रु॒द्रस्य॒ दिक् ।
स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते ।
रु॒द्रो वा अ॑प॒शुका॑या॒ आहु॑त्यै॒ नाति॑ष्ठत ।
अ॒सौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्यन्द्वि॒ष्यात् ।
यमे॒व द्वेष्टि॑ ।
तम॑स्मै प॒शुन्निर्दि॑शति ।
यदि॒ न द्वि॒ष्यात् ।
आ॒खुस्ते॑ प॒शुरिति॑ ब्रूयात् ॥ 72॥
न ग्रा॒म्यान्प॒शून् हि॒नस्ति॑ ।
नार॒ण्यान् ।
च॒तु॒ष्प॒थे जु॑होति ।
ए॒ष वा अ॑ग्नी॒नाम्पड्बी॑शो॒ नाम॑ ।
अ॒ग्नि॒वत्ये॒व जु॑होति ।
म॒ध्य॒मेन॑ प॒र्णेन॑ जुहोति ।
स्रुग्घ्ये॑षा ।
अथो॒ खलु॑ ।
अ॒न्त॒मेनै॒व हो॑त॒व्य॑म् ।
अ॒न्त॒त ए॒व रु॒द्रन्नि॒रव॑दयते ॥73॥
ए॒ष ते॑ रुद्र भा॒गस्स॒ह स्वस्राऽम्बि॑क॒येत्या॑ह ।
श॒रद्वा अ॒स्याम्बि॑का॒ स्वसा॑ ।
तया॒ वा ए॒ष हि॑नस्ति ।
यँ हि॒नस्ति॑ ।
तयै॒वैनँ॑ स॒ह श॑मयति ।
भे॒ष॒जङ्गव॒ इत्या॑ह ।
याव॑न्त ए॒व ग्रा॒म्याᳶ प॒शवः॑ ।
तेभ्यो॑ भेष॒जङ्क॑रोति ।
अवा॑म्ब रु॒द्रम॑दिम॒हीत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ॥ 74॥
त्र्य॑म्बकय्ँयजामह॒ इत्या॑ह ।
मृ॒त्योर्मु॑क्षीय॒ माऽमृता॒दिति॒ वावैतदा॑ह ।
उत्कि॑रन्ति ।
भग॑स्य लीप्सन्ते ।
मूते॑कृ॒त्वाऽऽस॑जन्ति ।
यथा॒ जनय्ँ॑य॒ते॑ऽव॒सङ्क॒रोति॑ ।
ता॒दृगे॒व तत् ।
ए॒ष ते॑ रुद्र भा॒ग इत्या॑ह नि॒रव॑त्त्यै ।
अप्र॑तीक्ष॒माय॑न्ति ।
अ॒पᳶ परि॑षिञ्चति ।
रु॒द्रस्या॒न्तर्हि॑त्यै ।
प्र वा ए॒ते॑ऽस्माल्लो॒काच्च्य॑वन्ते ।
ये त्र्य॑म्बकै॒श्चर॑न्ति ।
आ॒दि॒त्यञ्च॒रुम्पुन॒रेत्य॒ निर्व॑पति ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्यामे॒व प्रति॑तिष्ठन्ति ॥75॥
ए॒तद्ब्रा॑ह्मणान्ये॒व पञ्च॑ ह॒वीँषि॑ ।
अथेन्द्रा॑य॒ शुना॒सीरा॑य पुरो॒डाश॒न्द्वाद॑शकपाल॒न्निर्व॑पति ।
सव्ँ॒व॒त्स॒रो वा इन्द्रा॒शुना॒सीरः॑ ।
सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे ।
वा॒य॒व्य॑म्पयो॑ भवति ।
वा॒युर्वै वृष्ट्यै॑ प्रदापयि॒ता ।
स ए॒वास्मै॒ वृष्टि॒म्प्रदा॑पयति ।
सौ॒र्य॑ एक॑कपालो भवति ।
सूर्ये॑ण॒ वा अ॒मुष्मिल्ँ॑ लो॒के वृष्टि॑र्धृ॒ता ।
स ए॒वास्मै॒ वृष्टि॒न्निय॑च्छति ॥1॥
द्वा॒द॒श॒ग॒वँ सीर॒न्दक्षि॑णा॒ समृ॑द्ध्यै ।
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
ते दे॒वा अ॒ग्निम॑ब्रुवन् ।
त्वया॑ वी॒रेणासु॑रान॒भिभ॑वा॒मेति॑ ।
सो॑ऽब्रवीत् ।
त्रे॒धाऽहमा॒त्मानव्ँ॒विक॑रिष्य॒ इति॑ ।
स त्रे॒धाऽऽत्मान॒व्व्ँय॑कुरुत ।
अ॒ग्निन्तृती॑यम् ।
रु॒द्रन्तृती॑यम् ।
वरु॑ण॒न्तृती॑यम् ॥2॥
सो॑ऽब्रवीत् ।
क इ॒दन्तु॒रीय॒मिति॑ ।
अ॒हमितीन्द्रो॑ऽब्रवीत् ।
सन्तु सृ॑जावहा॒ इति॑ ।
तौ सम॑सृजेताम् ।
स इन्द्र॑स्तु॒रीय॑मभवत् ।
यदिन्द्र॑स्तु॒रीय॒मभ॑वत् ।
तदि॑न्द्रतुरी॒यस्ये॑न्द्रतुरीय॒त्वम् ।
ततो॒ वै दे॒वा व्य॑जयन्त ।
यदि॑न्द्रतुरी॒यन्नि॑रु॒प्यते॒ विजि॑त्यै ॥3॥
व॒हिनी॑ धे॒नुर्दक्षि॑णा ।
यद्व॒हिनी॑ ।
तेना॑ग्ने॒यी ।
यद्गौः ।
तेन॑ रौ॒द्री ।
यद्धे॒नुः ।
तेनै॒न्द्री ।
यत्स्त्री स॒ती दा॒न्ता ।
तेन॑ वारु॒णी समृ॑द्ध्यै ।
प्र॒जाप॑तिर्य॒ज्ञम॑सृजत ॥4॥
तँ सृ॒ष्टँ रक्षाँ॑स्यजिघाँसन् ।
स ए॒ताᳶ प्र॒जाप॑तिरा॒त्मनो॑ दे॒वता॒ निर॑मिमीत ।
ताभि॒र्वै स दि॒ग्भ्यो रक्षाँ॑सि॒ प्राणु॑दत ।
यत्प॑ञ्चाव॒त्तीय॑ञ्जु॒होति॑ ।
दि॒ग्भ्य ए॒व तद्यज॑मानो॒ रक्षाँ॑सि॒ प्रणु॑दते ।
समू॑ढँ॒ रक्ष॒स्सन्द॑ग्धँ॒ रक्ष॒ इत्या॑ह ।
रक्षाँ॑स्ये॒व सन्द॑हति ।
अ॒ग्नये॑ रक्षो॒घ्ने स्वाहेत्या॑ह ।
दे॒वता॑भ्य ए॒व वि॑जिग्या॒नाभ्यो॑ भाग॒धेय॑ङ्करोति ।
प्र॒ष्टि॒वा॒ही रथो॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥5॥
इन्द्रो॑ वृ॒त्रँ ह॒त्वा ।
असु॑रान्परा॒भाव्य॑ ।
नमु॑चिमासु॒रन्नाल॑भत ।
तँ श॒च्या॑ऽगृह्णात् ।
तौ सम॑लभेताम् ।
सो॑ऽस्माद॒भिशु॑नतरोऽभवत् ।
सो॑ऽब्रवीत् ।
स॒न्धाँ सन्द॑धावहै ।
अथ॒ त्वाऽव॑स्रक्ष्यामि ।
न मा॒ शुष्के॑ण॒ नार्द्रेण॑ हनः ॥6॥
न दिवा॒ न नक्त॒मिति॑ ।
स ए॒तम॒पाम्फेन॑मसिञ्चत् ।
न वा ए॒ष शुष्को॒ नार्द्रो व्यु॑ष्टाऽऽसीत् ।
अनु॑दित॒स्सूर्यः॑ ।
न वा ए॒तद्दिवा॒ न नक्त॑म् ।
तस्यै॒तस्मिल्ँ॑ लो॒के ।
अ॒पाम्फेने॑न॒ शिर॒ उद॑वर्तयत् ।
तदे॑न॒मन्व॑वर्तत ।
मित्र॑द्रु॒गिति॑ ॥7॥
स ए॒तान॑पामा॒र्गान॑जनयत् ।
तान॑जुहोत् ।
तैर्वै स रक्षाँ॒स्यपा॑हत ।
यद॑पामार्गहो॒मो भव॑ति ।
रक्ष॑सा॒मप॑हत्यै ।
ए॒को॒ल्मु॒केन॑ यन्ति ।
तद्धि रक्ष॑साम्भाग॒धेय॑म् ।
इ॒मान्दिशय्ँ॑यन्ति ।
ए॒षा वै रक्ष॑सा॒न्दिक् ।
स्वाया॑मे॒व दि॒शि रक्षाँ॑सि हन्ति ॥8॥
स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा॑ ।
ए॒तद्वै रक्ष॑सामा॒यत॑नम् ।
स्व ए॒वायत॑ने॒ रक्षाँ॑सि हन्ति ।
प॒र्ण॒मये॑न स्रु॒वेण॑ जुहोति ।
ब्रह्म॒ वै प॒र्णः ।
ब्रह्म॑णै॒व रक्षाँ॑सि हन्ति ।
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्या॑ह ।
स॒वि॒तृप्र॑सूत ए॒व रक्षाँ॑सि हन्ति ।
ह॒तँ रक्षोऽव॑धिष्म॒ रक्ष॒ इत्या॑ह ।
रक्ष॑साँ॒ स्तृत्यै॑ ।
यद्वस्ते॒ तद्दक्षि॑णा नि॒रव॑त्यै ।
अप्र॑तीक्ष॒माय॑न्ति ।
रक्ष॑साम॒न्तर्हि॑त्यै ॥9॥
धा॒त्रे पु॑रो॒डाश॒न्द्वाद॑शकपाल॒न्निर्व॑पति ।
सव्ँ॒व॒त्स॒रो वै धा॒ता ।
सव्ँ॒व॒त्स॒रेणै॒वास्मै॑ प्र॒जाᳶ प्रज॑नयति ।
अन्वे॒वास्मा॒ अनु॑मतिर्मन्यते ।
रा॒ते रा॒का ।
प्र सि॑नीवा॒ली ज॑नयति ।
प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाच॑न्दधाति ।
मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ।
आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपाल॒न्निर्व॑पति ।
ऐ॒न्द्रा॒वै॒ष्ण॒वमेका॑दशकपालम् ॥ 10॥
वै॒ष्ण॒वन्त्रि॑कपा॒लम् ।
वी॒र्यव्ँ॑ वा अ॒ग्निः ।
वी॒र्य॑मिन्द्रः॑ ।
वी॒र्यव्ँ॑विष्णुः॑ ।
प्र॒जा ए॒व प्रजा॑ता वी॒र्ये॑ प्रति॑ष्ठापयति ।
तस्मा॑त्प्र॒जा वी॒र्या॑वतीः ।
वा॒म॒न ऋ॑ष॒भो व॒ही दक्षि॑णा ।
यद्व॒ही ।
तेना॑ग्ने॒यः ।
यदृ॑ष॒भः ॥11॥
तेनै॒न्द्रः ।
यद्वा॑म॒नः ।
तेन॑ वैष्ण॒वस्समृ॑द्ध्यै ।
अ॒ग्नी॒षो॒मीय॒मेका॑दशकपाल॒न्निर्व॑पति ।
इ॒न्द्रा॒सो॒मीय॒मेका॑दशकपालम् ।
सौ॒म्यञ्च॒रुम् ।
सोमो॒ वै रे॑तो॒धाः ।
अ॒ग्निᳶ प्र॒जाना॑म्प्रजनयि॒ता ।
वृ॒द्धाना॒मिन्द्र॑ᳶ प्रदापयि॒ता ।
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ॥12॥
अ॒ग्निᳶ प्र॒जाम्प्रज॑नयति ।
वृ॒द्धामिन्द्र॒ᳶ प्रय॑च्छति ।
ब॒भ्रुर्दक्षि॑णा॒ समृ॑द्ध्यै ।
सो॒मा॒पौ॒ष्णञ्च॒रुन्निर्व॑पति ।
ऐ॒न्द्रा॒पौ॒ष्णञ्च॒रुम् ।
सोमो॒ वै रे॑तो॒धाः ।
पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता ।
वृ॒द्धाना॒मिन्द्र॑ᳶ प्रदापयि॒ता ।
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ।
पू॒षा प॒शून्प्रज॑नयति ॥13॥
वृ॒द्धानिन्द्र॒ᳶ प्रय॑च्छति ।
पौ॒ष्णश्च॒रुर्भ॑वति ।
इ॒यव्ँ वै पू॒षा ।
अ॒स्यामे॒व प्रति॑तिष्ठति ।
श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै ।
ब॒हु वै पुरु॑षोऽमे॒ध्यमुप॑ गच्छति ।
वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पति ।
सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः ।
सव्ँ॒वत्स॒रेणै॒वैनँ॑ स्वदयति ।
हिर॑ण्य॒न्दक्षि॑णा ॥14॥
प॒वित्रव्ँ॒ वै हिर॑ण्यम् ।
पु॒नात्ये॒वैन॑म् ।
ब॒हु वै रा॑ज॒न्योऽनृ॑तङ्करोति ।
उप॑ जा॒म्यै हर॑ते ।
जि॒नाति॑ ब्राह्म॒णम् ।
वद॒त्यनृ॑तम् ।
अनृ॑ते॒ खलु॒ वै क्रि॒यमा॑णे॒ वरु॑णो गृह्णाति ।
वा॒रु॒णय्ँय॑व॒मय॑ञ्च॒रुन्निर्व॑पति ।
व॒रु॒ण॒पा॒शादे॒वैन॑म्मुञ्चति ।
अश्वो॒ दक्षि॑णा ।
वा॒रु॒णो हि दे॒वत॒याऽश्व॒स्समृ॑द्ध्यै ॥15॥
र॒त्निना॑मे॒तानि॑ ह॒वीँषि॑ भवन्ति ।
ए॒ते वै रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ ।
ए॒ते॑ऽपादा॒तारः॑ ।
य ए॒व रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ ।
ये॑ऽपादा॒तारः॑ ।
त ए॒वास्मै॑ रा॒ष्ट्रम्प्रय॑च्छन्ति ।
रा॒ष्ट्रमे॒व भ॑वति ।
यत्स॑मा॒हृत्य॑ नि॒र्वपे॑त् ।
अर॑त्निनस्स्युः ।
य॒था॒य॒थन्निर्व॑पति रत्नि॒त्वाय॑ ॥16॥
यत्स॒द्यो नि॒र्वपे॑त् ।
याव॑ती॒मेके॑न ह॒विषा॒ऽऽशिष॑मवरु॒न्धे ।
ताव॑ती॒मव॑रुन्धीत ।
अ॒न्व॒हन्निर्व॑पति ।
भूय॑सीमे॒वाशिष॒मव॑रुन्धे ।
भूय॑सो यज्ञक्र॒तूनुपै॑ति ।
बा॒र्ह॒स्प॒त्यञ्च॒रुन्निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे ।
मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सँश्य॑ति ।
अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्त्रम॒न्वार॑म्भयति ।
शि॒ति॒पृ॒ष्ठो दक्षि॑णा॒ समृ॑द्ध्यै ॥17॥
ऐ॒न्द्रमेका॑दशकपालँ राज॒न्य॑स्य गृ॒हे ।
इ॒न्द्रि॒यमे॒वाव॑रुन्धे ।
ऋ॒ष॒भो दक्षि॑णा॒ समृ॑द्ध्यै ।
आ॒दि॒त्यञ्च॒रुम्महि॑ष्यै गृ॒हे ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्यामे॒व प्रति॑तिष्ठति ।
धे॒नुर्दक्षि॑णा॒ समृ॑द्ध्यै ।
भगा॑य च॒रुव्ँ वा॒वाता॑यै गृ॒हे ।
भग॑मे॒वास्मि॑न्दधाति ।
विचि॑त्तगर्भा पष्ठौ॒ही दक्षि॑णा॒ समृ॑द्ध्यै ॥ 18॥
नै॒र्ऋ॒तञ्च॒रुम्प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णाना॑व्व्ँरीही॒णान्न॒खनि॑र्भिन्नम् ।
पा॒प्मान॑मे॒व निर्ऋ॑तिन्नि॒रव॑दयते ।
कृ॒ष्णा कू॒टा दक्षि॑णा॒ समृ॑द्ध्यै ।
आ॒ग्ने॒यम॒ष्टाक॑पालँ सेना॒न्यो॑ गृ॒हे ।
सेना॑मे॒वास्य॒ सँश्य॑ति ।
हिर॑ण्य॒न्दक्षि॑णा॒ समृ॑द्ध्यै ।
वा॒रु॒णन्दश॑कपालँ सू॒तस्य॑ गृ॒हे ।
व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे ।
म॒हानि॑रष्टो॒ दक्षि॑णा॒ समृ॑द्ध्यै ।
मा॒रु॒तँ स॒प्तक॑पालङ्ग्राम॒ण्यो॑ गृ॒हे ॥19॥
अन्नव्ँ॒ वै म॒रुतः॑ ।
अन्न॑मे॒वाव॑रुन्धे ।
पृश्ञि॒र्दक्षि॑णा॒ समृ॑द्ध्यै ।
सा॒वि॒त्रन्द्वाद॑शकपालङ्क्ष॒त्तुर्गृ॒हे प्रसू॑त्यै ।
उ॒प॒ध्व॒स्तो दक्षि॑णा॒ समृ॑द्ध्यै ।
आ॒श्वि॒नन्द्वि॑कपा॒लँ स॑ङ्ग्रही॒तुर्गृ॒हे ।
अ॒श्विनौ॒ वै दे॒वाना॑म्भि॒षजौ॑ ।
ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति ।
स॒वा॒त्यौ॑ दक्षि॑णा॒ समृ॑द्ध्यै ।
पौ॒ष्णञ्च॒रुम्भा॑गदु॒घस्य॑ गृ॒हे ॥20॥
अन्नव्ँ॒ वै पू॒षा ।
अन्न॑मे॒वाव॑रुन्धे ।
श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै ।
रौ॒द्रङ्गा॑वीधु॒कञ्च॒रुम॑क्षावा॒पस्य॑ गृ॒हे ।
अ॒न्त॒त ए॒व रु॒द्रन्नि॒रव॑दयते ।
श॒बल॒ उद्वा॑रो॒ दक्षि॑णा॒ समृ॑द्ध्यै ।
द्वाद॑शै॒तानि॑ ह॒वीँषि॑ भवन्ति ।
द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रेणै॒वास्मै॑ रा॒ष्ट्रमव॑रुन्धे ।
रा॒ष्ट्रमे॒व भ॑वति ॥21॥
यन्न प्र॑तिनि॒र्वपे॑त् ।
र॒त्निन॑ आ॒शिषोऽव॑रुन्धीरन् ।
प्रति॒निर्व॑पति ।
इन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालम् ।
इन्द्रा॑याँहो॒मुचे॑ ।
आ॒शिष॑ ए॒वाव॑रुन्धे ।
अ॒यन्नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रव्ँव॑ध्या॒दित्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
मै॒त्रा॒बा॒र्ह॒स्प॒त्यम्भ॑वति ।
श्वे॒तायै॑ श्वे॒तव॑त्सायै दु॒ग्धे ॥22॥
बा॒र्ह॒स्प॒त्ये मै॒त्रमपि॑दधाति ।
ब्रह्म॑ चै॒वास्मै॑ क्ष॒त्रञ्च॑ स॒मीची॑ दधाति ।
अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्रम्प्रति॑ष्ठापयति ।
बा॒र्ह॒स्प॒त्येन॒ पूर्वे॑ण॒ प्रच॑रति ।
मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सँश्य॑ति ।
अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्रम॒न्वार॑म्भयति ।
स्व॒य॒ङ्कृ॒ता वेदि॑र्भवति ।
स्व॒य॒न्दि॒नम्ब॒र्हिः ।
स्व॒य॒ङ्कृ॒त इ॒ध्मः ।
अन॑भिजितस्या॒भिजि॑त्यै ।
तस्मा॒द्राज्ञा॒मर॑ण्यम॒भिजि॑तम् ।
सैव श्वे॒ता श्वे॒तव॑त्सा॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥23॥
दे॒व॒सु॒वामे॒तानि॑ ह॒वीँषि॑ भवन्ति ।
ए॒ताव॑न्तो॒ वै दे॒वानाँ॑ स॒वाः ।
त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति ।
त ए॑नँ सुवन्ते ।
अ॒ग्निरे॒वैन॑ङ्गृ॒हप॑तीनाँ सुवते ।
सोमो॒ वन॒स्पती॑नाम् ।
रु॒द्रᳶ प॑शू॒नाम् ।
बृह॒स्पति॑र्वा॒चाम् ।
इन्द्रो॑ ज्ये॒ष्ठाना॑म् ।
मि॒त्रस्स॒त्याना॑म् ॥24॥
वरु॑णो॒ धर्म॑पतीनाम् ।
ए॒तदे॒व सर्व॑म्भवति ।
स॒वि॒ता त्वा॑ प्रस॒वानाँ॑ सुवता॒मिति॒ हस्त॑ङ्गृह्णाति॒ प्रसू॑त्यै ।
ये दे॑वा देव॒स्सुव॒स्स्थेत्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
म॒ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माक॑म्ब्राह्म॒णानाँ॒ राजेत्या॑ह ।
तस्मा॒त्सोम॑राजानो ब्राह्म॒णाः ।
प्रति॒ त्यन्नाम॑ रा॒ज्यम॑धा॒यीत्या॑ह ॥25॥
रा॒ज्यमे॒वास्मि॒न्प्रति॑दधाति ।
स्वान्त॒नुवव्ँ॒वरु॑णो अशिश्रे॒दित्या॑ह ।
व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे ।
शुचे॑र्मि॒त्रस्य॒ व्रत्या॑ अभू॒मेत्या॑ह ।
शुचि॑मे॒वैन॒व्व्ँरत्य॑ङ् करोति ।
अम॑न्महि मह॒त ऋ॒तस्य॒ नामेत्या॑ह ।
म॒नु॒त ए॒वैन॑म् ।
सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न्नित्या॑ह ।
सर्व॑व्रातमे॒वैन॑ङ्करोति ।
वि मि॒त्र एवै॒ररा॑तिमतारी॒दित्या॑ह ॥26॥
अरा॑तिमै॒वैन॑न्तारयति ।
असू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेनेत्या॑ह ।
स्व॒दय॑त्ये॒वैन॑म् ।
व्यु॑ त्रि॒तो ज॑रि॒माण॑न्न आन॒डित्या॑ह ।
आयु॑रे॒वास्मि॑न्दधाति ।
द्वाभ्याव्ँ॒विमृ॑ष्टे ।
द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।
अ॒ग्नी॒षो॒मीय॑स्य॒ चैका॑दशकपालस्य देवसु॒वाञ्च॑ ह॒विषा॑म॒ग्नये॑ स्विष्ट॒कृते॑ स॒मव॑द्यति ।
दे॒वता॑भिरे॒वैन॑मुभ॒यत॒ᳶ परि॑गृह्णाति ।
वि॒ष्णु॒क्र॒मान्क्र॑मते ।
विष्णु॑रे॒व भू॒त्वेमाल्ँ लो॒कान॒भिज॑यति ॥27॥
अ॒र्थेत॒स्स्थेति॑ जुहोति ।
आहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णाति ।
अथो॑ ह॒विष्कृ॑तानामे॒वाभिघृ॑तानाङ्गृह्णाति ।
वह॑न्तीनाङ्गृह्णाति ।
ए॒ता वा अ॒पाँ रा॒ष्ट्रम् ।
रा॒ष्ट्रमे॒वास्मै॑ गृह्णाति ।
अथो॒ श्रिय॑मे॒वैन॑म॒भिव॑हन्ति ।
अ॒पाम्पति॑र॒सीत्या॑ह ।
मि॒थु॒नमे॒वाकः॑ ।
वृषा॑ऽस्यू॒र्मिरित्या॑ह ॥28॥
ऊ॒र्मि॒मन्त॑मे॒वैन॑ङ्करोति ।
वृ॒ष॒से॒नो॑ऽसीत्या॑ह ।
सेना॑मे॒वास्य॒ सँश्य॑ति ।
व्र॒ज॒क्षित॒स्स्थेत्या॑ह ।
ए॒ता वा अ॒पाव्ँ विशः॑ ।
विश॑मे॒वास्मै॒ पर्यू॑हति ।
म॒रुता॒मोज॒स्स्थेत्या॑ह ।
अन्नव्ँ॒ वै म॒रुतः॑ ।
अन्न॑मे॒वाव॑रुन्धे ।
सूर्य॑वर्चस॒स्स्थेत्या॑ह ॥29॥
रा॒ष्ट्रमे॒व व॑र्च॒स्व्य॑कः ।
सूर्य॑त्वचस॒स्स्थेत्या॑ह ।
स॒त्यव्ँ वा ए॒तत् ।
यद्वर्ष॑ति ।
अनृ॑तय्ँ॒यदा॒तप॑ति॒ वर्ष॑ति ।
स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे ।
नैनँ॑ सत्यानृ॒ते उ॑दि॒ते हिँ॑स्तः ।
य ए॒वव्ँ वेद॑ ।
मान्दा॒स्स्थेत्या॑ह ।
रा॒ष्ट्रमे॒व ब्र॑ह्मवर्च॒स्य॑कः ॥30॥
वाशा॒स्स्थेत्या॑ह ।
रा॒ष्ट्रमे॒व व॒श्य॑कः ।
शक्व॑री॒स्स्थेत्या॑ह ।
प॒शवो॒ वै शक्व॑रीः ।
प॒शूने॒वाव॑रुन्धे ।
वि॒श्व॒भृत॒स्स्थेत्या॑ह ।
रा॒ष्ट्रमे॒व प॑य॒स्व्य॑कः ।
ज॒न॒भृत॒स्स्थेत्या॑ह ।
रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः ।
अ॒ग्नेस्ते॑ज॒स्या॑स्स्थेत्या॑ह ॥31 ॥
रा॒ष्ट्रमे॒व ते॑ज॒स्व्य॑कः ।
अ॒पामोष॑धीनाँ॒ रस॒स्स्थेत्या॑ह ।
रा॒ष्ट्रमे॒व म॑ध॒व्य॑मकः ।
सा॒र॒स्व॒तङ्ग्रह॑ङ्गृह्णाति ।
ए॒षा वा अ॒पाम्पृ॒ष्ठम् ।
यत्सर॑स्वती ।
पृ॒ष्ठमे॒वैनँ॑ समा॒नाना॑ङ्करोति ।
षो॒ड॒शभि॑र्गृह्णाति ।
षोड॑शकलो॒ वै पुरु॑षः ।
यावा॑ने॒व पुरु॑षः ।
तस्मि॑न्वी॒र्य॑न्दधाति ।
षो॒ड॒शभि॑र्जु॒होति॑ षोड॒शभि॑र्गृह्णाति ।
द्वात्रिँ॑श॒त्सम्प॑द्यन्ते ।
द्वात्रिँ॑शदक्षराऽनु॒ष्टुक् ।
वाग॑नु॒ष्टुप्सर्वा॑णि॒ छन्दाँ॑सि ।
वा॒चैवैनँ॒ सर्वे॑भि॒श्छन्दो॑भिर॒भिषि॑ञ्चति ॥32॥
देवी॑राप॒स्सम्मधु॑मती॒र्मधु॑मतीभिस्सृज्यध्व॒मित्या॑ह ।
ब्रह्म॑णै॒वैना॒स्सँ सृ॑जति ।
अना॑धृष्टास्सीद॒तेत्या॑ह ।
ब्रह्म॑णै॒वैना॑स्सादयति ।
अ॒न्त॒रा होतु॑श्च॒ धिष्णि॑यम्ब्राह्मणाच्छँ॒सिन॑श्च सादयति ।
आ॒ग्ने॒यो वै होता॑ ।
ऐ॒न्द्रो ब्रा॑ह्मणाच्छँ॒सी ।
तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ रा॒ष्ट्रम्परि॑गृह्णाति ।
हिर॑ण्ये॒नोत्पु॑नाति ।
आहु॑त्यै॒ हि प॒वित्रा॑भ्यामुत्पु॒नन्ति॒ व्यावृ॑त्त्यै ॥33॥
श॒तमा॑नम्भवति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
अनि॑भृष्टम॒सीत्या॑ह ।
अनि॑भृष्टँ॒ ह्ये॑तत् ।
वा॒चो बन्धु॒रित्या॑ह ।
वा॒चो ह्ये॑ष बन्धुः॑ ।
त॒पो॒जा इत्या॑ह ।
त॒पो॒जा ह्ये॑तत् ।
सोम॑स्य दा॒त्रम॒सीत्या॑ह ॥34॥
सोम॑स्य॒ ह्ये॑तद्दा॒त्रम् ।
शु॒क्रा व॑श्शु॒क्रेणोत्पु॑ना॒मीत्या॑ह ।
शु॒क्रा ह्यापः॑ ।
शु॒क्रँ हिर॑ण्यम् ।
च॒न्द्राश्च॒न्द्रेणेत्या॑ह ।
च॒न्द्रा ह्यापः॑ ।
च॒न्द्रँ हिर॑ण्यम् ।
अ॒मृता॑ अ॒मृते॒नेत्या॑ह ।
अ॒मृता॒ ह्यापः॑ ।
अ॒मृतँ॒ हिर॑ण्यम् ॥35 ॥
स्वाहा॑ राज॒सूया॒येत्या॑ह ।
रा॒ज॒सूया॑य॒ ह्ये॑ना उत्पु॒नाति॑ ।
स॒ध॒मादो॑ द्यु॒म्निनी॒रूर्ज॑ ए॒ता इति॑ वारु॒ण्यर्चा गृ॑ह्णाति ।
व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे ।
एक॑या गृह्णाति ।
ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति ।
क्ष॒त्त्रस्योल्ब॑मसि क्ष॒त्त्रस्य॒ योनि॑र॒सीति॑ ता॒र्प्यञ्चो॒ष्णीष॑ञ्च॒ प्रय॑च्छति सयोनि॒त्वाय॑ ।
एक॑शतेन दर्भपुञ्जी॒लैᳶ प॑वयति ।
श॒तायु॒र्वै पुरु॑षश्श॒तवी॑र्यः ।
आ॒त्मैक॑श॒तः ॥36॥
यावा॑ने॒व पुरु॑षः ।
तस्मि॑न्वी॒र्य॑न्दधाति ।
दध्या॑शयति ।
इ॒न्द्रि॒यमे॒वाव॑ रुन्धे ।
उ॒दु॒म्बर॑माशयति ।
अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
शष्पा॑ण्याशयति ।
सुरा॑बलिमे॒वैन॑ङ्करोति ।
आ॒विद॑ ए॒ता भ॑वन्ति ।
आ॒विद॑मे॒वैन॑ङ्गमयन्ति ॥ 37॥
अ॒ग्निरे॒वैन॒ङ्गार्ह॑पत्येनावति ।
इन्द्र॑ इन्द्रि॒येण॑ ।
पू॒षा प॒शुभिः॑ ।
मि॒त्रावरु॑णौ प्राणापा॒नाभ्या॑म् ।
इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् ।
स दिव॑मलिखत् ।
सो॑ऽर्य॒म्णᳶ पन्था॑ अभवत् ।
स आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ द्यावा॑पृथि॒वी उपा॑धावत् ।
स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्राय॒ वज्र॒म्प्राह॑रत् ।
आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ यदाह॑ ॥38॥
आ॒भ्यामे॒व प्रसू॑तो॒ यज॑मानो॒ वज्र॒म्भ्रातृ॑व्याय॒ प्रह॑रति ।
आवि॑न्ना दे॒व्यदि॑तिर्विश्वरू॒पीत्या॑ह ।
इ॒यव्ँ वै दे॒व्यदि॑तिर्विश्वरू॒पी ।
अ॒स्यामे॒व प्रति॑ तिष्ठति ।
आवि॑न्नो॒ऽयम॒सावा॑मुष्याय॒णो॑ऽस्याव्ँ वि॒श्य॑स्मिन्रा॒ष्ट्र इत्या॑ह ।
वि॒शैवैनँ॑ रा॒ष्ट्रेण॒ सम॑र्धयति ।
म॒ह॒ते क्ष॒त्त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ।
ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माक॑म्ब्राह्म॒णानाँ॒ राजेत्या॑ह ।
तस्मा॒त्सोम॑राजानो ब्राह्म॒णाः ॥39॥
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ धनु॒ᳶ प्रय॑च्छति॒ विजि॑त्यै ।
श॒त्रु॒बाध॑ना॒स्स्थेतीषू॑न् ।
शत्रू॑ने॒वास्य॑ बाधन्ते ।
पा॒त मा॑ प्र॒त्यञ्च॑म्पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्च॑म्मा पा॒तेत्या॑ह ।
ति॒स्रो वै श॑र॒व्याः॑ ।
प्र॒तीची॑ ति॒रश्च्य॒नूची॑ ।
ताभ्य॑ ए॒वैन॑म्पान्ति ।
दि॒ग्भ्यो मा॑ पा॒तेत्या॑ह ।
दि॒ग्भ्य ए॒वैन॑म्पान्ति ।
विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑ᳶ पा॒तेत्या॑ह ।
अप॑रिमितादे॒वैन॑म्पान्ति ।
हिर॑ण्यवर्णावु॒षसाव्ँ॑ विरो॒क इति॑ त्रि॒ष्टुभा॑ बा॒हू उद्गृ॑ह्णाति ।
इ॒न्द्रि॒यव्ँ वै वी॒र्य॑न्त्रि॒ष्टुक् ।
इ॒न्द्रि॒यमे॒व वी॒र्य॑मु॒परि॑ष्टादा॒त्मन्ध॑त्ते ॥ 40 ॥
दिशो॒ व्यास्था॑पयति ।
दि॒शाम॒भिजि॑त्त्यै ।
यद॑नु प्र॒क्रामे॑त् ।
अ॒भि दिशो॑ जयेत् ।
उत्तु मा॑द्येत् ।
मन॒साऽनु॒ प्रक्रा॑मति ।
अ॒भि दिशो॑ जयति ।
नोन्मा॑द्यति ।
स॒मिध॒मा ति॒ष्ठेत्या॑ह ।
तेज॑ ए॒वाव॑रुन्धे ॥41॥
उ॒ग्रामा ति॒ष्ठेत्या॑ह ।
इ॒न्द्रि॒यमे॒वाव॑रुन्धे ।
वि॒राज॒माति॒ष्ठेत्या॑ह ।
अ॒न्नाद्य॑मे॒वाव॑रुन्धे ।
उदी॑ची॒मा ति॒ष्ठेत्या॑ह ।
प॒शूने॒वाव॑रुन्धे ।
ऊ॒र्ध्वामाति॒ष्ठेत्या॑ह ।
सु॒व॒र्गमे॒व लो॒कम॒भिज॑यति ।
अनूज्जि॑हीते ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 42 ॥
मा॒रु॒त ए॒ष भ॑वति ।
अन्नव्ँ॒ वै म॒रुतः॑ ।
अन्न॑मे॒वाव॑रुन्धे ।
एक॑विँशतिकपालो भवति॒ प्रति॑ष्ठित्यै ।
यो॑ऽरण्येऽनुवा॒क्यो॑ ग॒णः ।
तम्म॑ध्य॒त उप॑दधाति ।
ग्रा॒म्यैरे॒व प॒शुभि॑रार॒ण्यान्प॒शून्परि॑ गृह्णाति ।
तस्मा॑द्ग्रा॒म्यैᳶ प॒शुभि॑रार॒ण्याᳶ प॒शव॒ᳶ परि॑गृहीताः ।
पृथि॑र्वै॒न्यः ।
अ॒भ्य॑षिच्यत ॥ 43 ॥
स रा॒ष्ट्रन्नाभ॑वत् ।
स ए॒तानि॑ पा॒र्थान्य॑पश्यत् ।
तान्य॑जुहोत् ।
तैर्वै स रा॒ष्ट्रम॑भवत् ।
यत्पा॒र्थानि॑ जु॒होति॑ ।
रा॒ष्ट्रमे॒व भ॑वति ।
बा॒र्ह॒स्प॒त्यम्पूर्वे॑षामुत्त॒मम्भ॑वति ।
ऐ॒न्द्रमुत्त॑रेषाम्प्रथ॒मम् ।
ब्रह्म॑ चै॒वास्मै॑ क्ष॒त्त्रञ्च॑ स॒मीची॑ दधाति ।
अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्त्रम्प्रति॑ष्ठापयति ॥44॥
षट्पु॒रस्ता॑दभिषे॒कस्य॑ जुहोति ।
षडु॒परि॑ष्टात् ।
द्वाद॑श॒ सम्प॑द्यन्ते ।
द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रᳵ खलु॒ वै दै॒वाना॒म्पूः ।
दे॒वाना॑मे॒व पुर॑म्मध्य॒तो व्यव॑सर्पति ।
तस्य॒ न कुत॑श्च॒नोपा॑व्या॒धो भ॑वति ।
भू॒ताना॒मवे॑ष्टीर्जुहोति ।
अत्रा॑त्र॒ वै मृ॒त्युर्जा॑यते ।
यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते ।
तत॑ ए॒वैन॒मव॑यजते ।
तस्मा॑द्राज॒सूये॑नेजा॒नो नाभिच॑रित॒वै ।
प्र॒त्यगे॑नमभिचा॒रस्स्तृ॑णुते ॥ 45 ॥
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूया॒दिति॑ शार्दूलच॒र्मोप॑स्तृणाति ।
यैव सोमे॒ त्विषिः॑ ।
या शा॑र्दू॒ले ।
तामे॒वाव॑रुन्धे ।
मृ॒त्योर्वा ए॒ष वर्णः॑ ।
यच्छा॑र्दू॒लः ।
अ॒मृतँ॒ हिर॑ण्यम् ।
अ॒मृत॑मसि मृ॒त्योर्मा॑ पा॒हीति॒ हिर॑ण्य॒मुपा॑स्यति ।
अ॒मृत॑मे॒व मृ॒त्योर॒न्तर्ध॑त्ते ।
श॒तमा॑नम्भवति ॥46॥
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
दि॒द्योन्मा॑ पा॒हीत्यु॒परि॑ष्टा॒दधि॒ निद॑धाति ।
उ॒भ॒यत॑ ए॒वास्मै॒ शर्म॑ दधाति ।
अवे॑ष्टा दन्द॒शूका॒ इति॑ क्ली॒बँ सीसे॑न विध्यति ।
द॒न्द॒शूका॑ने॒वाव॑यजते ।
तस्मा॑त्क्ली॒बन्द॑न्द॒शूका॒ दँशु॑काः ।
निर॑स्त॒न्नमु॑चे॒श्शिर॒ इति॑ लोहिताय॒सन्निर॑स्यति ।
पा॒प्मान॑मे॒व नमु॑चिन्नि॒रव॑दयते ।
प्रा॒णा आ॒त्मन॒ᳶ पूर्वे॑ऽभि॒षिच्या॒ इत्या॑हुः ॥ 47 ॥
सोमो॒ राजा॒ वरु॑णः ।
दै॒वा ध॑र्म॒सुव॑श्च॒ ये ।
ते ते॒ वाचँ॑ सुवन्ता॒न्ते ते॑ प्रा॒णँ सु॑वन्ता॒मित्या॑ह ।
प्रा॒णाने॒वात्मन॒ᳶ पूर्वा॑न॒भिषि॑ञ्चति ।
यद्ब्रू॒यात् ।
अ॒ग्नेस्त्वा॒ तेज॑सा॒ऽभिषि॑ञ्चा॒मीति॑ ।
ते॒ज॒स्व्ये॑व स्या॑त् ।
दु॒श्चर्मा॒ तु भ॑वेत् ।
सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चा॒मीत्या॑ह ।
सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः ॥48॥
स्वयै॒वैन॑न्दे॒वत॑या॒ऽभिषि॑ञ्चति ।
अ॒ग्नेस्तेज॒सेत्या॑ह ।
तेज॑ ए॒वास्मि॑न्दधाति ।
सूर्य॑स्य॒ वर्च॒सेत्या॑ह ।
वर्च॑ ए॒वास्मि॑न्दधाति ।
इन्द्र॑स्येन्द्रि॒येणेत्या॑ह ।
इ॒न्द्रि॒यमे॒वास्मि॑न्दधाति ।
मि॒त्रावरु॑णयोर्वी॒र्ये॑णेत्या॑ह ।
वी॒र्य॑मे॒वास्मि॑न्दधाति ।
म॒रुता॒मोज॒सेत्या॑ह ॥ 49 ॥
ओज॑ ए॒वास्मि॑न्दधाति ।
क्ष॒त्त्राणा॑ङ्क्ष॒त्त्रप॑तिर॒सीत्या॑ह ।
क्ष॒त्त्राणा॑मे॒वैन॑ङ्क्ष॒त्त्रप॑तिङ्करोति ।
अति॑ दि॒वस्पा॒हीत्या॑ह ।
अत्य॒न्यान्पा॒हीति॒ वावैतदा॑ह ।
स॒माव॑वृत्रन्नध॒रागुदी॑ची॒रित्या॑ह ।
रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑कः ।
उ॒च्छेष॑णेन जुहोति ।
उ॒च्छेष॑णभागो॒ वै रु॒द्रः ।
भा॒ग॒धेये॑नै॒व रु॒द्रन्नि॒रव॑दयते ॥ 50 ॥
उद॑ङ्प॒रेत्याग्नी॑द्ध्रे जुहोति ।
ए॒षा वै रु॒द्रस्य॒ दिक् ।
स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते ।
रुद्र॒ यत्ते॒ क्रयी॒ पर॒न्नामेत्या॑ह ।
यद्वा अ॑स्य॒ क्रयी॒ पर॒न्नाम॑ ।
तेन॒ वा ए॒ष हि॑नस्ति ।
यँ हि॒नस्ति॑ ।
तेनै॒वैनँ॑ स॒ह श॑मयति ।
तस्मै॑ हु॒तम॑सि य॒मेष्ट॑म॒सीत्या॑ह ।
य॒मादे॒वास्य॑ मृ॒त्युमव॑यजते ॥ 51 ॥
प्रजा॑पते॒ न त्वदे॒तान्य॒न्य इति॒ तस्यै॑ गृ॒हे जु॑हुयात् ।
याङ्का॒मये॑त रा॒ष्ट्रम॑स्यै प्र॒जा स्या॒दिति॑ ।
रा॒ष्ट्रमे॒वास्यै॑ प्र॒जा भ॑वति ।
प॒र्ण॒मये॑नाध्व॒र्युर॒भिषि॑ञ्चति ।
ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॒न्त्विषि॑न्दधाति ।
औदु॑म्बरेण राज॒न्यः॑ ।
ऊर्ज॑मे॒वास्मि॑न्न॒न्नाद्य॑न्दधाति ।
आश्व॑त्थेन॒ वैश्यः॑ ।
विश॑मे॒वास्मि॒न्पुष्टि॑न्दधाति ।
नैय॑ग्रोधेन॒ जन्यः॑ ।
मि॒त्राण्ये॒वास्मै॑ कल्पयति ।
अथो॒ प्रति॑ष्ठित्यै ॥ 52 ॥
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै ।
मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोᳶ प्र॒शिषा॑ युन॒ज्मीत्या॑ह ।
ब्रह्म॑णै॒वैन॑न्दे॒वता॑भ्याय्ँ युनक्ति ।
प्र॒ष्टि॒वा॒हिनय्ँ॑युनक्ति ।
प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः ।
दे॒व॒र॒थमे॒वास्मै॑ युनक्ति ।
त्रयोऽश्वा॑ भवन्ति ।
रथ॑श्चतु॒र्थः ।
द्वौ स॑व्येष्ठसार॒थी ।
षट्त्सम्प॑द्यन्ते ॥ 53 ॥
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑रे॒वैनय्ँ॑युनक्ति ।
वि॒ष्णु॒क्र॒मान्क्र॑मते ।
विष्णु॑रे॒व भू॒त्वेमाल्ँ लो॒कान॒भिज॑यति ।
यः क्ष॒त्रिय॒ᳶ प्रति॑हितः ।
सो॑ऽन्वार॑भते ।
रा॒ष्ट्रमे॒व भ॑वति ।
त्रि॒ष्टुभा॒ऽन्वार॑भते ।
इ॒न्द्रि॒यव्ँ वै त्रि॒ष्टुक् ।
इ॒न्द्रि॒यमे॒व यज॑माने दधाति ॥ 54 ॥
म॒रुता॑म्प्रस॒वे जे॑ष॒मित्या॑ह ।
म॒रुद्भि॑रे॒व प्रसू॑त॒ उज्ज॑यति ।
आ॒प्तम्मन॒ इत्या॑ह ।
यदे॒व मन॒सैप्सी॑त् ।
तदा॑पत् ।
रा॒ज॒न्य॑ञ्जिनाति ।
अना॑क्रान्त ए॒वाक्र॑मते ।
वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते ।
यो रा॑ज॒न्य॑ञ्जि॒नाति॑ ।
सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑णेत्या॑ह ॥ 55 ॥
इ॒न्द्रि॒यमे॒व वी॒र्य॑मा॒त्मन्ध॑त्ते ।
प॒शू॒नाम्म॒न्युर॑सि॒ तवे॑व मे म॒न्युर्भू॑या॒दिति॒ वारा॑ही उपा॒नहा॒वुप॑ मुञ्चते ।
प॒शू॒नाव्ँ वा ए॒ष म॒न्युः ।
यद्व॑रा॒हः ।
तेनै॒व प॑शू॒नाम्म॒न्युमा॒त्मन्ध॑त्ते ।
अ॒भि वा इ॒यँ सु॑षुवा॒णङ्का॑मयते ।
तस्ये॑श्व॒रेन्द्रि॒यव्ँ वी॒र्य॑मादा॑तोः ।
वारा॑ही उपा॒नहा॒वुप॑मुञ्चते ।
अ॒स्या ए॒वान्तर्ध॑त्ते ।
इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याना॑त्यै ॥ 56 ॥
नमो॑ मा॒त्रे पृ॑थि॒व्या इत्या॒हाहिँ॑सायै ।
इय॑द॒स्यायु॑र॒स्यायु॑र्मे धे॒हीत्या॑ह ।
आयु॑रे॒वात्मन्ध॑त्ते ।
ऊर्ग॒स्यूर्ज॑म्मे धे॒हीत्या॑ह ।
ऊर्ज॑मे॒वात्मन्ध॑त्ते ।
युङ्ङ॑सि॒ वर्चो॑सि॒ वर्चो॒ मयि॑ धे॒हीत्या॑ह ।
वर्च॑ ए॒वात्मन्ध॑त्ते ।
ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति ।
ए॒क॒धैव यज॑मान॒ आयु॒रूर्जव्ँ॒वर्चो॑ दधाति ।
र॒थ॒वि॒मो॒च॒नीया॑ जुहोति॒ प्रति॑ष्ठित्यै ॥ 57 ॥
त्रयोऽश्वा॑ भवन्ति ।
रथ॑श्चतु॒र्थः ।
तस्मा॑च्च॒तुर्जु॑होति ।
यदु॒भौ स॒हाव॒तिष्ठे॑ताम् ।
स॒मा॒नल्ँ लो॒कमि॑याताम् ।
स॒ह स॑ङ्ग्रही॒त्रा र॑थ॒वाह॑ने॒ रथ॒माद॑धाति ।
सु॒व॒र्गादे॒वैनल्ँ॑ लो॒काद॒न्तर्द॑धाति ।
हँ॒सश्शु॑चि॒षदित्याद॑धाति ।
ब्रह्म॑णै॒वैन॑मुपाव॒हर॑ति ।
ब्रह्म॒णाऽऽद॑धाति ।
अति॑च्छन्द॒साऽऽद॑धाति ।
अति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाँ॑सि ।
सर्वे॑भिरे॒वैन॒ञ्छन्दो॑भि॒राद॑धाति ।
वर्ष्म॒ वा ए॒षा छन्द॑साम् ।
यदति॑च्छन्दाः ।
यदति॑च्छन्दसा॒ दधा॑ति ।
वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करोति ॥ 58 ॥
मि॒त्रो॑ऽसि॒ वरु॑णो॒ऽसीत्या॑ह ।
मै॒त्रव्ँ वा अहः॑ ।
वा॒रु॒णी रात्रिः॑ ।
अ॒हो॒रा॒त्राभ्या॑मे॒वैन॑मु॒पाव॑हरति ।
मि॒त्रो॑ऽसि॒ वरु॑णो॒ऽसीत्या॑ह ।
मै॒त्रो वै दक्षि॑णः ।
वा॒रु॒णस्स॒व्यः ।
वै॒श्व॒दे॒व्या॑मिक्षा॑ ।
स्वमे॒वैनौ॑ भाग॒धेय॑मु॒पाव॑हरति ।
सम॒हव्ँ विश्वै॑र्दे॒वैरित्या॑ह ॥ 59 ॥
वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः ।
ता ए॒वाद्या॑ᳵ कुरुते ।
क्ष॒त्त्रस्य॒ नाभि॑रसि क्ष॒त्त्रस्य॒ योनि॑र॒सीत्य॑धीवा॒समास्तृ॑णाति सयोनि॒त्वाय॑ ।
स्यो॒नामा सी॑द सु॒षदा॒मा सी॒देत्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
मा त्वा॑ हिँसी॒न्मा मा॑ हिँसी॒दित्या॒हाहिँ॑सायै ।
निष॑साद धृ॒तव्र॑तो॒ वरु॑णᳶ प॒स्त्या॑स्वा साम्रा॑ज्याय सु॒क्रतु॒रित्या॑ह ।
साम्रा॑ज्यमे॒वैनँ॑ सु॒क्रतु॑ङ्करोति ।
ब्रह्मा(३)न्त्वँ रा॑जन्ब्र॒ह्माऽसि॑ सवि॒ताऽसि॑ स॒त्यस॑व॒ इत्या॑ह ।
स॒वि॒तार॑मे॒वैनँ॑ स॒त्यस॑वङ्करोति ॥ 60 ॥
ब्रह्मा(३)न्त्वँ रा॑जन्ब्र॒ह्माऽसीन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह ।
इन्द्र॑मे॒वैनँ॑ स॒त्यौज॑सङ्करोति ।
ब्रह्मा(३)न्त्वँ रा॑जन्ब्र॒ह्माऽसि॑ मि॒त्रो॑ऽसि सु॒शेव॒ इत्या॑ह ।
मि॒त्रमे॒वैनँ॑ सु॒शेव॑ङ्करोति ।
ब्रह्मा(३)न्त्वँ रा॑जन्ब्र॒ह्मासि॒ वरु॑णोऽसि स॒त्यध॒र्मेत्या॑ह ।
वरु॑णमे॒वैनँ॑ स॒त्यध॑र्माणङ्करोति ।
स॒वि॒ताऽसि॑ स॒त्यस॑व॒ इत्या॑ह ।
गा॒य॒त्रीमे॒वैतेना॑भि॒ व्याह॑रति ।
इन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह ।
त्रि॒ष्टुभ॑मे॒वैतेना॑भि॒ व्याह॑रति ॥ 61 ॥
मि॒त्रो॑ऽसि सु॒शेव॒ इत्या॑ह ।
जग॑तीमे॒वैतेना॑भि॒ व्याह॑रति ।
स॒त्यमे॒ता दे॒वताः॑ ।
स॒त्यमे॒तानि॒ छन्दाँ॑सि ।
स॒त्यमे॒वाव॑रुन्धे ।
वरु॑णोऽसि स॒त्यध॒र्मेत्या॑ह ।
अ॒नु॒ष्टुभ॑मे॒वैतेना॑भि॒ व्याह॑रति ।
स॒त्या॒नृ॒ते वा अ॑नु॒ष्टुप् ।
स॒त्या॒नृ॒ते वरु॑णः ।
स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे ॥ 62 ॥
नैनँ॑ सत्यानृ॒ते उ॑दि॒ते हिँ॑स्तः ।
य ए॒वव्ँ वेद॑ ।
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ स्फ्यम्प्रय॑च्छति ।
वज्रो॒ वै स्फ्यः ।
वज्रे॑णै॒वास्मा॑ अवरप॒रँ र॑न्धयति ।
ए॒वँ हि तच्छ्रेयः॑ ।
यद॑स्मा ए॒ते रध्ये॑युः ।
दिशो॒ऽभ्य॑यँ राजा॑ऽभू॒दिति॒ पञ्चा॒क्षान्प्रय॑च्छति ।
ए॒ते वै सर्वेऽयाः॑ ।
अप॑राजायिनमे॒वैन॑ङ्करोति ॥63॥
ओ॒द॒नमुद्ब्रु॑वते ।
प॒र॒मे॒ष्ठी वा ए॒षः ।
यदो॑द॒नः ।
प॒र॒मामे॒वैनँ॒ श्रिय॑ङ्गमयति ।
सुश्लो॒काँ (4) सुम॑ङ्ग॒लाँ (4) सत्य॑रा॒जा (३) नित्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ।
शौ॒न॒श्शे॒पमाख्या॑पयते ।
व॒रु॒ण॒पा॒शादे॒वैन॑म्मुञ्चति ।
प॒र॒श्श॒तम्भ॑वति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।
मा॒रु॒तस्य॒ चैक॑विँशतिकपालस्य वैश्वदे॒व्यै चा॒मिक्षा॑या अ॒ग्नये॑ स्विष्ट॒कृते॑ स॒मव॑द्यति ।
दे॒वता॑भिरे॒वैन॑मुभ॒यत॒ᳶ परि॑ गृह्णाति ।
अ॒पान्नप्त्रे॒ स्वाहो॒र्जो नप्त्रे॒ स्वाहा॒ऽग्नये॑ गृ॒हप॑तये॒ स्वाहेति॑ ति॒स्र आहु॑तीर्जुहोति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति ॥ 64॥
वरु॑णस्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्ँ वी॒र्य॑म्परा॑ऽपतत् ।
तत्सँ॒सृद्भि॒रनु॒ सम॑सर्पत् ।
तत्सँ॒सृपाँ॑ सँसृ॒त्त्वम् ।
अ॒ग्निना॑ दे॒वेन॑ प्रथ॒मेऽह॒न्ननु॒ प्रायु॑ङ्क्त ।
सर॑स्वत्या वा॒चा द्वि॒तीये॑ ।
स॒वि॒त्रा प्र॑स॒वेन॑ तृ॒तीये॑ ।
पू॒ष्णा प॒शुभि॑श्चतु॒र्थे ।
बृह॒स्पति॑ना॒ ब्रह्म॑णा पञ्च॒मे ।
इन्द्रे॑ण दे॒वेन॑ ष॒ष्ठे ।
वरु॑णेन॒ स्वया॑ दे॒वत॑या सप्त॒मे ॥1॥
सोमे॑न॒ राज्ञा॑ऽष्ट॒मे ।
त्वष्ट्रा॑ रू॒पेण॑ नव॒मे ।
विष्णु॑ना य॒ज्ञेना॑प्नोत् ।
यत्सँ॒सृपो॒ भव॑न्ति ।
इ॒न्द्रि॒यमे॒व तद्वी॒र्यय्ँ॑यज॑मान आप्नोति ।
पूर्वा॑पूर्वा॒ वेदि॑र्भवति ।
इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै ।
पु॒रस्ता॑दुप॒सदाँ॑ सौ॒म्येन॒ प्रच॑रति ।
सोमो॒ वै रे॑तो॒धाः ।
रेत॑ ए॒व तद्द॑धाति ।
अ॒न्त॒रा त्वा॒ष्ट्रेण॑ ।
रेत॑ ए॒व हि॒तन्त्वष्टा॑ रू॒पाणि॒ विक॑रोति ।
उ॒परि॑ष्टाद्वैष्ण॒वेन॑ ।
य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञ ए॒वान्त॒तᳶ प्रति॑ तिष्ठति ॥2॥
जा॒मि वा ए॒तत्कु॑र्वन्ति ।
यत्स॒द्यो दी॒क्षय॑न्ति स॒द्यस्सोम॑ङ्क्री॒णन्ति॑ ।
पु॒ण्ड॒रि॒स्र॒जाम्प्रय॑च्छ॒त्यजा॑मित्वाय ।
अङ्गि॑रसस्सुव॒र्गल्ँ लो॒कय्ँ यन्तः॑ ।
अ॒प्सु दी॑क्षात॒पसी॒ प्रावे॑शयन् ।
तत्पु॒ण्डरी॑कमभवत् ।
यत्पु॑ण्डरिस्र॒जाम्प्र॒यच्छ॑ति ।
सा॒क्षादे॒व दी॑क्षात॒पसी॒ अव॑रुन्धे ।
द॒शभि॑र्वत्सत॒रैस्सोम॑ङ्क्रीणाति ।
दशा॑क्षरा वि॒राट् ॥3॥
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ।
मु॒ष्क॒रा भ॑वन्ति सेन्द्र॒त्वाय॑ ।
द॒श॒पेयो॑ भवति ।
अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
श॒तम्ब्रा॑ह्म॒णाᳶ पि॑बन्ति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
स॒प्त॒द॒शँ स्तो॒त्रम्भ॑वति ।
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ॥4॥
प्र॒जाप॑ते॒राप्त्यै॑ ।
प्रा॒का॒शाव॑ध्व॒र्यवे॑ ददाति ।
प्र॒का॒शमे॒वैन॑ङ्गमयति ।
स्रज॑मुद्गा॒त्रे ।
व्ये॑वास्मै॑ वासयति ।
रु॒क्मँ होत्रे॑ ।
आ॒दि॒त्यमे॒वास्मा॒ उन्न॑यति ।
अश्व॑म्प्रस्तोतृप्रतिह॒र्तृभ्या॑म् ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
प्र॒जाप॑ते॒राप्त्यै॑ ॥5॥
द्वाद॑श पष्ठौ॒हीर्ब्र॒ह्मणे॑ ।
आयु॑रे॒वाव॑रुन्धे ।
व॒शाम्मै॑त्रावरु॒णाय॑ ।
रा॒ष्ट्रमे॒व व॒श्य॑कः ।
ऋ॒ष॒भम्ब्रा॑ह्मणाच्छँ॒सिने॑ ।
रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः ।
वास॑सी नेष्टापो॒तृभ्या॑म् ।
प॒वित्रे॑ ए॒वास्यै॒ते ।
स्थूरि॑ यवाचि॒तम॑च्छावा॒काय॑ ।
अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते ॥6॥
अ॒न॒ड्वाह॑म॒ग्नीधे॑ ।
वह्नि॒र्वा अ॑न॒ड्वान् ।
वह्नि॑र॒ग्नीत् ।
वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे ।
इन्द्र॑स्य सुषुवा॒णस्य॑ त्रे॒धेन्द्रि॒यव्ँ वी॒र्य॑म्परा॑ऽपतत् ।
भृगु॒स्तृती॑यमभवत् ।
श्रा॒य॒न्तीय॒न्तृती॑यम् ।
सर॑स्वती॒ तृती॑यम् ।
भा॒र्ग॒वो होता॑ भवति ।
श्रा॒य॒न्तीय॑म्ब्रह्मसा॒मम्भ॑वति ।
वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम् ।
सा॒र॒स्व॒तीर॒पो गृ॑ह्णाति ।
इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै ।
श्रा॒य॒न्तीय॑म्ब्रह्मसा॒मम्भ॑वति ।
इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्यँ॑ श्रयति ।
वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम् ।
इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्यव्ँ॑वारयति ॥7॥
ई॒श्व॒रो वा ए॒ष दिशोऽनून्म॑दितोः ।
यन्दिशोऽनु॑ व्यास्था॒पय॑न्ति ।
दि॒शामवे॑ष्टयो भवन्ति ।
दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒त्यनु॑न्मादाय ।
पञ्च॑ दे॒वता॑ यजति ।
पञ्च॒ दिशः॑ ।
दि॒क्ष्वे॑व प्रति॑ तिष्ठति ।
ह॒विषो॑हविष इ॒ष्ट्वा बा॑र्हस्प॒त्यम॒भिघा॑रयति ।
य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै बृह॒स्पतिः॑ ।
यज॑मानमे॒व तेज॑सा॒ सम॑र्धयति ॥8॥
आ॒दि॒त्याम्म॒ल्हाङ्ग॒र्भिणी॒मा ल॑भते ।
मा॒रु॒तीम्पृश्ञि॑म्पष्ठौ॒हीम् ।
विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति ।
आ॒दि॒त्यया॒ पूर्व॑या॒ प्रच॑रति ।
मा॒रु॒त्योत्त॑रया ।
रा॒ष्ट्र ए॒व विश॒मनु॑बध्नाति ।
उ॒च्चैरा॑दि॒त्याया॒ आश्रा॑वयति ।
उ॒पाँ॒शु मा॑रु॒त्यै ।
तस्मा॑द्रा॒ष्ट्रव्ँ विश॒मति॑वदति ।
ग॒र्भिण्या॑दि॒त्या भ॑वति ॥9॥
इ॒न्द्रि॒यव्ँ वै गर्भः॑ ।
रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः ।
अ॒ग॒र्भा मा॑रु॒ती ।
विड्वै म॒रुतः॑ ।
विश॑मे॒व निरि॑न्द्रियामकः ।
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
ते दे॒वा अ॒श्विनो॑ᳶ पू॒षन्वा॒चस्स॒त्यँ स॑न्नि॒धाय॑ ।
अनृ॑ते॒नासु॑रान॒भ्य॑भवन् ।
ते॑ऽश्विभ्या॑म्पू॒ष्णे पु॑रो॒डाश॒न्द्वाद॑शकपाल॒न्निर॑वपन् ।
ततो॒ वै ते वा॒चस्स॒त्यमवा॑रुन्धत ॥10॥
यद॒श्विभ्या॑म्पू॒ष्णे पु॑रो॒डाश॒न्द्वाद॑शकपालन्नि॒र्वप॑ति ।
अनृ॑तेनै॒व भ्रातृ॑व्यानभि॒भूय॑ ।
वा॒चस्स॒त्यमव॑रुन्धे ।
सर॑स्वते सत्य॒वाचे॑ च॒रुम् ।
पूर्व॑मे॒वोदि॒तम् ।
उत्त॑रेणा॒भिगृ॑णाति ।
स॒वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाश॒न्द्वाद॑शकपाल॒म्प्रसू॑त्यै ।
दू॒तान्प्रहि॑णोति ।
आ॒विद॑ ए॒ता भ॑वन्ति ।
आ॒विद॑मे॒वैन॑ङ्गमयन्ति ।
अथो॑ दू॒तेभ्य॑ ए॒व न छि॑द्यते ।
ति॒सृ॒ध॒न्वँ शु॑ष्कदृ॒तिर्दक्षि॑णा॒ समृ॑द्ध्यै ॥11॥
आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति ।
तस्मा॒च्छिशि॑रे कुरुपञ्चा॒लाᳶ प्राञ्चो॑ यान्ति ।
सौ॒म्यञ्च॒रुम् ।
तस्मा॑द्वस॒न्तव्ँ व्य॑व॒साया॑दयन्ति ।
सा॒वि॒त्रन्द्वाद॑शकपालम् ।
तस्मा॑त्पु॒रस्ता॒द्यवा॑नाँ सवि॒त्रा विरु॑न्धते ।
बा॒र्ह॒स्प॒त्यञ्च॒रुम् ।
स॒वि॒त्रैव वि॒रुध्य॑ ।
ब्रह्म॑णा॒ यवा॒नाद॑धते ।
त्वा॒ष्ट्रम॒ष्टाक॑पालम् ॥12॥
रू॒पाण्ये॒व तेन॑ कुर्वते ।
वै॒श्वा॒न॒रन्द्वाद॑शकपालम् । तस्मा॑ज्जघ॒न्ये॑ नैदा॑घे प्र॒त्यञ्च॑ᳵ कुरुपञ्चा॒ला या॑न्ति । सा॒र॒स्व॒तञ्च॒रुन्निर्व॑पति । तस्मा॑त्प्रा॒वृषि॒ सर्वा॒ वाचो॑ वदन्ति । पौ॒ष्णेन॒ व्यव॑स्यन्ति । मै॒त्रेण॑ कृषन्ते । वा॒रु॒णेन॒ विधृ॑ता आसते । क्षै॒त्र॒प॒त्येन॑ पाचयन्ते । आ॒दि॒त्येनाद॑धते ॥13॥
मा॒सिमा॑स्ये॒तानि॑ ह॒वीँषि॑ नि॒रुप्या॒णीत्या॑हुः । तेनै॒वर्तून्प्रयु॑ङ्क्त॒ इति॑ ।
अथो॒ खल्वा॑हुः ।
कस्सव्ँ॑वत्स॒रञ्जी॑विष्य॒तीति॑ ।
षडे॒व पू॑र्वे॒द्युर्नि॒रुप्या॑णि ।
षडु॑त्तरे॒द्युः ।
तेनै॒वर्तून्प्रयु॑ङ्क्ते ।
दक्षि॑णो रथवाहनवा॒हᳶ पूर्वे॑षा॒न्दक्षि॑णा ।
उत्त॑र॒ उत्त॑रेषाम् ।
सव्ँ॒व॒त्स॒रस्यै॒वान्तौ॑ युनक्ति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥14॥
इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्ँ वी॒र्य॑म्परा॑ऽपतत् ।
स यत्प्र॑थ॒मन्नि॒रष्ठी॑वत् ।
तत्क्व॑लमभवत् ।
यद्द्वि॒तीय॑म् ।
तद्बद॑रम् ।
यत्तृ॒तीय॑म् ।
तत्क॒र्कन्धु॑ ।
यन्न॒स्तः ।
स सिँ॒हः ।
यदक्ष्योः॑ ॥15॥
स शा॑र्दू॒लः ।
यत्कर्ण॑योः ।
स वृकः॑ ।
य ऊ॒र्ध्वः ।
स सोमः॑ ।
याऽवा॑ची ।
सा सुरा॑ ।
त्र॒यास्सक्त॑वो भवन्ति ।
इ॒न्द्रि॒यस्याव॑रुद्ध्यै ।
त्र॒याणि॒ लोमा॑नि ॥16॥
त्विषि॑मे॒वाव॑रुन्धे ।
त्रयो॒ ग्रहाः॑ ।
वी॒र्य॑मे॒वाव॑रुन्धे ।
नाम्ना॑ दश॒मी ।
नव॒ वै पुरु॑षे प्रा॒णाः ।
नाभि॑र्दश॒मी ।
प्रा॒णा इ॑न्द्रि॒यव्ँ वी॒र्य॑म् ।
प्रा॒णाने॒वेन्द्रि॒यव्ँ वी॒र्यय्ँ॑यज॑मान आ॒त्मन्ध॑त्ते ।
सीसे॑न क्ली॒बाच्छष्पा॑णि क्रीणाति ।
न वा ए॒तदयो॒ न हिर॑ण्यम् ॥17॥
यत्सीस॑म् ।
न स्त्री न पुमा॑न् ।
यत्क्ली॒बः ।
न सोमो॒ न सुरा॑ ।
यत्सौ॑त्राम॒णी समृ॑द्ध्यै ।
स्वा॒द्वीन्त्वा॑ स्वा॒दुनेत्या॑ह ।
सोम॑मे॒वैना॑ङ्करोति ।
सोमो॑ऽस्य॒श्विभ्या॑म्पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्य॒स्वेत्या॑ह ।
ए॒ताभ्यो॒ ह्ये॑षा दे॒वता॑भ्य॒ᳶ पच्य॑ते ।
ति॒स्रस्सँसृ॑ष्टा वसति ॥18॥
ति॒स्रो हि रात्री॑ᳵ क्री॒तस्सोमो॒ वस॑ति ।
पु॒नातु॑ ते परि॒स्रुत॒मिति॒ यजु॑षा पुनाति॒ व्यावृ॑त्त्यै ।
प॒वित्रे॑ण पुनाति ।
प॒वित्रे॑ण॒ हि सोम॑म्पु॒नन्ति॑ ।
वारे॑ण॒ शश्व॑ता॒ तनेत्या॑ह ।
वारे॑ण॒ हि सोम॑म्पु॒नन्ति॑ ।
वा॒युᳶ पू॒तᳶ प॒वित्रे॒णेति॒ नैतया॑ पुनीयात् ।
व्यृ॑द्धा॒ ह्ये॑षा ।
अ॒ति॒प॒वि॒तस्यै॒तया॑ पुनीयात् ।
कु॒विद॒ङ्गेत्यनि॑रुक्तया प्राजाप॒त्यया॑ गृह्णाति ॥19॥
अनि॑रुक्तᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।
एक॑य॒र्चा गृ॑ह्णाति ।
ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति ।
आ॒श्वि॒नन्धू॒म्रमाल॑भते ।
अ॒श्विनौ॒ वै दे॒वाना॑म्भि॒षजौ॑ ।
ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति ।
सा॒र॒स्व॒तम्मे॒षम् ।
वाग्वै सर॑स्वती ।
वा॒चैवैन॑म्भिषज्यति ।
ऐ॒न्द्रमृ॑ष॒भँ से॑न्द्र॒त्वाय॑ ॥20॥
यत्त्रि॒षु यूपे॑ष्वा॒लभे॑त ।
ब॒हि॒र्धाऽस्मा॑दिन्द्रि॒यव्ँ वी॒र्य॑न्दध्यात् ।
भ्रातृ॑व्यमस्मै जनयेत् ।
ए॒क॒यू॒प आल॑भते ।
ए॒क॒धैवास्मि॑न्निन्द्रि॒यव्ँ वी॒र्य॑न्दधाति ।
नास्मै॒ भ्रातृ॑व्यञ्जनयति ।
नैतेषा॑म्पशू॒नाम्पु॑रो॒डाशा॑ भवन्ति ।
ग्रह॑पुरोडाशा॒ ह्ये॑ते ।
यु॒वँ सु॒राम॑मश्वि॒नेति॑ सर्वदेव॒त्ये॑ याज्यानुवा॒क्ये॑ भवतः ।
सर्वा॑ ए॒व दे॒वता॑ᳶ प्रीणाति ॥21॥
ब्रा॒ह्म॒णम्परि॑क्रीणीयादु॒च्छेष॑णस्य पा॒तार॑म् ।
ब्रा॒ह्म॒णो ह्याहु॑त्या उ॒च्छेष॑णस्य पा॒ता ।
यदि॑ ब्राह्म॒णन्न वि॒न्देत् ।
व॒ल्मी॒क॒व॒पाया॒मव॑नयेत् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
यद्वै सौ॑त्राम॒ण्यै व्यृ॑द्धम् ।
तद॑स्यै॒ समृ॑द्धम् ।
ना॒ना॒दे॒व॒त्या॑ᳶ प॒शव॑श्च पुरो॒डाशा॑श्च भवन्ति॒ समृ॑द्ध्यै ।
ऐ॒न्द्रᳶ प॑शू॒नामु॑त्त॒मो भ॑वति ।
ऐ॒न्द्रᳶ पु॑रो॒डाशा॑नाम्प्रथ॒मः ॥22॥
इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति ।
पु॒रस्ता॑दनूया॒जाना॑म्पुरो॒डाशै॒ᳶ प्रच॑रति ।
प॒शवो॒ वै पु॑रो॒डाशाः॑ ।
प॒शूने॒वाव॑रुन्धे ।
ऐ॒न्द्रमेका॑दशकपाल॒न्निर्व॑पति ।
इ॒न्द्रि॒यमे॒वाव॑रुन्धे ।
सा॒वि॒त्रन्द्वाद॑शकपाल॒म्प्रसू॑त्यै ।
वा॒रु॒णन्दश॑कपालम् ।
अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते ।
वड॑बा॒ दक्षि॑णा ॥23॥
उ॒त वा ए॒षाऽश्वँ॑ सू॒ते ।
उ॒ताऽश्व॑त॒रम् ।
उ॒त सोम॑ उ॒त सुरा॑ ।
यत्सौ॑त्राम॒णी समृ॑द्ध्यै ।
बा॒र्ह॒स्प॒त्यम्प॒शुञ्च॑तु॒र्थम॑तिपवि॒तस्याल॑भते ।
ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒व य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑वपति ।
पु॒रो॒डाश॑वाने॒ष प॒शुर्भ॑वति ।
न ह्ये॑तस्य॒ ग्रह॑ङ्गृ॒ह्णन्ति॑ ।
सोम॑प्रतीकाᳶ पितरस्तृप्णु॒तेति॑ शतातृ॒ण्णायाँ॑ स॒मव॑नयति ॥24॥
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
दक्षि॑णे॒ऽग्नौ जु॑होति ।
पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै ।
हिर॑ण्यमन्त॒रा धा॑रयति ।
पू॒तामे॒वैना॑ञ्जुहोति ।
श॒तमा॑नम्भवति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
यत्रै॒व श॑तातृ॒ण्णान्धा॒रय॑ति ॥25॥
तन्निद॑धाति॒ प्रति॑ष्ठित्यै ।
पि॒तॄन् वा ए॒तस्ये॑न्द्रि॒यव्ँ वी॒र्य॑ङ्गच्छति ।
यँ सोमो॑ऽति॒पव॑ते ।
पि॒तृ॒णाय्ँ या॑ज्यानुवा॒क्या॑भि॒रुप॑तिष्ठते ।
यदे॒वास्य॑ पि॒तॄनि॑न्द्रि॒यव्ँ वी॒र्य॑ङ्गच्छ॑ति ।
तदे॒वाव॑रुन्धे ।
ति॒सृभि॒रुप॑तिष्ठते ।
तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ ।
ताने॒व प्री॑णाति ।
अथो॒ त्रीणि॒ वै य॒ज्ञस्ये॑न्द्रि॒याणि॑ ।
अ॒ध्व॒र्युर् होता॑ ब्र॒ह्मा ।
त उप॑तिष्ठन्ते ।
यान्ये॒व य॒ज्ञस्ये॑न्द्रि॒याणि॑ ।
तैरे॒वास्मै॑ भेष॒जङ्क॑रोति ॥26॥
अ॒ग्नि॒ष्टो॒ममग्र॒ आह॑रति ।
य॒ज्ञ॒मु॒खव्ँ वा अ॑ग्निष्टो॒मः ।
य॒ज्ञ॒मु॒खमे॒वारभ्य॑ स॒वमाक्र॑मते ।
अथै॒षो॑ऽभिषेच॒नीय॑श्चतुस्त्रिँ॒शप॑वमानो भवति ।
त्रय॑स्त्रिँश॒द्वै दे॒वताः॑ ।
ता ए॒वाप्नो॑ति ।
प्र॒जाप॑तिश्चतुस्त्रिँ॒शः ।
तमे॒वाप्नो॑ति ।
सँ॒श॒र ए॒ष स्तोमा॑ना॒मय॑थापूर्वम् ।
यद्विष॑मा॒स्स्तोमाः॑ ॥27॥
ए॒तावा॒न् वै य॒ज्ञः ।
यावा॒न्पव॑मानाः ।
अ॒न्त॒श्श्लेष॑ण॒न्त्वा अ॒न्यत् ।
यत्स॒माᳶ पव॑मानाः ।
तेनाऽसँ॑शरः ।
तेन॑ यथापू॒र्वम् ।
आ॒त्मनै॒वाग्नि॑ष्टो॒मेन॒र्ध्नोति॑ ।
आ॒त्मना॒ पुण्यो॑ भवति ।
प्र॒जा वा उ॒क्थानि॑ ।
प॒शव॑ उ॒क्थानि॑ ।
यदु॒क्थ्यो॑ भव॒त्यनु॒ सन्त॑त्त्यै ॥28॥
उप॑ त्वा जा॒मयो॒ गिर॒ इति॑ प्रति॒पद्भ॑वति ।
वाग्वै वा॒युः ।
वा॒च ए॒वैषो॑ऽभिषे॒कः ।
सर्वा॑सामे॒व प्र॒जानाँ॑ सूयते ।
सर्वा॑ एनम्प्र॒जा राजेति॑ वदन्ति ।
ए॒तमु॒ त्यन्दश॒ क्षिप॒ इत्या॑ह ।
आ॒दि॒त्या वै प्र॒जाः ।
प्र॒जाना॑मे॒वैतेन॑ सूयते ।
यन्ति॒ वा ए॒ते य॑ज्ञमु॒खात् ।
ये स॑म्भा॒र्या॑ अक्र॑न् ॥29॥
यदाह॒ पव॑स्व वा॒चो अ॑ग्रिय॒ इति॑ ।
तेनै॒व य॑ज्ञमु॒खान्नय॑न्ति ।
अ॒नु॒ष्टुक्प्र॑थ॒मा भ॑वति ।
अ॒नु॒ष्टुगु॑त्त॒मा ।
वाग्वा अ॑नु॒ष्टुक् ।
वा॒चैव प्र॒यन्ति॑ ।
वा॒चोद्य॑न्ति ।
उद्व॑तीर्भवन्ति ।
उद्व॒द्वा अ॑नु॒ष्टुभो॑ रू॒पम् ।
आनु॑ष्टुभो राज॒न्यः॑ ॥30॥
तस्मा॒दुद्व॑तीर्भवन्ति ।
सौ॒र्य॑नु॒ष्टुगु॑त्त॒मा भ॑वति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ।
यो वै स॒वादेति॑ ।
नैनँ॑ स॒व उप॑नमति ।
यस्साम॑भ्य॒ एति॑ ।
पापी॑यान्त्सुषुवा॒णो भ॑वति ।
ए॒तानि॒ खलु॒ वै सामा॑नि ।
यत्पृ॒ष्ठानि॑ ।
यत्पृ॒ष्ठानि॒ भव॑न्ति ॥31॥
तैरे॒व स॒वान्नैति॑ ।
यानि॑ देवरा॒जानाँ॒ सामा॑नि ।
तैर॒मुष्मिल्ँ॑ लो॒क ऋ॑ध्नोति ।
यानि॑ मनुष्यरा॒जानाँ॒ सामा॑नि ।
तैर॒स्मिल्ँ लो॒क ऋ॑ध्नोति ।
उ॒भयो॑रे॒व लो॒कयो॑र् ऋध्नोति ।
दे॒व॒लो॒के च॑ मनुष्यलो॒के च॑ ।
ए॒क॒विँ॒शो॑ऽभिषेच॒नीय॑स्योत्त॒मो भ॑वति ।
ए॒क॒विँ॒शᳵ के॑शवप॒नीय॑स्य प्रथ॒मः ।
स॒प्त॒द॒शो द॑श॒पेयः॑ ॥32॥
विड्वा ए॑कविँ॒शः ।
रा॒ष्ट्रँ स॑प्तद॒शः ।
विश॑ ए॒वैतन्म॑ध्य॒तो॑ऽभिषि॑च्यते ।
तस्मा॒द्वा ए॒ष वि॒शाम्प्रि॒यः ।
वि॒शो हि म॑ध्य॒तो॑ऽभिषि॒च्यते॑ ।
यद्वा ए॑नम॒दो दिशोऽनु॑व्यास्था॒पय॑न्ति ।
तत्सु॑व॒र्गल्लो॒कम॒भ्यारो॑हति ।
यदि॒मल्ँ लो॒कन्न प्र॑त्यव॒रोहे॑त् ।
अ॒ति॒ज॒नव्ँ वे॒यात् ।
उद्वा॑ माद्येत् ।
यदे॒ष प्र॑ती॒चीन॑स्स्तोमो॒ भव॑ति ।
इ॒ममे॒व तेन॑ लो॒कम्प्र॒त्यव॑रोहति ।
अथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठ॒त्यनु॑न्मादाय ॥33॥
इ॒यव्ँ वै॒ र॑ज॒ता ।
अ॒सौ हरि॑णी ।
यद्रु॒क्मौ भव॑तः ।
आ॒भ्यामे॒वैन॑मुभ॒यत॒ᳶ परि॑ गृह्णाति ।
वरु॑णस्य॒ वा अ॑भिषि॒च्यमा॑न॒स्यापः॑ ।
इ॒न्द्रि॒यव्ँ वी॒र्य॑न्निर॑घ्नन् ।
तत्सु॒वर्णँ॒ हिर॑ण्यमभवत् ।
यद्रु॒क्मम॑न्त॒र्दधा॑ति ।
इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय ।
श॒तमा॑नो भवति श॒तक्ष॑रः ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
आयु॒र्वै हिर॑ण्यम् ।
आ॒यु॒ष्या॑ ए॒वैन॑म॒भ्यति॑क्षरन्ति ।
तेजो॒ वै हिर॑ण्यम् ।
ते॒ज॒स्या॑ ए॒वैन॑म॒भ्यति॑क्षरन्ति ।
वर्चो॒ वै हिर॑ण्यम् ।
व॒र्च॒स्या॑ ए॒वैन॑म॒भ्यति॑ क्षरन्ति ॥34॥
अप्र॑तिष्ठितो॒ वा ए॒ष इत्या॑हुः ।
यो रा॑ज॒सूये॑न॒ यज॑त॒ इति॑ ।
य॒दा वा ए॒ष ए॒तेन॑ द्विरा॒त्रेण॒ यज॑ते ।
अथ॑ प्रति॒ष्ठा ।
अथ॑ सव्ँवत्स॒रमा॑प्नोति ।
याव॑न्ति सव्ँवत्स॒रस्या॑होरा॒त्राणि॑ ।
ताव॑तीरे॒तस्य॑ स्तो॒त्रीयाः॑ ।
अ॒हो॒रा॒त्रेष्वे॒व प्रति॑तिष्ठति ।
अ॒ग्नि॒ष्टो॒मᳶ पूर्व॒मह॑र्भवति ।
अ॒ति॒रा॒त्र उत्त॑रम् ॥35॥
नानै॒वाहो॑रा॒त्रयो॒ᳶ प्रति॑तिष्ठति ।
पौ॒र्ण॒मा॒स्याम्पूर्व॒मह॑र्भवति ।
व्य॑ष्टकाया॒मुत्त॑रम् ।
नानै॒वार्ध॑मा॒सयो॒ᳶ प्रति॑तिष्ठति ।
अ॒मा॒वा॒स्या॑या॒म्पूर्व॒मह॑र्भवति ।
उद्दृ॑ष्ट॒ उत्त॑रम् ।
नानै॒व मास॑यो॒ᳶ प्रति॑तिष्ठति ।
अथो॒ खलु॑ ।
ये ए॒व स॑मानप॒क्षे पु॑ण्या॒हे स्याता॑म् ।
तयो॑ᳵ का॒र्य॑म्प्रति॑ष्ठित्यै ॥36॥
अ॒प॒श॒व्यो द्वि॑रा॒त्र इत्या॑हुः ।
द्वे ह्ये॑ते छन्द॑सी ।
गा॒य॒त्रञ्च॒ त्रैष्टु॑भञ्च ।
जग॑तीम॒न्तर्य॑न्ति ।
न तेन॒ जग॑ती कृ॒तेत्या॑हुः ।
यदे॑नान्तृतीयसव॒ने कु॒र्वन्तीति॑ ।
य॒दा वा ए॒षाऽहीन॒स्याह॒र्भज॑ते ।
सा॒ह्नस्य॑ वा॒ सव॑नम् ।
अथै॒व जग॑ती कृ॒ता ।
अथ॑ पश॒व्यः॑ ।
व्यु॑ष्टि॒र्वा ए॒ष द्वि॑रा॒त्रः ।
य ए॒वव्ँ वि॒द्वान्द्वि॑रा॒त्रेण॒ यज॑ते ।
व्ये॑वास्मा॑ उच्छति ।
अथो॒ तम॑ ए॒वाप॑हते ।
अ॒ग्नि॒ष्टो॒मम॑न्त॒त आह॑रति ।
अ॒ग्निस्सर्वा॑ दे॒वताः॑ ।
दे॒वता॑स्वे॒व प्रति॑तिष्ठति ॥37॥
अङ्गि॑रसो॒ वै स॒त्त्रमा॑सत ।
तेषा॒म्पृश्ञि॑र्घर्म॒धुगा॑सीत् ।
सर्जी॒षेणा॑जीवत् ।
ते॑ऽब्रुवन् ।
कस्मै॒ नु स॒त्रमा॑स्महे ।
ये॑ऽस्या ओष॑धी॒र्न ज॒नया॑म॒ इति॑ ।
ते दि॒वो वृष्टि॑मसृजन्त ।
याव॑न्तस्स्तो॒का अ॒वाप॑द्यन्त ।
ताव॑ती॒रोष॑धयोऽजायन्त ।
ता जा॒ताᳶ पि॒तरो॑ वि॒षेणा॑लिम्पन्न् ॥1॥
तासा॑ञ्ज॒ग्ध्वा रुप्य॒न्त्यैत् ।
ते॑ऽब्रुवन् ।
क इ॒दमि॒त्थम॑क॒रिति॑ ।
व॒यम्भा॑ग॒धेय॑मि॒च्छमा॑ना॒ इति॑ पि॒तरो॑ऽब्रुवन् ।
किव्ँ वो॑ भाग॒धेय॒मिति॑ ।
अ॒ग्नि॒हो॒त्र ए॒व नोऽप्य॒स्त्वित्य॑ब्रुवन् ।
तेभ्य॑ ए॒तद्भा॑ग॒धेय॒म्प्राय॑च्छन् ।
यद्धु॒त्वा नि॒मार्ष्टि॑ ।
ततो॒ वै त ओष॑धीरस्वदयन् ।
य ए॒वव्ँ वेद॑ ॥2॥
स्वद॑न्तेऽस्मा॒ ओष॑धयः ।
ते व॒त्समु॒पावा॑सृजन् ।
इ॒दन्नो॑ ह॒व्यम्प्रदा॑प॒येति॑ ।
सो॑ऽब्रवी॒द्वरव्ँ॑वृणै ।
दश॑ मा॒ रात्री॑र्जा॒तन्न दो॑हन् ।
आ॒स॒ङ्ग॒वम्मा॒त्रा स॒ह च॑रा॒णीति॑ ।
तस्मा॑द्व॒त्सञ्जा॒तन्दश॒ रात्री॒र्न दु॑हन्ति ।
आ॒स॒ङ्ग॒वम्मा॒त्रा स॒ह च॑रति ।
वारे॑वृतँ॒ ह्य॑स्य ।
तस्मा॑द्व॒त्सँ सँ॑सृष्टध॒यँ रु॒द्रो घातु॑कः ।
अति॒ हि स॒न्धान्धय॑ति ॥3॥
प्र॒जाप॑तिर॒ग्निम॑सृजत ।
तम्प्र॒जा अन्व॑सृज्यन्त ।
तम॑भा॒ग उपा॑स्त ।
सो॑ऽस्य प्र॒जाभि॒रपा॑क्रामत् ।
तम॑व॒रुरु॑त्समा॒नोऽन्वै॑त् ।
तम॑व॒रुध॒न्नाश॑क्नोत् ।
स तपो॑ऽतप्यत ।
सो॑ऽग्निरुपा॑रम॒ताता॑पि॒ वै स्य प्र॒जाप॑ति॒रिति॑ ।
स र॒राटा॒दुद॑मृष्ट ॥4॥
तद्घृ॒तम॑भवत् ।
तस्मा॒द्यस्य॑ दक्षिण॒तᳵ केशा॒ उन्मृ॑ष्टाः ।
ताञ्ज्ये॑ष्ठल॒क्ष्मी प्रा॑जाप॒त्येत्या॑हुः ।
यद्र॒राटा॑दु॒दमृ॑ष्ट ।
तस्मा॑द्र॒राटे॒ केशा॒ न स॑न्ति ।
तद॒ग्नौ प्रागृ॑ह्णात् ।
तद्व्य॑चिकित्सत् ।
जु॒हवा॒नी३ मा हौ॒षा ३ मिति॑ ।
तद्वि॑चिकि॒त्सायै॒ जन्म॑ ।
य ए॒वव्ँ वि॒द्वान् वि॑चि॒कित्स॑ति ॥5॥
वसी॑य ए॒व चे॑तयते ।
तव्ँ वाग॒भ्य॑वदज्जु॒हुधीति॑ ।
सो॑ऽब्रवीत् ।
कस्त्वम॒सीति॑ ।
स्वैव ते॒ वागित्य॑ब्रवीत् ।
सो॑ऽजुहो॒त्स्वाहेति॑ ।
तत्स्वा॑हाका॒रस्य॒ जन्म॑ ।
य ए॒वँ स्वा॑हाका॒रस्य॒ जन्म॒ वेद॑ ।
क॒रोति॑ स्वाहाका॒रेण॑ वी॒र्य॑म् ।
यस्यै॒वव्ँवि॒दुष॑स्स्वाहाका॒रेण॒ जुह्व॑ति ॥6॥
भोगा॑यै॒वास्य॑ हु॒तम्भ॑वति ।
तस्या॒ आहु॑त्यै॒ पुरु॑षमसृजत ।
द्वि॒तीय॑मजुहोत् ।
सोऽश्व॑मसृजत ।
तृ॒तीय॑मजुहोत् ।
स गाम॑सृजत ।
च॒तु॒र्थम॑जुहोत् ।
सोऽवि॑मसृजत ।
प॒ञ्च॒मम॑जुहोत् ।
सो॑ऽजाम॑सृजत ॥7॥
सो॑ऽग्निर॑बिभेत् ।
आहु॑तीभि॒र्वै मा॑ऽऽप्नो॒तीति॑ ।
स प्र॒जाप॑ति॒म्पुन॒ᳶ प्रावि॑शत् ।
तम्प्र॒जाप॑तिरब्रवीत् ।
जाय॒स्वेति॑ ।
सो॑ऽब्रवीत् ।
किम्भा॑ग॒धेय॑म॒भिज॑निष्य॒ इति॑ ।
तुभ्य॑मे॒वेदँ हू॑याता॒ इत्य॑ब्रवीत् ।
स ए॒तद्भा॑ग॒धेय॑म॒भ्य॑जायत ।
यद॑ग्निहो॒त्रम् ॥8॥
तस्मा॑दग्निहो॒त्रमु॑च्यते ।
तद्धू॒यमा॑नमादि॒त्यो॑ऽब्रवीत् ।
मा हौ॑षीः ।
उ॒भयो॒र्वै ना॑वे॒तदिति॑ ।
सो॑ऽग्निर॑ब्रवीत् ।
क॒थन्नौ॑ होष्य॒न्तीति॑ ।
सा॒यमे॒व तुभ्य॑ञ्जु॒हुव॑न् ।
प्रा॒तर्मह्य॒मित्य॑ब्रवीत् ।
तस्मा॑द॒ग्नये॑ सा॒यँ हू॑यते ।
सूर्या॑य प्रा॒तः ॥9॥
आ॒ग्ने॒यी वै रात्रिः॑ ।
ऐ॒न्द्रमहः॑ ।
यदनु॑दिते॒ सूर्ये॑ प्रा॒तर्जु॑हु॒यात् ।
उ॒भय॑मे॒वाग्ने॒यँ स्या॑त् ।
उदि॑ते॒ सूर्ये॑ प्रा॒तर्जु॑होति ।
तथा॒ग्नये॑ सा॒यँ हू॑यते ।
सूर्या॑य प्रा॒तः ।
रात्रिव्ँ॒ वा अनु॑ प्र॒जाᳶ प्रजा॑यन्ते ।
अह्ना॒ प्रति॑तिष्ठन्ति ।
यत्सा॒यञ्जु॒होति॑ ॥10॥
प्रैव तेन॑ जायते ।
उदि॑ते॒ सूर्ये॑ प्रा॒तर्जु॑होति ।
प्रत्ये॒व तेन॑ तिष्ठति ।
प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑ ।
स ए॒तद॑ग्निहो॒त्रम्मि॑थु॒नम॑पश्यत् ।
तदुदि॑ते॒ सूर्ये॑ऽजुहोत् ।
यजु॑षा॒ऽन्यत् ।
तू॒ष्णीम॒न्यत् ।
ततो॒ वै स प्राजा॑यत ।
यस्यै॒वव्ँ वि॒दुष॒ उदि॑ते॒ सूर्ये॑ऽग्निहो॒त्रञ्जुह्व॑ति ॥11॥
प्रैव जा॑यते ।
अथो॒ यथा॒ दिवा॑ प्रजा॒नन्नेति॑ ।
ता॒दृगे॒व तत् ।
अथो॒ खल्वा॑हुः ।
यस्य॒ वै द्वौ पुण्यौ॑ गृ॒हे वस॑तः ।
यस्तयो॑र॒न्यँ रा॒धय॑त्य॒न्यन्न ।
उ॒भौ वाव स तावृ॑च्छ॒तीति॑ ।
अ॒ग्निव्ँ वावादि॒त्यस्सा॒यम्प्रवि॑शति ।
तस्मा॑द॒ग्निर्दू॒रान्नक्त॑न्ददृशे ।
उ॒भे हि तेज॑सी स॒म्पद्ये॑ते ॥12॥
उ॒द्यन्तव्ँ॒वावादि॒त्यम॒ग्निरनु॑स॒मारो॑हति ।
तस्मा॑द्धू॒म ए॒वाग्नेर्दिवा॑ ददृशे ।
यद॒ग्नये॑ सा॒यञ्जु॑हु॒यात् ।
आ सूर्या॑य वृश्च्येत ।
यत्सूर्या॑य प्रा॒तर्जु॑हु॒यात् ।
आऽग्नये॑ वृश्च्येत ।
दे॒वता॑भ्यस्स॒मद॑न्दध्यात् ।
अ॒ग्निर्ज्योति॒र्ज्योति॒स्सूर्य॒स्स्वाहेत्ये॒व सा॒यँ हो॑त॒व्य॑म् ।
सूर्यो॒ ज्योति॒र्ज्योति॑र॒ग्निस्स्वाहेति॑ प्रा॒तः ।
तथो॒भाभ्याँ॑ सा॒यँ हू॑यते ॥13॥
उ॒भाभ्या॑म्प्रा॒तः ।
न दे॒वता॑भ्यस्स॒मद॑न्दधाति ।
अ॒ग्निर्ज्योति॒रित्या॑ह ।
अ॒ग्निर्वै रे॑तो॒धाः ।
प्र॒जा ज्योति॒रित्या॑ह ।
प्र॒जा ए॒वास्मै॒ प्रज॑नयति ।
सूर्यो॒ ज्योति॒रित्या॑ह ।
प्र॒जास्वे॒व प्रजा॑तासु॒ रेतो॑ दधाति ।
ज्योति॑र॒ग्निस्स्वाहेत्या॑ह ।
प्र॒जा ए॒व प्रजा॑ता अ॒स्याम्प्रति॑ष्ठापयति ॥14॥
तू॒ष्णीमुत्त॑रा॒माहु॑तिञ्जुहोति ।
मि॒थु॒न॒त्वाय॒ प्रजा॑त्यै ।
यदुदि॑ते॒ सूर्ये॑ प्रा॒तर्जु॑हु॒यात् ।
यथाऽति॑थये॒ प्रद्रु॑ताय शू॒न्याया॑वस॒थाया॑हा॒र्यँ॑ हर॑न्ति ।
ता॒दृगे॒व तत् ।
क्वाह॒ तत॒स्तद्भव॒तीत्या॑हुः ।
यत्स न वेद॑ ।
यस्मै॒ तद्धर॒न्तीति॑ ।
तस्मा॒द्यदौ॑ष॒सञ्जु॒होति॑ ।
तदे॒व स॑म्प्र॒ति ।
अथो॒ यथा॒ प्रार्थ॑मौष॒सम्प॑रि॒वेवे॑ष्टि ।
ता॒दृगे॒व तत् ॥15॥
रु॒द्रो वा ए॒षः ।
यद॒ग्निः ।
पत्नी॑ स्था॒ली ।
यन्मध्ये॒ऽग्नेर॑धि॒श्रये॑त् ।
रु॒द्राय॒ पत्नी॒मपि॑दध्यात् ।
प्र॒मायु॑का स्यात् ।
उदी॒चोऽङ्गा॑रान्नि॒रूह्याधि॑ श्रयति ।
पत्नि॑यै गोपी॒थाय॑ ।
व्य॑न्तान्करोति ।
तथा॒ पत्न्यप्र॑मायुका भवति ॥16॥
घ॒र्मो वा ए॒षोऽशा॑न्तः ।
अह॑रह॒ᳶ प्रवृ॑ज्यते ।
यद॑ग्निहो॒त्रम् ।
प्रति॑षिञ्चेत्प॒शुका॑मस्य ।
शा॒न्तमि॑व॒ हि प॑श॒व्य॑म् ।
न प्रति॑षिञ्चेद्ब्रह्मवर्च॒सका॑मस्य ।
समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् ।
अथो॒ खलु॑ ।
प्र॒ति॒षिच्य॑मे॒व ।
यत्प्र॑तिषि॒ञ्चति॑ ॥17॥
तत्प॑श॒व्य॑म् ।
यज्जु॒होति॑ ।
तद्ब्र॑ह्मवर्च॒सि ।
उ॒भय॑मे॒वाकः॑ ।
प्रच्यु॑तव्ँ॒वा ए॒तद॒स्माल्लो॒कात् ।
अग॑तन्देवलो॒कम् ।
यच्छृ॒तँ ह॒विरन॑भिघारितम् ।
अ॒भिद्यो॑तयति ।
अ॒भ्ये॑वैन॑द्घारयति ।
अथो॑ देव॒त्रैवैन॑द्गमयति ॥18॥
पर्य॑ग्नि करोति ।
रक्ष॑सा॒मप॑हत्यै ।
त्रिᳶ पर्य॑ग्नि करोति ।
त्र्या॑वृ॒द्धि य॒ज्ञः ।
अथो॑ मेध्य॒त्वाय॑ ।
यत्प्रा॒चीन॑मुद्वा॒सये॑त् ।
यज॑मानँ शु॒चाऽर्प॑येत् ।
यद्द॑क्षि॒णा ।
पि॒तृ॒दे॒व॒त्यँ॑ स्यात् ।
यत्प्र॒त्यक् ॥19॥
पत्नीँ॑ शु॒चाऽर्प॑येत् ।
उ॒दी॒चीन॒मुद्वा॑सयति ।
ए॒षा वै दे॑वमनु॒ष्याणाँ॑ शा॒न्ता दिक् ।
तामे॒वैन॒दनूद्वा॑सयति॒ शान्त्यै॑ ।
वर्त्म॑ करोति ।
य॒ज्ञस्य॒ सन्त॑त्यै ।
निष्ट॑पति ।
उपै॒व तत्स्तृ॑णाति ।
च॒तुरुन्न॑यति ।
चतु॑ष्पादᳶ प॒शवः॑ ॥20॥
प॒शूने॒वाव॑रुन्धे ।
सर्वा॑न्पू॒र्णानुन्न॑यति ।
सर्वे॒ हि पुण्या॑ रा॒द्धाः ।
अ॒नूच॒ उन्न॑यति ।
प्र॒जाया॑ अनूचीन॒त्वाय॑ ।
अ॒नूच्ये॒वास्य॑ प्र॒जाऽर्धु॑का भवति ।
सम्मृ॑शति॒ व्यावृ॑त्त्यै ।
नाहो॑ष्य॒न्नुप॑सादयेत् ।
यदहो॑ष्यन्नुपसा॒दये॑त् ।
यथा॒ऽन्यस्मा॑ उपनि॒धाय॑ ॥21॥
अ॒न्यस्मै॑ प्र॒यच्छ॑ति ।
ता॒दृगे॒व तत् ।
आऽस्मै॑ वृश्च्येत ।
यदे॒व गार्ह॑पत्येऽधि॒श्रय॑ति ।
तेन॒ गार्ह॑पत्यम्प्रीणाति ।
अ॒ग्निर॑बिभेत् ।
आहु॑तयो॒ माऽत्ये॑ष्य॒न्तीति॑ ।
स ए॒ताँ स॒मिध॑मपश्यत् ।
तामाऽध॑त्त ।
ततो॒ वा अ॒ग्नावाहु॑तयोऽध्रियन्त ॥22॥
यदे॑नँ स॒मय॑च्छत् ।
तत्स॒मिध॑स्समि॒त्त्वम् ।
स॒मिध॒माद॑धाति ।
समे॒वैनय्ँ॑यच्छति ।
आहु॑तीना॒न्धृत्यै॑ ।
अथो॑ अग्निहो॒त्रमे॒वेध्मव॑त्करोति ।
आहु॑तीना॒म्प्रति॑ष्ठित्यै ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
यदेकाँ॑ स॒मिध॑मा॒धाय॒ द्वे आहु॑ती जु॒होति॑ ।
अथ॒ कस्याँ॑ स॒मिधि॑ द्वि॒तीया॒माहु॑तिञ्जुहो॒तीति॑ ॥23॥
यद्द्वे स॒मिधा॑वाद॒ध्यात् ।
भ्रातृ॑व्यमस्मै जनयेत् ।
एकाँ॑ स॒मिध॑मा॒धाय॑ ।
यजु॑षा॒ऽन्यामाहु॑तिञ्जुहोति ।
उ॒भे ए॒व स॒मिद्व॑ती॒ आहु॑ती जुहोति ।
नास्मै॒ भ्रातृ॑व्यञ्जनयति ।
आदी॑प्तायाञ्जुहोति ।
समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् ।
अथो॒ यथाऽति॑थि॒ञ्ज्योति॑ष्कृ॒त्वा प॑रि॒वेवे॑ष्टि ।
ता॒दृगे॒व तत् ।
च॒तुरुन्न॑यति ।
द्विर्जु॑होति ।
तस्मा॑द्द्वि॒पाच्चतु॑ष्पादमत्ति ।
अथो॑ द्वि॒पद्ये॒व चतु॑ष्पद॒ᳶ प्रति॑ष्ठापयति ॥24॥
उ॒त्त॒राव॑तीव्ँ॒ वै दे॒वा आहु॑ति॒मजु॑हवुः ।
अवा॑ची॒मसु॑राः ।
ततो॑ दे॒वा अभ॑वन् ।
पराऽसु॑राः ।
यङ्का॒मये॑त॒ वसी॑यान्त्स्या॒दिति॑ ।
कनी॑य॒स्तस्य॒ पूर्वँ॑ हु॒त्वा ।
उत्त॑र॒म्भूयो॑ जुहुयात् ।
ए॒षा वा उ॑त्त॒राव॒त्याहु॑तिः ।
तान्दे॒वा अ॑जुहवुः ।
तत॒स्ते॑ऽभवन्न् ॥25॥
यस्यै॒वञ्जुह्व॑ति ।
भव॑त्ये॒व ।
यङ्का॒मये॑त॒ पापी॑यान्त्स्या॒दिति॑ ।
भूय॒स्तस्य॒ पूर्वँ॑ हु॒त्वा ।
उत्त॑र॒ङ्कनी॑यो जुहुयात् ।
ए॒षा वा अवा॒च्याहु॑तिः ।
तामसु॑रा अजुहवुः ।
तत॒स्ते परा॑ऽभवन् ।
यस्यै॒वञ्जुह्व॑ति ।
परै॒व भ॑वति ॥26॥
हु॒त्वोप॑सादय॒त्यजा॑मित्वाय ।
अथो॒ व्यावृ॑त्त्यै ।
गार्ह॑पत्य॒म्प्रती॑क्षते ।
अन॑नुध्यायिनमे॒वैन॑ङ्करोति ।
अ॒ग्नि॒हो॒त्रस्य॒ वै स्था॒णुर॑स्ति ।
तय्ँय ऋ॒च्छेत् ।
य॒ज्ञ॒स्था॒णुमृ॑च्छेत् ।
ए॒ष वा अ॑ग्निहो॒त्रस्य॑ स्था॒णुः ।
यत्पूर्वाऽऽहु॑तिः ।
ताय्ँयदुत्त॑रया॒ऽभिजु॑हु॒यात् ॥27॥
य॒ज्ञ॒स्था॒णुमृ॑च्छेत् ।
अ॒ति॒हाय॒ पूर्वा॒माहु॑तिञ्जुहोति ।
य॒ज्ञ॒स्था॒णुमे॒व परि॑वृणक्ति ।
अथो॒ भ्रातृ॑व्यमे॒वाप्त्वाऽति॑क्रामति ।
अ॒वा॒चीनँ॑ सा॒यमुप॑मार्ष्टि ।
रेत॑ ए॒व तद्द॑धाति ।
ऊ॒र्ध्वम्प्रा॒तः ।
प्रज॑नयत्ये॒व तत् ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
च॒तुरुन्न॑यति ॥28॥
द्विर्जु॑होति ।
अथ॒ क्व॑ द्वे आहु॑ती भवत॒ इति॑ ।
अ॒ग्नौ वै॑श्वान॒र इति॑ ब्रूयात् ।
ए॒ष वा अ॒ग्निर्वै॑श्वान॒रः ।
यद्ब्रा॑ह्म॒णः ।
हु॒त्वा द्विᳶ प्राश्ञा॑ति ।
अ॒ग्नावे॒व वै॑श्वान॒रे द्वे आहु॑ती जुहोति ।
द्विर्जु॒होति॑ ।
द्विर्निमा॑र्ष्टि ।
द्विᳶ प्राश्ञा॑ति ॥29॥
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तूने॒व प्री॑णाति ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
कि॒न्दे॒व॒त्य॑मग्निहो॒त्रमिति॑ ।
वै॒श्व॒दे॒वमिति॑ ब्रूयात् ।
यद्यजु॑षा जु॒होति॑ ।
तदै॑न्द्रा॒ग्नम् ।
यत्तू॒ष्णीम् ।
तत्प्रा॑जाप॒त्यम् ॥30॥
यन्नि॒मार्ष्टि॑ ।
तदोष॑धीनाम् ।
यद्द्वि॒तीय॑म् ।
तत्पि॑तृ॒णाम् ।
यत्प्राश्ञा॑ति ।
तद्गर्भा॑णाम् ।
तस्मा॒द्गर्भा॒ अन॑श्ञन्तो वर्धन्ते ।
यदा॒चाम॑ति ।
तन्म॑नु॒ष्या॑णाम् ।
उद॑ङ्पर्या॒वृत्याचा॑मति ॥31॥
आ॒त्मनो॑ गोपी॒थाय॑ ।
निर्णे॑नेक्ति॒ शुद्ध्यै॑ ।
निष्ट॑पति स्व॒गाकृ॑त्यै ।
उद्दि॑शति ।
स॒प्त॒र्षीने॒व प्री॑णाति ।
द॒क्षि॒णा प॒र्याव॑र्तते ।
स्वमे॒व वी॒र्य॑मनु॑प॒र्याव॑र्तते ।
तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्तरः ।
अथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑प॒र्याव॑र्तते ।
हु॒त्वोप॒समि॑न्धे ॥32॥
ब्र॒ह्म॒व॒र्च॒सस्य॒ समि॑द्ध्यै ।
न ब॒र्हिरनु॒ प्रह॑रेत् ।
असँ॑स्थितो॒ वा ए॒ष य॒ज्ञः ।
यद॑ग्निहो॒त्रम् ।
यद॑नुप्र॒हरे॑त् ।
य॒ज्ञव्ँ विच्छि॑न्द्यात् ।
तस्मा॒न्नानु॑ प्र॒हृत्य॑म् ।
य॒ज्ञस्य॒ सन्त॑त्यै ।
अ॒पो निन॑यति ।
अ॒व॒भृ॒थस्यै॒व रू॒पम॑कः ॥33॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
अ॒ग्नि॒हो॒त्रप्रा॑यणा य॒ज्ञाः ।
किम्प्रा॑यणमग्निहो॒त्रमिति॑ ।
व॒त्सो वा अ॑ग्निहो॒त्रस्य॒ प्राय॑णम् ।
अ॒ग्नि॒हो॒त्रय्ँ य॒ज्ञाना॑म् ।
तस्य॑ पृथि॒वी सदः॑ ।
अ॒न्तरि॑क्ष॒माग्नी॑द्ध्रम् ।
द्यौर्ह॑वि॒र्धान॑म् ।
दि॒व्या आप॒ᳶ प्रोक्ष॑णयः ।
ओष॑धयो ब॒र्हिः ॥34॥
वन॒स्पत॑य इ॒ध्मः ।
दिश॑ᳶ परि॒धयः॑ ।
आ॒दि॒त्यो यूपः॑ ।
यज॑मानᳶ प॒शुः ।
स॒मु॒द्रो॑ऽवभृ॒थः ।
सव्ँ॒व॒त्स॒रस्स्व॑गाका॒रः ।
तस्मा॒दाहि॑ताग्ने॒स्सर्व॑मे॒व ब॑र्हि॒ष्य॑न्द॒त्तम्भ॑वति ।
यत्सा॒यञ्जु॒होति॑ ।
रात्रि॑मे॒व तेन॑ दक्षि॒ण्या॑ङ्कुरुते ।
यत्प्रा॒तः ॥35॥
अह॑रे॒व तेन॑ दक्षि॒ण्य॑ङ्कुरुते ।
यत्ततो॒ ददा॑ति ।
सा दक्षि॑णा ।
याव॑न्तो॒ वै दे॒वा अहु॑त॒माद॑न् ।
ते परा॑ऽभवन् ।
त ए॒तद॑ग्निहो॒त्रँ सर्व॑स्यै॒व स॑मव॒दाया॑जुहवुः ।
तस्मा॑दाहुः ।
अ॒ग्नि॒हो॒त्रव्ँ वै दे॒वा गृ॒हाणा॒न्निष्कृ॑तिमपश्य॒न्निति॑ ।
यत्सा॒यञ्जु॒होति॑ ।
रात्रि॑या ए॒व तद्धु॒ताद्या॑य ॥36॥
यज॑मान॒स्याप॑राभावाय ।
यत्प्रा॒तः ।
अह्न॑ ए॒व तद्धु॒ताद्या॑य ।
यज॑मान॒स्याप॑राभावाय ।
यत्ततो॒ऽश्ञाति॑ ।
हु॒तमे॒व तत् ।
द्वयो॒ᳶ पय॑सा जुहुयात्प॒शुका॑मस्य ।
ए॒तद्वा अ॑ग्निहो॒त्रम्मि॑थु॒नम् ।
य ए॒वव्ँ वेद॑ ।
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ॥37॥
इ॒मामे॒व पूर्व॑या दु॒हे ।
अ॒मूमुत्त॑रया ।
अ॒धि॒श्रित्योत्त॑र॒मान॑यति ।
योना॑वे॒व तद्रेत॑स्सिञ्चति प्र॒जन॑ने ।
आज्ये॑न जुहुया॒त्तेज॑स्कामस्य ।
तेजो॒ वा आज्य॑म् ।
ते॒ज॒स्व्ये॑व भ॑वति ।
पय॑सा प॒शुका॑मस्य ।
ए॒तद्वै प॑शू॒नाँ रू॒पम् ।
रू॒पेणै॒वास्मै॑ प॒शूनव॑रुन्धे ॥38॥
प॒शु॒माने॒व भ॑वति ।
द॒ध्नेन्द्रि॒यका॑मस्य ।
इ॒न्द्रि॒यव्ँ वै दधि॑ ।
इ॒न्द्रि॒या॒व्ये॑व भ॑वति ।
य॒वा॒ग्वा॑ ग्राम॑कामस्यौष॒धा वै म॑नु॒ष्याः॑ ।
भा॒ग॒धेये॑नै॒वास्मै॑ सजा॒तानव॑रुन्धे ।
ग्रा॒म्ये॑व भ॑वति ।
अय॑ज्ञो॒ वा ए॒षः ।
यो॑ऽसा॒मा ॥ 39॥
च॒तुरुन्न॑यति ।
चतु॑रक्षरँ रथन्त॒रम् ।
र॒थ॒न्त॒रस्यै॒ष वर्णः॑ ।
उ॒परी॑व हरति ।
अ॒न्तरि॑क्षव्ँ वामदे॒व्यम् ।
वा॒म॒दे॒व्यस्यै॒ष वर्णः॑ ।
द्विर्जु॑होति ।
द्व्य॑क्षरम्बृ॒हत् ।
बृ॒ह॒त ए॒ष वर्णः॑ ।
अ॒ग्नि॒हो॒त्रमे॒व तत्साम॑न्वत्करोति ॥ 40॥
यो वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॒ वेद॑ ।
उपै॑नमुप॒सदो॑ नमन्ति ।
वि॒न्दत॑ उपस॒त्तार॑म् ।
उ॒न्नीयोप॑सादयति ।
पृ॒थि॒वीमे॒व प्री॑णाति ।
हो॒ष्यन्नुप॑सादयति ।
अ॒न्तरि॑क्षमे॒व प्री॑णाति ।
हु॒त्वोप॑सादयति ।
दिव॑मे॒व प्री॑णाति ।
ए॒ता वा अ॑ग्निहो॒त्रस्यो॑प॒सदः॑ ॥41॥
य ए॒वव्ँ वेद॑ ।
उपै॑नमुप॒सदो॑ नमन्ति ।
वि॒न्दत॑ उपस॒त्तार॑म् ।
यो वा अ॑ग्निहो॒त्रस्याश्रा॑वितम्प्र॒त्याश्रा॑वितँ॒ होता॑रम्ब्र॒ह्माणव्ँ॑वषट्का॒रव्ँ वेद॑ ।
तस्य॒ त्वे॑व हु॒तम् ।
प्रा॒णो वा अ॑ग्निहो॒त्रस्याश्रा॑वितम् ।
अ॒पा॒नᳶ प्र॒त्याश्रा॑वितम् ।
मनो॒ होता॑ ।
चक्षु॑र्ब्र॒ह्मा ।
नि॒मे॒षो व॑षट्का॒रः ॥42॥
य ए॒वव्ँ वेद॑ ।
तस्य॒ त्वे॑व हु॒तम् ।
सा॒यय्ँ॒यावा॑नश्च॒ वै दे॒वाᳶ प्रा॑त॒र्यावा॑णश्चाग्निहो॒त्रिणो॑ गृ॒हमाग॑च्छन्ति ।
तान् यन्न त॒र्पये॑त् ।
प्र॒जया॑ऽस्य प॒शुभि॒र्विति॑ष्ठेरन् ।
यत्त॒र्पये॑त् ।
तृ॒प्ता ए॑नम्प्र॒जया॑ प॒शुभि॑स्तर्पयेयुः ।
स॒जूर्दे॒वैस्सा॒यय्ँ याव॑भि॒रिति॑ सा॒यँ सम्मृ॑शति ।
स॒जूर्दे॒वैᳶ प्रा॒तर्याव॑भि॒रिति॑ प्रा॒तः ।
ये चै॒व दे॒वास्सा॑यय्ँ॒यावा॑नो॒ ये च॑ प्रात॒र्यावा॑णः ॥43॥
ताने॒वोभयाँ॑ स्तर्पयति ।
त ए॑नन्तृ॒प्ताᳶ प्र॒जया॑ प॒शुभि॑स्तर्पयन्ति ।
अ॒रु॒णो ह॑ स्मा॒हौप॑वेशिः ।
अ॒ग्नि॒हो॒त्र ए॒वाहँ सा॒यम्प्रा॑त॒र्वज्र॒म्भ्रातृ॑व्येभ्य॒ᳶ प्रह॑रामि ।
तस्मा॒न्मत्पापी॑याँसो॒ भ्रातृ॑व्या॒ इति॑ ।
च॒तुरुन्न॑यति ।
द्विर्जु॑होति ।
स॒मित्स॑प्त॒मी ।
स॒प्तप॑दा॒ शक्व॑री ।
शा॒क्व॒रो वज्रः॑ ।
अ॒ग्नि॒हो॒त्र ए॒व तत्सा॒यम्प्रा॑त॒र्वज्रय्ँ॒यज॑मानो॒ भ्रातृ॑व्याय॒ प्रह॑रति ।
भव॑त्या॒त्मना॑ ।
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ॥44॥
प्र॒जाप॑तिरकामयतात्म॒न्वन्मे॑ जाये॒तेति॑ ।
सो॑ऽजुहोत् ।
तस्मा॑त्म॒न्वद॑जायत ।
अ॒ग्निर्वा॒युरा॑दि॒त्यः ।
ते॑ऽब्रुवन् ।
प्र॒जाप॑तिरहौषीदात्म॒न्वन्मे॑ जाये॒तेति॑ ।
तस्य॑ व॒यम॑जनिष्महि ।
जाय॑तान्न आत्म॒न्वदिति॒ ते॑ऽजुहवुः ।
प्रा॒णाना॑म॒ग्निः ।
त॒नुवै॑ वा॒युः ॥45 ॥
चक्षु॑ष आदि॒त्यः ।
तेषाँ॑ हु॒ताद॑जायत॒ गौरे॒व ।
तस्यै॒ पय॑सि॒ व्याय॑च्छन्त ।
मम॑ हु॒ताद॑जनि॒ ममेति॑ ।
ते प्र॒जाप॑तिम्प्र॒श्ञमा॑यन् ।
स आ॑दि॒त्यो॑ऽग्निम॑ब्रवीत् ।
य॒त॒रो नौ॒ जया॑त् ।
तन्नौ॑ स॒हास॒दिति॑ ।
कस्यै कोऽहौ॑षी॒दिति॑ प्र॒जाप॑तिरब्रवी॒त्कस्यै क॒ इति॑ ।
प्रा॒णाना॑म॒हमित्य॒ग्निः ॥ 46॥
त॒नुवा॑ अ॒हमिति॑ वा॒युः ।
चक्षु॑षो॒ऽहमित्या॑दि॒त्यः ।
य ए॒व प्रा॒णाना॒महौ॑षीत् ।
तस्य॑ हु॒ताद॑ज॒नीति॑ ।
अ॒ग्नेर्हु॒ताद॑ज॒नीति॑ ।
तद॑ग्निहो॒त्रस्या॑ग्निहोत्र॒त्वम् ।
गौर्वा अ॑ग्निहो॒त्रम् ।
य ए॒वव्ँ वेद॒ गौर॑ग्निहो॒त्रमिति॑ ।
प्रा॒णा॒पा॒नाभ्या॑मे॒वाग्निँ सम॑र्धयति ।
अव्य॑र्धुकᳶ प्राणापा॒नाभ्या॑म्भवति ॥47॥
य ए॒वव्ँ वेद॑ ।
तौ वा॒युर॑ब्रवीत् ।
अनु॒ मा भ॑जत॒मिति॑ ।
यदे॒व गार्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रवा॑न् ।
तेन॒ त्वाम्प्री॑णा॒नित्य॑ब्रूताम् ।
तस्मा॒द्यद्गार्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रव॑ति ।
वा॒युमे॒व तेन॑ प्रीणाति ।
प्र॒जाप॑तिर्दे॒वता॑स्सृ॒जमा॑नः ।
अ॒ग्निमे॒व दे॒वता॑नाम्प्रथ॒मम॑सृजत ।
सो॑ऽन्यदा॑ल॒म्भ्य॑मवि॑त्वा ॥48॥
प्र॒जाप॑तिम॒भिप॒र्याव॑र्तत ।
स मृ॒त्योर॑बिभेत् ।
सो॑ऽमुमा॑दि॒त्यमा॒त्मनो॒ निर॑मिमीत ।
तँ हु॒त्वा परा॑ङ्प॒र्याव॑र्तत ।
ततो॒ वै स मृ॒त्युमपा॑जयत् ।
अप॑ मृ॒त्युञ्ज॑यति ।
य ए॒वव्ँ वेद॑ ।
तस्मा॒द्यस्यै॒वव्ँ वि॒दुषः॑ ।
उ॒तैका॒हमु॒त द्व्य॒हन्न जुह्व॑ति ।
हु॒तमे॒वास्य॑ भवति ।
अ॒सौ ह्या॑दि॒त्यो॑ऽग्निहो॒त्रम् ॥49 ॥
बृह॒स्पते॒रुन्नी॑तम् ।
रौ॒द्रङ्गवि॑ ।
बृह॒स्पते॒रुन्नी॑तम् ।
वा॒य॒व्य॑मुप॑सृष्टम् ।
आ॒श्वि॒नन्दु॒ह्यमा॑नम् ।
सौ॒म्यन्दु॒ग्धम् ।
वा॒रु॒णमधि॑श्रितम् ।
वै॒श्व॒दे॒वा भि॒न्दवः॑ ।
पौ॒ष्णमुद॑न्तम् ।
सा॒र॒स्व॒तव्ँ वि॒ष्यन्द॑मानम् ।
मै॒त्रँ शरः॑ ।
धा॒तुरुद्वा॑सितम् ।
बृह॒स्पते॒रुन्नी॑तम् ।
स॒वि॒तुᳶ प्रक्रा॑न्तम् ।
द्या॒वा॒पृ॒थि॒व्यँ॑ ह्रि॒यमा॑णम् ।
ऐ॒न्द्रा॒ग्नमुप॑सन्नम् ।
अ॒ग्नेᳶ पूर्वाऽऽहु॑तिः ।
प्र॒जाप॑ते॒रुत्त॑रा ।
ऐ॒न्द्रँ हु॒तम् ॥50॥
द॒क्षि॒ण॒त उप॑सृजति ।
पि॒तृ॒लो॒कमे॒व तेन॑ जयति ।
प्राची॒माव॑र्तयति ।
दे॒व॒लो॒कमे॒व तेन॑ जयति ।
उदी॑चीमा॒वृत्य॑ दोग्धि ।
म॒नु॒ष्य॒लो॒कमे॒व तेन॑ जयति ।
पूर्वौ॑ दुह्याज्ज्ये॒ष्ठस्य॑ ज्यैष्ठिने॒यस्य॑ ।
यो वा॑ ग॒तश्री॒स्स्यात् ।
अप॑रौ दुह्यात्कनि॒ष्ठस्य॑ कानिष्ठिने॒यस्य॑ ।
यो वा॒ बुभू॑षेत् ॥51॥
न सम्मृ॑शति ।
पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै ।
वा॒य॒व्यव्ँ॑वा ए॒तदुप॑सृष्टम् ।
आ॒श्वि॒नन्दु॒ह्यमा॑नम् ।
मै॒त्रन्दु॒ग्धम् ।
अ॒र्य॒म्ण उ॑द्वा॒स्यमा॑नम् ।
त्वा॒ष्ट्रमु॑न्नी॒यमा॑नम् ।
बृह॒स्पते॒रुन्नी॑तम् ।
स॒वि॒तुᳶ प्रक्रा॑न्तम् ।
द्या॒वा॒पृ॒थि॒व्यँ॑ ह्रि॒यमा॑णम् ॥52॥
ऐ॒न्द्रा॒ग्नमुप॑सादितम् ।
सर्वा॑भ्यो॒ वा ए॒ष दे॒वता॑भ्यो जुहोति ।
यो॑ऽग्निहो॒त्रञ्जु॒होति॑ ।
यथा॒ खलु॒ वै धे॒नुन्ती॒र्थे त॒र्पय॑ति ।
ए॒वम॑ग्निहो॒त्री यज॑मानन्तर्पयति ।
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ ।
प्र सु॑व॒र्गल्ँ लो॒कञ्जा॑नाति ।
पश्य॑ति पु॒त्रम् ।
पश्य॑ति॒ पौत्त्र॑म् ।
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ।
यस्यै॒वव्ँ वि॒दुषो॑ऽग्निहो॒त्रञ्जुह्व॑ति ।
य उ॑ चैनदे॒वव्ँ वेद॑ ॥53॥
त्रयो॒ वै प्रै॑यमे॒धा आ॑सन् ।
तेषा॒न्त्रिरेको॑ऽग्निहो॒त्रम॑जुहोत् ।
द्विरेकः॑ ।
स॒कृदेकः॑ ।
तेषाय्ँ॒यस्त्रिरजु॑होत् ।
स ऋ॒चाऽजु॑होत् ।
यो द्विः ।
स यजु॑षा ।
यस्स॒कृत् ।
स तू॒ष्णीम् ॥54॥
यश्च॒ यजु॒षाऽजु॑हो॒द्यश्च॑ तू॒ष्णीम् ।
तावु॒भावा॑र्ध्नुताम् ।
तस्मा॒द्यजु॒षाऽऽहु॑ति॒ᳶ पूर्वा॑ होत॒व्या॑ ।
तू॒ष्णीमुत्त॑रा ।
उ॒भे ए॒वर्धी अव॑रुन्धे ।
अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निस्स्वाहेति॑ सा॒यञ्जु॑होति ।
रेत॑ ए॒व तद्द॑धाति ।
सूर्यो॒ ज्योति॒र्ज्योति॒स्सूर्य॒स्स्वाहेति॑ प्रा॒तः ।
रेत॑ ए॒व हि॒तम्प्र ज॑नयति ।
रेतो॒ वा ए॒तस्य॑ हि॒तन्न प्रजा॑यते ॥55॥
यस्या॑ग्निहो॒त्रमहु॑तँ॒ सूर्यो॒ऽभ्यु॑देति॑ ।
यद्यन्ते॒ स्यात् ।
उ॒न्नीय॒ प्राङु॒दाद्र॑वेत् ।
स उ॑प॒साद्यातमि॑तोरासीत ।
स य॒दा ताम्ये॑त् ।
अथ॒ भूस्स्वाहेति॑ जुहुयात् ।
प्र॒जाप॑ति॒र्वै भू॒तः ।
तमे॒वोपा॑सरत् ।
स ए॒वैन॒न्तत॒ उन्न॑यति ।
नार्ति॒मार्च्छ॑ति॒ यज॑मानः ॥56॥
यद॒ग्निमु॒द्धर॑ति ।
वस॑व॒स्तर्ह्य॒ग्निः ।
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति ।
वसु॑ष्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
निहि॑तो धूपा॒यञ्छे॑ते ।
रु॒द्रास्तर्ह्य॒ग्निः ।
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति ।
रु॒द्रे॒ष्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
प्र॒थ॒ममि॒ध्मम॒र्चिरा ल॑भते ।
आ॒दि॒त्यास्तर्ह्य॒ग्निः ॥57॥
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति ।
आ॒दि॒त्येष्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
सर्व॑ ए॒व स॑र्व॒श इ॒ध्म आदी॑प्तो भवति ।
विश्वे॑ दे॒वास्तर्ह्य॒ग्निः ।
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति ।
विश्वे॑ष्वे॒वास्य॑ दे॒वेष्व॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
नि॒त॒राम॒र्चिरु॒पावै॑ति लोहि॒नीके॑व भवति ।
इन्द्र॒स्तर्ह्य॒ग्निः ।
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति ।
इन्द्र॑ ए॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ॥58 ॥
अङ्गा॑रा भवन्ति ।
तेभ्योऽङ्गा॑रेभ्यो॒ऽर्चिरुदे॑ति ।
प्र॒जाप॑ति॒स्तर्ह्य॒ग्निः ।
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति ।
प्र॒जाप॑तावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
शरोऽङ्गा॑रा॒ अध्यू॑हन्ते ।
ब्रह्म॒ तर्ह्य॒ग्निः ।
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति ।
ब्रह्म॑न्ने॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
वसु॑षु रु॒द्रेष्वा॑दि॒त्येषु॒ विश्वे॑षु दे॒वेषु॑ ।
इन्द्रे॑ प्र॒जाप॑तौ॒ ब्रह्म॑न् ।
अप॑रिवर्गमे॒वास्यै॒तासु॑ दे॒वता॑सु हु॒तम्भ॑वति ।
यस्यै॒वव्ँ वि॒दुषो॑ऽग्निहो॒त्रञ्जुह्व॑ति ।
य उ॑ चैनदे॒वव्ँ वेद॑ ॥59॥
ऋ॒तन्त्वा॑ स॒त्येन॒ परि॑षिञ्चा॒मीति॑ सा॒यम्परि॑षिञ्चति ।
स॒त्यन्त्व॒र्तेन॒ परि॑षिञ्चा॒मीति॑ प्रा॒तः ।
अ॒ग्निर्वा ऋ॒तम् ।
अ॒सावा॑दि॒त्यस्स॒त्यम् ।
अ॒ग्निमे॒व तदा॑दि॒त्येन॑ सा॒यम्परि॑षिञ्चति ।
अ॒ग्निना॑ऽऽदि॒त्यम्प्रा॒तस्सः ।
याव॑दहोरा॒त्रे भव॑तः ।
ताव॑दस्य लो॒कस्य॑ ।
नार्ति॒र्न रिष्टिः॑ ।
नान्तो॒ न प॑र्य॒न्तो॑ऽस्ति ।
यस्यै॒वव्ँ वि॒दुषो॑ऽग्निहो॒त्रञ्जुह्व॑ति ।
य उ॑चैनदे॒वव्ँ वेद॑ ॥60॥
प्र॒जाप॑तिरकामयत प्र॒जास्सृ॑जे॒येति॑ ।
स ए॒तन्दश॑होतारमपश्यत् ।
तम्मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे॑ऽजुहोत् ।
ततो॒ वै स प्र॒जा अ॑सृजत ।
ता अ॑स्मात्सृ॒ष्टा अपा॑क्रामन् ।
ता ग्रहे॑णागृह्णात् ।
तद्ग्रह॑स्य ग्रह॒त्वम् ।
यᳵ का॒मये॑त॒ प्रजा॑ये॒येति॑ ।
स दश॑होतार॒म्मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे जु॑हुयात् ।
प्र॒जाप॑ति॒र्वै दश॑होता ॥ 1 ॥
प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते ।
मन॑सा जुहोति ।
मन॑ इव॒ हि प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।
पू॒र्णया॑ जुहोति ।
पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।
न्यू॑नया जुहोति ।
न्यू॑ना॒द्धि प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत ।
प्र॒जानाँ॒ सृष्ट्यै॑ ॥ 2 ॥
द॒र्भ॒स्त॒म्बे जु॑होति ।
ए॒तस्मा॒द्वै योने॑ᳶ प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
यस्मा॑दे॒व योने॑ᳶ प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत ।
तस्मा॑दे॒व योने॒ᳶ प्रजा॑यते ।
ब्रा॒ह्म॒णो द॑क्षिण॒त उपा॑स्ते ।
ब्रा॒ह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा ।
उ॒प॒द्र॒ष्टु॒मत्ये॒व प्रजा॑यते ।
ग्रहो॑ भवति ।
प्र॒जानाँ॑ सृ॒ष्टाना॒न्धृत्यै॑ ।
यम्ब्रा॑ह्म॒णव्ँ वि॒द्याव्ँ वि॒द्वाँसय्ँ॒यशो॒ नर्च्छेत् ॥ 3 ॥
सोऽर॑ण्यम्प॒रेत्य॑ ।
द॒र्भ॒स्त॒म्बमु॒द्ग्रथ्य॑ ।
ब्रा॒ह्म॒णन्द॑क्षिण॒तो नि॒षाद्य॑ ।
चतु॑र्होतॄ॒न्व्याच॑क्षीत ।
ए॒तद्वै दे॒वाना॑म्पर॒मङ्गुह्य॒म्ब्रह्म॑ ।
यच्चतु॑र्होतारः ।
तदे॒व प्र॑का॒शङ्ग॑मयति ।
तदे॑नम्प्रका॒शङ्ग॒तम् ।
प्र॒का॒शम्प्र॒जाना॑ङ्गमयति ।
द॒र्भ॒स्त॒म्बमु॒द्ग्रथ्य॒ व्याच॑ष्टे ॥ 4 ॥
अ॒ग्नि॒वान् वै द॑र्भस्त॒म्बः ।
अ॒ग्नि॒वत्ये॒व व्याच॑ष्टे ।
ब्रा॒ह्म॒णो द॑क्षिण॒त उपा॑स्ते ।
ब्रा॒ह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा ।
उ॒प॒द्र॒ष्टु॒मत्ये॒वैनय्ँ॒यश॑ ऋच्छति ।
ई॒श्व॒रन्तय्ँ यशोर्तो॒रित्या॑हुः ।
यस्यान्ते॑ व्या॒चष्ट॒ इति॑ ।
वर॒स्तस्मै॒ देयः॑ ।
यदे॒वैन॒न्तत्रो॑प॒नम॑ति ।
तदे॒वाव॑ रुन्धे ॥ 5 ॥
अ॒ग्निमा॒दधा॑नो॒ दश॑होत्रा॒ऽरणि॒मव॑ दध्यात् ।
तेनै॒वोद्द्रुत्या॑ग्निहो॒त्रञ्जु॑हुयात् ।
प्रजा॑तमे॒वैन॑ज्जुहोति ।
ह॒विर्नि॑र्व॒प्स्यन्दश॑होतारव्ँ॒ व्याच॑क्षीत । प्रजा॑तमे॒वैन॒न्निर्व॑पति ।
सा॒मि॒धे॒नीर॑नुव॒क्ष्यन्दश॑होतारव्ँ॒ व्याच॑क्षीत ।
सा॒मि॒धे॒नीरे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते ।
अथो॑ य॒ज्ञो वै दश॑होता ।
य॒ज्ञमे॒व त॑नुते ॥ 6 ॥
अ॒भि॒चर॒न्दश॑होतारञ्जुहुयात् ।
नव॒ वै पुरु॑षे प्रा॒णाः ।
नाभि॑र्दश॒मी ।
सप्रा॑णमे॒वैन॑म॒भि च॑रति ।
ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम् ।
याव॑त्प्रा॒णाः ।
याव॑दे॒वास्यास्ति॑ ।
तद॒भि च॑रति ।
स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा॑ ।
ए॒तद्वा अ॒स्यै निर्ऋ॑तिगृहीतम् ।
निर्ऋ॑तिगृहीत ए॒वैन॒न्निर्ऋ॑त्या ग्राहयति ।
यद्वा॒चᳵ क्रू॒रम् ।
तेन॒ वष॑ट्करोति ।
वा॒च ए॒वैन॑ङ्क्रू॒रेण॒ प्र वृ॑श्चति ।
ता॒जगार्ति॒मार्च्छ॑ति ॥ 7 ॥
प्र॒जाप॑तिरकामयत दर्शपूर्णमा॒सौ सृ॑जे॒येति॑ ।
स ए॒तञ्चतु॑र्होतारमपश्यत् ।
तम्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् ।
ततो॒ वै स द॑र्शपूर्णमा॒साव॑सृजत ।
ताव॑स्मात्सृ॒ष्टावपा॑क्रामताम् ।
तौ ग्रहे॑णागृह्णात् ।
तद्ग्रह॑स्य ग्रह॒त्वम् ।
द॒र्श॒पू॒र्ण॒मा॒सावा॒लभ॑मानः ।
चतु॑र्होतार॒म्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् ।
द॒र्श॒पू॒र्ण॒मा॒सावे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते ॥ 8 ॥
ग्रहो॑ भवति ।
द॒र्श॒पू॒र्ण॒मा॒सयो॑स्सृ॒ष्टयो॒र्धृत्यै॑ ।
सो॑ऽकामयत चातुर्मा॒स्यानि॑ सृजे॒येति॑ ।
स ए॒तम्पञ्च॑होतारमपश्यत् ।
तम्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् ।
ततो॒ वै स चा॑तुर्मा॒स्यान्य॑सृजत ।
तान्य॑स्मात्सृ॒ष्टान्यपा॑क्रामन् ।
तानि॒ ग्रहे॑णागृह्णात् ।
तद्ग्रह॑स्य ग्रह॒त्वम् ।
चा॒तु॒र्मा॒स्यान्या॒लभ॑मानः ॥ 9 ॥
पञ्च॑होतार॒म्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् ।
चा॒तु॒र्मा॒स्यान्ये॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते ।
ग्रहो॑ भवति ।
चा॒तु॒र्मा॒स्यानाँ॑ सृ॒ष्टाना॒न्धृत्यै॑ ।
सो॑ऽकामयत पशुब॒न्धँ सृ॑जे॒येति॑ ।
स ए॒तँ षड्ढो॑तारमपश्यत् ।
तम्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् ।
ततो॒ वै स प॑शुब॒न्धम॑सृजत ।
सो॑स्मात्सृ॒ष्टोऽपा॑क्रामत् ।
तङ्ग्रहे॑णागृह्णात् ॥ 10 ॥
तद्ग्रह॑स्य ग्रह॒त्वम् ।
प॒शु॒ब॒न्धेन॑ य॒क्ष्यमा॑णः ।
षड्ढो॑तार॒म्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् ।
प॒शु॒ब॒न्धमे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्र त॑नुते ।
ग्रहो॑ भवति ।
प॒शु॒ब॒न्धस्य॑ सृ॒ष्टस्य॒ धृत्यै॑ ।
सो॑ऽकामयत सौ॒म्यम॑ध्व॒रँ सृ॑जे॒येति॑ ।
स ए॒तँ स॒प्तहो॑तारमपश्यत् ।
तम्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् ।
ततो॒ वै स सौ॒म्यम॑ध्व॒रम॑सृजत ॥ 11॥
सो॑ऽस्मात्सृ॒ष्टोऽपा॑क्रामत् ।
तङ्ग्रहे॑णागृह्णात् ।
तद्ग्रह॑स्य ग्रह॒त्वम् ।
दी॒क्षि॒ष्यमा॑णः ।
स॒प्तहो॑तार॒म्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् ।
सौ॒म्यमे॒वाध्व॒रँ सृ॒ष्ट्वाऽऽरभ्य॒ प्र त॑नुते ।
ग्रहो॑ भवति ।
सौ॒म्यस्या॑ध्व॒रस्य॑ सृ॒ष्टस्य॒ धृत्यै॑ ।
दे॒वेभ्यो॒ वै य॒ज्ञो न प्राभ॑वत् ।
तमे॑ताव॒च्छस्सम॑भरन्न् ॥ 12 ॥
यत्स॑म्भा॒राः ।
ततो॒ वै तेभ्यो॑ य॒ज्ञᳶ प्राभ॑वत् ।
यत्स॑म्भा॒रा भव॑न्ति ।
य॒ज्ञस्य॒ प्रभू॑त्यै ।
आ॒ति॒थ्यमा॒साद्य॒ व्याच॑ष्टे ।
य॒ज्ञ॒मु॒खव्ँ वा आ॑ति॒थ्यम् ।
मु॒ख॒त ए॒व य॒ज्ञँ स॒म्भृत्य॒ प्र त॑नुते ।
अय॑ज्ञो॒ वा ए॒षः ।
यो॑ऽप॒त्नीकः॑ ।
न प्र॒जाᳶ प्रजा॑येरन् ।
पत्नी॒र्व्याच॑ष्टे ।
य॒ज्ञमे॒वाकः॑ ।
प्र॒जाना॑म्प्र॒जन॑नाय ।
उ॒प॒सत्सु॒ व्याच॑ष्टे ।
ए॒तद्वै पत्नी॑नामा॒यत॑नम् ।
स्व ए॒वैना॑ आ॒यत॒नेऽव॑कल्पयति ॥ 13 ॥
प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑ ।
स तपो॑ऽतप्यत ।
स त्रि॒वृतँ॒ स्तोम॑मसृजत ।
तम्प॑ञ्चद॒शस्स्तोमो॑ मध्य॒त उद॑तृणत् ।
तौ पू॑र्वप॒क्षश्चा॑परप॒क्षश्चा॑भवताम् ।
पू॒र्व॒प॒क्षन्दे॒वा अन्वसृ॑ज्यन्त ।
अ॒प॒र॒प॒क्षमन्वसु॑राः ।
ततो॑ दे॒वा अभ॑वन् ।
पराऽसु॑राः ।
यङ्का॒मये॑त॒ वसी॑यान्त्स्या॒दिति॑ ॥ 14 ॥
तम्पू॑र्वप॒क्षे या॑जयेत् ।
वसी॑याने॒व भ॑वति ।
यङ्का॒मये॑त॒ पापी॑यान्त्स्या॒दिति॑ ।
तम॑परप॒क्षे या॑जयेत् ।
पापी॑याने॒व भ॑वति ।
तस्मा॑त्पूर्वप॒क्षो॑ऽपरप॒क्षात्क॑रु॒ण्य॑तरः ।
प्र॒जाप॑ति॒र्वै दश॑होता ।
चतु॑र्होता॒ पञ्च॑होता ।
षड्ढो॑ता स॒प्तहो॑ता ।
ऋ॒तव॑स्सव्ँवत्स॒रः ॥ 15 ॥
प्र॒जाᳶ प॒शव॑ इ॒मे लो॒काः ।
य ए॒वम्प्र॒जाप॑तिम्ब॒होर्भूयाँ॑सव्ँ॒वेद॑ ।
ब॒होरे॒व भूया॑न्भवति ।
प्र॒जाप॑तिर्देवासु॒रान॑सृजत ।
स इन्द्र॒मपि॒ नासृ॑जत ।
तन्दे॒वा अ॑ब्रुवन् ।
इन्द्र॑न्नो जन॒येति॑ ।
सो॑ऽब्रवीत् ।
यथा॒ऽहय्ँ यु॒ष्माँस्तप॒साऽसृ॑क्षि ।
ए॒वमिन्द्र॑ञ्जनयध्व॒मिति॑ ॥ 16 ॥
ते तपो॑ऽतप्यन्त ।
त आ॒त्मन्निन्द्र॑मपश्यन् ।
तम॑ब्रुवन् ।
जाय॒स्वेति॑ ।
सो॑ऽब्रवीत् ।
किम्भा॑ग॒धेय॑म॒भि ज॑निष्य॒ इति॑ ।
ऋ॒तून्त्स॑वँत्स॒रम् ।
प्र॒जाᳶ प॒शून् ।
इ॒माल्ँ लो॒कानित्य॑ब्रुवन् ।
तव्ँ वै माऽऽहु॑त्या॒ प्र ज॑नय॒तेत्य॑ब्रवीत् ॥ 17 ॥
तञ्चतु॑र्होत्रा॒ प्राज॑नयन् ।
यᳵ का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॑ ।
स चतु॑र्होतारञ्जुहुयात् ।
प्र॒जाप॑ति॒र्वै चतु॑र्होता ।
प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते ।
ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहेति॒ ग्रहे॑ण जुहोति ।
आऽस्य॑ वी॒रो जा॑यते ।
वी॒रँ हि दे॒वा ए॒तयाऽऽहु॑त्या॒ प्राज॑नयन् ।
आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒के॑ऽस्पर्धन्त ।
व॒यम्पूर्वे॑ सुव॒र्गल्ँ लो॒कमि॑याम व॒यम्पूर्व॒ इति॑ ॥ 18 ॥
त आ॑दि॒त्या ए॒तम्पञ्च॑होतारमपश्यन् ।
तम्पु॒रा प्रा॑तरनुवा॒कादाग्नी॑ध्रेऽजुहवुः ।
ततो॒ वै ते पूर्वे॑ सुव॒र्गल्ँ लो॒कमा॑यन् ।
यस्सु॑व॒र्गका॑म॒स्स्यात् ।
स पञ्च॑होतारम्पु॒रा प्रा॑तरनुवा॒कादाग्नी॑ध्रे जुहुयात् ।
सव्ँ॒व॒त्स॒रो वै पञ्च॑होता ।
सव्ँ॒व॒त्स॒रस्सु॑व॒र्गो लो॒कः ।
सव्ँ॒व॒त्स॒र ए॒वर्तुषु॑ प्रति॒ष्ठाय॑ ।
सु॒व॒र्गल्ँ लो॒कमे॑ति ।
ते॑ऽब्रुव॒न्नङ्गि॑रस आदि॒त्यान् ॥ 19 ॥
क्व॑ स्थ ।
क्व॑ वस्स॒द्भ्यो ह॒व्यव्ँव॑क्ष्याम॒ इति॑ ।
छन्द॒स्स्वित्य॑ब्रुवन् ।
गा॒य॒त्रि॒यान्त्रि॒ष्टुभि॒ जग॑त्या॒मिति॑ ।
तस्मा॒च्छन्द॑स्सु स॒द्भ्य आ॑दि॒त्येभ्यः॑ ।
आ॒ङ्गी॒र॒सीᳶ प्र॒जा ह॒व्यव्ँव॑हन्ति ।
वह॑न्त्यस्मै प्र॒जा ब॒लिम् ।
ऐन॒मप्र॑तिख्यातङ्गच्छति ।
य ए॒वव्ँ वेद॑ ।
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ ।
त्रय॑ इ॒मे लो॒काः ।
अ॒सावा॑दि॒त्य ए॑कविँ॒शः ।
ए॒तस्मि॒न्वा ए॒ष श्रि॒तः ।
ए॒तस्मि॒न्प्रति॑ष्ठितः ।
य ए॒वमे॒तँ श्रि॒तम्प्रति॑ष्ठितव्ँ॒वेद॑ ।
प्रत्ये॒व ति॑ष्ठति ॥20॥
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॑ ।
स ए॒तन्दश॑होतारमपश्यत् ।
तेन॑ दश॒धाऽऽत्मानव्ँ॑वि॒धाय॑ ।
दश॑होत्राऽतप्यत ।
तस्य॒ चित्ति॒स्स्रुगासी॑त् ।
चि॒त्तमाज्य॑म् ।
तस्यै॒ताव॑त्ये॒व वागासी॑त् ।
ए॒तावा॑न् यज्ञक्र॒तुः ।
स चतु॑र्होतारमसृजत ।
सो॑ऽनन्दत् ॥ 21 ॥
असृ॑क्षि॒ वा इ॒ममिति॑ ।
तस्य॒ सामो॑ ह॒विरासी॑त् ।
स चतु॑र्होत्राऽतप्यत ।
स चतु॑र्होत्राऽतप्यत ।
सो॑ऽताम्यत् ।
स चतु॑र्होत्राऽतप्यत ।
स भूरिति॒ व्याह॑रत् ।
स चतु॑र्होत्राऽतप्यत ।
स भूमि॑मसृजत ।
अ॒ग्नि॒हो॒त्रन्द॑र्शपूर्णमा॒सौ यजूँ॑षि ।
स द्वि॒तीय॑मतप्यत ।
सो॑ऽताम्यत् ।
स भुव॒ इति॒ व्याह॑रत् ॥ 22 ॥
सो॑ऽन्तरि॑क्षमसृजत ।
चा॒तु॒र्मा॒स्यानि॒ सामा॑नि ।
स तृ॒तीय॑मतप्यत ।
सो॑ऽताम्यत् ।
स सुव॒रिति॒ व्याह॑रत् ।
स दिव॑मसृजत ।
अ॒ग्नि॒ष्टो॒ममु॒क्थ्य॑मतिरा॒त्रमृचः॑ ।
ए॒ता वै व्याहृ॑तय इ॒मे लो॒काः ।
इ॒मान्खलु॒ वै लो॒काननु॑ प्र॒जाᳶ प॒शव॒श्छन्दाँ॑सि॒ प्राजा॑यन्त ।
य ए॒वमे॒ताᳶ प्र॒जाप॑तेᳶ प्रथ॒मा व्याहृ॑ती॒ᳶ प्रजा॑ता॒ वेद॑ ॥ 23 ॥
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ।
स पञ्च॑होतारमसृजत ।
स ह॒विर्नावि॑न्दत ।
तस्मै॒ सोम॑स्त॒नुव॒म्प्राय॑च्छत् ।
ए॒तत्ते॑ ह॒विरिति॑ ।
स पञ्च॑होत्राऽतप्यत ।
सो॑ऽताम्यत् ।
स प्र॒त्यङ्ङ॑बाधत ।
सोऽसु॑रानसृजत ।
तद॒स्याप्रि॑यमासीत् ॥ 24 ॥
तद्दु॒र्वर्णँ॒ हिर॑ण्यमभवत् ।
तद्दु॒र्वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑ ।
स द्वि॒तीय॑मतप्यत ।
सो॑ऽताम्यत् ।
स प्राङ॑बाधत ।
स दे॒वान॑सृजत ।
तद॑स्य प्रि॒यमा॑सीत् ।
तत्सु॒वर्णँ॒ हिर॑ण्यमभवत् ।
तत्सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑ ।
य ए॒वँ सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॒ वेद॑ ॥ 25 ॥
सु॒वर्ण॑ आ॒त्मना॑ भवति ।
दु॒र्वर्णो॑ऽस्य॒ भ्रातृ॑व्यः ।
तस्मा॑त्सु॒वर्णँ॒ हिर॑ण्यम्भा॒र्य॑म् ।
सु॒वर्ण॑ ए॒व भ॑वति ।
ऐन॑म्प्रि॒यङ्ग॑च्छति॒ नाप्रि॑यम् ।
स स॒प्तहो॑तारमसृजत ।
स स॒प्तहो॑त्रै॒व सु॑व॒र्गल्ँ लो॒कमै॑त् ।
त्रि॒ण॒वेन॒ स्तोमे॑नै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दत ।
त्र॒य॒स्त्रिँ॒शेन॒ प्रत्य॑तिष्ठत् ।
ए॒क॒विँ॒शेन॒ रुच॑मधत्त ॥ 26 ॥
स॒प्त॒द॒शेन॒ प्राजा॑यत ।
य ए॒वव्ँ वि॒द्वान्त्सोमे॑न॒ यज॑ते ।
स॒प्तहो॑त्रै॒व सु॑व॒र्गल्ँ लो॒कमे॑ति ।
त्रि॒ण॒वेन॒ स्तोमे॑नै॒भ्यो लो॒केभ्यो॒ भ्रातृ॑व्या॒न्प्रणु॑दते ।
त्र॒य॒स्त्रिँ॒शेन॒ प्रति॑तिष्ठति ।
ए॒क॒विँ॒शेन॒ रुच॑न्धत्ते ।
स॒प्त॒द॒शेन॒ प्र जा॑यते ।
तस्मा॑त्सप्तद॒शस्स्तोमो॒ न नि॒र्हृत्यः॑ ।
प्र॒जाप॑ति॒र्वै स॑प्तद॒शः ।
प्र॒जाप॑तिमे॒व म॑ध्य॒तो ध॑त्ते॒ प्रजा॑त्यै ॥ 27 ॥
दे॒वा वै वरु॑णमयाजयन् ।
स यस्यै॑यस्यै दे॒वता॑यै॒ दक्षि॑णा॒मन॑यत् ।
ताम॑व्लीनात् ।
ते॑ऽब्रुवन् ।
व्या॒वृत्य॒ प्रति॑गृह्णाम ।
तथा॑ नो॒ दक्षि॑णा॒ न व्ले॑ष्य॒तीति॑ ।
ते व्या॒वृत्य॒ प्रत्य॑गृह्णन् ।
ततो॒ वै तान्दक्षि॑णा॒ नाव्ली॑नात् ।
य ए॒वव्ँ वि॒द्वान्व्या॒वृत्य॒ दक्षि॑णाम्प्रतिगृ॒ह्णाति॑ ।
नैन॒न्दक्षि॑णा व्लीनाति ॥28 ॥
राजा॑ त्वा॒ वरु॑णो नयतु देवि दक्षिणे॒ऽग्नये॒ हिर॑ण्य॒मित्या॑ह ।
आ॒ग्ने॒यव्ँ वै हिर॑ण्यम् ।
स्वयै॒वैन॑द्दे॒वत॑या॒ प्रति॑गृह्णाति ।
सोमा॑य॒ वास॒ इत्या॑ह ।
सौ॒म्यव्ँ वै वासः॑ ।
स्वयै॒वैन॑द्दे॒वत॑या॒ प्रति॑गृह्णाति ।
रु॒द्राय॒ गामित्या॑ह ।
रौ॒द्री वै गौः ।
स्वयै॒वैना॑न्दे॒वत॑या॒ प्रति॑गृह्णाति ।
वरु॑णा॒याश्व॒मित्या॑ह ॥ 29 ॥
वा॒रु॒णो वा अश्वः॑ ।
स्वयै॒वैन॑न्दे॒वत॑या॒ प्रति॑गृह्णाति ।
प्र॒जाप॑तये॒ पुरु॑ष॒मित्या॑ह ।
प्रा॒जा॒प॒त्यो वै पुरु॑षः ।
स्वयै॒वैन॑न्दे॒वत॑या॒ प्रति॑गृह्णाति ।
मन॑वे॒ तल्प॒मित्या॑ह ।
मा॒न॒वो वै तल्पः॑ ।
स्वयै॒वैन॑न्दे॒वत॑या॒ प्रति॑गृह्णाति ।
उ॒त्ता॒नाया॑ङ्गीर॒सायान॒ इत्या॑ह ।
इ॒यव्ँ वा उ॑त्ता॒न आ॑ङ्गीर॒सः ॥ 30 ॥
अ॒नयै॒वैन॒त्प्रति॑गृह्णाति ।
वै॒श्वा॒न॒र्यर्चा रथ॒म्प्रति॑गृह्णाति ।
वै॒श्वा॒न॒रो वै दे॒वत॑या॒ रथः॑ ।
स्वयै॒वैन॑न्दे॒वत॑या॒ प्रति॑गृह्णाति ।
तेना॑मृत॒त्वम॑श्या॒मित्या॑ह ।
अ॒मृत॑मे॒वात्मन्ध॑त्ते ।
वयो॑ दा॒त्र इत्या॑ह ।
वय॑ ए॒वैन॑ङ्कृ॒त्वा ।
सु॒व॒र्गल्ँ लो॒कङ्ग॑मयति ।
मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्र इत्या॑ह ॥ 31 ॥
यद्वै शि॒वम् ।
तन्मयः॑ ।
आ॒त्मन॑ ए॒वैषा परी॑त्तिः ।
क इ॒दङ्कस्मा॑ अदा॒दित्या॑ह ।
प्र॒जाप॑ति॒र्वै कः ।
स प्र॒जाप॑तये ददाति ।
काम॒ᳵ कामा॒येत्या॑ह ।
कामे॑न॒ हि ददा॑ति ।
कामे॑न प्रतिगृ॒ह्णाति॑ ।
कामो॑ दा॒ता काम॑ᳶ प्रतिग्रही॒तेत्या॑ह ॥ 32 ॥
कामो॒ हि दा॒ता ।
काम॑ᳶ प्रतिग्रही॒ता ।
कामँ॑ समु॒द्रमावि॒शेत्या॑ह ।
स॒मु॒द्र इ॑व॒ हि कामः॑ ।
नेव॒ हि काम॒स्यान्तोऽस्ति॑ ।
न स॑मु॒द्रस्य॑ ।
कामे॑न त्वा॒ प्रति॑गृह्णा॒मीत्या॑ह ।
येन॒ कामे॑न प्रतिगृ॒ह्णाति॑ ।
स ए॒वैन॑म॒मुष्मिल्ँ॑ लो॒के काम॒ आग॑च्छति ।
कामै॒तत्त॑ ए॒षा ते॑ काम॒ दक्षि॒णेत्या॑ह ।
काम॑ ए॒व तद्यज॑मानो॒ऽमुष्मिल्ँ॑ लो॒के दक्षि॑णामिच्छति ।
न प्र॑तिग्रही॒तरि॑ ।
य ए॒वव्ँ वि॒द्वान्दक्षि॑णाम्प्रतिगृ॒ह्णाति॑ ।
अ॒नृ॒णामे॒वैना॒म्प्रति॑गृह्णाति ॥ 33 ॥
अन्तो॒ वा ए॒ष य॒ज्ञस्य॑ ।
यद्द॑श॒ममहः॑ ।
द॒श॒मेऽह॑न्त्सर्परा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॑वन्ति ।
य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वा ।
अ॒न्नाद्य॒मव॑ रुन्धते ।
ति॒सृभि॑स्स्तुवन्ति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒भ्य ए॒व लो॒केभ्यो॒ऽन्नाद्य॒मव॑ रुन्धते ।
पृश्ञि॑वतीर्भवन्ति ।
अन्नव्ँ॒ वै पृश्ञि॑ ॥ 34 ॥
अन्न॑मे॒वाव॑ रुन्धते ।
मन॑सा॒ प्रस्तौ॑ति ।
मन॒सोद्गा॑यति ।
मन॑सा॒ प्रति॑हरति ।
मन॑ इव॒ हि प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।
दे॒वा वै स॒र्पाः ।
तेषा॑मि॒यँ राज्ञी॑ ।
यत्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॒वन्ति॑ ।
अ॒स्यामे॒व प्रति॑तिष्ठन्ति ॥ 35 ॥
चतु॑र्होतॄ॒न् होता॒ व्याच॑ष्टे ।
स्तु॒तमनु॑शँसति॒ शान्त्यै॑ ।
अन्तो॒ वा ए॒ष य॒ज्ञस्य॑ ।
यद्द॑श॒ममहः॑ ।
ए॒तत्खलु॒ वै दे॒वाना॑म्पर॒मङ्गुह्य॒म्ब्रह्म॑ ।
यच्चतु॑र्होतारः ।
द॒श॒मेऽहँ॒ श्चतु॑र्होतॄ॒न्व्याच॑ष्टे ।
य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वा ।
प॒र॒मन्दे॒वाना॒ङ्गुह्य॒म्ब्रह्माव॑ रुन्धे ।
तदे॒व प्र॑का॒शङ्ग॑मयति ॥ 36 ॥
तदे॑नम्प्रका॒शङ्ग॒तम् ।
प्र॒का॒शम्प्र॒जाना॑ङ्गमयति ।
वाचय्ँ॑यच्छति ।
य॒ज्ञस्य॒ धृत्यै॑ ।
य॒ज॒मा॒न॒दे॒व॒त्यव्ँ॑ वा अहः॑ ।
भ्रा॒तृ॒व्य॒दे॒व॒त्या॑ रात्रिः॑ ।
अह्ना॒ रात्रि॑न्ध्यायेत् ।
भ्रातृ॑व्यस्यै॒व तल्लो॒कव्ँ वृ॑ङ्क्ते ।
यद्दिवा॒ वाचव्ँ॑विसृ॒जेत् ।
अह॒र्भ्रातृ॑व्या॒योच्छिँ॑षेत् ।
यन्नक्तव्ँ॑विसृ॒जेत् ।
रात्रि॒म्भ्रातृ॑व्या॒योच्छिँ॑षेत् ।
अ॒धि॒वृ॒क्ष॒सू॒र्ये वाचव्ँ॒विसृ॑जति ।
ए॒ताव॑न्तमे॒वास्मै॑ लो॒कमुच्छिँ॑षति ।
याव॑दादि॒त्यो॑ऽस्त॒मेति॑ ॥ 37 ॥
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
तास्सृ॒ष्टास्सम॑श्लिष्यन् ।
ता रू॒पेणानु॒प्रावि॑शत् ।
तस्मा॑दाहुः ।
रू॒पव्ँ वै प्र॒जाप॑ति॒रिति॑ ।
ता नाम्नाऽनु॒ प्रावि॑शत् ।
तस्मा॑दाहुः ।
नाम॒ वै प्र॒जाप॑ति॒रिति॑ ।
तस्मा॒दप्या॑मि॒त्रौ स॒ङ्गत्य॑ ।
नाम्ना॒ चेद्ध्वये॑ते ॥ 38 ॥
मि॒त्रमे॒व भ॑वतः ।
प्र॒जाप॑तिर्देवासु॒रान॑सृजत ।
स इन्द्र॒मपि॒ नासृ॑जत ।
तन्दे॒वा अ॑ब्रुवन् ।
इन्द्र॑न्नो जन॒येति॑ ।
स आ॒त्मन्निन्द्र॑मपश्यत् ।
तम॑सृजत ।
तन्त्रि॒ष्टुग्वी॒र्य॑म्भू॒त्वाऽनु॒ प्रावि॑शत् ।
तस्य॒ वज्र॑ᳶ पञ्चद॒शो हस्त॒ आप॑द्यत ।
तेनो॒दय्यासु॑रान॒भ्य॑भवत् ॥ 39 ॥
य ए॒वव्ँ वेद॑ ।
अ॒भि भ्रातृ॑व्यान्भवति ।
ते दे॒वा असु॑रैर्वि॒जित्य॑ ।
सु॒व॒र्गल्ँ लो॒कमा॑यन् ।
ते॑ऽमुष्मिल्ँ॑ लो॒के व्य॑क्षुध्यन् ।
ते॑ऽब्रुवन् ।
अ॒मुत॑ᳶ प्रदानव्ँ॒वा उप॑जिजीवि॒मेति॑ ।
ते स॒प्तहो॑तारय्ँ यज्ञव्ँ वि॒धाया॒यास्य॑म् ।
आ॒ङ्गी॒र॒सम्प्राहि॑ण्वन् ।
ए॒तेना॒मुत्र॑ कल्प॒येति॑ ॥ 40 ॥
तस्य॒ वा इ॒यङ्कॢप्तिः॑ ।
यदि॒दङ्किञ्च॑ ।
य ए॒वव्ँ वेद॑ ।
कल्प॑तेऽस्मै ।
स वा अ॒यम्म॑नु॒ष्ये॑षु य॒ज्ञस्स॒प्तहो॑ता ।
अ॒मुत्र॑ स॒द्भ्यो दे॒वेभ्यो॑ ह॒व्यव्ँव॑हति ।
य ए॒वव्ँ वेद॑ ।
उपै॑नय्ँ य॒ज्ञो न॑मति ।
सो॑ऽमन्यत ।
अ॒भि वा इ॒मे॑ऽस्माल्लो॒काद॒मुल्ँ लो॒कङ्क॑मिष्यन्त॒ इति॑ ।
स वाच॑स्पते॒ हृदिति॒ व्याह॑रत् ।
तस्मा॑त्पु॒त्त्रो हृद॑यम् ।
तस्मा॑द॒स्माल्लो॒काद॒मुल्ँ लो॒कन्नाभि का॑मयन्ते ।
पु॒त्त्रो हि हृद॑यम् ॥ 41 ॥
दे॒वा वै चतु॑र्होतृभिर्य॒ज्ञम॑तन्वत ।
ते वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाज॑यन्त ।
अ॒भि सु॑व॒र्गल्ँ लो॒कम॑जयन् ।
य ए॒वव्ँ वि॒द्वाँ श्चतु॑र्होतृभिर्य॒ज्ञन्त॑नु॒ते ।
वि पा॒प्मना॒ भ्रातृ॑व्येण जयते ।
अ॒भि सु॑व॒र्गल्ँ लो॒कञ्ज॑यति ।
षड्ढो॑त्रा प्राय॒णीय॒मा सा॑दयति ।
अ॒मुष्मै॒ वै लो॒काय॒ षड्ढो॑ता ।
घ्नन्ति॒ खलु॒ वा ए॒तत्सोम॑म् ।
यद॑भिषु॒ण्वन्ति॑ ॥ 42 ॥
ऋ॒जु॒धैवैन॑म॒मुल्ँ लो॒कङ्ग॑मयति ।
चतु॑र्होत्राऽऽति॒थ्यम् ।
यशो॒ वै चतु॑र्होता ।
यश॑ ए॒वात्मन्ध॑त्ते ।
पञ्च॑होत्रा प॒शुमुप॑सादयति ।
सु॒व॒र्ग्यो॑ वै पञ्च॑होता ।
यज॑मानᳶ प॒शुः ।
यज॑मानमे॒व सु॑व॒र्गल्ँ लो॒कङ्ग॑मयति ।
ग्रहा॑न्गृही॒त्वा स॒प्तहो॑तारञ्जुहोति ।
इ॒न्द्रि॒यव्ँ वै स॒प्तहो॑ता ॥ 43 ॥
इ॒न्द्रि॒यमे॒वात्मन्ध॑त्ते ।
यो वै चतु॑र्होतॄननुसव॒नन्त॒र्पय॑ति ।
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ ।
उपै॑नँ सोमपी॒थो न॑मति ।
ब॒हि॒ष्प॒व॒मा॒ने दश॑होतार॒व््व्ँयाच॑क्षीत ।
माध्य॑न्दिने॒ पव॑माने॒ चतु॑र्होतारम् ।
आर्भ॑वे॒ पव॑माने॒ पञ्च॑होतारम् ।
पि॒तृ॒य॒ज्ञे षड्ढो॑तारम् ।
य॒ज्ञा॒य॒ज्ञिय॑स्य स्तो॒त्रे स॒प्तहो॑तारम् ।
अ॒नु॒स॒व॒नमे॒वैनाँ॑ स्तर्पयति ॥ 44 ॥
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ ।
उपै॑नँ सोमपी॒थो न॑मति ।
दे॒वा वै चतु॑र्होतृभिस्स॒त्त्रमा॑सत ।
ऋद्धि॑परिमितय्ँ॒यश॑स्कामाः ।
ते॑ऽब्रुवन् ।
यन्न॑ᳶ प्रथ॒मय्ँयश॑ ऋ॒च्छात् ।
सर्वे॑षान्न॒स्तत्स॒हास॒दिति॑ ।
सोम॒श्चतु॑र्होत्रा ।
अ॒ग्निᳶ पञ्च॑होत्रा ।
धा॒ता षड्ढो॑त्रा ॥ 45 ॥
इन्द्र॑स्स॒प्तहो॑त्रा ।
प्र॒जाप॑ति॒र्दश॑होत्रा ।
तेषाँ॒ सोमँ॒ राजा॑नय्ँ॒यश॑ आर्च्छत् ।
तन्न्य॑कामयत ।
तेनापा॑क्रामत् ।
तेन॑ प्र॒लाय॑मचरत् ।
तन्दे॒वाᳶ प्रै॒षैᳶ प्रैष॑मैच्छन् ।
तत्प्रै॒षाणा॑म्प्रैष॒त्वम् ।
नि॒विद्भि॒र्न्य॑वेदयन् ।
तन्नि॒विदा॑न्निवि॒त्त्वम् ॥ 46 ॥
आ॒प्रीभि॑राप्नुवन् ।
तदा॒प्रीणा॑माप्रि॒त्वम् ।
तम॑घ्नन् ।
तस्य॒ यशो॒ व्य॑गृह्णत ।
ते ग्रहा॑ अभवन् ।
तद्ग्रहा॑णाङ्ग्रह॒त्वम् ।
यस्यै॒वव्ँ वि॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते॑ ।
तस्य॒ त्वे॑व गृ॑ही॒ताः ।
ते॑ऽब्रुवन् ।
यो वै न॒श्श्रेष्ठोऽभू॑त् ॥ 47 ॥
तम॑वधिष्म ।
पुन॑रि॒मँ सु॑वामहा॒ इति॑ ।
तञ्छन्दो॑भिरसुवन्त ।
तच्छन्द॑साञ्छन्द॒स्त्वम् ।
साम्ना॒ समान॑यन् ।
तत्साम्न॑स्साम॒त्वम् ।
उ॒क्थैरुद॑स्थापयन् ।
तदु॒क्थाना॑मुक्थ॒त्वम् ।
य ए॒वव्ँ वेद॑ ।
प्रत्ये॒व ति॑ष्ठति ॥ 48 ॥
सर्व॒मायु॑रेति ।
सोमो॒ वै यशः॑ ।
य ए॒वव्ँ वि॒द्वान्त्सोम॑मा॒गच्छ॑ति ।
यश॑ ए॒वैन॑मृच्छति ।
तस्मा॑दाहुः ।
यश्चै॒वव्ँ वेद॒ यश्च॒ न ।
तावु॒भौ सोम॒माग॑च्छतः ।
सोमो॒ हि यशः॑ ।
तन्त्वाऽव यश॑ ऋच्छ॒तीत्या॑हुः ।
यस्सोमे॒ सोम॒म्प्राहेति॑ ।
तस्मा॒त्सोमे॒ सोम॒ᳶ प्रोच्यः॑ ।
यश॑ ए॒वैन॑मृच्छति ॥ 49 ॥
इ॒दव्ँ वा अग्रे॒ नैव किञ्च॒ नासी॑त् ।
न द्यौरा॑सीत् ।
न पृ॑थि॒वी ।
नान्तरि॑क्षम् ।
तदस॑दे॒व सन्मनो॑ऽकुरुत॒ स्यामिति॑ ।
तद॑तप्यत ।
तस्मा॑त्तेपा॒नाद्धू॒मो॑ऽजायत ।
तद्भूयो॑ऽतप्यत ।
तस्मा॑त्तेपा॒नाद॒ग्निर॑जायत ।
तद्भूयो॑ऽतप्यत ॥ 50 ॥
तस्मा॑त्तेपा॒नाज्ज्योति॑रजायत ।
तद्भूयो॑ऽतप्यत ।
तन्मा॑त्तेपा॒नाद॒र्चिर॑जायत ।
तद्भूयो॑ऽतप्यत ।
तस्मा॑त्तेपा॒नान्मरी॑चयोऽजायन्त ।
तद्भूयो॑ऽतप्यत ।
तस्मा॑त्तेपा॒नादु॑दा॒रा अ॑जायन्त ।
तद्भूयो॑ऽतप्यत ।
तद॒भ्रमि॑व॒ सम॑हन्यत ।
तद्व॒स्तिम॑भिनत् ॥ 51 ॥
स स॑मु॒द्रो॑ऽभवत् ।
तस्मा॑त्समु॒द्रस्य॒ न पि॑बन्ति ।
प्र॒जन॑नमिव॒ हि मन्य॑न्ते ।
तस्मा॑त्प॒शोर्जाय॑माना॒दाप॑ᳶ पु॒रस्ता॑द्यन्ति ।
तद्दश॑हो॒ताऽन्व॑सृज्यत ।
प्र॒जाप॑ति॒र्वै दश॑होता ।
य ए॒वन्तप॑सो वी॒र्यव्ँ॑वि॒द्वाँस्तप्य॑ते ।
भव॑त्ये॒व ।
तद्वा इ॒दमाप॑स्सलि॒लमा॑सीत् ।
सो॑ऽरोदीत्प्र॒जाप॑तिः ॥ 52 ॥
स कस्मा॑ अज्ञि ।
यद्य॒स्या अप्र॑तिष्ठाया॒ इति॑ ।
यद॒प्स्व॑वाप॑द्यत ।
सा पृ॑थि॒व्य॑भवत् ।
यद्व्यमृ॑ष्ट ।
तद॒न्तरि॑क्षमभवत् ।
यदू॒र्ध्वमु॒दमृ॑ष्ट ।
सा द्यौर॑भवत् ।
यदरो॑दीत् ।
तद॒नयो॑ रोद॒स्त्वम् ॥ 53 ॥
य ए॒वव्ँ वेद॑ ।
नास्य॑ गृ॒हे रु॑दन्ति ।
ए॒तद्वा ए॒षाल्ँ लो॒काना॒ञ्जन्म॑ ।
य ए॒वमे॒षाल्ँ लो॒काना॒ञ्जन्म॒ वेद॑ ।
नैषु लो॒केष्वार्ति॒मार्च्छ॑ति ।
स इ॒माम्प्र॑ति॒ष्ठाम॑विन्दत ।
स इ॒माम्प्र॑ति॒ष्ठाव्ँ वि॒त्वाऽका॑मयत॒ प्रजा॑ये॒येति॑ ।
स तपो॑ऽतप्यत ।
सो॑ऽन्तर्वा॑नभवत् ।
स ज॒घना॒दसु॑रानसृजत ॥ 54 ॥
तेभ्यो॑ मृ॒न्मये॒ पात्रेऽन्न॑मदुहत् ।
याऽस्य॒ सा त॒नूरासी॑त् ।
तामपा॑हत ।
सा तमि॑स्राऽभवत् ।
सो॑ऽकामयत॒ प्रजा॑ये॒येति॑ ।
स तपो॑ऽतप्यत ।
सो॑न्तर्वा॑नभवत् ।
स प्र॒जन॑नादे॒व प्र॒जा अ॑सृजत ।
तस्मा॑दि॒मा भूयि॑ष्ठाः ।
प्र॒जन॑ना॒द्ध्ये॑ना॒ असृ॑जत ॥ 55 ॥
ताभ्यो॑ दारु॒मये॒ पात्रे॒ पयो॑ऽदुहत् ।
याऽस्य॒ सा त॒नूरासी॑त् ।
तामपा॑हत ।
सा जोत्स्ना॑ऽभवत् ।
सो॑ऽकामयत॒ प्रजा॑ये॒येति॑ ।
स तपो॑ऽतप्यत ।
सो॑ऽन्तर्वा॑नभवत् ।
स उ॑पप॒क्षाभ्या॑मे॒वर्तून॑सृजत ।
तेभ्यो॑ रज॒ते पात्रे॑ घृ॒तम॑दुहत् ।
याऽस्य॒ सा त॒नूरासी॑त् ॥ 56 ॥
तामपा॑हत ।
सो॑ऽहोरा॒त्रयो॑स्स॒न्धिर॑भवत् ।
सो॑ऽकामयत॒ प्रजा॑ये॒येति॑ ।
स तपो॑ऽतप्यत ।
सो॑ऽन्तर्वा॑नभवत् ।
स मुखा॑द्दे॒वान॑सृजत ।
तेभ्यो॒ हरि॑ते॒ पात्रे॒ सोम॑मदुहत् ।
याऽस्य॒ सा त॒नूरासी॑त् ।
तामपा॑हत ।
तदह॑रभवत् ॥ 57 ॥
ए॒ते वै प्र॒जाप॑ते॒र्दोहाः॑ ।
य ए॒वव्ँ वेद॑ ।
दु॒ह ए॒व प्र॒जाः ।
दिवा॒ वै नो॑ऽभू॒दिति॑ ।
तद्दे॒वाना॑न्देव॒त्वम् ।
य ए॒वन्दे॒वाना॑न्देव॒त्वव्ँ वेद॑ ।
दे॒ववा॑ने॒व भ॑वति ।
ए॒तद्वा अ॑होरा॒त्राणा॒ञ्जन्म॑ ।
य ए॒वम॑होरा॒त्राणा॒ञ्जन्म॒ वेद॑ ।
नाहो॑रा॒त्रेष्वार्ति॒मार्च्छ॑ति ॥ 58 ॥
अस॒तोऽधि॒ मनो॑ऽसृज्यत ।
मन॑ᳶ प्र॒जाप॑तिमसृजत ।
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
तद्वा इ॒दम्मन॑स्ये॒व प॑र॒मम्प्रति॑ष्ठितम् ।
यदि॒दङ्किञ्च॑ ।
तदे॒तच्छ्वो॑वस्य॒सन्नाम॒ ब्रह्म॑ ।
व्यु॒च्छन्ती॑व्युच्छन्त्यस्मै॒ वस्य॑सीवस्यसी॒ व्यु॑च्छति ।
प्रजा॑यते प्र॒जया॑ प॒शुभिः॑ ।
प्र प॑रमे॒ष्ठिनो॒ मात्रा॑माप्नोति ।
य ए॒वव्ँ वेद॑ ॥ 59 ॥
प्र॒जाप॑ति॒रिन्द्र॑मसृजतानुजाव॒रन्दे॒वाना॑म् ।
तम्प्राहि॑णोत् ।
परे॑हि ।
ए॒तेषा॑न्दे॒वाना॒मधि॑पतिरे॒धीति॑ ।
तन्दे॒वा अ॑ब्रुवन् ।
कस्त्वमसि॑ ।
व॒यव्ँ वै त्वच्छ्रेयाँ॑सस्स्म॒ इति॑ ।
सो॑ऽब्रवीत् ।
कस्त्वमसि॑ व॒यव्ँ वै त्वच्छ्रेयाँ॑सस्स्म॒ इति॑ मा दे॒वा अ॑वोच॒न्निति॑ ।
अथ॒ वा इ॒दन्तर्हि॑ प्र॒जाप॑तौ॒ हर॑ आसीत् ॥ 60 ॥
यद॒स्मिन्ना॑दि॒त्ये ।
तदे॑नमब्रवीत् ।
ए॒तन्मे॒ प्रय॑च्छ ।
अथा॒हमे॒तेषा॑न्दे॒वाना॒मधि॑पतिर्भविष्या॒मीति॑ ।
को॑ऽहँ स्या॒मित्य॑ब्रवीत् ।
ए॒तत्प्र॒दायेति॑ ।
ए॒तत्स्या॒ इत्य॑ब्रवीत् ।
यदे॒तद्ब्रवी॒षीति॑ ।
को ह॒ वै नाम॑ प्र॒जाप॑तिः ।
य ए॒वव्ँ वेद॑ ॥ 61 ॥
वि॒दुरे॑न॒न्नाम्ना॑ ।
तद॑स्मै रु॒क्मङ्कृ॒त्वा प्रत्य॑मुञ्चत् ।
ततो॒ वा इन्द्रो॑ दे॒वाना॒मधि॑पतिरभवत् ।
य ए॒वव्ँ वेद॑ ।
अधि॑पतिरे॒व स॑मा॒नाना॑म्भवति ।
सो॑ऽमन्यत ।
किङ्किव्ँ॒ वा अ॑कर॒मिति॑ ।
स च॒न्द्रम्म॒ आह॒रेति॒ प्राल॑पत् ।
तच्च॒न्द्रम॑सश्चन्द्रम॒स्त्वम् ।
य ए॒वव्ँ वेद॑ ॥ 62 ॥
च॒न्द्रवा॑ने॒व भ॑वति ।
तन्दे॒वा अ॑ब्रुवन् ।
सु॒वीर्यो॑ मर्या॒ यथा॑ गोपा॒यत॒ इति॑ ।
तत्सूर्य॑स्य सूर्य॒त्वम् ।
य ए॒वव्ँ वेद॑ ।
नैन॑न्दभ्नोति ।
कश्च॒ नास्मि॒न्वा इ॒दमि॑न्द्रि॒यम्प्रत्य॑स्था॒दिति॑ ।
तदिन्द्र॑स्येन्द्र॒त्वम् ।
य ए॒वव्ँ वेद॑ ।
इ॒न्द्रि॒या॒व्ये॑व भ॑वति ॥ 63 ॥
अ॒यव्ँ वा इ॒दम्प॑र॒मो॑ऽभू॒दिति॑ ।
तत्प॑रमे॒ष्ठिन॑ᳶ परमेष्ठि॒त्वम् ।
य ए॒वव्ँ वेद॑ ।
प॒र॒मामे॒व काष्ठा॑ङ्गच्छति ।
तन्दे॒वास्स॑म॒न्तम्पर्य॑विशन् ।
वस॑वᳶ पु॒रस्ता॑त् ।
रु॒द्रा द॑क्षिण॒तः ।
आ॒दि॒त्याᳶ प॒श्चात् ।
विश्वे॑ दे॒वा उ॑त्तर॒तः ।
अङ्गि॑रसᳶ प्र॒त्यञ्च॑म् ॥ 64 ॥
सा॒ध्याᳶ परा॑ञ्चम् ।
य ए॒वव्ँ वेद॑ ।
उपै॑नँ समा॒नास्सव्ँ वि॑शन्ति ।
स प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा आव॑यत् ।
ता अ॑स्मै॒ नाति॑ष्ठन्ता॒न्नाद्या॑य ।
ता मुख॑म्पु॒रस्ता॒त्पश्य॑न्तीः ।
द॒क्षि॒ण॒तᳶ पर्या॑यन् ।
स द॑क्षिण॒तᳶ पर्य॑वर्तयत ।
ता मुख॑म्पु॒रस्ता॒त्पश्य॑न्तीः ।
मुख॑न्दक्षिण॒तः ॥ 65 ॥
प॒श्चात्पर्या॑यन् ।
स प॒श्चात्पर्य॑वर्तयत ।
ता मुख॑म्पु॒रस्ता॒त्पश्य॑न्तीः ।
मुख॑न्दक्षिण॒तः ।
मुख॑म्प॒श्चात् ।
उ॒त्त॒र॒तᳶ पर्या॑यन् ।
स उ॑त्तर॒तᳶ पर्य॑वर्तयत ।
ता मुख॑म्पु॒रस्ता॒त्पश्य॑न्तीः ।
मुख॑न्दष्खिण॒तः ।
मुख॑म्प॒श्चात् ॥ 66 ॥
मुख॑मुत्तर॒तः ।
ऊ॒र्ध्वा उदा॑यन् ।
स उ॒परि॑ष्टा॒न्न्य॑वर्तयत ।
तास्स॒र्वतो॑मुखो भू॒त्वाऽऽव॑यत् ।
ततो॒ वै तस्मै॑ प्र॒जा अति॑ष्ठन्ता॒न्नाद्या॑य ।
य ए॒वव्ँ वि॒द्वान्परि॑ च व॒र्तय॑ते॒ नि च॑ ।
प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा अ॑त्ति ।
तिष्ठ॑न्तेऽस्मै प्र॒जा अ॒न्नाद्या॑य ।
अ॒न्ना॒द ए॒व भव॑ति ॥ 67 ॥
प्र॒जाप॑तिरकामयत ब॒होर्भूया॑न्त्स्या॒मिति॑ ।
स ए॒तन्दश॑होतारमपश्यत् ।
तम्प्रायु॑ङ्क्त ।
तस्य॒ प्रयु॑क्ति ब॒होर्भूया॑नभवत् ।
यᳵ का॒मये॑त ब॒होर्भूया॑न्त्स्या॒मिति॑ ।
स दश॑होतार॒म्प्रयु॑ञ्जीत ।
ब॒होरे॒व भूया॑न्भवति ।
सो॑ऽकामयत वी॒रो म॒ आजा॑ये॒तेति॑ ।
स दश॑होतु॒श्चतु॑र्होतार॒न्निर॑मिमीत ।
तम्प्रायु॑ङ्क्त ॥ 68 ॥
तस्य॒ प्रयु॒क्तीन्द्रो॑ऽजायत ।
यᳵ का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॑ ।
स चतु॑र्होतार॒म्प्रयु॑ञ्जीत ।
आऽस्य॑ वी॒रो जा॑यते ।
सो॑ऽकामयत पशु॒मान्त्स्या॒मिति॑ ।
स चतु॑र्होतु॒ᳶ पञ्च॑होतार॒न्निर॑मिमीत ।
तम्प्रायु॑ङ्क्त ।
तस्य॒ प्रयु॑क्ति पशु॒मान॑भवत् ।
यᳵ का॒मये॑त पशु॒मान्त्स्या॒मिति॑ ।
स पञ्च॑होतार॒म्प्रयु॑ञ्जीत ॥ 69 ॥
प॒शु॒माने॒व भ॑वति ।
सो॑ऽकामयत॒र्तवो॑ मे कल्पेर॒न्निति॑ ।
स पञ्च॑होतु॒ष्षड्ढो॑तार॒न्निर॑मिमीत ।
तम्प्रायु॑ङ्क्त ।
तस्य॒ प्रयु॑क्त्यृ॒तवो॑ऽस्मा अकल्पन्त ।
यᳵ का॒मये॑त॒र्तवो॑ मे कल्पेर॒न्निति॑ ।
स षड्ढो॑तार॒म्प्रयु॑ञ्जीत ।
कल्प॑न्तेऽस्मा ऋ॒तवः॑ ।
सो॑ऽकामयत सोम॒पस्सो॑मया॒जी स्या॑म् ।
आ मे॑ सोम॒पस्सो॑मया॒जी जा॑ये॒तेति॑ ॥ 70 ॥
स षड्ढो॑तुस्स॒प्तहो॑तार॒न्निर॑मिमीत ।
तम्प्रायु॑ङ्क्त ।
तस्य॒ प्रयु॑क्ति सोम॒पस्सो॑मया॒ज्य॑भवत् ।
आऽस्य॑ सोम॒पस्सो॑मया॒ज्य॑जायत ।
यᳵ का॒मये॑त सोम॒पस्सो॑मया॒जी स्या॑म् ।
आ मे॑ सोम॒पस्सो॑मया॒जी जा॑ये॒तेति॑ ।
स स॒प्तहो॑तार॒म्प्रयु॑ञ्जीत ।
सो॒म॒प ए॒व सो॑मया॒जी भ॑वति ।
आऽस्य॑ सोम॒पस्सो॑मया॒जी जा॑यते ।
स वा ए॒ष प॒शुᳶ प॑ञ्च॒धा प्रति॑तिष्ठति ॥ 71 ॥
प॒द्भिर्मुखे॑न ।
ते दे॒वाᳶ प॒शून् वि॒त्वा ।
सु॒व॒र्गल्ँ लो॒कमा॑यन् ।
ते॑ऽमुष्मिल्ँ॑ लो॒के व्य॑क्षुध्यन् ।
ते॑ऽब्रुवन् ।
अ॒मुत॑ᳶप्रदानव्ँ॒वा उप॑जिजीवि॒मेति॑ ।
ते स॒प्तहो॑तारय्ँ य॒ज्ञव्ँ वि॒धाया॒यास्य॑म् ।
आ॒ङ्गी॒र॒सम्प्राहि॑ण्वन् ।
ए॒तेना॒मुत्र॑ कल्प॒येति॑ ।
तस्य॒ वा इ॒यङ्कॢप्तिः॑ ॥72 ॥
यदि॒दङ्किञ्च॑ ।
य ए॒वव्ँ वेद॑ ।
कल्प॑तेऽस्मै ।
स वा अ॒यम्म॑नु॒ष्ये॑षु य॒ज्ञस्स॒प्तहो॑ता ।
अ॒मुत्र॑ स॒द्भ्यो दे॒वेभ्यो॑ ह॒व्यव्ँव॑हति ।
य ए॒वव्ँ वेद॑ ।
उपै॑नय्ँ य॒ज्ञो न॑मति ।
यो वै चतु॑र्होतृणान्नि॒दानव्ँ॒वेद॑ ।
नि॒दान॑वान्भवति ।
अ॒ग्नि॒हो॒त्रव्ँ वै दश॑होतुर्नि॒दान॑म् ।
द॒र्श॒पू॒र्ण॒मासौ चतु॑र्होतुः ।
चा॒तु॒र्मा॒स्यानि॒ पञ्च॑होतुः ।
प॒शु॒ब॒न्धष्षड्ढो॑तुः ।
सौ॒म्यो॑ऽध्व॒रस्स॒प्तहो॑तुः ।
ए॒तद्वै चतु॑र्होतृणान्नि॒दान॑म् ।
य ए॒वव्ँ वेद॑ ।
नि॒दान॑वान्भवति ॥ 73 ॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
किञ्चतु॑र्होतृणाञ्चतुर्होतृ॒त्वमिति॑ ।
यदे॒वैषु च॑तु॒र्धा होता॑रः ।
तेन॒ चतु॑र्होतारः ।
तस्मा॒च्चतु॑र्होतार उच्यन्ते ।
तच्चतु॑र्होतृणाञ्चतुर्होतृ॒त्वम् ।
सोमो॒ वै चतु॑र्होता ।
अ॒ग्निᳶ पञ्च॑होता ।
धा॒ता षड्ढो॑ता ।
इन्द्र॑स्स॒प्तहो॑ता ॥1॥
प्र॒जाप॑ति॒र्दश॑होता ।
य ए॒वञ्चतु॑र्होतृणा॒मृद्धिव्ँ॒वेद॑ ।
ऋ॒ध्नोत्ये॒व ।
य ए॑षामे॒वम्ब॒न्धुताव्ँ॒वेद॑ ।
बन्धु॑मान्भवति ।
य ए॑षामे॒वङ्कॢप्तिव्ँ॒वेद॑ ।
कल्प॑तेऽस्मै ।
य ए॑षामे॒वमा॒यत॑नव्ँ॒वेद॑ ।
आ॒यत॑नवान्भवति ।
य ए॑षामे॒वम्प्र॑ति॒ष्ठाव्ँ वेद॑ ॥2॥
प्रत्ये॒व ति॑ष्ठति ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
दश॑होता॒ चतु॑र्होता ।
पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता ।
अथ॒ कस्मा॒च्चतु॑र्होतार उच्यन्त॒ इति॑ ।
इन्द्रो॒ वै चतु॑र्होता ।
इन्द्र॒ᳵ खलु॒ वै श्रेष्ठो॑ दे॒वता॑नामुप॒देश॑नात् ।
य ए॒वमिन्द्रँ॒ श्रेष्ठ॑न्दे॒वता॑नामुप॒देश॑ना॒द्वेद॑ ।
वसि॑ष्ठस्समा॒नाना॑म्भवति ।
तस्मा॒च्छ्रेष्ठ॑मा॒यन्त॑म्प्रथ॒मेनै॒वानु॑बुध्यन्ते ।
अ॒यमाग॑न् ।
अ॒यमवा॑सा॒दिति॑ ।
की॒र्तिर॑स्य॒ पूर्वाऽऽग॑च्छति ज॒नता॑माय॒तः ।
अथो॑ एनम्प्रथ॒मेनै॒वानु॑बुध्यन्ते ।
अ॒यमाग॑न् ।
अ॒यमवा॑सा॒दिति॑ ॥3॥
दक्षि॑णाम्प्रतिग्रही॒ष्यन्त्स॒प्तद॑श॒कृत्वोऽपा॑न्यात् ।
आ॒त्मान॑मे॒व समि॑न्धे ।
तेज॑से वी॒र्या॑य ।
अथो॑ प्र॒जाप॑तिरे॒वैना॑म्भू॒त्वा प्रति॑गृह्णाति ।
आ॒त्मनोऽना॑र्त्यै ।
यद्ये॑न॒मार्त्वि॑ज्याद्वृ॒तँ सन्त॑न्नि॒र्हरे॑रन् ।
आग्नी॑ध्रे जुहुया॒द्दश॑होतारम् ।
च॒तु॒र्गृ॒ही॒तेनाज्ये॑न ।
पु॒रस्ता॑त्प्र॒त्यङ्तिष्ठ॑न् ।
प्र॒ति॒लो॒मव्ँ वि॒ग्राह॑म् ॥4॥
प्रा॒णाने॒वास्योप॑ दासयति ।
यद्ये॑न॒म्पुन॑रुप॒शिक्षे॑युः ।
आग्नी॑ध्र ए॒व जु॑हुया॒द्दश॑होतारम् ।
च॒तु॒र्गृ॒ही॒तेनाज्ये॑न ।
प॒श्चात्प्राङासी॑नः ।
अ॒नु॒लो॒ममवि॑ग्राहम् ।
प्रा॒णाने॒वास्मै॑ कल्पयति ।
प्राय॑श्चित्ती॒ वाग्घोतेत्यृ॑तुमु॒खऋ॑तुमुखे जुहोति ।
ऋ॒तूने॒वास्मै॑ कल्पयति ।
कल्प॑न्तेऽस्मा ऋ॒तवः॑ ॥5॥
कॢ॒प्ता अ॑स्मा ऋ॒तव॒ आय॑न्ति ।
षड्ढो॑ता॒ वै भू॒त्वा प्र॒जाप॑तिरि॒दँ सर्व॑मसृजत ।
स मनो॑ऽसृजत ।
मन॒सोऽधि॑ गाय॒त्रीम॑सृजत ।
तद्गा॑य॒त्रीय्ँयश॑ आर्च्छत् ।
तामाऽल॑भत ।
गा॒य॒त्रि॒या अधि॒ छन्दाँ॑स्यसृजत ।
छन्दो॒भ्योऽधि॒ साम॑ ।
तत्साम॒ यश॑ आर्च्छत् ।
तदाऽल॑भत ॥6॥
साम्नोऽधि॒ यजूँ॑ष्यसृजत ।
यजु॒र्भ्योऽधि॒ विष्णु॑म् ।
तद्विष्णुय्ँ॒यश॑ आर्च्छत् ।
तमाऽल॑भत ।
विष्णो॒रध्योष॑धीरसृजत ।
ओष॑धी॒भ्योऽधि॒ सोम॑म् ।
तत्सोमय्ँ॒यश॑ आर्च्छत् ।
तमाऽल॑भत ।
सोमा॒दधि॑ प॒शून॑सृजत ।
प॒शुभ्योऽधीन्द्र॑म् ॥7॥
तदिन्द्रय्ँ॒यश॑ आर्च्छत् ।
तदे॑न॒न्नाति॒ प्राच्य॑वत ।
इन्द्र॑ इव यश॒स्वी भ॑वति ।
य ए॒वव्ँ वेद॑ ।
नैनय्ँ॒यशोऽति॒प्रच्य॑वते ।
यद्वा इ॒दङ्किञ्च॑ ।
तत्सर्व॑मुत्ता॒न ए॒वाङ्गी॑र॒सᳶ प्रत्य॑गृह्णात् ।
तदे॑न॒म्प्रति॑गृहीत॒न्नाहि॑नत् ।
यत्किञ्च॑ प्रतिगृह्णी॒यात् ।
तत्सर्व॑मुत्ता॒नस्त्वा॑ङ्गीर॒सᳶ प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात् ।
इ॒यव्ँ वा उ॑त्ता॒न आ॑ङ्गीर॒सः ।
अ॒नयै॒वैन॒त्प्रति॑गृह्णाति ।
नैनँ॑ हिनस्ति ।
ब॒र्हिषा॒ प्रती॑या॒द्गाव्ँ वाऽश्वव्ँ॑वा ।
ए॒तद्वै प॑शू॒नाम्प्रि॒यन्धाम॑ ।
प्रि॒येणै॒वैन॒न्धाम्ना॒ प्रत्ये॑ति ॥8॥
यो वा अवि॑द्वान्निव॒र्तय॑ते ।
विशी॑र्षा॒ सपा॑प्मा॒ऽमुष्मिल्ँ॑ लो॒के भ॑वति ।
अथ॒ यो वि॒द्वान्नि॑व॒र्तय॑ते ।
सशी॑र्षा॒ विपा॑प्मा॒ऽमुष्मिल्ँ॑ लो॒के भ॑वति ।
दे॒वता॒ वै स॒प्त पुष्टि॑कामा॒ न्य॑वर्तयन्त ।
अ॒ग्निश्च॑ पृथि॒वी च॑ ।
वा॒युश्चा॒न्तरि॑क्षञ्च ।
आ॒दि॒त्यश्च॒ द्यौश्च॑ च॒न्द्रमाः॑ ।
अ॒ग्निर्न्य॑वर्तयत ।
स सा॑ह॒स्रम॑पुष्यत् ॥9॥
पृ॒थि॒वी न्य॑वर्तयत ।
सौष॑धीभि॒र्वन॒स्पति॑भिरपुष्यत् ।
वा॒युर्न्य॑वर्तयत ।
स मरी॑चीभिरपुष्यत् ।
अ॒न्तरि॑क्ष॒न्न्य॑वर्तयत ।
तद्वयो॑भिरपुष्यत् ।
आ॒दि॒त्यो न्य॑वर्तयत ।
स र॒श्मिभि॑रपुष्यत् ।
द्यौर्न्य॑वर्तयत ।
सा नक्ष॑त्रैरपुष्यत् ।
च॒न्द्रमा॒ न्य॑वर्तयत ।
सौ॑ऽहोरा॒त्रैर॑र्धमा॒सैर्मासै॑र्ऋ॒तुभि॑स्सव्ँवत्स॒रेणा॑पुष्यत् ।
तान्पोषा॑न्पुष्यति ।
याँस्तेऽपु॑ष्यन् ।
य ए॒वव्ँ वि॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च ॥10॥
तस्य॒ वा अ॒ग्नेर्हिर॑ण्यम्प्रतिजग्र॒हुषः॑ ।
अ॒र्धमि॑न्द्रि॒यस्यापा॑क्रामत् ।
तदे॒तेनै॒व प्रत्य॑गृह्णात् ।
तेन॒ वै सो॑ऽर्धमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ।
अ॒र्धमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते ।
य ए॒वव्ँ वि॒द्वान् हिर॑ण्यम्प्रतिगृ॒ह्णाति॑ ।
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ ।
अ॒र्धम॑स्येन्द्रि॒यस्याप॑क्रामति ।
तस्य॒ वै सोम॑स्य॒ वास॑ᳶ प्रतिजग्र॒हुषः॑ ।
तृती॑यमिन्द्रि॒यस्यापा॑क्रामत् ॥11॥
तदे॒तेनै॒व प्रत्य॑गृह्णात् ।
तेन॒ वै स तृती॑यमिन्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ।
तृती॑यमिन्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते ।
य ए॒वव्ँ वि॒द्वान् वास॑ᳶ प्रतिगृ॒ह्णाति॑ ।
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ ।
तृती॑यमस्येन्द्रि॒यस्याप॑क्रामति ।
तस्य॒ वै रु॒द्रस्य॒ गाम्प्र॑तिजग्र॒हुषः॑ ।
च॒तु॒र्थमि॑न्द्रि॒यस्यापा॑क्रामत् ।
तामे॒तेनै॒व प्रत्य॑गृह्णात् ।
तेन॒ वै स च॑तु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ॥12॥
च॒तु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते ।
य ए॒वव्ँ वि॒द्वान्गाम्प्र॑तिगृ॒ह्णाति॑ ।
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ ।
च॒तु॒र्थम॑स्येन्द्रि॒यस्याप॑क्रामति ।
तस्य॒ वै वरु॑ण॒स्याश्व॑म्प्रतिजग्र॒हुषः॑ ।
प॒ञ्च॒ममि॑न्द्रि॒यस्यापा॑क्रामत् ।
तमे॒तेनै॒व प्रत्य॑गृह्णात् ।
तेन॒ वै स प॑ञ्च॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ।
प॒ञ्च॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते ।
य ए॒वव्ँ वि॒द्वानश्व॑म्प्रतिगृ॒ह्णाति॑ ॥13॥
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ ।
प॒ञ्च॒मम॑स्येन्द्रि॒यस्याप॑क्रामति ।
तस्य॒ वै प्र॒जाप॑ते॒ᳶ पुरु॑षम्प्रतिजग्र॒हुषः॑ ।
ष॒ष्ठमि॑न्द्रि॒यस्यापा॑क्रामत् ।
तमे॒तेनै॒व प्रत्य॑गृह्णात् ।
तेन॒ वै स ष॒ष्ठमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ।
ष॒ष्ठमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते ।
य ए॒वव्ँ वि॒द्वान्पुरु॑षम्प्रतिगृ॒ह्णाति॑ ।
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ ।
ष॒ष्ठम॑स्येन्द्रि॒यस्याप॑क्रामति ॥14॥
तस्य॒ वै मनो॒स्तल्प॑म्प्रतिजग्र॒हुषः॑ ।
स॒प्त॒ममि॑न्द्रि॒यस्यापा॑क्रामत् ।
तमे॒तेनै॒व प्रत्य॑गृह्णात् ।
तेन॒ वै स स॑प्त॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ।
स॒प्त॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते ।
य ए॒वव्ँ वि॒द्वाँस्तल्प॑म्प्रतिगृ॒ह्णाति॑ ।
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ ।
स॒प्त॒मम॑स्येन्द्रि॒यस्याप॑क्रामति ।
तस्य॒ वा उ॑त्ता॒नस्या॑ङ्गीर॒सस्याप्रा॑णत्प्रतिजग्र॒हुषः॑ ।
अ॒ष्ट॒ममि॑न्द्रि॒यस्यापा॑क्रामत् ॥15 ॥
तदे॒तेनै॒व प्रत्य॑गृह्णात् ।
तेन॒ वै सो॑ऽष्ट॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ।
अ॒ष्ट॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते ।
य ए॒वव्ँ वि॒द्वानप्रा॑णत्प्रतिगृ॒ह्णाति॑ ।
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ ।
अ॒ष्ट॒मम॑स्येन्द्रि॒यस्याप॑क्रामति ।
यद्वा इ॒दङ्किञ्च॑ ।
तत्सर्व॑मुत्ता॒न ए॒वाङ्गी॑र॒सᳶ प्रत्य॑गृह्णात् ।
तदे॑न॒म्प्रति॑गृहीत॒न्नाहि॑नत् ।
यत्किञ्च॑ प्रतिगृह्णी॒यात् ।
तत्सर्व॑मुत्ता॒नस्त्वा॑ङ्गीर॒सᳶ प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात् ।
इ॒यव्ँ वा उ॑त्ता॒न आ॑ङ्गीर॒सः ।
अ॒नयै॒वैन॒त्प्रति॑गृह्णाति ।
नैनँ॑ हिनस्ति ॥16॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
यद्दश॑होतारस्स॒त्रमास॑त ।
केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् ।
केन॑ प्र॒जा अ॑सृज॒न्तेति॑ ।
प्र॒जाप॑तिना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् ।
तेन॑ प्र॒जा अ॑सृजन्त ।
यच्चतु॑र्होतारस्स॒त्रमास॑त ।
केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् ।
केनौष॑धीरसृज॒न्तेति॑ ।
सोमे॑न॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् ॥17॥
तेनौष॑धीरसृजन्त ।
यत्पञ्च॑होतारस्स॒त्रमास॑त ।
केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् ।
केनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त ।
केनै॑षाम्प॒शून॑वृञ्ज॒तेति॑ ।
अ॒ग्निना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् ।
तेनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त ।
तेनै॑षाम्प॒शून॑वृञ्जत ।
यत्षड्ढो॑तारस्स॒त्रमास॑त ।
केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् ॥18॥
केन॒र्तून॑कल्पय॒न्तेति॑ ।
धा॒त्रा वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् ।
तेन॒र्तून॑कल्पयन्त ।
यत्स॒प्तहो॑तारस्स॒त्रमास॑त ।
केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् ।
केन॒ सुव॑रायन् ।
केने॒माल्ँ लो॒कान्त्सम॑तन्व॒न्निति॑ ।
अ॒र्य॒म्णा वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् ।
तेन॒ सुव॑रायन् ।
तेने॒माल्ँ लो॒कान्त्सम॑तन्व॒न्निति॑ ॥19॥
ए॒ते वै दे॒वा गृ॒हप॑तयः ।
तान् य ए॒वव्ँ वि॒द्वान् ।
अप्य॒न्यस्य॑ गार्हप॒ते दीक्ष॑ते ।
अ॒वा॒न्त॒रमे॒व स॒त्रिणा॑मृध्नोति ।
यो वा अ॑र्य॒मणव्ँ॒वेद॑ ।
दान॑कामा अस्मै प्र॒जा भ॑वन्ति ।
य॒ज्ञो वा अ॑र्य॒मा ।
आर्या॑वस॒तिरिति॒ वै तमा॑हु॒र्यम्प्र॒शँस॑न्ति ।
आर्या॑वस॒तिर्भ॑वति ।
य ए॒वव्ँ वेद॑ ॥20॥
यद्वा इ॒दङ्किञ्च॑ ।
तत्सर्व॒ञ्चतु॑र्होतारः ।
चतु॑र्होतृ॒भ्योऽधि॑ य॒ज्ञो निर्मि॑तः ।
स य ए॒वव्ँ वि॒द्वान् वि॒वदे॑त ।
अ॒हमे॒व भूयो॑ वेद ।
यश्चतु॑र्होतॄ॒न् वेदेति॑ ।
स ह्ये॑व भूयो॒ वेद॑ ।
यश्चतु॑र्होतॄ॒न् वेद॑ ।
यो वै चतु॑र्होतृणाँ॒ होतॄ॒न् वेद॑ ।
सर्वा॑सु प्र॒जास्वन्न॑मत्ति ॥21॥
सर्वा॒ दिशो॒ऽभिज॑यति ।
प्र॒जाप॑ति॒र्वै दश॑होतृणाँ॒ होता॑ ।
सोम॒श्चतु॑र्होतृणाँ॒ होता॑ ।
अ॒ग्निᳶ पञ्च॑होतृणाँ॒ होता॑ ।
धा॒ता षड्ढो॑तृणाँ॒ होता॑ ।
अ॒र्य॒मा स॒प्तहो॑तृणाँ॒ होता॑ ।
ए॒ते वै चतु॑र्होतृणाँ॒ होता॑रः ।
तान् य ए॒वव्ँ वेद॑ ।
सर्वा॑सु प्र॒जास्वन्न॑मत्ति ।
सर्वा॒ दिशो॒ऽभिज॑यति ॥22॥
प्र॒जाप॑तिᳶ प्र॒जास्सृ॒ष्ट्वा व्य॑स्रँसत ।
स हृद॑यम्भू॒तो॑ऽशयत् ।
आत्म॒न् हा ३ इत्यह्व॑यत् ।
आप॒ᳶ प्रत्य॑शृण्वन् ।
ता अ॑ग्निहो॒त्रेणै॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त ।
ताᳵ कुसि॑न्ध॒मुपौ॑हन् ।
तस्मा॑दग्निहो॒त्रस्य॑ यज्ञक्र॒तोः ।
एक॑ ऋ॒त्विक् ।
च॒तु॒ष्कृत्वोऽह्व॑यत् ।
अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमाः॑ ॥23॥
ते प्रत्य॑शृण्वन् ।
ते द॑र्शपूर्णमा॒साभ्या॑मे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त ।
त उपौ॑हँश्च॒त्वार्यङ्गा॑नि ।
तस्मा॑द्दर्शपूर्णमा॒सयो॑र्यज्ञक्र॒तोः ।
च॒त्वार॑ ऋ॒त्विजः॑ ।
प॒ञ्च॒कृत्वोऽह्व॑यत् ।
प॒शव॒ᳶ प्रत्य॑शृण्वन् ।
ते चा॑तुर्मा॒स्यैरे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त ।
त उपौ॑हल्ँ॒लोम॑ छ॒वीम्माँ॒समस्थि॑ म॒ज्जान॑म् ।
तस्मा॑च्चातुर्मा॒स्यानाय्ँ॑ यज्ञक्र॒तोः ॥ 24 ॥
पञ्च॒र्त्विजः॑ ।
ष॒ट्कृत्वोऽह्व॑यत् ।
ऋ॒तव॒ᳶ प्रत्य॑शृण्वन् ।
ते प॑शुब॒न्धेनै॒व य॑ज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त ।
त उपौ॑ह॒न्त्स्तना॑वा॒ण्डौ शि॒श्ञमवा॑ञ्चम्प्रा॒णम् ।
तस्मा॑त्पशुब॒न्धस्य॑ यज्ञक्र॒तोः ।
षडृ॒त्विजः॑ ।
स॒प्त॒कृत्वोऽह्व॑यत् ।
होत्रा॒ᳶ प्रत्य॑शृण्वन् ।
तास्सौ॒म्येनै॒वाध्व॒रेण॑ यज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त ॥25॥
ता उपौ॑हन्त्स॒प्त शी॑र्ष॒ण्या॑न्प्रा॒णान् ।
तस्मा॑त्सौ॒म्यस्या॑ध्व॒रस्य॑ यज्ञक्र॒तोः ।
स॒प्त होत्रा॒ᳶ प्राची॒र्वष॑ट्कुर्वन्ति ।
द॒श॒कृत्वोऽह्व॑यत् ।
तप॒ᳶ प्रत्य॑शृणोत् ।
तत्कर्म॑णै॒व सव्ँ॑वत्स॒रेण॒ सर्वै॑र्यज्ञक्र॒तुभि॒रुप॑ प॒र्याव॑र्तत ।
तत्सर्व॑मा॒त्मान॒मप॑रिवर्ग॒मुपौ॑हत् ।
तस्मा॑त्सव्ँवत्स॒रे सर्वे॑ यज्ञक्र॒तवोऽव॑रुध्यन्ते ।
तस्मा॒द्दश॑होता॒ चतु॑र्होता ।
पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता ।
एक॑होत्रे ब॒लिँ ह॑रन्ति ।
हर॑न्त्यस्मै प्र॒जा ब॒लिम् ।
ऐन॒मप्र॑तिख्यातङ्गच्छति ।
य ए॒वव्ँ वेद॑ ॥ 26 ॥
प्र॒जाप॑ति॒ᳶ पुरु॑षमसृजत ।
सो॑ऽग्निर॑ब्रवीत् ।
ममा॒यमन्न॑म॒स्त्विति॑ ।
सो॑ऽबिभेत् ।
सर्वव्ँ॒ वै मा॒ऽयम्प्र ध॑क्ष्य॒तीति॑ ।
स ए॒ताँश्चतु॑र्होतॄनात्म॒स्पर॑णानपश्यत् ।
तान॑जुहोत् ।
तैर्वै स आ॒त्मान॑मस्पृणोत् ।
यद॑ग्निहो॒त्रञ्जु॒होति॑ ।
एक॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोत्यग्निहो॒त्रम् ॥27॥
कुसि॑न्धञ्चा॒त्मन॑स्स्पृ॒णोति॑ ।
आ॒दि॒त्यस्य॑ च॒ सा॑युज्यङ्गच्छति ।
च॒तुरुन्न॑यति ।
चतु॑र्होतारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोति दर्शपूर्णमा॒सौ ।
च॒त्वारि॑ चा॒त्मनोऽङ्गा॑नि स्पृ॒णोति॑ ।
आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति ।
च॒तुरुन्न॑यति ।
स॒मित्प॑ञ्च॒मी ।
पञ्च॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोति चातुर्मा॒स्यानि॑ ।
लोम॑ छ॒वीम्माँ॒समस्थि॑ म॒ज्जान॑म् ॥28॥
तानि॑ चा॒त्मन॑स्स्पृ॒णोति॑ ।
आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति ।
च॒तुरुन्न॑यति ।
द्विर्जु॑होति ।
षड्ढो॑तारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोति पशुब॒न्धम् ।
स्तना॑वा॒ण्डौ शि॒श्ञमवा॑ञ्चम्प्रा॒णम् ।
तानि॑ चा॒त्मन॑स्स्पृ॒णोति॑ ।
आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति ।
च॒तुरुन्न॑यति ।
द्विर्जु॑होति ॥29॥
स॒मित्स॑प्त॒मी ।
स॒प्तहो॑तारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोति सौ॒म्यम॑ध्व॒रम् ।
स॒प्त चा॒त्मन॑श्शीर्ष॒ण्या॑न्प्रा॒णान्त्स्पृ॒णोति॑ ।
आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति ।
च॒तुरुन्न॑यति ।
द्विर्जु॒होति॑ ।
द्विर्निमा॑र्ष्टि ।
द्विᳶ प्राश्ञा॑ति ।
दश॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोति सव्ँवत्स॒रम् ।
सर्व॑ञ्चा॒त्मान॒मप॑रिवर्गँ स्पृ॒णोति॑ ।
आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति ॥30॥
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॑ ।
स तपो॑ऽतप्यत ।
सो॑ऽन्तर्वा॑नभवत् ।
स हरि॑तश्श्या॒वो॑ऽभवत् ।
तस्मा॒त्स्त्र्य॑न्तर्व॑त्नी ।
हरि॑णी स॒ती श्या॒वा भ॑वति ।
स वि॒जाय॑मानो॒ गर्भे॑णाताम्यत् ।
स ता॒न्तᳵ कृ॒ष्णश्श्या॒वो॑ऽभवत् ।
तस्मा॑त्ता॒न्तᳵ कृ॒ष्णश्श्या॒वो भ॑वति ।
तस्यासु॑रे॒वाजी॑वत् ॥31॥
तेनासु॒नाऽसु॑रानसृजत ।
तदसु॑राणामसुर॒त्वम् ।
य ए॒वमसु॑राणामसुर॒त्वव्ँ वेद॑ ।
असु॑माने॒व भ॑वति ।
नैन॒मसु॑र्जहाति ।
सोऽसु॑रान्त्सृ॒ष्ट्वा पि॒तेवा॑मन्यत ।
तदनु॑ पि॒तॄन॑सृजत ।
तत्पि॑तृ॒णाम्पि॑तृ॒त्वम् ।
य ए॒वम्पि॑तृ॒णाम्पि॑तृ॒त्वव्ँ वेद॑ ।
पि॒तेवै॒व स्वाना॑म्भवति ॥ 32॥
यन्त्य॑स्य पि॒तरो॒ हव॑म् ।
स पि॒तॄन्त्सृ॒ष्ट्वाऽऽम॑नस्यत् ।
तदनु॑ मनु॒ष्या॑नसृजत ।
तन्म॑नु॒ष्या॑णाम्मनुष्य॒त्वम् ।
य ए॒वम्म॑नु॒ष्या॑णाम्मनुष्य॒त्वव्ँ वेद॑ ।
म॒न॒स्व्ये॑व भ॑वति ।
नैन॒म्मनु॑र्जहाति ।
तस्मै॑ मनु॒ष्या॑न्त्ससृजा॒नाय॑ ।
दिवा॑ देव॒त्राऽभ॑वत् ।
तदनु॑ दे॒वान॑सृजत ।
तद्दे॒वाना॑न्देव॒त्वम् ।
य ए॒वन्दे॒वाना॑न्देव॒त्वव्ँ वेद॑ ।
दिवा॑ है॒वास्य॑ देव॒त्रा भ॑वति ।
तानि॒ वा ए॒तानि॑ च॒त्वार्यम्भाँ॑सि ।
दे॒वा म॑नु॒ष्या॑ᳶ पि॒तरोऽसु॑राः ।
तेषु॒ सर्वे॒ष्वम्भो॒ नभ॑ इव भवति ।
य ए॒वव्ँ वेद॑ ॥33॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
यो वा इ॒मव्ँ वि॒द्यात् ।
यतो॒ऽयम्पव॑ते ।
यद॑भि॒ पव॑ते ।
यद॑भिस॒म्पव॑ते ।
सर्व॒मायु॑रियात् ।
न पु॒राऽऽयु॑ष॒ᳶ प्रमी॑येत ।
प॒शु॒मान्त्स्या॑त् ।
वि॒न्देत॑ प्र॒जाम् ।
यो वा इ॒मव्ँ वेद॑ ॥34॥
यतो॒ऽयम्पव॑ते ।
यद॑भि॒पव॑ते ।
यद॑भिस॒म्पव॑ते ।
सर्व॒मायु॑रेति ।
न पु॒राऽऽयु॑ष॒ᳶ प्रमी॑यते ।
प॒शु॒मान्भ॑वति ।
वि॒न्दते॑ प्र॒जाम् ।
अ॒द्भ्यᳶ प॑वते ।
अ॒पो॑ऽभिप॑वते ।
अ॒पो॑ऽभिसम्प॑वते ॥35॥
अ॒स्याᳶ प॑वते ।
इ॒माम॒भिप॑वते ।
इ॒माम॒भिसम्प॑वते ।
अ॒ग्नेᳶ प॑वते ।
अ॒ग्निम॒भिप॑वते ।
अ॒ग्निम॒भिसम्प॑वते ।
अ॒न्तरि॑क्षात्पवते ।
अ॒न्तरि॑क्षम॒भिप॑वते ।
अ॒न्तरि॑क्षम॒भिसम्प॑वते ।
आ॒दि॒त्यात्प॑वते ॥36॥
आ॒दि॒त्यम॒भिप॑वते ।
आ॒दि॒त्यम॒भिसम्प॑वते ।
द्योᳶ प॑वते ।
दिव॑म॒भिप॑वते ।
दिव॑म॒भिसम्प॑वते ।
दि॒ग्भ्यᳶ प॑वते ।
दिशो॒ऽभिप॑वते ।
दिशो॒ऽभिसम्प॑वते ।
स यत्पु॒रस्ता॒द्वाति॑ ।
प्रा॒ण ए॒व भू॒त्वा पु॒रस्ता॑द्वाति ॥ 37॥
तस्मा॑त्पु॒रस्ता॒द्वान्त॑म् ।
सर्वा॑ प्र॒जाᳶ प्रति॑नन्दन्ति ।
प्रा॒णो हि प्रि॒यᳶ प्र॒जाना॑म् ।
प्रा॒ण इ॑व प्रि॒यᳶ प्र॒जाना॑म्भवति ।
य ए॒वव्ँ वेद॑ ।
स वा ए॒ष प्रा॒ण ए॒व ।
अथ॒ यद्द॑क्षिण॒तो वाति॑ ।
मा॒त॒रिश्वै॒व भू॒त्वा द॑क्षिण॒तो वा॑ति ।
तस्मा॑द्दक्षिण॒तो वान्तव्ँ॑वि॒द्यात् ।
सर्वा॒ दिश॒ आवा॑ति ॥38॥
सर्वा॒ दिशोऽनु॒विवा॑ति ।
सर्वा॒ दिशोऽनु॒सव्ँ वा॒तीति॑ ।
स वा ए॒ष मा॑त॒रिश्वै॒व ।
अथ॒ यत्प॒श्चाद्वाति॑ ।
पव॑मान ए॒व भू॒त्वा प॒श्चाद्वा॑ति ।
पू॒तम॑स्मा॒ आह॑रन्ति ।
पू॒तमुप॑हरन्ति ।
पू॒तम॑श्ञाति ।
य ए॒वव्ँ वेद॑ ।
स वा ए॒ष पव॑मान ए॒व ॥39॥
अथ॒ यदु॑त्तर॒तो वाति॑ ।
स॒वि॒तैव भू॒त्त्वोत्त॑र॒तो वा॑ति ।
स॒वि॒तेव॒ स्वाना॑म्भवति ।
य ए॒वव्ँ वेद॑ ।
स वा ए॒ष स॑वि॒तैव ।
ते य ए॑नम्पु॒रस्ता॑दा॒यन्त॑मुप॒वद॑न्ति ।
य ए॒वास्य॑ पु॒रस्ता॑त्पा॒प्मानः॑ ।
ताँस्तेऽप॑घ्नन्ति ।
पु॒रस्ता॒दित॑रान्पा॒प्मन॑स्सचन्ते ।
अथ॒ य ए॑नन्दक्षिण॒त आ॒यन्त॑मुप॒वद॑न्ति ॥40॥
य ए॒वास्य॑ दक्षिण॒तᳶ पा॒प्मानः॑ ।
ताँस्तेऽप॑घ्नन्ति ।
द॒क्षि॒ण॒त इत॑रान्पा॒प्मन॑स्सचन्ते ।
अथ॒ य ए॑नम्प॒श्चादा॒यन्त॑मुप॒वद॑न्ति ।
य ए॒वास्य॑ प॒श्चात्पा॒प्मानः॑ ।
ताँस्तेऽप॑घ्नन्ति ।
प॒श्चादित॑रान्पा॒प्मन॑स्सचन्ते ।
अथ॒ य ए॑नमुत्तर॒त आ॒यन्त॑मुप॒वद॑न्ति ।
य ए॒वास्यो॑त्तर॒तᳶ पा॒प्मानः॑ ।
ताँस्तेऽप॑घ्नन्ति ॥41॥
उ॒त्त॒र॒त इत॑रान्पा॒प्मन॑स्सचन्ते ।
तस्मा॑दे॒वव्ँ वि॒द्वान् ।
वीव॑ नृत्येत् ।
प्रेव॑ चलेत् ।
व्यस्ये॑वा॒क्ष्यौ भा॑षेत ।
म॒ण्टये॑दिव ।
क्रा॒थये॑दिव ।
शृ॒ङ्गा॒येते॑व ।
उ॒त मोप॑वदेयुः ।
उ॒त मे॑ पा॒प्मान॒मप॑हन्यु॒रिति॑ ।
स यान्दिशँ॑ स॒निमे॒ष्यन्त्स्यात् ।
य॒दा तान्दिशव्ँ॒वातो॑ वा॒यात् ।
अथ॒ प्रवे॒यात् ।
प्र वा॑ धावयेत् ।
सा॒तमे॒व र॑दि॒तव्व्ँयू॑ढङ्ग॒न्धम॒भिप्रच्य॑वते ।
आऽस्य॒ तञ्ज॑नप॒दम्पूर्वा॑ की॒र्तिर्ग॑च्छति ।
दान॑कामा अस्मै प्र॒जा भ॑वन्ति ।
य ए॒वव्ँ वेद॑ ॥42॥
प्र॒जाप॑ति॒स्सोमँ॒ राजा॑नमसृजत ।
तन्त्रयो॒ वेदा॒ अन्व॑सृज्यन्त ।
तान् हस्ते॑ऽकुरुत ।
अथ॒ ह सीता॑ सावि॒त्री ।
सोमँ॒ राजा॑नञ्चकमे ।
श्र॒द्धामु॒ स च॑कमे ।
साऽऽह॑ पि॒तर॑म्प्र॒जाप॑ति॒मुप॑ससार ।
तँ हो॑वाच ।
नम॑स्ते अस्तु भगवः ।
उप॑ त्वाऽयानि ॥43॥
प्र त्वा॑ पद्ये ।
सोमव्ँ॒ वै राजा॑नङ्कामये ।
श्र॒द्धामु॒ स का॑मयत॒ इति॑ ।
तस्या॑ उ॒ ह स्था॑ग॒रम॑लङ्का॒रङ्क॑ल्पयि॒त्वा ।
दश॑होतारम्पु॒रस्ता॑द्व्या॒ख्याय॑ ।
चतु॑र्होतारन्दक्षिण॒तः ।
पञ्च॑होतारम्प॒श्चात् ।
षड्ढो॑तारमुत्तर॒तः ।
स॒प्तहो॑तारमु॒परि॑ष्टात् ।
स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॑ ॥44॥
आऽस्यार्धव्ँव॑व्राज ।
ताँ हो॒दीक्ष्यो॑वाच ।
उप॒ मा व॑र्त॒स्वेति॑ ।
तँ हो॑वाच ।
भोग॒न्तु म॒ आच॑क्ष्व ।
ए॒तन्म॒ आच॑क्ष्व ।
यत्ते॑ पा॒णाविति॑ ।
तस्या॑ उ॒ ह त्रीन् वेदा॒न्प्रद॑दौ ।
तस्मा॒दुह॒ स्त्रियो॒ भोग॒मैव हा॑रयन्ते ।
स यᳵ का॒मये॑त प्रि॒यस्स्या॒मिति॑ ॥45॥
यव्ँ वा का॒मये॑त प्रि॒यस्स्या॒दिति॑ ।
तस्मा॑ ए॒तँ स्था॑ग॒रम॑लङ्का॒रङ्क॑ल्पयि॒त्वा ।
दश॑होतारम्पु॒रस्ता॑द्व्या॒ख्याय॑ ।
चतु॑र्होतारन्दक्षिण॒तः ।
पञ्च॑होतारम्प॒श्चात् ।
षड्ढो॑तारमुत्तर॒तः ।
स॒प्तहो॑तारमु॒परि॑ष्टात् ।
स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॑ ।
आस्यार्धव्व्ँर॑जेत् ।
प्रि॒यो है॒व भ॑वति ॥46॥
ब्रह्मा॑त्म॒न्वद॑सृजत ।
तद॑कामयत ।
समा॒त्मना॑ पद्ये॒येति॑ ।
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत ।
तस्मै॑ दश॒मँ हू॒तᳶ प्रत्य॑शृणोत् ।
स दश॑हूतोऽभवत् ।
दश॑हूतो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तन्दश॑हूतँ॒ सन्त॑म् ।
दश॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण ।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥47॥
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत ।
तस्मै॑ सप्त॒मँ हू॒तᳶ प्रत्य॑शृणोत् ।
स स॒प्तहू॑तोऽभवत् ।
स॒प्तहू॑तो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तँ स॒प्तहू॑तँ॒ सन्त॑म् ।
स॒प्तहो॒तेत्याच॑क्षते प॒रोक्षे॑ण ।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत ।
तस्मै॑ ष॒ष्ठँ हू॒तᳶ प्रत्य॑शृणोत् ।
स षड्ढू॑तोऽभवत् ॥48॥
षड्ढू॑तो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तँ षड्ढू॑तँ॒ सन्त॑म् ।
षड्ढो॒तेत्याच॑क्षते प॒रोक्षे॑ण ।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत ।
तस्मै॑ पञ्च॒मँ हू॒तᳶ प्रत्य॑शृणोत् ।
स पञ्च॑हूतोऽभवत् ।
पञ्च॑हूतो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तम्पञ्च॑हूतँ॒ सन्त॑म् ।
पञ्च॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण ॥49॥
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत ।
तस्मै॑ चतु॒र्थँ हू॒तᳶ प्रत्य॑शृणोत् ।
स चतु॑र्हूतोऽभवत् ।
चतु॑र्हूतो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तञ्चतु॑र्हूतँ॒ सन्त॑म् ।
चतु॑र्हो॒तेत्याच॑क्षते प॒रोक्षे॑ण ।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
तम॑ब्रवीत् ।
त्वव्ँ वै मे॒ नेदि॑ष्ठँ हू॒तᳶ प्रत्य॑श्रौषीः ।
त्वयै॑नानाख्या॒तार॒ इति॑ ।
तस्मा॒न्नु है॑नाँ॒श्चतु॑र्होतार॒ इत्याच॑क्षते ।
तस्मा॑च्छुश्रू॒षुᳶ पु॒त्राणाँ॒ हृद्य॑तमः ।
नेदि॑ष्ठो॒ हृद्य॑तमः ।
नेदि॑ष्ठो॒ ब्रह्म॑णो भवति ।
य ए॒वव्ँ वेद॑ ॥50॥
जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒णे ।
इ॒मन्नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् ।
विश्वा॑ अग्नेऽभि॒युजो॑ वि॒हत्य॑ ।
श॒त्रू॒य॒तामा भ॑रा॒ भोज॑नानि ।
अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय ।
तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु ।
सञ्जा॑स्प॒त्यँ सु॒यम॒मा कृ॑णुष्व ।
श॒त्रू॒य॒ताम॒भि ति॑ष्ठा॒ महाँ॑ सि ।
अग्ने॒ यो नो॒ऽभितो॒ जनः॑ ।
वृको॒ वारो॒ जिघाँ॑सति ॥1॥
ताँस्त्वव्ँ वृ॑त्रहञ्जहि ।
वस्व॒स्मभ्य॒माभ॑र ।
अग्ने॒ यो नो॑ऽभि॒दास॑ति ।
स॒मा॒नो यश्च॒ निष्ट्यः॑ ।
इ॒ध्मस्ये॑व प्र॒क्षाय॑तः ।
मा तस्योच्छे॑षि॒ किञ्च॒न ।
त्वमि॑न्द्राभि॒भूर॑सि ।
दे॒वो विज्ञा॑तवीर्यः ।
वृ॒त्र॒हा पु॑रु॒चेत॑नः ।
अप॒ प्राच॑ इन्द्र॒ विश्वाँ॑ अ॒मित्रा॑न् ॥2॥
अपापा॑चो अभिभूते नुदस्व ।
अपोदी॑चो॒ अप॑शूराध॒रा च॑ ऊ॒रौ ।
यथा॒ तव॒ शर्म॒न्मदे॑म ।
तमिन्द्रव्ँ॑वाजयामसि ।
म॒हे वृ॒त्राय॒ हन्त॑वे ।
स वृषा॑ वृष॒भो भु॑वत् ।
यु॒जे रथ॑ङ्ग॒वेष॑णँ॒ हरि॑भ्याम् ।
उप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः ।
विबा॑धिष्टा॒स्य रोद॑सी महि॒त्वा ।
इन्द्रो॑ वृ॒त्राण्य॑प्र॒तीज॑घ॒न्वान् ॥3॥
ह॒व्य॒वाह॑मभिमाति॒षाह॑म् ।
र॒क्षो॒हण॒म्पृत॑नासु जि॒ष्णुम् ।
ज्योति॑ष्मन्त॒न्दीद्य॑त॒म्पुर॑न्धिम् ।
अ॒ग्निँ स्वि॑ष्ट॒कृत॒मा हु॑वेम ।
स्वि॑ष्टमग्ने अ॒भि तत्पृ॑णाहि ।
विश्वा॑ देव॒ पृत॑ना अ॒भिष्य ।
उ॒रुन्न॒ᳶ पन्था॑म्प्रदि॒शन्विभा॑हि ।
ज्योति॑ष्मद्धेह्य॒जर॑न्न॒ आयुः॑ ।
त्वाम॑ग्ने ह॒विष्म॑न्तः ।
दे॒वम्मर्ता॑स ईडते ॥4॥
मन्ये॑ त्वा जा॒तवे॑दसम् ।
स ह॒व्या व॑क्ष्यानु॒षक् ।
विश्वा॑नि नो दु॒र्गहा॑ जातवेदः ।
सिन्धु॒न्न ना॒वा दु॑रि॒ताऽति॑पर्षि ।
अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नः ।
अ॒स्माक॑म्बोध्यवि॒ता त॒नूना॑म् ।
पू॒षा गा अन्वे॑तु नः ।
पू॒षा र॑क्ष॒त्वर्व॑तः ।
पू॒षा वाजँ॑ सनोतु नः ।
पू॒षेमा आशा॒ अनु॑वेद॒ सर्वाः॑ ॥5॥
सो अ॒स्माँ अभ॑यतमेन नेषत् ।
स्व॒स्ति॒दा अघृ॑णि॒स्सर्व॑वीरः ।
अप्र॑युच्छन्पु॒र ए॑तु॒ प्रजा॒नन् ।
त्वम॑ग्ने स॒प्रथा॑ असि ।
जुष्टो॒ होता॒ वरे॑ण्यः ।
त्वया॑ य॒ज्ञव्ँ वित॑न्वते ।
अ॒ग्नी रक्षाँ॑सि सेधति ।
शु॒क्रशो॑चि॒रम॑र्त्यः ।
शुचि॑ᳶ पाव॒क ईड्यः॑ ।
अग्ने॒ रक्षा॑ णो॒ अँह॑सः ॥ 6॥
प्रति॑ ष्म देव॒ रीष॑तः ।
तपि॑ष्ठैर॒जरो॑ दह ।
अग्ने॒ हँसि॒ न्य॑त्रिण॑म् ।
दीद्य॒न्मर्त्ये॒ष्वा ।
स्वे क्षये॑ शुचिव्रत ।
आ वा॑त वाहि भेष॒जम् ।
वि वा॑त वाहि॒ यद्रपः॑ ।
त्वँ हि वि॒श्वभे॑षजः ।
दे॒वाना॑न्दू॒त ईय॑से ।
द्वावि॒मौ वातौ॑ वातः ॥7॥
आ सिन्धो॒रा प॑रा॒वतः॑ ।
दक्ष॑म्मे अ॒न्य आ॒वातु॑ ।
परा॒न्यो वा॑तु॒ यद्रपः॑ ।
यद॒दो वा॑त ते गृ॒हे ।
अ॒मृत॑स्य नि॒धिर्हि॒तः ।
ततो॑ नो देहि जी॒वसे॑ ।
ततो॑ नो धेहि भेष॒जम् ।
ततो॑ नो॒ मह॒ आव॑ह ।
वात॒ आवा॑तु भेष॒जम् ।
श॒म्भूर्म॑यो॒भूर्नो॑ हृ॒दे ॥8॥
प्र ण॒ आयूँ॑षि तारिषत् ।
त्वम॑ग्ने अ॒यासि॑ ।
अ॒या सन्मन॑सा हि॒तः ।
अ॒या सन् ह॒व्यमू॑हिषे ।
अ॒या नो॑ धेहि भेष॒जम् ।
इ॒ष्टो अ॒ग्निराहु॑तः ।
स्वाहा॑कृतᳶ पिपर्तु नः ।
स्व॒गा दे॒वेभ्य॑ इ॒दन्नमः॑ ।
कामो॑ भू॒तस्य॒ भव्य॑स्य ।
स॒म्राडेको॒ विरा॑जति ॥9॥
स इ॒दम्प्रति॑ पप्रथे ।
ऋ॒तूनुत्सृ॑जते व॒शी ।
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ ।
मन॑सो॒ रेत॑ᳶ प्रथ॒मय्ँयदासी॑त् ।
स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् ।
हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ।
त्वया॑ मन्यो स॒रथ॑मारु॒जन्तः॑ ।
हर्ष॑माणासो धृष॒ता म॑रुत्वः ।
ति॒ग्मेष॑व॒ आयु॑धा सँ॒शिशा॑नाः ।
उप॒प्रय॑न्ति॒ नरो॑ अ॒ग्निरू॑पाः ॥10॥
म॒न्युर्भगो॑ म॒न्युरे॒वास॑ दे॒वः ।
म॒न्युर्होता॒ वरु॑णो वि॒श्ववे॑दाः ।
म॒न्युव्ँ विश॑ ईडते देव॒यन्तीः॑ ।
पा॒हि नो॑ मन्यो॒ तप॑सा॒ श्रमे॑ण ।
त्वम॑ग्ने व्रत॒भृच्छुचिः॑ ।
दे॒वाँ आसा॑दया इ॒ह ।
अग्ने॑ ह॒व्याय॒ वोढ॑वे ।
व्र॒तानुबिभ्र॑द्व्रत॒पा अदा॑भ्यः ।
यजा॑ नो दे॒वाँ अ॒जर॑स्सु॒वीरः॑ ।
दध॒द्रत्ना॑नि सुविदा॒नो अ॑ग्ने ।
गो॒पा॒य नो॑ जी॒वसे॑ जातवेदः ॥11॥
चक्षु॑षो हेते॒ मन॑सो हेते ।
वाचो॑ हेते॒ ब्रह्म॑णो हेते ।
यो मा॑ऽघा॒युर॑भि॒दास॑ति ।
तम॑ग्ने मे॒न्या मे॒निङ्कृ॑णु ।
यो मा॒ चक्षु॑षा॒ यो मन॑सा ।
यो वा॒चा ब्रह्म॑णाऽघा॒युर॑भि॒दास॑ति ।
तया॑ऽग्ने॒ त्वम्मे॒न्या ।
अ॒मुम॑मे॒निङ्कृ॑णु ।
यत्किञ्चा॒सौ मन॑सा॒ यच्च॑ वा॒चा ।
य॒ज्ञैर्जु॒होति॒ यजु॑षा ह॒विर्भिः॑ ॥12॥
तन्मृ॒त्युर्निर्ऋ॑त्या सव्ँ विदा॒नः ।
पु॒रादि॒ष्टादाहु॑तीरस्य हन्तु ।
या॒तु॒धाना॒ निर्ऋ॑ति॒रादु॒रक्षः॑ ।
ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम् ।
इन्द्रे॑षिता॒ आज्य॑मस्य मथ्नन्तु ।
मा तत्समृ॑द्धि॒ यद॒सौ क॒रोति॑ ।
हन्मि॑ ते॒ऽहङ्कृ॒तँ ह॒विः ।
यो मे॑ घो॒रमची॑कृतः ।
अपा॑ञ्चौ त उ॒भौ बा॒हू ।
अप॑नह्याम्या॒स्य॑म् ॥13॥
अप॑नह्यामि ते बा॒हू ।
अप॑नह्याम्या॒स्य॑म् ।
अ॒ग्नेर्दे॒वस्य॒ ब्रह्म॑णा ।
सर्व॑न्तेऽवधिषङ्कृ॒तम् ।
पु॒राऽमुष्य॑ वषट्का॒रात् ।
य॒ज्ञन्दे॒वेषु॑ नस्कृधि ।
स्वि॑ष्टम॒स्माक॑म्भूयात् ।
माऽस्मान्प्राप॒न्नरा॑तयः ।
अन्ति॑ दू॒रे स॒तो अ॑ग्ने ।
भ्रातृ॑व्यस्याभि॒दास॑तः ॥14॥
व॒ष॒ट्का॒रेण॒ वज्रे॑ण ।
कृ॒त्याँ ह॑न्मि कृ॒ताम॒हम् ।
यो मा॒ नक्त॒न्दिवा॑ सा॒यम् ।
प्रा॒तश्चाह्नो॑ नि॒पीय॑ति ।
अ॒द्या तमि॑न्द्र॒ वज्रे॑ण ।
भातृ॑व्यम्पादयामसि ।
इन्द्र॑स्य गृ॒हो॑ऽसि॒ तन्त्वा॑ ।
प्रप॑द्ये॒ सगु॒स्साश्वः॑ ।
स॒ह यन्मे॒ अस्ति॒ तेन॑ ।
ईडे॑ अ॒ग्निव्ँ वि॑प॒श्चित॑म् ॥15॥
गि॒रा य॒ज्ञस्य॒ साध॑नम् ।
श्रु॒ष्टी॒वान॑न्धि॒तावा॑नम् ।
अग्ने॑ श॒केम॑ ते व॒यम् ।
यम॑न्दे॒वस्य॑ वा॒जिनः॑ ।
अति॒ द्वेषाँ॑सि तरेम ।
अव॑तम्मा॒ सम॑नसौ॒ समो॑कसौ ।
सचे॑तसौ॒ सरे॑तसौ ।
उ॒भौ माम॑वतञ्जातवेदसौ ।
शि॒वौ भ॑वतम॒द्य नः॑ ।
स्व॒यङ्कृ॑ण्वा॒नस्सु॒गमप्र॑यावम् ॥16॥
ति॒ग्मशृ॑ङ्गो वृष॒भश्शोशु॑चानः ।
प्र॒त्नँ स॒धस्थ॒मनु॒पश्य॑मानः ।
आ तन्तु॑म॒ग्निर्दि॒व्यन्त॑तान ।
त्वन्न॒स्तन्तु॑रु॒त सेतु॑रग्ने ।
त्वम्पन्था॑ भवसि देव॒यानः॑ ।
त्वया॑ऽग्ने पृ॒ष्ठव्ँव॒यमारु॑हेम ।
अथा॑ दे॒वैस्स॑ध॒माद॑म्मदेम ।
उदु॑त्त॒मम्मु॑मुग्धि नः ।
वि पाश॑म्मध्य॒मञ्चृ॑त ।
अवा॑ध॒मानि॑ जी॒वसे॑ ॥ 17॥
व॒यँ सो॑म व्र॒ते तव॑ ।
मन॑स्त॒नूषु॒ बिभ्र॑तः ।
प्र॒जाव॑न्तो अशीमहि ।
इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी॑ ।
उदँशे॑न पति॒विद्ये॑ जिगाय ।
त्रिँ॒शद॑स्या ज॒घनय्ँ॒योज॑नानि ।
उ॒पस्थ॒ इन्द्रँ॒ स्थवि॑रम्बिभर्ति ।
सेना॑ ह॒ नाम॑ पृथि॒वी ध॑नञ्ज॒या ।
वि॒श्वव्य॑चा॒ अदि॑ति॒स्सूर्य॑त्वक् ।
इ॒न्द्रा॒णी दे॒वी प्रा॒सहा॒ ददा॑ना ॥18॥
सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु ।
आत्वा॑ऽहार्षम॒न्तर॑भूः ।
ध्रु॒वस्ति॒ष्ठावि॑चाचलिः ।
विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु ।
मा त्वद्रा॒ष्ट्रमधि॑भ्रशत् ।
ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ।
ध्रु॒वव्ँ विश्व॑मि॒दञ्जग॑त् ।
ध्रु॒वा ह॒ पर्व॑ता इ॒मे ।
ध्रु॒वो राजा॑ वि॒शाम॒यम् ।
इ॒हैवैधि॒ मा व्य॑थिष्ठाः ॥19॥
पर्व॑त इ॒वावि॑चाचलिः ।
इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठ ।
इ॒ह रा॒ष्ट्रमु॑ धारय ।
अ॒भिति॑ष्ठ पृतन्य॒तः ।
अध॑रे सन्तु॒ शत्र॑वः ।
इन्द्र॑ इव वृत्र॒हा ति॑ष्ठ ।
अ॒पः क्षेत्रा॑णि स॒ञ्जय॑न् ।
इन्द्र॑ एणमदीधरत् ।
ध्रु॒वन्ध्रु॒वेण॑ ह॒विषा॑ ।
तस्मै॑ दे॒वा अधि॑ब्रवन् ।
अ॒यञ्च॒ ब्रह्म॑ण॒स्पतिः॑ ॥20॥
जुष्टी॑ नरो॒ ब्रह्म॑णा वᳶ पितृ॒णाम् ।
अक्ष॑मव्यय॒न्न किला॑रिषाथ ।
यच्छक्व॑रीषु बृह॒ता रवे॑ण ।
इन्द्रे॒ शुष्म॒मद॑धाथा वसिष्ठाः ।
पा॒व॒का न॒स्सर॑स्वती ।
वाजे॑भिर्वा॒जिनी॑वती ।
य॒ज्ञव्ँव॑ष्टु धि॒या व॑सुः ।
सर॑स्वत्य॒भिनो॑नेषि॒ वस्यः॑ ।
मा प॑स्फरी॒ᳶ पय॑सा॒ मा न॒ आध॑क् ।
जु॒षस्व॑ नस्स॒ख्या॑ वे॒श्या॑ च ॥21॥
मा त्वक्षेत्रा॒ण्यर॑णानि गन्म ।
वृ॒ञ्जे ह॒विर्नम॑सा ब॒र्हिर॒ग्नौ ।
अया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः ।
अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्याः ।
अश्रा॑यि य॒ज्ञस्सूर्ये॒ न चक्षुः॑ ।
इ॒हार्वाञ्च॒मति॑ ह्वये ।
इन्द्र॒ञ्जैत्रा॑य॒ जेत॑वे ।
अ॒स्माक॑मस्तु॒ केव॑लः ।
अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे ।
यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः ॥22॥
इ॒मन्नो॑ य॒ज्ञव्ँ वि॑ह॒वे जु॑षस्व ।
अ॒स्य कु॑र्मो हरिवो मे॒दिन॑न्त्वा ।
अस॑म्मृष्टो जायसे मातृ॒वोश्शुचिः॑ ।
म॒न्द्रᳵ क॒विरुद॑तिष्ठो॒ विव॑स्वतः ।
घृ॒तेन॑ त्वाऽवर्धयन्नग्न आहुत ।
धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः ।
अ॒ग्निरग्रे॑ प्रथ॒मो दे॒वता॑नाम् ।
सय्ँ या॑तानामुत्त॒मो विष्णु॑रासीत् ।
यज॑मानाय परि॒गृह्य॑ दे॒वान् ।
दी॒क्षये॒दँ ह॒विरा ग॑च्छतन्नः ॥23॥
अ॒ग्निश्च॑ विष्णो॒ तप॑ उत्त॒मम्म॒हः ।
दी॒क्षा॒पा॒लेभ्यो॒ऽवन॑तँ॒ हि श॑क्रा ।
विश्वै॑र्दे॒वैर्य॒ज्ञियै॑स्सव्ँ विदा॒नौ ।
दी॒क्षाम॒स्मै यज॑मानाय धत्तम् ।
प्र तद्विष्णु॑स्स्तवते वी॒र्या॑य ।
मृ॒गो न भी॒मᳵ कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु ।
अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ।
नूमर्तो॑ दयते सनि॒ष्यन् यः ।
विष्ण॑व उरुगा॒याय॒ दाश॑त् ॥24॥
प्र यस्स॒त्राचा॒ मन॑सा॒ यजा॑तै ।
ए॒ताव॑न्त॒न्नर्य॑मा॒ विवा॑सात् ।
विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् ।
क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् ।
ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः ।
उ॒रु॒क्षि॒तिँ सु॒जनि॑मा चकार ।
त्रिर्दे॒वᳶ पृ॑थि॒वीमे॒ष ए॒ताम् ।
विच॑क्रमे श॒तर्च॑सम्महि॒त्वा ।
प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान् ।
त्वे॒षँ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥25॥
होता॑रञ्चि॒त्रर॑थमध्व॒रस्य॑ ।
य॒ज्ञस्य॑यज्ञस्य के॒तुँ रुश॑न्तम् ।
प्रत्य॑र्धिन्दे॒वस्य॑देवस्य म॒ह्ना ।
श्रि॒या त्व॑ग्निमति॑थि॒ञ्जना॑नाम् ।
आ नो॒ विश्वा॑भिरू॒तिभि॑स्स॒जोषाः॑ ।
ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि ।
वरी॑वृज॒त्स्थवि॑रेभिस्सुशिप्र ।
अ॒स्मे दध॒द्वृष॑णँ॒ शुष्म॑मिन्द्र ।
इन्द्र॑स्सुव॒र्षा ज॒नय॒न्नहा॑नि ।
जि॒गायो॒शिग्भि॒ᳶ पृत॑ना अभि॒श्रीः ॥26॥
प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॑म् ।
अवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य ।
अश्वि॑ना॒वव॑से॒ निह्व॑ये वाम् ।
आ नू॒नय्ँ या॑तँ सुकृ॒ताय॑ विप्रा ।
प्रा॒त॒र्यु॒क्तेन॑ सु॒वृता॒ रथे॑न ।
उ॒पाग॑च्छत॒मव॒साग॑तन्नः ।
अ॒वि॒ष्टन्धी॒ष्वश्वि॑ना न आ॒सु ।
प्र॒जाव॒द्रेतो॒ अह्र॑यन्नो अस्तु ।
आवा॑न्तो॒के तन॑ये॒ तूतु॑जानाः ।
सु॒रत्ना॑सो दे॒ववी॑तिङ्गमेम ॥27॥
त्वँ सो॑म॒ क्रतु॑भिस्सु॒क्रतु॑र्भूः ।
त्वदन्दक्षै॑स्सु॒दक्षो॑ वि॒श्ववे॑दाः ।
त्वव्ँ वृषा॑ वृष॒त्वेभि॑र्महि॒त्वा ।
द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चक्षाः॑ ।
अषा॑ढय्ँ यु॒त्सु पृत॑नासु॒ पप्रि॑म् ।
सु॒व॒र्षाम॒प्स्वाव्ँ वृ॒जन॑स्य गो॒पाम् ।
भ॒रे॒षु॒जाँ सु॑क्षि॒तिँ सु॒श्रव॑सम् ।
जय॑न्त॒न्त्वामनु॑मदेम सोम ।
भवा॑ मि॒त्रो न शेव्यो॑ घृ॒तासु॑तिः ।
विभू॑तद्युम्न एव॒ या उ॑ स॒प्रथाः॑ ॥28॥
अधा॑ ते विष्णो वि॒दुषा॑ चि॒दृध्यः॑ ।
स्तोमो॑ य॒ज्ञस्य॒ राध्यो॑ ह॒विष्म॑तः ।
यᳶ पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे ।
सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति ।
यो जा॒तम॒स्य म॑ह॒तो म॒हि ब्रवा॑त् ।
सेदु॒ श्रवो॑भिर्यु॒ज्य॑ञ्चिद॒भ्य॑सत् ।
तमु॑ स्तोतारᳶ पू॒र्व्यय्ँयथा॑ वि॒द ऋ॒तस्य॑ ।
गर्भँ॑ ह॒विषा॑ पिपर्तन ।
आऽस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन ।
बृ॒हत्ते॑ विष्णो सुम॒तिम्भ॑जामहे ॥29॥
इ॒मा धा॒ना घृ॑त॒स्नुवः॑ ।
हरी॑ इ॒होप॑वक्षतः ।
इन्द्रँ॑ सु॒खत॑मे॒ रथे॑ ।
ए॒ष ब्र॒ह्मा प्रते॑म॒हे ।
वि॒दथे॑ शँसिषँ॒ हरी॑ ।
य ऋ॒त्विय॒ᳶ प्रते॑ वन्वे ।
व॒नुषो॑ हर्य॒तम्मद॑म् ।
इन्द्रो॒ नाम॑ घृ॒तन्नयः ।
हरि॑भि॒श्चारु॒ सेच॑ते ।
श्रु॒तो ग॒ण आ त्वा॑ विशन्तु ॥30॥
हरि॑वर्पस॒ङ्गिरः॑ ।
आच॑र्षणि॒प्रा वृ॑ष॒भो जना॑नाम् ।
राजा॑ कृष्टी॒नाम्पु॑रुहू॒त इन्द्रः॑ ।
स्तु॒तश्र॑व॒स्यन्नव॒सोप॑म॒द्रिक् ।
यु॒क्त्वा हरी॒ वृष॒णाया॑ह्य॒र्वाङ् ।
प्र यत्सिन्ध॑वᳶ प्रस॒वय्ँयदाय॑न् ।
आप॑स्समु॒द्रँ र॒थ्ये॑व जग्मुः ।
अत॑श्चि॒दिन्द्र॒स्सद॑सो॒ वरी॑यान् ।
यदीँ॒ सोम॑ᳶ पृ॒णति॑ दु॒ग्धो अँ॒शुः ।
ह्वया॑मसि॒ त्वेन्द्र॑ या॒ह्य॑र्वाङ् ॥31॥
अर॑न्ते॒ सोम॑स्त॒नुवे॑ भवाति ।
शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॑ ।
प्रास्माँ अ॑व॒ पृत॑नासु॒ प्रयु॒त्सु ।
इन्द्रा॑य॒ सोमा॑ᳶ प्र॒दिवो॒ विदा॑नाः ।
ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः ।
प्र॒य॒म्यमा॑णा॒न्प्रति॒ षू गृ॑भाय ।
इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ।
अहे॑डमान॒ उप॑याहि य॒ज्ञम् ।
तुभ्य॑म्पवन्त॒ इन्द॑वस्सु॒तासः॑ ।
गावो॒ न व॑ज्रिन्त्स्व॒मोको॒ अच्छ॑ ॥32॥
इन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया॑नाम् ।
या ते॑ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा ।
यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् ।
तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्थात् ।
सन्ते॒ वज्रो॑ वर्ततामिन्द्र ग॒व्युः ।
प्रा॒त॒र्युजा॒ वि बो॑धय ।
अश्वि॑ना॒वेह ग॑च्छतम् ।
अ॒स्य सोम॑स्य पी॒तये॑ ।
प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वम् ।
पु॒रा गृध्रा॒दर॑रुषᳶ पिबाथः ।
प्रा॒तर्हि य॒ज्ञम॒श्विना॒ दधा॑ते ।
प्रशँ॑सन्ति क॒वय॑ᳶ पूर्व॒भाजः॑ ।
प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत ।
न सा॒यम॑स्ति देव॒या अजु॑ष्टम् ।
उ॒तान्यो अ॒स्मद्य॑जते॒ विचा॑यः ।
पूर्व॑ᳶपूर्वो॒ यज॑मानो॒ वनी॑यान् ॥33॥
न॒क्त॒ञ्जा॒ताऽस्यो॑षधे ।
रामे॒ कृष्णे॒ असि॑क्नि च ।
इ॒दँ र॑जनि रजय ।
कि॒लास॑म्पलि॒तञ्च॒ यत् ।
कि॒लास॑ञ्च पलि॒तञ्च॑ ।
निरि॒तो ना॑शया॒ पृष॑त् ।
आ न॒स्स्वो अ॑श्ञुताव्ँ॒वर्णः॑ ।
परा॑ श्वे॒तानि॑ पातय ।
असि॑तन्ते नि॒लय॑नम् ।
आ॒स्थान॒मसि॑त॒न्तव॑ ॥34॥
असि॑क्नियस्योषधे ।
निरि॒तो ना॑शया॒ पृष॑त् ।
अ॒स्थि॒जस्य॑ कि॒लास॑स्य ।
त॒नू॒जस्य॑ च॒ यत्त्व॒चि ।
कृ॒त्यया॑ कृ॒तस्य॒ ब्रह्म॑णा ।
लक्ष्म॑ श्वे॒तम॑नीनशम् ।
सरू॑पा॒ नाम॑ ते मा॒ता ।
सरू॑पो॒ नाम॑ ते पि॒ता ।
सरू॑पाऽस्योषधे॒ सा ।
सरू॑पमि॒दङ्कृ॑धि ॥35॥
शु॒नँ हु॑वेम म॒घवा॑न॒मिन्द्र॑म् ।
अ॒स्मिन्भरे॒ नृत॑मव्ँ॒वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॑ ।
घ्नन्तव्ँ॑ वृ॒त्राणि॑ स॒ञ्जित॒न्धना॑नाम् ।
धू॒नु॒थ द्याम्पर्व॑तान्दा॒शुषे॒ वसु॑ ।
नि वो॒ वना॑ जिहते॒ याम॑ नो भि॒या ।
को॒पय॑थ पृथि॒वीम्पृ॑श्ञिमातरः ।
यु॒धे यदु॑ग्रा॒ᳶ पृष॑ती॒रयु॑ग्ध्वम् ।
प्रवे॑पयन्ति॒ पर्व॑तान् ।
विवि॑ञ्चन्ति॒ वन॒स्पती॑न् ॥36॥
प्रोवा॑रत मरुतो दु॒र्मदा॑ इव ।
देवा॑स॒स्सर्व॑या वि॒शा ।
पु॒रु॒त्रा हि स॒दृङ्ङसि॑ ।
विशो॒ विश्वा॒ अनु॑ प्र॒भु ।
स॒मत्सु॑ त्वा हवामहे ।
स॒मत्स्व॒ग्निमव॑से ।
वा॒ज॒यन्तो॑ हवामहे ।
वाजे॑षु चि॒त्ररा॑धसम् ।
सङ्ग॑च्छध्वँ॒ सव्ँव॑दध्वम् ।
सव्ँ वो॒ मनाँ॑सि जानताम् ॥37॥
दे॒वा भा॒गय्ँयथा॒ पूर्वे॑ ।
स॒ञ्जा॒ना॒ना उ॒पास॑त ।
स॒मा॒नो मन्त्र॒स्समि॑तिस्समा॒नी ।
स॒मा॒नम्मन॑स्स॒ह चि॒त्तमे॑षाम् ।
स॒मा॒नङ्केतो॑ अ॒भि सँर॑भध्वम् ।
सं॒ज्ञाने॑न वो ह॒विषा॑ यजामः ।
स॒मा॒नी व॒ आकू॑तिः ।
स॒मा॒ना हृद॑यानि वः ।
स॒मा॒नम॑स्तु वो॒ मनः॑ ।
यथा॑ व॒स्सुस॒हास॑ति ॥38॥
सं॒ज्ञान॑न्न॒स्स्वैः ।
सं॒ज्ञान॒मर॑णैः ।
सं॒ज्ञान॑मश्विना यु॒वम् ।
इ॒हास्मासु॒ निय॑च्छतम् ।
सं॒ज्ञान॑म्मे॒ बृह॒स्पतिः॑ ।
सं॒ज्ञानँ॑ सवि॒ता क॑रत् ।
सं॒ज्ञान॑मश्विना यु॒वम् ।
इ॒ह मह्य॒न्नि य॑च्छतम् ।
उप॑ च्छा॒यामि॑व॒ घृणेः॑ ।
अग॑न्म॒ शर्म॑ ते व॒यम् ॥39॥
अग्ने॒ हिर॑ण्यसन्दृशः ।
अद॑ब्धेभिस्सवितᳶ पा॒युभि॒ष्ट्वम् ।
शि॒वेभि॑र॒द्य परि॑पाहि नो॒ गय॑म् ।
हिर॑ण्यजिह्वस्सुवि॒ताय॒ नव्य॑से ।
रक्षा॒ माकि॑र्नो अ॒घशँ॑स ईशत ।
मदे॑मदे॒ हि नो॑ द॒दुः ।
यू॒था गवा॑मृजु॒क्रतुः॑ ।
सङ्गृ॑भाय पु॒रूश॒ता ।
उ॒भ॒या ह॒स्त्या वसु॑ ।
शि॒शी॒हि रा॒य आभ॑र ॥ 40॥
शिप्रि॑न्वाजानाम्पते ।
शची॑व॒स्तव॑ दँ॒सना॑ ।
आ तू न॑ इन्द्र भाजय ।
गोष्वश्वे॑षु शु॒भ्रुषु॑ ।
स॒हस्रे॑षु तुवीमघ ।
यद्दे॑वा देव॒हेड॑नम् ।
देवा॑सश्चकृ॒मा व॒यम् ।
आदि॑त्या॒स्तस्मा॑न्मा यू॒यम् ।
ऋ॒तस्य॒र्तेन॑ मुञ्चत ।
ऋ॒तस्य॒र्तेना॑दित्याः ॥41॥
यज॑त्रा मु॒ञ्चते॒ह मा॑ ।
य॒ज्ञैर्वो॑ यज्ञवाहसः ।
आ॒शिक्ष॑न्तो॒ न शे॑किम ।
मेद॑स्वता॒ यज॑मानाः ।
स्रु॒चाऽऽज्ये॑न॒ जुह्व॑तः ।
अ॒का॒मा वो॑ विश्वेदेवाः ।
शिक्ष॑न्तो॒ नोप॑शेकिम ।
यदि॒ दिवा॒ यदि॒ नक्त॑म् ।
एन॑ एन॒स्योक॑रत् ।
भू॒तम्मा॒ तस्मा॒द्भव्य॑ञ्च ॥42॥
द्रु॒प॒दादि॑व मुञ्चतु ।
द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः ।
स्वि॒न्नस्स्ना॒त्वी मला॑दिव ।
पू॒तम्प॒वित्रे॑णे॒वाज्य॑म् ।
विश्वे॑ मुञ्चन्तु॒ मैन॑सः ।
उद्व॒यन्तम॑स॒स्परि॑ ।
पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् ।
दे॒वन्दे॑व॒त्रा सूर्य॑म् ।
अग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ 43॥
वृषा॒सो अँ॒शुᳶ प॑वते ह॒विष्मा॒न्त्सोमः॑ ।
इन्द्र॑स्य भा॒ग ऋ॑त॒युश्श॒तायुः॑ ।
स मा॒ वृषा॑णव्ँ वृष॒भङ्कृ॑णोतु ।
प्रि॒यव्ँ वि॒शाँ सर्व॑वीरँ सु॒वीर॑म् ।
कस्य॒ वृषा॑ सु॒ते सचा॑ ।
नि॒युत्वा॑न्वृष॒भो र॑णत् ।
वृ॒त्र॒हा सोम॑पीतये ।
यस्ते॑ शृङ्ग वृषोनपात् ।
प्रण॑पात्कुण्ड॒पाय्यः॑ ।
न्य॑स्मिन्दध्र॒ आ मनः॑ ॥44॥
तँ स॒ध्रीची॑रू॒तयो॒ वृष्णि॑यानि ।
पौँस्या॑नि नि॒युत॑स्सश्चु॒रिन्द्र॑म् ।
स॒मु॒द्रन्न सिन्ध॑व उ॒क्थशु॑ष्माः ।
उ॒रु॒व्यच॑स॒ङ्गिर॒ आवि॑शन्ति ।
इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गाः ।
अ॒पᳶ प्रैर॑य॒न्त्सग॑रस्य बु॒ध्नात् ।
यो अक्षे॑णेव च॒क्रिया॒ शची॑भिः ।
विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ।
अक्षो॑दय॒च्छव॑सा॒ क्षाम॑बु॒ध्नम् ।
वार्णवा॑त॒स्तवि॑षीभि॒रिन्द्रः॑ ॥45॥
दृ॒ढान्यौ॑घ्नादु॒शमा॑न॒ ओजः॑ ।
अवा॑भिनत्क॒कुभ॒ᳶ पर्व॑तानाम् ।
आ नो॑ अग्ने सुके॒तुना॑ ।
र॒यिव्ँ वि॒श्वायु॑पोषसम् ।
मा॒र्डी॒कन्धे॑हि जी॒वसे॑ ।
त्वँ सो॑म म॒हे भग॑म् ।
त्वय्ँ यून॑ ऋताय॒ते ।
दक्ष॑न्दधासि जी॒वसे॑ ।
रथय्ँ॑युञ्जते म॒रुत॑श्शु॒भे सु॒गम् ।
सूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु ॥46॥
रजाँ॑सि चि॒त्रा विच॑रन्ति त॒न्यवः॑ ।
दि॒वस्स॑म्राजा॒ पय॑सा न उक्षतम् ।
वाचँ॒ सुमि॑त्रावरुणा॒विरा॑वतीम् ।
प॒र्जन्य॑श्चि॒त्राव्ँव॑दति॒ त्विषी॑मतीम् ।
अ॒भ्रा व॑सत मरुतस्सुमा॒यया॑ ।
द्याव्ँव॑र्षयतमरु॒णाम॑रे॒पस॑म् ।
अयु॑क्त स॒प्त शु॒न्ध्युवः॑ ।
सूरो॒ रथ॑स्य न॒प्त्रियः॑ ।
ताभि॑र्याति॒ स्वयु॑क्तिभिः ।
वहि॑ष्ठेभिर्वि॒हर॑न् यासि॒ तन्तु॑म् ॥47॥
अ॒व॒व्यय॒न्नसि॑तन्देव॒ वस्वः॑ ।
दवि॑ध्वतो र॒श्मय॒स्सूर्य॑स्य ।
चर्मे॒वावा॑धु॒स्तमो॑ अ॒प्स्व॑न्तः ।
प॒र्जन्या॑य॒ प्र गा॑यत ।
दि॒वस्पु॒त्राय॑ मी॒ढुषे॑ ।
स नो॑ य॒वस॑मिच्छतु ।
अच्छा॑ वद त॒वस॑ङ्गी॒र्भिरा॒भिः ।
स्तु॒हि प॒र्जन्य॒न्नम॒साऽऽवि॑वास ।
कनि॑क्रदद्वृष॒भो जी॒रदा॑नुः ।
रेतो॑ दधा॒त्वोष॑धीषु॒ गर्भ॑म् ॥48॥
यो गर्भ॒मोष॑धीनाम् ।
गवा॑ङ्कृ॒णोत्यर्व॑ताम् ।
प॒र्जन्य॑ᳶ पुरु॒षीणा॑म् ।
तस्मा॒ इदा॒स्ये॑ ह॒विः ।
जू॒होता॒ मधु॑मत्तमम् ।
इडा॑न्नस्सय्ँ॒यत॑ङ्करत् ।
ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामित् ।
शुचि॑ङ्घृ॒तेन॒ शुच॑यस्सप॒र्यन् ।
नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि ।
असू॑दयन्त त॒नुव॒स्सुजा॑ताः ॥49॥
इन्द्र॑श्च नश्शुनासीरौ ।
इ॒मय्ँ य॒ज्ञम्मि॑मिक्षतम् ।
गर्भ॑न्धत्तँ स्व॒स्तये॑ ।
ययो॑रि॒दव्ँ विश्व॒म्भुव॑नमा वि॒वेश॑ ।
ययो॑रान॒न्दो निहि॑तो॒ मह॑श्च ।
शुना॑सीरावृ॒तुभि॑स्सव्ँ विदा॒नौ ।
इन्द्र॑वन्तौ ह॒विरि॒दञ्जु॑षेथाम् ।
आ घा॒ ये अ॒ग्निमि॑न्ध॒ते ।
स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् ।
येषा॒मिन्द्रो॒ युवा॒ सखा॑ ।
अग्न॒ इन्द्र॑श्च मे॒दिना॑ ।
ह॒थो वृ॒त्राण्य॑प्र॒ति ।
यु॒वँ हि वृ॑त्र॒हन्त॑मा ।
याभ्याँ॒ सुव॒रज॑य॒न्नग्र॑ ए॒व ।
यावा॑तस्थ॒तुर्भुव॑नस्य॒ मध्ये॑ ।
प्रच॑र्ष॒णी वृ॑षणा॒ वज्र॑बाहू ।
अ॒ग्नी इन्द्रा॑वृत्र॒हणा॑ हुवे वाम् ॥50॥
उ॒त न॑ᳶ प्रि॒या प्रि॒यासु॑ ।
स॒प्तस्वसा॒ सुजु॑ष्टा ।
सर॑स्वती॒ स्तोम्या॑ऽभूत् ।
इ॒मा जुह्वा॑नायु॒ष्मदा नमो॑भिः ।
प्रति॒ स्तोमँ॑ सरस्वति जुषस्व ।
तव॒ शर्म॑न्प्रि॒यत॑मे॒ दधा॑नाः ।
उप॑स्थेयाम शर॒णन्न वृ॒क्षम् ।
त्रिणि॑ प॒दा विच॑क्रमे ।
विष्णु॑र्गो॒पा अदा॑भ्यः ।
ततो॒ धर्मा॑णि धा॒रय॑न् ॥51॥
तद॑स्य प्रि॒यम॒भि पाथो॑ अश्याम् ।
नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति ।
उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था ।
विष्णो॑ᳶ प॒दे प॑र॒मे मध्व॒ उत्सः॑ ।
क्र॒त्वा॒दा अ॑स्थु॒ श्रेष्ठः॑ ।
अ॒द्य त्वा॑ व॒न्वन्त्सु॒रेक्णाः॑ ।
मर्त॑ आनाश सुवृ॒क्तिम् ।
इ॒मा ब्र॑ह्म ब्रह्मवाह ।
प्रि॒या त॒ आ ब॒र्हिस्सी॑द ।
वी॒हि सू॑र पुरो॒डाश॑म् ॥52॥
उप॑ नस्सू॒नवो॒ गिरः॑ ।
शृ॒ण्वन्त्व॒मृत॑स्य॒ ये ।
सु॒मृ॒डी॒का भ॑वन्तु नः ।
अ॒द्या नो॑ देव सवितः ।
प्र॒जाव॑त्सावी॒स्सौभ॑गम् ।
परा॑ दु॒ष्वप्नि॑यँ सुव ।
विश्वा॑नि देव सवितः ।
दु॒रि॒तानि॒ परा॑सुव ।
यद्भ॒द्रन्तन्म॒ आसु॑व ।
शुचि॑म॒र्कैर्बृह॒स्पति॑म् ॥53॥
अ॒ध्व॒रेषु॑ नमस्यत ।
अ॒ना॒म्योज॒ आच॑के ।
या धा॒रय॑न्त दे॒वा सु॒दक्षा॒ दक्ष॑पितारा ।
अ॒सु॒र्या॑य॒ प्रम॑हसा ।
स इत्क्षेति॒ सुधि॑त॒ ओक॑सि॒ स्वे ।
तस्मा॒ इडा॑ पिन्वते विश्व॒दानी॑ ।
तस्मै॒ विश॑स्स्व॒यमे॒वान॑मन्ति ।
यस्मि॑न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ।
सकू॑तिमिन्द्र॒ सच्यु॑तिम् ।
सच्यु॑तिञ्ज॒घन॑च्युतिम् ॥54॥
क॒नात्का॒भान्न॒ आभ॑र ।
प्र॒य॒प्स्यन्नि॑व स॒क्थ्यौ॑ ।
वि न॑ इन्द्र॒ मृधो॑ जहि ।
कनी॑खुनदिव सा॒पय॑न् ।
अ॒भि न॒स्सुष्टु॑तिन्नय ।
प्र॒जाप॑तिस्स्त्रि॒याय्ँयशः॑ ।
मु॒ष्कयो॑रदधा॒त्सप॑म् ।
काम॑स्य॒ तृप्ति॑मान॒न्दम् ।
तस्या॑ग्ने भाजये॒ह मा॑ ।
मोद॑ᳶ प्रमो॒द आ॑न॒न्दः ॥55॥
मु॒ष्कयो॒र्निहि॑त॒स्सपः॑ ।
सृ॒त्वेव॒ काम॑स्य तृप्याणि ।
दक्षि॑णानाम्प्रतिग्र॒हे ।
मन॑सश्चि॒त्तमाकू॑तिम् ।
वा॒चस्स॒त्यम॑शीमहि ।
प॒शू॒नाँ रू॒पमन्न॑स्य ।
यश॒श्श्रीश्श्र॑यता॒म्मयि॑ ।
यथा॒ऽहम॒स्या अतृ॑पँ स्त्रि॒यै पुमा॑न् ।
यथा॒ स्त्री तृप्य॑ति पुँ॒सि प्रि॒ये प्रि॒या ।
ए॒वम्भग॑स्य तृप्याणि ॥56॥
य॒ज्ञस्य॒ काम्य॑ᳶ प्रि॒यः ।
ददा॒मीत्य॒ग्निर्व॑दति ।
तथेति॑ वा॒युरा॑ह॒ तत् ।
हन्तेति॑ स॒त्यञ्च॒न्द्रमाः॑ ।
आ॒दि॒त्यस्स॒त्यमोमिति॑ ।
आप॒स्तत्स॒त्यमाभ॑रन् ।
यशो॑ य॒ज्ञस्य॒ दक्षि॑णाम् ।
अ॒सौ मे॒ काम॒स्समृ॑द्ध्यताम् ।
न हि स्पश॒मवि॑दन्न॒न्यम॒स्मात् ।
वै॒श्वा॒न॒रात्पु॑रए॒तार॑म॒ग्नेः ॥57॥
अथे॑ममन्थन्न॒मृत॒ममू॑राः ।
वै॒श्वा॒न॒रङ्क्षे॑त्र॒जित्या॑य दे॒वाः ।
येषा॑मि॒मे पूर्वे॒ अर्मा॑स॒ आस॑न् ।
अ॒यू॒पास्सद्म॒ विभृ॑ता पु॒रूणि॑ ।
वैश्वा॑नर॒ त्वया॒ ते नु॒त्ताः ।
पृ॒थि॒वीम॒न्याम॒भित॑स्थु॒र्जना॑सः ।
पृ॒थि॒वीम्मा॒तर॑म्म॒हीम् ।
अ॒न्तरि॑क्ष॒मुप॑ब्रुवे ।
बृ॒ह॒तीमू॒तये॒ दिव॑म् ।
विश्व॑म्बिभर्ति पृथि॒वी ॥58॥
अ॒न्तरि॑क्षव्ँ॒विप॑प्रथे ।
दु॒हे द्यौर्बृ॑ह॒ती पयः॑ ।
न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रः ।
नैना॑ अमि॒त्रो व्यथि॒राद॑धर्षति ।
दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च ।
ज्योगित्ताभि॑स्सचते॒ गोप॑तिस्स॒ह ।
न ता अर्वा॑ रे॒णुक॑काटो अश्ञुते ।
न सँ॑स्कृत॒त्रमुप॑यन्ति॒ ता अ॒भि ।
उ॒रु॒गा॒यमभ॑य॒न्तस्य॒ ता अनु॑ ।
गावो॒ मर्त्य॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥59 ॥
रात्री॒ व्य॑ख्यदाय॒ती ।
पु॒रु॒त्रा दे॒व्य॑क्षभिः॑ ।
विश्वा॒ अधि॒ श्रियो॑ऽधित ।
उप॑ ते॒ गा इ॒वाक॑रम् ।
वृ॒णी॒ष्व दु॑हितर्दिवः ।
रात्री॒ स्तोम॒न्न जि॒ग्युषी॑ ।
दे॒वीव्ँ वाच॑मजनयन्त दे॒वाः ।
ताव्ँ वि॒श्वरू॑पाᳶ प॒शवो॑ वदन्ति ।
सा नो॑ म॒न्द्रेष॒मूर्ज॒न्दुहा॑ना ।
धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥60॥
यद्वाग्वद॑न्त्यविचेत॒नानि॑ ।
राष्ट्री॑ दे॒वाना॑न्निष॒साद॑ म॒न्द्रा ।
चत॑स्र॒ ऊर्ज॑न्दुदुहे॒ पयाँ॑सि ।
क्व॑ स्विदस्याᳶ पर॒मञ्ज॑गाम ।
गौ॒री मि॑माय सलि॒लानि॒ तक्ष॑ती ।
एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी ।
अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ ।
स॒हस्रा॑क्षरा पर॒मे व्यो॑मन् ।
तस्याँ॑ समु॒द्रा अधि॒विक्ष॑रन्ति ।
तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥61॥
ततः॑ क्षरत्य॒क्षर॑म् ।
तद्विश्व॒मुप॑जीवति ।
इन्द्रा॒सूरा॑ ज॒नय॑न्वि॒श्वक॑र्मा ।
म॒रुत्वाँ॑ अस्तु ग॒णवा॑न्त्सजा॒तवा॑न् ।
अ॒स्य स्नु॒षा श्वशु॑रस्य॒ प्रशि॑ष्टिम् ।
स॒पत्ना॒ वाच॒म्मन॑सा॒ उपा॑सताम् ।
इन्द्र॒स्सूरो॑ अतर॒द्रजाँ॑सि ।
स्नु॒षा स॒पत्ना॒ श्वशु॑रो॒ऽयम॑स्तु ।
अ॒यँ शत्रू॑ञ्जयतु॒ जर्हृ॑षाणः ।
अ॒यव्ँ वाज॑ञ्जयतु॒ वाज॑सातौ ।
अ॒ग्निः क्ष॑त्र॒भृदनि॑भृष्ट॒मोजः॑ ।
स॒ह॒स्रियो॑ दीप्यता॒मप्र॑युच्छन् ।
वि॒भ्राज॑मानस्समिधा॒न उ॒ग्रः ।
आऽन्तरि॑क्षमरुह॒दग॒न्द्याम् ॥62॥
वृषा॑ऽस्यँ॒शुर्वृ॑ष॒भाय॑ गृह्यसे ।
वृषा॒ऽयमु॒ग्रो नृ॒चक्ष॑से ।
दि॒व्यᳵ क॑र्म॒ण्यो॑ हि॒तो बृ॒हन्नाम॑ ।
वृ॒ष॒भस्य॒ या क॒कुत् ।
वि॒षू॒वान् वि॑ष्णो भवतु ।
अ॒यय्ँ यो मा॑म॒को वृषा॑ ।
अथो॒ इन्द्र॑ इव दे॒वेभ्यः॑ ।
विब्र॑वीतु॒ जने॑भ्यः ।
आयु॑ष्मन्तव्ँ॒वर्च॑स्वन्तम् ।
अथो॒ अधि॑पतिव्ँ वि॒शाम् ॥63॥
अ॒स्याᳶ पृ॑थि॒व्या अध्य॑क्षम् ।
इ॒ममि॑न्द्र वृष॒भङ्कृ॑णु ।
यस्सु॒शृङ्ग॑स्सुवृष॒भः ।
क॒ल्याणो॒ द्रोण॒ आहि॑तः ।
कार्षी॑वल प्रगाणेन ।
वृ॒ष॒भेण॑ यजामहे ।
वृ॒ष॒भेण॒ यज॑मानाः ।
अक्रू॑रेणेव स॒र्पिषा॑ ।
मृध॑श्च॒ सर्वा॒ इन्द्रे॑ण ।
पृत॑नाश्च जयामसि ॥64॥
यस्या॒यमृ॑ष॒भो ह॒विः ।
इन्द्रा॑य परिणी॒यते॑ ।
जया॑ति॒ शत्रु॑मा॒यन्त॑म् ।
अथो॑ हन्ति पृतन्य॒तः ।
नृ॒णामह॑ प्र॒णीरस॑त् ।
अग्र॑ उद्भिन्द॒ताम॑सत् ।
इन्द्र॒ शुष्म॑न्त॒नुवा॒ मेर॑यस्व ।
नी॒चा विश्वा॑ अ॒भिति॑ष्ठा॒भिमा॑तीः ।
नि शृ॑णीह्याबा॒धय्ँ यो॒ नो॒ अस्ति॑ ।
उ॒रुन्नो॑ लो॒कङ्कृ॑णुहि जीरदानो ॥65॥
प्रेह्य॒भि प्रेहि॒ प्र भ॑रा॒ सह॑स्व ।
मा विवे॑नो॒ वि शृ॑णुष्वा॒ जने॑षु ।
उदी॑डि॒तो वृ॑षभ॒ तिष्ठ॒ शुष्मैः॑ ।
इन्द्र॒ शत्रू॑न्पु॒रो अ॒स्माक॑ युध्य ।
अग्ने॒ जेता॒ त्वञ्ज॑य ।
शत्रू॑न्त्सहस॒ ओज॑सा ।
वि शत्रू॒न्विमृधो॑ नुद ।
ए॒तन्ते॒ स्तोम॑न्तुविजात॒ विप्रः॑ ।
रथ॒न्न धीर॒स्स्वपा॑ अतक्षम् ।
यदीद॑ग्ने॒ प्रति॒त्वन्दे॑व॒ हर्याः॑ ॥66॥
सुव॑र्वतीर॒प ए॑ना जयेम ।
यो घृ॒तेना॒भिमा॑नितः ।
इन्द्र॒ जैत्रा॑य जज्ञिषे ।
स न॒स्सङ्का॑सु पारय ।
पृ॒त॒ना॒साह्ये॑षु च ।
इन्द्रो॑ जिगाय पृथि॒वीम् ।
अ॒न्तरि॑क्षँ॒ सुव॑र्म॒हत् ।
वृ॒त्र॒हा पु॑रु॒चेत॑नः ।
इन्द्रो॑ जिगाय॒ सह॑सा॒ सहाँ॑सि ।
इन्द्रो॑ जिगाय॒ पृत॑नानि॒ विश्वा॑ ॥67॥
इन्द्रो॑ जा॒तो वि पुरो॑ रुरोज ।
स न॑ᳶ पर॒स्पा वरि॑वᳵ कृणोतु ।
अ॒यङ्कृ॒त्नुरगृ॑भीतः ।
वि॒श्व॒जिदु॒द्भिदित्सोमः॑ ।
ऋषि॒र्विप्र॒ᳵ काव्ये॑न ।
वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः ।
सा॒कङ्ग॒न्मन॑सा य॒ज्ञम् ।
शि॒वो नि॒युद्भि॑श्शि॒वाभिः॑ ।
वायो॑ शु॒क्रो अ॑यामि ते ।
मध्वो॒ अग्र॒न्दिवि॑ष्टिषु ॥68॥
आया॑हि॒ सोम॑ पीतये ।
स्वा॒रु॒हो दे॑व नि॒युत्व॑ता ।
इ॒ममि॑न्द्र वर्धय क्ष॒त्रिया॑णाम् ।
अ॒यव्ँ वि॒शाव्ँ वि॒श्पति॑रस्तु॒ राजा॑ ।
अ॒स्मा इ॑न्द्र॒ महि॒ वर्चाँ॑सि धेहि ।
अ॒व॒र्चस॑ङ्कणुहि॒ शत्रु॑मस्य ।
इ॒ममाभ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॑ ।
निर॒मुम्भ॑ज॒ यो॑ऽमित्रो॑ अस्य ।
वर्ष्म॑न्क्ष॒त्रस्य॑ क॒कुभि॑ श्रयस्व ।
ततो॑ न उ॒ग्रो विभ॑जा॒ वसू॑नि ॥69॥
अ॒स्मे द्या॑वापृथिवी॒ भूरि॑ वा॒मम् ।
सन्दु॑हाथाङ्घर्म॒दुघे॑व धे॒नुः ।
अ॒यँ राजा॑ प्रि॒य इन्द्र॑स्य भूयात् ।
प्रि॒यो गवा॒मोष॑धीनामु॒तापाम् ।
यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्र॑म् ।
येन॒ जया॑सि॒ न परा॒जया॑सै ।
स त्वा॑ऽकरेकवृष॒भँ स्वाना॑म् ।
अथो॑ राजन्नुत्त॒मम्मा॑न॒वाना॑म् ।
उत्त॑र॒स्त्वमध॑रे ते स॒पत्नाः॑ ।
एक॑वृषा॒ इन्द्र॑सखा जिगी॒वान् ॥70॥
विश्वा॒ आशा॒ᳶ पृत॑नास्स॒ञ्जय॒ञ्जय॑न् ।
अ॒भि ति॑ष्ठ शत्रूय॒तस्स॑हस्व ।
तुभ्य॑म्भरन्ति क्षि॒तयो॑ यविष्ठ ।
ब॒लिम॑ग्ने॒ अन्ति॑त॒ ओत दू॒रात् ।
आ भन्दि॑ष्ठस्य सुम॒तिञ्चि॑किद्धि ।
बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् ।
यो दे॒ह्यो अन॑मयद्वध॒स्नैः ।
यो अर्य॑पत्नीरु॒षस॑श्च॒कार॑ ।
स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निः ।
विश॑श्चक्रे बलि॒हृत॒स्सहो॑भिः ॥71॥
प्र स॒द्यो अ॑ग्ने॒ अत्ये॑ष्य॒न्यान् ।
आ॒विर्यस्मै॒ चारु॑तरो ब॒भूथ॑ ।
ई॒डेन्यो॑ वपु॒ष्यो॑ वि॒भावा॑ ।
प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम् ।
ब्रह्म॑ज्येष्ठा वी॒र्या॑ सम्भृ॑तानि ।
ब्रह्माग्रे॒ ज्येष्ठ॒न्दिव॒मात॑तान ।
ऋ॒तस्य॒ ब्रह्म॑ प्रथ॒मोत ज॑ज्ञे ।
तेना॑र्हति॒ ब्रह्म॑णा॒ स्पर्धि॑तु॒ङ्कः ।
ब्रह्म॒ स्रुचो॑ घृ॒तव॑तीः ।
ब्रह्म॑णा॒ स्वर॑वो मि॒ताः ॥72॥
ब्रह्म॑ य॒ज्ञस्य॒ तन्त॑वः ।
ऋ॒त्विजो॒ ये ह॑वि॒ष्कृतः॑ ।
शृङ्गा॑णी॒वेच्छृ॒ङ्गिणाँ॒ सन्द॑दृश्रिरे ।
च॒षाल॑वन्त॒स्स्वर॑वᳶ पृथि॒व्याम् ।
ते दे॒वास॒स्स्वर॑वस्तस्थि॒वाँसः॑ ।
नम॒स्सखि॑भ्यस्स॒न्नान्माऽव॑गात ।
अ॒भि॒भूर॒ग्निर॑तर॒द्रजाँ॑सि ।
स्पृधो॑ वि॒हत्य॒ पृत॑ना अभि॒श्रीः ।
जु॒षा॒णो म॒ आहु॑तिम्मामहिष्ट ।
ह॒त्वा स॒पत्ना॒न्वरि॑वस्करन्नः ।
ईशा॑नन्त्वा॒ भुव॑नानामभि॒श्रिय॑म् ।
स्तौम्य॑ग्न उरु॒कृतँ॑ सु॒वीरम्॑ ।
ह॒विर्जु॑षा॒णस्स॒पत्नाँ॑ अभि॒भूर॑सि ।
ज॒हि शत्रूँ॒ रप॒ मृधो॑ नुदस्व ॥ 73॥
स प्र॑त्न॒वन्नवी॑यसा ।
अग्ने॑ द्यु॒म्नेन॑ सय्ँ॒यता॑ ।
बृ॒हत्त॑तन्थ भा॒नुना॑ ।
नव॒न्नु स्तोम॑म॒ग्नये॑ ।
दि॒वश्श्ये॒नाय॑ जीजनम् ।
वसो॑ᳵ कु॒विद्व॒नाति॑ नः ।
स्वा॒रु॒हा यस्य॒ श्रियो॑ दृ॒शे ।
र॒यिर्वी॒रव॑तो यथा ।
अग्रे॑ य॒ज्ञस्य॒ चेत॑तः ।
अदा॑भ्यᳶ पुरए॒ता ॥74॥
अ॒ग्निर्वि॒शाम्मानु॑षीणाम् ।
तूर्णी॒ रथ॒स्सदा॒ नवः॑ ।
नवँ॒ सोमा॑य वा॒जिने॑ ।
आज्य॒म्पय॑सोऽजनि ।
जुष्टँ॒ शुचि॑तमव्ँ॒वसु॑ ।
नवँ॑ सोम जुषस्व नः ।
पी॒यूष॑स्ये॒ह तृ॑प्णुहि ।
यस्ते॑ भा॒ग ऋ॒ता व॒यम् ।
नव॑स्य सोम ते व॒यम् ।
आ सु॑म॒तिव्ँ वृ॑णीमहे ॥75॥
स नो॑ रास्व सह॒स्रिणः॑ ।
नवँ॑ ह॒विर्जु॑षस्व नः ।
ऋ॒तुभि॑स्सोम॒ भूत॑मम् ।
तद॒ङ्ग प्रति॑हर्य नः ।
राज॑न्त्सोम स्व॒स्तये॑ ।
नवँ॒स्तोम॒न्नवँ॑ ह॒विः ।
इ॒न्द्रा॒ग्निभ्या॒न्निवे॑दय ।
तज्जु॑षेताँ॒ सचे॑तसा ।
शुचि॒न्नु स्तोम॒न्नव॑जातम॒द्य ।
इन्द्रा॑ग्नी वृत्रहणा जु॒षेथा॑म् ॥76॥
उ॒भा हि वाँ॑ सु॒हवा॒ जोह॑वीमि ।
ता वाजँ॑ स॒द्य उ॑श॒ते धेष्ठा॑ ।
अ॒ग्निरिन्द्रो॒ नव॑स्य नः ।
अ॒स्य ह॒व्यस्य॑ तृप्यताम् ।
इ॒ह दे॒वौ स॑ह॒स्रिणौ॑ ।
य॒ज्ञन्न॒ आ हि गच्छ॑ताम् ।
वसु॑मन्तँ सुव॒र्विद॑म् ।
अ॒स्य ह॒व्यस्य॑ तृप्यताम् ।
अ॒ग्निरिन्द्रो॒ नव॑स्य नः ।
विश्वा॑न्दे॒वाँस्त॑र्पयत ॥77 ॥
ह॒विषो॒ऽस्य नव॑स्य नः ।
सु॒व॒र्विदो॒ हि ज॑ज्ञि॒रे ।
एदम्ब॒र्हिस्सु॒ष्टरी॑मा॒ नवे॑न ।
अ॒यय्ँ य॒ज्ञो यज॑मानस्य भा॒गः ।
अ॒यम्ब॑भूव॒ भुव॑नस्य॒ गर्भः॑ ।
विश्वे॑ दे॒वा इ॒दम॒द्याग॑मिष्ठाः ।
इ॒मे नु द्यावा॑पृथि॒वी स॒मीची॑ ।
त॒न्वा॒ने य॒ज्ञम्पु॑रु॒पेश॑सन्धि॒या ।
आऽस्मै॑ पृणीता॒म्भुव॑नानि॒ विश्वा॑ ।
प्र॒जाम्पुष्टि॑म॒मृत॒न्नवे॑न ॥78॥
इ॒मे धे॒नू अ॒मृतय्ँ॒ये दु॒हाते॑ ।
पय॑स्वत्युत्त॒रामे॑तु॒ पुष्टिः॑ ।
इ॒मय्ँ य॒ज्ञञ्जु॒षमा॑णे॒ नवे॑न ।
स॒मीची॒ द्यावा॑पृथि॒वी घृ॒ताची॑ ।
यवि॑ष्ठो हव्य॒वाह॑नः ।
चि॒त्रभा॑नुर्घु॒तासु॑तिः ।
नव॑जातो॒ विरो॑चसे ।
अग्ने॒ तत्ते॑ महित्व॒नम् ।
त्वम॑ग्ने दे॒वता॑भ्यः ।
भा॒गे दे॑व॒ न मी॑यसे ॥79॥
स ए॑ना वि॒द्वान् य॑क्ष्यसि ।
नवँ॒ स्तोम॑ञ्जुषस्व नः ।
अ॒ग्निᳶ प्र॑थ॒मᳶ प्राश्ञा॑तु ।
स हि वेद॒ यथा॑ ह॒विः ।
शि॒वा अ॒स्मभ्य॒मोष॑धीः ।
कृ॒णोतु॑ वि॒श्वच॑र्षणिः ।
भ॒द्रान्न॒श्श्रेय॒स्सम॑नैष्ट देवाः ।
त्वया॑ऽव॒सेन॒ सम॑शीमहि त्वा ।
स नो॑ मयो॒भूᳶ पि॑तो॒ आवि॑शस्व ।
शन्तो॒काय॑ त॒नुवे॑ स्यो॒नः ।
ए॒तमु॒ त्यम्मधु॑ना॒ सय्ँ यु॑तय्ँ॒यव॑म् ।
सर॑स्वत्या॒ अधि॑म॒नाव॑चर्कृषुः ।
इन्द्र॑ आसी॒त्सीर॑पतिश्श॒तक्र॑तुः ।
की॒नाशा॑ आसन्म॒रुत॑स्सु॒दान॑वः ॥80॥
प्रा॒णो र॑क्षति॒ विश्व॒मेज॑त् ।
इर्यो॑ भू॒त्वा ब॑हु॒धा ब॒हूनि॑ ।
स इत्सर्व॒व्व्ँया॑नशे ।
यो दे॒वो दे॒वेषु॑ वि॒भूर॒न्तः ।
आवृ॑दू॒दात्क्षेत्रिय॑ध्व॒गद्वृषा॑ ।
तमित्प्रा॒णम्मन॒सोप॑ शिक्षत ।
अग्र॑न्दे॒वाना॑मि॒दम॑त्तु नो ह॒विः ।
मन॑स॒श्चित्ते॒दम् ।
भू॒तम्भव्य॑ञ्च गुप्यते ।
तद्धि दे॒वेष्व॑ग्रि॒यम् ॥1॥
आ न॑ एतु पुरश्च॒रम् ।
स॒ह दे॒वैरि॒मँ हव॑म् ।
मन॒श्श्रेय॑सिश्रेयसि ।
कर्म॑न्य॒ज्ञप॑ति॒न्दध॑त् ।
जु॒षता॑म्मे॒ वागि॒दँ ह॒विः ।
वि॒राड्दे॒वी पु॒रोहि॑ता ।
ह॒व्य॒वाडन॑पायिनी ।
यया॑ रू॒पाणि॑ बहु॒धा वद॑न्ति ।
पेशाँ॑सि दे॒वाᳶ प॑र॒मे ज॒नित्रे॑ ।
सा नो॑ वि॒राडन॑पस्फुरन्ती ॥2॥
वाग्दे॒वी जु॑षतामि॒दँ ह॒विः ।
चक्षु॑र्दे॒वाना॒ञ्ज्योति॑र॒मृते॒ न्य॑क्तम् ।
अ॒स्य वि॒ज्ञाना॑य बहु॒धा निधी॑यते ।
तस्य॑ सु॒म्नम॑शीमहि ।
मा नो॑ हासीद्विचक्ष॒णम् ।
आयु॒रिन्न॒ᳶ प्रती॑र्यताम् ।
अन॑न्धा॒श्चक्षु॑षा व॒यम् ।
जी॒वा ज्योति॑रशीमहि ।
सुव॒र्ज्योति॑रु॒तामृत॑म् ।
श्रोत्रे॑ण भ॒द्रमु॒त शृ॑ण्वन्ति स॒त्यम् ।
श्रोत्रे॑ण॒ वाच॑म्बहु॒धोद्यमा॑नाम् ।
श्रोत्रे॑ण॒ मोद॑श्च॒ मह॑श्च श्रूयते ।
श्रोत्रे॑ण॒ सर्वा॒ दिश॒ आ शृ॑णोमि ।
येन॒ प्राच्या॑ उ॒त द॑क्षि॒णा ।
प्र॒तीच्यै॑ दि॒शश्शृ॒ण्वन्त्यु॑त्त॒रात् ।
तदिच्छ्रोत्र॑म्बहु॒धोद्यमा॑नम् ।
अ॒रान्न ने॒मिᳶ परि॒ सर्व॑म्बभूव ॥3॥
उ॒देहि॑ वाजि॒न्यो अ॑स्य॒प्स्व॑न्तः ।
इ॒दँ रा॒ष्ट्रमा वि॑श सू॒नृता॑वत् ।
यो रोहि॑तो॒ विश्व॑मि॒दञ्ज॒जान॑ ।
स नो॑ रा॒ष्ट्रेषु॒ सुधि॑तान्दधातु ।
रोहँ॑रोहँ॒ रोहि॑त॒ आरु॑रोह ।
प्र॒जाभि॒र्वृद्धि॑ञ्ज॒नुषा॑मु॒पस्थ॑म् ।
ताभि॒स्सँर॑ब्धो अविद॒त्षडु॒र्वीः ।
गा॒तुम्प्र॒पश्य॑न्नि॒ह रा॒ष्ट्रमाऽहाः॑ ।
आऽहा॑र्षीद्रा॒ष्ट्रमि॒ह रोहि॑तः ।
मृधो॒ व्या॑स्थ॒दभ॑यन्नो अस्तु ॥4॥
अ॒स्मभ्य॑न्द्यावापृथिवी॒ शक्व॑रीभिः ।
रा॒ष्ट्रन्दु॑हाथामि॒ह रे॒वती॑भिः ।
विम॑मर्श॒ रोहि॑तो वि॒श्वरू॑पः ।
स॒मा॒च॒क्रा॒णᳶ प्र॒रुहो॒ रुह॑श्च ।
दिव॑ङ्ग॒त्वाय॑ मह॒ता म॑हि॒म्ना ।
वि नो॑ रा॒ष्ट्रमु॑नत्तु॒ पय॑सा॒ स्वेन॑ ।
यास्ते॒ विश॒स्तप॑सा सम्बभू॒वुः ।
गा॒य॒त्रव्ँव॒त्समनु॒ तास्त॒ आऽगुः॑ ।
तास्त्वा वि॑शन्तु॒ मह॑सा॒ स्वेन॑ ।
सम्मा॑ता पु॒त्रो अ॒भ्ये॑तु॒ रोहि॑तः ॥5॥
यू॒यमु॑ग्रा मरुतᳶ पृश्ञिमातरः ।
इन्द्रे॑ण स॒युजा॒ प्रमृ॑णीथ॒ शत्रू॑न् ।
आ वो॒ रोहि॑तो अशृणोदभिद्यवः ।
त्रिस॑प्तासो मरुतस्स्वादुसम्मुदः ।
रोहि॑तो॒ द्यावा॑पृथि॒वी ज॑जान ।
तस्मिँ॒स्तन्तु॑म्परमे॒ष्ठी त॑तान ।
तस्मि॑ञ्छिश्रिये अ॒ज एक॑पात् ।
अदृँ॑ह॒द्द्यावा॑पृथि॒वी बले॑न ।
रोहि॑तो॒ द्यावा॑पृथि॒वी अ॑दृँहत् ।
तेन॒ सुव॑स्स्तभि॒तन्तेन॒ नाकः॑ ॥6॥
सो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॑ ।
तेन॑ दे॒वास्सुव॒रन्व॑विन्दन् ।
सु॒शेव॑न्त्वा भा॒नवो॑ दीदि॒वाँस॑म् ।
सम॑ग्रासो जु॒ह्वो॑ जातवेदः ।
उ॒क्षन्ति॑ त्वा वा॒जिन॒मा घृ॒तेन॑ ।
सँस॑मग्ने युवसे॒ भोज॑नानि ।
अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय ।
तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु ।
सञ्जा॑स्प॒त्यँ सु॒यम॒मा कृ॑णुष्व ।
श॒त्रू॒य॒ताम॒भि ति॑ष्ठा॒ महाँ॑सि ॥7॥
पुन॑र्न॒ इन्द्रो॑ म॒घवा॑ ददातु ।
धना॑नि श॒क्रो धन्य॑स्सु॒राधाः॑ ।
अ॒र्वा॒चीन॑ङ्कृणुताय्ँ याचि॒तो मनः॑ ।
श्रु॒ष्टी नो॑ अ॒स्य ह॒विषो॑ जुषा॒णः ।
यानि॑ नोऽजि॒नन्धना॑नि ।
ज॒हर्थ॑ शूर म॒न्युना॑ ।
इन्द्रानु॑विन्द न॒स्तानि॑ ।
अ॒नेन॑ ह॒विषा॒ पुनः॑ ।
इन्द्र॒ आशा॑भ्य॒ᳶ परि॑ ।
सर्वा॒भ्योऽभ॑यङ्करत् ॥8॥
जेता॒ शत्रू॒न्विच॑र्षणिः ।
आकू॑त्यै त्वा॒ कामा॑य त्वा स॒मृधे॑ त्वा ।
पु॒रो द॑धे अमृत॒त्वाय॑ जी॒वसे॑ ।
आकू॑तिम॒स्याव॑से ।
काम॑मस्य॒ समृ॑द्ध्यै ।
इन्द्र॑स्य युञ्जते॒ धियः॑ ।
आकू॑तिन्दे॒वीम्मन॑सᳶ पु॒रो द॑धे ।
य॒ज्ञस्य॑ मा॒ता सु॒हवा॑ मे अस्तु ।
यदि॒च्छामि॒ मन॑सा॒ सका॑मः ।
वि॒देय॑मेन॒द्धृद॑ये॒ निवि॑ष्टम् ॥9॥
सेद॒ग्निर॒ग्नीँरत्ये॑त्य॒न्यान् ।
यत्र॑ वा॒जी तन॑यो वी॒डुपा॑णिः ।
स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ ।
आशा॑नान्त्वाऽऽशापा॒लेभ्यः॑ ।
च॒तुर्भ्यो॑ अ॒मृते॑भ्यः ।
इ॒दम्भू॒तस्याध्य॑क्षेभ्यः ।
वि॒धेम॑ ह॒विषा॑ व॒यम् ।
विश्वा॒ आशा॒ मधु॑ना॒ सँ सृ॑जामि ।
अ॒न॒मी॒वा आप॒ ओष॑धयो भवन्तु ।
अ॒यय्ँयज॑मानो॒ मृधो॒ व्य॑स्यताम् ॥10॥
अगृ॑भीताᳶ प॒शव॑स्सन्तु॒ सर्वे॑ ।
अ॒ग्निस्सोमो॒ वरु॑णो मि॒त्र इन्द्रः॑ ।
बृह॒स्पति॑स्सवि॒ता यस्स॑ह॒स्री ।
पू॒षा नो॒ गोभि॒रव॑सा॒ सर॑स्वती ।
त्वष्टा॑ रू॒पाणि॒ सम॑नक्तु य॒ज्ञैः ।
त्वष्टा॑ रू॒पाणि॒ दध॑ती॒ सर॑स्वती ।
पू॒षा भगँ॑ सवि॒ता नो॑ ददातु ।
बृह॒स्पति॒र्दद॒दिन्द्र॑स्स॒हस्र॑म् ।
मि॒त्रो दा॒ता वरु॑ण॒स्सोमो॑ अ॒ग्निः ॥11॥
आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्त॑म् ।
नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के ।
उ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे ।
तमापृ॑णा वसुपते॒ वसू॑नाम् ।
इ॒मङ्काम॑म्मन्दया॒ गोभि॒रश्वैः॑ ।
च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।
सु॒व॒र्यवो॑ म॒तिभि॒स्तुभ्यव्ँ॒विप्राः॑ ।
इन्द्रा॑य॒ वाह॑ᳵ कुशि॒कासो॑ अक्रन् ।
इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्रवो॑चम् ।
यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री ॥12॥
अह॒न्नहि॒मन्व॒पस्त॑तर्द ।
प्रव॒क्षणा॑ अभिन॒त्पर्व॑तानाम् ।
अह॒न्नहि॒म्पर्व॑ते शिश्रिया॒णम् ।
त्वष्टा॑ऽस्मै॒ वज्रँ॑ स्व॒र्य॑न्ततक्ष ।
वा॒श्रा इ॑व धे॒नव॒स्स्यन्द॑मानाः ।
अञ्ज॑स्समु॒द्रमव॑ जग्मु॒रापः॑ ।
वृ॒षा॒यमा॑णोऽवृणीत॒ सोम॑म् ।
त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ ।
आ साय॑कम्म॒घवा॑ दत्त॒ वज्र॑म् ।
अह॑न्नेनम्प्रथम॒जा मही॑नाम् ॥13॥
यदिन्द्राह॑न्प्रथम॒जा मही॑नाम् ।
आन्मा॒यिना॒ममि॑ना॒ᳶ प्रोत मा॒याः ।
आत्सूर्य॑ञ्ज॒नय॒न्द्यामु॒षास॑म् ।
ता॒दीक्ना॒ शत्रू॒न्न किला॑विवित्से ।
अह॑न्वृ॒त्रव्ँ वृ॑त्र॒तर॒व्व्ँयँस॑म् ।
इन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ ।
स्कन्धाँ॑सीव॒ कुलि॑शेना॒विवृ॑क्णा ।
अहि॑श्शयत उप॒पृक्पृ॑थि॒व्याम् ।
अ॒यो॒ध्येव दु॒र्मद॒ आ हि जु॒ह्वे ।
म॒हा॒वी॒रन्तु॑विबा॒धमृ॑जी॒षम् ॥14॥
नाता॑रीरस्य॒ समृ॑तिव्ँव॒धाना॑म् ।
सँ रु॒जानाः॑ पिपिष॒ इन्द्र॑शत्रुः ।
विश्वो॒ विहा॑या अर॒तिः ।
वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे ।
त॒रणि॒र्न शि॑श्रथत् ।
श्र॒व॒स्य॑या॒ न शि॑श्रथत् ।
विश्व॑स्मा॒ इदि॑षुध्य॒से ।
दे॒व॒त्रा ह॒व्यमूहि॑षे ।
विश्व॑स्मा॒ इत्सु॒कृते॒ वार॑मृण्वति ।
अ॒ग्निर्द्वारा॒ व्यृ॑ण्वति ॥15॥
उदु॒ज्जिहा॑नो अ॒भि काम॑मी॒रय॑न् ।
प्र॒पृ॒ञ्चन्विश्वा॒ भुव॑नानि पू॒र्वथा॑ ।
आ के॒तुना॒ सुष॑मिद्धो॒ यजि॑ष्ठः ।
काम॑न्नो अग्ने अ॒भिह॑र्य दि॒ग्भ्यः ।
जु॒षा॒णो ह॒व्यम॒मृते॑षु दू॒ढ्यः॑ ।
आ नो॑ र॒यिम्ब॑हु॒लाङ्गोम॑ती॒मिष॑म् ।
निधे॑हि॒ यक्ष॑द॒मृते॑षु॒ भूष॑न् ।
अश्वि॑ना य॒ज्ञमाग॑तम् ।
दा॒शुष॒ᳶ पुरु॑दँससा ।
पू॒षा र॑क्षतु नो र॒यिम् ॥16॥
इ॒मय्ँ य॒ज्ञम॒श्विना॑ व॒र्धय॑न्ता ।
इ॒मौ र॒यिय्ँयज॑मानाय धत्तम् ।
इ॒मौ प॒शून्र॑क्षताव्ँ वि॒श्वतो॑ नः ।
पू॒षा न॑ᳶ पातु॒ सद॒मप्र॑यच्छन् ।
प्रते॑ म॒हे स॑रस्वति ।
सुभ॑गे॒ वाजि॑नीवति ।
स॒त्य॒वाचे॑ भरे म॒तिम् ।
इ॒दन्नो॑ ह॒व्यङ्घृ॒तव॑त्सरस्वति ।
स॒त्य॒वाचे॒ प्रभ॑रेमा ह॒वीँषि॑ ।
इ॒मानि॑ ते दुरि॒ता सौभ॑गानि ।
तेभि॑र्व॒यँ सु॒भगा॑सस्स्याम ॥17॥
य॒ज्ञो रा॒यो य॒ज्ञ ई॑शे॒ वसू॑नाम् ।
य॒ज्ञस्स॒स्याना॑मु॒त सु॑क्षिती॒नाम् ।
य॒ज्ञ इ॒ष्टᳶ पू॒र्वचि॑त्तिन्दधातु ।
य॒ज्ञो ब्र॑ह्म॒ण्वाँ अप्ये॑तु दे॒वान् ।
अ॒यय्ँ य॒ज्ञो व॑र्धता॒ङ्गोभि॒रश्वैः॑ ।
इ॒यव्ँ वेदि॑स्स्वप॒त्या सु॒वीरा॑ ।
इ॒दम्ब॒र्हिरति॑ ब॒र्हीँष्य॒न्या ।
इ॒मय्ँ य॒ज्ञव्ँ विश्वे॑ अवन्तु दे॒वाः ।
भग॑ ए॒व भग॑वाँ अस्तु देवाः ।
तेन॑ व॒यम्भग॑वन्तस्स्याम ॥18॥
तन्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि ।
स नो॑ भग पुरए॒ता भ॑वे॒ह ।
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः ।
भगे॒मान्धिय॒मुद॑व॒ दद॑न्नः ।
भग॒ प्र णो॑ जनय॒ गोभि॒रश्वैः॑ ।
भग॒ प्र नृभि॑र्नृ॒वन्त॑स्स्याम ।
शश्व॑ती॒स्समा॒ उप॑यन्ति लो॒काः ।
शश्व॑ती॒स्समा॒ उप॑य॒न्त्यापः॑ ।
इ॒ष्टम्पू॒र्तँ शश्व॑तीनाँ॒ समा॑नाँ शाश्व॒तेन॑ ।
ह॒विषे॒ष्ट्वाऽन॒न्तल्ँ लो॒कम्पर॒मारु॑रोह ॥19॥
इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑त् ।
सा रू॒पाणि॑ कुरुते॒ पञ्च॑ दे॒वी ।
द्वे स्वसा॑रौ वयत॒स्तन्त्र॑मे॒तत् ।
स॒ना॒तनव्ँ॒वित॑तँ॒ षण्म॑यूखम् ।
अवा॒न्याँस्तन्तू॑न्कि॒रतो॑ ध॒त्तो अ॒न्यान् ।
नाव॑पृ॒ज्याते॒ न ग॑माते॒ अन्त॑म् ।
आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य ।
वृष्टिय्ँ॒ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ ।
अ॒यय्ँ यो अ॒ग्निर्म॑रुत॒स्समि॑द्धः ।
ए॒तञ्जु॑षध्वङ्कवयो युवानः ॥20॥
धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्णुवो॑जसः ।
मृ॒गा न भी॒मास्त॑वि॒षेभि॑रू॒र्मिभिः॑ ।
अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणः॑ ।
भ्रुमि॒न्धम॑न्त॒ उप॒ गा अ॑वृण्वत ।
वि च॑क्रमे॒ त्रिर्दे॒वः ।
आ वे॒धस॒न्नील॑पृष्ठम्बृ॒हन्त॑म् ।
बृह॒स्पतिँ॒ सद॑ने सादयध्वम् ।
सा॒दद्यो॑नि॒न्दम॒ आ दी॑दि॒वाँस॑म् ।
हिर॑ण्यवर्णमरु॒षँ स॑पेम ।
स हि शुचि॑श्श॒तप॑त्र॒स्स शु॒न्ध्यूः ॥21॥
हिर॑ण्यवाशीरिषि॒रस्सु॑व॒र्षाः ।
बृह॒स्पति॒स्स स्वा॑वे॒श ऋ॒ष्वाः ।
पू॒रू सखि॑भ्य आसु॒तिङ्क॑रिष्ठः ।
पूषँ॒ स्तव॑ व्र॒ते व॒यम् ।
न रि॑ष्येम क॒दाच॒न ।
स्तो॒तार॑स्त इ॒ह स्म॑सि ।
यास्ते॑ पूष॒न्ना वो॑ अ॒न्तस्स॑मु॒द्रे ।
हि॒र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति ।
याभि॑र्यासि दू॒त्याँ सूर्य॑स्य ।
कामे॑न कृ॒तश्रव॑ इ॒च्छमा॑नः ॥22॥
अर॑ण्या॒न्यर॑ण्यान्य॒सौ ।
या प्रेव॒ नश्य॑सि ।
क॒था ग्राम॒न्न पृ॑च्छसि ।
न त्वा॒भीरि॑व विन्दती ३ ।
वृ॒षा॒र॒वाय॒ वद॑ते ।
यदु॒पाव॑तिचिच्चि॒कः ।
आ॒घा॒टीभि॑रिव धा॒वय॑न् ।
अ॒र॒ण्या॒निर्म॑हीयते ।
उ॒त गाव॑ इवादन् ।
उ॒तो वेश्मे॑व दृश्यते ॥23॥
उ॒तो अ॑रण्या॒निस्सा॒यम् ।
श॒क॒टीरि॑व सर्जति ।
गाम॒ङ्गैष॒ आह्व॑यति ।
दार्व॒ङ्गैष॒ उपा॑वधीत् ।
वस॑न्नरण्या॒न्याँ सा॒यम् ।
अक्रु॑क्ष॒दिति॑ मन्यते ।
न वा अ॑रण्या॒निर्ह॑न्ति ।
अ॒न्यश्चेन्नाभि॒गच्छ॑ति ।
स्वा॒दोᳶ फल॑स्य ज॒ग्ध्वा ।
यत्र॒ काम॒न्निप॑द्यते ।
आञ्ज॑नगन्धीँ सुर॒भीम् ।
ब॒ह्व॒न्नामकृ॑षीवलाम् ।
प्राहम्मृ॒गाणा॑म्मा॒तर॑म् ।
अ॒र॒ण्या॒नीम॑शँसिषम् ॥ 24॥
वार्त्र॑हत्याय॒ शव॑से ।
पृ॒त॒ना॒साह्या॑य च ।
इन्द्र॒ त्वा व॑र्तयामसि ।
सु॒ब्रह्मा॑णव्ँवी॒रव॑न्तम्बृ॒हन्त॑म् ।
उ॒रुङ्ग॑भी॒रम्पृ॒थुबु॑ध्नमिन्द्र ।
श्रु॒तर्षि॑मु॒ग्रम॑भिमाति॒षाह॑म् ।
अ॒स्मभ्य॑ञ्चि॒त्रव्ँवृष॑णँ र॒यिन्दाः॑ ।
क्षे॒त्रि॒यै त्वा॒ निर्ऋ॑त्यै त्वा ।
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।
अ॒ना॒गस॒म्ब्रह्म॑णे त्वा करोमि ॥25॥
शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे ।
शन्ते॑ अ॒ग्निस्स॒हाद्भिर॑स्तु ।
शन्द्यावा॑पृथि॒वी स॒हौष॑धीभिः ।
शम॒न्तरि॑क्षँ स॒ह वाते॑न ते ।
शन्ते॒ चत॑स्रᳶ प्र॒दिशो॑ भवन्तु ।
या दैवी॒श्चत॑स्रᳶ प्र॒दिशः॑ ।
वात॑पत्नीर॒भि सूर्यो॑ विच॒ष्टे ।
तासा॑न्त्वा ज॒रस॒ आद॑धामि ।
प्र यक्ष्म॑ एतु॒ निर्ऋ॑तिम्परा॒चैः ।
अमो॑चि॒ यक्ष्मा॑द्दुरि॒तादव॑र्त्यै ॥26॥
द्रु॒हᳶ पाशा॒न्निर्ऋ॑त्यै॒ चोद॑मोचि ।
अहा॒ अव॑र्ति॒मवि॑दत्स्यो॒नम् ।
अप्य॑भूद्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के ।
सूर्य॑मृ॒तन्तम॑सो॒ ग्राह्या॒ यत् ।
दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न्व्ये॑नसः ।
ए॒वम॒हमि॒मङ्क्षे॑त्रि॒याज्जा॑मिशँ॒सात् ।
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।
बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वः॑ ।
दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य ।
ध॒त्तँ र॒यिँ स्तु॑व॒ते की॒रये॑चित् ॥27॥
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।
दे॒वा॒युध॒मिन्द्र॒मा जोहु॑वानाः ।
वि॒श्वा॒वृध॑म॒भि ये रक्ष॑माणाः ।
येन॑ ह॒ता दी॒र्घमध्वा॑न॒माय॑न् ।
अ॒न॒न्तमर्थ॒मनि॑वर्त्स्यमानाः ।
यत्ते॑ सुजाते हि॒मव॑त्सु भेष॒जम् ।
म॒यो॒भूश्शन्त॑मा॒ यद्धृ॒दोसि॑ ।
ततो॑ नो देहि सीबले ।
अ॒दो गि॒रिभ्यो॒ अधि॒ यत्प्र॒धाव॑सि ।
सँ॒शोभ॑माना क॒न्ये॑व शुभ्रे ॥28॥
तान्त्वा॒ मुद्ग॑ला ह॒विषा॑ वर्धयन्ति ।
सा न॑स्सीबले र॒यिमाभा॑जये॒ह ।
पूर्व॑न्देवा॒ अप॑रेणानु॒पश्य॒ञ्जन्म॑भिः ।
जन्मा॒न्यव॑रै॒ᳶ परा॑णि ।
वेदा॑नि देवा अ॒यम॒स्मीति॒ माम् ।
अ॒हँ हि॒त्वा शरी॑रञ्ज॒रस॑ᳶ प॒रस्ता॑त् ।
प्रा॒णा॒पा॒नौ चक्षु॒श्श्रोत्र॑म् ।
वाच॒म्मन॑सि॒ सम्भृ॑ताम् ।
हि॒त्वा शरी॑रञ्ज॒रस॑ᳶ प॒रस्ता॑त् ।
आ भूति॒म्भूतिव्ँ॑व॒यम॑श्ञवामहै ।
इ॒मा ए॒व ता उ॒षसो॒ याᳶ प्र॑थ॒मा व्यौच्छ॑न् ।
ता दे॒व्य॑ᳵ कुर्वते॒ पञ्च॑रू॒पा ।
शश्व॑ती॒र्नाव॑पृज्यन्ति ।
न ग॑म॒न्त्यन्त॑म् ॥29॥
वसू॑ना॒न्त्वाऽधी॑तेन ।
रु॒द्राणा॑मू॒र्म्या ।
आ॒दि॒त्याना॒न्तेज॑सा ।
विश्वे॑षान्दे॒वाना॒ङ्क्रतु॑ना ।
म॒रुता॒मेम्ना॑ जुहोमि॒ स्वाहा॑ ।
अ॒भिभू॑तिर॒हमाग॑मम् ।
इन्द्र॑सखा स्वा॒युधः॑ ।
आस्वाशा॑सु दु॒ष्षहः॑ ।
इ॒दव्ँवर्चो॑ अ॒ग्निना॑ द॒त्तमागा॑त् ।
यशो॒ भर्ग॒स्सह॒ ओजो॒ बल॑ञ्च ॥30॥
दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय ।
प्रति॑गृभ्णामि मह॒ते वी॒र्या॑य ।
आयु॑रसि वि॒श्वायु॑रसि ।
स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि ।
सर्व॑म्म॒ आयु॑र्भूयात् ।
सर्व॒मायु॑र्गेषम् ।
भूर्भुव॒स्सुवः॑ ।
अ॒ग्निर्धर्मे॑णान्ना॒दः ।
मृ॒त्युर्धर्मे॒णान्न॑पतिः ।
ब्रह्म॑ क्ष॒त्रँ स्वाहा॑ ॥31॥
प्र॒जाप॑तिᳶ प्रणे॒ता ।
बृह॒स्पति॑ᳶ पुरए॒ता ।
य॒मᳶ पन्थाः॑ ।
च॒न्द्रमाः॑ पुनर॒सुस्स्वाहा॑ ।
अ॒ग्निर॑न्ना॒दोऽन्न॑पतिः ।
अ॒न्नाद्य॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
सोमो॒ राजा॒ राज॑पतिः ।
रा॒ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
वरु॑णस्स॒म्राट्त्स॒म्राट्प॑तिः ।
साम्रा॑ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ॥32॥
मि॒त्रः क्ष॒त्रङ्क्ष॒त्रप॑तिः ।
क्ष॒त्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
इन्द्रो॒ बल॒म्बल॑पतिः ।
बल॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
बृह॒स्पति॒र्ब्रह्म॒ ब्रह्म॑पतिः ।
ब्रह्मा॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
स॒वि॒ता रा॒ष्ट्रँ रा॒ष्ट्रप॑तिः ।
रा॒ष्ट्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
पू॒षा वि॒शाव्ँविट्प॑तिः ।
विश॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
सर॑स्वती॒ पुष्टि॒ᳶ पुष्टि॑पत्नी ।
पुष्टि॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
त्वष्टा॑ पशू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृद्रू॒पप॑तिः ।
रु॒पेणा॒स्मिन् य॒ज्ञे यज॑मानाय प॒शून्द॑दातु॒ स्वाहा॑ ॥33॥
स ई॑म्पाहि॒ य ऋ॑जी॒षी तरु॑त्रः ।
यश्शिप्र॑वान्वृष॒भो यो म॑ती॒नाम् ।
यो गो॑त्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः ।
स इ॑न्द्र चि॒त्राँ अ॒भि तृ॑न्धि॒ वाजा॑न् ।
आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात् ।
ओत्त॒राद॑ध॒रागा पु॒रस्ता॑त् ।
आ वि॒श्वतो॑ अ॒भिसमे॑त्व॒र्वाङ् ।
इन्द्र॑ द्यु॒म्नँ सुव॑र्वद्धेह्य॒स्मे ।
प्रोष्व॑स्मै पुरोर॒थम् ।
इन्द्रा॑य शू॒षम॑र्चत ॥34॥
अ॒भीके॑ चिदु लोक॒कृत् ।
स॒ङ्गे स॒मत्सु॑ वृत्र॒हा ।
अ॒स्माक॑म्बोधि चोदि॒ता ।
नभ॑न्तामन्य॒केषा॑म् ।
ज्या॒का अधि॒ धन्व॑सु ।
इन्द्रव्ँ॑व॒यँ शु॑ना॒सीर॑म् ।
अ॒स्मिन् य॒ज्ञे ह॑वामहे ।
आ वाजै॒रुप॑ नो गमत् ।
इन्द्रा॑य॒ शुना॒सीरा॑य ।
स्रु॒चा जु॑हुत नो ह॒विः ॥35॥
जु॒षता॒म्प्रति॒ मेधि॑रः ।
प्र ह॒व्यानि॑ घृ॒तव॑न्त्यस्मै ।
हर्य॑श्वाय भरता स॒जोषाः॑ ।
इन्द्र॒र्तुभि॒र्ब्रह्म॑णा वावृधा॒नः ।
शु॒ना॒सी॒री ह॒विरि॒दञ्जु॑षस्व ।
वय॑स्सुप॒र्णा उप॑सेदु॒रिन्द्र॑म् ।
प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।
अप॑ ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षुः॑ ।
मु॒मु॒ग्ध्य॑स्मान्नि॒धये॑ऽव ब॒द्धान् ।
बृ॒हदिन्द्रा॑य गायत ॥36॥
मरु॑तो वृत्र॒हन्त॑मम् ।
येन॒ ज्योति॒रज॑नयन्नृता॒वृधः॑ ।
दे॒वन्दे॒वाय॒ जागृ॑वि ।
कामि॒हैका॒ᳵ क इ॒मे प॑त॒ङ्गाः ।
मा॒न्था॒लाᳵ कुलि॒परि॑मापतन्ति ।
अना॑वृतैना॒न्प्रध॑मन्तु दे॒वाः ।
सौप॑र्ण॒ञ्चक्षु॑स्त॒नुवा॑ विदेय ।
ए॒वा व॑न्दस्व॒ वरु॑णम्बृ॒हन्त॑म् ।
न॒म॒स्याधीर॑म॒मृत॑स्य गो॒पाम् ।
स न॒श्शर्म॑ त्रि॒वरू॑थव्ँ॒वियँ॑सत् ॥37॥
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।
नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तम् ।
हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा ।
हिर॑ण्यपक्षव्ँ॒वरु॑णस्य दू॒तम् ।
य॒मस्य॒ योनौ॑ शकु॒नम्भु॑र॒ण्युम् ।
शन्नो॑ दे॒वीर॒भिष्ट॑ये ।
आपो॑ भवन्तु पी॒तये॑ ।
शय्ँयोर॒भिस्र॑वन्तु नः ।
ईशा॑ना॒ वार्या॑णाम् ।
क्षय॑न्तीश्चर्षणी॒नाम् ॥38 ॥
अ॒पो या॑चामि भेष॒जम् ।
अ॒प्सु मे॒ सोमो॑ अब्रवीत् ।
अ॒न्तर्विश्वा॑नि भेष॒जा ।
अ॒ग्निञ्च॑ वि॒श्वश॑म्भुवम् ।
आप॑श्च वि॒श्वभे॑षजीः ।
यद॒प्सु ते॑ सरस्वति ।
गोष्वश्वे॑षु॒ यन्मधु॑ ।
तेन॑ मे वाजिनीवति ।
मुख॑मङ्ग्धि सरस्वति ।
या सर॑स्वती वैशम्भ॒ल्या ॥39॥
तस्या॑म्मे रास्व ।
तस्या॑स्ते भक्षीय ।
तस्या॑स्ते भूयिष्ठ॒भाजो॑ भूयास्म ।
अ॒हन्त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् ।
ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि ।
ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने ।
पु॒त्रᳶ पि॒त्रे लो॑क॒कृज्जा॑तवेदः ।
इ॒हैव सन्तत्र॒ सन्त॑न्त्वाऽग्ने ।
प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि ।
ति॒रो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् ॥40॥
ज्योति॑षा त्वा वैश्वान॒रेणोप॑तिष्ठे ।
अ॒यन्ते॒ योनि॑र् ऋ॒त्वियः॑ ।
यतो॑ जा॒तो अरो॑चथाः ।
तञ्जा॒नन्न॑ग्न॒ आरो॑ह ।
अथा॑ नो वर्धया र॒यिम् ।
या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्यारो॑हा॒त्माऽऽत्मान॑म् ।
अच्छा॒ वसू॑नि कृ॒ण्वन्न॒स्मे नर्या॑ पु॒रूणि॑ ।
य॒ज्ञो भू॒त्वा य॒ज्ञमासी॑द॒ स्वाय्ँयोनि॑म् ।
जात॑वेदो॒ भुव॒ आ जाय॑मान॒स्सक्ष॑य॒ एहि॑ ।
उ॒पाव॑रोह जातवेद॒ᳶ पुन॒स्त्वम् ॥41॥
दे॒वेभ्यो॑ ह॒व्यव्ँव॑ह नᳶ प्रजा॒नन् ।
आयु॑ᳶ प्र॒जाँ र॒यिम॒स्मासु॑ धेहि ।
अज॑स्रो दीदिहि नो दुरो॒णे ।
तमिन्द्र॑ञ्जोहवीमि म॒घवा॑नमु॒ग्रम् ।
स॒त्रा दधा॑न॒मप्र॑तिष्कुतँ॒ शवाँ॑सि ।
मँहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ऽव॒वर्त॑त् ।
रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ।
त्रिक॑द्रुकेषु महि॒षो यवा॑शिरन्तुवि॒शुष्म॑स्तृ॒पत् ।
सोम॑मपिब॒द्विष्णु॑ना सु॒तय्ँयथाऽव॑शत् ।
स ई॑म्ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुम् ॥42॥
सैनँ॑ सश्चद्दे॒वन्दे॒वस्स॒त्यमिन्दुँ॑ स॒त्य इन्द्रः॑ ।
वि॒दद्यती॑ स॒रमा॑ रु॒ग्णमद्रेः॑ ।
महि॒ पाथ॑ᳶ पू॒र्व्यँ स॒द्ध्रिय॑क्कः ।
अग्र॑न्नयत्सु॒पद्यक्ष॑राणाम् ।
अच्छा॒ रव॑म्प्रथ॒मा जा॑न॒तीगा॑त् ।
वि॒दद्गव्यँ॑ स॒रमा॑ दृ॒ढमू॒र्वम् ।
येना॒नुक॒म्मानु॑षी॒ भोज॑ते॒ विट् ।
आ ये विश्वा॑स्स्वप॒त्यानि॑ च॒क्रुः ।
कृ॒ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ।
त्वन्नृभि॑र्नृपते दे॒वहू॑तौ ॥43॥
भूरी॑णि वृ॒त्वा ह॑र्यश्व हँसि ।
त्वन्निद॑स्यु॒ञ्चुमु॑रिम् ।
धुनि॒ञ्चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ ।
ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा ।
श्रु॒धि ब्रह्म॑ वावृधस्वो॒त गी॒र्भिः ।
आ॒विस्सुर्य॑ङ्कृणु॒हि पी॒पिही॒षः ।
ज॒हि शत्रूँ॑ र॒भि गा इ॑न्द्र तृन्धि ।
अग्ने॒ बाध॑स्व॒ वि मृधो॑ नुदस्व ।
अपामी॑वा॒ अप॒ रक्षाँ॑सि सेध ।
अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नः॑ ॥44॥
अ॒पाम्भू॒मान॒मुप॑ नस्सृजे॒ह ।
यज्ञ॒ प्रति॑तिष्ठ सुम॒तौ सु॒शेवा॒ आ त्वा॑ ।
वसू॑नि पुरु॒धा वि॑शन्तु ।
दी॒र्घमायु॒र्यज॑मानाय कृ॒ण्वन् ।
अधा॒मृते॑न जरि॒तार॑मङ्ग्धि ।
इन्द्र॑श्शु॒नाव॒द्वित॑नोति॒ सीर॑म् ।
सव्ँ॒व॒त्स॒रस्य॑ प्रति॒माण॑मे॒तत् ।
अ॒र्कस्य॒ ज्योति॒स्तदिदा॑स॒ ज्येष्ठ॑म् ।
सव्ँ॒व॒त्स॒रँ शु॒नव॒त्सीर॑मे॒तत् ।
इन्द्र॑स्य॒ राध॒ᳶ प्रय॑तम्पु॒रु त्मना॑ ।
तद॑र्करू॒पव्ँवि॒मिमा॑नमेति ।
द्वाद॑शारे॒ प्रति॑तिष्ठ॒तीद्वृषा॑ ।
अ॒श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तः ।
हवा॑महे॒ त्वोप॑गन्त॒वा उ॑ ।
आ॒भूष॑न्तस्त्वा सुम॒तौ नवा॑याम् ।
व॒यमि॑न्द्र त्वा शु॒नँ हु॑वेम ॥45॥
स्वा॒द्वीन्त्वा॑ स्वा॒दुना॑ ।
ती॒व्रान्ती॒व्रेण॑ ।
अ॒मृता॑म॒मृते॑न ।
मधु॑मती॒म्मधु॑मता ।
सृ॒जामि॒ सँ सोमे॑न ।
सोमो॑ऽस्य॒श्विभ्या॑म्पच्यस्व ।
सर॑स्वत्यै पच्यस्व ।
इन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व ।
परी॒तो षि॑ञ्चता सु॒तम् ।
सोमो॒ य उ॑त्त॒मँ ह॒विः ॥1॥
द॒ध॒न्वा यो नर्यो॑ अ॒प्स्व॑न्तरा ।
सु॒षाव॒ सोम॒मद्रि॑भिः ।
पु॒नातु॑ ते परि॒स्रुत॑म् ।
सोमँ॒ सूर्य॑स्य दुहि॒ता ।
वारे॑ण॒ शश्व॑ता॒ तना॑ ।
वा॒युᳶ पू॒तᳶ प॒वित्रे॑ण ।
प्राङ्क्सोमो॒ अति॑द्रुतः ।
इन्द्र॑स्य॒ युज्य॒स्सखा॑ ।
वा॒युᳶ पू॒तᳶ प॒वित्रे॑ण ।
प्र॒त्यङ्क्सोमो॒ अति॑द्रुतः ॥2॥
इन्द्र॑स्य॒ युज्य॒स्सखा॑ ।
ब्रह्म॑ क्ष॒त्रम्प॑वते॒ तेज॑ इन्द्रि॒यम् ।
सुर॑या॒ सोम॑स्सु॒त आसु॑तो॒ मदा॑य ।
शु॒क्रेण॑ देव दे॒वता॑ᳶ पिपृग्धि ।
रसे॒नान्नय्ँ॒यज॑मानाय धेहि ।
कु॒विद॒ङ्ग यव॑मन्तो॒ यव॑ञ्चित् ।
यथा॒ दान्त्य॑नुपू॒र्वव्ँवि॒यूय॑ ।
इ॒हेहै॑षाङ्कृणुत॒ भोज॑नानि ।
ये ब॒र्हिषो॒ नमो॑वृक्ति॒न्न ज॒ग्मुः ।
उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्या॑न्त्वा॒ जुष्ट॑ङ्गृह्णामि ॥3॥
सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे॑ ।
ए॒ष ते॒ योनि॒स्तेज॑से त्वा ।
वी॒र्या॑य त्वा॒ बला॑य त्वा ।
तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ।
वी॒र्य॑मसि वी॒र्य॑म्मयि॑ धेहि ।
बल॑मसि॒ बल॒म्मयि॑ धेहि ।
नाना॒ हि वा॑न्दे॒वहि॑तँ॒ सद॑ᳵ कृ॒तम् ।
मा सँसृ॑क्षाथाम्पर॒मे व्यो॑मन् ।
सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः ।
मा मा॑ हिँसी॒स्स्वाय्ँयोनि॑मावि॒शन्न् ॥4॥
उ॒प॒या॒मगृ॑हीतोऽस्याश्वि॒नन्तेजः॑ ।
सा॒र॒स्व॒तव्ँवी॒र्य॑म् ।
ऐ॒न्द्रम्बल॑म् ।
ए॒ष ते॒ योनि॒र्मोदा॑य त्वा ।
आ॒न॒न्दाय॑ त्वा॒ मह॑से त्वा ।
ओजो॒ऽस्योजो॒ मयि॑ धेहि ।
म॒न्युर॑सि म॒न्युम्मयि॑ धेहि ।
महो॑ऽसि॒ महो॒ मयि॑ धेहि ।
सहो॑ऽसि॒ सहो॒ मयि॑ धेहि ।
या व्या॒घ्रव्ँविषू॑चिका ।
उ॒भौ वृक॑ञ्च॒ रक्ष॑ति ।
श्ये॒नम्प॑त॒त्रिणँ॑ सिँ॒हम् ।
सेमम्पा॒त्वँह॑सः ।
स॒म्पृच॑स्स्थ॒ सम्मा॑ भ॒द्रेण॑ पृङ्क्त ।
वि॒पृच॑स्स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त ॥5॥
सोमो॒ राजा॒ऽमृतँ॑ सु॒तः ।
ऋ॒जी॒षेणा॑जहान्मृ॒त्युम् ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।
विपानँ॑ शु॒क्रमन्ध॑सः ।
इन्द्र॑स्येन्द्रि॒यम् ।
इ॒दम्पयो॒ऽमृत॒म्मधु॑ ।
सोम॑म॒द्भ्यो व्य॑पिबत् ।
छन्द॑सा हँ॒सश्शु॑चि॒षत् ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।
अ॒द्भ्यः क्षी॒रव्व्ँय॑पिबत् ॥6॥
क्रुङ्ङा॑ङ्गिर॒सो धि॒या ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।
अन्ना॑त्परि॒स्रुतो॒ रस॑म् ।
ब्रह्म॑णा॒ व्य॑पिबत्क्ष॒त्रम् ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।
रेतो॒ मूत्रव्ँ॒विज॑हाति ।
योनि॑म्प्रवि॒शदि॑न्द्रि॒यम् ।
गर्भो॑ ज॒रायु॒णाऽऽवृ॑तः ।
उल्ब॑ञ्जहाति॒ जन्म॑ना ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ॥7॥
वेदे॑न रू॒पे व्य॑करोत् ।
स॒ता॒स॒ती प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।
सोमे॑न॒ सोमौ॒ व्य॑पिबत् ।
सु॒ता॒सु॒तौ प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।
दृ॒ष्ट्वा रू॒पे व्याक॑रोत् ।
स॒त्या॒नृ॒ते प्र॒जाप॑तिः ।
अश्र॑द्धा॒मनृ॒तेऽद॑धात् ।
श्र॒द्धाँ स॒त्ये प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।
दृ॒ष्ट्वा प॑रि॒स्रुतो॒ रस॑म् ।
शु॒क्रेण॑ शु॒क्रव्व्यँ॑पिबत् ।
पय॒स्सोम॑म्प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।
विपानँ॑ शु॒क्रमन्ध॑सः ।
इन्द्र॑स्येन्द्रि॒यम् ।
इ॒दम्पयो॒ऽमृत॒म्मधु॑ ॥8॥
सुरा॑वन्तम्बर्हि॒षदँ॑ सु॒वीर॑म् ।
य॒ज्ञँ हि॑न्वन्ति महि॒षा नमो॑भिः ।
दधा॑ना॒स्सोम॑न्दि॒वि दे॒वता॑सु ।
मदे॒मेन्द्रय्ँ॒यज॑मानास्स्व॒र्काः ।
यस्ते॒ रस॒स्सम्भृ॑त॒ ओष॑धीषु ।
सोम॑स्य॒ शुष्म॒स्सुर॑या सु॒तस्य॑ ।
तेन॑ जिन्व॒ यज॑मान॒म्मदे॑न ।
सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम् ।
यम॒श्विना॒ नमु॑चेरासु॒रादधि॑ ।
सर॑स्व॒त्यस॑नोदिन्द्रि॒याय॑ ॥9॥
इ॒मन्तँ शु॒क्रम्मधु॑मन्त॒मिन्दु॑म् ।
सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ।
यदत्र॑ रि॒प्तँ र॒सिन॑स्सु॒तस्य॑ ।
यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः ।
अ॒हन्तद॑स्य॒ मन॑सा शि॒वेन॑ ।
सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ।
पि॒तृभ्य॑स्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ ।
पि॒ता॒म॒हेभ्य॑स्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ ।
प्रपि॑तामहेभ्यस्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ ।
अक्ष॑न्पि॒तरः॑ ॥10॥
अमी॑मदन्त पि॒तरः॑ ।
अती॑तृपन्त पि॒तरः॑ ।
अमी॑मृजन्त पि॒तरः॑ ।
पित॑र॒श्शुन्ध॑ध्वम् ।
पु॒नन्तु॑ मा पि॒तर॑स्सो॒म्यासः॑ ।
पु॒नन्तु॑ मा पिताम॒हाः ।
पु॒नन्तु॒ प्रपि॑तामहाः ।
प॒वित्रे॑ण श॒तायु॑षा ।
पु॒नन्तु॑ मा पिताम॒हाः ।
पु॒नन्तु॒ प्रपि॑तामहाः ॥11॥
प॒वित्रे॑ण श॒तायु॑षा ।
विश्व॒मायु॒र्व्य॑श्ञवै ।
अग्न॒ आयूँ॑षि पव॒सेऽग्ने॒ पव॑स्व ।
पव॑मान॒स्सुव॒र्जन॑ᳶ पु॒नन्तु॑ मा देवज॒नाः ।
जात॑वेदᳶ प॒वित्र॑व॒द्यत्ते॑ प॒वित्र॑म॒र्चिषि॑ ।
उ॒भाभ्या॑न्देव सवितर्वैश्वदे॒वी पु॑न॒ती ।
ये स॑मा॒नास्सम॑नसः ।
पि॒तरो॑ यम॒राज्ये॑ ।
तेषाल्ँ॑ लो॒कस्स्व॒धा नमः॑ ।
य॒ज्ञो दे॒वेषु॑ कल्पताम् ॥12॥
ये स॑जा॒तास्सम॑नसः ।
जी॒वा जी॒वेषु॑ माम॒काः ।
तेषाँ॒ श्रीर्मयि॑ कल्पताम् ।
अ॒स्मिल्ँ लो॒के श॒तँ समाः॑ ।
द्वे स्रु॒ती अ॑शृणवम्पितृ॒णाम् ।
अ॒हन्दे॒वाना॑मु॒त मर्त्या॑नाम् ।
याभ्या॑मि॒दव्ँ विश्व॒मेज॒त्समे॑ति ।
यद॑न्त॒रा पि॒तर॑म्मा॒तर॑ञ्च ।
इ॒दँ ह॒विᳶ प्र॒जन॑नम्मे अस्तु ।
दश॑वीरँ स॒र्वग॑णँ स्व॒स्तये॑ ।
आ॒त्म॒सनि॑ प्रजा॒सनि॑ ।
प॒शु॒सन्य॑भय॒सनि॑ लोक॒सनि॑ ।
अ॒ग्निᳶ प्र॒जाम्ब॑हु॒लाम्मे॑ करोतु ।
अन्न॒म्पयो॒ रेतो॑ अ॒स्मासु॑ धत्त ।
रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ दीधर॒त्स्वाहा॑ ॥13॥
सीसे॑न॒ तन्त्र॒म्मन॑सा मनी॒षिणः॑ ।
ऊ॒र्णा॒सू॒त्रेण॑ क॒वयो॑ वयन्ति ।
अ॒श्विना॑ य॒ज्ञँ स॑वि॒ता सर॑स्वती ।
इन्द्र॑स्य रू॒पव्ँवरु॑णो भिष॒ज्यन् ।
तद॑स्य रू॒पम॒मृतँ॒ शची॑भिः ।
ति॒स्रोऽद॑धुर्दे॒वता॑स्सँररा॒णाः ।
लोमा॑नि॒ शष्पै॑र्बहु॒धा न तोक्म॑भिः ।
त्वग॑स्य माँ॒सम॑भव॒न्न ला॒जाः ।
तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तनी ।
सर॑स्वती वयति॒ पेशो॒ अन्त॑रः ॥14॥
अस्थि॑ म॒ज्जान॒म्मास॑रैः ।
का॒रो॒त॒रेण॒ दध॑तो॒ गवा॑न्त्व॒चि ।
सर॑स्वती॒ मन॑सा पेश॒लव्ँवसु॑ ।
नास॑त्याभ्याव्ँवयति दर्श॒तव्ँवपुः॑ ।
रस॑म्परि॒स्रुता॒ न रोहि॑तम् ।
न॒ग्नहु॒र्धीर॒स्तस॑र॒न्न वेम॑ ।
पय॑सा शु॒क्रम॒मृत॑ञ्ज॒नित्र॑म् ।
सुर॑या॒ मूत्रा॑ज्जनयन्ति॒ रेतः॑ ।
अपाम॑तिन्दुर्म॒तिम्बाध॑मानाः ।
ऊव॑ध्यव्ँ॒वातँ॑ स॒बुव॒न्तदा॒रात् ॥15॥
इन्द्र॑स्सु॒त्रामा॒ हृद॑येन स॒त्यम् ।
पु॒रो॒डाशे॑न सवि॒ता ज॑जान ।
यकृ॑त्क्लो॒मानव्ँ॒वरु॑णो भिष॒ज्यन् ।
मत॑स्ने वाय॒व्यै॑र्न मि॑नाति पि॒त्तम् ।
आ॒न्त्राणि॑ स्था॒ली मधु॒ पिन्व॑माना ।
गुदा॒ पात्रा॑णि सु॒दुघा॒ न धे॒नुः ।
श्ये॒नस्य॒ पत्र॒न्न प्ली॒हा शची॑भिः ।
आ॒स॒न्दी नाभि॑रु॒दर॒न्न मा॒ता ।
कु॒म्भो व॑नि॒ष्ठुर्ज॑नि॒ता शची॑भिः ।
यस्मि॒न्नग्रे॒ योन्या॒ङ्गर्भो॑ अ॒न्तः ॥16॥
प्ला॒शीर्व्य॑क्तश्श॒तधा॑र॒ उत्सः॑ ।
दु॒हे न कु॒म्भीँ स्व॒धाम्पि॒तृभ्यः॑ ।
मुखँ॒ सद॑स्य॒ शिर॒ इत्सदे॑न ।
जि॒ह्वा प॒वित्र॑म॒श्विना॒ सँ सर॑स्वती ।
चप्प॒न्न पा॒युर्भि॒षग॑स्य॒ वालः॑ ।
व॒स्तिर्न शेपो॒ हर॑सा तर॒स्वी ।
अ॒श्विभ्या॒ञ्चक्षु॑र॒मृत॒ङ्ग्रहा॑भ्याम् ।
छागे॑न॒ तेजो॑ ह॒विषा॑ शृ॒तेन॑ ।
पक्ष्मा॑णि गो॒धूमै॒ᳵ क्व॑लैरु॒तानि॑ ।
पेशो॒ न शु॒क्लमसि॑तव्ँवसाते ॥17॥
अवि॒र्न मे॒षो न॒सि वी॒र्या॑य ।
प्रा॒णस्य॒ पन्था॑ अ॒मृतो॒ ग्रहा॑भ्याम् ।
सर॑स्व॒त्युप॒वाकै॑र्व्या॒नम् ।
नस्या॑नि ब॒र्हिर्बद॑रैर्जजान ।
इन्द्र॑स्य रू॒पमृ॑ष॒भो बला॑य ।
कर्णा॑भ्याँ॒ श्रोत्र॑म॒मृत॒ङ्ग्रहा॑भ्याम् ।
यवा॒ न ब॒र्हिर्भ्रु॒वि केस॑राणि ।
क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घम्मुखा॑त् ।
आ॒त्मन्नु॒पस्थे॒ न वृक॑स्य॒ लोम॑ ।
मुखे॒ श्मश्रू॑णि॒ न व्या॑घ्रलो॒मम् ॥18॥
केशा॒ न शी॒र्षन् यश॑से श्रि॒यै शिखा॑ ।
सिँ॒हस्य॒ लोम॒ त्विषि॑रिन्द्रि॒याणि॑ ।
अङ्गा॑न्या॒त्मन्भि॒षजा॒ तद॒श्विना॑ ।
आ॒त्मान॒मङ्गै॒स्सम॑धा॒त्सर॑स्वती ।
इन्द्र॑स्य रू॒पँ श॒तमा॑न॒मायुः॑ ।
च॒न्द्रेण॒ ज्योति॑र॒मृत॒न्दधा॑ना ।
सर॑स्वती॒ योन्या॒ङ्गर्भ॑म॒न्तः ।
अ॒श्विभ्या॒म्पत्नी॒ सुकृ॑तम्बिभर्ति ।
अ॒पाँ रसे॑न॒ वरु॑णो॒ न साम्ना॑ ।
इन्द्रँ॑ श्रि॒यै ज॒नय॑न्न॒प्सु राजा॑ ।
तेज॑ᳶ पशू॒नाँ ह॒विरि॑न्द्रि॒याव॑त् ।
प॒रि॒स्रुता॒ पय॑सा सार॒घम्मधु॑ ।
अ॒श्विभ्या॑न्दु॒ग्धम्भि॒षजा॒ सर॑स्वत्या सुतासु॒ताभ्या॑म् ।
अ॒मृत॒स्सोम॒ इन्दुः॑ ॥19॥
मि॒त्रो॑ऽसि॒ वरु॑णोऽसि ।
सम॒हव्ँविश्वै॑र्दे॒वैः ।
क्ष॒त्रस्य॒ नाभि॑रसि ।
क्ष॒त्रस्य॒ योनि॑रसि ।
स्यो॒नामा सी॑द ।
सु॒षदा॒मा सी॑द ।
मा त्वा॑ हिँसीत् ।
मा मा॑ हिँसीत् ।
निष॑साद धृ॒तव्र॑तो॒ वरु॑णः ।
प॒स्त्या॑स्वा ॥20॥
साम्रा॑ज्याय सु॒क्रतुः॑ ।
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो॑र्बा॒हुभ्या॑म् ।
पू॒ष्णो हस्ता॑भ्याम् ।
अ॒श्विनो॒र्भैष॑ज्येन ।
तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि ।
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो॑र्बा॒हुभ्या॑म् ।
पू॒ष्णो हस्ता॑भ्याम् ।
सर॑स्वत्यै॒ भैष॑ज्येन ॥21॥
वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि ।
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो॑र्बा॒हुभ्या॑म् ।
पू॒ष्णो हस्ता॑भ्याम् ।
इन्द्र॑स्येन्द्रि॒येण॑ ।
श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि ।
को॑ऽसि कत॒मो॑ऽसि ।
कस्मै॑ त्वा॒ काय॑ त्वा ।
सुश्लो॒काँ (4) सुम॑ङ्ग॒लाँ (4) सत्य॑रा॒जा ३न् ।
शिरो॑ मे॒ श्रीः ॥22॥
यशो॒ मुख॑म् ।
त्विषि॒ᳵ केशा॑श्च॒ श्मश्रू॑णि ।
राजा॑ मे प्रा॒णो॑ऽमृत॑म् ।
स॒म्राट्चक्षुः॑ ।
वि॒राट्छ्रोत्र॑म् ।
जि॒ह्वा मे॑ भ॒द्रम् ।
वाङ्महः॑ ।
मनो॑ म॒न्युः ।
स्व॒राड्भामः॑ ।
मोदा॑ᳶ प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि ॥23॥
चि॒त्तम्मे॒ सहः॑ ।
बा॒हू मे॒ बल॑मिन्द्रि॒यम् ।
हस्तौ॑ मे॒ कर्म॑ वी॒र्य॑म् ।
आ॒त्मा क्ष॒त्रमुरो॒ मम॑ ।
पृ॒ष्टीर्मे॑ रा॒ष्ट्रमु॒दर॒मँसौ॑ ।
ग्री॒वाश्च॒ श्रोण्यौ॑ ।
ऊ॒रू अ॑र॒त्नी जानु॑नी ।
विशो॒ मेऽङ्गा॑नि स॒र्वतः॑ ।
नाभि॑र्मे चि॒त्तव्ँ वि॒ज्ञान॑म् ।
पा॒युर्मेऽप॑चितिर्भ॒सत् ॥24॥
आ॒न॒न्द॒न॒न्दावा॒ण्डौ मे॑ ।
भग॒स्सौभा॑ग्य॒म्पसः॑ ।
जङ्घा॑भ्याम्प॒द्भ्यान्धर्मो॑ऽस्मि ।
वि॒शि राजा॒ प्रति॑ष्ठितः ।
प्रति॑ क्ष॒त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे ।
प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ ।
प्रत्यङ्गे॑षु॒ प्रति॑तिष्ठाम्या॒त्मन् ।
प्रति॑ प्रा॒णेषु॒ प्रति॑तिष्ठामि पु॒ष्टे ।
प्रति॒ द्यावा॑पृथि॒व्योः ।
प्रति॑तिष्ठामि य॒ज्ञे ॥25॥
त्र॒या दे॒वा एका॑दश ।
त्र॒य॒स्त्रिँ॒शास्सु॒राध॑सः ।
बृह॒स्पति॑पुरोहिताः ।
दे॒वस्य॑ सवि॒तुस्स॒वे ।
दे॒वा दे॒वैर॑वन्तु मा ।
प्र॒थ॒मा द्वि॒तीयैः॑ ।
द्वि॒तीया॑स्तृ॒तीयैः॑ ।
तृ॒तीया॑स्स॒त्येन॑ ।
स॒त्यय्ँ य॒ज्ञेन॑ ।
य॒ज्ञो यजु॑र्भिः ॥26 ॥
यजूँ॑षि॒ साम॑भिः ।
सामा॑न्यृ॒ग्भिः ।
ऋचो॑ या॒ज्या॑भिः ।
या॒ज्या॑ वषट्का॒रैः ।
व॒ष॒ट्का॒रा आहु॑तिभिः ।
आहु॑तयो मे॒ कामा॒न्त्सम॑र्धयन्तु ।
भूस्स्वाहा॑ ।
लोमा॑नि॒ प्रय॑ति॒र्मम॑ ।
त्वङ्म॒ आन॑ति॒राग॑तिः ।
माँ॒सम्म॒ उप॑नतिः ।
वस्वस्थि॑ ।
म॒ज्जा म॒ आन॑तिः ॥27॥
यद्दे॑वा देव॒हेड॑नम् ।
देवा॑सश्चकृ॒मा व॒यम् ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।
विश्वा॑न्मुञ्च॒त्वँह॑सः ।
यदि॒ दिवा॒ यदि॒ नक्त॑म् ।
एनाँ॑सि चकृ॒मा व॒यम् ।
वा॒युर्मा॒ तस्मा॒देन॑सः ।
विश्वा॑न्मुञ्च॒त्वँह॑सः ।
यदि॒ जाग्र॒द्यदि॒ स्वप्ने॑ ।
एनाँ॑सि चकृ॒मा व॒यम् ॥28॥
सूर्यो॑ मा॒ तस्मा॒देन॑सः ।
विश्वा॑न्मुञ्च॒त्वँह॑सः ।
यद्ग्रामे॒ यदर॑ण्ये ।
यत्स॒भायाय्ँ॒यदि॑न्द्रि॒ये ।
यच्छू॒द्रे यद॒र्ये॑ ।
एन॑श्चकृ॒मा व॒यम् ।
यदेक॒स्याधि॒ धर्म॑णि ।
तस्या॑व॒यज॑नमसि ।
यदापो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे ।
ततो॑ वरुण नो मुञ्च ॥29॥
अव॑भृथ निचङ्कुण निचे॒रुर॑सि निचङ्कुण ।
अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयाट् ।
अव॒ मर्त्यै॒र्मर्त्य॑कृतम् ।
उ॒रोरा नो॑ देव रि॒षस्पा॑हि ।
सु॒मि॒त्रा न॒ आप॒ ओष॑धयस्सन्तु ।
दु॒र्मि॒त्रास्तस्मै॑ भूयासुः ।
यो॑ऽस्मान्द्वेष्टि॑ ।
यञ्च॑ व॒यन्द्वि॒ष्मः ।
द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः ।
स्वि॒न्नस्स्ना॒त्वी मला॑दिव ॥30॥
पू॒तम्प॒वित्रे॑णे॒वाज्य॑म् ।
आप॑श्शुन्धन्तु॒ मैन॑सः ।
उद्व॒यन्तम॑स॒स्परि॑ ।
पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् ।
दे॒वन्दे॑व॒त्रा सूर्य॑म् ।
अग॑न्म॒ ज्योति॑रुत्त॒मम् ।
प्रति॑युतो॒ वरु॑णस्य॒ पाशः॑ ।
प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ ।
एधो॑ऽस्येधिषी॒महि॑ ।
स॒मिद॑सि ॥31॥
तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ।
अ॒पो अन्व॑चारिषम् ।
रसे॑न॒ सम॑सृक्ष्महि ।
पय॑स्वाँ अग्न॒ आग॑मम् ।
तम्मा॒ सँसृ॑ज॒ वर्च॑सा ।
प्र॒जया॑ च॒ धने॑न च ।
स॒माव॑वर्ति पृथि॒वी ।
समु॒षाः ।
समु॒ सूर्यः॑ ।
समु॒ विश्व॑मि॒दञ्जग॑त् ।
वै॒श्वा॒न॒रज्यो॑तिर्भूयासम् ।
वि॒भुङ्काम॒व्व्ँय॑श्ञवै ।
भूस्स्वाहा॑ ॥32॥
होता॑ यक्षत्स॒मिधेन्द्र॑मि॒डस्प॒दे ।
नाभा॑ पृथि॒व्या अधि॑ ।
दि॒वो वर्ष्म॒न्त्समि॑ध्यते ।
ओजि॑ष्ठश्चर्षणी॒ सहा॑न् ।
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒त्तनू॒नपा॑तम् ।
ऊ॒तिभि॒र्जेता॑र॒मप॑राजितम् ।
इन्द्र॑न्दे॒वँ सु॑व॒र्विद॑म् ।
प॒थिभि॒र्मधु॑मत्तमैः ।
नरा॒शँसे॑न॒ तेज॑सा ॥33॥
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒दिडा॑भि॒रिन्द्र॑मीडि॒तम् ।
आ॒जुह्वा॑न॒मम॑र्त्यम् ।
दे॒वो दे॒वैस्सवी॑र्यः ।
वज्र॑हस्तᳶ पुरन्द॒रः ।
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षद्ब॒र्हिषीन्द्र॑न्निषद्व॒रम् ।
वृ॒ष॒भन्नर्या॑पसम् ।
वसु॑भी रु॒द्रैरा॑दि॒त्यैः ।
स॒युग्भि॑र्ब॒र्हिरास॑दत् ॥34॥
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒दोजो॒ न वी॒र्य॑म् ।
सहो॒ द्वार॒ इन्द्र॑मवर्धयन् ।
सु॒प्रा॒य॒णा विश्र॑यन्तामृता॒वृधः॑ ।
द्वार॒ इन्द्रा॑य मी॒ढुषे॑ ।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षदु॒षे इन्द्र॑स्य धे॒नू ।
सु॒दुघे॑ मा॒तरौ॑ म॒ही ।
सवा॒तरौ॒ न तेज॑सी ।
व॒त्समिन्द्र॑मवर्धताम् ॥35॥
वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒द्दैव्या॒ होता॑रा ।
भि॒षजा॒ सखा॑या ।
ह॒विषेन्द्र॑म्भिषज्यतः ।
क॒वी दे॒वौ प्रचे॑तसौ ।
इन्द्रा॑य धत्त इन्द्रि॒यम् ।
वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षत्ति॒स्रो दे॒वीः ।
त्रय॑स्त्रि॒धात॑वो॒पसः॑ ।
इडा॒ सर॑स्वती॒ भार॑ती ॥36॥
म॒हीन्द्र॑पत्नीर्ह॒विष्म॑तीः ।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒त्त्वष्टा॑र॒मिन्द्र॑न्दे॒वम् ।
भि॒षजँ॑ सु॒यज॑ङ्घृत॒श्रिय॑म् ।
पु॒रु॒रूपँ॑ सु॒रेत॑सम्म॒घोनि॑म् ।
इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ ।
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒द्वन॒स्पति॑म् ।
श॒मि॒तारँ॑ श॒तक्र॑तुम् ।
धि॒यो जो॒ष्टार॑मिन्द्रि॒यम् ॥37॥
मध्वा॑ सम॒ञ्जन्प॒थिभि॑स्सु॒गेभिः॑ ।
स्वदा॑ति ह॒व्यम्मधु॑ना घृ॒तेन॑ ।
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒दिन्द्रँ॒ स्वाहाऽऽज्य॑स्य ।
स्वाहा॒ मेद॑सः ।
स्वाहा॑ स्तो॒काना॑म् ।
स्वाहा॒ स्वाहा॑कृतीनाम् ।
स्वाहा॑ ह॒व्यसू॑क्तीनाम् ।
स्वाहा॑ दे॒वाँ आ॑ज्य॒पान् ।
स्वाहेन्द्रँ॑ हो॒त्राज्जु॑षा॒णाः ।
इन्द्र॒ आज्य॑स्य वियन्तु ।
होत॒र्यज॑ ॥38॥
समि॑द्ध॒ इन्द्र॑ उ॒षसा॒मनी॑के ।
पु॒रो॒रुचा॑ पूर्व॒कृद्वा॑वृधा॒नः ।
त्रि॒भिर्दे॒वैस्त्रिँ॒शता॒ वज्र॑बाहुः ।
ज॒घान॑ वृ॒त्रव्ँ वि दुरो॑ ववार ।
नरा॒शँस॒ᳶ प्रति॒शूरो॒ मिमा॑नः ।
तनू॒नपा॒त्प्रति॑ य॒ज्ञस्य॒ धाम॑ ।
गोभि॑र्व॒पावा॒न्मधु॑ना सम॒ञ्जन् ।
हिर॑ण्यैश्च॒न्द्री य॑जति॒ प्रचे॑ताः ।
ई॒डि॒तो दे॒वैर्हरि॑वाँ अभि॒ष्टिः ।
आ॒जुह्वा॑नो ह॒विषा॒ शर्ध॑मानः ॥39॥
पु॒र॒न्द॒रो म॒घवा॒न् वज्र॑बाहुः ।
आया॑तु य॒ज्ञमुप॑ नो जुषा॒णः ।
जु॒षा॒णो ब॒र्हिर्हरि॑वान्न॒ इन्द्रः॑ ।
प्रा॒चीनँ॑ सीदत्प्र॒दिशा॑ पृथि॒व्याः ।
उ॒रु॒व्यचा॒ᳶ प्रथ॑मानँ स्यो॒नम् ।
आ॒दि॒त्यैर॒क्तव्ँवसु॑भिस्स॒जोषाः॑ ।
इन्द्र॒न्दुर॑ᳵ कव॒ष्यो॑ धाव॑मानाः ।
वृषा॑णय्ँयन्तु॒ जन॑यस्सु॒पत्नीः॑ ।
द्वारो॑ दे॒वीर॒भितो॒ विश्र॑यन्ताम् ।
सु॒वीरा॑ वी॒रम्प्रथ॑माना॒ महो॑भिः ॥40॥
उ॒षासा॒नक्ता॑ बृह॒ती बृ॒हन्त॑म् ।
पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्र॑म् ।
पेश॑स्वती॒ तन्तु॑ना स॒व्व्ँयय॑न्ती ।
दै॒वाना॑न्दे॒वय्ँय॑जतस्सुरु॒क्मे ।
दैव्या॒ मिमा॑ना॒ मन॑सा पुरु॒त्रा ।
होता॑रा॒विन्द्र॑म्प्रथ॒मा सु॒वाचा॑ ।
मू॒र्धन् य॒ज्ञस्य॒ मधु॑ना॒ दधा॑ना ।
प्रा॒चीन॒ञ्ज्योति॑र् ह॒विषा॑ वृधातः ।
ति॒स्रो दे॒वीर् ह॒विषा॒ वर्ध॑मानाः ।
इन्द्र॑ञ्जुषा॒णा वृष॑ण॒न्न पत्नीः॑ ॥41॥
अच्छि॑न्न॒न्तन्तु॒म्पय॑सा॒ सर॑स्वती ।
इडा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः ।
त्वष्टा॒ दध॒दिन्द्रा॑य॒ शुष्म॑म् ।
अपा॒कोचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑ ।
वृषा॒ यज॒न्वृष॑ण॒म्भूरि॑रेताः ।
मू॒र्धन् यज्ञस्य॒ सम॑नक्तु दे॒वान् ।
वन॒स्पति॒रव॑सृष्टो॒ न पाशैः॑ ।
त्मन्या॑ सम॒ञ्जञ्छ॑मि॒ता न दे॒वः ।
इन्द्र॑स्य ह॒व्यैर्ज॒ठर॑म्पृणा॒नः ।
स्वदा॑ति ह॒व्यम्मधु॑ना घृ॒तेन॑ ।
स्तो॒काना॒मिन्दु॒म्प्रति॒ शूर॒ इन्द्रः॑ ।
वृ॒षा॒यमा॑णो वृष॒भस्तु॑रा॒षाट् ।
घृ॒त॒प्रुषा॒ मधु॑ना ह॒व्यमु॒न्दन् ।
मू॒र्धन् य॒ज्ञस्य॑ जुषताँ॒ स्वाहा॑ ॥42॥
आच॑र्षणि॒प्रा वि॒वेष॒ यन्मा॑ ।
तँ स॒ध्रीचीः॑ ।
स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अस्ति॑ ।
इन्द्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न् ।
अह॒न्नहि॑म्परि॒शया॑न॒मर्णः॑ ।
अवा॑सृजो॒ऽपो अच्छा॑ समु॒द्रम् ।
प्रस॑साहिषे पुरुहूत॒ शत्रू॑न् ।
ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु ।
इन्द्राभ॑र॒ दक्षि॑णेना॒ वसू॑नि ।
पति॒स्सिन्धू॑नामसि रे॒वती॑नाम् ।
स शेवृ॑ध॒मधि॑ धाद्द्यु॒म्नम॒स्मे ।
महि॑ क्ष॒त्रञ्ज॑ना॒षाडि॑न्द्र॒ तव्य॑म् ।
रक्षा॑ च नो म॒घोन॑ᳶ पा॒हि सू॒रीन् ।
रा॒ये च॑ नस्स्वप॒त्या इ॒षे धाः॑ ॥43॥
दे॒वम्ब॒र्हिरिन्द्रँ॑ सुदे॒वन्दे॒वैः ।
वी॒रव॑त्स्ती॒र्णव्ँ वेद्या॑मवर्धयत् ।
वस्तो॑र्वृ॒तम्प्राक्तो॑र्भृ॒तम् ।
रा॒या ब॒र्हिष्म॒तोऽत्य॑गात् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।
दे॒वीर्द्वार॒ इन्द्रँ॑ सङ्घा॒ते ।
वि॒ड्वीर्याम॑न्नवर्धयन् ।
आ व॒त्सेन॒ तरु॑णेन कुमा॒रेण॑ चमीवि॒ता अपार्वा॑णम् ।
रे॒णुक॑काटन्नुदन्ताम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥44॥
दे॒वी उ॒षासा॒नक्ता॑ ।
इन्द्रय्ँ॑ य॒ज्ञे प्र॑य॒त्य॑ह्वेताम् ।
दैवी॒र्विश॒ᳶ प्राया॑सिष्टाम् ।
सुप्री॑ते॒ सुधि॑ते अभूताम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।
दे॒वी जोष्ट्री॒ वसु॑धिती ।
दे॒वमिन्द्र॑मवर्धताम् ।
अया॑व्य॒न्याघा द्वेषाँ॑सि ।
आन्यावा॑क्षी॒द्वसु॒ वार्या॑णि ।
यज॑मानाय शिक्षि॒ते ॥45॥
व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।
दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे॑ ।
पय॒सेन्द्र॑मवर्धताम् ।
इष॒मूर्ज॑म॒न्याऽवा॑क्षीत् ।
सग्धिँ॒ सपी॑तिम॒न्या ।
नवे॑न॒ पूर्व॒न्दय॑माने ।
पु॒रा॒णेन॒ नव॑म् ।
अधा॑ता॒मूर्ज॑मू॒र्जाहु॑ती॒ वसु॒ वार्या॑णि ।
यज॑मानाय शिक्षि॒ते ।
व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ॥46 ॥
दे॒वा दैव्या॒ होता॑रा ।
दे॒वमिन्द्र॑मवर्धताम् ।
ह॒ताघ॑शँसा॒वाभा॑र्ष्टाव्ँ॒वसु॒ वार्या॑णि ।
यज॑मानाय शिक्षि॒तौ ।
व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः ।
पति॒मिन्द्र॑मवर्धयन् ।
अस्पृ॑क्ष॒द्भार॑ती॒ दिव॑म् ।
रु॒द्रैर्य॒ज्ञँ सर॑स्वती ।
इडा॒ वसु॑मती गृ॒हान् ॥47॥
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
दे॒व इन्द्रो॒ नरा॒शँसः॑ ।
त्रि॒व॒रू॒थस्त्रि॑वन्धु॒रः ।
दे॒वमिन्द्र॑मवर्धयत् ।
श॒तेन॑ शितिपृ॒ष्ठाना॒माहि॑तः ।
स॒हस्रे॑ण॒ प्रव॑र्तते ।
मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्ह॑तः ।
बृह॒स्पति॑स्स्तो॒त्रम् ।
अ॒श्विनाऽऽध्व॑र्यवम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥48॥
दे॒व इन्द्रो॒ वन॒स्पतिः॑ ।
हिर॑ण्यवर्णो॒ मधु॑शाखस्सुपिप्प॒लः ।
दे॒वमिन्द्र॑मवर्धयत् ।
दिव॒मग्रे॑णाप्रात् ।
आऽन्तरि॑क्षम्पृथि॒वीम॑दृँहीत् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।
दे॒वम्ब॒र्हिर्वारि॑तीनाम् ।
दे॒वमिन्द्र॑मवर्धयत् ।
स्वा॒स॒स्थमिन्द्रे॒णास॑न्नम् ।
अ॒न्या ब॒र्हीँष्य॒भ्य॑भूत् ।
व॒सु॒वने॑ वसु॒धेयस्य॑ वेतु॒ यज॑ ।
दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् ।
दे॒वमिन्द्र॑मवर्धयत् ।
स्वि॑ष्टङ्कु॒र्वन्त्स्वि॑ष्ट॒कृत् ।
स्वि॑ष्टम॒द्य क॑रोतु नः ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥49॥
होता॑ यक्षत्स॒मिधा॒ऽग्निमि॒डस्प॒दे ।
अ॒श्विनेन्द्रँ॒ सर॑स्वतीम् ।
अ॒जो धू॒म्रो न गो॒धूमै॒ᳵ क्व॑लैर्भेष॒जम् ।
मधु॒ शष्पै॒र्न तेज॑ इन्द्रि॒यम् ।
पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ ।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒त्तनू॒नपा॒त्सर॑स्वती ।
अवि॑र्मे॒षो न भे॑ष॒जम् ।
प॒था मधु॑म॒ताभ॑रन् ।
अ॒श्विनेन्द्रा॑य वी॒र्य॑म् ॥50॥
बद॑रैरुप॒वाका॑भिर्भेष॒जन्तोक्म॑भिः ।
पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ ।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒न्नरा॒शँस॒न्न न॒ग्नहु॑म् ।
पतिँ॒ सुरा॑यै भेष॒जम् ।
मे॒षस्सर॑स्वती भि॒षक् ।
रथो॒ न च॒न्द्र्य॑श्विनो॑र्व॒पा इन्द्र॑स्य वी॒र्य॑म् ।
बद॑रैरुप॒वाका॑भिर्भेष॒जन्तोक्म॑भिः ।
पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ ।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥51॥
होता॑ यक्षदि॒डेडि॒त आ॒जुह्वा॑न॒स्सर॑स्वतीम् ।
इन्द्र॒म्बले॑न व॒र्धय॑न् ।
ऋ॒ष॒भेण॒ गवे॑न्द्रि॒यम् ।
अ॒श्विनेन्द्रा॑य वी॒र्य॑म् ।
यवै॑ᳵ क॒र्कन्धु॑भिः ।
मधु॑ ला॒जैर्न मास॑रम् ।
पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ ।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षद्ब॒र्हिस्सु॒ष्टरी॒मोर्ण॑म्रदाः ।
भि॒षङ्नास॑त्या ॥52॥
भि॒षजा॒ऽश्विनाऽश्वा॒ शिशु॑मती ।
भि॒षग्धे॒नुस्सर॑स्वती ।
भि॒षग्दु॒ह इन्द्रा॑य भेष॒जम् ।
पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ ।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒द्दुरो॒ दिशः॑ ।
क॒व॒ष्यो॑ न व्यच॑स्वतीः ।
अ॒श्विभ्या॒न्न दुरो॒ दिशः॑ ।
इन्द्रो॒ न रोद॑सी॒ दुघे॑ ।
दु॒हे कामा॒न्त्सर॑स्वती ॥53॥
अ॒श्विनेन्द्रा॑य भेष॒जम् ।
शु॒क्रन्न ज्योति॑रिन्द्रि॒यम् ।
पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ ।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षत्सु॒पेश॑सो॒षे नक्त॒न्दिवा॑ ।
अ॒श्विना॑ सञ्जाना॒ने ।
सम॑ञ्जाते॒ सर॑स्वत्या ।
त्विषि॒मिन्द्रे॒ न भे॑ष॒जम् ।
श्ये॒नो न रज॑सा हृ॒दा ।
पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ ॥ 54॥
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒ऽश्विना॑ ।
इन्द्र॒न्न जागृ॑वी॒ दिवा॒ नक्त॒न्न भे॑ष॒जैः ।
शूषँ॒ सर॑स्वती भि॒षक् ।
सीसे॑न दुह इन्द्रि॒यम् ।
पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ ।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जम् ।
त्रय॑स्त्रि॒धात॑वो॒ऽपसः॑ ।
रू॒पमिन्द्रे॑ हिर॒ण्यय॑म् ॥55॥
अ॒श्विनेडा॒ न भार॑ती ।
वा॒चा सर॑स्वती ।
मह॒ इन्द्रा॑य दधुरिन्द्रि॒यम् ।
पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ ।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒त्त्वष्टा॑र॒मिन्द्र॑म॒श्विना॑ ।
भि॒षज॒न्न सर॑स्वतीम् ।
ओजो॒ न जू॒तिरि॑न्द्रि॒यम् ।
वृको॒ न र॑भ॒सो भि॒षक् ।
यश॒स्सुर॑या भेष॒जम् ॥56 ॥
श्रि॒या न मास॑रम् ।
पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ ।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒द्वन॒स्पति॑म् ।
श॒मि॒तारँ॑ श॒तक्र॑तुम् ।
भी॒मन्न म॒न्युँ राजा॑नव्ँ व्या॒घ्रन्नम॑सा॒ऽश्विना॒ भाम॑म् ।
सर॑स्वती भि॒षक् ।
इन्दा॑य दुह इन्द्रि॒यम् ।
पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ ।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥57॥
होता॑ यक्षद॒ग्निँ स्वाहाऽऽज्य॑स्य स्तो॒काना॑म् ।
स्वाहा॒ मेद॑सा॒म्पृथ॑क् ।
स्वाहा॒ छाग॑म॒श्विभ्या॑म् ।
स्वाहा॑ मे॒षँ सर॑स्वत्यै ।
स्वाह॑र्ष॒भमिन्द्रा॑य सिँ॒हाय॒ सह॑सेन्द्रि॒यम् ।
स्वाहा॒ऽग्निन्न भे॑ष॒जम् ।
स्वाहा॒ सोम॑मिन्द्रि॒यम् ।
स्वाहेन्द्रँ॑ सु॒त्रामा॑णँ सवि॒तारव्ँ॒वरु॑णम्भि॒षजा॒म्पति॑म् ।
स्वाहा॒ वन॒स्पति॑म्प्रि॒यम्पाथो॒ न भे॑ष॒जम् ।
स्वाहा॑ दे॒वाँ आ॑ज्य॒पान् ॥58॥
स्वाहा॒ऽग्निँ हो॒त्राज्जु॑षा॒णो अ॒ग्निर्भे॑ष॒जम् ।
पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ ।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षद॒श्विना॒ सर॑स्वती॒मिन्द्रँ॑ सु॒त्रामा॑णम् ।
इ॒मे सोमा॑स्सु॒रामा॑णः ।
छागै॒र्न मे॒षैर्ऋ॑ष॒भैस्सु॒ताः ।
शष्पै॒र्न तोक्म॑भिः ।
ला॒जैर्मह॑स्वन्तः ।
मदा॒ मास॑रेण॒ परि॑ष्कृताः ।
शु॒क्राᳶ पय॑स्वन्तो॒ऽमृताः॑ ।
प्रस्थि॑ता वो मधु॒श्चुतः॑ ।
तान॒श्विना॒ सर॑स्व॒तीन्द्र॑स्सु॒त्रामा॑ वृत्र॒हा ।
जु॒षन्ताँ॑ सौ॒म्यम्मधु॑ ।
पिब॑न्तु॒ मद॑न्तु वि॒यन्तु॒ सोम॑म् ।
होत॒र्यज॑ ॥59॥
समि॑द्धो अ॒ग्निर॑श्विना ।
त॒प्तो घ॒र्मो वि॒राट्त्सु॒तः ।
दु॒हे धे॒नुस्सर॑स्वती ।
सोमँ॑ शु॒क्रमि॒हेन्द्रि॒यम् ।
त॒नू॒पा भि॒षजा॑ सु॒ते ।
अ॒श्विनो॒भा सर॑स्वती ।
मध्वा॒ रजाँ॑सीन्द्रि॒यम् ।
इन्द्रा॑य प॒थिभि॑र्वहान् ।
इन्द्रा॒येन्दुँ॒ सर॑स्वती ।
नरा॒शँसे॑न न॒ग्नहुः॑ ॥60॥
अधा॑ताम॒श्विना॒ मधु॑ ।
भे॒ष॒जम्भि॒षजा॑ सु॒ते ।
आ॒जुह्वा॑ना॒ सर॑स्वती ।
इन्द्रा॑येन्द्रि॒याणि॑ वी॒र्य॑म् ।
इडा॑भिर॒श्विना॒विष॑म् ।
समूर्जँ॒ सँर॒यिन्द॑धुः ।
अश्वि॑ना॒ नमु॑चेस्सु॒तम् ।
सोमँ॑ शु॒क्रम्प॑रि॒स्रुता॑ ।
सर॑स्वती॒ तमाभ॑रत् ।
ब॒र्हिषेन्द्रा॑य॒ पात॑वे ॥61॥
क॒व॒ष्यो॑ न व्यच॑स्वतीः ।
अ॒श्विभ्या॒न्न दु॒रो दिशः॑ ।
इन्द्रो॒ न रोद॑सी॒ दुघे॑ ।
दु॒हे कामा॒न्त्सर॑स्वती ।
उ॒षासा॒ नक्त॑मश्विना ।
दिवेन्द्रँ॑ सा॒यमि॑न्द्रि॒यैः ।
स॒ञ्जा॒ना॒ने सु॒पेश॑सा ।
सम॑ञ्जाते॒ सर॑स्वत्या ।
पा॒तन्नो॑ अश्विना॒ दिवा॑ ।
पा॒हि नक्तँ॑ सरस्वति ॥62॥
दैव्या॑ होतारा भिषजा ।
पा॒तमिन्द्रँ॒ सचा॑ सु॒ते ।
ति॒स्रस्त्रे॒धा सर॑स्वती ।
अ॒श्विना॒ भार॒तीडा॑ ।
ती॒व्रम्प॑रि॒स्रुता॒ सोम॑म् ।
इन्द्रा॑य सुषवु॒र्मद॑म् ।
अश्वि॑ना भेष॒जम्मधु॑ ।
भे॒ष॒जन्न॒स्सर॑स्वती ।
इन्द्रे॒ त्वष्टा॒ यश॒श्श्रिय॑म् ।
रू॒पँ रू॑पमधुस्सु॒ते ।
ऋ॒तु॒थेन्द्रो॒ वन॒स्पतिः॑ ।
श॒श॒मा॒नᳶ प॑रि॒स्रुता॑ ।
की॒लाल॑म॒श्विभ्या॒म्मधु॑ ।
दु॒हे धे॒नुस्सर॑स्वती ।
गोभि॒र्न सोम॑मश्विना ।
मास॑रेण परि॒ष्कृता॑ ।
सम॑धाताँ॒ सर॑स्वत्या ।
स्वाहेन्द्रे॑ सु॒तम्मधु॑ ॥63॥
अ॒श्विना॑ ह॒विरि॑न्द्रि॒यम् ।
नमु॑चेर्धि॒या सर॑स्वती ।
आ शु॒क्रमा॑सु॒राद्व॒सु ।
म॒घमिन्द्रा॑य जभ्रिरे ।
यम॒श्विना॒ सर॑स्वती ।
ह॒विषेन्द्र॒मव॑र्धयन् ।
स बि॑भेद व॒लम्म॒घम् ।
नमु॑चावासु॒रे सचा॑ ।
तमिन्द्र॑म्प॒शव॒स्सचा॑ ।
अ॒श्विनो॒भा सर॑स्वती ॥64॥
दधा॑ना अ॒भ्य॑नूषत ।
ह॒विषा॑ य॒ज्ञमि॑न्द्रि॒यम् ।
य इन्द्र॑ इन्द्रि॒यन्द॒धुः ।
स॒वि॒ता वरु॑णो॒ भगः॑ ।
स सु॒त्रामा॑ ह॒विष्प॑तिः ।
यज॑मानाय सश्चत ।
स॒वि॒ता वरु॑णो॒ऽदध॑त् ।
यज॑मानाय दा॒शुषे॑ ।
आद॑त्त॒ नमु॑चे॒र्वसु॑ ।
सु॒त्रामा॒ बल॑मिन्द्रि॒यम् ॥65॥
वरु॑णः क्ष॒त्रमि॑न्द्रि॒यम् ।
भगे॑न सवि॒ता श्रिय॑म् ।
सु॒त्रामा॒ यश॑सा॒ बल॑म् ।
दधा॑ना य॒ज्ञमा॑शत ।
अश्वि॑ना॒ गोभि॑रिन्द्रि॒यम् ।
अश्वे॑भिर्वी॒र्य॑म्बल॑म् ।
ह॒विषेन्द्रँ॒ सर॑स्वती ।
यज॑मानमवर्धयन् ।
ता नास॑त्या सु॒पेश॑सा ।
हिर॑ण्यवर्तनी॒ नरा॑ ।
सर॑स्वती ह॒विष्म॑ती ।
इन्द्र॒ कर्म॑सु नोऽवत ।
ता भि॒षजा॑ सु॒कर्म॑णा ।
सा सु॒दुघा॒ सर॑स्वती ।
स वृ॑त्र॒हा श॒तक्र॑तुः ।
इन्द्रा॑य दधुरिन्द्रि॒यम् ॥66॥
दे॒वम्ब॒र्हिस्स॑रस्वती ।
सु॒दे॒वमिन्द्रे॑ अ॒श्विना॑ ।
तेजो॒ न चक्षु॑र॒क्ष्योः ।
ब॒र्हिषा॑ दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
दे॒वीर्द्वारो॑ अ॒श्विना॑ ।
भि॒षजेन्द्रे॒ सर॑स्वती ।
प्रा॒णन्न वी॒र्य॑न्न॒सि ।
द्वारो॑ दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥67॥
दे॒वी उ॒षासा॑व॒श्विना॑ ।
भि॒षजेन्द्रे॒ सर॑स्वती ।
बल॒न्न वाच॑मा॒स्ये॑ ।
उ॒षाभ्या॑न्दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
दे॒वी जोष्ट्री॑ अ॒श्विना॑ ।
सु॒त्रामेन्द्रे॒ सर॑स्वती ।
श्रोत्र॒न्न कर्ण॑यो॒र्यशः॑ ।
जोष्ट्री॑भ्यान्दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥68॥
दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे॑ ।
पय॒सेन्द्रँ॒ सर॑स्वत्य॒श्विना॑ भि॒षजा॑वत ।
शु॒क्रन्न ज्योति॒स्स्तन॑यो॒राहु॑ती धत्त इन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
दे॒वा दे॒वाना॑म्भि॒षजा॑ ।
होता॑रा॒विन्द्र॑म॒श्विना॑ ।
व॒ष॒ट्का॒रैस्सर॑स्वती ।
त्विषि॒न्न हृद॑ये म॒तिम् ।
होतृ॑भ्यान्दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥69॥
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः ।
सर॑स्वत्य॒श्विना॒ भार॒तीडा॑ ।
शूष॒न्न मध्ये॒ नाभ्या॑म् ।
इन्द्रा॑य दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
दे॒व इन्द्रो॒ नरा॒शँसः॑ ।
त्रि॒व॒रू॒थस्सर॑स्वत्या॒ऽश्विभ्या॑मीयते॒ रथः॑ ।
रेतो॒ न रू॒पम॒मृत॑ञ्ज॒नित्र॑म् ।
इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥70॥
दे॒व इन्द्रो॒ वन॒स्पतिः॑ ।
हिर॑ण्यपर्णो अ॒श्विभ्या॑म् ।
सर॑स्वत्यास्सुपिप्प॒लः ।
इन्द्रा॑य पच्यते॒ मधु॑ ।
ओजो॒ न जू॒तिमृ॑ष॒भो न भाम॑म् ।
वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑ ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
दे॒वम्ब॒र्हिर्वारि॑तीनाम् ।
अ॒ध्व॒रे स्ती॒र्णम॒श्विभ्या॑म् ।
ऊर्ण॑म्रदा॒स्सर॑स्वत्याः ॥71॥
स्यो॒नमि॑न्द्र ते॒ सदः॑ ।
ई॒शायै॑ म॒न्युँ राजा॑नम्ब॒र्हिषा॑ दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् ।
दे॒वान् य॑क्षद्यथाय॒थम् ।
होता॑रा॒विन्द्र॑म॒श्विना॑ ।
वा॒चा वाचँ॒ सर॑स्वतीम् ।
अ॒ग्निँ सोमँ॑ स्विष्ट॒कृत् ।
स्वि॑ष्ट॒ इन्द्र॑स्सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षक् ।
इ॒ष्टो दे॒वो वन॒स्पतिः॑ ।
स्वि॑ष्टा दे॒वा आ॑ज्य॒पाः ।
इ॒ष्टो अ॒ग्निर॒ग्निना॑ ।
होता॑ हो॒त्रे स्वि॑ष्ट॒कृत् ।
यशो॒ न दध॑दिन्द्रि॒यम् ।
ऊर्ज॒मप॑चितिँ स्व॒धाम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥72॥
अ॒ग्निम॒द्य होता॑रमवृणीत ।
अ॒यँ सु॑तासु॒ती यज॑मानः ।
पच॑न्प॒क्तीः ।
पच॑न्पुरो॒डाशा॑न् ।
गृ॒ह्णन्ग्रहा॑न् ।
ब॒ध्नन्न॒श्विभ्या॒ञ्छागँ॒ सर॑स्वत्या॒ इन्द्रा॑य ।
ब॒ध्नन्त्सर॑स्वत्यै मे॒षमिन्द्रा॑या॒श्विभ्या॑म् ।
ब॒ध्नन्निन्द्रा॑यर्ष॒भम॒श्विभ्याँ॒ सर॑स्वत्यै ।
सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवत् ।
अ॒श्विभ्या॒ञ्छागे॑न॒ सर॑स्वत्या॒ इन्द्रा॑य ॥73॥
सर॑स्वत्यै मे॒षेणेन्द्रा॑या॒श्विभ्या॑म् ।
इन्द्रा॑यर्ष॒भेणा॒श्विभ्याँ॒ सर॑स्वत्यै ।
अक्षँ॒ स्तान्मे॑द॒स्तᳶ प्रति॑पच॒ताग्र॑भीषुः ।
अवी॑वृधन्त॒ ग्रहैः॑ ।
अपा॑ताम॒श्विना॒ सर॑स्व॒तीन्द्र॑स्सु॒त्रामा॑ वृत्र॒हा ।
सोमा॑न्त्सु॒राम्णः॑ ।
उपो॑ उक्थाम॒दाश्श्रौ॒द्विमदा॑ अदन् ।
अवी॑वृधन्ताङ्गू॒षैः ।
त्वाम॒द्यर्ष॑ आर्षेयर्षीणान्नपादवृणीत ।
अ॒यँ सु॑तासु॒ती यज॑मानः ।
ब॒हुभ्य॒ आ सङ्ग॑तेभ्यः ।
ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑क्ष्यत॒ इति॑ ।
ता या दे॒वा दे॑व॒दाना॒न्यदुः॑ ।
तान्य॑स्मा॒ आ च॒ शास्व॑ ।
आ च॑ गुरस्व ।
इ॒षि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः ।
सू॒क्त॒वा॒काय॑ सू॒क्ता ब्रू॑हि ॥74 ॥
उ॒शन्त॑स्त्वा हवामह॒ आ नो॑ अग्ने सुके॒तुना॑ ।
त्वँ सो॑म म॒हे भग॒न्त्वँ सो॑म॒ प्रचि॑कितो मनी॒षा ।
त्वया॒ हि न॑ᳶ पि॒तर॑स्सोम॒ पूर्वे॒ त्वँ सो॑म पि॒तृभि॑स्सव्ँ विदा॒नः ।
बर्हि॑षदᳶ पितर॒ आऽहम्पि॒तॄन् ।
उप॑हूताᳶ पि॒तरोऽग्नि॑ष्वात्ताᳶ पितरः ।
अ॒ग्नि॒ष्वा॒त्तानृ॑तु॒मतो॑ हवामहे ।
नरा॒शँसे॑ सोमपी॒थय्ँय आ॒शुः ।
ते नो॒ अर्व॑न्तस्सु॒हवा॑ भवन्तु ।
शन्नो॑ भवन्तु द्वि॒पदे॒ शञ्चतु॑ष्पदे ।
ये अ॑ग्निष्वा॒त्ता येऽन॑ग्निष्वात्ताः ॥75॥
अँ॒हो॒मुच॑ᳶ पि॒तर॑स्सो॒म्यासः॑ ।
परेऽव॑रे॒ऽमृता॑सो॒ भव॑न्तः ।
अधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् ।
वा॒न्या॑यै दु॒ग्धे जु॒षमा॑णाᳵ कर॒म्भम् ।
उ॒दीरा॑णा॒ अव॑रे॒ परे॑ च ।
अ॒ग्नि॒ष्वा॒त्ता ऋ॒तुभि॑स्सव्ँविदा॒नाः ।
इन्द्र॑वन्तो ह॒विरि॒दञ्जु॑षन्ताम् ।
यद॑ग्ने कव्यवाहन॒ त्वम॑ग्न ईडि॒तो जा॑तवेदः ।
मात॑ली क॒व्यैः ।
ये ता॑तृ॒पुर्दे॑व॒त्रा जेह॑मानाः ।
हो॒त्रा॒वृध॒स्स्तोम॑तष्टासो अ॒र्कैः ।
आऽग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ् ।
स॒त्यैᳵ क॒व्यैᳶ पि॒तृभि॑र्घर्म॒सद्भिः॑ ।
ह॒व्य॒वाह॑म॒जर॑म्पुरुप्रि॒यम् ।
अ॒ग्निङ्घृ॒तेन॑ ह॒विषा॑ सप॒र्यन् ।
उपा॑सदङ्कव्य॒वाह॑म्पितृ॒णाम् ।
स न॑ᳶ प्र॒जाव्ँ वी॒रव॑तीँ॒ समृ॑ण्वतु ॥76॥
होता॑ यक्षदि॒डस्प॒दे ।
स॒मि॒धा॒नम्म॒हद्यशः॑ ।
सुष॑मिद्धव्ँ॒वरे॑ण्यम् ।
अ॒ग्निमिन्द्रव्ँ॑वयो॒धस॑म् ।
गा॒य॒त्रीञ्छन्द॑ इन्द्रि॒यम् ।
त्र्यवि॒ङ्गाव्ँवयो॒ दध॑त् ।
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒च्छुचि॑व्रतम् ।
तनू॒नपा॑तमु॒द्भिद॑म् ।
यङ्गर्भ॒मदि॑तिर्द॒धे ॥77॥
शुचि॒मिन्द्रव्ँ॑वयो॒धस॑म् ।
उ॒ष्णिह॒ञ्छन्द॑ इन्द्रि॒यम् ।
दि॒त्य॒वाह॒ङ्गाव्ँवयो॒ दध॑त् ।
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षदी॒डेन्य॑म् ।
ई॒डि॒तव्ँ वृ॑त्र॒हन्त॑मम् ।
इडा॑भि॒रीड्यँ॒ सहः॑ ।
सोम॒मिन्द्रव्ँ॑वयो॒धस॑म् ।
अ॒नु॒ष्टुभ॒ञ्छन्द॑ इन्द्रि॒यम् ।
त्रि॒व॒त्सङ्गाव्ँवयो॒ दध॑त् ॥78॥
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षत्सुबर्हि॒षद॑म् ।
पू॒ष॒ण्वन्त॒मम॑र्त्यम् ।
सीद॑न्तम्ब॒र्हिषि॑ प्रि॒ये ।
अ॒मृतेन्द्रव्ँ॑वयो॒धस॑म् ।
बृ॒ह॒तीञ्छन्द॑ इन्द्रि॒यम् ।
पञ्चा॑वि॒ङ्गाव्ँवयो॒ दध॑त् ।
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒द्व्यच॑स्वतीः ।
सु॒प्रा॒य॒णा ऋ॑ता॒वृधः॑ ॥79॥
द्वारो॑ दे॒वीर्हि॑र॒ण्ययीः॑ ।
ब्र॒ह्माण॒ इन्द्रव्ँ॑वयो॒धस॑म् ।
प॒ङ्क्तिञ्छन्द॑ इ॒हेन्द्रि॒यम् ।
तु॒र्य॒वाह॒ङ्गाव्ँवयो॒ दध॑त् ।
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षत्सु॒पेश॑से ।
सु॒शि॒ल्पे बृ॑ह॒ती उ॒भे ।
नक्तो॒षासा॒ न द॑र्श॒ते ।
विश्व॒मिन्द्रव्ँ॑वयो॒धस॑म् ।
त्रि॒ष्टुभ॒ञ्छन्द॑ इन्द्रि॒यम् ॥80॥
प॒ष्ठ॒वाह॒ङ्गाव्ँवयो॒ दध॑त् ।
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒त्प्रचे॑तसा ।
दे॒वाना॑मुत्त॒मय्ँयशः॑ ।
होता॑रा॒ दैव्या॑ क॒वी ।
स॒युजेन्द्रव्ँ॑वयो॒धस॑म् ।
जग॑ती॒ञ्छन्द॑ इ॒हेन्द्रि॒यम् ।
अ॒न॒ड्वाह॒ङ्गाव्ँवयो॒ दध॑त् ।
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒त्पेश॑स्वतीः ॥81॥
ति॒स्रो दे॒वीर्हि॑र॒ण्ययीः॑ ।
भार॑तीर्बृह॒तीर्म॒हीः ।
पति॒मिन्द्रव्ँ॑वयो॒धस॑म् ।
वि॒राज॒ञ्छन्द॑ इ॒हेन्द्रि॒यम् ।
धे॒नुङ्गान्न वयो॒ दध॑त् ।
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षत्सु॒रेत॑सम् ।
त्वष्टा॑रम्पुष्टि॒वर्ध॑नम् ।
रू॒पाणि॒ बिभ्र॑त॒म्पृथ॑क् ।
पुष्टि॒मिन्द्रव्ँ॑वयो॒धस॑म् ॥82॥
द्वि॒पद॒ञ्छन्द॑ इ॒हेन्द्रि॒यम् ।
उ॒क्षाण॒ङ्गान्न वयो॒ दध॑त् ।
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षच्छ॒तक्र॑तुम् ।
हिर॑ण्यपर्णमु॒क्थिन॑म् ।
र॒श॒नाम्बिभ्र॑तव्ँव॒शिम् ।
भग॒मिन्द्रव्ँ॑वयो॒धस॑म् ।
क॒कुभ॒ञ्छन्द॑ इ॒हेन्द्रि॒यम् ।
व॒शाव्ँ वे॒हत॒ङ्गान्न वयो॒ दध॑त् ।
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒त्स्वाहा॑कृतीः ।
अ॒ग्निङ्गृ॒हप॑ति॒म्पृथ॑क् ।
वरु॑णम्भेष॒जङ्क॒विम् ।
क्ष॒त्रमिन्द्रव्ँ॑वयो॒धस॑म् ।
अति॑च्छन्दस॒ञ्छन्द॑ इन्द्रि॒यम् ।
बृ॒हदृ॑ष॒भङ्गाव्ँवयो॒ दध॑त् ।
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥83॥
समि॑द्धो अ॒ग्निस्स॒मिधा॑ ।
सुष॑मिद्धो॒ वरे॑ण्यः ।
गा॒य॒त्री छन्द॑ इन्द्रि॒यम् ।
त्र्यवि॒र्गौर्वयो॑ दधुः ।
तनू॒नपा॒च्छुचि॑व्रतः ।
त॒नू॒पाच्च॒ सर॑स्वती ।
उ॒ष्णिक्छन्द॑ इन्द्रि॒यम् ।
दि॒त्य॒वाड्गौर्वयो॑ दधुः ।
इडा॑भिर॒ग्निरीड्यः॑ ।
सोमो॑ दे॒वो अम॑र्त्यः ॥84॥
अ॒नु॒ष्टुप्छन्द॑ इन्द्रि॒यम् ।
त्रि॒व॒त्सो गौर्वयो॑ दधुः ।
सु॒ब॒र्हिर॒ग्निᳶ पू॑ष॒ण्वान् ।
स्ती॒र्णब॑र्हि॒रम॑र्त्यः ।
बृ॒ह॒ती छन्द॑ इन्द्रि॒यम् ।
पञ्चा॑वि॒र्गौर्वयो॑ दधुः ।
दुरो॑ दे॒वीर्दिशो॑ म॒हीः ।
ब्र॒ह्मा दे॒वो बृह॒स्पतिः॑ ।
प॒ङ्क्तिश्छन्द॑ इ॒हेन्द्रि॒यम् ।
तु॒र्य॒वाड्गौर्वयो॑ दधुः ॥85॥
उ॒षे य॒ह्वी सु॒पेश॑सा ।
विश्वे॑ दे॒वा अम॑र्त्याः ।
त्रि॒ष्टुप्छन्द॑ इन्द्रि॒यम् ।
प॒ष्ठ॒वाद्गौर्वयो॑ दधुः ।
दैव्या॑ होतारा भिषजा ।
इन्द्रे॑ण स॒युजा॑ यु॒जा ।
जग॑ती॒ छन्द॑ इ॒हेन्द्रि॒यम् ।
अ॒न॒ड्वान्गौर्वयो॑ दधुः ।
ति॒स्र इडा॒ सर॑स्वती ।
भार॑ती म॒रुतो॒ विशः॑ ॥86॥
वि॒राट्छन्द॑ इ॒हेन्द्रि॒यम् ।
धे॒नुर्गौर्न वयो॑ दधुः ।
त्वष्टा॑ तु॒रीपो॒ अद्भु॑तः ।
इ॒न्द्रा॒ग्नी पु॑ष्टि॒वर्ध॑ना ।
द्वि॒पाच्छन्द॑ इ॒हेन्द्रि॒यम् ।
उ॒क्षा गौर्न वयो॑ दधुः ।
श॒मि॒ता नो॒ वन॒स्पतिः॑ ।
स॒वि॒ता प्र॑सु॒वन्भग॑म् ।
क॒कुच्छन्द॑ इ॒हेन्द्रि॒यम् ।
व॒शा वे॒हद्गौर्न वयो॑ दधुः ।
स्वाहा॑ य॒ज्ञव्ँवरु॑णः ।
सु॒क्ष॒त्रो भे॑ष॒जङ्क॑रत् ।
अति॑च्छन्दा॒श्छन्द॑ इन्द्रि॒यम् ।
बृ॒हदृ॑ष॒भो गौर्वयो॑ दधुः ॥ 87॥
व॒स॒न्तेन॒र्तुना॑ दे॒वाः ।
वस॑वस्त्रि॒वृता॑ स्तु॒तम् ।
र॒थ॒न्त॒रेण॒ तेज॑सा ।
ह॒विरिन्द्रे॒ वयो॑ दधुः ।
ग्री॒ष्मेण॑ दे॒वा ऋ॒तुना॑ ।
रु॒द्राᳶ प॑ञ्चद॒शे स्तु॒तम् ।
बृ॒ह॒ता यश॑सा॒ बल॑म् ।
ह॒विरिन्द्रे॒ वयो॑ दधुः ।
व॒र्षाभि॑र्ऋ॒तुना॑ऽऽदि॒त्याः ।
स्तोमे॑ सप्तद॒शे स्तु॒तम् ॥88॥
वै॒रू॒पेण॑ वि॒शौज॑सा ।
ह॒विरिन्द्रे॒ वयो॑ दधुः ।
शा॒र॒देन॒र्तुना॑ दे॒वाः ।
ए॒क॒विँ॒श ऋ॒भव॑स्स्तु॒तम् ।
वै॒रा॒जेन॑ श्रि॒या श्रिय॑म् ।
ह॒विरिन्द्रे॒ वयो॑ दधुः ।
हे॒म॒न्तेन॒र्तुना॑ दे॒वाः ।
म॒रुत॑स्त्रिण॒वे स्तु॒तम् ।
बले॑न॒ शक्व॑री॒स्सहः॑ ।
ह॒विरिन्द्रे॒ वयो॑ दधुः ।
शै॒शि॒रेण॒र्तुना॑ दे॒वाः ।
त्र॒य॒स्त्रिँ॒शे॑ऽमृतँ॑ स्तु॒तम् ।
स॒त्येन॑ रे॒वतीः॑ क्ष॒त्रम् ।
ह॒विरिन्द्रे॒ वयो॑ दधुः ॥ 89॥
दे॒वम्ब॒र्हिरिन्द्रव्ँ॑वयो॒धस॑म् ।
दे॒वन्दे॒वम॑वर्धयत् ।
गा॒य॒त्रि॒या छन्द॑सेन्द्रि॒यम् ।
तेज॒ इन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।
दे॒वीर्द्वारो॑ दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् ।
दे॒वीर्दे॒वम॑वर्धयन् ।
उ॒ष्णिहा॒ छन्द॑सेन्द्रि॒यम् ।
प्रा॒णमिन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥90॥
दे॒वी दे॒वव्ँव॑यो॒धस॑म् ।
उ॒षे इन्द्र॑मवर्धताम् ।
अ॒नु॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् ।
वाच॒मिन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।
दे॒वी जोष्ट्री॑ दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् ।
दे॒वी दे॒वम॑वर्धताम् ।
बृ॒ह॒त्या छन्द॑सेन्द्रि॒यम् ।
श्रोत्र॒मिन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ॥91॥
दे॒वी ऊ॒र्जाहु॑ती दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् ।
दे॒वी दे॒वम॑वर्धताम् ।
प॒ङ्क्त्या छन्द॑सेन्द्रि॒यम् ।
शु॒क्रमिन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।
दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् ।
दे॒वा दे॒वम॑वर्धताम् ।
त्रि॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् ।
त्विषि॒मिन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ॥92॥
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्व॑यो॒धस॑म् ।
पति॒मिन्द्र॑मवर्धयन् ।
जग॑त्या॒ छन्द॑सेन्द्रि॒यम् ।
बल॒मिन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒व॒ने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
दे॒वो नरा॒शँसो॑ दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् ।
दे॒वो दे॒वम॑वर्धयत् ।
वि॒राजा॒ छन्द॑सेन्द्रि॒यम् ।
रेत॒ इन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥93॥
दे॒वो वन॒स्पति॑र्दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् ।
दे॒वो दे॒वम॑वर्धयत् ।
द्वि॒पदा॒ छन्द॑सेन्द्रि॒यम् ।
भग॒मिन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।
दे॒वम्ब॒र्हिर्वारि॑तीनान्दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् ।
दे॒वन्दे॒वम॑वर्धयत् ।
क॒कुभा॒ छन्द॑सेन्द्रि॒यम् ।
यश॒ इन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।
दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृद्दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् ।
दे॒वो दे॒वम॑वर्धयत् ।
अति॑च्छन्दसा॒ छन्द॑सेन्द्रि॒यम् ।
क्ष॒त्रमिन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥94॥
त्रि॒वृत्स्तोमो॑ भवति ।
ब्र॒ह्म॒व॒र्च॒सव्ँ वै त्रि॒वृत् ।
ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे ।
अ॒ग्नि॒ष्टो॒मस्सोमो॑ भवति ।
ब्र॒ह्म॒व॒र्च॒सव्ँ वा अ॑ग्निष्टो॒मः ।
ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे ।
र॒थ॒न्त॒रँ साम॑ भवति ।
ब्र॒ह्म॒व॒र्च॒सव्ँ वै र॑थन्त॒रम् ।
ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे ।
प॒रि॒स्र॒जी होता॑ भवति ॥1॥
अ॒रु॒णो मि॑र्मि॒रस्त्रिशु॑क्रः ।
ए॒तद्वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पम् ।
रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑रुन्धे ।
बृह॒स्पति॑रकामयत दे॒वाना॑म्पुरो॒धाङ्ग॑च्छेय॒मिति॑ ।
स ए॒तम्बृ॑हस्पतिस॒वम॑पश्यत् ।
तमाऽह॑रत् ।
तेना॑यजत ।
ततो॒ वै स दे॒वाना॑म्पुरो॒धाम॑गच्छत् ।
यᳶ पु॑रो॒धाका॑म॒स्स्यात् ।
स बृ॑हस्पतिस॒वेन॑ यजेत ॥2॥
पु॒रो॒धामे॒व ग॑च्छति ।
तस्य॑ प्रातस्सव॒ने स॒न्नेषु॑ नाराशँ॒सेषु॑ ।
एका॑दश॒ दक्षि॑णा नीयन्ते ।
एका॑दश॒ माध्य॑न्दिने॒ सव॑ने स॒न्नेषु॑ नाराशँ॒सेषु॑ ।
एका॑दश तृतीयसव॒ने स॒न्नेषु॑ नाराशँ॒सेषु॑ ।
त्रय॑स्त्रिँश॒त्सम्प॑द्यन्ते ।
त्रय॑स्त्रिँश॒द्वै दे॒वताः॑ ।
दे॒वता॑ ए॒वाव॑रुन्धे ।
अश्व॑श्चतुस्त्रिँ॒शः ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ॥3॥
प्र॒जाप॑तिश्चतुस्त्रिँ॒शो दे॒वता॑नाम् ।
याव॑तीरे॒व दे॒वताः॑ ।
ता ए॒वाव॑रुन्धे ।
कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति ।
ब्रह्म॑णो॒ वा ए॒तद्रू॒पम् ।
यत्कृ॑ष्णाजि॒नम् ।
ब्र॒ह्म॒व॒र्च॒सेनै॒वैनँ॒ सम॑र्धयति ।
आज्ये॑ना॒भिषि॑ञ्चति ।
तेजो॒ वा आज्य॑म् ।
तेज॑ ए॒वास्मि॑न्दधाति ॥4॥
यदा॑ग्ने॒यो भव॑ति ।
अ॒ग्निमु॑खा॒ ह्यृद्धिः॑ ।
अथ॒ यत्पौ॒ष्णः ।
पुष्टि॒र्वै पू॒षा ।
पुष्टि॒र्वैश्य॑स्य ।
पुष्टि॑मे॒वाव॑रुन्धे ।
प्र॒स॒वाय॑ सावि॒त्रः ।
अथ॒ यत्त्वा॒ष्ट्रः ।
त्वष्टा॒ हि रू॒पाणि॑ विक॒रोति॑ ।
नि॒र्व॒रु॒ण॒त्वाय॑ वारु॒णः ॥5॥
अथो॒ य ए॒व कश्च॒ सन्त्सू॒यते॑ ।
स हि वा॑रु॒णः ।
अथ॒ यद्वै॑श्वदे॒वः ।
वै॒श्व॒दे॒वो हि वैश्यः॑ ।
अथ॒ यन्मा॑रु॒तः ।
मा॒रु॒तो हि वैश्यः॑ ।
स॒प्तैतानि॑ ह॒वीँषि॑ भवन्ति ।
स॒प्तग॑णा॒ वै म॒रुतः॑ ।
पृश्ञि॑ᳶ पष्ठौ॒ही मा॑रु॒त्याल॑भ्यते ।
विड्वै म॒रुतः॑ ।
विश॑ ए॒वैतन्म॑ध्य॒तो॑ऽभिषि॑च्यते ।
तस्मा॒द्वा ए॒ष वि॒शᳶ प्रि॒यः ।
वि॒शो हि म॑ध्य॒तो॑ऽभिषि॒च्यते॑ ।
ऋ॒ष॒भ॒च॒र्मेऽध्य॒भिषि॑ञ्चति ।
स हि प्र॑जनयि॒ता ।
द॒ध्नाऽभिषि॑ञ्चति ।
ऊर्ग्वा अ॒न्नाद्य॒न्दधि॑ ।
ऊ॒र्जैवैन॑म॒न्नाद्ये॑न॒ सम॑र्धयति ॥6॥
यदा॑ग्ने॒यो भव॑ति ।
आ॒ग्ने॒यो वै ब्रा॑ह्म॒णः ।
अथ॒ यत्सौ॒म्यः ।
सौ॒म्यो हि ब्रा॑ह्म॒णः ।
प्र॒स॒वायै॒व सा॑वि॒त्रः ।
अथ॒ यद्बा॑र्हस्प॒त्यः ।
ए॒तद्वै ब्रा॑ह्म॒णस्य॑ वाक्प॒तीय॑म् ।
अथ॒ यद॑ग्नीषो॒मीयः॑ ।
आ॒ग्ने॒यो वै ब्रा॑ह्म॒णः ।
तौ य॒दा स॒ङ्गच्छे॑ते ॥7॥
अथ॑ वी॒र्या॑वत्तरो भवति ।
अथ॒ यत्सा॑रस्व॒तः ।
ए॒तद्धि प्र॒त्यक्ष॑म्ब्राह्म॒णस्य॑ वाक्प॒तीय॑म् ।
नि॒र्व॒रु॒ण॒त्वायै॒व वा॑रु॒णः ।
अथो॒ य ए॒व कश्च॒ सन्त्सू॒यते॑ ।
स हि वा॑रु॒णः ।
अथ॒ यद्द्या॑वापृथि॒व्यः॑ ।
इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् ।
तन्द्यावा॑पृथि॒वी नान्व॑मन्येताम् ।
तमे॒तेनै॒व भा॑ग॒धेये॒नान्व॑मन्येताम् ॥8॥
वज्र॑स्य॒ वा ए॒षो॑ऽनुमा॒नाय॑ ।
अनु॑मतवज्रस्सूयाता॒ इति॑ ।
अ॒ष्टावे॒तानि॑ ह॒वीँषि॑ भवन्ति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्री ब्र॑ह्मवर्च॒सम् ।
गा॒य॒त्रि॒यैव ब॑ह्मवर्च॒समव॑रुन्धे ।
हिर॑ण्येन घृ॒तमुत्पु॑नाति ।
तेज॑स ए॒व रु॒चे ।
कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति ।
ब्रह्म॑णो॒ वा ए॒तदृ॑क्सा॒मयो॑ रू॒पम् ।
यत्कृ॑ष्णाजि॒नम् ।
ब्रह्म॑न्ने॒वैन॑मृक्सा॒मयो॒रध्य॒भिषि॑ञ्चति ।
घृ॒तेना॒भिषि॑ञ्चति ।
तथा॑ वी॒र्या॑वत्तरो भवति ॥9॥
न वै सोमे॑न॒ सोम॑स्य स॒वो॑ऽस्ति ।
ह॒तो ह्ये॑षः ।
अ॒भिषु॑तो॒ ह्ये॑षः ।
न हि ह॒तस्सू॒यते॑ ।
सौ॒मीँ सू॒तव॑शा॒माल॑भते ।
सोमो॒ वै रे॑तो॒धाः ।
रेत॑ ए॒व तद्द॑धाति ।
सौ॒म्यर्चाऽभिषि॑ञ्चति ।
रे॒तो॒धा ह्ये॑षा ।
रेत॒स्सोमः॑ ।
रेत॑ ए॒वास्मि॑न्दधाति ।
यत्किञ्च॑ राज॒सूय॑मृ॒ते सोम॑म् ।
तत्सर्व॑म्भवति ।
अषा॑ढय्ँ यु॒त्सु पृत॑नासु॒ पप्रि॑म् ।
सु॒व॒र्षाम॒प्स्वाव्ँ वृ॒जन॑स्य गो॒पाम् ।
भ॒रे॒षु॒जाँ सु॑क्षि॒तिँ सु॒श्रव॑सम् ।
जय॑न्त॒न्त्वामनु॑ मदेम सोम ॥10॥
यो वै सोमे॑न सू॒यते॑ ।
स दे॑वस॒वः ।
यᳶ प॒शुना॑ सू॒यते॑ ।
स दे॑वस॒वः ।
य इष्ट्या॑ सू॒यते॑ ।
स म॑नुष्यस॒वः ।
ए॒तव्ँ वै पृथ॑ये दे॒वाᳶ प्राय॑च्छन् ।
ततो॒ वै सोऽप्या॑र॒ण्याना॑म्पशू॒नाम॑सूयत ।
याव॑ती॒ᳵ किय॑तीश्च प्र॒जा वाचव्ँ॒वद॑न्ति ।
तासाँ॒ सर्वा॑साँ सूयते ॥11॥
य ए॒तेन॒ यज॑ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ।
ना॒रा॒शँ॒स्यर्चाऽभिषि॑ञ्चति ।
म॒नु॒ष्या॑ वै नरा॒शँसः॑ ।
नि॒ह्नुत्य॒ वावैतत् ।
अथा॒भिषि॑ञ्चति ।
यत्किञ्च॑ राज॒सूय॑मनुत्तरवे॒दीक॑म् ।
तत्सर्व॑म्भवति ।
ये मे॑ पञ्चा॒शत॑न्द॒दुः ।
अश्वा॑नाँ स॒धस्तु॑तिः ।
द्यु॒मद॑ग्ने॒ महि॒ श्रवः॑ ।
बृ॒हत्कृ॑धि म॒घोना॑म् ।
नृ॒वद॑मृत नृ॒णाम् ॥12॥
ए॒ष गो॑स॒वः ।
ष॒ट्त्रिँ॒श उ॒क्थ्यो॑ बृ॒हत्सा॑मा ।
पव॑माने कण्वरथन्त॒रम्भ॑वति ।
यो वै वा॑ज॒पेयः॑ ।
स स॑म्राट्त्स॒वः ।
यो रा॑ज॒सूयः॑ ।
स व॑रुणस॒वः ।
प्र॒जाप॑ति॒स्स्वारा॑ज्यम्परमे॒ष्ठी ।
स्वारा॑ज्य॒ङ्गौरे॒व ।
गौरि॑व भवति ॥13॥
य ए॒तेन॒ यज॑ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ।
उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः ।
तद्धि स्वारा॑ज्यम् ।
अ॒युत॒न्दक्षि॑णाः ।
तद्धि स्वारा॑ज्यम् ।
प्र॒ति॒धुषा॒ऽभिषि॑ञ्चति ।
तद्धि स्वारा॑ज्यम् ।
अनु॑द्धते॒ वेद्यै॑ दक्षिण॒त आ॑हव॒नीय॑स्य बृह॒तस्स्तो॒त्रम्प्रत्य॒भिषि॑ञ्चति ।
इ॒यव्ँ वाव र॑थन्त॒रम् ॥14॥
अ॒सौ बृ॒हत् ।
अ॒नयो॑रे॒वैन॒मन॑न्तर्हितम॒भिषि॑ञ्चति ।
प॒शु॒स्तो॒मो वा ए॒षः ।
तेन॑ गोस॒वः ।
ष॒ट्त्रिँ॒शस्सर्वः॑ ।
रे॒वज्जा॒तस्सह॑सा वृ॒द्धः ।
क्ष॒त्राणा॑ङ्खत्र॒भृत्त॑मो वयो॒धाः ।
म॒हान्म॑हि॒त्वे त॑स्तभा॒नः ।
क्ष॒त्रे रा॒ष्ट्रे च॑ जागृहि ।
प्र॒जाप॑तेस्त्वा परमे॒ष्ठिन॒स्स्वारा॑ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह ।
स्वारा॑ज्यमे॒वैन॑ङ्गमयति ॥15॥
सिँ॒हे व्या॒घ्र उ॒त या पृदा॑कौ ।
त्विषि॑र॒ग्नौ ब्रा॑ह्म॒णे सूर्ये॒ या ।
इन्द्रय्ँ॒या दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न्वर्च॑सा सव्ँ विदा॒ना ।
या रा॑ज॒न्ये॑ दुन्दु॒भावाय॑तायाम् ।
अश्व॑स्य॒ क्रन्द्ये॒ पुरु॑षस्य मा॒यौ ।
इन्द्रय्ँ॒या दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न्वर्च॑सा सव्ँ विदा॒ना ।
या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये ।
त्विषि॒रश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑ ॥16॥
इन्द्रय्ँ॒या दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न्वर्च॑सा सव्ँ विदा॒ना ।
रथे॑ अ॒क्षेषु॑ वृष॒भस्य॒ वाजे॑ ।
वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे॑ ।
इन्द्रय्ँ॒या दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न्वर्च॑सा सव्ँ विदा॒ना ।
राड॑सि वि॒राड॑सि ।
स॒म्राड॑सि स्व॒राड॑सि ।
इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्तँ श्रीणामि ।
इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑स्वन्तँ श्रीणामि ॥17॥
इन्द्रा॑य त्वा॒ पय॑स्वते॒ पय॑स्वन्तँ श्रीणामि ।
इन्द्रा॑य॒ त्वाऽऽयु॑ष्मत॒ आयु॑ष्मन्तँ श्रीणामि ।
तेजो॑ऽसि ।
तत्ते॒ प्रय॑च्छामि ।
तेज॑स्वदस्तु मे॒ मुख॑म् ।
तेज॑स्व॒च्छिरो॑ अस्तु मे ।
तेज॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
तेज॑सा॒ सम्पि॑पृग्धि मा ।
ओजो॑ऽसि ।
तत्ते॒ प्रय॑च्छामि ॥18॥
ओज॑स्वदस्तु मे॒ मुख॑म् ।
ओज॑स्व॒च्छिरो॑ अस्तु मे ।
ओज॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
ओज॑सा॒ सम्पि॑पृग्धि मा ।
पयो॑ऽसि ।
तत्ते॒ प्रय॑च्छामि ।
पय॑स्वदस्तु मे॒ मुख॑म् ।
पय॑स्व॒च्छिरो॑ अस्तु मे ।
पय॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
पय॑सा॒ सम्पि॑पृग्धि मा ॥19॥
आयु॑रसि ।
तत्ते॒ प्रय॑च्छामि ।
आयु॑ष्मदस्तु मे॒ मुखम्॑ ।
आयु॑ष्म॒च्छिरो॑ अस्तु मे ।
आयु॑ष्मान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
आयु॑षा॒ सम्पि॑पृग्धि मा ।
इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि ।
प्रि॒यँ रेतो॑ वरुण सोम राजन् ।
मा॒तेवा॑स्मा अदिते॒ शर्म॑ यच्छ ।
विश्वे॑ देवा॒ जर॑दष्टि॒र्यथाऽस॑त् ॥20॥
आयु॑रसि वि॒श्वायु॑रसि ।
स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि ।
यतो॒ वातो॒ मनो॑जवाः ।
यतः॒ क्षर॑न्ति॒ सिन्ध॑वः ।
तासा॑न्त्वा॒ सर्वा॑साँ रु॒चा ।
अ॒भिषि॑ञ्चामि॒ वर्च॑सा ।
स॒मु॒द्र इ॑वासि ग॒ह्मना॑ ।
सोम॑ इवा॒स्यदा॑भ्यः ।
अ॒ग्निरि॑व वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
सूर्य॑ इव॒ ज्योति॑षा वि॒भूः ॥21॥
अ॒पाय्ँ यो द्रव॑णे॒ रसः॑ ।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ ।
तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि ।
अ॒पाय्ँय ऊ॒र्मौ रसः॑ ।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ ।
ओज॑से वी॒र्या॑य गृह्णामि ।
अ॒पाय्ँ यो म॑ध्य॒तो रसः॑ ।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ ।
पुष्ट्यै॑ प्र॒जन॑नाय गृह्णामि ।
अ॒पाय्ँ यो य॒ज्ञियो॒ रसः॑ ।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ ।
आयु॑षे दीर्घायु॒त्वाय॑ गृह्णामि ॥22॥
अ॒भिप्रेहि॑ वी॒रय॑स्व ।
उ॒ग्रश्चेत्ता॑ सपत्न॒हा ।
आति॑ष्ठ मित्र॒वर्ध॑नः ।
तुभ्य॑न्दे॒वा अधि॑ब्रवन् ।
अ॒ङ्कौ न्य॒ङ्काव॒भित॒ आति॑ष्ठ वृत्रह॒न्रथ॑म् ।
आ॒तिष्ठ॑न्त॒म्परि॒ विश्वे॑ अभूषन् ।
श्रियव्ँ॒वसा॑नश्चरति॒ स्वरो॑चाः ।
म॒हत्तद॒स्यासु॑रस्य॒ नाम॑ ।
आ वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ।
अनु॒ त्वेन्द्रो॑ मद॒त्वनु॒ बृह॒स्पतिः॑ ॥23॥
अनु॒ सोमो॒ अन्व॒ग्निरा॑वीत् ।
अनु॑ त्वा॒ विश्वे॑ दे॒वा अ॑वन्तु ।
अनु॑ स॒प्त राजा॑नो॒ य उ॒ताभिषि॑क्ताः ।
अनु॑ त्वा मि॒त्रावरु॑णावि॒हाव॑तम् ।
अनु॒ द्यावा॑पृथि॒वी वि॒श्वश॑म्भू ।
सूर्यो॒ अहो॑भि॒रनु॑ त्वाऽवतु ।
च॒न्द्रमा॒ नक्ष॑त्रै॒रनु॑ त्वाऽवतु ।
द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा ।
शु॒क्रो बृ॒हद्दक्षि॑णा त्वा पिपर्तु ।
अनु॑ स्व॒धा चि॑किताँ॒ सोमो॑ अ॒ग्निः ।
आऽयम्पृ॑णक्तु॒ रज॑सी उ॒पस्थ॑म् ॥24॥
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ता अ॑स्मात्सृ॒ष्टाᳶ परा॑चीरायन् ।
स ए॒तम्प्र॒जाप॑तिरोद॒नम॑पश्यत् ।
सोऽन्न॑म्भू॒तो॑ऽतिष्ठत् ।
ता अ॒न्यत्रा॒न्नाद्य॒मवि॑त्वा ।
प्र॒जाप॑तिम्प्र॒जा उ॒पाव॑र्तन्त ।
अन्न॑मे॒वैन॑म्भू॒तम्पश्य॑न्तीᳶ प्र॒जा उ॒पाव॑र्तन्ते ।
य ए॒तेन॒ यज॑ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ।
सर्वा॒ण्यन्ना॑नि भवन्ति ॥25॥
सर्वे॒ पुरु॑षाः ।
सर्वा॑ण्ये॒वान्ना॒न्यव॑रुन्धे ।
सर्वा॒न्पुरु॑षान् ।
राड॑सि वि॒राड॒सीत्या॑ह ।
स्वारा॑ज्यमे॒वैन॑ङ्गमयति ।
यद्धिर॑ण्य॒न्ददा॑ति ।
तेज॒स्तेनाव॑रुन्धे ।
यत्ति॑सृध॒न्वम् ।
वी॒र्य॑न्तेन॑ ।
यदष्ट्रा॑म् ॥26॥
पुष्टि॒न्तेन॑ ।
यत्क॑म॒ण्डलु॑म् ।
आयु॒ष्टेन॑ ।
यद्धिर॑ण्यमाब॒ध्नाति॑ ।
ज्योति॒र्वै हिर॑ण्यम् ।
ज्योति॑रे॒वास्मि॑न्दधाति ।
अथो॒ तेजो॒ वै हिर॑ण्यम् ।
तेज॑ ए॒वात्मन्ध॑त्ते ।
यदो॑द॒नम्प्रा॒श्ञाति॑ ।
ए॒तदे॒व सर्व॑मव॒रुध्य॑ ॥27॥
तद॑स्मिन्नेक॒धाऽधा॑त् ।
रो॒हि॒ण्याङ्का॒र्यः॑ ।
यद्ब्रा॑ह्म॒ण ए॒व रो॑हि॒णी ।
तस्मा॑दे॒व ।
अथो॒ वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करोति ।
उ॒द्य॒ता सूर्ये॑ण का॒र्यः॑ ।
उ॒द्यन्तव्ँ॒वा ए॒तँ सर्वा॑ᳶ प्र॒जाᳶ प्रति॑नन्दन्ति ।
दि॒दृ॒क्षेण्यो॑ दर्श॒नीयो॑ भवति ।
य ए॒वव्ँ वेद॑ ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ॥28॥
अ॒वेत्यो॑ऽवभृ॒था३ ना३ इति॑ ।
यद्द॑र्भपुञ्जी॒लैᳶ प॒वय॑ति ।
तत्स्वि॑दे॒वावै॑ति ।
तन्नावै॑ति ।
त्रि॒भिᳶ प॑वयति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒भिरे॒वैनल्ँ॑ लो॒कैᳶ प॑वयति ।
अथो॑ अ॒पाव्ँ वा ए॒तत्तेजो॒ वर्चः॑ ।
यद्द॒र्भाः ।
यद्द॑र्भपुञ्जी॒लैᳶ प॒वय॑ति ।
अ॒पामे॒वैन॒न्तेज॑सा॒ वर्च॑सा॒ऽभिषि॑ञ्चति ॥29॥
प्र॒जाप॑तिरकामयत ब॒होर्भूया॑न्त्स्या॒मिति॑ ।
स ए॒तम्प॑ञ्चशार॒दीय॑मपश्यत् ।
तमाऽह॑रत् ।
तेना॑यजत ।
ततो॒ वै स ब॒होर्भूया॑नभवत् ।
यᳵ का॒मये॑त ब॒होर्भूया॑न्त्स्या॒मिति॑ ।
स प॑ञ्चशार॒दीये॑न यजेत ।
ब॒होरे॒व भूया॑न्भवति ।
म॒रु॒त्स्तो॒मो वा ए॒षः ।
म॒रुतो॒ हि दे॒वाना॒म्भूयि॑ष्ठाः ॥30 ॥
ब॒हुर्भ॑वति ।
य ए॒तेन॒ यज॑ते ।
य उ॑चैनमे॒वव्ँ वेद॑ ।
प॒ञ्च॒शा॒र॒दीयो॑ भवति ।
पञ्च॒ वा ऋ॒तव॑स्सव्ँवत्स॒रः ।
ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑तिष्ठति ।
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः ।
पाङ्क्तो॑ य॒ज्ञः ।
य॒ज्ञमे॒वाव॑रुन्धे ।
स॒प्त॒द॒शँ स्तोमा॒ नाति॑यन्ति ।
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ॥31॥
अ॒गस्त्यो॑ म॒रुद्भ्य॑ उ॒क्ष्णᳶ प्रौक्ष॑त् ।
तानिन्द्र॒ आद॑त्त ।
त ए॑नव्ँ॒वज्र॑मु॒द्यत्या॒भ्या॑यन्त ।
तान॒गस्त्य॑श्चै॒वेन्द्र॑श्च कयाशु॒भीये॑नाशमयताम् ।
ताञ्छा॒न्तानुपा॑ह्वयत ।
यत्क॑याशु॒भीय॒म्भव॑ति॒ शान्त्यै॑ ।
तस्मा॑दे॒त ऐ॑न्द्रामारु॒ता उ॒क्षाण॑स्सव॒नीया॑ भवन्ति ।
त्रय॑ᳶ प्रथ॒मेऽह॒न्नाल॑भ्यन्ते ।
ए॒वन्द्वि॒तीये॑ ।
ए॒वन्तृ॒तीये॑ ॥32॥
ए॒वञ्च॑तु॒र्थे ।
पञ्चो॑त्त॒मेऽह॒न्ना ल॑भ्यन्ते ।
वर्षि॑ष्ठमिव॒ ह्ये॑तदहः॑ ।
वर्षि॑ष्ठस्समा॒नाना॑म्भवति ।
य ए॒तेन॒ यज॑ते ।
य उ॑चैनमे॒वव्ँ वेद॑ ।
स्वारा॑ज्यव्ँ॒वा ए॒ष य॒ज्ञः ।
ए॒तेन॒ वा एक॒यावा॑ कान्द॒मस्स्वारा॑ज्यमगच्छत् ।
स्वरा॑ज्यङ्गच्छति ।
य ए॒तेन॒ यज॑ते ॥33॥
य उ॑ चैनमे॒वव्ँ वेद॑ ।
मा॒रु॒तो वा ए॒ष स्तोमः॑ ।
ए॒तेन॒ वै म॒रुतो॑ दे॒वाना॒म्भूयि॑ष्ठा अभवन् ।
भूयि॑ष्ठस्समा॒नाना॑म्भवति ।
य ए॒तेन॒ यज॑ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ।
प॒ञ्च॒शा॒र॒दीयो॒ वा ए॒ष य॒ज्ञः ।
आ प॑ञ्च॒मात्पुरु॑षा॒दन्न॑मत्ति ।
य ए॒तेन॒ यज॑ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ।
स॒प्त॒द॒शँ स्तोमा॒ नाति॑यन्ति ।
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑तेरे॒व नैति॑ ॥34॥
अ॒स्या जरा॑सो द॒मा म॒रित्राः॑ ।
अ॒र्चद्धू॑मासो अ॒ग्नय॑ᳶ पाव॒काः ।
श्वि॒ची॒चय॑श्श्वा॒त्रासो॑ भुर॒ण्यवः॑ ।
व॒न॒र्षदो॑ वा॒यवो॒ न सोमाः॑ ।
यजा॑ नो मि॒त्रावरु॑णा ।
यजा॑ दे॒वाँ ऋ॒तम्बृ॒हत् ।
अग्ने॒ यक्षि॒ स्वन्दम॑म् ।
अश्वि॑ना॒ पिब॑तँ सु॒तम् ।
दीद्य॑ग्नी शुचिव्रता ।
ऋ॒तुना॑ यज्ञवाहसा ॥ 35॥
द्वे विरू॑पे चरत॒स्स्वर्थे॑ ।
अ॒न्याऽन्या॑ व॒त्समुप॑धापयेते ।
हरि॑र॒न्यस्या॒म्भव॑ति स्व॒धावा॑न् ।
शु॒क्रो अ॒न्यस्या॑न्ददृशे सु॒वर्चाः॑ ।
पू॒र्वा॒प॒रञ्च॑रतो मा॒ययै॒तौ ।
शिशू॒ क्रीड॑न्तौ॒ परि॑यातो अध्व॒रम् ।
विश्वा॑न्य॒न्यो भुव॑नाऽभि॒चष्टे॑ ।
ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ।
त्रीणि॑ श॒ता त्रीष॒हस्रा॑ण्य॒ग्निम् ।
त्रिँ॒शच्च॑ दे॒वा नव॑ चाऽसपर्यन्न् ॥36॥
औक्ष॑न्घृ॒तैरास्तृ॑णन्ब॒र्हिर॑स्मै ।
आदिद्धोता॑र॒न्न्य॑षादयन्त ।
अ॒ग्निना॒ऽग्निस्समि॑ध्यते ।
क॒विर्गृ॒हप॑ति॒र्युवा॑ ।
ह॒व्य॒वाड्जु॒ह्वा॑स्यः ।
अ॒ग्निर्दे॒वाना॑ञ्ज॒ठर॑म् ।
पू॒तद॑क्षᳵ क॒विक्र॑तुः ।
दे॒वो दे॒वेभि॒राग॑मत् ।
अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टयः ।
आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् ॥37॥
ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः ।
सिँ॒हा न हे॒षक्र॑तवस्सु॒दान॑वः ।
यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॑ ।
यद्वा॑ऽव॒मे सु॑भगासो दि॒वि ष्ठ ।
ततो॑ नो रुद्रा उ॒त वा॒ऽन्वस्य॑ ।
अग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑मः ।
ईडे॑ अ॒ग्निँ स्वव॑स॒न्नमो॑भिः ।
इ॒ह प्र॑स॒प्तो वि च॑ यत्कृ॒तन्नः॑ ।
रथै॑रिव॒ प्रभ॑रे वाज॒यद्भिः॑ ।
प्र॒द॒क्षि॒णिन्म॒रुताँ॒ स्तोम॑मृद्ध्याम् ॥38॥
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिः ।
दे॒वैर॑ग्ने स॒याव॑भिः ।
आसी॑दन्तु ब॒र्हिषि॑ ।
मि॒त्रो वरु॑णो अर्य॒मा ।
प्रा॒त॒र्यावा॑णो अध्व॒रम् ।
विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नाम् ।
विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् ।
अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः ।
सु॒मृ॒डी॒को भवतु वि॒श्ववे॑दाः ।
त्वे अ॑ग्ने सुम॒तिम्भिक्ष॑माणाः ॥39॥
दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः ।
नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे ।
कृ॒ष्णञ्च॒ वर्ण॑मरु॒णञ्च॒ सन्धुः॑ ।
त्वाम॑ग्न आदि॒त्यास॑ आ॒स्य॑म् ।
त्वाञ्जि॒ह्वाँ शुच॑यश्चक्रिरे कवे ।
त्वाँ रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे ।
त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ।
नि त्वा॑ य॒ज्ञस्य॒ साध॑नम् ।
अग्ने॒ होता॑रमृ॒त्विज॑म् ।
व॒नु॒ष्वद्दे॑व धीमहि॒ प्रचे॑तसम् ।
जी॒रन्दू॒तमम॑र्त्यम् ॥40॥
तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि ।
वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ ।
पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे ।
इन्द्र॒स्स्वाहा॑ ररि॒मा ते॒ मदा॑य ।
कस्य॒ वृषा॑ सु॒ते सचा॑ ।
नि॒युत्वा॑न्वृष॒भो र॑णत् ।
वृ॒त्र॒हा सोम॑पीतये ।
इन्द्रव्ँ॑व॒यम्म॑हाध॒ने ।
इन्द्र॒मर्भे॑ हवामहे ।
युजव्ँ॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ॥41॥
द्वि॒ता यो वृ॑त्र॒हन्त॑मः ।
वि॒द इन्द्र॑श्श॒तक्र॑तुः ।
उप॑ नो॒ हरि॑भिस्सु॒तम् ।
स सूर॒ आज॒नय॒ञ्ज्योति॒रिन्द्र॑म् ।
अ॒या धि॒या त॒रणि॒रद्रि॑बर्हाः ।
ऋ॒तेन॑ शु॒ष्मी नव॑मानो अ॒र्कैः ।
व्यु॑स्रिधो॑ अ॒स्रो अद्रि॑र्बिभेद ।
उ॒तत्यदा॒श्वश्वि॑यम् ।
यदि॑न्द्र॒ नाहु॑षी॒ष्वा ।
अग्रे॑ वि॒क्षु प्रतीद॑यत् ॥42॥
भरे॒ष्विन्द्रँ॑ सु॒हवँ॑ हवामहे ।
अँ॒हो॒मुचँ॑ सु॒कृत॒न्दैव्य॒ञ्जन॑म् ।
अ॒ग्निम्मि॒त्रव्ँवरु॑णँ सा॒तये॒ भग॑म् ।
द्यावा॑पृथि॒वी म॒रुत॑स्स्व॒स्तये॑ ।
म॒हि क्षेत्र॑म्पु॒रुश्च॒न्द्रव्ँ वि वि॒द्वान् ।
आदित्सखि॑भ्यश्च॒रथँ॒ समै॑रत् ।
इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नस्सा॒कम् ।
सूर्य॑मु॒षस॑ङ्गा॒तुम॒ग्निम् ।
उ॒रुन्नो॑ लो॒कमनु॑नेषि वि॒द्वान् ।
सुव॑र्व॒ज्ज्योति॒रभ॑यँ स्व॒स्ति ॥43॥
ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू ।
उप॑स्थेयाम शर॒णा बृ॒हन्ता॑ ।
आ नो॒ विश्वा॑भिरू॒तिभि॑स्स॒जोषाः॑ ।
ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि ।
वरी॑वृज॒त्स्थवि॑रेभिस्सुशिप्र ।
अ॒स्मे दध॒द्वृष॑णँ॒ शुष्म॑मिन्द्र ।
इन्द्रा॑य॒ गाव॑ आ॒शिर॑म् ।
दु॒दु॒ह्रे व॒ज्रिणे॒ मधु॑ ।
यत्सी॑मुपह्व॒रे वि॒दत् ।
तास्ते॑ वज्रिन्धे॒नवो॑ जोजयुर्नः ॥44॥
गभ॑स्तयो नि॒युतो॑ वि॒श्ववा॑राः ।
अह॑रह॒र्भूय॒ इज्जोगु॑वानाः ।
पू॒र्णा इ॑न्द्र क्षु॒मतो॒ भोज॑नस्य ।
इ॒मान्ते॒ धिय॒म्प्र भ॑रे म॒हो म॒हीम् ।
अ॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे ।
तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिम् ।
इन्द्र॑न्दे॒वास॒श्शव॑सा मद॒न्ननु॑ ॥45॥
प्र॒जाप॑तिᳶ प॒शून॑सृजत ।
ते॑ऽस्मात्सृ॒ष्टाᳶ परा॑ञ्च आयन् ।
तान॑ग्निष्टो॒मेन॒ नाप्नो॑त् ।
तानु॒क्थ्ये॑न॒ नाप्नो॑त् ।
तान्त्षो॑ड॒शिना॒ नाप्नो॑त् ।
तान्रात्रि॑या॒ नाप्नो॑त् ।
तान्त्स॒न्धिना॒ नाप्नो॑त् ।
सो॑ऽग्निम॑ब्रवीत् ।
इ॒मान्म॑ ई॒प्सेति॑ ।
तान॒ग्निस्त्रि॒वृता॒ स्तोमे॑न॒ नाप्नो॑त् ॥46॥
स इन्द्र॑मब्रवीत् ।
इ॒मान्म॑ ई॒प्सेति॑ ।
तानिन्द्र॑ᳶ पञ्चद॒शेन॒ स्तोमे॑न॒ नाप्नो॑त् ।
स विश्वा॑न्दे॒वान॑ब्रवीत् ।
इ॒मान्म॑ ईप्स॒तेति॑ ।
तान् विश्वे॑ दे॒वास्स॑प्तद॒शेन॒ स्तोमे॑न॒ नाप्नु॑वन् ।
स विष्णु॑मब्रवीत् ।
इ॒मान्म॑ ई॒प्सेति॑ ।
तान् विष्णु॑रेकविँ॒शेन॒ स्तोमे॑नाप्नोत् ।
वा॒र॒व॒न्तीये॑नावारयत ॥47॥
इ॒दव्ँ विष्णु॒र्विच॑क्रम॒ इति॒ व्य॑क्रमत ।
यस्मा॑त्प॒शव॒ᳶ प्रप्रेव॒ भ्रँशे॑रन् ।
स ए॒तेन॑ यजेत ।
यदाप्नो॑त् ।
तद॒प्तोर्याम॑स्याप्तोर्याम॒त्वम् ।
ए॒तेन॒ वै दे॒वा जैत्वा॑नि जि॒त्वा ।
यङ्काम॒मका॑मयन्त॒ तमा॑प्नुवन् ।
यङ्काम॑ङ्का॒मय॑ते ।
तमे॒तेना॑प्नोति ॥48॥
व्या॒घ्रो॑ऽयम॒ग्नौ च॑रति॒ प्रवि॑ष्टः ।
ऋषी॑णाम्पु॒त्रो अ॑भिशस्ति॒पा अ॒यम् ।
न॒म॒स्का॒रेण॒ नम॑सा ते जुहोमि ।
मा दे॒वाना॑म्मिथु॒याक॑र्म भा॒गम् ।
सावी॒र्हि दे॑व प्रस॒वाय॑ पित्रे ।
व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै ।
अथा॒स्मभ्यँ॑ सवितस्स॒र्वता॑ता ।
दि॒वेदि॑व॒ आ सु॑वा॒ भूरि॑ प॒श्वः ।
भू॒तो भू॒तेषु॑ चरति॒ प्रवि॑ष्टः ।
स भू॒ताना॒मधि॑पतिर्बभूव ॥49॥
तस्य॑ मृ॒त्यौ च॑रति राज॒सूय॑म् ।
स राजा॑ रा॒ज्यमनु॑मन्यतामि॒दम् ।
येभि॒श्शिल्पै॑ᳶ पप्रथा॒नामदृँ॑हत् ।
येभि॒र्द्याम॒भ्यपिँ॑शत्प्र॒जाप॑तिः ।
येभि॒र्वाचव्ँ॑वि॒श्वरू॑पाँ स॒मव्य॑यत् ।
तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि ।
येभि॑रादि॒त्यस्तप॑ति॒ प्र के॒तुभिः॑ ।
येभि॒स्सूर्यो॑ ददृ॒शे चि॒त्रभा॑नुः ।
येभि॒र्वाच॑म्पुष्क॒लेभि॒रव्य॑यत् ।
तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि ॥50॥
आऽयम्भा॑तु॒ शव॑सा॒ पञ्च॑ कृ॒ष्टीः ।
इन्द्र॑ इव ज्ये॒ष्ठो भ॑वतु प्र॒जावा॑न् ।
अ॒स्मा अ॑स्तु पुष्क॒लञ्चि॒त्रभा॑नु ।
आऽयम्पृ॑णक्तु॒ रज॑सी उ॒पस्थ॑म् ।
यत्ते॒ शिल्प॑ङ्कश्यप रोच॒नाव॑त् ।
इ॒न्द्रि॒याव॑त्पुष्क॒लञ्चि॒त्रभा॑नु ।
यस्मि॒न्त्सूर्या॒ अर्पि॑तास्स॒प्त सा॒कम् ।
तस्मि॒न्राजा॑न॒मधि॒ विश्र॑ये॒मम् ।
द्यौर॑सि पृथि॒व्य॑सि ।
व्या॒घ्रो वैया॒घ्रेऽधि॑ ॥51॥
विश्र॑यस्व॒ दिशो॑ म॒हीः ।
विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु ।
मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ।
या दि॒व्या आप॒ᳶ पय॑सा सम्बभू॒वुः ।
या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः ।
तासा॑न्त्वा॒ सर्वा॑साँ रु॒चा ।
अ॒भिषि॑ञ्चामि॒ वर्च॑सा ।
अ॒भि त्वा॒ वर्च॑साऽसिचन्दि॒व्येन॑ ।
पय॑सा स॒ह ।
यथासा॑ राष्ट्र॒वर्ध॑नः ॥52॥
तथा॑ त्वा सवि॒ता क॑रत् ।
इन्द्रव्ँ॒विश्वा॑ अवीवृधन् ।
स॒मु॒द्रव्य॑चस॒ङ्गिरः॑ ।
र॒थीत॑मँ रथी॒नाम् ।
वाजा॑नाँ॒ सत्प॑ति॒म्पति॑म् ।
वस॑वस्त्वा पु॒रस्ता॑द॒भिषि॑ञ्चन्तु गाय॒त्रेण॒ छन्द॑सा ।
रु॒द्रास्त्वा॑ दक्षिण॒तो॑ऽभिषि॑ञ्चन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा ।
आ॒दि॒त्यास्त्वा॑ प॒श्चाद॒भिषि॑ञ्चन्तु॒ जाग॑तेन॒ छन्द॑सा ।
विश्वे॑ त्वा दे॒वा उ॑त्तर॒तो॑ऽभिषि॑ञ्च॒न्त्वानु॑ष्टुभेन॒ छन्द॑सा ।
बृह॒स्पति॑स्त्वो॒परि॑ष्टाद॒भिषि॑ञ्चतु॒ पाङ्क्ते॑न॒ छन्द॑सा ॥53॥
अ॒रु॒णन्त्वा॒ वृक॑मु॒ग्रङ्ख॑जङ्क॒रम् ।
रोच॑मानम्म॒रुता॒मग्रे॑ अ॒र्चिषः॑ ।
सूर्य॑वन्तम्म॒घवा॑नव्ँ विषास॒हिम् ।
इन्द्र॑मु॒क्थेषु॑ नाम॒हूत॑मँ हुवेम ।
प्र बा॒हवा॑ सिसृतञ्जी॒वसे॑ नः ।
आ नो॒ गव्यू॑तिमुक्षतङ्घृ॒तेन॑ ।
आ नो॒ जने॑ श्रवयतय्ँ युवाना ।
श्रु॒तम्मे॑ मित्रावरुणा॒ हवे॒मा ।
इन्द्र॑स्य ते वीर्य॒कृतः॑ ।
बा॒हू उ॒पाव॑हरामि ॥54॥
अ॒भिप्रेहि॑ वी॒रय॑स्व ।
उ॒ग्रश्चेत्ता॑ सपत्न॒हा ।
आति॑ष्ठ वृत्र॒हन्त॑मः ।
तुभ्य॑न्दे॒वा अधि॑ब्रवन् ।
अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथय्ँ॒यौ ।
ध्वा॒न्तव्ँ वा॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ ।
दू॒रेहे॑तिरिन्द्रि॒यावा॑न्पत॒त्री ।
ते नो॒ऽग्नय॒ᳶ पप्र॑यᳶ पारयन्तु ।
नम॑स्त ऋषे गद ।
अव्य॑थायै त्वा स्व॒धायै॑ त्वा ॥55॥
मा न॑ इन्द्रा॒भित॒स्त्वदृ॒ष्वारि॑ष्टासः ।
ए॒वा ब्र॑ह्म॒न्तवेद॑स्तु ।
तिष्ठा॒ रथे॒ अधि॒ यद्वज्र॑हस्तः ।
आ र॒श्मीन्दे॑व युवसे॒ स्वश्वः॑ ।
आति॑ष्ठ वृत्रहन्ना॒तिष्ठ॑न्त॒म्परि॑ ।
अनु॒ त्वेन्द्रो॑ मद॒त्वनु॑ त्वा मि॒त्रावरु॑णौ ।
द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा ।
शु॒क्रो बृ॒हद्दक्षि॑णा त्वा पिपर्तु ।
अनु॑ स्व॒धा चि॑किताँ॒ सोमो॑ अ॒ग्निः ।
अनु॑ त्वाऽवतु सवि॒ता स॒वेन॑ ॥56॥
इन्द्रव्ँ॒विश्वा॑ अवीवृधन् ।
स॒मु॒द्रव्य॑चस॒ङ्गिरः॑ ।
र॒थीत॑मँ रथी॒नाम् ।
वाजा॑नाँ॒ सत्प॑ति॒म्पति॑म् ।
परि॑मा से॒न्या घोषाः॑ ।
ज्यानाव्ँ॑ वृञ्जन्तु गृ॒ध्नवः॑ ।
मे॒थि॒ष्ठाᳶ पिन्व॑माना इ॒ह ।
माङ्गोप॑तिम॒भि सव्ँ वि॑शन्तु ।
तन्मेऽनु॑मति॒रनु॑ मन्यताम् ।
तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ॥57॥
तद्ग्रावा॑णस्सोम॒सुतो॑ मयो॒भुवः॑ ।
तद॑श्विना शृणुतँ सौभगा यु॒वम् ।
अव॑ ते॒ हेड॒ उदु॑त्त॒मम् ।
ए॒ना व्या॒घ्रम्प॑रिषस्वजा॒नाः ।
सिँ॒हँ हि॑न्वन्ति मह॒ते सौभ॑गाय ।
स॒मु॒द्रन्न सु॒हुव॑न्तस्थि॒वाँस॑म् ।
म॒र्मृ॒ज्यन्ते॑ द्वी॒पिन॑म॒प्स्व॑न्तः ।
उद॒सावे॑तु॒ सूर्यः॑ ।
उदि॒दम्मा॑म॒कव्ँवचः॑ ।
उदि॑हि देव सूर्य ।
स॒ह व॒ग्नुना॒ मम॑ ।
अ॒हव्ँ वा॒चो वि॒वाच॑नम् ।
मयि॒ वाग॑स्तु धर्ण॒सिः ।
यन्तु॑ न॒दयो॒ वर्ष॑न्तु प॒र्जन्याः॑ ।
सु॒पि॒प्प॒ला ओष॑धयो भवन्तु ।
अन्न॑वतामोद॒नव॑तामा॒मिक्ष॑वताम् ।
ए॒षाँ राजा॑ भूयसाम् ॥58॥
ये के॒शिन॑ᳶ प्रथ॒मास्स॒त्रमास॑त ।
येभि॒राभृ॑तय्ँ॒यदि॒दव्ँ वि॒रोच॑ते ।
तेभ्यो॑ जुहोमि बहु॒धा घृ॒तेन॑ ।
रा॒यस्पोषे॑णे॒मव्ँवर्च॑सा॒ सँ सृ॑जाथ ।
नर्ते ब्रह्म॑ण॒स्तप॑सो विमो॒कः ।
द्वि॒नाम्नी॑ दी॒क्षा व॒शिनी॒ ह्यु॑ग्रा ।
प्र केशा॑स्सु॒वते॑ का॒ण्डिनो॑ भवन्ति ।
तेषा॑म्ब्र॒ह्मेदीशे॒ वप॑नस्य॒ नान्यः ।
आ रो॑ह॒ प्रोष्ठव्ँ॒विष॑हस्व॒ शत्रू॑न् ।
अवा॑स्राग्दी॒क्षा व॒शिनी॒ ह्यु॑ग्रा ॥59॥
दे॒हि दक्षि॑णा॒म्प्रति॑र॒स्वायुः॑ ।
अथा॑मुच्यस्व॒ वरु॑णस्य॒ पाशा॑त् ।
येनाव॑पत्सवि॒ता क्षु॒रेण॑ ।
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् ।
तेन॑ ब्रह्माणो वपते॒दम॒स्योर्जेमम् ।
र॒य्या वर्च॑सा॒ सँसृ॑जाथ ।
मा ते॒ केशा॒ननु॑ गा॒द्वर्च॑ ए॒तत् ।
तथा॑ धा॒ता क॑रोतु ते ।
तुभ्य॒मिन्द्रो॒ बृह॒स्पतिः॑ ।
स॒वि॒ता वर्च॒ आद॑धात् ॥60॥
तेभ्यो॑ नि॒धान॑म्बहु॒धा व्यैच्छ॑न् ।
अ॒न्त॒रा द्यावा॑पृथि॒वी अ॒पस्सुवः॑ ।
द॒र्भ॒स्त॒म्बे वी॒र्य॑कृते नि॒धाय॑ ।
पौँस्ये॑ने॒मव्ँवर्च॑सा॒ सँसृ॑जाथ ।
बल॑न्ते बाहु॒वोस्स॑वि॒ता द॑धातु ।
सोम॑स्त्वाऽनक्तु॒ पय॑सा घृ॒तेन॑ ।
स्त्री॒षु रू॒पम॑श्विनै॒तन्निध॑त्तम् ।
पौँस्ये॑ने॒मव्ँवर्च॑सा॒ सँसृ॑जाथ ।
यत्सी॒मन्त॒ङ्कङ्क॑तस्ते लि॒लेख॑ ।
यद्वा॑ क्षु॒रᳶ प॑रिव॒वर्ज॒ वपँ॑स्ते ।
स्त्री॒षु रू॒पम॑श्विनै॒तन्निध॑त्तम् ।
पौँस्ये॑ने॒मँ सँसृ॑जाथो वी॒र्ये॑ण ॥61॥
इन्द्रव्ँ॒ वै स्वाविशो॑ म॒रुतो॒ नापा॑चायन् ।
सोऽन॑पचाय्यमान ए॒तव्ँ वि॑घ॒नम॑पश्यत् ।
तमाऽह॑रत् ।
तेना॑यजत ।
तेनै॒वासा॒न्तँ सँ॑ स्त॒म्भव्व्ँय॑हन् ।
यद्व्यह॑न् ।
तद्वि॑घ॒नस्य॑ विघन॒त्वम् ।
वि पा॒प्मान॒म्भ्रातृ॑व्यँ हते ।
य ए॒तेन॒ यज॑ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ॥62॥
यँ राजा॑नव्ँ॒विशो॒ नाप॒चाये॑युः ।
यो वा॑ ब्राह्म॒णस्तम॑सा पा॒प्मना॒ प्रावृ॑त॒स्स्यात् ।
स ए॒तेन॑ यजेत ।
वि॒घ॒नेनै॒वैन॑द्वि॒हत्य॑ ।
वि॒शामाधि॑पत्यङ्गच्छति ।
तस्य॒ द्वे द्वा॑द॒शे स्तो॒त्रे भव॑तः ।
द्वे च॑तुर्विँ॒शे ।
औद्भि॑द्यमे॒व तत् ।
ए॒तद्वै क्ष॒त्रस्यौद्भि॑द्यम् ।
यद॑स्मै॒ स्वाविशो॑ ब॒लिँ हर॑न्ति ॥63॥
हर॑न्त्यस्मै॒ विशो॑ ब॒लिम् ।
ऐन॒मप्र॑तिख्यातङ्गच्छति ।
य ए॒वव्ँ वेद॑ ।
प्र॒बाहु॒ग्वा अग्रे॑ क्ष॒त्राण्याते॑पुः ।
तेषा॒मिन्द्रः॑ क्ष॒त्राण्याद॑त्त ।
न वा इ॒मानि॑ क्ष॒त्राण्य॑भूव॒न्निति॑ ।
तन्नक्ष॑त्राणन्नक्षत्र॒त्वम् ।
आ श्रेय॑सो॒ भ्रातृ॑व्यस्य॒ तेज॑ इन्द्रि॒यन्द॑त्ते ।
य ए॒तेन॒ यज॑ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ॥ 64॥
तद्यथा॑ ह॒ वै स॑च॒क्रिणौ॒ कप्ल॑कावु॒पाव॑हितौ॒ स्याता॑म् ।
ए॒वमे॒तौ यु॒ग्मन्तौ॒ स्तोमौ॑ ।
अ॒युक्षु॒ स्तोमे॑षु क्रियेते ।
पा॒प्मनोऽप॑हत्यै ।
अप॑ पा॒प्मान॒म्भ्रातृ॑व्यँ हते ।
य ए॒तेन॒ यज॑ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ।
तद्यथा॑ ह॒ वै सू॑तग्राम॒ण्यः॑ ।
ए॒वञ्छन्दाँ॑सि ।
तेष्व॒सावा॑दि॒त्यो बृ॑ह॒तीर॒भ्यू॑ढः ॥65॥
स॒तोबृ॑हतीषु स्तुवते स॒तो बृ॑हन् ।
प्र॒जया॑ प॒शुभि॑रसा॒नीत्ये॒व ।
व्यति॑षक्ताभिस्स्तुवते ।
व्यति॑षक्तव्ँ॒ वै क्ष॒त्रव्ँ वि॒शा ।
वि॒शैवैन॑ङ्क्ष॒त्रेण॒ व्यति॑षजति ।
व्यति॑षक्ताभिस्स्तुवते ।
व्यति॑षक्तो॒ वै ग्रा॑म॒णीस्स॑जा॒तैः ।
स॒जा॒तैरे॒वैन॒व्व्ँयति॑षजति ।
व्यति॑षक्ताभिस्स्तुवते ।
व्यति॑षक्तो॒ वै पुरु॑षᳶ पा॒प्मभिः॑ ।
व्यति॑षक्ताभिरे॒वास्य॑ पा॒प्मनो॑ नुदते ॥66॥
पीवो॑न्नाँ रयि॒वृध॑स्सुमे॒धाः ।
श्वे॒तस्सि॑षक्ति नि॒युता॑मभि॒श्रीः ।
ते वा॒यवे॒ सम॑नसो॒ वित॑स्थुः ।
विश्वेन्नर॑स्स्वप॒त्यानि॑ चक्रुः ।
रा॒येऽनु यञ्ज॒ज्ञतू॒ रोद॑सी उ॒भे ।
रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् ।
अधा॑ वा॒युन्नि॒युत॑स्सश्चत॒ स्वाः ।
उ॒त श्वे॒तव्ँवसु॑धितिन्निरे॒के ।
आ वा॑यो॒ प्र याभिः॑ ।
प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा ॥ 1 ॥
बृ॒हद्र॑यिव्ँ वि॒श्ववा॑राँ रथ॒प्राम् ।
द्यु॒तद्या॑मा नि॒युत॒ᳶ पत्य॑मानः ।
क॒विᳵ क॒विमि॑यक्षसि प्रयज्यो ।
आ नो॑ नि॒युद्भि॑श्श॒तिनी॑भिरध्व॒रम् ।
स॒ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।
वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व ।
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः ।
विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु ॥ 2 ॥
व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।
र॒यी॒णाम्पतिय्ँ॑यज॒तम्बृ॒हन्त॑म् ।
अ॒स्मिन्भरे॒ नृत॑मव्ँ॒वाज॑सातौ ।
प्र॒जाप॑तिम्प्रथम॒जामृ॒तस्य॑ ।
यजा॑म दे॒वमधि॑ नो ब्रवीतु ।
प्रजा॑पते॒ त्वन्नि॑धि॒पाᳶ पु॑रा॒णः ।
दे॒वाना॑म्पि॒ता ज॑नि॒ता प्र॒जाना॑म् ।
पति॒र्विश्व॑स्य॒ जग॑तᳶ पर॒स्पाः ।
ह॒विर्नो॑ देव विह॒वे जु॑षस्व ।
तवे॒मे लो॒काᳶ प्र॒दिशो॒ दिश॑श्च ॥ 3 ॥
प॒रा॒वतो॑ नि॒वत॑ उ॒द्वत॑श्च ।
प्रजा॑पते विश्व॒सृज्जी॒वध॑न्य इ॒दन्नो॑ देव ।
प्रति॑हर्य ह॒व्यम् ।
प्र॒जाप॑तिम्प्रथ॒मय्ँ य॒ज्ञिया॑नाम् ।
दे॒वाना॒मग्रे॑ यज॒तय्ँय॑जध्वम् ।
स नो॑ ददातु॒ द्रवि॑णँ सु॒वीर्य॑म् ।
रा॒यस्पोषव्ँ॒ विष्य॑तु॒ नाभि॑म॒स्मे ।
यो रा॒य ईशे॑ शतदा॒य उ॒क्थ्यः॑ ।
यᳶ प॑शू॒नाँ र॑क्षि॒ता विष्ठि॑तानाम् ।
प्र॒जाप॑तिᳶ प्रथम॒जा ऋ॒तस्य॑ ॥ 4 ॥
स॒हस्र॑धामा जुषताँ ह॒विर्नः॑ ।
सोमा॑पूषणे॒मौ दे॒वौ ।
सोमा॑पूषणा॒ रज॑सो वि॒मान॑म् ।
स॒प्तच॑क्रँ॒ रथ॒मवि॑श्वमिन्वम् ।
वि॒षू॒वृत॒म्मन॑सा यु॒ज्यमा॑नम् ।
तञ्जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम् ।
दि॒व्य॑न्यस्सद॑नञ्च॒क्र उ॒च्चा ।
पृ॒थि॒व्याम॒न्यो अध्य॒न्तरि॑क्षे ।
ताव॒स्मभ्य॑म्पुरु॒वार॑म्पुरु॒क्षुम् ।
रा॒यस्पोषव्ँ॒विष्य॑ता॒न्नाभि॑म॒स्मे ॥ 5 ॥
धिय॑म्पू॒षा जि॑न्वतु विश्वमि॒न्वः ।
र॒यिँ सोमो॑ रयि॒पति॑र्दधातु ।
अव॑तु दे॒व्यदि॑तिरन॒र्वा ।
बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ।
विश्वा॑न्य॒न्यो भुव॑ना ज॒जान॑ ।
विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति ।
सोमा॑पूषणा॒वव॑त॒न्धिय॑म्मे ।
यु॒वभ्याव्ँ॒विश्वा॒ᳶ पृत॑ना जयेम ।
उदु॑त्त॒मव्ँव॑रु॒णास्त॑भ्ना॒द्द्याम् ।
यत्किञ्चे॒दङ्कि॑त॒वासः॑ ।
अव॑ ते॒ हेड॒स्तत्त्वा॑ यामि ।
आ॒दि॒त्याना॒मव॑सा॒ न द॑क्षि॒णा ।
धा॒रय॑न्त आदि॒त्यास॑स्ति॒स्रो भूमी॑र्धारयन् ।
य॒ज्ञो दे॒वानाँ॒ शुचि॑र॒पः ॥ 6 ॥
ते शु॒क्रास॒श्शुच॑यो रश्मि॒वन्तः॑ ।
सीद॑न्नादि॒त्या अधि॑ ब॒र्हिषि॑ प्रि॒ये ।
कामे॑न दे॒वास्स॒रथ॑न्दि॒वो नः॑ ।
आ या॑न्तु य॒ज्ञमुप॑ नो जुषा॒णाः ।
ते सू॒नवो॒ अदि॑तेᳶ पीव॒सामिष॑म् ।
घृ॒तम्पिन्व॒त्प्रति॑हर्यन्नृते॒जाः ।
प्र य॒ज्ञिया॒ यज॑मानाय येमुरे ।
आ॒दि॒त्याᳵ काम॑म्पितु॒मन्त॑म॒स्मे ।
आ न॑ᳶ पु॒त्रा अदि॑तेर्यान्तु य॒ज्ञम् ।
आ॒दि॒त्यास॑ᳶ प॒थिभि॑र्देव॒यानैः॑ ॥7 ॥
अ॒स्मे काम॑न्दा॒शुषे॑ स॒न्नम॑न्तः ।
पु॒रो॒डाश॑ङ्घृ॒तव॑न्तञ्जुषन्ताम् ।
स्क॒भा॒यत॒ निर्ऋ॑तिँ॒ सेध॒ताम॑तिम् ।
प्र र॒श्मिभि॒र्यत॑माना अमृध्राः ।
आदि॑त्या॒ᳵ काम॒ प्रय॑ताव्ँ॒वष॑ट्कृतिम् ।
जु॒षध्व॑न्नो ह॒व्यदा॑तिय्ँयजत्राः ।
आ॒दि॒त्यान्काम॒मव॑से हुवेम ।
ये भू॒तानि॑ ज॒नय॑न्तो विचि॒ख्युः ।
सीद॑न्तु पु॒त्रा अदि॑तेरु॒पस्थ॑म् ।
स्ती॒र्णम्ब॒र्हिर्ह॑वि॒रद्या॑य दे॒वाः ॥ 8 ॥
स्ती॒र्णम्ब॒र्हिस्सी॑दता य॒ज्ञे अ॒स्मिन् ।
ध्रा॒जास्सेध॑न्तो॒ अम॑तिन्दु॒रेवा॑म् ।
अ॒स्मभ्य॑म्पुत्रा अदिते॒ᳶ प्र यँ॑सत ।
आदि॑त्या॒ᳵ काम॑ ह॒विषो॑ जुषा॒णाः ।
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् ।
विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनः॑ ।
भूयि॑ष्ठान्ते॒ नम॑ उक्तिव्ँ विधेम ।
प्र व॑श्शु॒क्राय॑ भा॒नवे॑ भरध्वम् ।
ह॒व्यम्म॒तिञ्चा॒ग्नये॒ सुपू॑तम् ॥ 9 ॥
यो दैव्या॑नि॒ मानु॑षा ज॒नूँषि॑ ।
अ॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ।
अच्छा॒ गिरो॑ म॒तयो॑ देव॒यन्तीः॑ ।
अ॒ग्निय्ँय॑न्ति॒ द्रवि॑ण॒म्भिक्ष॑माणाः ।
सु॒स॒न्दृशँ॑ सु॒प्रती॑कँ॒ स्वञ्च॑म् ।
ह॒व्य॒वाह॑मर॒तिम्मानु॑षाणाम् ।
अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वाः ।
अन॑ग्नित्रा अ॒भ्य॑मन्त कृ॒ष्टीः ।
पुन॑र॒स्मभ्यँ॑ सुवि॒ताय॑ देव ।
क्षाव्ँ विश्वे॑भिर॒जरे॑भिर्यजत्र ॥ 10 ॥
अग्ने॒ त्वम्पा॑रया॒ नव्यो॑ अ॒स्मान् ।
स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी ।
भवा॑ तो॒काय॒ तन॑याय॒ शय्ँ योः ।
प्रका॑रवो मन॒ना व॒च्यमा॑नाः ।
दे॒व॒द्रीची॑न्नयथ देव॒यन्तः॑ ।
द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये॑ति ।
ह॒विर्भर॑न्त्य॒ग्नये॑ घृ॒ताची॑ ।
इन्द्र॒न्नरो॑ यु॒जे रथ॑म् ।
ज॒गृ॒भ्णाते॒ दक्षि॑णमिन्द्र॒ हस्त॑म् ॥ 11 ॥
व॒सू॒यवो॑ वसुपते॒ वसू॑नाम् ।
वि॒द्मा हि त्वा॒ गोप॑तिँ शूर॒ गोना॑म् ।
अ॒स्मभ्य॑ञ्चि॒त्रव्ँ वृष॑णँ र॒यिन्दाः॑ ।
तवे॒दव्ँ विश्व॑म॒भित॑ᳶ पश॒व्य॑म् ।
यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य ।
गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र ।
भ॒क्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ।
समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॑ ।
सँ सू॒रिभि॑र्मघव॒न्त्सँ स्व॒स्त्या ।
सम्ब्रह्म॑णा दे॒वकृ॑तय्ँ॒यदस्ति॑ ॥ 12 ॥
सन्दे॒वानाँ॑ सुम॒त्या य॒ज्ञिया॑नाम् ।
आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रम् ।
उ॒ग्रो यश्शम्ब॑ᳶ पुरुहूत॒ तेन॑ ।
अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र ।
कृ॒धीधिय॑ञ्जरि॒त्रे वाज॑रत्नाम् ।
आ वे॒धसँ॒ स हि शुचिः॑ ।
बृह॒स्पति॑ᳶ प्रथ॒मञ्जाय॑मानः ।
म॒हो ज्योति॑षᳶ पर॒मे व्यो॑मन् ।
स॒प्तास्य॑स्तुविजा॒तो रवे॑ण ।
वि स॒प्तर॑श्मिरधम॒त्तमाँ॑सि ॥ 13 ॥
बृह॒स्पति॒स्सम॑जय॒द्वसू॑नि ।
म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः ।
अ॒पस्सिषा॑स॒न्त्सुव॒रप्र॑तीत्तः ।
बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ।
बृह॑स्पते॒ पर्ये॒वा पि॒त्रे ।
आ नो॑ दि॒वᳶ पावी॑रवी ।
इ॒मा जुह्वा॑ना॒ यस्ते॒ स्तनः॑ ।
सर॑स्वत्य॒भि नो॑ नेषि ।
इ॒यँ शुष्मे॑भिर्बिस॒खा इ॑वारुजत् ।
सानु॑ गिरी॒णान्त॑वि॒षेभि॑रू॒र्मिभिः॑ ।
पा॒रा॒व॒द॒घ्नीमव॑से सुवृ॒क्तिभिः॑ ।
सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ॥ 14 ॥
सोमो॑ धे॒नुँ सोमो॒ अर्व॑न्तमा॒शुम् ।
सोमो॑ वी॒रङ्क॑र्म॒ण्य॑न्ददातु ।
सा॒द॒न्यव्ँ॑विद॒थ्यँ॑ स॒भेय॑म् ।
पि॒तु॒श्श्रव॑णय्ँ॒यो ददा॑शदस्मै ।
अषा॑ढय्ँ यु॒त्सु त्वँ सो॑म॒ क्रतु॑भिः ।
या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति ।
त्वमि॒मा ओष॑धीस्सोम॒ विश्वाः॑ ।
त्वम॒पो अ॑जनय॒स्त्वङ्गाः ।
त्वमात॑तन्थो॒र्व॑न्तरि॑क्षम् ।
त्वञ्ज्योति॑षा॒ वि तमो॑ ववर्थ ॥ 15 ॥
या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्याम् ।
या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु ।
तेभि॑र्नो॒ विश्वै॑स्सु॒मना॒ अहे॑डन् ।
राज॑न्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ।
विष्णो॒र्नुक॒न्तद॑स्य प्रि॒यम् ।
प्र तद्विष्णुः॑ ।
प॒रो मात्र॑या त॒नुवा॑ वृधान ।
न ते॑ महि॒त्वमन्व॑श्ञुवन्ति ।
उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वम् ।
प॒र॒मस्य॑ वित्से ॥ 16 ॥
विच॑क्रमे॒ त्रिर्दे॒वः ।
आ ते॑ म॒हो यो जा॒त ए॒व ।
अ॒भि गो॒त्राणि॑ ।
आभि॒स्स्पृधो॑ मिथ॒तीररि॑षण्यन् ।
अ॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र ।
आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑चीः ।
आर्या॑य॒ विशोव॑तारी॒र्दासीः॑ ।
अ॒यँ शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन् ।
अ॒यमु॒त प्र कृ॑णुते यु॒धा गाः ।
य॒दा स॒त्यङ्कृ॑णु॒ते म॒न्युमिन्द्रः॑ ॥ 17 ॥
विश्व॑न्दृ॒ढम्भ॑यत॒ एज॑दस्मात् ।
अनु॑ स्व॒धाम॑क्षर॒न्नापो॑ अस्य ।
अव॑र्धत॒ मध्य॒ आ ना॒व्या॑नाम् ।
स॒ध्री॒चीने॑न॒ मन॑सा॒ तमि॑न्द्र॒ ओजि॑ष्ठेन ।
हन्म॑नाहन्न॒भिद्यून् ।
म॒रुत्व॑न्तव्ँ वृष॒भव्ँ वा॑वृधा॒नम् ।
अक॑वारिन्दि॒व्यँ शा॒समिन्द्र॑म् ।
वि॒श्वा॒साह॒मव॑से॒ नूत॑नाय ।
उ॒ग्रँ स॑हो॒दामि॒ह तँ हु॑वेम ।
जनि॑ष्ठा उ॒ग्रस्सह॑से तु॒राय॑ ॥ 18 ॥
म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः ।
अव॑र्ध॒न्निन्द्र॑म्म॒रुत॑श्चि॒दत्र॑ ।
मा॒ता यद्वी॒रन्द॒धन॒द्धनि॑ष्ठा ।
क्व॑स्यावो॑ मरुतस्स्व॒धाऽऽसी॑त् ।
यन्मामेकँ॑ स॒मध॑त्ताहि॒हत्ये॑ ।
अ॒हँ ह्यु॑ग्रस्त॑वि॒षस्तुवि॑ष्मान् ।
विश्व॑स्य॒ शत्रो॒रन॑मव्ँवध॒स्नैः ।
वृ॒त्रस्य॑ त्वा श्व॒सथा॒ दीष॑माणाः ।
विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः ।
म॒रुद्भि॑रिन्द्र स॒ख्यन्ते॑ अस्तु ॥ 19 ॥
अथे॒मा विश्वा॒ᳶ पृत॑ना जयासि ।
वधीव्ँ॑ वृ॒त्रम्म॑रुत इन्द्रि॒येण॑ ।
स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् ।
अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः ।
सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ।
स यो वृषा॒ वृष्णि॑येभि॒स्समो॑काः ।
म॒हो दि॒वᳶ पृ॑थि॒व्याश्च॑ स॒म्राट् ।
स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु ।
म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ।
इन्द्रो॑ वृ॒त्रम॑तरद्वृत्र॒तूर्ये॑ ॥ 20 ॥
अ॒ना॒धृ॒ष्यो म॒घवा॒ शूर॒ इन्द्रः॑ ।
अन्वे॑नव्ँ॒विशो॑ अमदन्त पू॒र्वीः ।
अ॒यँ राजा॒ जग॑तश्चर्षणी॒नाम् ।
स ए॒व वी॒रस्स उ॑ वी॒र्या॑वान् ।
स ए॑करा॒जो जग॑तᳶ पर॒स्पाः ।
य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ ।
अथा॑भवद्दमि॒ताभिक्र॑तूनाम् ।
इन्द्रो॑ य॒ज्ञव्ँव॒र्धय॑न्वि॒श्ववे॑दाः ।
पु॒रो॒डाश॑स्य जुषताँ ह॒विर्नः॑ ।
वृ॒त्रन्ती॒र्त्वा दा॑न॒वव्ँवज्र॑बाहुः ॥ 21 ॥
दिशो॑ऽदृँहद्दृँहि॒ता दृँह॑णेन ।
इ॒मय्ँ य॒ज्ञव्ँव॒र्धय॑न्वि॒श्ववे॑दाः ।
पु॒रो॒डाश॒म्प्रति॑ गृभ्णा॒त्विन्द्रः॑ ।
य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ ।
अथै॑करा॒जो अ॑भव॒ज्जना॑नाम् ।
इन्द्रो॑ दे॒वाञ्छ॑म्बर॒हत्य॑ आवत् ।
इन्द्रो॑ दे॒वाना॑मभवत्पुरो॒गाः ।
इन्द्रो॑ य॒ज्ञे ह॒विषा॑ वावृधा॒नः ।
वृ॒त्र॒तूर्नो॒ अभ॑यँ॒ शर्म॑ यँसत् ।
यस्स॒प्त सिन्धूँ॒ रद॑धात्पृथि॒व्याम् ।
यस्स॒प्त लो॒कानकृ॑णो॒द्दिश॑श्च ।
इन्द्रो॑ ह॒विष्मा॒न्त्सग॑णो म॒रुद्भिः॑ ।
वृ॒त्र॒तूर्नो॑ य॒ज्ञमि॒होप॑ यासत् ॥ 22 ॥
इन्द्र॒स्तर॑स्वानभिमाति॒होग्रः ।
हिर॑ण्यवाशीरिषि॒रस्सु॑व॒र्षाः ।
तस्य॑ व॒यँ सु॑म॒तौ य॒ज्ञिय॑स्य ।
अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।
हिर॑ण्यवर्णो॒ अभ॑यङ्कृणोतु ।
अ॒भि॒मा॒ति॒हेन्द्र॒ᳶ पृत॑नासु जि॒ष्णुः ।
स न॒श्शर्म॑ त्रि॒वरू॑थव्ँ॒वि यँ॑सत् ।
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।
इन्द्रँ॑ स्तुहि व॒ज्रिणँ॒ स्तोम॑पृष्ठम् ।
पु॒रो॒डाश॑स्य जुषताँ ह॒विर्नः॑ ॥ 23 ॥
ह॒त्वाभिमा॑ती॒ᳶ पृत॑ना॒स्सह॑स्वान् ।
अथाभ॑यङ्कृणुहि वि॒श्वतो॑ नः ।
स्तु॒हि शूरव्ँ॑व॒ज्रिण॒मप्र॑तीत्तम् ।
अ॒भि॒मा॒ति॒हन॑म्पुरुहू॒तमिन्द्र॑म् ।
य एक॒ इच्छ॒तप॑ति॒र्जने॑षु ।
तस्मा॒ इन्द्रा॑य ह॒विरा जु॑होत ।
इन्द्रो॑ दे॒वाना॑मधि॒पाᳶ पु॒रोहि॑तः ।
दि॒शाम्पति॑रभवद्वा॒जिनी॑वान् ।
अ॒भि॒मा॒ति॒हा त॑वि॒षस्तुवि॑ष्मान् ।
अ॒स्मभ्य॑ञ्चि॒त्रव्ँ वृष॑णँ र॒यिन्दा॑त् ॥ 24 ॥
य इ॒मे द्यावा॑पृथि॒वी म॑हि॒त्वा ।
बले॒नादृँ॑हदभिमाति॒हेन्द्रः॑ ।
स नो॑ ह॒विᳶ प्रति॑ गृभ्णातु रा॒तये॑ ।
दे॒वाना॑न्दे॒वो नि॑धि॒पा नो॑ अव्यात् ।
अन॑वस्ते॒ रथव्ँ॒ वृष्णे॒ यत्ते॑ ।
इन्द्र॑स्य॒ नु वी॒र्या॑ण्यह॒न्नहि॑म् ।
इन्द्रो॑ या॒तोऽव॑सितस्य॒ राजा॑ ।
शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः ।
सेदु॒ राजा॑ क्षेति चर्षणी॒नाम् ।
अ॒रान्न ने॒मिᳶ परि॒ ता ब॑भूव ॥ 25 ॥
अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रू॑न् ।
विति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑भेत् ।
सव्ँवज्रे॑णासृजद्वृ॒त्रमिन्द्रः॑ ।
प्र स्वाम्म॒तिम॑तिर॒च्छाश॑दानः ।
विष्णु॑न्दे॒वव्ँवरु॑णमू॒तये॒ भग॑म् ।
मेद॑सा दे॒वा व॒पया॑ यजध्वम् ।
ता नो॑ य॒ज्ञमाग॑तव्ँ वि॒श्वधे॑ना ।
प्र॒जाव॑द॒स्मे द्रवि॑णे॒ह ध॑त्तम् ।
मेद॑सा दे॒वा व॒पया॑ यजध्वम् ।
विष्णु॑ञ्च दे॒वव्ँवरु॑णञ्च रा॒तिम् ॥ 26 ॥
ता नो॒ अमी॑वा अप॒ बाध॑मानौ ।
इ॒मय्ँ य॒ज्ञञ्जु॒षमा॑णा॒वुपेत॑म् ।
विष्णू॑वरुणा यु॒वम॑ध्व॒राय॑ नः ।
वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ।
दी॒र्घप्र॑यज्ज्यू ह॒विषा॑ वृधा॒ना ।
ज्योति॒षाऽरा॑तीर्दहत॒न्तमाँ॑सि ।
ययो॒रोज॑सा स्कभि॒ता रजाँ॑सि ।
वी॒र्ये॑भिर्वी॒रत॑मा॒ शवि॑ष्ठा ।
याऽपत्ये॑ ते॒ अप्र॑तीत्ता॒ सहो॑भिः ।
विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ ॥ 27 ॥
विष्णू॑वरुणावभिशस्ति॒पावा॑म् ।
दे॒वा य॑जन्त ह॒विषा॑ घृ॒तेन॑ ।
अपामी॑वाँ सेधतँ र॒क्षस॑श्च ।
अथा॑धत्तय्ँ॒यज॑मानाय॒ शय्ँ योः ।
अँ॒हो॒मुचा॑ वृष॒भा सु॒प्रतू॑र्ती ।
दे॒वाना॑न्दे॒वत॑मा॒ शचि॑ष्ठा ।
विष्णू॑वरुणा॒ प्रति॑हर्यतन्नः ।
इ॒दन्नरा॒ प्रय॑तमू॒तये॑ ह॒विः ।
म॒ही नु द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे॑ ।
रु॒चा भ॑वताँ शु॒चय॑द्भिर॒र्कैः ॥ 28 ॥
यत्सीव्ँ॒वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन् ।
नृ॒वद्भ्यो॒क्षा प॑प्रथा॒नेभि॒रेवैः॑ ।
प्रपू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिः ।
गी॒र्भिᳵ कृ॑णुध्वँ॒ सद॑ने ऋ॒तस्य॑ ।
आ नो॑ द्यावापृथिवी॒ दैव्ये॑न ।
जने॑न यात॒म्महि॑ वाव्ँ॒वरू॑थम् ।
स इत्स्वपा॒ भुव॑नेष्वास ।
य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑ ।
उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके॑ ।
अ॒वँ॒शे धीर॒श्शच्या॒ समै॑रत् ॥ 29 ॥
भूरि॒न्द्वे अच॑रन्ती॒ चर॑न्तम् ।
प॒द्वन्त॒ङ्गर्भ॑म॒पदी॑दधाते ।
नित्य॒न्न सू॒नुम्पि॒त्रोरु॒पस्थे॑ ।
तम्पि॑पृतँ रोदसी सत्य॒वाच॑म् ।
इ॒दन्द्या॑वापृथिवी स॒त्यम॑स्तु ।
पित॒र्मात॒र्यदि॒होप॑ ब्रु॒वे वा॑म् ।
भू॒तन्दे॒वाना॑मव॒मे अवो॑भिः ।
विद्यामे॒षव्ँ वृ॒जन॑ञ्जी॒रदा॑नुम् ।
उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रे अ॑न्ते ।
उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन् ।
दधा॑ते॒ ये सु॒भगे॑ सु॒प्रतू॑र्ती ।
द्यावा॒ रक्ष॑तम्पृथि॒वी नो॒ अभ्वा॑त् ।
या जा॒ता ओष॑ध॒योऽति॒ विश्वा॑ᳶ परि॒ष्ठाः ।
या ओष॑धय॒स्सोम॑राज्ञीरश्वाव॒तीँ सो॑मव॒तीम् ।
ओष॑धी॒रिति॑ मातरो॒ऽन्या वो॑ अ॒न्याम॑वतु ॥ 30 ॥
शुचि॒न्नु स्तोमँ॒ श्ञथ॑द्वृ॒त्रम् ।
उ॒भा वा॑मिन्द्राग्नी॒ प्र च॑र्ष॒णिभ्यः॑ ।
आ वृ॑त्रहणा गी॒र्भिर्विप्रः॑ ।
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता ।
सू॒क्तस्य॑ बोधि॒ तन॑यञ्च जिन्व ।
विश्व॒न्तद्भ॒द्रय्ँयद॒वन्ति॑ दे॒वाः ।
बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ।
स ईँ॑ स॒त्येभि॒स्सखि॑भिश्शु॒चद्भिः॑ ।
गोधा॑यसव्ँ॒विध॑न॒सैर॑तर्दत् ।
ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहैः॑ ॥ 31 ॥
घ॒र्मस्वे॑देभि॒र्द्रवि॑णव्ँ॒ व्या॑नट् ।
ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शम् ।
स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः ।
यो गा उ॒दाज॒त्स दि॒वे वि चा॑भजत् ।
म॒हीव॑ री॒तिश्शव॑सा सर॒त्पृथ॑क् ।
इन्धा॑नो अ॒ग्निव्ँव॑नवद्वनुष्य॒तः ।
कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् ।
जा॒तेन॑ जा॒तमति॒सृत्प्र सृँ॑सते ।
यय्ँ यय्ँ॒ युज॑ङ्कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ।
ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा॑ ॥ 32 ॥
रा॒यस्स्या॑म र॒थ्यो॑ विव॑स्वतः ।
वी॒रेषु॑ वी॒राँ उप॑पृङ्ग्धि न॒स्त्वम् ।
यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव॑म् ।
स इज्जने॑न॒ स वि॒शा स जन्म॑ना ।
स पु॒त्रैर्वाज॑म्भरते॒ धना॒ नृभिः॑ ।
दे॒वानाय्ँ॒यᳶ पि॒तर॑मा॒ विवा॑सति ।
श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति॑म् ।
यास्ते॑ पूष॒न्नावो॑ अ॒न्तः ।
शु॒क्रन्ते॑ अ॒न्यत्पू॒षेमा आशाः॑ ।
प्रप॑थे प॒थाम॑जनिष्ट पू॒षा ॥33॥
प्रप॑थे दि॒वᳶ प्रप॑थे पृथि॒व्याः ।
उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॑ ।
आ च॒ परा॑ च चरति प्रजा॒नन् ।
पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्याः ।
इ॒डस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः ।
तन्दे॒वासो॒ अद॑दुस्सू॒र्यायै॑ ।
कामे॑न कृ॒तन्त॒वसँ॒ स्वञ्च॑म् ।
अ॒जाऽश्व॑ᳶ पशु॒पा वाज॑बस्त्यः ।
धि॒य॒ञ्जि॒न्वो विश्वे॒ भुव॑ने॒ अर्पि॑तः ।
अष्ट्रा॑म्पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत् ॥ 34 ॥
स॒ञ्चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते ।
शुची॑ वो ह॒व्या म॑रुत॒श्शुची॑नाम् ।
शुचिँ॑ हिनोम्यध्व॒रँ शुचि॑भ्यः ।
ऋ॒तेन॑ स॒त्यमृत॒साप॑ आयन् ।
शुचि॑जन्मान॒श्शुच॑यᳶ पाव॒काः ।
प्र चि॒त्रम॒र्कङ्गृ॑ण॒ते तु॒राय॑ ।
मारु॑ताय॒ स्वत॑वसे भरध्वम् ।
ये सहाँ॑सि॒ सह॑सा॒ सह॑न्ते ।
रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ।
अँसे॒ष्वा म॑रुतᳵ खा॒दयो॑ वः ॥ 35 ॥
वक्ष॑स्सुरु॒क्मा उप॑ शिश्रिया॒णाः ।
वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒नाः ।
अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः ।
या व॒श्शर्म॑ शशमा॒नाय॒ सन्ति॑ ।
त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ ।
अ॒स्मभ्य॒न्तानि॑ मरुतो॒ विय॑न्त ।
र॒यिन्नो॑ धत्त वृषणस्सु॒वीर॑म् ।
इ॒मे तु॒रम्म॒रुतो॑ रामयन्ति ।
इ॒मे सह॒स्सह॑स॒ आ न॑मन्ति ।
इ॒मे शँसव्ँ॑वनुष्य॒तो नि पा॑न्ति ॥ 36 ॥
गु॒रुद्वेषो॒ अर॑रुषे दधन्ति ।
अ॒रा इ॒वेदच॑रमा॒ अहे॑व ।
प्रप्र॑ जायन्ते॒ अक॑वा॒ महो॑भिः ।
पृश्ञे॑ᳶ प्रु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः ।
स्वया॑ म॒त्या म॒रुत॒स्सम्मि॑मिक्षुः ।
अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ ।
स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये॑ ।
अनु॑ क्ष॒त्रमनु॒ सहो॑ यजत्र ।
इन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये॑ ।
य इन्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॑ ॥ 37 ॥
शिक्षा॒ सखि॑भ्यᳶ पुरुहूत॒ नृभ्यः॑ ।
त्वँ हि दृ॒ढा म॑घव॒न्विचे॑ताः ।
अपा॑वृधि॒ परि॑वृति॒न्न राधः॑ ।
इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नाम् ।
अ॒धि॒क्षमि॒ विषु॑रूपय्ँ॒यदस्ति॑ ।
ततो॑ ददातु दा॒शुषे॒ वसू॑नि ।
चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ।
तमु॑ष्टुहि॒ यो अ॒भिभू॑त्योजाः ।
व॒न्वन्नवा॑तᳶ पुरुहू॒त इन्द्रः॑ ।
अषा॑ढमु॒ग्रँ सह॑मानमा॒भिः ॥ 38 ॥
गी॒र्भिर्व॑र्ध वृष॒भञ्च॑र्षणी॒नाम् ।
स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॑ ।
तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र॑म् ।
यो वा॒युना॒ जय॑ति॒ गोम॑तीषु ।
प्र धृ॑ष्णु॒या न॑यति॒ वस्यो॒ अच्छ॑ ।
आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात् ।
ओत्त॒राद॑ध॒रागा पु॒रस्ता॑त् ।
आ वि॒श्वतो॑ अ॒भिसमे॑त्व॒र्वाङ् ।
इन्द्र॑ द्यु॒म्नँ सुव॑र्वद्धेह्य॒स्मे ॥ 39 ॥
आ दे॒वो या॑तु सवि॒ता सु॒रत्नः॑ ।
अ॒न्त॒रि॒क्ष॒प्रा वह॑मानो॒ अश्वैः॑ ।
हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।
नि॒वे॒शय॑ञ्च प्रसु॒वञ्च॒ भूम॑ ।
अ॒भीवृ॑त॒ङ्कृश॑नैर्वि॒श्वरू॑पम् ।
हिर॑ण्यशम्यय्ँयज॒तो बृ॒हन्त॑म् ।
आस्था॒द्रथँ॑ सवि॒ता चि॒त्रभा॑नुः ।
कृ॒ष्णा रजाँ॑ सि॒ तवि॑षी॒न्दधा॑नः ।
सघा॑ नो दे॒वस्स॑वि॒ता स॒वाय॑ ।
आ सा॑विष॒द्वसु॑पति॒र्वसू॑नि ॥ 40 ॥
वि॒श्रय॑माणो॒ अम॑तिमुरू॒चीम् ।
म॒र्त॒भोज॑न॒मध॑रासतेन ।
विजना॑ञ्छ्या॒वाश्शि॑ति॒पादो॑ अख्यन् ।
रथँ॒ हिर॑ण्यप्रउगव्ँ॒वह॑न्तः ।
शश्व॒द्दिश॑स्सवि॒तुर्दैव्य॑स्य ।
उ॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ।
वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यत् ।
ग॒भी॒रवे॑पा॒ असु॑रस्सुनी॒थः ।
क्वे॑दानीँ॒ सूर्य॒ᳵ कश्चि॑केत ।
क॒त॒मान्द्याँ र॒श्मिर॒स्या त॑तान ॥ 41 ॥
भग॒न्धियव्ँ॑वा॒जय॑न्त॒ᳶ पुर॑न्धिम् ।
नरा॒शँसो॒ ग्नास्पति॑र्नो अव्यात् ।
आ ये वा॒मस्य॑ सङ्ग॒थे र॑यी॒णाम् ।
प्रि॒या दे॒वस्य॑ सवि॒तुस्स्या॑म ।
आ नो॒ विश्वे॒ अस्क्रा॑गमन्तु दे॒वाः ।
मि॒त्रो अ॑र्य॒मा वरु॑णस्स॒जोषाः॑ ।
भुव॒न्यथा॑ नो॒ विश्वे॑ वृ॒धासः॑ ।
कर॑न्त्सु॒षाहा॑ विथु॒रन्न शवः॑ ।
शन्नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु ।
शँ सर॑स्वती स॒ह धी॒भिर॑स्तु ॥ 42 ॥
शम॑भि॒षाच॒श्शमु॑ राति॒षाचः॑ ।
शन्नो॑ दि॒व्याᳶ पार्थि॑वा॒श्शन्नो॒ अप्याः॑ ।
ये स॑वि॒तुस्स॒त्यस॑वस्य॒ विश्वे॑ ।
मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः ।
ते सौभ॑गव्ँवी॒रव॒द्गोम॒दप्नः॑ ।
दधा॑तन॒ द्रवि॑णञ्चि॒त्रम॒स्मे ।
अग्ने॑ या॒हि दू॒त्यव्ँ॑वारि॑षेण्यः ।
दे॒वाँ अच्छा॑ ब्रह्म॒कृता॑ ग॒णेन॑ ।
सर॑स्वतीम्म॒रुतो॑ अ॒श्विना॒पः ।
य॒क्षि॒ दे॒वान्र॑त्न॒धेया॑य॒ विश्वा॑न् ॥ 43 ॥
द्यौᳶ पि॑त॒ᳶ पृथि॑वि॒ मात॒रध्रु॑क् ।
अग्ने॑ भ्रातर्वसवो मृ॒डता॑ नः ।
विश्व॑ आदित्या अदिते स॒जोषाः॑ ।
अ॒स्मभ्यँ॒ शर्म॑ बहु॒लव्ँ वि य॑न्त ।
विश्वे॑ देवाश्शृणु॒तेमँ हव॑म्मे ।
ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ ।
ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्राः ।
आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ।
आ वा॑म्मित्रावरुणा ह॒व्यजु॑ष्टिम् ।
नम॑सा देवा॒वव॑साववृत्याम् ॥ 44 ॥
अ॒स्माक॒म्ब्रह्म॒ पृत॑नासु सह्या अ॒स्माक॑म् ।
वृ॒ष्टिर्दि॒व्या सु॑पा॒रा ।
यु॒वव्ँवस्त्रा॑णि पीव॒सा व॑साथे ।
यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गाः॑ ।
अवा॑तिरत॒मनृ॑तानि॒ विश्वा॑ ।
ऋ॒तेन॑ मित्रावरुणा सचेथे ।
तत्सु वा॑म्मित्रावरुणा महि॒त्वम् ।
ई॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे ।
विश्वा॑ᳶ पिन्वथ॒ स्वस॑रस्य॒ धेनाः॑ ।
अनु॑ वा॒मेक॑ᳶ प॒विरा व॑वर्ति ॥ 45 ॥
यद्बँहि॑ष्ठ॒न्नाति॒ विदे॑ सुदानू ।
अच्छि॑द्रँ॒ शर्म॒ भुव॑नस्य गोपा ।
ततो॑ नो मित्रावरुणाववीष्टम् ।
सिषा॑सन्तो जीगि॒वाँस॑स्स्याम ।
आ नो मित्रावरुणा ह॒व्यदा॑तिम् ।
घृ॒तैर्गव्यू॑तिमुक्षत॒मिडा॑भिः ।
प्रति॑ वा॒मत्र॒ वर॒मा जना॑य ।
पृ॒णी॒तमु॒द्नो दि॒व्यस्य॒ चारोः॑ ।
प्र बा॒हवा॑ सिसृतञ्जी॒वसे॑ नः ।
आ नो॒ गव्यू॑तिमुक्षतङ्घृ॒तेन॑ ॥ 46 ॥
आ नो॒ जने॑ श्रवयतय्ँ युवाना ।
श्रु॒तम्मे॑ मित्रावरुणा॒ हवे॒मा ।
इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः॑ ।
क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाम्ने॑ ।
अषा॑ढाय॒ सह॑मानाय मी॒ढुषे॑ ।
ति॒ग्मायु॑धाय भरता शृ॒णोत॑न ।
त्वाद॑त्तेभी रुद्र॒ शन्त॑मेभिः ।
श॒तँ हिमा॑ अशीय भेष॒जेभिः॑ ।
व्य॑स्मद्द्वेषो॑ वित॒रव्व्यँँहः॑ ।
व्यमी॑वाँश्चातयस्वा॒ विषू॑चीः ॥ 47 ॥
अर्ह॑न्बिभर्षि॒ मा न॑स्तो॒के ।
आ ते॑ पितर्मरुताँ सु॒म्नमे॑तु ।
मा न॒स्सूर्य॑स्य स॒न्दृशो॑ युयोथाः ।
अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत ।
प्र जा॑येमहि रुद्र प्र॒जाभिः॑ ।
ए॒वा ब॑भ्रो वृषभ चेकितान ।
यथा॑ देव॒ न हृ॑णी॒षे न हँसि॑ ।
हा॒व॒न॒श्रूर्नो॑ रुद्रे॒ह बो॑धि ।
बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ।
परि॑ णो रु॒द्रस्य॑ हे॒तिस्स्तु॒हि श्रु॒तम् ।
मीढु॑ष्ट॒मार्ह॑न्बिभर्षि ।
त्वम॑ग्ने रु॒द्र आ वो॒ राजा॑नम् ॥ 48 ॥
सूर्यो॑ दे॒वीमु॒षसँ॒ रोच॑माना॒मर्यः॑ ।
न योषा॑म॒भ्ये॑ति प॒श्चात् ।
यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ ।
वि॒त॒न्वते॒ प्रति॑ भ॒द्राय॑ भ॒द्रम् ।
भ॒द्रा अश्वा॑ ह॒रित॒स्सूर्य॑स्य ।
चि॒त्रा एद॑ग्वा अनु॒माद्या॑सः ।
न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थुः ।
परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ।
तत्सूर्य॑स्य देव॒त्वन्तन्म॑हि॒त्वम् ।
म॒ध्या कर्तो॒र्वित॑तँ॒ सञ्ज॑भार ॥ 49 ॥
य॒देदयु॑क्त ह॒रित॑स्स॒धस्था॑त् ।
आद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ।
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॑ ।
सूर्यो॑ रू॒पङ्कृ॑णुते॒ द्योरु॒पस्थे॑ ।
अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ ।
कृ॒ष्णम॒न्यद्ध॒रित॒स्सम्भ॑रन्ति ।
अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य ।
निरँह॑सᳶ पिपृ॒तान्निर॑व॒द्यात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ताम् ।
अदि॑ति॒स्सिन्धु॑ᳶ पृथि॒वी उ॒त द्यौः ॥ 50 ॥
दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति ।
दू॒रे अ॑र्थस्त॒रणि॒र्भ्राज॑मानः ।
नू॒नञ्जना॒स्सूर्ये॑ण॒ प्रसू॑ताः ।
आयन्नर्था॑नि कृ॒णव॒न्नपाँ॑सि ।
शन्नो॑ भव॒ चक्ष॑सा॒ शन्नो॒ अह्ना॑ ।
शम्भा॒नुना॒ शँ हि॒मा शङ्घृ॒णेन॑ ।
यथा॒ शम॒स्मै शमस॑द्दुरो॒णे ।
तत्सू॑र्य॒ द्रवि॑णन्धे॒हि चि॒त्रम् ।
चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑कम् ।
चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ॥ 51 ॥
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् ।
सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ।
त्वष्टा॒ दध॒त्तन्न॑स्तु॒रीप॑म् ।
त्वष्टा॑ वी॒रम्पि॒शङ्ग॑रूपः ।
दशे॒मन्त्वष्टु॑र्जनयन्त॒ गर्भ॑म् ।
अत॑न्द्रासो युव॒तयो॒ बिभ॑र्त्रम् ।
ति॒ग्मानी॑कँ॒ स्वय॑शस॒ञ्जने॑षु ।
वि॒रोच॑मान॒म्परि॑षीन्नयन्ति ।
आविष्ट्यो॑ वर्धते॒ चारु॑रासु ।
जि॒ह्माना॑मू॒र्ध्वस्वय॑शा उ॒पस्थे॑ ॥ 52 ॥
उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात् ।
प्र॒तीची॑ सिँ॒हम्प्रति॑जोषयेते ।
मि॒त्रो जना॒न्प्र स मि॑त्र ।
अ॒यम्मि॒त्रो न॑म॒स्य॑स्सु॒शेवः॑ ।
राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः ।
तस्य॑ व॒यँ सु॑म॒तौ य॒ज्ञिय॑स्य ।
अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।
अ॒न॒मी॒वास॒ इड॑या॒ मद॑न्तः ।
मि॒तज्म॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः ।
आ॒दि॒त्यस्य॑ व्र॒तमु॑प॒क्ष्यन्तः॑ ॥ 53 ॥
व॒यम्मि॒त्रस्य॑ सुम॒तौ स्या॑म ।
मि॒त्रन्न ईँ शिम्या॒ गोषु॑ ग॒व्यव॑त् ।
स्वा॒धियो॑ वि॒दथे॑ अ॒प्स्वजी॑जनन् ।
अरे॑जयताँ॒ रोद॑सी॒ पाज॑सा गि॒रा ।
प्रति॑ प्रि॒यय्ँय॑ज॒तञ्ज॒नुषा॒मवः॑ ।
म॒हाँ आ॑दि॒त्यो नम॑सोप॒सद्यः॑ ।
या॒त॒यज्ज॑नो गृण॒ते सु॒शेवः॑ ।
तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्ट॑म् ।
अ॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ।
आ वाँ॒ रथो॒ रोद॑सी बद्बधा॒नः ॥ 54 ॥
हि॒र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः॑ ।
घृ॒तव॑र्तनिᳶ प॒विभी॑रुचा॒नः ।
इ॒षाव्ँ वो॒ढा नृ॒पति॑र्वा॒जिनी॑वान् ।
स प॑प्रथा॒नो अ॒भि पञ्च॒ भूम॑ ।
त्रि॒व॒न्धु॒रो मन॒साया॑तु यु॒क्तः ।
विशो॒ येन॒ गच्छ॑थो देव॒यन्तीः॑ ।
कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना ।
स्वश्वा॑ य॒शसाऽऽया॑तम॒र्वाक् ।
दस्रा॑ नि॒धिम्मधु॑मन्तम्पिबाथः ।
वि वाँ॒ रथो॑ व॒ध्वा॑ याद॑मानः ॥ 55 ॥
अन्ता॑न्दि॒वो बा॑धते वर्त॒निभ्या॑म् ।
यु॒वोश्श्रिय॒म्परि॒ योषा॑वृणीत ।
सूरो॑ दुहि॒ता परि॑तक्मियायाम् ।
यद्दे॑व॒यन्त॒मव॑थ॒श्शची॑भिः ।
परि॑घ्रँ॒ सवा॒म्मना॑वाव्ँ॒वयो॑गाम् ।
यो ह॒स्यवाँ॑ रथिरा॒वस्त॑ उ॒स्राः ।
रथो॑ युजा॒नᳶ प॑रि॒याति॑ व॒र्तिः ।
तेन॑ न॒श्शय्ँयोरु॒षसो॒ व्यु॑ष्टौ ।
न्य॑श्विना वहतय्ँ य॒ज्ञे अ॒स्मिन् ।
यु॒वम्भु॒ज्युमव॑विद्धँ समु॒द्रे ॥ 56 ॥
उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः ।
प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभिः॑ ।
दँ॒सना॑भिरश्विना पा॒रय॑न्ता ।
अग्नी॑षोमा॒ यो अ॒द्य वा॑म् ।
इ॒दव्ँवच॑स्सप॒र्यति॑ ।
तस्मै॑ धत्तँ सु॒वीर्य॑म् ।
गवा॒म्पोषँ॒ स्वश्वि॑यम् ।
यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्यात् ।
दे॒व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ ।
तस्य॑ व्र॒तँ र॑क्षतम्पा॒तमँह॑सः ॥ 57 ॥
वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ।
अग्नी॑षोमा॒ य आहु॑तिम् ।
यो वा॒न्दाशा॑द्ध॒विष्कृ॑तिम् ।
स प्र॒जया॑ सु॒वीर्य॑म् ।
विश्व॒मायु॒र्व्य॑श्ञवत् ।
अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यव्ँ॑वाम् ।
यदमु॑ष्णीतमव॒सम्प॒णिङ्गोः ।
अवा॑तिरत॒म्प्रथ॑यस्य॒ शेषः॑ ।
अवि॑न्दत॒ञ्ज्योति॒रेक॑म्ब॒हुभ्यः॑ ।
अग्नी॑षोमावि॒मँ सु मेऽग्नी॑षोमा ह॒विष॒ᳶ प्रस्थि॑तस्य ॥ 58 ॥
अ॒हम॑स्मि प्रथम॒जा ऋ॒तस्य॑ ।
पूर्व॑न्दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ ।
यो मा॒ ददा॑ति॒ स इदे॒वमावाः॑ ।
अ॒हमन्न॒मन्न॑न॒दन्त॑मद्मि ।
पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्न॑म् ।
य॒त्तौ हा॑साते अहमुत्त॒रेषु॑ ।
व्यात्त॑मस्य प॒शव॑स्सु॒जम्भ॑म् ।
पश्य॑न्ति॒ धीरा॒ᳶ प्रच॑रन्ति॒ पाकाः॑ ।
जहा॑म्य॒न्यन्न ज॑हाम्य॒न्यम् ।
अ॒हमन्नव्ँ॒वश॒मिच्च॑रामि ॥ 59 ॥
स॒मा॒नमर्थ॒म्पर्ये॑मि भु॒ञ्जत् ।
को मामन्न॑म्मनु॒ष्यो॑ दयेत ।
परा॑के॒ अन्न॒न्निहि॑तल्ँ लो॒क ए॒तत् ।
विश्वै॑र्दे॒वैᳶ पि॒तृभि॑र्गु॒प्तमन्न॑म् ।
यद॒द्यते॑ लु॒प्यते॒ यत्प॑रो॒प्यते॑ ।
श॒त॒त॒मी सा त॒नूर्मे॑ बभूव ।
म॒हान्तौ॑ च॒रू स॑कृद्दु॒ग्धेन॑ पप्रौ ।
दिव॑ञ्च॒ पृश्ञि॑ पृथि॒वीञ्च॑ सा॒कम् ।
तत्स॒म्पिब॑न्तो॒ न मि॑नन्ति वे॒धसः॑ ।
नैतद्भूयो॒ भव॑ति॒ नो कनी॑यः ॥ 60 ॥
अन्न॑म्प्रा॒णमन्न॑मपा॒नमा॑हुः ।
अन्न॑म्मृ॒त्युन्तमु॑ जी॒वातु॑माहुः ।
अन्न॑म्ब्र॒ह्माणो॑ ज॒रसव्ँ॑वदन्ति ।
अन्न॑माहुᳶ प्र॒जन॑नम्प्र॒जाना॑म् ।
मोघ॒मन्नव्ँ॑विन्दते॒ अप्र॑चेताः ।
स॒त्यम्ब्र॑वीमि व॒ध इत्स तस्य॑ ।
नार्य॒मण॒म्पुष्य॑ति॒ नो सखा॑यम् ।
केव॑लाघो भवति केवला॒दी ।
अ॒हम्मे॒घस्स्त॒नय॒न्वर्ष॑न्नस्मि ।
माम॑दन्त्य॒हम॑द्म्य॒न्यान् ॥ 61 ॥
अ॒हँ सद॒मृतो॑ भवामि ।
मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति ।
दे॒वीव्ँ वाच॑मजनयन्त॒ यद्वाग्वद॑न्ती ।
अ॒न॒न्तामन्ता॒दधि॒ निर्मि॑ताम्म॒हीम् ।
यस्या॑न्दे॒वा अ॑दधु॒र्भोज॑नानि ।
एका॑क्षरान्द्वि॒पदाँ॒ षट्प॑दाञ्च ।
वाच॑न्दे॒वा उप॑ जीवन्ति॒ विश्वे॑ ।
वाच॑न्दे॒वा उप॑ जीवन्ति॒ विश्वे॑ ।
वाच॑ङ्गन्ध॒र्वाᳶ प॒शवो॑ मनु॒ष्याः॑ ।
वा॒चीमा विश्वा॒ भुव॑ना॒न्यर्पि॑ता ॥ 62 ॥
सा नो॒ हव॑ञ्जुषता॒मिन्द्र॑पत्नी ।
वाग॒क्षर॑म्प्रथम॒जा ऋ॒तस्य॑ ।
वेदा॑नाम्मा॒ताऽमृत॑स्य॒ नाभिः॑ ।
सा नो॑ जुषा॒णोप॑ य॒ज्ञमागा॑त् ।
अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु ।
यामृष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑ ।
अ॒न्वैच्छ॑न्दे॒वास्तप॑सा॒ श्रमे॑ण ।
तान्दे॒वीव्ँ वाचँ॑ ह॒विषा॑ यजामहे ।
सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के ।
च॒त्वारि॒ वाक्परि॑मिता प॒दानि॑ ॥ 63 ॥
तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ ।
गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति ।
तु॒रीयव्ँ॑वा॒चो म॑नु॒ष्या॑ वदन्ति ।
श्र॒द्धया॒ऽग्निस्समि॑ध्यते ।
श्र॒द्धया॑ विन्दते ह॒विः ।
श्र॒द्धाम्भग॑स्य मू॒र्धनि॑ ।
वच॒सा वे॑दयामसि ।
प्रि॒यँ श्र॑द्धे॒ दद॑तः ।
प्रि॒यँ श्र॑द्धे॒ दिदा॑सतः ।
प्रि॒यम्भो॒जेषु॒ यज्व॑सु ॥ 64 ॥
इ॒दम्म॑ उदि॒तङ्कृ॑धि ।
यथा॑ दे॒वा असु॑रेषु ।
श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ।
ए॒वम्भो॒जेषु॒ यज्व॑सु ।
अ॒स्माक॑मुदि॒तङ्कृ॑धि ।
श्र॒द्धान्दे॑वा॒ यज॑मानाः ।
वा॒युगो॑पा॒ उपा॑सते ।
श्र॒द्धाँ हृ॑द॒य्य॑याऽऽकू॑त्या ।
श्र॒द्धया॑ हूयते ह॒विः ।
श्र॒द्धाम्प्रा॒तर्ह॑वामहे ॥ 65 ॥
श्र॒द्धाम्म॒ध्यन्दि॑न॒म्परि॑ ।
श्र॒द्धाँ सूर्य॑स्य नि॒म्रुचि॑ ।
श्रद्धे॒ श्रद्धा॑पये॒ह मा॑ ।
श्र॒द्धा दे॒वानधि॑ वस्ते ।
श्र॒द्धा विश्व॑मि॒दञ्जग॑त् ।
श्र॒द्धाङ्काम॑स्य मा॒तर॑म् ।
ह॒विषा॑ वर्धयामसि ।
ब्रह्म॑ जज्ञा॒नम्प्र॑थ॒मम्पु॒रस्ता॑त् ।
वि सी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒ मा अ॑स्य वि॒ष्ठाः ॥ 66 ॥
स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ।
पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् ।
अ॒न्तरि॑क्षव्ँ वि॒श्वरू॑प॒ आवि॑वेश ।
तम॒र्कैर॒भ्य॑र्चन्ति व॒त्सम् ।
ब्रह्म॒ सन्त॒म्ब्रह्म॑णा व॒र्धय॑न्तः ।
ब्रह्म॑ दे॒वान॑जनयत् ।
ब्रह्म॒ विश्व॑मि॒दञ्जग॑त् ।
ब्रह्म॑णः क्ष॒त्रन्निर्मि॑तम् ।
ब्रह्म॑ ब्राह्म॒ण आ॒त्मना॑ ।
अ॒न्तर॑स्मिन्नि॒मे लो॒काः ॥ 67 ॥
अ॒न्तर्विश्व॑मि॒दञ्जग॑त् ।
ब्रह्मै॒व भू॒ताना॒ञ्ज्येष्ठ॑म् ।
तेन॒ को॑ऽर्हति॒ स्पर्धि॑तुम् ।
ब्रह्म॑न्दे॒वास्त्रय॑स्त्रिँशत् ।
ब्रह्म॑न्निन्द्रप्रजाप॒ती ।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ ।
ना॒वीवा॒न्तस्स॒माहि॑ता ।
चत॑स्र॒ आशा॒ᳶ प्रच॑रन्त्व॒ग्नयः॑ ।
इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन् ।
घृ॒तम्पिन्व॑न्न॒जरँ॑ सु॒वीर॑म् ॥ 68 ॥
ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् ।
आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्रन् ।
सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे ।
प्र॒जाव॑तीᳶ पुरु॒रूपा॑ इ॒ह स्युः ।
इन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ।
इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्षति ।
उपेद्द॑दाति॒ न स्वम्मु॑षायति ।
भूयो॑भूयो र॒यमिद॑स्य व॒र्धय॑न् ।
अभि॑न्ने खि॒ल्ले नि द॑धाति देव॒युम् ।
न ता न॑शन्ति॒ न ता अर्वा॑ ॥ 69 ॥
गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छात् ।
गाव॒स्सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः ।
इ॒मा या गाव॒स्सज॑नास॒ इन्द्रः॑ ।
इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र॑म् ।
यू॒यङ्गा॑वो मेदयथा कृ॒शञ्चि॑त् ।
अ॒श्ली॒लञ्चि॑त्कृणुथा सु॒प्रती॑कम् ।
भ॒द्रङ्गृ॒हङ्कृ॑णुथ भद्रवाचः ।
बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ।
प्र॒जाव॑तीस्सू॒यव॑सँ रि॒शन्तीः॑ ।
शु॒द्धा अ॒पस्सु॑प्रपा॒णे पिब॑न्तीः ।
मा व॑स्स्ते॒न ई॑शत॒ माऽघशँ॑सः ।
परि॑ वो हे॒ती रु॒द्रस्य॑ वृञ्ज्यात् ।
उपे॒दमु॑प॒पर्च॑नम् ।
आ॒सु गोषूप॑पृच्यताम् ।
उप॑र्ष॒भस्य॒ रेत॑सि ।
उपे॑न्द्र॒ तव॑ वी॒र्ये॑ ॥ 70 ॥
ता सू॑र्याचन्द्र॒मसा॑ विश्व॒भृत्त॑मा म॒हत् ।
तेजो॒ वसु॑मद्राजतो दि॒वि ।
सामा॑त्माना चरतस्सामचा॒रिणा॑ ।
ययो॑र्व्र॒तन्न म॒मे जातु॑ दे॒वयोः॑ ।
उ॒भावन्तौ॒ परि॑ यात॒ अर्म्या॑ ।
दि॒वो न र॒श्मीँ स्त॑नु॒तो व्य॑र्ण॒वे ।
उ॒भा भु॑व॒न्ती भुव॑ना क॒विक्र॑तू ।
सूर्या॒ न च॒न्द्रा च॑रतो ह॒ताम॑ती ।
पती॑ द्यु॒मद्वि॑श्व॒विदा॑ उ॒भा दि॒वः ।
सूर्या॑ उ॒भा च॒न्द्रम॑सा विचक्ष॒णा ॥ 71 ॥
वि॒श्ववा॑रा वरिवो॒भा वरे॑ण्या ।
ता नो॑ऽवतम्मति॒मन्ता॒ महि॑व्रता ।
वि॒श्व॒वप॑री प्र॒तर॑णा तर॒न्ता ।
सु॒व॒र्विदा॑ दृ॒शये॒ भूरि॑रश्मी ।
सूर्या॒ हि च॒न्द्रा वसु॑ त्वे॒षद॑र्शता ।
म॒न॒स्विनो॒भानु॑चर॒तोनु॒ सन्दिव॑म् ।
अ॒स्य श्रवो॑ न॒द्य॑स्स॒प्त बि॑भ्रति ।
द्यावा॒ क्षामा॑ पृथि॒वी द॑र्श॒तव्ँवपुः॑ ।
अ॒स्मे सू॑र्याचन्द्र॒मसा॑ऽभि॒चक्षे॑ ।
श्र॒द्धेकमि॑न्द्र चरतो विचर्तु॒रम् ॥ 72 ॥
पू॒र्वा॒प॒रञ्च॑रतो मा॒ययै॒तौ ।
शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो अध्व॒रम् ।
विश्वा॑न्य॒न्यो भुव॑नाऽभि॒ चष्टे॑ ।
ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ।
हिर॑ण्यवर्णा॒श्शुच॑यᳶ पाव॒का यासाँ॒ राजा॑ ।
यासा॑न्दे॒वाश्शि॒वेन॑ मा॒ चक्षु॑षा पश्यत ।
आपो॑ भ॒द्रा आदित्प॑श्यामि ।
नास॑दासी॒न्नो सदा॑सीत्त॒दानी॑म् ।
नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् ।
किमाव॑रीव॒ᳵ कुह॒ कस्य॒ शर्म॑न् ॥ 73 ॥
अम्भ॒ᳵ किमा॑सी॒द्गह॑नङ्गभी॒रम् ।
न मृ॒त्युर॒मृत॒न्तर्हि॒ न ।
रात्रि॑या॒ अह्न॑ आसीत्प्रके॒तः ।
आनी॑दवा॒तँ स्व॒धया॒ तदेक॑म् ।
तस्मा॑द्धा॒न्यन्न प॒रᳵ किञ्च॒नास॑ ।
तम॑ आसी॒त्तम॑सा गू॒ढमग्रे॑ प्रके॒तम् ।
स॒लि॒लँ सर्व॑मा इ॒दम् ।
तु॒च्छेना॒भ्वपि॑हितय्ँ॒यदासी॑त् ।
तम॑स॒स्तन्म॑हि॒नाजा॑य॒तैक॑म् ।
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ ॥ 74 ॥
मन॑सो॒ रेत॑ᳶ प्रथ॒मय्ँयदासी॑त् ।
स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् ।
हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ।
ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम् ।
अ॒धस्स्वि॑दा॒सी ३ दु॒परि॑ स्विदासी ३ त् ।
रे॒तो॒धा आ॑सन्महि॒मान॑ आसन् ।
स्व॒धा अ॒वस्ता॒त्प्रय॑तिᳶ प॒रस्ता॑त् ।
को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑चत् ।
कुत॒ आजा॑ता॒ कुत॑ इ॒यव्ँ विसृ॑ष्टिः ।
अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑नाय ॥ 75 ॥
अथा॒ को वे॑द॒ यत॑ आब॒भूव॑ ।
इ॒यव्ँ विसृ॑ष्टि॒र्यत॑ आब॒भूव॑ ।
यदि॑ वा द॒धे यदि॑ वा॒ न ।
यो अ॒स्याध्य॑क्षᳶ पर॒मे व्यो॑मन् ।
सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ ।
किँस्वि॒द्वन॒ङ्क उ॒ स वृ॒क्ष आ॑सीत् ।
यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।
मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒तत् ।
यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ।
ब्रह्म॒ वन॒म्ब्रह्म॒ स वृ॒क्ष आ॑सीत् ॥ 76 ॥
यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।
मनी॑षिणो॒ मन॑सा॒ विब्र॑वीमि वः ।
ब्रह्मा॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ।
प्रा॒तर॒ग्निम्प्रा॒तरिन्द्रँ॑ हवामहे ।
प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ ।
प्रा॒तर्भग॑म्पू॒षण॒म्ब्रह्म॑ण॒स्पति॑म् ।
प्रा॒तस्सोम॑मु॒त रु॒द्रँ हु॑वेम ।
प्रा॒त॒र्जित॒म्भग॑मु॒ग्रँ हु॑वेम ।
व॒यम्पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।
आ॒ध्रश्चि॒द्यम्मन्य॑मानस्तु॒रश्चि॑त् ॥ 77 ॥
राजा॑ चि॒द्यम्भग॑म्भ॒क्षीत्याह॑ ।
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः ।
भगे॒मान्धिय॒मुद॑व॒ दद॑न्नः ।
भग॒ प्र णो॑ जनय॒ गोभि॒रश्वैः॑ ।
भग॒ प्र नृभि॑र्नृ॒वन्त॑स्स्याम ।
उ॒तेदानी॒म्भग॑वन्तस्स्याम ।
उ॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना॑म् ।
उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य ।
व॒यन्दे॒वानाँ॑ सुम॒तौ स्या॑म ।
भग॑ ए॒व भग॑वाँ अस्तु देवाः ॥ 78 ॥
तेन॑ व॒यम्भग॑वन्तस्स्याम ।
तन्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि ।
स नो॑ भग पुरए॒ता भ॑वे॒ह ।
सम॑ध्व॒रायो॒षसो॑ नमन्त ।
द॒धि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।
अ॒र्वा॒ची॒नव्ँव॑सु॒विद॒म्भग॑न्नः ।
रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु ।
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासः॑ ।
वी॒रव॑ती॒स्सद॑मुच्छन्तु भ॒द्राः ।
घृ॒तन्दुहा॑ना वि॒श्वत॒ᳶ प्रपी॑नाः ।
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥ 79 ॥
अ॒ग्निर्न॑ᳶ पातु॒ कृत्ति॑काः ।
नक्ष॑त्रन्दे॒वमि॑न्द्रि॒यम् ।
इ॒दमा॑साव्ँविचक्ष॒णम् ।
ह॒विरा॒सञ्जु॑होतन ।
यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ ।
यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा॑ ।
स कृत्ति॑काभिर॒भि सव्ँ॒वसा॑नः ।
अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु ।
प्र॒जाप॑ते रोहि॒णी वे॑तु॒ पत्नी॑ ।
वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः ॥1॥
सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु ।
यथा॒ जीवे॑म श॒रद॒स्सवी॑राः ।
रो॒हि॒णी दे॒व्युद॑गात्पु॒रस्ता॑त् ।
विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना ।
प्र॒जाप॑तिँ ह॒विषा॑ व॒र्धय॑न्ती ।
प्रि॒या दे॒वाना॒मुप॑यातु य॒ज्ञम् ।
सोमो॒ राजा॑ मृगशी॒र्षेण॒ आग॑न् ।
शि॒वन्नक्ष॑त्रम्प्रि॒यम॑स्य॒ धाम॑ ।
आ॒प्याय॑मानो बहु॒धा जने॑षु ।
रेत॑ᳶ प्र॒जाय्ँयज॑माने दधातु ॥2॥
यत्ते॒ न॑क्षत्रम्मृगशी॒र्षमस्ति॑ ।
प्रि॒यँ रा॑जन्प्रि॒यत॑मम्प्रि॒याणा॑म् ।
तस्मै॑ ते सोम ह॒विषा॑ विधेम ।
शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे ।
आ॒र्द्रया॑ रु॒द्रᳶ प्रथ॑मान एति ।
श्रेष्ठो॑ दे॒वाना॒म्पति॑रघ्नि॒याना॑म् ।
नक्ष॑त्रमस्य ह॒विषा॑ विधेम ।
मा न॑ᳶ प्र॒जाँ री॑रिष॒न्मोत वी॒रान् ।
हे॒ती रु॒द्रस्य॒ परि॑ णो वृणक्तु ।
आ॒र्द्रा नक्ष॑त्रञ्जुषताँ ह॒विर्नः॑ ॥3॥
प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा॑ ।
अपा॒घशँ॑सन्नुदता॒मरा॑तिम् ।
पुन॑र्नो दे॒व्यदि॑तिस्स्पृणोतु ।
पुन॑र्वसू न॒ᳶ पुन॒रेताय्ँ॑ य॒ज्ञम् ।
पुन॑र्नो दे॒वा अ॒भिय॑न्तु॒ सर्वे॑ ।
पुन॑ᳶपुनर्वो ह॒विषा॑ यजामः ।
ए॒वा न दे॒व्यदि॑तिरन॒र्वा ।
विश्व॑स्य भ॒र्त्री जग॑तᳶ प्रति॒ष्ठा ।
पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती ।
प्रि॒यन्दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥4॥
बृह॒स्पति॑ᳶ प्रथ॒मञ्जाय॑मानः ।
ति॒ष्य॑न्नक्ष॑त्रम॒भिसम्ब॑भूव ।
श्रेष्ठो॑ दे॒वाना॒म्पृत॑नासु जि॒ष्णुः ।
दिशोऽनु॒ सर्वा॒ अभ॑यन्नो अस्तु ।
ति॒ष्य॑ᳶ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॑ ।
बृह॒स्पति॑र्न॒ᳶ परि॑ पातु प॒श्चात् ।
बाधे॑ता॒न्द्वेषो॒ अभ॑यङ्कृणुताम् ।
सु॒वीर्य॑स्य॒ पत॑यस्स्याम ।
इ॒दँ स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्ट॑म् ।
आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ ॥5॥
ये अ॒न्तरि॑क्षम्पृथि॒वीङ्क्षि॒यन्ति॑ ।
ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः ।
ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः ।
ये दिव॑न्दे॒वीमनु॑ स॒ञ्चर॑न्ति ।
येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ काम॑म् ।
तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि ।
उप॑हूताᳶ पि॒तरो॒ ये म॒घासु॑ ।
मनो॑जवसस्सु॒कृत॑स्सुकृ॒त्याः ।
ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मिष्ठाः ।
स्व॒धाभि॑र्य॒ज्ञम्प्रय॑तञ्जुषन्ताम् ॥6॥
ये अ॑ग्निद॒ग्धा येऽन॑ग्निदग्धाः ।
ये॑ऽमुल्ँ लो॒कम्पि॒तर॑ᳵ क्षि॒यन्ति॑ ।
याँश्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म ।
म॒घासु॑ य॒ज्ञँ सुकृ॑तञ्जुषन्ताम् ।
गवा॒म्पति॒ᳶ फल्गु॑नीनामसि॒ त्वम् ।
तद॑र्यमन्वरुण मित्र॒ चारु॑ ।
तन्त्वा॑ व॒यँ स॑नि॒तारँ॑ सनी॒नाम् ।
जी॒वा जीव॑न्त॒मुप॒सव्ँ वि॑शेम ।
येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता ।
यस्य॑ दे॒वा अ॑नुसय्ँ॒यन्ति॒ चेतः॑ ॥7॥
अ॒र्य॒मा राजा॒ऽजर॒स्तुवि॑ष्मान् ।
फल्गु॑नीनामृष॒भो रो॑रवीति ।
श्रेष्ठो॑ दे॒वाना॑म्भगवो भगासि ।
तत्त्वा॑ विदु॒ᳶ फल्गु॑नी॒स्तस्य॑ वित्तात् ।
अ॒स्मभ्य॑ङ्क्ष॒त्रम॒जरँ॑ सु॒वीर्य॑म् ।
गोम॒दश्व॑व॒दुप॒सन्नु॑दे॒ह ।
भगो॑ ह दा॒ता भग॒ इत्प्र॑दा॒ता ।
भगो॑ दे॒वीᳶ फल्गु॑नी॒रावि॑वेश ।
भग॒स्येत्तम्प्र॑स॒वङ्ग॑मेम ।
यत्र॑ दे॒वैस्स॑ध॒माद॑म्मदेम ॥8॥
आया॑तु दे॒वस्स॑वि॒तोप॑यातु ।
हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न ।
वह॒न् हस्तँ॑ सु॒भगव्ँ॑विद्म॒नाप॑सम् ।
प्र॒यच्छ॑न्त॒म्पपु॑रि॒म्पुण्य॒मच्छ॑ ।
हस्त॒ᳶ प्रय॑च्छत्व॒मृतव्ँ॒वसी॑यः ।
दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत् ।
दा॒तार॑म॒द्य स॑वि॒ता वि॑देय ।
यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् ।
त्वष्टा॒ नक्ष॑त्रम॒भ्ये॑ति चि॒त्राम् ।
सु॒भँस॑सय्ँ युव॒तिँ रोच॑मानाम् ॥9॥
नि॒वे॒शय॑न्न॒मृता॒न्मर्त्याँ॑श्च ।
रू॒पाणि॑ पिँ॒शन्भुव॑नानि॒ विश्वा॑ ।
तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् ।
तन्नक्ष॑त्रम्भूरि॒दा अ॑स्तु॒ मह्य॑म् ।
तन्न॑ᳶ प्र॒जाव्ँ वी॒रव॑तीँ सनोतु ।
गोभि॑र्नो॒ अश्वै॒स्सम॑नक्तु य॒ज्ञम् ।
वा॒युर्नक्ष॑त्त्रम॒भ्ये॑ति॒ निष्ट्या॑म् ।
ति॒ग्मशृ॑ङ्गो वृष॒भो रोरु॑वाणः ।
स॒मी॒रय॒न्भुव॑ना मात॒रिश्वा॑ ।
अप॒ द्वेषाँ॑सि नुदता॒मरा॑तीः ॥10॥
तन्नो॑ वा॒युस्तदु॒ निष्ट्या॑ शृणोतु ।
तन्नक्ष॑त्रम्भूरि॒दा अ॑स्तु॒ मह्य॑म् ।
तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम॑म् ।
यथा॒ तरे॑म दुरि॒तानि॒ विश्वा॑ ।
दू॒रम॒स्मच्छत्र॑वो यन्तु भी॒ताः ।
तदि॑न्द्रा॒ग्नी कृ॑णुता॒न्तद्विशा॑खे ।
तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञम् ।
प॒श्चात्पु॒रस्ता॒दभ॑यन्नो अस्तु ।
नक्ष॑त्राणा॒मधि॑पत्नी॒ विशा॑खे ।
श्रेष्ठा॑विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ ॥11॥
विषू॑च॒श्शत्रू॑नप॒ बाध॑मानौ ।
अप॒ क्षुध॑न्नुदता॒मरा॑तिम् ।
पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॑त् ।
उन्म॑ध्य॒तᳶ पौ॑र्णमा॒सी जि॑गाय ।
तस्या॑न्दे॒वा अधि॑ सव्ँ॒वस॑न्तः ।
उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् ।
पृ॒थ्वी सु॒वर्चा॑ युव॒तिस्स॒जोषाः॑ ।
पौ॒र्ण॒मा॒स्युद॑गा॒च्छोभ॑माना ।
आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा॑ ।
उ॒रुन्दुहाय्ँ॒यज॑मानाय य॒ज्ञम् ॥12॥
ऋ॒द्ध्यास्म॑ ह॒व्यैर्नम॑सोप॒सद्य॑ ।
मि॒त्रन्दे॒वम्मि॑त्र॒धेय॑न्नो अस्तु ।
अ॒नू॒रा॒धान् ह॒विषा॑ व॒र्धय॑न्तः ।
श॒तञ्जी॑वेम श॒रद॒स्सवी॑राः ।
चि॒त्रन्नक्ष॑त्र॒मुद॑गात्पु॒रस्ता॑त् ।
अ॒नू॒रा॒धास॒ इति॒ यद्वद॑न्ति ।
तन्मि॒त्र ए॑ति प॒थिभि॑र्देव॒यानैः॑ ।
हि॒र॒ण्ययै॒र्वित॑तैर॒न्तरि॑क्षे ।
इन्द्रो॑ ज्ये॒ष्ठामनु॒ नक्ष॑त्रमेति ।
यस्मि॑न्वृ॒त्रव्ँ वृ॑त्र॒तूर्ये॑ त॒तार॑ ॥13॥
तस्मि॑न्व॒यम॒मृत॒न्दुहा॑नाः ।
क्षुध॑न्तरेम॒ दुरि॑ति॒न्दुरि॑ष्टिम् ।
पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे॑ ।
अषा॑ढाय॒ सह॑मानाय मी॒ढुषे॑ ।
इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना ।
उ॒रुङ्कृ॑णोतु॒ यज॑मानाय लो॒कम् ।
मूल॑म्प्र॒जाव्ँ वी॒रव॑तीव्ँ विदेय ।
परा॑च्येतु॒ निर्ऋ॑तिᳶ परा॒चा ।
गोभि॒र्नक्ष॑त्रम्प॒शुभि॒स्सम॑क्तम् ।
अह॑र्भूया॒द्यज॑मानाय॒ मह्य॑म् ॥14॥
अह॑र्नो अ॒द्य सु॑वि॒ते द॑धातु ।
मूल॒न्नक्ष॑त्र॒मिति॒ यद्वद॑न्ति ।
परा॑चीव्ँ वा॒चा निर्ऋ॑तिन्नुदामि ।
शि॒वम्प्र॒जायै॑ शि॒वम॑स्तु॒ मह्य॑म् ।
या दि॒व्या आप॒ᳶ पय॑सा सम्बभू॒वुः ।
या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः ।
यासा॑मषा॒ढा अ॑नु॒यन्ति॒ काम॑म् ।
ता न॒ आप॒श्शँ स्यो॒ना भ॑वन्तु ।
याश्च॒ कूप्या॒ याश्च॑ ना॒द्या॑स्समु॒द्रियाः॑ ।
याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः ॥15॥
यासा॑मषा॒ढा मधु॑ भ॒क्षय॑न्ति॒ ।
ता न॒ आप॒श्शँ स्यो॒ना भ॑वन्तु ।
तन्नो॒ विश्वे॒ उप॑शृण्वन्तु दे॒वाः ।
तद॑षा॒ढा अ॒भिसय्ँय॑न्तु य॒ज्ञम् ।
तन्नक्ष॑त्त्रम्प्रथताम्प॒शुभ्यः॑ ।
कृ॒षिर्वृ॒ष्टिर्यज॑मानाय कल्पताम् ।
शु॒भ्राᳵ क॒न्या॑ युव॒तय॑स्सु॒पेश॑सः ।
क॒र्म॒कृत॑स्सु॒कृतो॑ वी॒र्या॑वतीः ।
विश्वा॑न्दे॒वान् ह॒विषा॑ व॒र्धय॑न्तीः ।
अ॒षा॒ढाᳵ काम॒मुप॑ यान्तु य॒ज्ञम् ॥16॥
यस्मि॒न्ब्रह्मा॒ऽभ्यज॑य॒त्सर्व॑मे॒तत् ।
अ॒मुञ्च॑ लो॒कमि॒दमू॑ च॒ सर्व॑म् ।
तन्नो॒ नक्ष॑त्रमभि॒जिद्वि॒जित्य॑ ।
श्रिय॑न्दधा॒त्वहृ॑णीयमानम् ।
उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ ।
तन्नो॒ नक्ष॑त्रमभि॒जिद्विच॑ष्टाम् ।
तस्मि॑न्व॒यम्पृत॑ना॒स्सञ्ज॑येम ।
तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम॑म् ।
शृ॒ण्वन्ति॑ श्रो॒णाम॒मृत॑स्य गो॒पाम् ।
पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच॑म् ॥17 ॥
म॒हीन्दे॒वीव्ँ विष्णु॑पत्नीमजू॒र्याम् ।
प्र॒तीची॑मेनाँ ह॒विषा॑ यजामः ।
त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे ।
म॒हीन्दिव॑म्पृथि॒वीम॒न्तरि॑क्षम् ।
तच्छ्रो॒णैति॒ श्रव॑ इ॒च्छमा॑ना ।
पुण्यँ॒ श्लोकय्ँ॒यज॑मानाय कृण्व॒ती ।
अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑ ।
चत॑स्रो दे॒वीर॒जरा॒श्श्रवि॑ष्ठाः ।
ते य॒ज्ञम्पा॑न्तु॒ रज॑सᳶ प॒रस्ता॑त् ।
सव्ँ॒व॒त्स॒रीण॑म॒मृतँ॑ स्व॒स्ति ॥18॥
य॒ज्ञन्न॑ᳶ पान्तु॒ वस॑वᳶ पु॒रस्ता॑त् ।
द॒क्षि॒ण॒तो॑ऽभिय॑न्तु॒ श्रवि॑ष्ठाः ।
पुण्य॒न्नक्ष॑त्रम॒भिसव्ँ वि॑शाम ।
मा नो॒ अरा॑तिर॒घशँ॒साऽग॑न् ।
क्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः ।
नक्ष॑त्राणाँ श॒तभि॑ष॒ग्वसि॑ष्ठः ।
तौ दे॒वेभ्य॑ᳵ कृणुतो दी॒र्घमायुः॑ ।
श॒तँ स॒हस्रा॑ भेष॒जानि॑ धत्तः ।
य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु ।
तन्नो॒ विश्वे॑ अ॒भिसय्ँय॑न्तु दे॒वाः ॥19॥
तन्नो॒ नक्ष॑त्रँ श॒तभि॑षग्जुषा॒णम् ।
दी॒र्घमायु॒ᳶ प्रति॑रद्भेष॒जानि॑ ।
अ॒ज एक॑पा॒दुद॑गात्पु॒रस्ता॑त् ।
विश्वा॑ भू॒तानि॑ प्रति॒मोद॑मानः ।
तस्य॑ दे॒वाᳶ प्र॑स॒वय्ँय॑न्ति॒ सर्वे॑ ।
प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः ।
वि॒भ्राज॑मानस्समिधा॒न उ॒ग्रः ।
आऽन्तरि॑क्षमरुह॒दग॒न्द्याम् ।
तँ सूर्य॑न्दे॒वम॒जमेक॑पादम् ।
प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे॑ ॥20॥
अहि॑र्बु॒ध्निय॒ᳶ प्रथ॑मान एति ।
श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम् ।
तम्ब्रा॑ह्म॒णास्सो॑म॒पास्सो॒म्यासः॑ ।
प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑क्षन्ति॒ सर्वे॑ ।
च॒त्वार॒ एक॑म॒भिकर्म॑ दे॒वाः ।
प्रो॒ष्ठ॒प॒दास॒ इति॒ यान् वद॑न्ति ।
ते बु॒ध्निय॑म्परि॒षद्यँ॑ स्तु॒वन्तः॑ ।
अहिँ॑ रक्षन्ति॒ नम॑सोप॒सद्य॑ ।
पू॒षा रे॒वत्यन्वे॑ति॒ पन्था॑म् ।
पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ ॥21॥
इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा ।
सु॒गैर्नो॒ यानै॒रुप॑याताय्ँ य॒ज्ञम् ।
क्षु॒द्रान्प॒शून्र॑क्षतु रे॒वती॑ नः ।
गावो॑ नो॒ अश्वाँ॒ अन्वे॑तु पू॒षा ।
अन्नँ॒ रक्ष॑न्तौ बहु॒धा विरू॑पम् ।
वाजँ॑ सनुताय्ँ॒यज॑मानाय य॒ज्ञम् ।
तद॒श्विना॑वश्व॒युजोप॑याताम् ।
शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः॑ ।
स्वन्नक्ष॑त्रँ ह॒विषा॒ यज॑न्तौ ।
मध्वा॒ सम्पृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ ॥22॥
यौ दे॒वाना॑म्भि॒षजौ॑ हव्यवा॒हौ ।
विश्व॑स्य दू॒ताव॒मृत॑स्य गो॒पौ ।
तौ नक्ष॑त्रञ्जुजुषा॒णोप॑याताम् ।
नमो॒ऽश्विभ्या॑ङ्कृणुमोऽश्व॒युग्भ्या॑म् ।
अप॑ पा॒प्मान॒म्भर॑णीर्भरन्तु ।
तद्य॒मो राजा॒ भग॑वा॒न्विच॑ष्टाम् ।
लो॒कस्य॒ राजा॑ मह॒तो म॒हान् हि ।
सु॒गन्नᳶ पन्था॒मभ॑यङ्कृणोतु ।
यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा॑ ।
यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः ।
तद॑स्य चि॒त्रँ ह॒विषा॑ यजाम ।
अप॑ पा॒प्मान॒म्भर॑णीर्भरन्तु ।
नि॒वेश॑नी॒ यत्ते॑ दे॒वा अद॑धुः ॥23॥
नवो॑नवो भवति॒ जाय॑मानो॒ यमा॑दि॒त्या अँ॒शुमा॑प्या॒यय॑न्ति ।
ये विरू॑पे॒ सम॑नसा सव्ँ॒ व्यय॑न्ती ।
स॒मा॒नन्तन्तु॑म्परितात॒ना ते॑ ।
वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे ।
ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मेतम् ।
व॒यन्दे॒वी ब्रह्म॑णा सव्ँ विदा॒नाः ।
सु॒रत्ना॑सो दे॒ववी॑ति॒न्दधा॑नाः ।
अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्धय॑न्तः ।
अति॑ पा॒प्मान॒मति॑ मुक्त्या गमेम ।
प्रत्यु॑वदृश्याय॒ती ॥24॥
व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः ।
अ॒पो म॒ही वृ॑णुते॒ चक्षु॑षा ।
तमो॒ ज्योति॑ष्कृणोति सू॒नरी॑ ।
उदु॒स्रिया॑स्सचते॒ सूर्यः॑ ।
सचा॑ उ॒द्यन्नक्ष॑त्रमर्चि॒मत् ।
तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च ।
सम्भ॒क्तेन॑ गमेमहि ।
तन्नो॒ नक्ष॑त्रमर्चि॒मत् ।
भा॒नु॒मत्तेज॑ उ॒च्चर॑त् ।
उप॑य॒ज्ञमि॒हाग॑मत् ॥25॥
प्र नक्ष॑त्राय दे॒वाय॑ ।
इन्द्रा॒येन्दुँ॑ हवामहे ।
सन॑स्सवि॒ता सु॑वत्स॒निम् ।
पु॒ष्टि॒दाव्ँ वी॒रव॑त्तमम् ।
उदु॒त्यञ्चि॒त्रम् ।
अदि॑तिर्न उरुष्यतु म॒हीमू॒ षु मा॒तर॑म् ।
इ॒दव्ँ विष्णु॒ᳶ प्रतद्विष्णुः॑ ।
अ॒ग्निर्मू॒र्धा भुवः॑ ।
अनु॑ नो॒ऽद्यानु॑मति॒रन्विद॑नुमते॒ त्वम् ।
ह॒व्य॒वाहँ॒ स्वि॑ष्टम् ॥26॥
अ॒ग्निर्वा अ॑कामयत ।
अ॒न्ना॒दो दे॒वानाँ॑ स्या॒मिति॑ ।
स ए॒तम॒ग्नये॒ कृत्ति॑काभ्यᳶ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपत् ।
ततो॒ वै सो॑ऽन्ना॒दो दे॒वाना॑मभवत् ।
अ॒ग्निर्वै दे॒वाना॑मन्ना॒दः ।
यथा॑ ह॒ वा अ॒ग्निर्दे॒वाना॑मन्ना॒दः ।
ए॒वँ ह॒ वा ए॒ष म॑नु॒ष्या॑णाम्भवति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
अ॒ग्नये॒ स्वाहा॒ कृत्ति॑काभ्य॒स्स्वाहा॑ ।
अ॒म्बायै॒ स्वाहा॑ दु॒लायै॒ स्वाहा॑ ।
नि॒त॒त्न्यै स्वाहा॒ऽभ्रय॑न्त्यै॒ स्वाहा॑ ।
मे॒घय॑न्त्यै॒ स्वाहा॑ व॒र्षय॑न्त्यै॒ स्वाहा॑ ।
चु॒पु॒णीका॑यै॒ स्वाहेति॑ ॥27॥
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ता अ॑स्मात्सृ॒ष्टाᳶ परा॑चीरायन् ।
तासाँ॑ रोहि॒णीम॒भ्य॑ध्यायत् ।
सो॑ऽकामयत ।
उप॒ मा व॑र्तेत ।
समे॑नया गच्छे॒येति॑ ।
स ए॒तम्प्र॒जाप॑तये रोहि॒ण्यै च॒रुन्निर॑वपत् ।
ततो॒ वै सा तमु॒पाव॑र्तत ।
समे॑नयाऽगच्छत ।
उप॑ ह॒ वा ए॑नम्प्रि॒यमाव॑र्तते ।
सम्प्रि॒येण॑ गच्छते ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा॑ ।
रोच॑मानायै॒ स्वाहा॑ प्र॒जाभ्य॒स्स्वाहेति॑ ॥28॥
सोमो॒ वा अ॑कामयत ।
ओष॑धीनाँ रा॒ज्यम॒भिज॑येय॒मिति॑ ।
स ए॒तँ सोमा॑य मृगशी॒र्षाय॑ श्यामा॒कञ्च॒रुम्पय॑सि॒ निर॑वपत् ।
ततो॒ वै स ओष॑धीनाँ रा॒ज्यम॒भ्य॑जयत् ।
स॒मा॒नानाँ॑ ह॒ वै रा॒ज्यम॒भिज॑यति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
सोमा॑य॒ स्वाहा॑ मृगशी॒र्षाय॒ स्वाहा॑ ।
इ॒न्व॒काभ्य॒स्स्वाहौष॑धीभ्य॒स्स्वाहा॑ ।
रा॒ज्याय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥29॥
रु॒द्रो वा अ॑कामयत ।
प॒शु॒मान्त्स्या॒मिति॑ ।
स ए॒तँ रु॒द्राया॒र्द्रायै॒ प्रैय्य॑ङ्गवञ्च॒रुम्पय॑सि॒ निर॑वपत् ।
ततो॒ वै स प॑शु॒मान॑भवत् ।
प॒शु॒मान् ह॒ वै भ॑वति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
रु॒द्राय॒ स्वाहा॒ऽर्द्रायै॒ स्वाहा॑ ।
पिन्व॑मानायै॒ स्वाहा॑ प॒शुभ्य॒स्स्वाहेति॑ ॥30॥
ऋ॒क्षा वा इ॒यम॑लो॒मका॑ऽऽसीत् ।
साऽका॑मयत ।
ओष॑धीभि॒र्वन॒स्पति॑भि॒ᳶ प्रजा॑ये॒येति॑ ।
सैतमदि॑त्यै॒ पुन॑र्वसुभ्याञ्च॒रुन्निर॑वपत् ।
ततो॒ वा इ॒यमोष॑धीभि॒र्वन॒स्पति॑भि॒ᳶ प्राजा॑यत ।
प्रजा॑यते ह॒ वै प्र॒जया॑ प॒शुभिः॑ ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्याम् ।
स्वाहा भू॑त्यै॒ स्वाहा॒ प्रजा॑त्यै॒ स्वाहेति॑ ॥31॥
बृह॒स्पति॒र्वा अ॑कामयत ।
ब्र॒ह्म॒व॒र्च॒सी स्या॒मिति॑ ।
स ए॒तम्बृह॒स्पत॑ये ति॒ष्या॑य नैवा॒रञ्च॒रुम्पय॑सि॒ निर॑वपत् ।
ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भवत् ।
ब्र॒ह्म॒व॒र्च॒सी ह॒ वै भ॑वति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा॑ ।
ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहेति॑ ॥32॥
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
ते दे॒वास्स॒र्पेभ्य॑ आश्रे॒षाभ्य॒ आज्ये॑ कर॒म्भन्निर॑वपन् ।
ताने॒ताभि॑रे॒व दे॒वता॑भि॒रुपा॑नयन् ।
ए॒ताभि॑र्ह॒ वै दे॒वता॑भिर्द्वि॒षन्त॒म्भ्रातृ॑व्य॒मुप॑नयति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
स॒र्पेभ्य॒स्स्वाहा॑ऽऽश्रे॒षाभ्य॒स्स्वाहा॑ ।
द॒न्द॒शूके॑भ्य॒स्स्वाहेति॑ ॥33॥
पि॒तरो॒ वा अ॑कामयन्त ।
पि॒तृ॒लो॒क ऋ॑ध्नुया॒मेति॑ ।
त ए॒तम्पि॒तृभ्यो॑ म॒घाभ्य॑ᳶ पुरो॒डाशँ॒ षट्क॑पाल॒न्निर॑वपन् ।
ततो॒ वै ते पि॑तृलो॒क आ॑र्ध्नुवन् ।
पि॒तृ॒लो॒के ह॒ वा ऋ॑ध्नोति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
पि॒तृभ्य॒स्स्वाहा॑ म॒घाभ्यः॑ ।
स्वाहा॑ऽन॒घाभ्य॒स्स्वाहा॑ग॒दाभ्यः॑ ।
स्वाहा॑ऽरुन्ध॒तीभ्य॒स्स्वाहेति॑ ॥34॥
अ॒र्य॒मा वा अ॑कामयत ।
प॒शु॒मान्त्स्या॒मिति॑ ।
स ए॒तम॑र्य॒म्णे फल्गु॑नीभ्याञ्च॒रुन्निर॑वपत् ।
ततो॒ वै स प॑शु॒मान॑भवत् ।
प॒शुमान् ह॒ वै भ॑वति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्याँ॒ स्वाहा॑ ।
प॒शुभ्य॒स्स्वाहेति॑ ॥35॥
भगो॒ वा अ॑कामयत ।
भ॒गी श्रे॒ष्ठी दे॒वानाँ॑ स्या॒मिति॑ ।
स ए॒तम्भगा॑य॒ फल्गु॑नीभ्याञ्च॒रुन्निर॑वपत् ।
ततो॒ वै स भ॒गी श्रे॒ष्ठी दे॒वाना॑मभवत् ।
भ॒गी ह॒ वै श्रे॒ष्ठी स॑मा॒नाना॑म्भवति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्याँ॒ स्वाहा॑ ।
श्रैष्ठ्या॑य॒ स्वाहेति॑ ॥36॥
स॒वि॒ता वा अ॑कामयत ।
श्रन्मे॑ दे॒वा दधी॑रन् ।
स॒वि॒ता स्या॒मिति॑ ।
स ए॒तँ स॑वि॒त्रे हस्ता॑य पुरो॒डाश॒न्द्वाद॑शकपाल॒न्निर॑वपदाशू॒नाव्व्रीँ॑ही॒णाम् ।
ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑धत ।
स॒वि॒ताऽभ॑वत् ।
श्रद्ध॒वा अ॑स्मै मनु॒ष्या॑ दधते ।
स॒वि॒ता स॑मा॒नाना॑म्भवति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
स॒वि॒त्रे स्वाहा॒ हस्ता॑य ।
स्वाहा॑ दद॒ते स्वाहा॑ पृण॒ते ।
स्वाहा॑ प्र॒यच्छ॑ते॒ स्वाहा॑ प्रतिगृभ्ण॒ते स्वाहेति॑ ॥37 ॥
त्वष्टा॒ वा अ॑कामयत ।
चि॒त्रम्प्र॒जाव्ँ वि॑न्दे॒येति॑ ।
स ए॒तन्त्वष्ट्रे॑ चि॒त्रायै॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपत् ।
ततो॒ वै स चि॒त्रम्प्र॒जाम॑विन्दत ।
चि॒त्रँ ह॒ वै प्र॒जाव्ँ वि॑न्दते ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा॑ ।
चैत्रा॑य॒ स्वाहा॑ प्र॒जायै॒ स्वाहेति॑ ॥38॥
वा॒युर्वा अ॑कामयत ।
का॒म॒चार॑मे॒षु लो॒केष्व॒भिज॑येय॒मिति॑ ।
स ए॒तद्वा॒यवे॒ निष्ट्या॑यै गृ॒ष्ट्यै दु॒ग्धम्पयो॒ निर॑वपत् ।
ततो॒ वै स का॑म॒चार॑मे॒षु लो॒केष्व॒भ्य॑जयत् ।
का॒म॒चारँ॑ ह॒ वा ए॒षु लो॒केष्व॒भिज॑यति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा॑ ।
का॒म॒चारा॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥39॥
इ॒न्द्रा॒ग्नी वा अ॑कामयेताम् ।
श्रैष्ठ्य॑न्दे॒वाना॑म॒भिज॑ये॒वेति॑ ।
तावे॒तमि॑न्द्रा॒ग्निभ्याव्ँ॒विशा॑खाभ्याम्पुरो॒डाश॒मेका॑दशकपाल॒न्निर॑वपताम् ।
ततो॒ वै तौ श्रैष्ठ्य॑न्दे॒वाना॑म॒भ्य॑जयताम् ।
श्रैष्ठ्यँ॑ ह॒ वै स॑मा॒नाना॑म॒भि ज॑यति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
इ॒न्द्रा॒ग्निभ्याँ॒ स्वाहा॒ विशा॑खाभ्याँ॒ स्वाहा॑ ।
श्रैष्ठ्या॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥40॥
अथै॒तत्पौ॑र्णमा॒स्या आज्य॒न्निर्व॑पति ।
कामो॒ वै पौ॑र्णमा॒सी ।
काम॒ आज्य॑म् ।
कामे॑नै॒व कामँ॒ सम॑र्धयति ।
क्षि॒प्रमे॑नँ॒ सकाम॒ उप॑नमति ।
येन॒ कामे॑न॒ यज॑ते ।
सोऽत्र॑ जुहोति ।
पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहेति॑ ॥41॥
मि॒त्रो वा अ॑कामयत ।
मि॒त्र॒धेय॑मे॒षु लो॒केष्व॒भिज॑येय॒मिति॑ ।
स ए॒तम्मि॒त्राया॑नूरा॒धेभ्य॑श्च॒रुन्निर॑वपत् ।
ततो॒ वै स मि॑त्र॒धेय॑मे॒षु लो॒केष्व॒भ्य॑जयत् ।
मि॒त्र॒धेयँ॑ ह॒ वा ए॒षु लो॒केष्व॒भिज॑यति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
मि॒त्राय॒ स्वाहा॑ऽनूरा॒धेभ्य॒स्स्वाहा॑ ।
मि॒त्र॒धेया॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥42॥
इन्द्रो॒ वा अ॑कामयत ।
ज्यैष्ठ्य॑न्दे॒वाना॑म॒भिज॑येय॒मिति॑ ।
स ए॒तमिन्द्रा॑य ज्ये॒ष्ठायै॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर॑वपन्म॒हाव्री॑हीणाम् ।
ततो॒ वै स ज्यैष्ठ्य॑न्दे॒वाना॑म॒भ्य॑जयत् ।
ज्यैष्ठ्यँ॑ ह॒ वै स॑मा॒नाना॑म॒भिज॑यति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
इन्द्रा॑य॒ स्वाहा॑ ज्ये॒ष्ठायै॒ स्वाहा॑ ।
ज्यैष्ठ्या॑य॒ स्वाहा॒भिजि॑त्यै॒ स्वाहेति॑ ॥43॥
प्र॒जाप॑ति॒र्वा अ॑कामयत ।
मूल॑म्प्र॒जाव्ँवि॑न्दे॒येति॑ ।
स ए॒तम्प्र॒जाप॑तये॒ मूला॑य च॒रुन्निर॑वपत् ।
ततो॒ वै स मूल॑म्प्र॒जाम॑विन्दत ।
मूलँ॑ ह॒ वै प्र॒जाव्ँ वि॑न्दते ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा॑ ।
प्र॒जायै॒ स्वाहेति॑ ॥44॥
आपो॒ वा अ॑कामयन्त ।
स॒मु॒द्रङ्काम॑म॒भिज॑ये॒मेति॑ ।
ता ए॒तम॒द्भ्यो॑ऽषा॒ढाभ्य॑श्च॒रुन्निर॑वपन् ।
ततो॒ वै तास्स॑मु॒द्रङ्काम॑म॒भ्य॑जयन् ।
स॒मु॒द्रँ ह॒ वै काम॑म॒भिज॑यति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
अ॒द्भ्यस्स्वाहा॑ऽषा॒ढाभ्य॒स्स्वाहा॑ ।
स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा॑ ।
अ॒भिजि॑त्यै॒ स्वाहेति॑ ॥45॥
विश्वे॒ वै दे॒वा अ॑कामयन्त ।
अ॒न॒प॒ज॒य्यञ्ज॑ये॒मेति॑ ।
त ए॒तव्ँ विश्वे॑भ्यो दे॒वेभ्यो॑ऽषा॒ढाभ्य॑श्च॒रुन्निर॑वपन् ।
ततो॒ वै ते॑ऽनपज॒य्यम॑जयन् ।
अ॒न॒प॒ज॒य्यँ ह॒ वै ज॑यति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
विश्वे॑भ्यो दे॒वेभ्य॒स्स्वाहा॑ऽषा॒ढाभ्य॒स्स्वाहा॑ ।
अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहेति॑ ॥46॥
ब्रह्म॒ वा अ॑कामयत ।
ब्र॒ह्म॒लो॒कम॒भिज॑येय॒मिति॑ ।
तदे॒तम्ब्रह्म॑णेऽभि॒जिते॑ च॒रुन्निर॑वपत् ।
ततो॒ वै तद्ब्र॑ह्मलो॒कम॒भ्य॑जयत् ।
ब्र॒ह्म॒लो॒कँ ह॒ वा अ॒भिज॑यति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
ब्रह्म॑णे॒ स्वाहा॑ऽभि॒जिते॒ स्वाहा॑ ।
ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥47॥
विष्णु॒र्वा अ॑कामयत ।
पुण्यँ॒ श्लोकँ॑ शृण्वीय ।
न मा॑ पा॒पी की॒र्तिराग॑च्छे॒दिति॑ ।
स ए॒तव्ँ विष्ण॑वे श्रो॒णायै॑ पुरो॒डाश॑न्त्रिकपा॒लन्निर॑वपत् ।
ततो॒ वै स पुण्यँ॒ श्लोक॑मशृणुत ।
नैन॑म्पा॒पी की॒र्तिराग॑च्छत् ।
पुण्यँ॑ ह॒ वै श्लोकँ॑ शृणुते ।
नैन॑म्पा॒पी की॒र्तिराग॑च्छति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
विष्ण॑वे॒ स्वाहा॑ श्रो॒णायै॒ स्वाहा॑ ।
श्लोका॑य॒ स्वाहा॑ श्रु॒ताय॒ स्वाहेति॑ ॥48॥
वस॑वो॒ वा अ॑कामयन्त ।
अग्र॑न्दे॒वता॑ना॒म्परी॑या॒मेति॑ ।
त ए॒तव्ँवसु॑भ्य॒श्श्रवि॑ष्ठाभ्यᳶ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपन् ।
ततो॒ वै तेऽग्र॑न्दे॒वता॑ना॒म्पर्या॑यन् ।
अग्रँ॑ ह॒ वै स॑मा॒नाना॒म्पर्ये॑ति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
वसु॑भ्य॒स्स्वाहा॒ श्रवि॑ष्ठाभ्य॒स्स्वाहा॑ ।
अग्रा॑य॒ स्वाहा॒ परी॑त्यै॒ स्वाहेति॑ ॥49॥
इन्द्रो॒ वा अ॑कामयत ।
दृ॒ढोऽशि॑थिलस्स्या॒मिति॑ ।
स ए॒तव्ँवरु॑णाय श॒तभि॑षजे भेष॒जेभ्य॑ᳶ पुरो॒डाश॒न्दश॑कपाल॒न्निर॑वपत्कृ॒ष्णाना॑व्व्ँरीही॒णाम् ।
ततो॒ वै स दृ॒ढोऽशि॑थिलोऽभवत् ।
दृ॒ढो ह॒ वा अशि॑थिलो भवति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
वरु॑णाय॒ स्वाहा॑ श॒तभि॑षजे॒ स्वाहा॑ ।
भे॒ष॒जेभ्य॒स्स्वाहेति॑ ॥50॥
अ॒जो वा एक॑पादकामयत ।
ते॒ज॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑ ।
स ए॒तम॒जायैक॑पदे प्रोष्ठप॒देभ्य॑श्च॒रुन्निर॑वपत् ।
ततो॒ वै स ते॑ज॒स्वी ब्र॑ह्मवर्च॒स्य॑भवत् ।
ते॒ज॒स्वी ह॒ वै ब्र॑ह्मवर्च॒सी भ॑वति ।
य ए॒तेन॑ ह॒विषा॒ यजते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
अ॒जायैक॑पदे॒ स्वाहा॑ प्रोष्ठप॒देभ्य॒स्स्वाहा॑ ।
तेज॑से॒ स्वाहा॑ ब्रह्मवर्च॒साय॒ स्वाहेति॑ ॥51॥
अहि॒र्वै बु॒ध्नियो॑ऽकामयत ।
इ॒माम्प्र॑ति॒ष्ठाव्ँ वि॑न्दे॒येति॑ ।
स ए॒तमह॑ये बु॒ध्निया॑य प्रोष्ठप॒देभ्य॑ᳶ पुरो॒डाश॒म्भूमि॑कपाल॒न्निर॑वत् ।
ततो॒ वै स इ॒माम्प्र॑ति॒ष्ठाम॑विन्दत ।
इ॒माँ ह॒ वै प्र॑ति॒ष्ठाव्ँ वि॑न्दते ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
अह॑ये बु॒ध्निया॑य॒ स्वाहा॑ प्रोष्ठप॒देभ्य॒स्स्वाहा॑ ।
प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ॥52॥
पू॒षा वा अ॑कामयत ।
प॒शु॒मान्त्स्या॒मिति॑ ।
स ए॒तम्पू॒ष्णे रे॒वत्यै॑ च॒रुन्निर॑वपत् ।
ततो॒ वै स प॑शु॒मान॑भवत् ।
प॒शु॒मान् ह॒ वै भ॑वति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ स्वाहा॑ ।
प॒शुभ्य॒स्स्वाहेति॑ ॥53॥
अ॒श्विनौ॒ वा अ॑कामयेताम् ।
श्रो॒त्र॒स्विना॒वब॑धिरौ स्या॒वेति॑ ।
तावे॒तम॒श्विभ्या॑मश्व॒युग्भ्या॑म्पुरो॒डाश॑न्द्विकपा॒लन्निर॑वपताम् ।
ततो॒ वै तौ श्रो॑त्र॒स्विना॒वब॑धिरावभवताम् ।
श्रो॒त्र॒स्वी ह॒ वा अब॑धिरो भवति ।
य एते॒न॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
अ॒श्विभ्याँ॒ स्वाहा॑ऽश्व॒युग्भ्याँ॒ स्वाहा॑ ।
श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहेति॑ ॥54॥
य॒मो वा अ॑कामयत ।
पि॒तृ॒णाँ रा॒ज्यम॒भिज॑येय॒मिति॑ ।
स ए॒तय्ँ य॒माया॑प॒भर॑णीभ्यश्च॒रुन्निर॑पवत् ।
ततो॒ वै स पि॑तृ॒णाँ रा॒ज्यम॒भ्य॑जयत् ।
स॒मा॒नानाँ॑ ह॒ वै रा॒ज्यम॒भिज॑यति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
य॒माय॒ स्वाहा॑ऽप॒भर॑णीभ्य॒स्स्वाहा॑ ।
रा॒ज्याय॒ स्वाहा॒भिजि॑त्यै॒ स्वाहेति॑ ॥55॥
अथै॒तद॑मावा॒स्या॑या॒ आज्य॒न्निर्व॑पति ।
कामो॒ वा अ॑मावा॒स्या॑ ।
काम॒ आज्य॑म् ।
कामे॑नै॒व कामँ॒ सम॑र्धयति ।
क्षि॒प्रमे॑नँ॒ सकाम॒ उप॑नमति ।
येन॒ कामे॑न॒ यज॑ते ।
सोऽत्र॑ जुहोति ।
अ॒मा॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहेति॑ ॥56॥
च॒न्द्रमा॒ वा अ॑कामयत ।
अ॒होरा॒त्रान॑र्धमा॒सान्मासा॑नृ॒तून्त्सव्ँ॑वत्स॒रमा॒प्त्वा ।
च॒न्द्रम॑स॒स्सायु॑ज्यँ सलो॒कता॑माप्नुया॒मिति॑ ।
स ए॒तञ्च॒न्द्रम॑से प्रती॒दृश्या॑यै पुरो॒डाश॒म्पञ्च॑दशकपाल॒न्निर॑वपत् ।
ततो॒ वै सो॑ऽहोरा॒त्रान॑र्धमा॒सान्मासा॑नृ॒तून्त्सव्ँ॑वत्स॒रमा॒प्त्वा ।
च॒न्द्रम॑स॒स्सायु॑ज्यँ सलो॒कता॑माप्नोत् ।
अ॒हो॒रा॒त्रान् ह॒ वा अ॑र्धमा॒सान्मासा॑नृ॒तून्त्सव्ँ॑वत्स॒रमा॒प्त्वा ।
च॒न्द्रम॑स॒स्सायु॑ज्यँ सलो॒कता॑माप्नोति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
च॒न्द्रम॑से॒ स्वाहा॑ प्रती॒दृश्या॑यै॒ स्वाहा॑ ।
अ॒हो॒रा॒त्रेभ्य॒स्स्वाहा॑ऽर्धमा॒सेभ्य॒स्स्वाहा॑ ।
मासे॑भ्य॒स्स्वाह॒र्तुभ्य॒स्स्वाहा॑ ।
सव्ँ॒व॒त्स॒राय॒ स्वाहेति॑ ॥57॥
अ॒हो॒रा॒त्रे वा अ॑कामयेताम् ।
अत्य॑होरा॒त्रे मु॑च्येवहि ।
न ना॑वहोरा॒त्रे आ॑प्नुयाता॒मिति॑ ।
ते ए॒तम॑होरा॒त्राभ्या॑ञ्च॒रुन्निर॑वपताम् ।
द्व॒याना॑व्व्रीँही॒णाम् ।
शु॒क्लाना॑ञ्च कृ॒ष्णाना॑ञ्च ।
स॒वा॒त्योर्दु॒ग्धे ।
श्वे॒तायै॑ च कृ॒ष्णायै॑ च ।
ततो॒ वै ते अत्य॑होरा॒त्रे अ॑मुच्येते ।
नैने॑ अहोरा॒त्रे आ॑प्नुताम् ।
अति॑ ह॒ वा अ॑होरा॒त्रे मु॑च्यते ।
नैन॑महोरा॒त्रे आ॑प्नुतः ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
अह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाहा॑ ।
अति॑मुक्त्यै॒ स्वाहेति॑ ॥58॥
उ॒षा वा अ॑कामयत ।
प्रि॒याऽऽदि॒त्यस्य॑ सु॒भगा॑ स्या॒मिति॑ ।
सैतमु॒षसे॑ च॒रुन्निर॑वपत् ।
ततो॒ वै सा प्रि॒याऽऽदि॒त्यस्य॑ सु॒भगा॑ऽभवत् ।
प्रि॒यो ह॒ वै स॑मा॒नानाँ॑ सु॒भगो॑ भवति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहा॑ ।
व्यू॒षुष्यै॒ स्वाहा॑ व्यु॒च्छन्त्यै॒ स्वाहा॑ ।
व्यु॑ष्टायै॒ स्वाहेति॑ ॥59॥
अथै॒तस्मै॒ नक्ष॑त्राय च॒रुनिर्व॑पति ।
यथा॒ त्वन्दे॒वाना॒मसि॑ ।
ए॒वम॒हम्म॑नु॒ष्या॑णाम्भूयास॒मिति॑ ।
यथा॑ ह॒ वा ए॒तद्दे॒वाना॑म् ।
ए॒वँ ह॒ वा ए॒ष म॑नु॒ष्या॑णाम्भवति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
नक्ष॑त्राय॒ स्वाहो॑देष्य॒ते स्वाहा॑ ।
उ॒द्य॒ते स्वाहोदि॑ताय॒ स्वाहा॑ ।
हर॑से॒ स्वाहा॒ भर॑से॒ स्वाहा॑ ।
भ्राज॑से॒ स्वाहा॒ तेज॑से॒ स्वाहा॑ ।
तप॑से॒ स्वाहा॑ ब्रह्मवर्च॒साय॒ स्वाहेति॑ ॥60॥
सूर्यो॒ वा अ॑कामयत ।
नक्ष॑त्राणाम्प्रति॒ष्ठा स्या॒मिति॑ ।
स ए॒तँ सूर्या॑य॒ नक्ष॑त्रेभ्यश्च॒रुन्निर॑वपत् ।
ततो॒ वै स नक्ष॑त्राणाम्प्रति॒ष्ठाऽभ॑वत् ।
प्र॒ति॒ष्ठा ह॒ वै स॑मा॒नाना॑म्भवति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वव्ँ वेद॑ ।
सोऽत्र॑ जुहोति ।
सूर्या॑य॒ स्वाहा॒ नक्ष॑त्रेभ्य॒स्स्वाहा॑ ।
प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ॥61॥
अथै॒तमदि॑त्यै च॒रुन्निर्व॑पति ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्यामे॒व प्रति॑तिष्ठति ।
सोऽत्र॑ जुहोति ।
अदि॑त्यै॒ स्वाहा॑ प्रति॒ष्ठायै॒ स्वाहेति॑ ॥62॥
अथै॒तव्ँ विष्ण॑वे च॒रुन्निर्व॑पति ।
य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञ ए॒वान्त॒तᳶ प्रति॑तिष्ठति ।
सोऽत्र॑ जुहोति ।
विष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा॑ ।
प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ॥63॥
तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत् ।
तङ्गा॑य॒त्र्याऽह॑रत् ।
तस्य॑ प॒र्णम॑च्छिद्यत ।
तत्प॒र्णो॑ऽभवत् ।
तत्प॒र्णस्य॑ पर्ण॒त्वम् ।
ब्रह्म॒ वै प॒र्णः ।
यत्प॑र्णशा॒खया॑ व॒त्सान॑पाक॒रोति॑ ।
ब्रह्म॑णै॒वैना॑न॒पाक॑रोति ।
गा॒य॒त्रो वै प॒र्णः ।
गा॒य॒त्राᳶ प॒शवः॑ ॥1॥
तस्मा॒त्त्रीणि॑त्रीणि प॒र्णस्य॑ पला॒शानि॑ ।
त्रि॒पदा॑ गाय॒त्री ।
यत्प॑र्णशा॒खया॒ गाᳶ प्रा॒र्पय॑ति ।
स्वयै॒वैना॑ दे॒वत॑या॒ प्रार्प॑यति ।
यङ्का॒मये॑ताप॒शुस्स्या॒दिति॑ ।
अ॒प॒र्णान्तस्मै॒ शुष्का॑ग्रा॒माह॑रेत् ।
अ॒प॒शुरे॒व भ॑वति ।
यङ्का॒मये॑त पशु॒मान्त्स्या॒दिति॑ ।
ब॒हु॒प॒र्णान्तस्मै॑ बहुशा॒खामाह॑रेत् ।
प॒शु॒मन्त॑मे॒वैन॑ङ्करोति ॥2।
यत्प्राची॑मा॒ हरे॑त् ।
दे॒व॒लो॒कम॒भिज॑येत् ।
यदुदी॑चीम्मनुष्यलो॒कम् ।
प्राची॒मुदी॑ची॒मा ह॑रति ।
उ॒भयो॑र्लो॒कयो॑र॒भिजि॑त्यै ।
इ॒षे त्वो॒र्जे त्वेत्या॑ह ।
इष॑मे॒वोर्जय्ँ॒यज॑माने दधाति ।
वा॒यव॒स्स्थेत्या॑ह ।
वा॒युर्वा अ॒न्तरि॑क्ष॒स्याध्य॑क्षाः ।
अ॒न्त॒रि॒क्ष॒दे॒व॒त्या॑ᳵ खलु॒ वै प॒शवः॑ ॥3॥
वा॒यव॑ ए॒वैना॒न्परि॑ ददाति ।
प्र वा ए॑नाने॒तदा क॑रोति ।
यदाह॑ ।
वा॒यव॒स्स्थेत्यु॑पा॒यव॒स्स्थेत्या॑ह ।
यज॑मानायै॒व प॒शूनुप॑ह्वयते ।
दे॒वो व॑स्सवि॒ता प्रार्प॑य॒त्वित्या॑ह॒ प्रसू॑त्यै ।
श्रेष्ठ॑तमाय॒ कर्म॑ण॒ इत्या॑ह ।
य॒ज्ञो हि श्रेष्ठ॑तम॒ङ्कर्म॑ ।
तस्मा॑दे॒वमा॑ह ।
आप्या॑यध्वमघ्निया देवभा॒गमित्या॑ह ॥4॥
व॒त्सेभ्य॑श्च॒ वा ए॒ताᳶ पु॒रा म॑नु॒ष्ये॑भ्य॒श्चाप्या॑यन्त ।
दे॒वेभ्य॑ ए॒वैना॒ इन्द्रा॒याप्या॑ययति ।
ऊर्ज॑स्वती॒ᳶ पय॑स्वती॒रित्या॑ह ।
ऊर्जँ॒ हि पय॑स्स॒म्भर॑न्ति ।
प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा इत्या॑ह॒ प्रजा॑त्यै ।
मा व॑स्स्ते॒न ई॑शत॒ माऽघशँ॑स॒ इत्या॑ह॒ गुप्त्यै॑ ।
रु॒द्रस्य॑ हे॒तिᳶ परि॑ वो वृण॒क्त्वित्या॑ह ।
रु॒द्रादे॒वैना॑स्त्रायते ।
ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीरित्या॑ह ।
ध्रु॒वा ए॒वास्मि॑न्ब॒ह्वीᳵ क॑रोति ॥5॥
यज॑मानस्य प॒शून्पा॒हीत्या॑ह ।
प॒शू॒नाङ्गो॑पी॒थाय॑ ।
तन्मा॑त्सा॒यम्प॒शव॒ उप॑स॒माव॑र्तन्ते ।
अन॑धस्सादयति ।
गर्भा॑णा॒न्धृत्या॒ अप्र॑पादाय ।
तस्मा॒द्गर्भा॑ᳶ प्र॒जाना॒मप्र॑पादुकाः ।
उ॒परी॑व॒ निद॑धाति ।
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥6॥
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्य॑श्वप॒र्शुमाद॑त्ते॒ प्रसू॑त्यै ।
अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।
पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ ।
यो वा ओष॑धीᳶ पर्व॒शो वेद॑ ।
नैना॒स्स हि॑नस्ति ।
प्र॒जाप॑ति॒र्वा ओष॑धीᳶ पर्व॒शो वे॑द ।
स ए॑ना॒ न हि॑नस्ति ।
अ॒श्व॒प॒र्श्वा ब॒र्हिरच्छै॑ति ।
प्रा॒जा॒प॒त्यो वा अश्व॑स्सयोनि॒त्वाय॑ ॥7॥
ओष॑धीना॒महिँ॑सायै ।
य॒ज्ञस्य॑ घो॒षद॒सीत्या॑ह ।
यज॑मान ए॒व र॒यिन्द॑धाति ।
प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ।
प्रेयम॑गाद्धि॒षणा॑ ब॒र्हिरच्छेत्या॑ह ।
वि॒द्या वै धि॒षणा॑ ।
वि॒द्ययै॒वैन॒दच्छै॑ति ।
मनु॑ना कृ॒ता स्व॒धया॒ वित॒ष्टेत्या॑ह ।
मा॒न॒वी हि पर्शु॑स्स्व॒धाकृ॑ता ॥8॥
त आव॑हन्ति क॒वय॑ᳶ पु॒रस्ता॒दित्या॑ह ।
शु॒श्रु॒वाँसो॒ वै क॒वयः॑ ।
य॒ज्ञᳶ पु॒रस्ता॑त् ।
मु॒ख॒त ए॒व य॒ज्ञमार॑भते ।
अथो॒ यदे॒तदु॒क्त्वा यत॒ᳵ कुत॑श्चा॒हर॑ति ।
तत्प्राच्या॑ ए॒व दि॒शो भ॑वति ।
दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्हिरा॒सद॒ इत्या॑ह ।
ब॒र्हिष॒स्समृ॑द्ध्यै ।
कर्म॒णोऽन॑पराधाय ।
दे॒वाना॑म्परिषू॒तम॒सीत्या॑ह ॥9॥
यद्वा इ॒दङ्किञ्च॑ ।
तद्दे॒वाना॑म्परिषू॒तम् ।
अथो॒ यथा॒ वस्य॑से प्रति॒प्रोच्याहे॒दङ्क॑रिष्या॒मीति॑ ।
ए॒वमे॒व तद॑ध्व॒र्युर्दे॒वेभ्य॑ᳶ प्रति॒प्रोच्य॑ ब॒र्हिर्दा॑ति ।
आ॒त्मनोऽहिँ॑सायै ।
याव॑तस्स्त॒म्बान्प॑रिदि॒शेत् ।
यत्तेषा॑मुच्छिँ॒ष्यात् ।
अति॒ तद्य॒ज्ञस्य॑ रेचयेत् ।
एकँ॑ स्त॒म्बम्परि॑दिशेत् ।
तँ सर्व॑न्दायात् ॥10॥
य॒ज्ञस्यान॑तिरेकाय ।
व॒र्षवृ॑द्धम॒सीत्या॑ह ।
व॒र्षवृ॑द्धा॒ वा ओष॑धयः ।
देव॑बर्हि॒रित्या॑ह ।
दे॒वेभ्य॑ ए॒वैन॑त्करोति ।
मा त्वा॒ऽन्वङ्मा ति॒र्यगित्या॒हाहिँ॑सायै ।
पर्व॑ ते राध्यास॒मित्या॒हर्ध्यै॑ ।
आ॒च्छे॒त्ता ते॒ मा रि॑ष॒मित्या॑ह ।
नास्या॒त्मनो॑ मीयते ।
य ए॒वव्ँ वेद॑ ॥11॥
देव॑बर्हिश्श॒तव॑ल््शव्ँ॒विरो॒हेत्या॑ह ।
प्र॒जा वै ब॒र्हिः ।
प्र॒जाना॑म्प्र॒जन॑नाय ।
स॒हस्र॑वल्शा॒ वि व॒यँ रु॑हे॒मेत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
पृ॒थि॒व्यास्स॒म्पृच॑ᳶ पा॒हीत्या॑ह॒ प्रति॑ष्ठित्यै ।
अयु॑ङ्गायुङ्गान्मु॒ष्टील्ँ लु॑नोति ।
मि॒थु॒न॒त्वाय॒ प्रजा॑त्यै ।
सु॒स॒म्भृता॑ त्वा॒ सम्भ॑रा॒मीत्या॑ह ।
ब्रह्म॑णै॒वैन॒त्सम्भ॑रति ॥12॥
अदि॑त्यै॒ रास्ना॒ऽसीत्या॑ह ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्या ए॒वैन॒द्रास्ना॑ङ्करोति ।
इ॒न्द्रा॒ण्यै स॒न्नह॑न॒मित्या॑ह ।
इ॒न्द्रा॒णी वा अग्रे॑ दे॒वता॑नाँ॒ सम॑नह्यत ।
साऽऽर्ध्नो॑त् ।
ऋद्ध्यै॒ सन्न॑ह्यति ।
प्र॒जा वै ब॒र्हिः ।
प्र॒जाना॒मप॑रावापाय ।
तस्मा॒त्स्नाव॑सन्तताᳶ प्र॒जा जा॑यन्ते ॥13॥
पू॒षा ते॑ ग्र॒न्थिङ्ग्र॑थ्ना॒त्वित्या॑ह ।
पुष्टि॑मे॒व यज॑माने दधाति ।
स ते॒ मास्था॒दित्या॒हाहिँ॑सायै ।
प॒श्चात्प्राञ्च॒मुप॑गूहति ।
प॒श्चाद्वै प्रा॒चीनँ॒ रेतो॑ धीयते ।
प॒श्चादे॒वास्मै॑ प्रा॒चीनँ॒ रेतो॑ दधाति ।
इन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छ॒ इत्या॑ह ।
इ॒न्द्रि॒यमे॒व यज॑माने दधाति ।
बृह॒स्पते॑र्मू॒र्ध्ना ह॑रा॒मीत्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पतिः॑ ॥14॥
ब्रह्म॑णै॒वैन॑द्धरति ।
उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑ह॒ गत्यै॑ ।
दे॒व॒ङ्ग॒मम॒सीत्या॑ह ।
दे॒वाने॒वैन॑द्गमयति ।
अन॑धस्सादयति ।
गर्भा॑णा॒न्धृत्या॒ अप्र॑पादाय ।
तस्मा॒द्गर्भा॑ᳶ प्र॒जाना॒मप्र॑पादुकाः ।
उ॒परी॑व॒ निद॑धाति ।
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥15॥
पू॒र्वे॒द्युरि॒ध्माब॒र्हिᳵ क॑रोति ।
य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑वसति ।
प्र॒जाप॑तिर्य॒ज्ञम॑सृजत ।
तस्यो॒खे अ॑स्रँसेताम् ।
य॒ज्ञो वै प्र॒जाप॑तिः ।
यत्सा॑न्नाय्यो॒खे भव॑तः ।
य॒ज्ञस्यै॒व तदु॒खे उप॑दधा॒त्यप्र॑स्रँसाय ।
शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह ।
दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति ।
मा॒त॒रिश्व॑नो घ॒र्मो॑ऽसीत्या॑ह ॥16॥
अ॒न्तरि॑क्षव्ँ॒ वै मा॑त॒रिश्व॑नो घ॒र्मः ।
ए॒षाल्ँ लो॒कानाव्ँ॒विधृ॑त्यै ।
द्यौर॑सि पृथि॒व्य॑सीत्या॑ह ।
दि॒वश्च॒ ह्ये॑षा पृ॑थि॒व्याश्च॒ सम्भृ॑ता ।
यदु॒खा ।
तस्मा॑दे॒वमा॑ह ।
वि॒श्वधा॑या असि पर॒मेण॒ धाम्नेत्या॑ह ।
वृष्टि॒र्वै वि॒श्वधा॑याः ।
वृष्टि॑मे॒वाव॑रुन्धे ।
दृँह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै॑ ॥17॥
वसू॑नाम्प॒वित्र॑म॒सीत्या॑ह ।
प्रा॒णा वै वस॑वः ।
तेषाव्ँ॒वा ए॒तद्भा॑ग॒धेय॑म् ।
यत्प॒वित्र॑म् ।
तेभ्य॑ ए॒वैन॑त्करोति ।
श॒तधा॑रँ स॒हस्र॑धार॒मित्या॑ह ।
प्रा॒णेष्वे॒वायु॑र्दधाति सर्व॒त्वाय॑ ।
त्रि॒वृत्प॑लाशशा॒खाया॑न्दर्भ॒मय॑म्भवति ।
त्रि॒वृद्वै प्रा॒णः ।
त्रि॒वृत॑मे॒व प्रा॒णम्म॑ध्य॒तो यज॑माने दधाति ॥18॥
सौ॒म्यᳶ प॒र्णस्स॑योनि॒त्वाय॑ ।
सा॒क्षात्प॒वित्र॑न्द॒र्भाः ।
प्राक्सा॒यमधि॒ निद॑धाति ।
तत्प्रा॑णापा॒नयो॑ रू॒पम् ।
ति॒र्यक्प्रा॒तः ।
तद्दर्श॑स्य रू॒पम् ।
दा॒र्श्यँ ह्ये॑तदहः॑ ।
अन्नव्ँ॒ वै च॒न्द्रमाः॑ ।
अन्न॑म्प्रा॒णाः ।
उ॒भय॑मे॒वोपै॒त्यजा॑मित्वाय ॥19॥
तस्मा॑द॒यँ स॒र्वत॑ᳶ पवते ।
हु॒तस्स्तो॒को हु॒तो द्र॒प्स इत्या॑ह॒ प्रति॑ष्ठित्यै ।
ह॒विषोऽस्क॑न्दाय ।
न हि हु॒तँ स्वाहा॑कृतँ॒ स्कन्द॑ति ।
दि॒वि नाको॒ नामा॒ग्निः ।
तस्य॑ वि॒प्रुषो॑ भाग॒धेय॑म् ।
अ॒ग्नये॑ बृह॒ते नाका॒येत्या॑ह ।
नाक॑मे॒वाग्निम्भा॑ग॒धेये॑न॒ सम॑र्धयति ।
स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह ।
द्यावा॑पृथि॒व्योरे॒वैन॒त्प्रति॑ष्ठापयति ॥20॥
प॒वित्र॑व॒त्यान॑यति ।
अ॒पाञ्चै॒वौष॑धीनाञ्च॒ रसँ॒ सँसृ॑जति ।
अथो॒ ओष॑धीष्वे॒व प॒शून्प्रति॑ष्ठापयति ।
अ॒न्वा॒रभ्य॒ वाचय्ँ॑यच्छति ।
य॒ज्ञस्य॒ धृत्यै॑ ।
धा॒रय॑न्नास्ते ।
धा॒रय॑न्त इव॒ हि दु॒हन्ति॑ ।
काम॑धुक्ष॒ इत्या॒हातृ॒तीय॑स्यै ।
त्रय॑ इ॒मे लो॒काः ।
इ॒माने॒व लो॒कान्यज॑मानो दुहे ॥21॥
अ॒मूमिति॒ नाम॑ गृह्णाति ।
भ॒द्रमे॒वासा॒ङ्कर्मा॒विष्क॑रोति ।
सा वि॒श्वायु॒स्सा वि॒श्वव्य॑चा॒स्सा वि॒श्वक॒र्मेत्या॑ह ।
इ॒यव्ँ वै वि॒श्वायुः॑ ।
अ॒न्तरि॑क्षव्ँ वि॒श्वव्य॑चाः ।
अ॒सौ वि॒श्वक॑र्मा ।
इ॒माने॒वैताभि॑र्लो॒कान् य॑थापू॒र्वन्दु॑हे ।
अथो॒ यथा॑ प्रदा॒त्रे पुण्य॑मा॒शास्ते॑ ।
ए॒वमे॒वैना॑ ए॒तदुप॑स्तौति ।
तस्मा॒त्प्रादा॒दित्यु॒न्नीय॒ वन्द॑माना उपस्तु॒वन्त॑ᳶ प॒शून्दु॑हन्ति ॥22॥
ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यो॑ ह॒विरिति॒ वाचव्ँ॒विसृ॑जते ।
य॒था॒दे॒व॒तमे॒व प्रसौ॑ति ।
दैव्य॑स्य च मानु॒षस्य॑ च॒ व्यावृ॑त्यै ।
त्रिरा॑ह ।
त्रिष॑त्या॒ हि दे॒वाः ।
अवा॑चय्ँ य॒मोऽन॑न्वार॒भ्योत्त॑राः ।
अप॑रिमितमे॒वाव॑रुन्धे ।
न दा॑रुपा॒त्रेण॑ दुह्यात् ।
अ॒ग्नि॒वद्वै दा॑रुपा॒त्रम् ।
यद्दा॑रुपा॒त्रेण॑ दु॒ह्यात् ॥23॥
या॒तया॑म्ना ह॒विषा॑ यजेत ।
अथो॒ खल्वा॑हुः ।
पु॒रो॒डाश॑मुखानि॒ वै ह॒वीँषि॑ ।
नेतइ॑तᳶ पुरो॒डाशँ॑ ह॒विषो॒ यामो॒ऽस्तीति॑ ।
काम॑मे॒व दा॑रुपा॒त्रेण॑ दुह्यात् ।
शू॒द्र ए॒व न दु॑ह्यात् ।
अस॑तो॒ वा ए॒ष सम्भू॑तः ।
यच्छू॒द्रः ।
अह॑विरे॒व तदित्या॑हुः ।
यच्छू॒द्रो दोग्धीति॑ ॥24॥
अ॒ग्नि॒हो॒त्रमे॒व न दु॑ह्याच्छू॒द्रः ।
तद्धि नोत्पु॒नन्ति॑ ।
य॒दा खलु॒ वै प॒वित्र॑म॒त्येति॑ ।
अथ॒ तद्ध॒विरिति॑ ।
सम्पृ॑च्यध्वमृतावरी॒रित्या॑ह ।
अ॒पाञ्चै॒वौष॑धीनाञ्च॒ रसँ॒ सँसृ॑जति ।
तस्मा॑द॒पाञ्चौष॑धीनाञ्च॒ रस॒मुप॑जीवामः ।
म॒न्द्रा धन॑स्य सा॒तय॒ इत्या॑ह ।
पुष्टि॑मे॒व यज॑माने दधाति ।
सोमे॑न॒ त्वात॑न॒च्मीन्द्रा॑य॒ दधीत्या॑ह ॥25॥
सोम॑मे॒वैन॑त्करोति ।
यो वै सोम॑म्भक्षयि॒त्वा ।
सव्ँ॒व॒त्स॒रँ सोम॒न्न पिब॑ति ।
पु॒न॒र्भक्ष्यो॑ऽस्य सोमपी॒थो भ॑वति ।
सोम॒ᳵ खलु॒ वै सा॑न्ना॒य्यम् ।
य ए॒वव्ँ वि॒द्वान्त्सा॑न्ना॒य्यम्पिब॑ति ।
अ॒पु॒न॒र्भक्ष्यो॑ऽस्य सामपी॒थो भ॑वति ।
न मृ॒न्मये॒नापि॑ दध्यात् ।
यन्मृ॒न्मयो॑नापिद॒ध्यात् ।
पि॒तृ॒दे॒व॒त्यँ॑ स्यात् ॥26॥
अ॒य॒स्पा॒त्रेण॑ वा दारुपा॒त्रेण॒ वाऽपि॑दधाति ।
तद्धि सदे॑वम् ।
उ॒द॒न्वद्भ॑वति ।
आपो॒ वै र॑क्षो॒घ्नीः ।
रक्ष॑सा॒मप॑हत्यै ।
अद॑स्तमसि॒ विष्ण॑वे॒ त्वे॒त्या॑ह ।
य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञायै॒वैन॒दद॑स्तङ्करोति ।
विष्णो॑ ह॒व्यँ र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै॑ ।
अन॑धस्सादयति ।
गर्भा॑णा॒न्धृत्या॒ अप्र॑पादाय ।
तस्मा॒द्गर्भा॑ᳶ प्र॒जाना॒मप्र॑पादुकाः ।
उ॒परी॑व॒ निद॑धाति ।
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥27॥
कर्म॑णे वान्दे॒वेभ्य॑श्शकेय॒मित्या॑ह॒ शक्त्यै॑ ।
य॒ज्ञस्य॒ वै सन्त॑ति॒मनु॑ प्र॒जाᳶ प॒शवो॒ यज॑मानस्य॒ सन्ता॑यन्ते ।
य॒ज्ञस्य॒ विच्छि॑त्ति॒मनु॑ प्र॒जाᳶ प॒शवो॒ यज॑मानस्य॒ विच्छि॑द्यन्ते ।
य॒ज्ञस्य॒ सन्त॑तिरसि य॒ज्ञस्य॑ त्वा॒ सन्त॑त्यै स्तृणामि॒ सन्त॑त्यै त्वा य॒ज्ञस्येत्याह॑व॒नीया॒त्सन्त॑नोति ।
यज॑मानस्य प्र॒जायै॑ पशू॒नाँ सन्त॑त्यै ।
अ॒पᳶ प्रण॑यति ।
श्र॒द्धा वा आपः॑ ।
श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पᳶ प्रण॑यति ।
य॒ज्ञो वा आपः॑ ॥ 28॥
य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पᳶ प्रण॑यति ।
वज्रो॒ वा आपः॑ ।
वज्र॑मे॒व भ्रातृ॑व्येभ्यᳶ प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पᳶ प्रण॑यति ।
आपो॒ वै र॑क्षो॒घ्नीः ।
रक्ष॑सा॒मप॑हत्यै ।
अ॒पᳶ प्रण॑यति ।
आपो॒ वै दे॒वाना॑म्प्रि॒यन्धाम॑ ।
दे॒वाना॑मे॒व प्रि॒यन्धाम॑ प्र॒णीय॒ प्रच॑रति ॥29॥
अ॒पᳶ प्रण॑यति ।
आपो॒ वै सर्वा॑ दे॒वताः॑ ।
दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।
वेषा॑य॒ त्वेत्या॑ह ।
वेषा॑य॒ ह्ये॑नदाद॒त्ते ।
प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ।
धूर॒सीत्या॑ह ।
ए॒ष वै धुर्यो॒ऽग्निः ।
तय्ँयदनु॑पस्पृश्याती॒यात् ॥30॥
अ॒ध्व॒र्युञ्च॒ यज॑मानञ्च॒ प्रद॑हेत् ।
उ॒प॒स्पृश्यात्ये॑ति ।
अ॒ध्व॒र्योश्च॒ यज॑मानस्य॒ चाप्र॑दाहाय ।
धूर्व॒ तय्ँ यो॑स्मान्धूर्व॑ति॒ तन्धू॑र्व॒ यव्ँव॒यन्धूर्वा॑म॒ इत्या॑ह ।
द्वौ वाव पुरु॑षौ ।
यञ्चै॒व धूर्व॑ति ।
यश्चै॑न॒न्धूर्व॑ति ।
तावु॒भौ शु॒चाऽर्प॑यति ।
त्वन्दे॒वाना॑मसि॒ सस्नि॑तम॒म्पप्रि॑तम॒ञ्जुष्ट॑तमव्ँ॒वह्नि॑तमन्देव॒हूत॑म॒मित्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ॥ 31॥
अह्रु॑तमसि हवि॒र्धान॒मित्या॒हाना॑र्त्यै ।
दृँह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै॑ ।
मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्ष॒ इत्या॑ह मित्र॒त्वाय॑ ।
मा भेर्मा सव्ँ वि॑क्था॒ मा त्वा॑ हिँसिष॒मित्या॒हाहिँ॑सायै ।
यद्वै किञ्च॒ वातो॒ नाभि॒वाति॑ ।
तत्सर्वव्ँ॑वरुणदेव॒त्य॑म् ।
उ॒रु वाता॒येत्या॑ह ।
अवा॑रुणमे॒वैन॑त्करोति ।
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्या॑ह॒ प्रसू॑त्यै ।
अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह ॥ 32॥
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।
पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ ।
अ॒ग्नये॒ जुष्ट॒न्निर्व॑पा॒मीत्या॑ह ।
अ॒ग्नय॑ ए॒वैना॒ञ्जुष्ट॒न्निर्व॑पति ।
त्रिर्यजु॑षा ।
त्रय॑ इ॒मे लो॒काः ।
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।
तू॒ष्णीञ्च॑तु॒र्थम् ।
अप॑रिमितमे॒वाव॑रुन्धे ।
स ए॒वमे॒वानु॑पू॒र्वँ ह॒वीँषि॒ निर्व॑पति ॥33॥
इ॒दन्दे॒वाना॑मि॒दमु॑ नस्स॒हेत्या॑ह॒ व्यावृ॑त्यै ।
स्फा॒त्यै त्वा॒ नारा॑त्या॒ इत्या॑ह॒ गुप्त्यै॑ ।
तम॑सीव॒ वा ए॒षो॑ऽन्तश्च॑रति ।
यᳶ प॑री॒णहि॑ ।
सुव॑र॒भि विख्ये॑षव्ँ वैश्वान॒रञ्ज्योति॒रित्या॑ह ।
सुव॑रे॒वाभि विप॑श्यति वैश्वान॒रञ्ज्योतिः॑ ।
द्यावा॑पृथि॒वी ह॒विषि॑ गृही॒त उद॑वेपेताम् ।
दृँह॑न्ता॒न्दुर्या॒ द्यावा॑पृथि॒व्योरित्या॑ह ।
गृ॒हाणा॒न्द्यावा॑पृथि॒व्योर्धृत्यै॑ ।
उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑ह॒ गत्यै॑ ।
अदि॑त्यास्त्वो॒पस्थे॑ सादया॒मीत्या॑ह ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्या ए॒वैन॑दु॒पस्थे॑ सादयति ।
अग्ने॑ ह॒व्यँ र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै॑ ॥34॥
इन्द्रो॑ वृ॒त्रम॑हन् ।
सो॑ऽपः ।
अ॒भ्य॑म्रियत ।
तासाय्ँ॒यन्मेध्यय्ँ॑ य॒ज्ञियँ॒ सदे॑व॒मासी॑त् ।
तदपोद॑क्रामत् ।
ते द॒र्भा अ॑भवन् ।
यद्द॒र्भैर॒प उ॑त्पु॒नाति॑ ।
या ए॒व मेध्या॑ य॒ज्ञिया॒स्सदे॑वा॒ आपः॑ ।
ताभि॑रे॒वैना॒ उत्पु॑नाति ।
द्वाभ्या॒मुत्पु॑नाति ॥35॥
द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।
दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वित्या॑ह ।
स॒वि॒तृप्र॑सूत ए॒वैना॒ उत्पु॑नाति ।
अच्छि॑द्रेण प॒वित्रे॒णेत्या॑ह ।
अ॒सौ वा आ॑दि॒त्योऽच्छि॑द्रम्प॒वित्र॑म् ।
तेनै॒वैना॒ उत्पु॑नाति ।
वसो॒स्सूर्य॑स्य र॒श्मिभि॒रित्या॑ह ।
प्रा॒णा वा आपः॑ ।
प्रा॒णा वस॑वः ।
प्रा॒णा र॒श्मयः॑ ॥ 36॥
प्रा॒णैरे॒व प्रा॒णान्त्सम्पृ॑णक्ति ।
सा॒वि॒त्रि॒यर्चा ।
स॒वि॒तृप्र॑सूतम्मे॒ कर्मा॑स॒दिति॑ ।
स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति ।
प॒च्छो गा॑यत्रि॒या त्रि॑ष्षमृद्ध॒त्वाय॑ ।
आपो॑ देवीरग्रेपुवो अग्रेगुव॒ इत्या॑ह ।
रू॒पमे॒वासा॑मे॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे ।
अग्र॑ इ॒मय्ँ य॒ज्ञन्न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒मित्या॑ह ।
अग्र॑ ए॒व य॒ज्ञन्न॑यन्ति ।
अग्रे॑ य॒ज्ञप॑तिम् ॥37॥
यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वव्ँवृत्र॒तूर्य॒ इत्या॑ह ।
वृ॒त्रँ ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे ।
आपो॒ हेन्द्रव्ँ॑वव्रिरे ।
सं॒ज्ञामे॒वासा॑मे॒तत्सामा॑न॒व्व्ँयाच॑ष्टे ।
प्रोक्षि॑ता॒स्स्थेत्या॑ह ।
तेनाप॒ᳶ प्रोक्षि॑ताः ।
अ॒ग्नये॑ वो॒ जुष्ट॒म्प्रोक्षा॑म्य॒ग्नीषोमा॑भ्या॒मित्या॑ह ।
य॒था॒दे॒व॒तमे॒वैना॒न्प्रोक्ष॑ति ।
त्रिᳶ प्रोक्ष॑ति ।
त्र्या॑वृ॒द्धि य॒ज्ञः ॥38॥
अथो॒ रक्ष॑सा॒मप॑हत्यै ।
शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह ।
दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति ।
त्रिᳶ प्रोक्ष॑ति ।
त्र्या॑वृ॒द्धि य॒ज्ञः ।
अथो॑ मेध्य॒त्वाय॑ ।
अव॑धूतँ॒ रक्षोऽव॑धूता॒ आरा॑तय॒ इत्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ।
अदि॑त्या॒स्त्वग॒सीत्या॑ह ।
इ॒यव्ँ वा अदि॑तिः ॥39॥
अ॒स्या ए॒वैन॒त्त्वच॑ङ्करोति ।
प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै ।
पु॒रस्ता॑त्प्रती॒चीन॑ग्रीव॒मुत्त॑रलो॒मोप॑स्तृणाति मेध्य॒त्वाय॑ ।
तस्मा॑त्पु॒रस्ता॑त्प्र॒त्यञ्च॑ᳶ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते ।
तस्मा॑त्प्र॒जा मृ॒गङ्ग्राहु॑काः ।
य॒ज्ञो दे॒वेभ्यो॒ निला॑यत ।
कृष्णो॑ रू॒पङ्कृ॒त्वा ।
यत्कृ॑ष्णाजि॒ने ह॒विर॑ध्यव॒हन्ति॑ ।
य॒ज्ञादे॒व तद्य॒ज्ञम्प्रयु॑ङ्क्ते ।
ह॒विषोऽस्क॑न्दाय ॥40॥
अ॒धि॒षव॑णमसि वानस्प॒त्यमित्या॑ह ।
अ॒धि॒षव॑णमे॒वैन॑त्करोति ।
प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह सय॒त्वाय॑ ।
अ॒ग्नेस्त॒नूर॒सीत्या॑ह ।
अ॒ग्नेर्वा ए॒षा त॒नूः ।
यदोष॑धयः ।
वा॒चो वि॒सर्ज॑न॒मित्या॑ह ।
य॒दा हि प्र॒जा ओष॑धीनाम॒श्ञन्ति॑ ।
अथ॒ वाचव्ँ॒विसृ॑जन्ते ।
दे॒ववी॑तये त्वा गृह्णा॒मीत्या॑ह ॥41॥
दे॒वता॑भिरे॒वैन॒त्सम॑र्धयति ।
अद्रि॑रसि वानस्प॒त्य इत्या॑ह ।
ग्रावा॑णमे॒वैन॑त्करोति ।
स इ॒दन्दे॒वेभ्यो॑ ह॒व्यँ सु॒शमि॑ शमि॒ष्वेत्या॑ह॒ शान्त्यै॑ ।
हवि॑ष्कृ॒देहीत्या॑ह ।
य ए॒व दे॒वानाँ॑ हवि॒ष्कृतः॑ ।
तान् ह्व॑यति ।
त्रिर्ह्व॑यति ।
त्रिष॑त्या॒ हि दे॒वाः ।
इष॒माव॒दोर्ज॒माव॒देत्या॑ह ॥ 42॥
इष॑मे॒वोर्जय्ँ॒यज॑माने दधाति ।
द्यु॒मद्व॑दत व॒यँ स॑ङ्घा॒तञ्जे॒ष्मेत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै ।
मनो॑श्श्र॒द्धादे॑वस्य॒ यज॑मानस्यासुर॒घ्नी वाक् ।
य॒ज्ञा॒यु॒धेषु॒ प्रवि॑ष्टाऽऽसीत् ।
तेऽसु॑रा॒ याव॑न्तो यज्ञायु॒धाना॑मु॒द्वद॑तामु॒पाशृ॑ण्वन् ।
ते परा॑भवन् ।
तस्मा॒त्स्वाना॒म्मध्ये॑ऽव॒साय॑ यजेत ।
याव॑न्तोऽस्य॒ भ्रातृ॑व्या यज्ञायु॒धाना॑मु॒द्वद॑तामुपशृ॒ण्वन्ति॑ ।
ते परा॑भवन्ति ।
उ॒च्चैस्स॒माह॑न्त॒ वा आ॑ह॒ विजि॑त्यै ॥43॥
वृ॒ङ्क्त ए॑षामिन्द्रि॒यव्ँ वी॒र्य॑म् ।
श्रेष्ठ॑ एषाम्भवति ।
व॒र्षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्षवृ॑द्धव्ँ वे॒त्त्वित्या॑ह ।
व॒र्षवृ॑द्धा॒ वा ओष॑धयः ।
व॒र्षवृ॑द्धा इ॒षीका॒स्समृ॑द्ध्यै ।
य॒ज्ञँ रक्षाँ॒स्यनु॒ प्रावि॑शन् ।
तान्य॒स्ना प॒शुभ्यो॑ नि॒रवा॑दयन्त ।
तुषै॒रोष॑धीभ्यः ।
परा॑पूतँ॒ रक्ष॒ᳶ परा॑पूता॒ अरा॑तय॒ इत्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ॥44॥
रक्ष॑साम्भा॒गो॑ऽसीत्या॑ह ।
तुषै॑रे॒व रक्षाँ॑सि नि॒रव॑दयते ।
अ॒प उप॑स्पृशति मेध्य॒त्वाय॑ ।
वा॒युर्वो॒ विवि॑न॒क्त्वित्या॑ह ।
प॒वित्रव्ँ॒ वै वा॒युः ।
पु॒नात्ये॒वैना॑न् ।
अ॒न्तरि॑क्षादिव॒ वा ए॒ते प्रस्क॑न्दन्ति ।
ये शूर्पा॑त् ।
दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ᳶ प्रति॑गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै ।
ह॒विषोऽस्क॑न्दाय ।
त्रिष्फ॒लीक॑र्त॒वा आ॑ह ।
त्र्या॑वृ॒द्धि य॒ज्ञः ।
अथो॑ मेध्य॒त्वाय॑ ॥45॥
अव॑धूतँ॒ रक्षोऽव॑धूता॒ अरा॑तय॒ इत्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ।
अदि॑त्या॒स्त्वग॒सीत्या॑ह ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्या ए॒वैन॒त्त्वच॑ङ्करोति ।
प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै ।
पु॒रस्ता॑त्प्रती॒चीन॑ग्रीव॒मुत्त॑रलो॒मोप॑स्तृणाति मेध्य॒त्वाय॑ ।
तस्मा॑त्पु॒रस्ता॑त्प्र॒त्यञ्च॑ᳶ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते ।
तस्मा॑त्प्र॒जा मृ॒गङ्ग्राहु॑काः ।
य॒ज्ञो दे॒वेभ्यो॒ निला॑यत ॥46॥
कृष्णो॑ रू॒पङ्कृ॒त्वा ।
यत्कृ॑ष्णाजि॒ने ह॒विर॑धिपि॒नष्टि॑ ।
य॒ज्ञादे॒व तद्य॒ज्ञम्प्रयु॑ङ्क्ते ।
ह॒विषोऽस्क॑न्दाय ।
द्यावा॑पृथि॒वी स॒हास्ता॑म् ।
ते श॑म्यामा॒त्रमेक॒मह॒र्व्यैताँ॑ शम्यामा॒त्रमेक॒महः॑ ।
दि॒वस्स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह ।
द्यावा॑पृथि॒व्योर्वीत्यै॑ ।
धि॒षणा॑ऽसि पर्व॒त्या प्रति॑ त्वा दि॒वस्स्क॑म्भ॒निर्वे॒त्त्वित्या॑ह ।
द्यावा॑पृथि॒व्योर्विधृ॑त्यै ॥47॥
धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे॒त्त्वित्या॑ह ।
द्यावा॑पृथि॒व्योर्धृत्यै॑ ।
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्या॑ह॒ प्रसू॑त्यै ।
अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह ।
अ॒श्वि॒नौ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।
पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्त्ये॑ ।
अधि॑वपा॒मीत्या॑ह ।
य॒था॒दे॒व॒तमे॒वैना॒नधि॑वपति ।
धा॒न्य॑मसि धिनु॒हि दे॒वानित्या॑ह ।
ए॒तस्य॒ यजु॑षो वी॒र्ये॑ण ॥48॥
याव॒देका॑ दे॒वता॑ का॒मय॑ते॒ याव॒देका॑ ।
ताव॒दाहु॑तिᳶ प्रथते ।
न हि तदस्ति॑ ।
यत्ताव॑दे॒व स्यात् ।
याव॑ज्जु॒होति॑ ।
प्रा॒णाय॑ त्वाऽपा॒नाय॒ त्वेत्या॑ह ।
प्रा॒णाने॒व यज॑माने दधाति ।
दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धा॒मित्या॑ह ।
आयु॑रे॒वास्मि॑न्दधाति ।
अ॒न्तरि॑क्षादिव॒ वा ए॒तानि॒ प्रस्क॑न्दन्ति ।
यानि॑ दृ॒षदः॑ ।
दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ᳶ प्रति॑गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै ।
ह॒विषोऽस्क॑न्दाय ।
असव्ँ॑वपन्ती पिँषा॒णूनि॑ कुरुता॒दित्या॑ह मेध्य॒त्वाय॑ ॥49॥
धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छेत्या॑ह॒ धृत्यै॑ ।
अपा॑ग्ने॒ऽग्निमा॒माद॑ञ्जहि॒ निष्क्र॒व्यादँ॑ से॒धा दे॑व॒यजव्ँ॑व॒हेत्या॑ह ।
य ए॒वामात्क्र॒व्यात् ।
तम॑प॒हत्य॑ ।
मेध्ये॒ऽग्नौ क॒पाल॒मुप॑दधाति ।
निर्द॑ग्धँ॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तय॒ इत्या॑ह ।
रक्षाँ॑स्ये॒व निर्द॑हति ।
अ॒ग्नि॒वत्युप॑दधाति ।
अ॒स्मिन्ने॒व लो॒के ज्योति॑र्धत्ते ।
अङ्गा॑र॒मधि॑वर्तयति ॥50॥
अ॒न्तरि॑क्ष ए॒व ज्योति॑र्धत्ते ।
आ॒दि॒त्यमे॒वामुष्मिल्ँ॑ लो॒के ज्योति॑र्धत्ते ।
ज्योति॑ष्मन्तोऽस्मा इ॒मे लो॒का भ॑वन्ति ।
य ए॒वव्ँ वेद॑ ।
ध्रु॒वम॑सि पृथि॒वीन्दृँ॒हेत्या॑ह ।
पृ॒थि॒वीमे॒वैतेन॑ दृँ॒हति ।
ध॒र्त्रम॑स्य॒न्तरि॑क्षन्दृँ॒हेत्या॑ह ।
अ॒न्तरि॑क्षमे॒वैतेन॑ दृँहति ।
ध॒रुण॑मसि॒ दिव॑न्दृँ॒हेत्या॑ह ।
दिव॑मे॒वैतेन॑ दृँहति ॥51॥
धर्मा॑सि॒ दिशो॑ दृँ॒हेत्या॑ह ।
दिश॑ ए॒वैतेन॑ दृँहति ।
इ॒माने॒वैतैर्लो॒कान्दृँ॑हति ।
दृँह॑न्तेऽस्मा इ॒मे लो॒काᳶ प्र॒जया॑ प॒शुभिः॑ ।
य ए॒वव्ँ वेद॑ ।
त्रीण्यग्रे॑ क॒पाला॒न्युप॑दधाति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।
एक॒मग्रे॑ क॒पाल॒मुप॑दधाति ।
एकव्ँ॒ वा अग्रे॑ क॒पाल॒म्पुरु॑षस्य स॒म्भव॑ति ॥52॥
अथ॒ द्वे ।
अथ॒ त्रीणि॑ ।
अथ॑ च॒त्वारि॑ ।
अथा॒ष्टौ ।
तस्मा॑द॒ष्टाक॑पाल॒म्पुरु॑षस्य॒ शिरः॑ ।
यदे॒वङ्क॒पाला॑न्युप॒दधा॑ति ।
य॒ज्ञो वै प्र॒जाप॑तिः ।
य॒ज्ञमे॒व प्र॒जाप॑तिँ॒ सँस्क॑रोति ।
आ॒त्मान॑मे॒व तत्सँस्क॑रोति ।
तँ सँस्कृ॑तमा॒त्मान॑म् ॥53॥
अ॒मुष्मिल्ँ॑ लो॒केऽनु॒ परै॑ति ।
यद॒ष्टावु॑प॒दधा॑ति ।
गा॒य॒त्रि॒या तत्सम्मि॑तम् ।
यन्नव॑ ।
त्रि॒वृता॒ तत् ।
यद्दश॑ ।
वि॒राजा॒ तत् ।
यदेका॑दश ।
त्रि॒ष्टुभा॒ तत् ।
यद्द्वाद॑श ॥54॥
जग॑त्या॒ तत् ।
छन्द॑स्सम्मितानि॒ स उ॑प॒दध॑त्क॒पाला॑नि ।
इ॒माल्ँ लो॒कान॑नुपू॒र्वन्दिशो॒ विधृ॑त्यै दृँहति ।
अथायु॑ᳶ प्रा॒णान्प्र॒जाम्प॒शून् यज॑माने दधाति ।
स॒जा॒तान॑स्मा अ॒भितो॑ बहु॒लान्क॑रोति ।
चित॒स्स्थेत्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
भृगू॑णा॒मङ्गि॑रसा॒न्तप॑सा तप्यध्व॒मित्या॑ह ।
दे॒वता॑नामे॒वैना॑नि॒ तप॑सा तपति ।
तानि॒ तत॒स्सँस्थि॑ते ।
यानि॑ घ॒र्मे क॒पाला॑न्युपचि॒न्वन्ति॑ वे॒धस॒ इति॒ चतु॑ष्पदय॒र्चा वि मु॑ञ्चति ।
चतु॑ष्पादᳶ प॒शवः॑ ।
प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑तिष्ठति ॥55॥
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्या॑ह॒ प्रसू॑त्यै ।
अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।
पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ ।
सव्ँव॑पा॒मीत्या॑ह ।
य॒था॒दे॒व॒तमे॒वैना॑नि॒ सव्ँव॑पति ।
समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॒नेत्या॑ह ।
आपो॒ वा ओष॑धीर्जिन्वन्ति ।
ओष॑धयो॒ऽपो जि॑न्वन्ति ।
अ॒न्या वा ए॒तासा॑म॒न्या जि॑न्वन्ति ॥56॥
तस्मा॑दे॒वमा॑ह ।
सँ रे॒वती॒र्जग॑तीभि॒र्मधु॑मती॒र्मधु॑मतीभिस्सृज्यध्व॒मित्या॑ह ।
आपो॒ वै रे॒वतीः॑ ।
प॒शवो॒ जग॑तीः ।
ओष॑धयो॒ मधु॑मतीः ।
आप॒ ओष॑धीᳶ प॒शून् ।
ताने॒वास्मा॑ एक॒धा सँ॒सृज्य॑ ।
मधु॑मतᳵ करोति ।
अ॒द्भ्यᳶ परि॒ प्रजा॑तास्स्थ॒ सम॒द्भिᳶ पृ॑च्यध्व॒मिति॑ प॒र्याप्ला॑वयति ।
यथा॒ सुवृ॑ष्ट इ॒माम॑नुवि॒सृत्य॑ ॥57॥
आप॒ ओष॑धीर्म॒हय॑न्ति ।
ता॒दृगे॒व तत् ।
जन॑यत्यै त्वा॒ सय्ँयौ॒मीत्या॑ह ।
प्र॒जा ए॒वैतेन॑ दाधार ।
अ॒ग्नये॑ त्वा॒ऽग्नीषोमा॑भ्या॒मित्या॑ह॒ व्यावृ॑त्त्यै ।
म॒खस्य॒ शिरो॒ऽसीत्या॑ह ।
य॒ज्ञो वै म॒खः ।
तस्यै॒तच्छिरः॑ ।
यत्पु॑रो॒डाशः॑ ।
तस्मा॑दे॒वमा॑ह ॥58॥
घ॒र्मो॑ऽसि वि॒श्वायु॒रित्या॑ह ।
विश्व॑मे॒वायु॒र्यज॑माने दधाति ।
उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिᳶ प्रथता॒मित्या॑ह ।
यज॑मानमे॒व प्र॒जया॑ प॒शुभि॑ᳶ प्रथयति ।
त्वच॑ङ्गृह्णी॒ष्वेत्या॑ह ।
सर्व॑मे॒वैनँ॒ सत॑नुङ्करोति ।
अथा॒प आ॒नीय॒ परि॑मार्ष्टि ।
माँ॒स ए॒व तत्त्वच॑न्दधाति ।
तस्मा॑त्त्व॒चा माँ॒सञ्छ॒न्नम् ।
घ॒र्मो वा ए॒षोऽशा॑न्तः ॥59॥
अ॒र्ध॒मा॒से॑ऽर्धमासे॒ प्रवृ॑ज्यते ।
यत्पु॑रो॒डाशः॑ ।
स ई॑श्व॒रो यज॑मानँ शु॒चा प्र॒दहः॑ ।
पर्य॑ग्नि करोति ।
प॒शुमे॒वैन॑मकः ।
शान्त्या॒ अप्र॑दाहाय ।
त्रिᳶ पर्य॑ग्नि करोति ।
त्र्या॑वृ॒द्धि य॒ज्ञः ।
अथो॒ रक्ष॑सा॒मप॑हत्यै ।
अ॒न्तरि॑तँ॒ रक्षो॒ऽन्तरि॑ता॒ अरा॑तय॒ इत्या॑ह ॥60॥
रक्ष॑साम॒न्तर्हि॑त्यै ।
पु॒रो॒डाशव्ँ॒ वा अधि॑श्रितँ॒ रक्षाँ॑स्यजिघाँसन् ।
दि॒वि नाको॒ नामा॒ग्नी र॑क्षो॒हा ।
स ए॒वास्मा॒द्रक्षाँ॒स्यपा॑हन् ।
दे॒वस्त्वा॑ सवि॒ता श्र॑पय॒त्वित्या॑ह ।
स॒वि॒तृप्र॑सूत ए॒वैनँ॑ श्रपयति ।
वर्षि॑ष्ठे॒ अधि॒ नाक॒ इत्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ।
अ॒ग्निस्ते॑ त॒नुव॒म्माऽति॑धा॒गित्या॒हाऽन॑तिदाहाय ।
अग्ने॑ ह॒व्यँ र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै॑ ॥61॥
अवि॑दहन्तश्श्रपय॒तेति॒ वाचव्ँ॒विसृ॑जते ।
य॒ज्ञमे॒व ह॒वीँष्य॑भिव्या॒हृत्य॒ प्रत॑नुते ।
पु॒रो॒रुच॒मवि॑दाहाय॒ शृत्त्यै॑ करोति ।
म॒स्तिष्को॒ वै पु॑रो॒डाशः॑ ।
तय्ँयन्नाभि॑वा॒सये॑त् ।
आ॒विर्म॒स्तिष्क॑स्स्यात् ।
अ॒भिवा॑सयति ।
तस्मा॒द्गुहा॑ म॒स्तिष्कः॑ ।
भस्म॑ना॒ऽभिवा॑सयति ।
तस्मा॑न्माँ॒सेनास्थि॑ छ॒न्नम् ॥62॥
वे॒देना॒भिवा॑सयति ।
तस्मा॒त्केशै॒श्शिर॑श्छ॒न्नम् ।
अख॑लतिभावुको भवति ।
य ए॒वव्ँ वेद॑ ।
प॒शोर्वै प्र॑ति॒मा पु॑रो॒डाशः॑ ।
स नाय॒जुष्क॑मभि॒वास्यः॑ ।
वृथे॑व स्यात् ।
ई॒श्व॒रा यज॑मानस्य प॒शव॒ᳶ प्रमे॑तोः ।
सम्ब्रह्म॑णा पृच्य॒स्वेत्या॑ह ।
प्रा॒णा वै ब्रह्म॑ ॥63॥
प्रा॒णाᳶ प॒शवः॑ ।
प्रा॒णैरे॒व प॒शून्त्सम्पृ॑णक्ति ।
न प्र॒मायु॑का भवन्ति ।
यज॑मानो॒ वै पु॑रो॒डाशः॑ ।
प्र॒जा प॒शव॒ᳶ पुरी॑षम् ।
यदे॒वम॑भिवा॒सय॑ति ।
यज॑मानमे॒व प्र॒जया॑ प॒शुभि॒स्सम॑र्धयति ।
दे॒वा वै ह॒विर्भृ॒त्वाऽब्रु॑वन् ।
कस्मि॑न्नि॒दम्म्र॑क्ष्यामह॒ इति॑ ।
सो॑ऽग्निर॑ब्रवीत् ॥64॥
मयि॑ त॒नूस्सन्निध॑ध्वम् ।
अ॒हव्ँव॒स्तञ्ज॑नयिष्यामि ।
यस्मि॑न्म्र॒क्ष्यध्व॒ इति॑ ।
ते दे॒वा अ॒ग्नौ त॒नूस्सन्न्य॑दधत ।
तस्मा॑दाहुः ।
अ॒ग्निस्सर्वा॑ दे॒वता॒ इति॑ ।
सोऽङ्गा॑रेणा॒पः ।
अ॒भ्य॑पातयत् ।
तत॑ एक॒तो॑ऽजायत ।
स द्वि॒तीय॑म॒भ्य॑पातयत् ॥65॥
ततो॑ द्वि॒तो॑ऽजायत ।
स तृ॒तीय॑म॒भ्य॑पातयत् ।
तत॑स्त्रि॒तो॑ऽजायत ।
यद॒द्भ्योऽजा॑यन्त ।
तदा॒प्याना॑माप्य॒त्वम् ।
यदा॒त्मभ्योऽजा॑यन्त ।
तदा॒त्म्याना॑मात्म्य॒त्वम् ।
ते दे॒वा आ॒प्येष्व॑मृजत ।
आ॒प्या अ॑मृजत॒ सूर्या॑भ्युदिते ।
सूर्या॑भ्युदित॒स्सूर्या॑भिनिम्रुक्ते ॥66॥
सूर्या॑भिनिम्रुक्तᳵ कुन॒खिनि॑ ।
कु॒न॒खी श्या॒वद॑ति ।
श्या॒वद॑न्नग्रदिधि॒षौ ।
अ॒ग्र॒दि॒धि॒षुᳶ प॑रिवि॒त्ते ।
प॒रि॒वि॒त्तो वी॑र॒हणि॑ ।
वी॒र॒हा ब्र॑ह्म॒हणि॑ ।
तद्ब्र॑ह्म॒हण॒न्नात्य॑च्यवत ।
अ॒न्त॒र्वे॒दि निन॑य॒त्यव॑रुध्यै ।
उल्मु॑केना॒भिगृ॑ह्णाति शृत॒त्वाय॑ ।
शृ॒तका॑मा इव॒ हि दे॒वाः ॥67॥
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॒ स्फ्यमाद॑त्ते॒ प्रसू॑त्यै ।
अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।
पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ ।
आद॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑ण॒ इत्या॑ह ।
इ॒न्द्रि॒यमे॒व यज॑माने दधाति ।
स॒हस्र॑भृष्टिश्श॒तते॑जा॒ इत्या॑ह ।
रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे ।
वा॒युर॑सि ति॒ग्मते॑जा॒ इत्या॑ह ।
तेजो॒ वै वा॒युः ॥68॥
तेज॑ ए॒वास्मि॑न्दधाति ।
वि॒षाद्वै नामा॑सु॒र आ॑सीत् ।
सो॑ऽबिभेत् ।
य॒ज्ञेन॑ मा दे॒वा अ॒भिभ॑विष्य॒न्तीति॑ ।
स पृ॑थि॒वीम॒भ्य॑वमीत् ।
साऽमे॒ध्याऽभ॑वत् ।
अथो॒ यदिन्द्रो॑ वृ॒त्रमह॑न् ।
तस्य॒ लोहि॑तम्पृथि॒वीमनु॒ व्य॑धावत् ।
साऽमे॒ध्याऽभ॑वत् ।
पृथि॑वि देवयज॒नीत्या॑ह ॥69॥
मेध्या॑मे॒वैना॑न्देव॒यज॑नीङ्करोति ।
ओष॑ध्यास्ते॒ मूल॒म्मा हिँ॑सिष॒मित्या॑ह ।
ओष॑धीना॒महिँ॑सायै ।
व्र॒जङ्ग॑च्छ गो॒स्थान॒मित्या॑ह ।
छन्दाँ॑सि॒ वै व्र॒जो गो॒स्थानः॑ ।
छन्दाँ॑स्ये॒वास्मै॑ व्र॒जङ्गो॒स्थान॑ङ्करोति ।
वर्ष॑तु ते॒ द्यौरित्या॑ह ।
वृष्टि॒र्वै द्यौः ।
वृष्टि॑मे॒वाव॑रुन्धे ।
ब॒धा॒न दे॑व सवितᳶ पर॒मस्या॑म्परा॒वतीत्या॑ह ॥70॥
द्वौ वाव पुरु॑षौ ।
यञ्चै॒व द्वेष्टि॑ ।
यश्चै॑न॒न्द्वेष्टि॑ ।
तावु॒भौ ब॑ध्नाति पर॒मस्या॑म्परा॒वति॑ श॒तेन॒ पाशैः॑ ।
यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा मौ॒गित्या॒हानि॑म्रुक्त्ये ।
अ॒ररु॒र्वै नामा॑सु॒र आ॑सीत् ।
स पृ॑थि॒व्यामुप॑म्लुप्तोऽशयत् ।
तन्दे॒वा अप॑हतो॒ऽररु॑ᳶ पृथि॒व्या इति॑ पृथि॒व्या अपा॑घ्नन् ।
भ्रातृ॑व्यो॒ वा अ॒ररुः॑ ।
अप॑हतो॒ऽररु॑ᳶ पृथि॒व्या इति॒ यदाह॑ ॥71॥
भ्रातृ॑व्यमे॒व पृ॑थि॒व्या अप॑हन्ति ।
ते॑ऽमन्यन्त ।
दिवव्ँ॒ वा अ॒यमि॒तᳶ प॑तिष्य॒तीति॑ ।
तम॒ररु॑स्ते॒ दिव॒म्माऽस्का॒निति॑ दि॒वᳶ पर्य॑बाधन्त ।
भ्रातृ॑व्यो॒ वा अ॒ररुः॑ ।
अ॒ररु॑स्ते॒ दिव॒म्मा स्का॒निति॒ यदाह॑ ।
भ्रातृ॑व्यमे॒व दि॒वᳶ परि॑बाधते ।
स्त॒म्ब॒य॒जुर्ह॑रति ।
पृ॒थि॒व्या ए॒व भ्रातृ॑व्य॒मप॑हन्ति ।
द्वि॒तीयँ॑ हरति ॥72॥
अ॒न्तरि॑क्षादे॒वैन॒मप॑हन्ति ।
तृ॒तीयँ॑ हरति ।
दि॒व ए॒वैन॒मप॑हन्ति ।
तू॒ष्णीञ्च॑तु॒र्थँ ह॑रति ।
अप॑रिमितादे॒वैन॒मप॑हन्ति ।
असु॑राणाव्ँ॒वा इ॒यमग्र॑ आसीत् ।
याव॒दासी॑नᳶ परा॒पश्य॑ति ।
ताव॑द्दे॒वाना॑म् ।
ते दे॒वा अ॑ब्रुवन् ।
अस्त्वे॒व नो॒ऽस्यामपीति॑ ॥73॥
क्य॑न्नो दास्य॒थेति॑ ।
याव॑त्स्व॒यम्प॑रिगृह्णी॒थेति॑ ।
ते वस॑व॒स्त्वेति॑ दक्षिण॒तᳶ पर्य॑गृह्णन् ।
रु॒द्रास्त्वेति॑ प॒श्चात् ।
आ॒दि॒त्यास्त्वेत्यु॑त्तर॒तः ।
ते॑ऽग्निना॒ प्राञ्चो॑ऽजयन् ।
वसु॑भिर्दक्षि॒णा ।
रु॒द्रैᳶ प्र॒त्यञ्चः॑ ।
आ॒दि॒त्यैरुद॑ञ्चः ।
यस्यै॒वव्ँवि॒दुषो॒ वेदि॑म्परिगृ॒ह्णन्ति॑ ॥74॥
भव॑त्या॒त्मना॑ ।
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ।
दे॒वस्य॑ सवि॒तुस्स॒व इत्या॑ह॒ प्रसू॑त्यै ।
कर्म॑ कृण्वन्ति वे॒धस॒ इत्या॑ह ।
इ॒षि॒तँ हि कर्म॑ क्रि॒यते॑ ।
पृ॒थि॒व्यै मेध्य॑ञ्चामे॒ध्यञ्च॒ व्युद॑क्रामताम् ।
प्रा॒चीन॑मुदी॒चीन॒म्मेध्य॑म् ।
प्र॒ती॒चीन॑न्दक्षि॒णाऽमे॒ध्यम् ।
प्राची॒मुदी॑चीम्प्रव॒णाङ्क॑रोति ।
मेध्या॑मे॒वैना॑न्देव॒यज॑नीङ्करोति ॥75॥
प्राञ्चौ॑ वेद्यँ॒सावुन्न॑यति ।
आ॒ह॒व॒नीय॑स्य॒ परि॑गृहीत्यै ।
प्र॒तीची॒ श्रोणी॑ ।
गार्ह॑पत्यस्य॒ परि॑गृहीत्यै ।
अथो॑ मिथुन॒त्वाय॑ ।
उद्ध॑न्ति ।
यदे॒वास्या॑ अमे॒ध्यम् ।
तदप॑हन्ति ।
उद्ध॑न्ति ।
तस्मा॒दोष॑धय॒ᳶ परा॑भवन्ति ॥76॥
मूल॑ञ्छिनत्ति ।
भ्रातृ॑व्यस्यै॒व मूल॑ञ्छिनत्ति ।
मूलव्ँ॒ वा अ॑ति॒तिष्ठ॒द्रक्षाँ॒स्यनूत्पि॑पते ।
यद्धस्ते॑न छि॒न्द्यात् ।
कु॒न॒खिनी॑ᳶ प्र॒जास्स्युः॑ ।
स्फ्येन॑ छिनत्ति ।
वज्रो॒ वै स्फ्यः ।
वज्रे॑णै॒व य॒ज्ञाद्रक्षाँ॒स्यप॑हन्ति ।
पि॒तृ॒दे॒व॒त्याऽति॑खाता ।
इय॑तीङ्खनति ॥77॥
प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑ताम् ।
वेदि॑र्दे॒वेभ्यो॒ निला॑यत ।
ताञ्च॑तुरङ्गु॒लेऽन्व॑विन्दन् ।
तस्मा॑च्चतुरङ्गु॒लङ्खेया॑ ।
च॒तु॒र॒ङ्गु॒लङ्ख॑नति ।
च॒तु॒र॒ङ्गु॒ले ह्योष॑धयᳶ प्रति॒तिष्ठ॑न्ति ।
आ प्र॑ति॒ष्ठायै॑ खनति ।
यज॑मानमे॒व प्र॑ति॒ष्ठाङ्ग॑मयति ।
द॒क्षि॒ण॒तो वर्षी॑यसीङ्करोति ।
दे॒व॒यज॑नस्यै॒व रू॒पम॑कः ॥78॥
पुरी॑षवतीङ्करोति ।
प्र॒जा वै प॒शव॒ᳶ पुरी॑षम् ।
प्र॒जयै॒वैन॑म्प॒शुभि॒ᳶ पुरी॑षवन्तङ्करोति ।
उत्त॑रम्परिग्रा॒हम्परि॑गृह्णाति ।
ए॒ताव॑ती॒ वै पृ॑थि॒वी ।
याव॑ती॒ वेदिः॑ ।
तस्या॑ ए॒तावत॑ ए॒व भ्रातृ॑व्यन्नि॒र्भज्य॑ ।
आ॒त्मन॒ उत्त॑रम्परिग्रा॒हम्परि॑गृह्णाति ।
ऋ॒तम॑स्यृत॒सद॑नमस्यृत॒श्रीर॒सीत्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ॥79॥
क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति ।
यद्वेदि॑ङ्क॒रोति॑ ।
धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै॑ ।
उ॒र्वी चासि॒ वस्वी॑ चा॒सीत्या॑ह ।
उ॒र्वीमे॒वैनाव्ँ॒वस्वी॑ङ्करोति ।
पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शि॒न्नित्या॑ह मेध्य॒त्वाय॑ ।
उ॒दा॒दाय॑ पृथि॒वीञ्जी॒रदा॑नु॒र्यामैर॑यञ्च॒न्द्रम॑सि स्व॒धाभि॒रित्या॑ह ।
यदे॒वास्या॑ अमे॒ध्यम् ।
तद॑प॒हत्य॑ ।
मेध्या॑न्देव॒यज॑नीङ्कृ॒त्वा ॥80॥
यद॒दश्च॒न्द्रम॑सि॒ मेध्य॑म् ।
तद॒स्यामेर॑यति ।
तान्धीरा॑सो अनु॒दृश्य॑ यजन्त॒ इत्या॒हानु॑ख्यात्यै ।
प्रोक्ष॑णी॒रासा॑दय ।
इ॒ध्माब॒र्हिरुप॑सादय ।
स्रु॒वञ्च॒ स्रुच॑श्च॒ सम्मृ॑ड्ढि ।
पत्नीँ॒ सन्न॑ह्य ।
आज्ये॑नो॒देहीत्या॑हानुपू॒र्वता॑यै ।
प्रोक्ष॑णी॒रासा॑दयति ।
आपो॒ वै र॑क्षो॒घ्नीः ॥81॥
रक्ष॑सा॒मप॑हत्यै ।
स्फ्यस्य॒ वर्त्म॑न्त्सादयति ।
य॒ज्ञस्य॒ सन्त॑त्यै ।
उ॒वाच॒ हासि॑तो दैव॒लः ।
ए॒ताव॑ती॒र्वा अ॒मुष्मिल्ँ॑ लो॒क आप॑ आसन् ।
याव॑ती॒ᳶ प्रोक्ष॑णी॒रिति॑ ।
तस्मा॑द्ब॒ह्वीरा॒साद्याः॑ ।
स्फ्यमु॒दस्य॑न् ।
यन्द्वि॒ष्यात्तन्ध्या॑येत् ।
शु॒चैवैन॑मर्पयति ॥82॥
वज्रो॒ वै स्फ्यः ।
यद॒न्वञ्च॑न्धा॒रये॑त् ।
वज्रे॑ऽध्व॒र्युः क्ष॑ण्वीत ।
पु॒रस्ता॑त्ति॒र्यञ्च॑न्धारयति ।
वज्रो॒ वै स्फ्यः ।
वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षाँ॒स्यप॑हन्ति ।
अ॒ग्निभ्या॒म्प्राच॑श्च प्र॒तीच॑श्च ।
स्फ्येनोदी॑चश्चाध॒राच॑श्च ।
स्फ्येन॒ वा ए॒ष वज्रे॑णा॒स्यै पा॒प्मान॒म्भ्रातृ॑व्यमप॒हत्य॑ ।
उ॒त्क॒रेऽधि॒ प्रवृ॑श्चति ॥83॥
यथो॑प॒धाय॑ वृ॒श्चन्त्ये॒वम् ।
हस्ता॒वव॑नेनिक्ते ।
आ॒त्मान॑मे॒व प॑वयते ।
स्फ्यम्प्रक्षा॑लयति मेध्य॒त्वाय॑ ।
अथो॑ पा॒प्मन॑ ए॒व भ्रातृ॑व्यस्य न्य॒ङ्गञ्छि॑नत्ति ।
इ॒ध्माब॒र्हिरुप॑सादयति॒ युक्त्यै॑ ।
य॒ज्ञस्य॑ मिथुन॒त्वाय॑ ।
अथो॑ पुरो॒रुच॑मे॒वैतान्द॑धाति ।
उत्त॑रस्य॒ कर्म॒णोऽनु॑ख्यात्यै ।
न पु॒रस्ता॑त्प्र॒त्यगुप॑सादयेत् ॥84॥
यत्पु॒रस्ता॑त्प्र॒त्यगु॑पसा॒दये॑त् ।
अ॒न्यत्रा॑हुतिप॒थादि॒ध्मम्प्रति॑पादयेत् ।
प्र॒जा वै ब॒र्हिः ।
अप॑राध्नुयाद्ब॒र्हिषा॑ प्र॒जाना॑म्प्र॒जन॑नम् ।
प॒श्चात्प्रागुप॑सादयति ।
आ॒हु॒ति॒प॒थेने॒ध्मम्प्रति॑पादयति ।
स॒म्प्र॒त्ये॑व ब॒र्हिषा॑ प्र॒जाना॑म्प्र॒जन॑न॒मुपै॑ति ।
दक्षि॑णमि॒ध्मम् ।
उत्त॑रम्ब॒र्हिः ।
आ॒त्मा वा इ॒ध्मः ।
प्र॒जा ब॒र्हिः ।
प्र॒जा ह्या॑त्मन॒ उत्त॑रतरा ती॒र्थे ।
ततो॒ मेध॑मुप॒नीय॑ ।
य॒था॒दे॒व॒तमे॒वैन॒त्प्रति॑ष्ठापयति ।
प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ॥85॥
प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ।
अ॒ग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पा॒मीत्या॑ह मेध्य॒त्वाय॑ ।
स्रुच॒स्सम्मा॑र्ष्टि ।
स्रु॒वमग्रे॑ ।
पुमाँ॑समे॒वाभ्य॒स्सँश्य॑ति मिथुन॒त्वाय॑ ।
अथ॑ जु॒हूम् ।
अथो॑प॒भृत॑म् ।
अथ॑ ध्रु॒वाम् ।
अ॒सौ वै जु॒हूः ॥1॥
अ॒न्तरि॑क्षमुप॒भृत् ।
पृ॒थि॒वी ध्रु॒वा ।
इ॒मे वै लो॒कास्स्रुचः॑ ।
वृष्टि॑स्स॒म्मार्ज॑नानि ।
वृष्टि॒र्वा इ॒माल्ँ लो॒कान॑नुपू॒र्वङ्क॑ल्पयति ।
ते तत॑ᳵ कॢ॒प्तास्समे॑धन्ते ।
समे॑धन्तेऽस्मा इ॒मे लो॒काᳶ प्र॒जया॑ प॒शुभिः॑ ।
य ए॒वव्ँ वेद॑ ।
यदि॑ का॒मये॑त॒ वर्षु॑कᳶ प॒र्जन्य॑स्स्या॒दिति॑ ।
अ॒ग्र॒तस्सम्मृ॑ज्यात् ॥2॥
वृष्टि॑मे॒व निय॑च्छति ।
अ॒वा॒चीना॑ग्रा॒ हि वृष्टिः॑ ।
यदि॑ का॒मये॒ताव॑र्षुकस्स्या॒दिति॑ ।
मू॒ल॒तस्सम्मृ॑ज्यात् ।
वृष्टि॑मे॒वोद्य॑च्छति ।
तदु॒ वा आ॑हुः ।
अ॒ग्र॒त ए॒वोपरि॑ष्टा॒त्सम्मृ॑ज्यात् ।
मू॒ल॒तो॑ऽधस्ता॑त् ।
तद॑नुपू॒र्वङ्क॑ल्पते ।
वर्षु॑को भव॒तीति॑ ॥3॥
प्राची॑मभ्या॒कार॑म् ।
अग्रै॑रन्तर॒तः ।
ए॒वमि॑व॒ ह्यन्न॑म॒द्यते॑ ।
अथो॒ अग्रा॒द्वा ओष॑धीना॒मूर्ज॑म्प्र॒जा उप॑जीवन्ति ।
ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै ।
अ॒धस्ता॑त्प्र॒तीची॑म् ।
द॒ण्डमु॑त्तम॒तः ।
मूले॑न॒ मूल॒म्प्रति॑ष्ठित्यै ।
तस्मा॑दर॒त्नौ प्राञ्च्यु॒परि॑ष्टा॒ल्लोमा॑नि ।
प्र॒त्यञ्च्य॒धस्ता॑त् ॥4॥
स्रुग्घ्ये॑षा ।
प्रा॒णो वै स्रु॒वः ।
जु॒हूर्दक्षि॑णो॒ हस्तः॑ ।
उ॒प॒भृत्स॒व्यः ।
आ॒त्मा ध्रु॒वा ।
अन्नँ॑ स॒म्मार्ज॑नानि ।
मु॒ख॒तो वै प्रा॒णो॑ऽपा॒नो भू॒त्वा ।
आ॒त्मान॒मन्न॑म्प्र॒विश्य॑ ।
बा॒ह्य॒तस्त॒नुवँ॑ शुभयति ।
तस्मा॑त्स्रु॒वमे॒वाग्रे॒ सम्मा॑र्ष्टि ।
मु॒ख॒तो हि प्रा॒णो॑ऽपा॒नो भू॒त्वा ।
आ॒त्मान॒मन्न॑मावि॒शति॑ ।
तौ प्रा॑णापा॒नौ ।
अव्य॑र्धुकᳶ प्राणापा॒नाभ्या॑म्भवति ।
य ए॒वव्ँ वेद॑ ॥5॥
दि॒वश्शिल्प॒मव॑ततम् ।
पृ॒थि॒व्याᳵ क॒कुभि॑ श्रि॒तम् ।
तेन॑ व॒यँ स॒हस्र॑वल्शेन ।
स॒पत्न॑न्नाशयामसि॒ स्वाहेति॑ स्रुक्स॒म्मार्ज॑नान्य॒ग्नौ प्रह॑रति ।
आपो॒ वै द॒र्भाः ।
रू॒पमे॒वैषा॑मे॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे ।
अ॒नु॒ष्टुभ॒र्चा ।
आनु॑ष्टुभᳶ प्र॒जाप॑तिः ।
प्रा॒जा॒प॒त्यो वे॒दः ।
वे॒दस्याग्रँ॑ स्रुक्स॒म्मार्ज॑नानि ॥6॥
स्वेनै॒वैना॑नि॒ छन्द॑सा ।
स्वया॑ दे॒वत॑या॒ सम॑र्धयति ।
अथो॒ ऋग्वाव योषा॑ ।
द॒र्भो वृषा॑ ।
तन्मि॑थु॒नम् ।
मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय ।
प्रजा॑यते प्र॒जया॑ प॒शुभि॒र्यज॑मानः ।
तान्येके॒ वृथै॒वापा॑स्यन्ति ।
तत्तथा॒ न का॒र्य॑म् ।
आर॑ब्धस्य य॒ज्ञिय॑स्य॒ कर्म॑ण॒स्सवि॑दो॒हः ॥7॥
यद्ये॑नानि प॒शवो॑ऽभि॒तिष्ठे॑युः ।
न तत्प॒शुभ्य॒ᳵ कम् ।
अ॒द्भिर्मा॑र्जयि॒त्वोत्क॒रे न्य॑स्येत् ।
यद्वै य॒ज्ञिय॑स्य॒ कर्म॑णो॒ऽन्यत्राहु॑तीभ्यस्स॒न्तिष्ठ॑ते ।
उ॒त्क॒रो वाव तस्य॑ प्रति॒ष्ठा ।
ए॒ताँ हि तस्मै॑ प्रति॒ष्ठान्दे॒वास्स॒मभ॑रन् ।
यद॒द्भिर्मा॒र्जय॑ति ।
तेन॑ शा॒न्तम् ।
यदु॑त्क॒रे न्य॒स्यति॑ ।
प्र॒ति॒ष्ठामे॒वैना॑नि॒ तद्ग॑मयति ॥8॥
प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ।
अथो॑ स्त॒म्बस्य॒ वा ए॒तद्रू॒पम् ।
यत्स्रु॑क्स॒म्मार्ज॑नानि ।
स्त॒म्ब॒शो वा ओष॑धयः ।
तासा॑ञ्जरत्क॒क्षे प॒शवो॒ न र॑मन्ते ।
अप्रि॑यो॒ ह्ये॑षाञ्जरत्क॒क्षः ।
याव॑दप्रियो ह॒ वै ज॑रत्क॒क्षᳶ प॑शू॒नाम् ।
ताव॑दप्रियᳶ पशू॒नाम्भ॑वति ।
यस्यै॒तान्य॒न्यत्रा॒ग्नेर्दध॑ति ।
न॒व॒दाव्या॑सु॒ वा ओष॑धीषु प॒शवो॑ रमन्ते ॥9॥
न॒व॒दा॒वो ह्ये॑षाम्प्रि॒यः ।
याव॑त्प्रियो ह॒ वै न॑वदा॒वᳶ प॑शू॒नाम् ।
ताव॑त्प्रियᳶ पशू॒नाम्भ॑वति ।
यस्यै॒तान्य॒ग्नौ प्र॒हर॑न्ति ।
तस्मा॑दे॒तान्य॒ग्नावे॒व प्रह॑रेत् ।
य॒त॒रस्मि॑न्त्सम्मृ॒ज्यात् ।
प॒शू॒नान्धृत्यै॑ ।
यो भू॒ताना॒मधि॑पतिः ।
रु॒द्रस्त॑न्तिच॒रो वृषा॑ ।
प॒शून॒स्माक॒म्मा हिँ॑सीः ।
ए॒तद॑स्तु हु॒तन्तव॒ स्वाहेत्य॑ग्निस॒म्मार्ज॑नान्य॒ग्नौ प्रह॑रति ।
ए॒षा वा ए॒तेषाय्ँ॒योनिः॑ ।
ए॒षा प्र॑ति॒ष्ठा ।
स्वामे॒वैना॑नि॒ योनि॑म् ।
स्वाम्प्र॑ति॒ष्ठाङ्ग॑मयति ।
प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ॥10॥
अय॑ज्ञो॒ वा ए॒षः ।
यो॑ऽप॒त्नीकः॑ ।
न प्र॒जाᳶ प्रजा॑येरन् ।
पत्न्यन्वा॑स्ते ।
य॒ज्ञमे॒वाकः॑ ।
प्र॒जाना॑म्प्र॒जन॑नाय ।
यत्तिष्ठ॑न्ती स॒न्नह्ये॑त ।
प्रि॒यं ज्ञा॒तिँ रु॑न्ध्यात् ।
आसी॑ना॒ सन्न॑ह्यते ।
आसी॑ना॒ ह्ये॑षा वी॒र्य॑ङ्क॒रोति॑ ॥11॥
यत्प॒श्चात्प्राच्य॒न्वासी॑त ।
अ॒नया॑ स॒मद॑न्दधीत ।
दे॒वाना॒म्पत्नि॑या स॒मद॑न्दधीत ।
देशा॑द्दक्षिण॒त उदी॒च्यन्वा॑स्ते ।
आ॒त्मनो॑ गोपी॒थाय॑ ।
आ॒शासा॑ना सौमन॒समित्या॑ह ।
मेध्या॑मे॒वैना॒ङ्केव॑लीङ्कृ॒त्वा ।
आ॒शिषा॒ सम॑र्धयति ।
अ॒ग्नेरनु॑व्रता भू॒त्वा सन्न॑ह्ये सुकृ॒ताय॒ कमित्या॑ह ।
ए॒तद्वै पत्नि॑यै व्रतोप॒नय॑नम् ॥12॥
तेनै॒वैना॑व्व्ँर॒तमुप॑नयति ।
तस्मा॑दाहुः ।
यश्चै॒वव्ँ वेद॒ यश्च॒ न ।
योक्त्र॑मे॒व यु॑ते ।
यम॒न्वास्ते॑ ।
तस्या॒मुष्मिल्ँ॑ लो॒के भ॑व॒तीति॒ योक्त्रे॑ण ।
यद्योक्त्र॑म् ।
स योगः॑ ।
यदास्ते॑ ।
स क्षेमः॑ ॥13॥
यो॒ग॒क्षे॒मस्य॒ कॢप्त्यै॑ ।
यु॒क्तङ्क्रि॑याता आ॒शीᳵ कामे॑ युज्याता॒ इति॑ ।
आ॒शिष॒स्समृ॑द्ध्यै ।
ग्र॒न्थिङ्ग्र॑थ्नाति ।
आ॒शिष॑ ए॒वास्या॒म्परि॑गृह्णाति ।
पुमा॒न्वै ग्र॒न्थिः ।
स्त्री पत्नी॑ ।
तन्मि॑थु॒नम् ।
मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय ।
प्रजा॑यते प्र॒जया॑ प॒शुभि॒र्यज॑मानः ॥14॥
अथो॑ अ॒र्धो वा ए॒ष आ॒त्मनः॑ ।
यत्पत्नी॑ ।
य॒ज्ञस्य॒ धृत्या॒ अशि॑थिलम्भावाय ।
सु॒प्र॒जस॑स्त्वा व॒यँ सु॒पत्नी॒रुप॑सेदि॒मेत्या॑ह ।
य॒ज्ञमे॒व तन्मि॑थु॒नीक॑रोति ।
ऊ॒नेऽति॑रिक्तन्धीयाता॒ इति॒ प्रजा॑त्यै ।
म॒ही॒नाम्पयो॒ऽस्योष॑धीनाँ॒ रस॒ इत्या॑ह ।
रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे ।
तस्य॒ तेऽक्षी॑यमाणस्य॒ निर्व॑पामि देवय॒ज्याया॒ इत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ॥15॥
घृ॒तञ्च॒ वै मधु॑ च प्र॒जाप॑तिरासीत् ।
यतो॒ मध्वा॑सीत् ।
तत॑ᳶ प्र॒जा अ॑सृजत ।
तस्मा॒न्मधु॑षि प्र॒जन॑नमिवास्ति ।
तस्मा॒न्मधु॑षा॒ न प्रच॑रन्ति ।
या॒तया॑म॒ हि ।
आज्ये॑न॒ प्रच॑रन्ति ।
य॒ज्ञो वा आज्य॑म् ।
य॒ज्ञेनै॒व य॒ज्ञम्प्रच॑र॒न्त्यया॑तयामत्वाय ।
पत्न्यवे॑क्षते ॥16॥
मि॒थु॒न॒त्वाय॒ प्रजा॑त्यै ।
यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ ।
मि॒थु॒नन्तत् ।
अथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्या॑न्वार॒म्भोऽन॑वच्छित्त्यै ।
अ॒मे॒ध्यव्ँवा ए॒तत्क॑रोति ।
यत्पत्न्य॒वेक्ष॑ते ।
गार्ह॑प॒त्येऽधि॑ श्रयति मेध्य॒त्वाय॑ ।
आ॒ह॒व॒नीय॑म॒भ्युद्द्र॑वति ।
य॒ज्ञस्य॒ सन्त॑त्यै ।
तेजो॑ऽसि॒ तेजोऽनु॒प्रेहीत्या॑ह ॥17॥
तेजो॒ वा अ॒ग्निः ।
तेज॒ आज्य॑म् ।
तेज॑सै॒व तेज॒स्सम॑र्धयति ।
अ॒ग्निस्ते॒ तेजो॒ मा विनै॒दित्या॒हाहिँ॑सायै ।
स्फ्यस्य॒ वर्त्म॑न्त्सादयति ।
य॒ज्ञस्य॒ सन्त॑त्यै ।
अ॒ग्नेर्जि॒ह्वाऽसि॑ सु॒भूर्दे॒वाना॒मित्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भ॒वेत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ॥18॥
तद्वा अत॑ᳶ प॒वित्रा॑भ्यामे॒वोत्पु॑नाति ।
यज॑मानो॒ वा आज्य॑म् ।
प्रा॒णा॒पा॒नौ प॒वित्रे॑ ।
यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति ।
पु॒न॒रा॒हार॑म् ।
ए॒वमि॑व॒ हि प्रा॑णापा॒नौ स॒ञ्चर॑तः ।
शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॒ऽसीत्या॑ह ।
रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे ।
त्रिर्यजु॑षा ।
त्रय॑ इ॒मे लो॒काः ॥19 ॥
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।
त्रिः ।
त्र्या॑वृ॒द्धि य॒ज्ञः ।
अथो॑ मेध्य॒त्वाय॑ ।
अथाज्य॑वतीभ्याम॒पः ।
रू॒पमे॒वासा॑मे॒तद्वर्ण॑न्दधाति ।
अपि॒ वा उ॒ताहुः॑ ।
यथा॑ ह॒ वै योषा॑ सु॒वर्णँ॒ हिर॑ण्यम्पेश॒लम्बिभ्र॑ती रू॒पाण्यास्ते॑ ।
ए॒वमे॒ता ए॒तर्हीति॑ ।
आपो॒ वै सर्वा दे॒वताः॑ ॥20॥
ए॒षा हि विश्वे॑षान्दे॒वाना॑न्त॒नूः ।
यदाज्य॑म् ।
तत्रो॒भयो॑र्मीमाँ॒सा ।
जा॒मि स्यात् ।
यद्यजु॒षाऽऽज्यय्ँ॒यजु॑षा॒ऽप उ॑त्पुनी॒यात् ।
छन्द॑सा॒ऽप उत्पु॑ना॒त्यजा॑मित्वाय ।
अथो॑ मिथुन॒त्वाय॑ ।
सा॒वि॒त्रि॒यर्चा ।
स॒वि॒तृप्र॑सूतम्मे॒ कर्मा॑स॒दिति॑ ।
स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति ।
प॒च्छो गा॑यत्रि॒या त्रि॑ष्षमृद्ध॒त्वाय॑ ।
अ॒द्भिरे॒वौष॑धी॒स्सन्न॑यति ।
ओष॑धीभिᳶ प॒शून् ।
प॒शुभि॒र्यज॑मानम् ।
शु॒क्रन्त्वा॑ शु॒क्राया॒ञ्ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒ऽर्चिषीत्या॑ह सर्व॒त्वाय॑ ।
पर्या॑प्त्या॒ अन॑न्तरायाय ॥21॥
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
स ए॒तमिन्द्र॒ आज्य॑स्यावका॒शम॑पश्यत् ।
तेनावै॑क्षत ।
ततो॑ दे॒वा अभ॑वन् ।
पराऽसु॑राः ।
य ए॒वव्ँवि॒द्वानाज्य॑म॒वेक्ष॑ते ।
भव॑त्या॒त्मना॑ ।
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
यदाज्ये॑ना॒न्यानि॑ ह॒वीँष्य॑भिघा॒रय॑ति ॥22॥
अथ॒ केनाज्य॒मिति॑ ।
स॒त्येनेति॑ ब्रूयात् ।
चक्षु॒र्वै स॒त्यम् ।
स॒त्येनै॒वैन॑द॒भि घा॑रयति ।
ई॒श्व॒रो वा ए॒षो॑ऽन्धो भवि॑तोः ।
यश्चक्षु॒षाऽऽज्य॑म॒वेक्ष॑ते ।
नि॒मील्यावे॑क्षेत ।
दा॒धारा॒त्मञ्चक्षुः॑ ।
अ॒भ्याज्य॑ङ्घारयति ।
आज्य॑ङ्गृह्णाति ॥23॥
छन्दाँ॑सि॒ वा आज्य॑म् ।
छन्दाँ॑स्ये॒व प्री॑णाति ।
च॒तुर्जु॒ह्वाङ्गृ॑ह्णाति ।
चतु॑ष्पादᳶ प॒शवः॑ ।
प॒शूने॒वाव॑रुन्धे ।
अ॒ष्टावु॑प॒भृति॑ ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रᳶ प्रा॒णः ।
प्रा॒णमे॒व प॒शुषु॑ दधाति ।
च॒तुर्ध्रु॒वाया॑म् ॥24 ॥
चतु॑ष्पादᳶ प॒शवः॑ ।
प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑तिष्ठति ।
य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः ।
भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् ।
च॒तुर्जु॒ह्वाङ्गृ॒ह्णन्भूयो॑ गृह्णीयात् ।
अ॒ष्टावु॑प॒भृति॑ गृ॒ह्णन्कनी॑यः ।
यज॑मानायै॒व भ्रातृ॑व्य॒मुप॑स्तिङ्करोति ।
गौर्वै स्रुचः॑ ।
च॒तुर्जु॒ह्वाङ्गृ॑ह्णाति ।
तस्मा॒च्चतु॑ष्पदी ॥25॥
अ॒ष्टावु॑प॒भृति॑ ।
तस्मा॑द॒ष्टाश॑फा ।
च॒तुर्ध्रु॒वाया॑म् ।
तस्मा॒च्चतु॑स्स्तना ।
गामे॒व तत्सँस्क॑रोति ।
सास्मै॒ सँस्कृ॒तेष॒मूर्ज॑न्दुहे ।
यज्जु॒ह्वाङ्गृ॒ह्णाति॑ ।
प्र॒या॒जेभ्य॒स्तत् ।
यदु॑प॒भृति॑ ।
प्र॒या॒जा॒नू॒या॒जेभ्य॒स्तत् ।
सर्व॑स्मै॒ वा ए॒तद्य॒ज्ञाय॑ गृह्यते ।
य॒द्ध्रु॒वाया॒माज्य॑म् ॥26॥
आपो॑ देवीरग्रेपुवो अग्रेगुव॒ इत्या॑ह ।
रू॒पमे॒वासा॑मे॒तन्म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।
अग्र॑ इ॒मय्ँ य॒ज्ञन्न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒मित्या॑ह ।
अग्र॑ ए॒व य॒ज्ञन्न॑यन्ति ।
अग्रे॑ य॒ज्ञप॑तिम् ।
यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वव्ँ वृत्र॒तूर्य॒ इत्या॑ह ।
वृ॒त्रँ ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे ।
आपो॒ हेन्द्रव्ँ॑वव्रिरे ।
सं॒ज्ञामे॒वासा॑मे॒तत्सामा॑नव्ँ॒ व्याच॑ष्टे ।
प्रोक्षि॑ता॒स्स्थेत्या॑ह ॥27॥
तेनाप॒ᳶ प्रोक्षि॑ताः ।
अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत ।
कृष्णो॑ रू॒पङ्कृ॒त्वा ।
स वन॒स्पती॒न्प्रावि॑शत् ।
कृष्णो॑ऽस्याखरे॒ष्ठो॑ऽग्नये॑ त्वा॒ स्वाहेत्या॑ह ।
अ॒ग्नय॑ ए॒वैन॒ञ्जुष्ट॑ङ्करोति ।
अथो॑ अ॒ग्नेरे॒व मेध॒मव॑ रुन्धे ।
वेदि॑रसि ब॒र्हिषे॑ त्वा॒ स्वाहेत्या॑ह ।
प्र॒जा वै ब॒र्हिः ।
पृ॒थि॒वी वेदिः॑ ॥28॥
प्र॒जा ए॒व पृ॑थि॒व्याम्प्रति॑ष्ठापयति ।
ब॒र्हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहेत्या॑ह ।
प्र॒जा वै ब॒र्हिः ।
यज॑मान॒स्स्रुचः॑ ।
यज॑मानमे॒व प्र॒जासु॒ प्रति॑ष्ठापयति ।
दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेति॑ ब॒र्हिरा॒साद्य॒ प्रोक्ष॑ति ।
ए॒भ्य ए॒वैन॑ल्लो॒केभ्य॒ᳶ प्रोक्ष॑ति ।
अथ॒ तत॑स्स॒ह स्रु॒चा पु॒रस्ता॑त्प्र॒त्यञ्च॑ङ्ग्र॒न्थिम्प्रत्यु॑क्षति ।
प्र॒जा वै ब॒र्हिः ।
यथा॒ सूत्यै॑ का॒ल आप॑ᳶ पु॒रस्ता॒द्यन्ति॑ ॥29॥
ता॒दृगे॒व तत् ।
स्व॒धा पि॒तृभ्य॒ इत्या॑ह ।
स्व॒धा॒का॒रो हि पि॑तृ॒णाम् ।
ऊर्ग्भ॑व बर्हि॒षद्भ्य॒ इति॒ दक्षि॑णायै॒ श्रोणे॒रोत्त॑रस्यै॒ निन॑यति॒ सन्त॑त्यै ।
मासा॒ वै पि॒तरो॑ बर्हि॒षदः॑ ।
मासा॑ने॒व प्री॑णाति ।
मासा॒ वा ओष॑धीर्व॒र्धय॑न्ति ।
मासा॑ᳶ पचन्ति॒ समृ॑द्ध्यै ।
अन॑तिस्कन्दन् ह प॒र्जन्यो॑ वर्षति ।
यत्रै॒तदे॒वङ्क्रि॒यते॑ ॥30॥
ऊ॒र्जा पृ॑थि॒वीङ्ग॑च्छ॒तेत्या॑ह ।
पृ॒थि॒व्यामे॒वोर्ज॑न्दधाति ।
तस्मा॑त्पृथि॒व्या ऊ॒र्जा भु॑ञ्जते ।
ग्र॒न्थिव्ँ विस्रँ॑सयति ।
प्रज॑नयत्ये॒व तत् ।
ऊ॒र्ध्वम्प्राञ्च॒मुद्गू॑ढम्प्र॒त्यञ्च॒माय॑च्छति ।
तस्मा॑त्प्रा॒चीनँ॒ रेतो॑ धीयते ।
प्र॒तीची॑ᳶ प्र॒जा जा॑यन्ते ।
विष्णो॒स्स्तूपो॒ऽसीत्या॑ह ।
य॒ज्ञो वै विष्णुः॑ ॥31॥
य॒ज्ञस्य॒ धृत्यै॑ ।
पु॒रस्ता॑त्प्रस्त॒रङ्गृ॑ह्णाति ।
मुख्य॑मे॒वैन॑ङ्करोति ।
इय॑न्तङ्गृह्णाति ।
प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तम् ।
इय॑न्तङ्गृह्णाति ।
य॒ज्ञ॒प॒रुषा॒ सम्मि॑तम् ।
इय॑न्तङ्गृह्णाति ।
ए॒ताव॒द्वै पुरु॑षे वी॒र्य॑म् ।
वी॒र्य॑सम्मितम् ॥32॥
अप॑रिमितङ्गृह्णाति ।
अप॑रिमित॒स्याव॑रुद्ध्यै ।
तस्मि॑न्प॒वित्रे॒ अपि॑सृजति ।
यज॑मानो॒ वै प्र॑स्त॒रः ।
प्रा॒णा॒पा॒नौ प॒वित्रे॑ ।
यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति ।
ऊर्णा॑म्रदसन्त्वा स्तृणा॒मीत्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
स्वा॒स॒स्थन्दे॒वेभ्य॒ इत्या॑ह ।
दे॒वेभ्य॑ ए॒वैन॑त्स्वास॒स्थङ्क॑रोति ॥33॥
ब॒र्हिस्स्तृ॑णाति ।
प्र॒जा वै ब॒र्हिः ।
पृ॒थि॒वी वेदिः॑ ।
प्र॒जा ए॒व पृ॑थि॒व्याम्प्रति॑ष्ठापयति ।
अन॑तिदृश्ञँ स्तृणाति ।
प्र॒जयै॒वैन॑म्प॒शुभि॒रन॑तिदृश्ञङ्करोति ।
धा॒रय॑न्प्रस्त॒रम्प॑रि॒धीन्परि॑दधाति ।
यज॑मानो॒ वै प्र॑स्त॒रः ।
यज॑मान ए॒व तत्स्व॒यम्प॑रि॒धीन्परि॑दधाति ।
ग॒न्ध॒र्वो॑ऽसि वि॒श्वाव॑सु॒रित्या॑ह ॥34॥
विश्व॑मे॒वायु॒र्यज॑माने दधाति ।
इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑ण॒ इत्या॑ह ।
इ॒न्द्रि॒यमे॒व यज॑माने दधाति ।
मि॒त्रावरु॑णौ त्वोत्तर॒तᳶ परि॑धत्ता॒मित्या॑ह ।
प्रा॒णा॒पा॒नौ मि॒त्रावरु॑णौ ।
प्रा॒णा॒पा॒नावे॒वास्मि॑न्दधाति ।
सूर्य॑स्त्वा पु॒रस्ता॑त्पा॒त्वित्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ।
कस्या॑श्चिद॒भिश॑स्त्या॒ इत्या॑ह ।
अप॑रिमितादे॒वैन॑म्पाति ॥35॥
वी॒तिहो॑त्रन्त्वा कव॒ इत्या॑ह ।
अ॒ग्निमे॒व हो॒त्रेण॒ सम॑र्धयति ।
द्यु॒मन्तँ॒ समि॑धीम॒हीत्या॑ह॒ समि॑द्ध्यै ।
अग्ने॑ बृ॒हन्त॑मध्व॒र इत्या॑ह॒ वृद्ध्यै॑ ।
वि॒शो य॒न्त्रे स्थ॒ इत्या॑ह ।
वि॒शाय्ँयत्यै॑ ।
उ॒दी॒चीना॑ग्रे॒ निद॑धाति॒ प्रति॑ष्ठित्यै ।
वसू॑नाँ रु॒द्राणा॑मादि॒त्यानाँ॒ सद॑सि सी॒देत्या॑ह ।
दे॒वता॑नामे॒व सद॑ने प्रस्त॒रँ सा॑दयति ।
जु॒हूर॑सि घृ॒ताची॒ नाम्नेत्या॑ह ॥36॥
अ॒सौ वै जु॒हूः ।
अ॒न्तरि॑क्षमुप॒भृत् ।
पृ॒थि॒वी ध्रु॒वा ।
तासा॑मे॒तदे॒व प्रि॒यन्नाम॑ ।
यद्घृ॒ताचीति॑ ।
यद्घृ॒ताचीत्याह॑ ।
प्रि॒येणै॒वैना॒ नाम्ना॑ सादयति ।
ए॒ता अ॑सदन्त्सुकृ॒तस्य॑ लो॒क इत्या॑ह ।
स॒त्यव्ँ वै सु॑कृ॒तस्य॑ लो॒कः ।
स॒त्य ए॒वैना॑स्सुकृ॒तस्य॑ लो॒के सा॑दयति ।
ता वि॑ष्णो पा॒हीत्या॑ह ।
य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञस्य॒ धृत्यै॑ ।
पा॒हि य॒ज्ञम्पा॒हि य॒ज्ञप॑तिम्पा॒हि माय्ँय॑ज्ञ॒निय॒मित्या॑ह ।
य॒ज्ञाय॒ यज॑मानाया॒त्मने॑ ।
तेभ्य॑ ए॒वाशिष॒माशा॒स्तेऽना॑र्त्यै ॥37॥
अ॒ग्निना॒ वै होत्रा॑ ।
दे॒वा असु॑रान॒भ्य॑भवन् ।
अ॒ग्नये॑ समि॒ध्यमा॑ना॒यानु॑ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै ।
एक॑विँशतिमिध्मदा॒रूणि॑ भवन्ति ।
ए॒क॒विँ॒शो वै पुरु॑षः ।
पुरु॑ष॒स्याप्त्यै॑ ।
पञ्च॑दशेध्मदा॒रूण्य॒भ्या द॑धाति ।
पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः ।
अ॒र्ध॒मा॒स॒शस्सव्ँ॑वत्स॒र आ॑प्यते ।
त्रीन्प॑रि॒धीन्परि॑दधाति ॥38॥
ऊ॒र्ध्वे स॒मिधा॒वाद॑धाति ।
अ॒नू॒या॒जेभ्य॑स्स॒मिध॒मति॑शिनष्टि ।
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तूने॒व प्री॑णाति ।
वे॒देनोप॑वाजयति ।
प्रा॒जा॒प॒त्यो वै वे॒दः ।
प्रा॒जा॒प॒त्यᳶ प्रा॒णः ।
यज॑मान आहव॒नीयः॑ ।
यज॑मान ए॒व प्रा॒णन्द॑धाति ॥39॥
त्रिरुप॑वाजयति ।
त्रयो॒ वै प्रा॒णाः ।
प्रा॒णाने॒वास्मि॑न्दधाति ।
वे॒देनो॑प॒यत्य॑ स्रु॒वेण॑ प्राजाप॒त्यमा॑घा॒रमाघा॑रयति ।
य॒ज्ञो वै प्र॒जाप॑तिः ।
य॒ज्ञमे॒व प्र॒जाप॑तिम्मुख॒त आर॑भते ।
अथो॑ प्र॒जाप॑ति॒स्सर्वा॑ दे॒वताः॑ ।
सर्वा॑ ए॒व दे॒वता॑ᳶ प्रीणाति ।
अ॒ग्निम॑ग्नी॒त्त्रिस्त्रि॒स्सम्मृ॒ड्ढीत्या॑ह ।
त्र्या॑वृ॒द्धि य॒ज्ञः ॥ 40॥
अथो॒ रक्ष॑सा॒मप॑हत्यै ।
प॒रि॒धीन्त्सम्मा॑र्ष्टि ।
पु॒नात्ये॒वैना॑न् ।
त्रिस्त्रि॒स्सम्मा॑र्ष्टि ।
त्र्या॑वृ॒द्धि य॒ज्ञः ।
अथो॑ मेध्य॒त्वाय॑ ।
अथो॑ ए॒ते वै दे॑वा॒श्वाः ।
दे॒वा॒श्वाने॒व तत्सम्मा॑र्ष्टि ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
आसी॑नो॒ऽन्यमा॑घा॒रमाघा॑रयति ॥41॥
तिष्ठ॑न्न॒न्यम् ।
यथाऽनो॑ वा॒ रथव्ँ॑वा यु॒ञ्ज्यात् ।
ए॒वमे॒व तद॑ध्व॒र्युर्य॒ज्ञय्ँ यु॑नक्ति ।
सु॒व॒र्गस्य॑ लो॒कस्या॒भ्यू॑ढ्यै ।
वह॑न्त्येनङ्ग्रा॒म्याᳶ प॒शवः॑ ।
य ए॒वव्ँ वेद॑ ।
भुव॑नमसि॒ विप्र॑थ॒स्वेत्या॑ह ।
य॒ज्ञो वै भुव॑नम् ।
य॒ज्ञ ए॒व यज॑मानम्प्र॒जया॑ प॒शुभि॑ᳶ प्रथयति ।
अग्ने॒ यष्ट॑रि॒दन्नम॒ इत्या॑ह ॥42॥
अ॒ग्निर्वै दे॒वानाय्ँ॒यष्टा॑ ।
य ए॒व दे॒वानाय्ँ॒यष्टा॑ ।
तस्मा॑ ए॒व नम॑स्करोति ।
जुह्वेह्य॒ग्निस्त्वा॑ ह्वयति देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒ इत्या॑ह ।
आ॒ग्ने॒यी वै जु॒हूः ।
सा॒वि॒त्र्यु॑प॒भृत् ।
ताभ्या॑मे॒वैने॒ प्रसू॑त॒ आद॑त्ते ।
अग्ना॑विष्णू॒ मा वा॒मव॑क्रमिष॒मित्या॑ह ।
अ॒ग्निᳶ पु॒रस्ता॑त् ।
विष्णु॑र्य॒ज्ञᳶ प॒श्चात् ॥43॥
ताभ्या॑मे॒व प्र॑ति॒प्रोच्या॒त्याक्रा॑मति ।
विजि॑हाथा॒म्मा मा॒ सन्ता॑प्त॒मित्या॒हाहिँ॑सायै ।
लो॒कम्मे॑ लोककृतौ कृणुत॒मित्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
विष्णो॒स्स्थान॑म॒सीत्या॑ह ।
य॒ज्ञो वै विष्णुः॑ ।
ए॒तत्खलु॒ वै दे॒वाना॒मप॑राजितमा॒यत॑नम् ।
यद्य॒ज्ञः ।
दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने तिष्ठति ।
इ॒त इन्द्रो॑ अकृणोद्वी॒र्या॑णीत्या॑ह ॥44॥
इ॒न्द्रि॒यमे॒व यज॑माने दधाति ।
स॒मा॒रभ्यो॒र्ध्वो अ॑ध्व॒रो दि॑वि॒स्पृश॒मित्या॑ह॒ वृद्ध्यै॑ ।
आ॒घा॒रमा॑घा॒र्यमा॑ण॒मनु॑समा॒रभ्य॑ ।
ए॒तस्मि॑न्का॒ले दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
सा॒क्षादे॒व यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति ।
अथो॒ समृ॑द्धेनै॒व य॒ज्ञेन॒ यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति ।
अह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒रित्या॒हाना॑र्त्यै ।
इन्द्रा॑वा॒न्त्स्वाहेत्या॑ह ।
इ॒न्द्रि॒यमे॒व यज॑माने दधाति ।
बृ॒हद्भा इत्या॑ह ॥45॥
सु॒व॒र्गो वै लो॒को बृ॒हद्भाः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः ।
भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् ।
प्रा॒ण आ॑घा॒रः ।
यत्सँ॑स्प॒र्शये॑त् ।
भ्रातृ॑व्येऽस्य प्रा॒णन्द॑ध्यात् ।
असँ॑स्पर्शयन्न॒त्याक्रा॑मति ।
यज॑मान ए॒व प्रा॒णन्द॑धाति ।
पा॒हि मा॑ऽग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भ॒जेत्या॑ह ॥46॥
अ॒ग्निर्वाव प॒वित्र॑म् ।
वृ॒जि॒नमनृ॑त॒न्दुश्च॑रितम् ।
ऋ॒जु॒क॒र्मँ स॒त्यँ सुच॑रितम् ।
अ॒ग्निरे॒वैनव्ँ॑ वृजि॒नादनृ॑ता॒द्दुश्च॑रितात्पाति ।
ऋ॒जु॒क॒र्मे स॒त्ये सुच॑रिते भजति ।
तस्मा॑दे॒वमाशा॑स्ते ।
आ॒त्मनो॑ गोपी॒थाय॑ ।
शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ ।
यदा॑घा॒रः ।
आ॒त्मा ध्रु॒वा ॥47॥
आ॒घा॒रमा॒घार्य॑ ध्रु॒वाँ सम॑नक्ति ।
आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिर॒ᳶ प्रति॑दधाति ।
द्विस्सम॑नक्ति ।
द्वौ हि प्रा॑णापा॒नौ ।
तदा॑हुः ।
त्रिरे॒व सम॑ञ्ज्यात् ।
त्रिधा॑तु॒ हि शिर॒ इति॑ ।
शिर॑ इवै॒तद्य॒ज्ञस्य॑ ।
अथो॒ त्रयो॒ वै प्रा॒णाः ।
प्रा॒णाने॒वास्मि॑न्दधाति ।
म॒खस्य॒ शिरो॑ऽसि॒ सञ्ज्योति॑षा॒ ज्योति॑रङ्क्ता॒मित्या॑ह ।
ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति ।
सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ॥48॥
धिष्णि॑या॒ वा ए॒ते न्यु॑प्यन्ते ।
यद्ब्र॒ह्मा ।
यद्धोता॑ ।
यद॑ध्व॒र्युः ।
यद॒ग्नीत् ।
यद्यज॑मानः ।
तान् यद॑न्तरे॒यात् ।
यज॑मानस्य प्रा॒णान्त्सङ्क॑र्षेत् ।
प्र॒मायु॑कस्स्यात् ।
पु॒रो॒डाश॑मप॒गृह्य॒ सञ्च॑रत्यध्व॒र्युः ॥49॥
यज॑मानायै॒व तल्लो॒कँ शिँ॑षति ।
नास्य॑ प्रा॒णान्त्सङ्क॑र्षति ।
न प्र॒मायु॑को भवति ।
पु॒रस्ता॑त्प्र॒त्यङ्ङासी॑नः ।
इडा॑या॒ इडा॒माद॑धाति ।
हस्त्याँ॒ होत्रे॑ ।
प॒शवो॒ वा इडा॑ ।
प॒शव॒ᳶ पुरु॑षः ।
प॒शुष्वे॒व प॒शून्प्रति॑ष्ठापयति ।
इडा॑यै॒ वा ए॒षा प्रजा॑तिः ॥50॥
ताम्प्रजा॑तिय्ँ॒यज॑मा॒नोऽनु॒प्रजा॑यते ।
द्विर॒ङ्गुला॑वनक्ति॒ पर्व॑णोः ।
द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।
स॒कृदुप॑स्तृणाति ।
द्विराद॑धाति ।
स॒कृद॒भिघा॑रयति ।
च॒तुस्सम्प॑द्यते ।
च॒त्वारि॒ वै प॒शोᳶ प्र॑ति॒ष्ठाना॑नि ।
यावा॑ने॒व प॒शुः ।
तमुप॑ह्वयते ॥51॥
मुख॑मिव॒ प्रत्युप॑ह्वयेत ।
स॒म्मु॒खाने॒व प॒शूनुप॑ह्वयते ।
प॒शवो॒ वा इडा॑ ।
तस्मा॒त्साऽन्वा॒रभ्या॑ ।
अ॒ध्व॒र्युणा॑ च॒ यज॑मानेन च ।
उप॑हूतᳶ पशु॒मान॑सा॒नीत्या॑ह ।
उप॒ ह्ये॑नौ॒ ह्वय॑ते॒ होता॑ ।
इडा॑यै दे॒वता॑नामुपह॒वे ।
उप॑हूतᳶ पशु॒मान्भ॑वति ।
य ए॒वव्ँ वेद॑ ॥52॥
याव्ँ वै हस्त्या॒मिडा॑मा॒दधा॑ति ।
वा॒चस्सा भा॑ग॒धेय॑म् ।
यामु॑प॒ह्वय॑ते ।
प्रा॒णानाँ॒ सा ।
वाच॑ञ्चै॒व प्रा॒णाँश्चाव॑रुन्धे ।
अथ॒ वा ए॒तर्ह्युप॑हूताया॒मिडा॑याम् ।
पु॒रो॒डाश॑स्यै॒व ब॑र्हि॒षदो॑ मीमाँ॒सा ।
यज॑मानन्दे॒वा अ॑ब्रुवन् ।
ह॒विर्नो॒ निर्व॒पेति॑ ।
नाहम॑भा॒गो निर्व॑प्स्या॒मीत्य॑ब्रवीत् ॥53॥
न मया॑ऽभा॒गयाऽनु॑वक्ष्य॒थेति॒ वाग॑ब्रवीत् ।
नाहम॑भा॒गा पु॑रोनुवा॒क्या॑ भविष्या॒मीति॑ पुरोनुवा॒क्या॑ ।
नाहम॑भा॒गा या॒ज्या॑ भविष्या॒मीति॑ या॒ज्या॑ ।
न मया॑ऽभा॒गेन॒ वष॑ट्करिष्य॒थेति॑ वषट्का॒रः ।
यद्य॑जमानभा॒गन्नि॒धाय॑ पुरो॒डाश॑म्बर्हि॒षद॑ङ्क॒रोति॑ ।
ताने॒व तद्भा॒गिन॑ᳵ करोति ।
च॒तु॒र्धा क॑रोति ।
चत॑स्रो॒ दिशः॑ ।
दि॒क्ष्वे॑व प्रति॑तिष्ठति ।
ब॒र्हि॒षद॑ङ्करोति ॥54॥
यज॑मानो॒ वै पु॑रो॒डाशः॑ ।
प्र॒जा ब॒र्हिः ।
यज॑मानमे॒व प्र॒जासु॒ प्रति॑ष्ठापयति ।
तस्मा॑द॒स्थ्नाऽन्याᳶ प्र॒जाᳶ प्र॑ति॒तिष्ठ॑न्ति ।
माँ॒सेना॒न्याः ।
अथो॒ खल्वा॑हुः ।
दक्षि॑णा॒ वा ए॒ता ह॑विर्य॒ज्ञस्या॑न्तर्वे॒द्यव॑रुध्यन्ते ।
यत्पु॑रो॒डाश॑म्बर्हि॒षद॑ङ्क॒रोतीति॑ ।
च॒तु॒र्धा क॑रोति ।
च॒त्वारो॒ ह्ये॑ते ह॑विर्य॒ज्ञस्य॒र्त्विजः॑ ॥55॥
ब्र॒ह्मा होता॑ऽध्व॒र्युर॒ग्नीत् ।
तम॒भिमृ॑शेत् ।
इ॒दम्ब्र॒ह्मणः॑ ।
इ॒दँ होतुः॑ ।
इ॒दम॑ध्व॒र्योः ।
इ॒दम॒ग्नीध॒ इति॑ ।
यथै॒वादस्सौ॒म्ये॑ऽध्व॒रे ।
आ॒देश॑मृ॒त्विग्भ्यो॒ दक्षि॑णा नी॒यन्ते॑ ।
ता॒दृगे॒व तत् ।
अ॒ग्नीधे॑ प्रथ॒मायाद॑धाति ॥56॥
अ॒ग्निमु॑खा॒ ह्यृद्धिः॑ ।
अ॒ग्निमु॑खामे॒वर्द्धिय्ँ॒यज॑मान ऋध्नोति ।
स॒कृदु॑प॒स्तीर्य॒ द्विरा॒दध॑त् ।
उ॒प॒स्तीर्य॒ द्विर॒भिघा॑रयति ।
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तूने॒व प्री॑णाति ।
वे॒देन॑ ब्र॒ह्मणे॑ ब्रह्मभा॒गम्परि॑हरति ।
प्रा॒जा॒प॒त्यो वै वे॒दः ।
प्रा॒जा॒प॒त्यो ब्र॒ह्मा ॥57॥
स॒वि॒ता य॒ज्ञस्य॒ प्रसू॑त्यै ।
अथ॒ काम॑म॒न्येन॑ ।
ततो॒ होत्रे॑ ।
मध्यव्ँ॒वा ए॒तद्य॒ज्ञस्य॑ ।
यद्धोता॑ ।
म॒ध्य॒त ए॒व य॒ज्ञम्प्री॑णाति ।
अथा॑ध्व॒र्यवे॑ ।
प्र॒ति॒ष्ठा वा ए॒षा य॒ज्ञस्य॑ ।
यद॑ध्व॒र्युः ।
तस्मा॑द्धविर्य॒ज्ञस्यै॒तामे॒वावृत॒मनु॑ ॥ 58॥
अ॒न्या दक्षि॑णा नीयन्ते ।
य॒ज्ञस्य॒ प्रति॑ष्ठित्यै ।
अ॒ग्निम॑ग्नीत्स॒कृत्स॑कृ॒त्सम्मृ॒ड्ढीत्या॑ह ।
परा॑ङिव॒ ह्ये॑तर्हि॑ य॒ज्ञः ।
इ॒षि॒ता दैव्या॒ होता॑र॒ इत्या॑ह ।
इ॒षि॒तँ हि कर्म॑ क्रि॒यते॑ ।
भ॒द्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षस्सूक्तवा॒काय॑ सू॒क्ता ब्रू॒हीत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
स्व॒गा दैव्या॒ होतृ॑भ्य॒ इत्या॑ह ।
य॒ज्ञमे॒व तत्स्व॒गा क॑रोति ।
स्व॒स्तिर्मानु॑षेभ्य॒ इत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
शय्ँ॒योर्ब्रू॒हीत्या॑ह ।
शय्ँ॒युमे॒व बा॑र्हस्प॒त्यम्भा॑ग॒धेये॑न॒ सम॑र्धयति ॥59॥
अथ॒ स्रुचा॑वनु॒ष्टुग्भ्याव्ँ॒वाज॑वतीभ्याव्ँ॒ व्यू॑हति ।
प्र॒ति॒ष्ठा वा अ॑नु॒ष्टुक् ।
अन्नव्ँ॒वाज॒ᳶ प्रति॑ष्ठित्यै ।
अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
प्राची॑ञ्जु॒हूमू॑हति ।
जा॒ताने॒व भ्रातृ॑व्या॒न्प्रणु॑दते ।
प्र॒तीची॑मुप॒भृत॑म् ।
ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते ।
सविषू॑च ए॒वापोह्य॑ स॒पत्ना॒न्यज॑मानः ।
अ॒स्मिल्ँ लो॒के प्रति॑तिष्ठति ॥60॥
द्वाभ्या॑म् ।
द्विप्र॑तिष्ठो॒ हि ।
वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वाऽऽदि॒त्येभ्य॒स्त्वेत्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
स्रु॒क्षु प्र॑स्त॒रम॑नक्ति ।
इ॒मे वै लो॒कास्स्रुचः॑ ।
यज॑मानᳶ प्रस्त॒रः ।
यज॑मानमे॒व तेज॑साऽनक्ति ।
त्रे॒धाऽन॑क्ति ।
त्रय॑ इ॒मे लो॒काः ॥61॥
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॑ऽनक्ति ।
अ॒भि॒पू॒र्वम॑नक्ति ।
अ॒भि॒पू॒र्वमे॒व यज॑मान॒न्तेज॑साऽनक्ति ।
अ॒क्तँ रिहा॑णा॒ इत्या॑ह ।
तेजो॒ वा आज्य॑म् ।
यज॑मानᳶ प्रस्त॒रः ।
यज॑मानमे॒व तेज॑साऽनक्ति ।
वि॒यन्तु॒ वय॒ इत्या॑ह ।
वय॑ ए॒वैन॑ङ्कृ॒त्वा ।
सु॒व॒र्गल्ँ लो॒कङ्ग॑मयति ॥62॥
प्र॒जाय्ँ योनि॒म्मा निर्मृ॑क्ष॒मित्या॑ह ।
प्र॒जायै॑ गोपी॒थाय॑ ।
आप्या॑यन्ता॒माप॒ ओष॑धय॒ इत्या॑ह ।
आप॑ ए॒वौष॑धी॒राप्या॑ययति ।
म॒रुता॒म्पृष॑तय॒स्स्थेत्या॑ह ।
म॒रुतो॒ वै वृष्ट्या॑ ईशते ।
वृष्टि॑मे॒वाव॑रुन्धे ।
दिव॑ङ्गच्छ॒ ततो॑ नो॒ वृष्टि॒मेर॒येत्या॑ह ।
वृष्टि॒र्वै द्यौः ।
वृष्टि॑मे॒वाव॑रुन्धे ॥ 63॥
याव॒द्वा अ॑ध्व॒र्युᳶ प्र॑स्त॒रम्प्र॒हर॑ति ।
ताव॑द॒स्यायु॑र्मीयते ।
आ॒यु॒ष्पा अ॑ग्ने॒ऽस्यायु॑र्मे पा॒हीत्या॑ह ।
आयु॑रे॒वात्मन्ध॑त्ते ।
याव॒द्वा अ॑ध्व॒र्युᳶ प्र॑स्त॒रम्प्र॒हर॑ति ।
ताव॑दस्य॒ चक्षु॑र्मीयते ।
च॒क्षु॒ष्पा अ॑ग्नेऽसि॒ चक्षु॑र्मे पा॒हीत्या॑ह ।
चक्षु॑रे॒वात्मन्ध॑त्ते ।
ध्रु॒वाऽसीत्या॑ह॒ प्रति॑ष्ठित्यै ।
यम्प॑रि॒धिम्प॒र्यध॑त्था॒ इत्या॑ह ॥64॥
य॒था॒य॒जुरे॒वैतत् ।
अग्ने॑ देव प॒णिभि॑र्वी॒यमा॑ण॒ इत्या॑ह ।
अ॒ग्नय॑ ए॒वैन॒ञ्जुष्ट॑ङ्करोति ।
तन्त॑ ए॒तमनु॒ जोष॑म्भरा॒मीत्या॑ह ।
स॒जा॒ताने॒वास्मा॒ अनु॑कान्करोति ।
नेदे॒ष त्वद॑पचे॒तया॑ता॒ इत्या॒हानु॑ख्यात्यै ।
य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑त॒मित्या॑ह ।
भू॒मान॑मे॒वोपै॑ति ।
प॒रि॒धीन्प्रह॑रति ।
य॒ज्ञस्य॒ समि॑ष्ट्यै ॥65॥
स्रुचौ॒ सम्प्रस्रा॑वयति ।
यदे॒व तत्र॑ क्रू॒रम् ।
तत्तेन॑ शमयति ।
जु॒ह्वामु॑प॒भृत॑म् ।
य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः ।
भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् ।
यज॑मानायै॒व भ्रातृ॑व्य॒मुप॑स्तिङ्करोति ।
सँ॒स्रा॒वभा॑गा॒स्स्थेत्या॑ह ।
वस॑वो॒ वै रु॒द्रा आ॑दि॒त्यास्सँ॑स्रा॒वभा॑गाः ।
तेषा॒न्तद्भा॑ग॒धेय॑म् ॥66॥
ताने॒व तेन॑ प्रीणाति ।
वै॒श्व॒दे॒व्यर्चा ।
ए॒ते हि विश्वे॑ दे॒वाः ।
त्रि॒ष्टुग्भ॑वति ।
इ॒न्द्रि॒यव्ँ वै त्रि॒ष्टुक् ।
इ॒न्द्रि॒यमे॒व यज॑माने दधाति ।
अ॒ग्नेर्वा॒मप॑न्नगृहस्य॒ सद॑सि सादया॒मीत्या॑ह ।
इ॒यव्ँ वा अ॒ग्निरप॑न्नगृहः ।
अ॒स्या ए॒वैने॒ सद॑ने सादयति ।
सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑ धत्त॒मित्या॑ह ॥67॥
प्र॒जा वै प॒शव॑स्सु॒म्नम् ।
प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते ।
धु॒रि धु॒र्यौ॑ पात॒मित्या॑ह ।
जा॒या॒प॒त्योर्गो॑पी॒थाय॑ ।
अग्ने॑ऽदब्धायोऽशीततनो॒ इत्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
पा॒हि मा॒ऽद्य दि॒वᳶ पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒दित्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
अवि॑षन्नᳶ पि॒तुङ्कृ॑णु सु॒षदा॒ योनिँ॒ स्वाहेती॑ध्मसव्ँ॒ वृश्च॑नान्यन्वाहार्य॒पच॑नेऽभ्या॒धाय॑ फलीकरणहो॒मञ्जु॑होति ।
अति॑रिक्तानि॒ वा इ॑ध्मसव्ँ॒ वृश्च॑नानि ॥68॥
अति॑रिक्ताᳶ फली॒कर॑णाः ।
अति॑रिक्तमाज्योच्छेष॒णम् ।
अति॑रिक्त ए॒वाति॑रिक्तन्दधाति ।
अथो॒ अति॑रिक्तेनै॒वाति॑रिक्तमा॒प्त्वाऽव॑रुन्धे ।
वेदि॑र्दे॒वेभ्यो॒ निला॑यत ।
ताव्ँ वे॒देनान्व॑विन्दन् ।
वे॒देन॒ वेदिव्ँ॑विविदुᳶ पृथि॒वीम् ।
सा प॑प्रथे पृथि॒वी पार्थि॑वानि ।
गर्भ॑म्बिभर्ति॒ भुव॑नेष्व॒न्तः ।
ततो॑ य॒ज्ञो जा॑यते विश्व॒दानि॒रिति॑ पु॒रस्ता॑त्स्तम्बय॒जुषो॑ वे॒देन॒ वेदिँ॒ सम्मा॒र्ष्ट्यनु॑वित्त्यै ॥69॥
अथो॒ यद्वे॒दश्च॒ वेदि॑श्च॒ भव॑तः ।
मि॒थु॒न॒त्वाय॒ प्रजा॑त्यै ।
प्र॒जाप॑ते॒र्वा ए॒तानि॒ श्मश्रू॑णि ।
यद्वे॒दः ।
पत्नि॑या उ॒पस्थ॒ आस्य॑ति ।
मि॒थु॒नमे॒व क॑रोति ।
वि॒न्दते॑ प्र॒जाम् ।
वे॒दँ होताऽऽह॑व॒नीया॑त्स्तृ॒णन्ने॑ति ।
य॒ज्ञमे॒व तत्सन्त॑नो॒त्योत्त॑रस्मादर्धमा॒सात् ।
तँ सन्त॑त॒मुत्त॑रेऽर्धमा॒स आल॑भते ॥70॥
तङ्का॒लेका॑ल॒ आग॑ते यजते ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
स त्वा अ॑ध्व॒र्युस्स्या॑त् ।
यो यतो॑ य॒ज्ञम्प्र॑यु॒ङ्क्ते ।
तदे॑नम्प्रतिष्ठा॒पय॒तीति॑ ।
वाता॒द्वा अ॑ध्व॒र्युर्य॒ज्ञम्प्रयु॑ङ्क्ते ।
देवा॑ गातुविदो गा॒तुव्ँ वि॒त्वा गा॒तुमि॒तेत्या॑ह ।
यत॑ ए॒व य॒ज्ञम्प्र॑यु॒ङ्क्ते ।
तदे॑न॒म्प्रति॑ष्ठापयति ।
प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ॥71॥
यो वा अय॑थादेवतय्ँ य॒ज्ञमु॑प॒चर॑ति ।
आ दे॒वता॑भ्यो वृश्च्यते ।
पापी॑यान्भवति ।
यो य॑थादेव॒तम् ।
न दे॒वता॑भ्य॒ आवृ॑श्च्यते ।
वसी॑यान्भवति ।
वा॒रु॒णो वै पाशः॑ ।
इ॒मव्ँ विष्या॑मि॒ वरु॑णस्य॒ पाश॒मित्या॑ह ।
व॒रु॒ण॒पा॒शादे॒वैना॑म्मुञ्चति ।
स॒वि॒तृप्र॑सूतो यथादेव॒तम् ॥ 72॥
न दे॒वता॑भ्य॒ आवृ॑श्च्यते ।
वसी॑यान्भवति ।
धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒क इत्या॑ह ।
अ॒ग्निर्वै धा॒ता ।
पुण्य॒ङ्कर्म॑ सुकृ॒तस्य॑ लो॒कः ।
अ॒ग्निरे॒वैना॑न्धा॒ता ।
पुण्ये॒ कर्म॑णि सुकृ॒तस्य॑ लो॒के द॑धाति ।
स्यो॒नम्मे॑ स॒ह पत्या॑ करो॒मीत्या॑ह ।
आ॒त्मन॑श्च॒ यज॑मानस्य॒ चाना॑त्यै स॒न्त्वाय॑ ।
समायु॑षा॒ सम्प्र॒जयेत्या॑ह ॥73॥
आ॒शिष॑मे॒वैतामाशा॑स्ते पूर्णपा॒त्रे ।
अ॒न्त॒तो॑ऽनु॒ष्टुभा॑ ।
चतु॑ष्प॒द्वा ए॒तच्छन्द॒ᳶ प्रति॑ष्ठित॒म्पत्नि॑यै पूर्णपा॒त्रे भ॑वति ।
अ॒स्मिल्ँ लो॒के प्रति॑तिष्ठा॒नीति॑ ।
अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ।
अथो॒ वाग्वा अ॑नु॒ष्टुक् ।
वाङ्मि॑थु॒नम् ।
आपो॒ रेत॑ᳶ प्र॒जन॑नम् ।
ए॒तस्मा॒द्वै मि॑थु॒नाद्वि॒द्योत॑मानस्स्त॒नय॑न्वर्षति ।
रेत॑स्सि॒ञ्चन्न् ॥74॥
प्र॒जाᳶ प्र॑ज॒नय॑न् ।
यद्वै य॒ज्ञस्य॒ ब्रह्म॑णा यु॒ज्यते॑ ।
ब्रह्म॑णा॒ वै तस्य॑ विमो॒कः ।
अ॒द्भिश्शान्तिः॑ ।
विमु॑क्तव्ँ॒वा ए॒तर्हि॒ योक्त्र॒म्ब्रह्म॑णा ।
आ॒दायै॑न॒त्पत्नी॑ स॒हाप उप॑गृह्णीते॒ शान्त्यै॑ ।
अ॒ञ्ज॒लौ पू॑र्णपा॒त्रमा न॑यति ।
रेत॑ ए॒वास्या॑म्प्र॒जान्द॑धाति ।
प्र॒जया॒ हि म॑नु॒ष्य॑ᳶ पू॒र्णः ।
मुखव्ँ॒विमृ॑ष्टे ।
अ॒व॒भृ॒थस्यै॒व रू॒पङ्कृ॒त्वोत्ति॑ष्ठति ॥75॥
प॒रि॒वे॒षो वा ए॒ष वन॒स्पती॑नाम् ।
यदु॑पवे॒षः ।
य ए॒वव्ँ वेद॑ ।
वि॒न्दते॑ परिवे॒ष्टार॑म् ।
तमु॑त्क॒रे ।
यन्दे॒वा म॑नु॒ष्ये॑षु ।
उ॒प॒वे॒षमधा॑रयन् ।
ये अ॒स्मदप॑ चेतसः ।
तान॒स्मभ्य॑मि॒हा कु॑रु ।
उप॑वे॒षोप॑विड्ढि नः ॥76॥
प्र॒जाम्पुष्टि॒मथो॒ धन॑म् ।
द्वि॒पदो॑ न॒श्चतु॑ष्पदः ।
ध्रु॒वानन॑पगान्कु॒र्विति॑ पु॒रस्ता॑त्प्र॒त्यञ्च॒मुप॑गूहति ।
तस्मा॑त्पु॒रस्ता॑त्प्र॒त्यञ्च॑श्शू॒द्रा अव॑स्यन्ति ।
स्थ॒वि॒म॒त उप॑गूहति ।
अप्र॑तिवादिन ए॒वैना॑न्कुरुते ।
धृष्टि॒र्वा उ॑पवे॒षः ।
शु॒चर्तो वज्रो॒ ब्रह्म॑णा॒ सँशि॑तः ।
योप॑वे॒षे शुक् ।
साऽमुमृ॑च्छतु॒ यन्द्वि॒ष्म इति॑ ॥77॥
अथा॑स्मै नाम॒ गृह्य॒ प्रह॑रति ।
निर॒मुन्नु॑द॒ ओक॑सः ।
स॒पत्नो॒ यᳶ पृ॑त॒न्यति॑ ।
नि॒र्बा॒ध्ये॑न ह॒विषा॑ ।
इन्द्र॑ एण॒म्परा॑शरीत् ।
इ॒हि ति॒स्रᳶ प॑रा॒वतः॑ ।
इ॒हि पञ्च॒ जनाँ॒ अति॑ ।
इ॒हि ति॒स्रोऽति॑ रोच॒नायाव॑त् ।
सूर्यो॒ अस॑द्दि॒वि ।
प॒र॒मान्त्वा॑ परा॒वत॑म् ॥78॥
इन्द्रो॑ नयतु वृत्र॒हा ।
यतो॒ न पुन॒राय॑सि ।
श॒श्व॒तीभ्य॒स्समा॑भ्य॒ इति॑ ।
त्रि॒वृद्वा ए॒ष वज्रो॒ ब्रह्म॑णा॒ सँशि॑तः ।
शु॒चैवैनव्ँ॑वि॒ध्वा ।
ए॒भ्यो लो॒केभ्यो॑ नि॒र्णुद्य॑ ।
वज्रे॑ण॒ ब्रह्म॑णा स्तृणुते ।
ह॒तो॑ऽसावव॑धिष्मा॒मुमित्या॑ह॒ स्तृत्यै॑ ।
यन्द्वि॒ष्यात्तन्ध्या॑येत् ।
शु॒चैवैन॑मर्पयति ॥79॥
ब्रह्म॑णे ब्राह्म॒णमाल॑भते ।
क्ष॒त्त्राय॑ राज॒न्य॑म् ।
म॒रुद्भ्यो॒ वैश्य॑म् ।
तप॑से शू॒द्रम् ।
तम॑से॒ तस्क॑रम् ।
नार॑काय वीर॒हण॑म् ।
पा॒प्मने॑ क्ली॒बम् ।
आ॒क्र॒याया॑यो॒गूम् ।
कामा॑य पुँश्च॒लूम् ।
अति॑क्रुष्टाय माग॒धम् ॥1॥
गी॒ताय॑ सू॒तम् ।
नृ॒त्ताय॑ शैलू॒षम् ।
धर्मा॑य सभाच॒रम् ।
न॒र्माय॑ रे॒भम् ।
नरि॑ष्ठायै भीम॒लम् ।
हसा॑य॒ कारि॑म् ।
आ॒न॒न्दाय॑ स्त्रीष॒खम् ।
प्रमुदे॑ कुमारीपु॒त्रम् ।
मे॒धायै॑ रथका॒रम् ।
धैर्या॑य॒ तक्षा॑णम् ॥2॥
श्रमा॑य कौला॒लम् ।
मा॒यायै॑ कार्मा॒रम् ।
रू॒पाय॑ मणिका॒रम् ।
शुभे॑ व॒पम् ।
श॒र॒व्या॑या इषुका॒रम् ।
हे॒त्यै ध॑न्वका॒रम् ।
कर्म॑णे ज्याका॒रम् ।
दि॒ष्टाय॑ रज्जुस॒र्गम् ।
मृ॒त्य॑वे मृग॒युम् ।
अन्त॑काय श्व॒नित॑म् ॥3॥
स॒न्धये॑ जा॒रम् ।
गे॒हायो॑पप॒तिम् ।
निर्ऋ॑त्यै परिवि॒त्तम् ।
आर्त्यै॑ परिविविदा॒नम् ।
अरा॑ध्यै दिधिषू॒पति॑म् ।
प॒वित्रा॑य भि॒षज॑म् ।
प्र॒ज्ञाना॑य नक्षत्रद॒र्शम् ।
निष्कृ॑त्यै पेशस्का॒रीम् ।
बला॑योप॒दाम् ।
वर्णा॑यानू॒रुध॑म् ॥4॥
न॒दीभ्य॑ᳶ पौञ्जि॒ष्टम् ।
ऋ॒क्षीका॑भ्यो॒ नैषा॑दम् ।
पु॒रु॒ष॒व्या॒घ्राय॑ दु॒र्मद॑म् ।
प्र॒युद्भ्य॒ उन्म॑त्तम् ।
ग॒न्ध॒र्वा॒प्स॒राभ्यो॒ व्रात्य॑म् ।
स॒र्प॒दे॒व॒ज॒नेभ्योऽप्र॑तिपदम् ।
अवे॑भ्यᳵ कित॒वम् ।
इ॒र्यता॑या॒ अकि॑तवम् ।
पि॒शा॒चेभ्यो॑ बिदलका॒रम् ।
या॒तु॒धाने॑भ्यᳵ कण्टकका॒रम् ॥5॥
उ॒त्सा॒देभ्य॑ᳵ कु॒ब्जम् ।
प्र॒मुदे॑ वाम॒नम् ।
द्वा॒र्भ्यस्स्रा॒मम् ।
स्वप्ना॑या॒न्धम् ।
अध॑र्माय बधि॒रम् ।
सं॒ज्ञाना॑य स्मरका॒रीम् ।
प्र॒का॒मोद्या॑योप॒सद॑म् ।
आ॒शि॒क्षायै॑ प्र॒श्ञिन॑म् ।
उ॒प॒शि॒क्षाया॑ अभिप्र॒श्ञिन॑म् ।
म॒र्यादा॑यै प्रश्ञविवा॒कम् ॥6॥
ऋत्यै॑ स्ते॒नहृ॑दयम् ।
वैर॑हत्याय॒ पिशु॑नम् ।
विवि॑त्त्यै क्ष॒त्तार॑म् ।
औप॑द्रष्टाय सङ्ग्रही॒तार॑म् ।
बला॑यानुच॒रम् ।
भू॒म्ने प॑रिष्क॒न्दम् ।
प्रि॒याय॑ प्रियवा॒दिन॑म् ।
अरि॑ष्ट्या अश्वसा॒दम् ।
मेधा॑य वासᳶपल्पू॒लीम् ।
प्र॒का॒माय॑ रजयि॒त्रीम् ॥7॥
भायै॑ दार्वाहा॒रम् ।
प्र॒भाया॑ आग्ने॒न्धम् ।
नाक॑स्य पृ॒ष्ठाया॑भिषे॒क्तार॑म् ।
ब्र॒ध्नस्य॑ वि॒ष्टपा॑य पात्रनिर्णे॒गम् ।
दे॒व॒लो॒काय॑ पेशि॒तार॑म् ।
म॒नु॒ष्य॒लो॒काय॑ प्रकरि॒तार॑म् ।
सर्वे॑भ्यो लो॒केभ्य॑ उपसे॒क्तार॑म् ।
अव॑र्त्यै व॒धायो॑पमन्थि॒तार॑म् ।
सु॒व॒र्गाय॑ लो॒काय॑ भाग॒दुघ॑म् ।
वर्षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टार॑म् ॥8॥
अर्मे॑भ्यो हस्ति॒पम् ।
ज॒वाया॑श्व॒पम् ।
पुष्ट्यै॑ गोपा॒लम् ।
तेज॑सेऽजपा॒लम् ।
वी॒र्या॑याविपा॒लम् ।
इरा॑यै की॒नाश॑म् ।
की॒लाला॑य सुराका॒रम् ।
भ॒द्राय॑ गृह॒पम् ।
श्रेय॑से वित्त॒धम् ।
अध्य॑क्षायानुक्ष॒त्तार॑म् ॥9॥
म॒न्यवे॑ऽयस्ता॒पम् ।
क्रोधा॑य निस॒रम् ।
शोका॑याभिस॒रम् ।
उ॒त्कू॒ल॒वि॒कू॒लाभ्या॑न्त्रि॒स्थिन॑म् ।
योगा॑य यो॒क्तार॑म् ।
क्षेमा॑य विमो॒क्तार॑म् ।
वपु॑षे मानस्कृ॒तम् ।
शीला॑याञ्जनीका॒रम् ।
निर्ऋ॑त्यै कोशका॒रीम् ।
य॒माया॒सूम् ॥10॥
य॒म्यै॑ यम॒सूम् ।
अथ॑र्व॒भ्योऽव॑तोकाम् ।
सव्ँ॒व॒त्स॒राय॑ पर्या॒रिणी॑म् ।
प॒रि॒व॒त्स॒रायावि॑जाताम् ।
इ॒दा॒व॒त्स॒राया॑प॒स्कद्व॑रीम् ।
इ॒द्व॒त्स॒राया॒तीत्व॑वरीम् ।
व॒त्स॒राय॒ विज॑र्जराम् ।
स॒र्व॒न्त्स॒राय॒ पलि॑क्नीम् ।
वना॑य वन॒पम् ।
अ॒न्यतो॑रण्याय दाव॒पम् ॥11॥
सरो॑भ्यो धैव॒रम् ।
वेश॑न्ताभ्यो॒ दाश॑म् ।
उ॒प॒स्थाव॑रीभ्यो॒ बैन्द॑म् ।
न॒ड्व॒लाभ्य॑श्शौष्क॒लम् ।
पा॒र्या॑य कैव॒र्तम् ।
अ॒वा॒र्या॑य मार्गा॒रम् ।
ती॒र्थेभ्य॑ आ॒न्दम् ।
विष॑मेभ्यो मैना॒लम् ।
स्वने॑भ्य॒ᳶ पर्ण॑कम् ।
गुहा॑भ्य॒ᳵ किरा॑तम् ।
सानु॑भ्यो॒ जम्भ॑कम् ।
पर्व॑तेभ्य॒ᳵ किम्पू॑रुषम् ॥ 12॥
प्र॒ति॒श्रुत्का॑या ऋतु॒लम् ।
घोषा॑य भ॒षम् ।
अन्ता॑य बहुवा॒दिन॑म् ।
अ॒न॒न्ताय॒ मूक॑म् ।
मह॑से वीणावा॒दम् ।
क्रोशा॑य तूणव॒ध्मम् ।
आ॒क्र॒न्दाय॑ दुन्दुभ्याघा॒तम् ।
अ॒व॒र॒स्प॒राय॑ शङ्ख॒ध्मम् ।
ऋ॒भुभ्यो॑ऽजिनसन्धा॒यम् ।
सा॒ध्येभ्य॑श्चर्म॒म्णम् ॥13॥
बी॒भ॒त्सायै॑ पौल्क॒सम् ।
भूत्यै॑ जागर॒णम् ।
अभू॑त्यै स्वप॒नम् ।
तु॒लायै॑ वाणि॒जम् ।
वर्णा॑य हिरण्यका॒रम् ।
विश्वे॑भ्यो दे॒वेभ्य॑स्सिध्म॒लम् ।
प॒श्चा॒द्दो॒षाय॑ ग्ला॒वम् ।
ऋत्यै॑ जनवा॒दिन॑म् ।
व्यृ॑द्ध्या अपग॒ल्भम् ।
सँ॒श॒राय॑ प्र॒च्छिद॑म् ॥14॥
हसा॑य पुँश्च॒लूमा ल॑भते ।
वी॒णा॒वा॒दङ्गण॑कङ्गी॒ताय॑ ।
याद॑से शाबु॒ल्याम् ।
न॒र्माय॑ भद्रव॒तीम् ।
तू॒ण॒व॒ध्मङ्ग्रा॑म॒ण्य॑म्पाणिसङ्घा॒तन्नृ॒त्ताय॑ ।
मोदा॑यानु॒क्रोश॑कम् ।
आ॒न॒न्दाय॑ तल॒वम् ॥15॥
अ॒क्ष॒रा॒जाय॑ कित॒वम् ।
कृ॒ताय॑ सभा॒विन॑म् ।
त्रेता॑या आदिनवद॒र्शम् ।
द्वा॒प॒राय॑ बहि॒स्सद॑म् ।
कल॑ये सभास्था॒णुम् ।
दु॒ष्कृ॒ताय॑ च॒रका॑चार्यम् ।
अध्व॑ने ब्रह्मचा॒रिण॑म् ।
पि॒शा॒चेभ्य॑स्सैल॒गम् ।
पि॒पा॒सायै॑ गोव्य॒च्छम् ।
निर्ऋ॑त्यै गोघा॒तम् ।
क्षु॒धे गो॑विक॒र्तम् ।
क्षु॒त्तृ॒ष्णाभ्या॒न्तम् ।
यो गाव्ँ वि॒कृन्त॑न्तम्माँ॒सम्भिक्ष॑माण उप॒तिष्ठ॑ते ॥16॥
भूम्यै॑ पीठस॒र्पिण॒मा ल॑भते ।
अ॒ग्नयेऽँ॑स॒लम् ।
वा॒यवे॑ चाण्डा॒लम् ।
अ॒न्तरि॑क्षाय वँशन॒र्तिन॑म् ।
दि॒वे ख॑ल॒तिम् ।
सूर्या॑य हर्य॒क्षम् ।
च॒न्द्रम॑से मिर्मि॒रम् ।
नक्ष॑त्रेभ्यᳵ कि॒लास॑म् ।
अह्ने॑ शु॒क्लम्पि॑ङ्ग॒लम् ।
रात्रि॑यै कृ॒ष्णम्पि॑ङ्गा॒क्षम् ॥17॥
वा॒चे पुरु॑ष॒माल॑भते ।
प्रा॒णम॑पा॒नव्ँ व्या॒नमु॑दा॒नँ स॑मा॒नन्तान् वा॒यवे॑ ।
सूर्या॑य॒ चक्षु॒राल॑भते ।
मन॑श्च॒न्द्रम॑से ।
दि॒ग्भ्यश्श्रोत्र॑म् ।
प्र॒जाप॑तये॒ पुरु॑षम् ॥18॥
अथै॒तानरू॑पेभ्य॒ आल॑भते ।
अति॑ह्रस्व॒मति॑दीर्घम् ।
अतिकृ॑श॒मत्यँ॑सलम् ।
अति॑शुक्ल॒मति॑कृष्णम् ।
अति॑श्लक्ष्ण॒मति॑लोमशम् ।
अति॑किरिट॒मति॑दन्तुरम् ।
अति॑मिर्मिर॒मति॑मेमिषम् ।
आ॒शायै॑ जा॒मिम् ।
प्र॒ती॒क्षायै॑ कुमा॒रीम् ॥19॥
स॒त्यम्प्रप॑द्ये ।
ऋ॒तम्प्रप॑द्ये ।
अ॒मृत॒म्प्रप॑द्ये ।
प्र॒जाप॑तेᳶ प्रि॒यान्त॒नुव॒मना॑र्ता॒म्प्रप॑द्ये ।
इ॒दम॒हम्प॑ञ्चद॒शेन॒ वज्रे॑ण ।
द्वि॒षन्त॒म्भ्रातृ॑व्य॒मव॑क्रामामि ।
यो॑ऽस्मान्द्वेष्टि॑ ।
यञ्च॑ व॒यन्द्वि॒ष्मः ।
भूर्भुव॒स्सुवः॑ ।
हिम् ॥1॥
प्र वो॒ वाजा॑ अ॒भिद्य॑वः ।
ह॒विष्म॑न्तो घृ॒ताच्या॑ ।
दे॒वाञ्जि॑गाति सुम्न॒युः ।
अग्न॒ आया॑हि वी॒तये॑ ।
गृ॒णा॒नो ह॒व्यदा॑तये ।
नि होता॑ सत्सि ब॒र्हिषि॑ ।
तन्त्वा॑ स॒मिद्भि॑रङ्गिरः ।
घृ॒तेन॑ वर्धयामसि ।
बृ॒हच्छो॑चा यविष्ठ्य ।
स न॑ᳶ पृ॒थुश्श्र॒वाय्य॑म् ॥2॥
अच्छा॑ देव विवाससि ।
बृ॒हद॑ग्ने सु॒वीर्य॑म् ।
ई॒डेन्यो॑ नम॒स्य॑स्ति॒रः ।
तमाँ॑सि दर्श॒तः ।
सम॒ग्निरि॑ध्यते॒ वृषा॑ ।
वृषो॑ अ॒ग्निस्समि॑ध्यते ।
अश्वो॒ न दे॑व॒वाह॑नः ।
तँ ह॒विष्म॑न्त ईडते ।
वृष॑णन्त्वा व॒यव्ँ वृष॑न् ।
वृषा॑ण॒स्समि॑धीमहि ॥3॥
अग्ने॒ दीद्य॑तम्बृ॒हत् ।
अ॒ग्निन्दू॒तव्ँ वृ॑णीमहे ।
होता॑रव्ँ वि॒श्ववे॑दसम् ।
अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ।
स॒मि॒ध्यमा॑नो अध्व॒रे ।
अ॒ग्निᳶ पा॑व॒क ईड्यः॑ ।
शो॒चिष्के॑श॒स्तमी॑महे ।
समि॑द्धो अग्न आहुत ।
दे॒वान् य॑क्षि स्वध्वर ।
त्वँ हि ह॑व्य॒वाडसि॑ ।
आजु॑होत दुव॒स्यत॑ ।
अ॒ग्निम्प्र॑य॒त्य॑ध्व॒रे ।
वृ॒णीध्वँ ह॑व्य॒वाह॑नम् ।
त्वव्ँवरु॑ण उ॒त मि॒त्रो अ॑ग्ने ।
त्वाव्ँव॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः ।
त्वे वसु॑ सुषण॒नानि॑ सन्तु ।
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥4॥
अग्ने॑ म॒हाँ अ॑सि ब्राह्मण भारत ।
असा॒वसौ॑ ।
दे॒वेद्धो॒ मन्वि॑द्धः ।
ऋषि॑ष्टुतो॒ विप्रा॑नुमदितः ।
क॒वि॒श॒स्तो ब्रह्म॑सँशितो घृ॒ताह॑वनः ।
प्र॒णीर्य॒ज्ञाना॑म् ।
र॒थीर॑ध्व॒राणा॑म् ।
अ॒तूर्तो॒ होता॑ ।
तूर्णि॑र्हव्य॒वाट् ।
आस्पात्र॑ञ्जु॒हूर्दे॒वाना॑म् ॥5॥
च॒म॒सो दे॑व॒पानः॑ ।
अ॒राँ इ॑वाग्ने ने॒मिर्दे॒वाँ स्त्वम्प॑रि॒भूर॑सि ।
आ व॑ह दे॒वान् यज॑मानाय ।
अ॒ग्निम॑ग्न॒ आव॑ह ।
सोम॒माव॑ह ।
अ॒ग्निमाव॑ह ।
प्र॒जाप॑ति॒माव॑ह ।
अ॒ग्नीषोमा॒वाव॑ह ।
इ॒न्द्रा॒ग्नी आव॑ह ।
इन्द्र॒माव॑ह ।
म॒हे॒न्द्रमाव॑ह ।
दे॒वाँ आ॑ज्य॒पाँ आव॑ह ।
अ॒ग्निँ हो॒त्रायाव॑ह ।
स्वम्म॑हि॒मान॒माव॑ह ।
आ चा॑ग्ने दे॒वान् वह॑ ।
सु॒यजा॑ च यज जातवेदः ॥6॥
अ॒ग्निर् होता॒ वेत्व॒ग्निः ।
हो॒त्रव्ँ वे॑त्तु प्रावि॒त्रम् ।
स्मो व॒यम् ।
सा॒धु ते॑ यजमान दे॒वता॑ ।
घृ॒तव॑तीमध्वर्यो॒ स्रुच॒मास्य॑स्व ।
दे॒वा॒युवव्ँ॑वि॒श्ववा॑राम् ।
ईडा॑महै दे॒वाँ ई॒डेन्या॑न् ।
न॒म॒स्याम॑ नम॒स्या॑न् ।
यजा॑म य॒ज्ञिया॑न् ॥7॥
स॒मिधो॑ अग्न॒ आज्य॑स्य वियन्तु ।
तनू॒नपा॑दग्न॒ आज्य॑स्य वेतु ।
इ॒डो अ॑ग्न॒ आज्य॑स्य वियन्तु ।
ब॒र्हिर॑ग्न॒ आज्य॑स्य वेतु ।
स्वाहा॒ऽग्निम् ।
स्वाहा॒ सोम॑म् ।
स्वाहा॒ऽग्निम् ।
स्वाहा॑ प्र॒जाप॑तिम् ।
स्वाहा॒ऽग्नीषोमौ॑ ।
स्वाहे॑न्द्रा॒ग्नी ।
स्वाहेन्द्र॑म् ।
स्वाहा॑ महे॒न्द्रम् ।
स्वाहा॑ दे॒वाँ आ॑ज्य॒पान् ।
स्वाहा॒ऽग्निँ हो॒त्राज्जु॑षा॒णाः ।
अग्न॒ आज्य॑स्य वियन्तु ॥8॥
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनत् ।
द्र॒वि॒ण॒स्युर्वि॑प॒न्यया॑ ।
समि॑द्धश्शु॒क्र आहु॑तः ।
जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु ।
त्वँ सो॑माऽसि॒ सत्प॑तिः ।
त्वँ राजो॒त वृ॑त्र॒हा ।
त्वम्भ॒द्रो अ॑सि॒ क्रतुः॑ ।
जु॒षा॒णस्सोम॒ आज्य॑स्य ह॒विषो॑ वेतु ।
अ॒ग्निᳶ प्र॒त्नेन॒ जन्म॑ना ।
शुम्भा॑नस्त॒नुवँ॒ स्वाम् ।
क॒विर्विप्रे॑ण वावृधे ।
जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु ।
सोम॑ गी॒र्भिष्ट्वा॑ व॒यम् ।
व॒र्धया॑मो वचो॒विदः॑ ।
सु॒मृ॒डी॒को न॒ आवि॑श ।
जु॒षा॒णस्सोम॒ आज्य॑स्य ह॒विषो॑ वेतु ॥9॥
अ॒ग्निर्मू॒र्धा दि॒वᳵ क॒कुत् ।
पति॑ᳶ पृथि॒व्या अ॒यम् ।
अ॒पाँ रेताँ॑सि जिन्वति ।
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता ।
यत्रा॑ नि॒युद्भि॒स्सच॑से शि॒वाभिः॑ ।
दि॒वि मू॒र्धान॑न्दधिषे सुव॒र्षाम् ।
जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ।
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः ।
विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जहु॒मस्तन्नो॑ अस्तु ॥10॥
व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।
स वे॑द पु॒त्रᳶ पि॒तरँ॒ स मा॒तर॑म् ।
स सू॒नुर्भु॑व॒त्स भु॑व॒त्पुन॑र्मघः ।
स द्यामौर्णो॑द॒न्तरि॑क्षँ॒ स सुवः॑ ।
स विश्वा॒ भुवो॑ अभव॒त्स आभ॑वत् ।
अग्नी॑षोमा॒ सवे॑दसा ।
सहू॑ती वनत॒ङ्गिरः॑ ।
सन्दे॑व॒त्रा ब॑भूवथुः ।
यु॒वमे॒तानि॑ दि॒वि रो॑च॒नानि॑ ।
अ॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ॥11॥
यु॒वँ सिन्धूँ॑ र॒भिश॑स्तेरव॒द्यात् ।
अग्नी॑षोमा॒वमु॑ञ्चतङ्गृभी॒तान् ।
इन्द्रा॑ग्नी रोच॒ना दि॒वः ।
परि॒ वाजे॑षु भूषथः ।
तद्वा॑ञ्चेति॒ प्र वी॒र्य॑म् ।
श्ञथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॑म् ।
इन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।
इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः॑ ।
सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ ।
एन्द्र॑ सान॒सिँ र॒यिम् ॥12॥
स॒जित्वा॑नँ सदा॒सह॑म् ।
वर्षि॑ष्ठमू॒तये॑ भर ।
प्रस॑साहिषे पुरुहूत॒ शत्रू॑न् ।
ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु ।
इन्द्राभ॑र॒ दक्षि॑णेना॒ वसू॑नि ।
पति॒स्सिन्धू॑नामसि रे॒वती॑नाम् ।
म॒हाँ इन्द्रो॒ य ओज॑सा ।
प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ।
स्तोमै॑र्व॒त्सस्य॑ वावृधे ।
म॒हाँ इन्द्रो॑ नृ॒वदाच॑र्षणि॒प्राः ॥13॥
उ॒त द्वि॒बर्हा॑ अमि॒नस्सहो॑भिः ।
अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑य ।
उ॒रुᳶ पृ॒थुस्सुकृ॑तᳵ क॒र्तृभि॑र्भूत् ।
पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ ।
वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने ।
त्वँ होतॄ॑णाम॒स्याय॑जिष्ठः ।
अ॒ग्निँ स्वि॑ष्ट॒कृत॑म् ।
अया॑ड॒ग्निर॒ग्नेᳶ प्रि॒या धामा॑नि ।
अया॒ट्त्सोम॑स्य प्रि॒या धामा॑नि ॥14॥
अया॑ड॒ग्नेᳶ प्रि॒या धामा॑नि ।
अया॑ट्प्र॒जाप॑तेᳶ प्रि॒या धामा॑नि ।
अया॑ड॒ग्नीषोम॑योᳶ प्रि॒या धामा॑नि ।
अया॑डिन्द्राग्नि॒योᳶ प्रि॒या धामा॑नि ।
अया॒डिन्द्र॑स्य प्रि॒या धामा॑नि ।
अया॑ण्महे॒न्द्रस्य॑ प्रि॒या धामा॑नि ।
अया॑ड्दे॒वाना॑माज्य॒पाना॑म्प्रि॒या धामा॑नि ।
यक्ष॑द॒ग्नेर्होतु॑ᳶ प्रि॒या धामा॑नि ।
यक्ष॒त्स्वम्म॑हि॒मान॑म् ।
आय॑जता॒मेज्या॒ इषः॑ ।
कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः ।
जु॒षताँ॑ ह॒विः ।
अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः ।
पाव॑क शोचे॒ वेष्ट्वँ हि यज्वा॑ ।
ऋ॒ता य॑जासि महि॒ना वियद्भूः ।
ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥15॥
उप॑हूतँ रथन्त॒रँ स॒ह पृ॑थि॒व्या ।
उप॑ मा रथन्त॒रँ स॒ह पृ॑थि॒व्या ह्व॑यताम् ।
उप॑हूतव्ँ वामदे॒व्यँ स॒हान्तरि॑क्षेण ।
उप॑ मा वामदे॒व्यँ स॒हान्तरि॑क्षेण ह्वयताम् ।
उप॑हूतम्बृ॒हत्स॒ह दि॒वा ।
उप॑ मा बृ॒हत्स॒ह दि॒वा ह्व॑यताम् ।
उप॑हूतास्स॒प्त होत्राः॑ ।
उप॑ मा स॒प्त होत्रा॑ ह्वयन्ताम् ।
उप॑हूता धे॒नुस्स॒हर्ष॑भा ।
उप॑ मा धे॒नुस्स॒हर्ष॑भा ह्वयताम् ॥16॥
उप॑हूतो भ॒क्षस्सखा॑ ।
उप॑ मा भ॒क्षस्सखा॑ ह्वयताम् ।
उप॑हू॒ताँ (4) हो ।
इडोप॑हूता ।
उप॑हू॒तेडा॑ ।
उपो॑ अ॒स्माँ इडा॑ ह्वयताम् ।
इडोप॑हूता ।
उप॑हू॒तेडा॑ ।
मा॒न॒वी घृ॒तप॑दी मैत्रावरु॒णी ।
ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूतम् ॥17॥
दैव्या॑ अध्व॒र्यव॒ उप॑हूताः ।
उप॑हूता मनु॒ष्याः॑ ।
य इ॒मय्ँ य॒ज्ञमवा॑न् ।
ये य॒ज्ञप॑तिव्ँ॒वर्धा॑न् ।
उप॑हूते॒ द्यावा॑पृथि॒वी ।
पू॒र्व॒जे ऋ॒ताव॑री ।
दे॒वी दे॒वपु॑त्रे ।
उप॑हूतो॒ऽयय्ँयज॑मानः ।
उत्त॑रस्यान्देवय॒ज्याया॒मुप॑हूतः ।
भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतः ।
दि॒व्ये धाम॒न्नुप॑हूतः ।
इ॒दम्मे॑ दे॒वा ह॒विर्जु॑षन्ता॒मिति॒ तस्मि॒न्नुप॑हूतः ।
विश्व॑मस्य प्रि॒यमुप॑हूतम् ।
विश्व॑स्य प्रि॒यस्योप॑हूत॒स्योप॑हूतः ॥18॥
दे॒वम्ब॒र्हिः ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु ।
दे॒वो नरा॒शँसः॑ ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु ।
दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् ।
सु॒द्रवि॑णा म॒न्द्रᳵ क॒विः ।
स॒त्यम॑न्माय॒जी होता॑ ।
होतु॑र्होतु॒राय॑जीयान् ।
अग्ने॒ यान्दे॒वानया॑ट् ।
याँ अपि॑प्रेः ।
ये ते॑ हो॒त्रे अम॑त्सत ।
ताँ स॑स॒नुषीँ॒ होत्रा॑न्देवङ्ग॒माम् ।
दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् ।
स्वि॒ष्ट॒कृच्चाग्ने॒ होताऽभूः॑ ।
व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑ ॥19॥
इ॒दन्द्या॑वापृथिवी भ॒द्रम॑भूत् ।
आर्ध्म॑ सूक्तवा॒कम् ।
उ॒त न॑मोवा॒कम् ।
ऋ॒ध्यास्म॑ सू॒क्तोच्य॑मग्ने ।
त्वँ सू॑क्त॒वाग॑सि ।
उप॑श्रितो दि॒वᳶ पृ॑थि॒व्योः ।
ओम॑न्वती ते॒ऽस्मिन् य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी स्ता॑म् ।
श॒ङ्ग॒ये जी॒रदा॑नू ।
अत्र॑स्नू॒ अप्र॑वेदे ।
उ॒रुग॑व्यूती अभय॒ङ्कृतौ॑ ॥20॥
वृ॒ष्टिद्या॑वा री॒त्या॑पा ।
श॒म्भुवौ॑ मयो॒भुवौ॑ ।
ऊर्ज॑स्वती च॒ पय॑स्वती च ।
सू॒प॒च॒र॒णा च॑ स्वधिचर॒णा च॑ ।
तयो॑रा॒विदि॑ ।
अ॒ग्निरि॒दँ ह॒विर॑जुषत ।
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
सोम॑ इ॒दँ ह॒विर॑जुषत ।
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
अ॒ग्निरि॒दँ ह॒विर॑जुषत ॥21॥
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
प्र॒जाप॑तिरि॒दँ ह॒विर॑जुषत ।
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
अ॒ग्नीषोमा॑वि॒दँ ह॒विर॑जुषेताम् ।
अवी॑वृधेता॒म्महो॒ ज्यायो॑ऽक्राताम् ।
इ॒न्द्रा॒ग्नी इ॒दँ ह॒विर॑जुषेताम् ।
अवी॑वृधेता॒म्महो॒ ज्यायो॑ऽक्राताम् ।
इन्द्र॑ इ॒दँ ह॒विर॑जुषत ।
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
म॒हे॒न्द्र इ॒दँ ह॒विर॑जुषत ॥22॥
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
दे॒वा आ॑ज्य॒पा आज्य॑मजुषन्त ।
अवी॑वृधन्त॒ महो॒ ज्यायो॑ऽक्रत ।
अ॒ग्निर्हो॒त्रेणे॒दँ ह॒विर॑जुषत ।
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत ।
अ॒स्यामृध॒द्धोत्रा॑यान्देवङ्ग॒माया॑म् ।
आशा॑स्ते॒ऽयय्ँयज॑मानो॒ऽसौ ।
आयु॒राशा॑स्ते ।
सु॒प्र॒जा॒स्त्वमाशा॑स्ते ।
स॒जा॒त॒व॒न॒स्यामाशा॑स्ते ॥23॥
उत्त॑रान्देवय॒ज्यामाशा॑स्ते ।
भूयो॑ हवि॒ष्कर॑ण॒माशा॑स्ते ।
दि॒व्यन्धामाशा॑स्ते ।
विश्व॑म्प्रि॒यमाशा॑स्ते ।
यद॒नेन॑ ह॒विषाऽऽशा॑स्ते ।
तद॑श्या॒त्तदृ॑ध्यात् ।
तद॑स्मै दे॒वा रा॑सन्ताम् ।
तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते ।
व॒यम॒ग्नेर्मानु॑षाः ।
इ॒ष्टञ्च॑ वी॒तञ्च॑ ।
उ॒भे च॑ नो॒ द्यावा॑पृथि॒वी अँह॑सस्पाताम् ।
इ॒ह गति॑र्वा॒मस्ये॒दञ्च॑ ।
नमो॑ दे॒वेभ्यः॑ ॥24॥
तच्छय्ँ॒योरावृ॑णीमहे ।
गा॒तुय्ँ य॒ज्ञाय॑ ।
गा॒तुय्ँ य॒ज्ञप॑तये ।
दैवी॑ स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः ।
ऊ॒र्ध्वञ्जि॑गातु भेष॒जम् ।
शन्नो॑ अस्तु द्वि॒पदे॑ ।
शञ्चतु॑ष्पदे ॥25॥
आप्या॑यस्व॒ सन्ते॑ ।
इ॒ह त्वष्टा॑रमग्रि॒यन्तन्न॑स्तु॒रीप॑म् ।
दे॒वाना॒म्पत्नी॑रुश॒तीर॑वन्तु नः ।
प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये ।
याᳶ पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ।
ता नो॑ देवीस्सुहवा॒श्शर्म॑ यच्छत ।
उ॒त ग्ना वि॑यन्तु दे॒वप॑त्नीः ।
इ॒न्द्रा॒ण्य॑ग्नाय्य॒श्विनी॒ राट् ।
आ रोद॑सी वरुणा॒नी शृ॑णोतु ।
वि॒यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम् ॥26॥
अ॒ग्निर्होता॑ गृ॒हप॑ति॒स्स राजा॑ ।
विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः ।
दे॒वाना॑मु॒त यो मर्त्या॑नाम् ।
यजि॑ष्ठ॒स्स प्रय॑जतामृ॒तावा॑ ।
व॒यमु॑ त्वा गृहपते॒ जना॑नाम् ।
अग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हन्त॑म् ।
अ॒स्थू॒रि णो॒ गार्ह॑पत्यानि सन्तु ।
ति॒ग्मेन॑ न॒स्तेज॑सा॒ सँशि॑शाधि ॥27॥
उप॑हूतँ रथन्त॒रँ स॒ह पृ॑थि॒व्या ।
उप॑ मा रथन्त॒रँ स॒ह पृ॑थि॒व्या ह्व॑यताम् ।
उप॑हूतव्ँ वामदे॒व्यँ स॒हान्तरि॑क्षेण ।
उप॑ मा वामदे॒व्यँ स॒हान्तरि॑क्षेण ह्वयताम् ।
उप॑हूतम्बृ॒हत्स॒ह दि॒वा ।
उप॑ मा बृ॒हत्स॒ह दि॒वा ह्व॑यताम् ।
उप॑हूतास्स॒प्त होत्राः॑ ।
उप॑ मा स॒प्त होत्रा॑ ह्वयन्ताम् ।
उप॑हूता धे॒नुस्स॒हर्ष॑भा ।
उप॑ मा धे॒नुस्स॒हर्ष॑भा ह्वयताम् ॥28॥
उप॑हूतो भ॒क्षस्सखा॑ ।
उप॑ मा भ॒क्षस्सखा॑ ह्वयताम् ।
उप॑हू॒ताँ (4) हो ।
इडोप॑हूता ।
उप॑हू॒तेडा॑ ।
उपो॑ अ॒स्माँ इडा॑ ह्वयताम् ।
इडोप॑हूता ।
उप॑हू॒तेडा॑ ।
मा॒न॒वी घृ॒तप॑दी मैत्रावरु॒णी ।
ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूतम् ॥29॥
दैव्या॑ अध्व॒र्यव॒ उप॑हूताः ।
उप॑हूता मनु॒ष्याः॑ ।
य इ॒मय्ँ य॒ज्ञमवा॑न् ।
ये य॒ज्ञप॑त्नीव्ँ॒वर्धा॑न् ।
उप॑हूते॒ द्यावा॑पृथि॒वी ।
पू॒र्व॒जे ऋ॒ताव॑री ।
दे॒वी दे॒वपु॑त्रे ।
उप॑हूते॒यय्ँयज॑माना ।
इ॒न्द्राणीवा॑ऽविध॒वा ।
अदि॑तिरिव सुपु॒त्रा ।
उत्त॑रस्यान्देवय॒ज्याया॒मुप॑हूता ।
भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूता ।
दि॒व्ये धाम॒न्नुप॑हूता ।
इ॒दम्मे॑ दे॒वा ह॒विर्जु॑षन्ता॒मिति॒ तस्मि॒न्नुप॑हूता ।
विश्व॑मस्याᳶ प्रि॒यमुप॑हूतम् ।
विश्व॑स्य प्रि॒यस्योप॑हूत॒स्योप॑हूता ॥30॥
अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे॑व॒यन्तः॑ ।
वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न ।
यदू॒र्ध्वस्ति॑ष्ठा॒द्द्रवि॑णे॒ह ध॑त्तात् ।
यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे॑ ।
उच्छ्र॑यस्व वनस्पते ।
वर्ष्म॑न्पृथि॒व्या अधि॑ ।
सुमि॑ती मी॒यमा॑नः ।
वर्चो॑धा य॒ज्ञवा॑हसे ।
समि॑द्धस्य॒ श्रय॑माणᳶ पु॒रस्ता॑त् ।
ब्रह्म॑ वन्वा॒नो अ॒जरँ॑ सु॒वीर॑म् ॥1॥
आ॒रे अ॒स्मदम॑ति॒म्बाध॑मानः ।
उच्छ्र॑यस्व मह॒ते सौभ॑गाय ।
ऊ॒र्ध्व ऊ॒षुण॑ ऊ॒तये॑ ।
तिष्ठा॑ दे॒वो न स॑वि॒ता ।
ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभिः॑ ।
वा॒घद्भि॑र्वि॒ह्वया॑महे ।
ऊ॒र्ध्वो न॑ᳶ पा॒ह्यँह॑सो॒ नि के॒तुना॑ ।
विश्वँ॒ सम॒त्रिण॑न्दह ।
कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒ रथा॑य जी॒वसे॑ ।
वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ॥2॥
जा॒तो जा॑यते सुदिन॒त्वे अह्ना॑म् ।
सम॒र्य आ वि॒दथे॒ वर्ध॑मानः ।
पु॒नन्ति॒ धीरा॑ अ॒पसो॑ मनी॒षा ।
दे॒व॒या विप्र॒ उदि॑यर्ति॒ वाच॑म् ।
युवा॑ सु॒वासा॒ᳶ परि॑वीत॒ आगा॑त् ।
स उ॒ श्रेया॑न्भवति॒ जाय॑मानः ।
तन्धीरा॑सᳵ क॒वय॒ उन्न॑यन्ति ।
स्वा॒धियो॒ मन॑सा देव॒यन्तः॑ ।
पृ॒थु॒पाजा॒ अम॑र्त्यः ।
घृ॒तनि॑र्णि॒क्स्वा॑हुतः ।
अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ।
तँ स॒बाधो॑ य॒तस्स्रु॑चः ।
इ॒त्था धि॒या य॒ज्ञव॑न्तः ।
आच॑क्रुर॒ग्निमू॒तये॑ ।
त्वव्ँवरु॑ण उ॒त मि॒त्रो अ॑ग्ने ।
त्वाव्ँव॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः ।
त्वे वसु॑ सुषण॒नानि॑ सन्तु ।
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥3॥
होता॑ यक्षद॒ग्निँ स॒मिधा॑ सुष॒मिधा॒ समि॑द्ध॒न्नाभा॑ पृथि॒व्यास्स॑ङ्ग॒थे वा॒मस्य॑ ।
वर्ष्म॑न्दि॒व इ॒डस्प॒दे वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒त्तनू॒नपा॑त॒मदि॑ते॒र्गर्भ॒म्भुव॑नस्य गो॒पाम् ।
मध्वा॒द्य दे॒वो दे॒वेभ्यो॑ देव॒याना॑न्प॒थो अ॑नक्तु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒न्नरा॒शँस॑न्नृश॒स्त्रन्नॄँᳶ प्र॑णेत्रम् ।
गोभि॑र्व॒पावा॒न्त्स्याद्वी॒रैश्शक्ती॑वा॒न्रथै॑ᳶ प्रथम॒यावा॒ हिर॑ण्यैश्च॒न्द्री वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षद॒ग्निमि॒ड ई॑डि॒तो दे॒वो दे॒वाँ आव॑क्षद्दू॒तो ह॑व्य॒वाडमू॑रः ।
उपे॒मय्ँ य॒ज्ञमुपे॒मान्दे॒वो दे॒वहू॑तिमवतु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षद्ब॒र्हिस्सु॒ष्टरी॒मोर्ण॑म्म्रदा अ॒स्मिन् य॒ज्ञे वि च॒ प्र च॑ प्रथताँ स्वास॒स्थन्दे॒वेभ्यः॑ ।
एमे॑नद॒द्य वस॑वो रु॒द्रा आ॑दि॒त्यास्स॑दन्तु प्रि॒यमिन्द्र॑स्यास्तु॒ वेत्याज्य॑स्य॒ होत॒र्यज॑ ॥4॥
होता॑ यक्ष॒द्दुर॑ ऋ॒ष्वाᳵ क॑व॒ष्यो को॑षधावनी॒रुदाता॑भि॒र्जिह॑ताव्ँ॒वि पक्षो॑भिश्श्रयन्ताम् ।
सु॒प्रा॒य॒णा अ॒स्मिन् य॒ज्ञे विश्र॑यन्तामृता॒वृधो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षदु॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ नॄँᳶ पति॑भ्यो॒ योनि॑ङ्कृण्वा॒ने ।
सँ॒स्मय॑माने॒ इन्द्रे॑ण दे॒वैरेदम्ब॒र्हिस्सी॑दताव्ँ वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒द्दैव्या॒ होता॑रा म॒न्द्रा पोता॑रा क॒वी प्रचे॑तसा ।
स्वि॑ष्टम॒द्यान्यᳵ क॑रदि॒षा स्व॑भिगूर्तम॒न्य ऊ॒र्जा सत॑वसे॒मय्ँ य॒ज्ञन्दि॒वि दे॒वेषु॑ धत्ताव्ँ वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षत्ति॒स्रो दे॒वीर॒पसा॑म॒पस्त॑मा॒ अच्छि॑द्रम॒द्येदमप॑स्तन्वताम् ।
दे॒वेभ्यो॑ दे॒वीर्दे॒वमपो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒त्त्वष्टा॑र॒मचि॑ष्टु॒मपा॑कँ रेतो॒धाव्ँविश्र॑वसय्ँयशो॒धाम् ।
पु॒रु॒रूप॒मका॑मकर्शनँ सु॒पोष॒ᳶ पोषै॒स्स्यात्सु॒वीरो॑ वी॒रैर्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्ष॒द्वन॒स्पति॑मु॒पाव॑स्रक्षद्धि॒यो जो॒ष्टारँ॑ श॒शम॒न्नरः॑ ।
स्वदा॒त्स्वधि॑तिर् ऋतु॒थाद्य दे॒वो दे॒वेभ्यो॑ ह॒व्यावा॒ड्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।
होता॑ यक्षद॒ग्निँ स्वाहाऽऽज्य॑स्य॒ स्वाहा॒ मेद॑स॒स्स्वाहा॑ स्तो॒कानाँ॒ स्वाहा॒ स्वाहा॑कृतीनाँ॒ स्वाहा॑ ह॒व्यसू॑क्तीनाम् ।
स्वाहा॑ दे॒वाँ आ॑ज्य॒पान्त्स्वाहा॒ऽग्निँ हो॒त्राज्जु॑षा॒णा अग्न॒ आज्य॑स्य वियन्तु॒ होत॒र्यज॑ ॥5॥
समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे ।
दे॒वो दे॒वान् य॑जसि जातवेदः ।
आ च॒ वह॑ मित्रमहश्चिकि॒त्वान् ।
त्वन्दू॒तᳵ क॒विर॑सि॒ प्रचे॑ताः ।
तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॑न् ।
मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व ।
मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन् ।
दे॒व॒त्रा च॑ कृणुह्यध्व॒रन्नः॑ ।
नरा॒शँस॑स्य महि॒मान॑मेषाम् ।
उप॑स्तोषाम यज॒तस्य॑ य॒ज्ञैः ॥6॥
ते सु॒क्रत॑व॒श्शुच॑यो धिय॒न्धाः ।
स्वद॑न्तु दे॒वा उ॒भया॑नि ह॒व्या ।
आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॑श्च ।
आया॑ह्यग्ने॒ वसु॑भिस्स॒जोषाः॑ ।
त्वन्दे॒वाना॑मसि यह्व॒ होता॑ ।
स ए॑नान् यक्षीषि॒तो यजी॑यान् ।
प्रा॒चीन॑म्ब॒र्हिᳶ प्र॒दिशा॑ पृथि॒व्याः ।
वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म् ।
व्यु॑ प्रथते वित॒रव्ँवरी॑यः ।
दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥7॥
व्यच॑स्वतीरुर्वि॒या विश्र॑यन्ताम् ।
पति॑भ्यो॒ न जन॑य॒श्शुम्भ॑मानाः ।
देवी॑र्द्वारो बृहतीर्विश्वमिन्वाः ।
दे॒वेभ्यो॑ भवथ सुप्राय॒णाः ।
आसु॒ष्वय॑न्ती यज॒ते उपा॑के ।
उ॒षासा॒नक्ता॑ सदता॒न्नि योनौ॑ ।
दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे ।
अधि॒ श्रियँ॑ शुक्र॒पिश॒न्दधा॑ने ।
दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॑ ।
मिमा॑ना य॒ज्ञम्मनु॑षो॒ यज॑ध्यै ॥8॥
प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू ।
प्रा॒चीन॒ञ्ज्योति॑ᳶ प्र॒दिशा॑ दि॒शन्ता॑ ।
आ नो॑ य॒ज्ञम्भार॑ती॒ तूय॑मेतु ।
इडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती ।
ति॒स्रो दे॒वीर्ब॒र्हिरेदँ स्यो॒नम् ।
सर॑स्वती॒ स्वप॑सस्सदन्तु ।
य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री ।
रू॒पैरपिँ॑श॒द्भुव॑नानि॒ विश्वा॑ ।
तम॒द्य हो॑तरिषि॒तो यजी॑यान् ।
दे॒वन्त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥9॥
उ॒पाव॑सृज॒त्त्मन्या॑ सम॒ञ्जन् ।
दे॒वाना॒म्पाथ॑ ऋतु॒था ह॒वीँषि॑ ।
वन॒स्पति॑श्शमि॒ता दे॒वो अ॒ग्निः ।
स्वद॑न्तु ह॒व्यम्मधु॑ना घृ॒तेन॑ ।
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम् ।
अ॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः ।
अ॒स्य होतु॑ᳶ प्र॒दिश्यृ॒तस्य॑ वा॒चि ।
स्वाहा॑कृतँ ह॒विर॑दन्तु दे॒वाः ॥10॥
अ॒ग्निर्होता॑ नो अध्व॒रे ।
वा॒जी सन्परि॑णीयते ।
दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ।
परि॑त्रिवि॒ष्ट्य॑ध्व॒रम् ।
यात्य॒ग्नी र॒थीरि॑व ।
आ दे॒वेषु॒ प्रयो॒ दध॑त् ।
परि॒ वाज॑पतिᳵ क॒विः ।
अ॒ग्निर्ह॒व्यान्य॑क्रमीत् ।
दध॒द्रत्ना॑नि दा॒शुषे॑ ॥11॥
अजै॑द॒ग्निः ।
अस॑न॒द्वाज॒न्नि ।
दे॒वो दे॒वेभ्यो॑ ह॒व्यावा॑ट् ।
प्राञ्जो॑भिर्हिन्वा॒नः ।
धेना॑भि॒ᳵ कल्प॑मानः ।
य॒ज्ञस्यायु॑ᳶ प्रति॒रन् ।
उप॒ प्रेष्य॑ होतः ।
ह॒व्या दे॒वेभ्यः॑ ॥12॥
दैव्या॑श्शमितार उ॒त म॑नुष्या॒ आर॑भध्वम् ।
उप॑नयत॒ मेध्या॒ दुरः॑ ।
आ॒शासा॑ना॒ मेध॑पतिभ्या॒म्मेध॑म् ।
प्रास्मा॑ अ॒ग्निम्भ॑रत ।
स्तृ॒णी॒त ब॒र्हिः ।
अन्वे॑नम्मा॒ता म॑न्यताम् ।
अनु॑ पि॒ता ।
अनु॒ भ्राता॒ सग॑र्भ्यः ।
अनु॒ सखा॒ सयू॑थ्यः ।
उ॒दी॒चीनाँ॑ अस्य प॒दो निध॑त्तात् ॥13॥
सूर्य॒ञ्चक्षु॑र्गमयतात् ।
वात॑म्प्रा॒णम॒न्वव॑सृजतात् ।
दिश॒श्श्रोत्र॑म् ।
अ॒न्तरि॑क्ष॒मसु॑म् ।
पृ॒थि॒वीँ शरी॑रम् ।
ए॒क॒धाऽस्य॒ त्वच॒माच्छ्य॑तात् ।
पु॒रा नाभ्या॑ अपि॒शसो॑ व॒पामुत्खि॑दतात् ।
अ॒न्तरे॒वोष्माणव्ँ॑वारयतात् ।
श्ये॒नम॑स्य॒ वक्ष॑ᳵ कृणुतात् ।
प्र॒शसा॑ बा॒हू ॥14॥
श॒ला दो॒षणी॑ ।
क॒श्यपे॒वाँसा॑ ।
अच्छि॑द्रे॒ श्रोणी॑ ।
क॒वषो॒रू स्रे॒कप॑र्णाष्ठी॒वन्ता॑ ।
षड्विँ॑शतिरस्य॒ वङ्क्र॑यः ।
ता अ॑नु॒ष्ठ्योच्च्या॑वयतात् ।
गात्र॑ङ्गात्रम॒स्यानू॑नङ्कृणुतात् ।
ऊ॒व॒ध्य॒गो॒हम्पार्थि॑वङ्खनतात् ।
अ॒स्ना रक्ष॒स्सँसृ॑जतात् ।
व॒नि॒ष्ठुम॑स्य॒ मा रा॑विष्ट ॥15॥
उरू॑क॒म्मन्य॑मानाः ।
नेद्व॑स्तो॒के तन॑ये ।
रवि॑ता॒रव॑च्छमितारः ।
अध्रि॑गो शमी॒ध्वम् ।
सु॒शमि॑ शमीध्वम् ।
श॒मी॒ध्वम॑ध्रिगो ।
अध्रि॑गु॒श्चापा॑पश्च ।
उ॒भौ दे॒वानाँ॑ शमि॒तारौ॑ ।
तावि॒मम्प॒शुँ श्र॑पयताम्प्रवि॒द्वाँसौ॑ ।
यथा॑यथाऽस्य॒ श्रप॑ण॒न्तथा॑तथा ॥16॥
जु॒षस्व॑ स॒प्रथ॑स्तमम् ।
वचो॑ दे॒वप्स॑रस्तमम् ।
ह॒व्या जुह्वा॑न आ॒सनि॑ ।
इ॒मन्नो॑ य॒ज्ञम॒मृते॑षु धेहि ।
इ॒मा ह॒व्या जा॑तवेदो जुषस्व ।
स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॑ ।
होत॒ᳶ प्राशा॑न प्रथ॒मो नि॒षद्य॑ ।
घृ॒तव॑न्तᳶ पावक ते ।
स्तो॒काश्श्चो॑तन्ति॒ मेद॑सः ।
स्वध॑र्मन्दे॒ववी॑तये ॥17॥
श्रेष्ठ॑न्नो धेहि॒ वार्य॑म् ।
तुभ्यँ॑ स्तो॒का घृ॑त॒श्चुतः॑ ।
अग्ने॒ विप्रा॑य सन्त्य ।
ऋषि॒श्श्रेष्ठ॒स्समि॑ध्यसे ।
य॒ज्ञस्य॑ प्रावि॒ता भ॑व ।
तुभ्यँ॑ श्चोतन्त्यध्रिगो शचीवः ।
स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ ।
क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागाः॑ ।
ह॒व्या जु॑षस्व मेधिर ।
ओजि॑ष्ठन्ते मध्य॒तो मेद॒ उद्भृ॑तम् ।
प्र ते॑ व॒यन्द॑दामहे ।
श्चोत॑न्ति ते वसो स्तो॒का अधि॑त्व॒चि ।
प्रति॒ तान्दे॑व॒शोवि॑हि ॥18॥
आवृ॑त्रहणा वृत्र॒हभि॒श्शुष्मैः॑ ।
इन्द्र॑ या॒तन्नमो॑भिरग्ने अ॒र्वाक् ।
यु॒वँ राधो॑भि॒रक॑वेभिरिन्द्र ।
अग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ।
होता॑ यक्षदिन्द्रा॒ग्नी ।
छाग॑स्य व॒पाया॒ मेद॑सः ।
जु॒षेताँ॑ ह॒विः ।
होत॒र्यज॑ ।
विह्यख्य॒न्मन॑सा॒ वस्य॑ इ॒च्छन् ।
इन्द्रा॑ग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् ॥19॥
नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्य॑म् ।
स वा॒न्धियव्ँ॑वाज॒यन्ती॑मतक्षम् ।
होता॑ यक्षदिन्द्रा॒ग्नी ।
पु॒रो॒डाश॑स्य जु॒षेताँ॑ ह॒विः ।
होत॒र्यज॑ ।
त्वामी॑डते अजि॒रन्दू॒त्या॑य ।
ह॒विष्म॑न्त॒स्सद॒मिन्मानु॑षासः ।
यस्य॑ दे॒वैरास॑दो ब॒र्हि॒र॑ग्ने ।
अहा॑न्यस्मै सु॒दिना॑ भवन्तु ।
होता॑ यक्षद॒ग्निम् ।
पु॒रो॒डाश॑स्य जु॒षताँ॑ ह॒विः ।
होत॒र्यज॑ ॥20॥
गी॒र्भिर्विप्र॒ᳶ प्रम॑तिमि॒च्छमा॑नः ।
ईट्टे॑ र॒यिय्ँ य॒शस॑म्पूर्व॒भाज॑म् ।
इन्द्रा॑ग्नी वृत्रहणा सुवज्रा ।
प्र णो॒ नव्ये॑भिस्तिरतन्दे॒ष्णैः ।
माच्छे॑द्म र॒श्मीँरिति॒ नाध॑मानाः ।
पि॒तृ॒णाँ शक्ती॑रनु॒यच्छ॑मानाः ।
इ॒न्द्रा॒ग्निभ्या॒ङ्कव्ँ वृष॑णो मदन्ति ।
ताह्यद्री॑ धि॒षणा॑या उ॒पस्थे॑ ।
अ॒ग्निँ सु॑दी॒तिँ सु॒दृश॑ङ्गृ॒णन्तः॑ ।
न॒म॒स्याम॒स्त्वेड्य॑ञ्जातवेदः ।
त्वान्दू॒तम॑र॒तिँ ह॑व्य॒वाह॑म् ।
दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥21॥
त्वँ ह्य॑ग्ने प्रथ॒मो म॒नोता॑ ।
अ॒स्या धि॒यो अभ॑वो दस्म॒होता॑ ।
त्वँ सीव्ँ॑ वृषन्नकृणोर्दु॒ष्टरी॑तु ।
सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ।
अधा॒ होता॒ न्य॑सीदो॒ यजी॑यान् ।
इ॒डस्प॒द इ॒षय॒न्नीड्य॒स्सन् ।
तन्त्वा॒ नर॑ᳶ प्रथ॒मन्दे॑व॒यन्तः॑ ।
म॒हो रा॒ये चि॒तय॑न्तो॒ अनु॑ग्मन् ।
वृ॒तेव॒ यन्त॑म्ब॒हुभि॑र्वस॒व्यैः॑ ।
त्वे र॒यिञ्जा॑गृ॒वाँसो॒ अनु॑ग्मन्न् ॥22॥
रुश॑न्तम॒ग्निन्द॑र्श॒तम्बृ॒हन्त॑म् ।
व॒पाव॑न्तव्ँ वि॒श्वहा॑ दीदि॒वाँस॑म् ।
प॒दन्दे॒वस्य॒ नम॑सा वि॒यन्तः॑ ।
श्र॒व॒स्यव॒श्श्रव॑ आप॒न्नमृ॑क्तम् ।
नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि ।
भ॒द्राया॑न्ते रणयन्त॒ सन्दृ॑ष्टौ ।
त्वाव्ँव॑र्धन्ति क्षि॒तय॑ᳶ पृथि॒व्याम् ।
त्वँ राय॑ उ॒भया॑सो॒ जना॑नाम् ।
त्वन्त्रा॒ता त॑रणे॒ चेत्यो॑भूः ।
पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ॥23॥
सप॒र्येण्य॒स्स प्रि॒यो वि॒क्ष्व॑ग्निः ।
होता॑ म॒न्द्रो निष॑सादा॒ यजी॑यान् ।
तन्त्वा॑ व॒यन्दम॒ आ दी॑दि॒वाँस॑म् ।
उप॑ज्ञु॒बाधो॒ नम॑सा सदेम ।
तन्त्वा॑ व॒यँ सु॒धियो॒ नव्य॑मग्ने ।
सु॒म्ना॒यव॑ ईमहे देव॒यन्तः॑ ।
त्वव्ँ विशो॑ अनयो॒ दीद्या॑नः ।
दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ ।
वि॒शाङ्क॒विव्ँ वि॒श्पतिँ॒ शश्व॑तीनाम् ।
नि॒तोश॑नव्ँ वृष॒भञ्च॑र्षणी॒नाम् ॥24॥
प्रेती॑षणि मि॒षय॑न्तम्पाव॒कम् ।
राज॑न्तम॒ग्निय्ँय॑ज॒तँ र॑यी॒णाम् ।
सो अ॑ग्न ईजे शश॒मे च॒ मर्तः॑ ।
यस्त॒ आन॑ट्त्स॒मिधा॑ ह॒व्यदा॑तिम् ।
य आहु॑ति॒म्परि॒ वेदा॒ नमो॑भिः ।
विश्वेत्सवा॒मा द॑धते॒ त्वोतः॑ ।
अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम ।
नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः ।
वेदी॑सूनो सहसो गी॒र्भिरु॒क्थैः ।
आ ते॑ भ॒द्रायाँ॑ सुम॒तौ य॑तेम ॥25॥
आ॒ यस्त॒तन्थ॒ रोद॑सी॒ विभा॒सा ।
श्रवो॑भिश्च श्रव॒स्य॑स्तरु॑त्रः ।
बृ॒हद्भि॒र्वाजै॒स्स्थवि॑रेभिर॒स्मे ।
रे॒वद्भि॑रग्ने वित॒रव्ँ वि भा॑हि ।
नृ॒वद्व॑सो॒ सद॒मिद्धे॑ह्य॒स्मे ।
भूरि॑तो॒काय॒ तन॑याय प॒श्वः ।
पू॒र्वीरिषो॑ बृह॒तीरा॒रे अ॑घाः ।
अ॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु ।
पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या ।
वसू॑नि राजन्व॒सुता॑ते अश्याम् ।
पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्ति॑ ।
अग्ने॒ वसु॑ विध॒ते राज॑नि॒त्वे ॥26॥
आ भ॑रतँ शिक्षतव्ँवज्रबाहू ।
अ॒स्माँ इ॑न्द्राग्नी अवतँ॒ शची॑भिः ।
इ॒मे नु ते र॒श्मय॒स्सूर्य॑स्य ।
येभि॑स्सपि॒त्वम्पि॒तरो॑ न॒ आय॑न् ।
होता॑ यक्षदिन्द्रा॒ग्नी ।
छाग॑स्य ह॒विष॒ आत्ता॑म॒द्य ।
म॒ध्य॒तो मेद॒ उद्भृ॑तम् ।
पु॒रा द्वेषो॑भ्यः ।
पु॒रा पौरु॑षेय्या गृ॒भः ।
घस्ता॑न्नू॒नम् ॥27॥
घा॒से अ॑ज्राणाय्ँ॒यव॑सप्रथमानाम् ।
सु॒मत्क्ष॑राणाँ श॒तरु॑द्रियाणाम् ।
अ॒ग्नि॒ष्वा॒त्ताना॒म्पीवो॑पवसनानाम् ।
पा॒र्श्व॒तश्श्रो॑णि॒तश्शि॑ताम॒त उ॑त्साद॒तः ।
अङ्गा॑दङ्गा॒दव॑त्तानाम् ।
कर॑त ए॒वेन्द्रा॒ग्नी ।
जु॒षेताँ॑ ह॒विः ।
होत॒र्यज॑ ।
दे॒वेभ्यो॑ वनस्पते ह॒वीँषि॑ ।
हिर॑ण्यपर्ण प्र॒दिव॑स्ते॒ अर्थ॑म् ॥28॥
प्र॒द॒क्षि॒णिद्र॑श॒नया॑ नि॒यूय॑ ।
ऋ॒तस्य॑ वक्षि प॒थिभी॒ रजि॑ष्ठैः ।
होता॑ यक्षद्वन॒स्पति॑म॒भिहि ।
पि॒ष्टत॑मया॒ रभि॑ष्ठया रश॒नयाधि॑त ।
यत्रे॑न्द्राग्नि॒योश्छाग॑स्य ह॒विष॑ᳶ प्रि॒या धामा॑नि ।
यत्र॒ वन॒स्पते॑ᳶ प्रि॒या पाथाँ॑सि ।
यत्र॑ दे॒वाना॑माज्य॒पाना॑म्प्रि॒या धामा॑नि ।
यत्रा॒ग्नेर्होतु॑ᳶ प्रि॒या धामा॑नि ।
तत्रै॒तम्प्र॒स्तुत्ये॑वोप॒स्तुत्ये॑ वो॒पाव॑स्रक्षत् ।
रभी॑याँसमिव कृ॒त्वी ॥29॥
कर॑दे॒वन्दे॒वो वन॒स्पतिः॑ ।
जु॒षताँ॑ ह॒विः ।
होत॒र्यज॑ ।
पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ ।
वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने ।
त्वँ होतॄ॑णाम॒स्याय॑जिष्ठः ।
होता॑ यक्षद॒ग्निँ स्वि॑ष्ट॒कृत॑म् ।
अया॑ड॒ग्निरि॑न्द्राग्नि॒योश्छाग॑स्य ह॒विष॑ᳶ प्रि॒या धामा॑नि ।
अया॒ड्वन॒स्पते॑ᳶ प्रि॒या पाथाँ॑सि ।
अया॑ड्दे॒वाना॑माज्य॒पाना॑म्प्रि॒या धामा॑नि ।
यक्ष॑द॒ग्नेर्होतु॑ᳶ प्रि॒या धामा॑नि ।
यक्ष॒त्स्वम्म॑हि॒मान॑म् ।
आय॑जता॒मेज्या॒ इषः॑ ।
कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः ।
जु॒षताँ॑ ह॒विः ।
होत॒र्यज॑ ॥30॥
उपो॑ ह॒ यद्वि॒दथव्ँ॑वा॒जिनो॒ गूः ।
गी॒र्भिर्विप्रा॒ᳶ प्रम॑तिमि॒च्छमा॑नाः ।
अ॒र्वन्तो॒ न काष्ठा॒न्नक्ष॑माणाः ।
इ॒न्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते ।
वन॑स्पते रश॒नया॑ऽभि॒धाय॑ ।
पि॒ष्टत॑मया व॒युना॑नि वि॒द्वान् ।
वह॑ देव॒त्रा दि॑धिषो ह॒वीँषि॑ ।
प्र च॑दा॒तार॑म॒मृते॑षु वोचः ।
अ॒ग्निँ स्वि॑ष्ट॒कृत॑म् ।
अया॑ड॒ग्निरि॑न्द्राग्नि॒योश्छग॑स्य ह॒विष॑ᳶ प्रि॒या धामा॑नि ॥31॥
अया॒ड्वन॒स्पते॑ᳶ प्रि॒या पाथाँ॑सि ।
अया॑ड्दे॒वाना॑माज्य॒पाना॑म्प्रि॒या धामा॑नि ।
यक्ष॑द॒ग्नेर्होतु॑ᳶ प्रि॒या धामा॑नि ।
यक्ष॒त्स्वम्म॑हि॒मान॑म् ।
आय॑जता॒मेज्या॒ इषः॑ ।
कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः ।
जु॒षताँ॑ ह॒विः ।
अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः ।
पाव॑क शोचे॒ वेष्ट्वँ हि यज्वा॑ ।
ऋ॒ता य॑जासि महि॒ना वियद्भूः ।
ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥32॥
दे॒वम्ब॒र्हिस्सु॑दे॒वन्दे॒वैस्स्यात्सु॒वीरव्ँ॑ वी॒रैर्वस्तो॑र्वृ॒ज्येता॒क्तोᳶ प्रभ्रि॑ये॒तात्य॒न्यान्रा॒या ब॒र्हिष्म॑तो मदेम वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।
दे॒वीर्द्वार॑स्सङ्घा॒ते वि॒ड्वीर्याम॑ञ्छिथि॒रा ध्रु॒वा दे॒वहू॑तौ व॒त्स ई॑मेना॒स्तरु॑ण॒ आमि॑मीयात्कुमा॒रो वा॒ नव॑जातो॒ मैना॒ अर्वा॑ रे॒णुक॑काट॒ᳶ पृण॑ग्वसु॒वने॑ वसु॒धेय॑स्य वियन्तु यज॑ ।
दे॒वी उ॒षासा॒नक्ताऽद्या॒स्मिन्य॒ज्ञे प्र॑य॒त्य॑ह्वेता॒मपि॑ नू॒नन्दैवी॒र्विश॒ᳶ प्राया॑सिष्टाँ॒ सुप्री॑ते॒ सुधि॑ते वसु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।
दे॒वी जोष्ट्री॒ वसु॑धिती॒ ययो॑र॒न्याऽघा द्द्वेषाँ॑सि यू॒यव॒दान्याव॑क्ष॒द्वसु॒ वार्या॑णि॒ यज॑मानाय वसु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।
दे॒वी ऊ॒र्जाहु॑ती॒ इष॒मूर्ज॑म॒न्याव॑क्ष॒त्सग्धिँ॒ सपी॑तिम॒न्या नवे॑न॒ पूर्व॒न्दय॑माना॒स्स्याम॑ पुरा॒णेन॒ नव॒न्तामूर्ज॑मू॒र्जाहु॑ती ऊ॒र्जय॑माने अधाताव्ँवसु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।
दे॒वा दैव्या॒ होता॑रा॒ नेष्टा॑रा॒ पोता॑रा ह॒ताघ॑शँसावाभ॒रद्व॑सू वसु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीरिडा॒ सर॑स्वती॒ भार॑ती॒ द्याम्भार॑त्यादि॒त्यैर॑स्पृक्ष॒त्सर॑स्वती॒मँ रु॒द्रैर्य॒ज्ञमा॑वीदि॒हैवेड॑या॒ वसु॑मत्या सध॒माद॑म्मदेम वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
दे॒वो नरा॒शँस॑स्त्रिशी॒र्षा ष॑ड॒क्षश्श॒तमिदे॑नँ शितिपृ॒ष्ठा आद॑धति स॒हस्र॑मी॒म्प्रव॑हन्ति मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्ह॑तो॒ बृह॒स्पति॑स्स्तो॒त्रम॒श्विनाऽऽ ध्व॑र्यवव्ँवसु॒वने॑ वसु॒धेयस्य॑ वेतु॒ यज॑ ।
दे॒वो वन॒स्पति॑र्व॒र्षप्रा॑वा घृ॒तनि॑र्णि॒ग्द्यामग्रे॒णास्पृ॑क्ष॒दान्तरि॑क्ष॒म्मध्ये॑नाप्राᳶ पृथि॒वीमुप॑रेणादृँहीद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।
दे॒वम्ब॒र्हिर्वारि॑तीनान्नि॒धेधा॑ऽसि॒ प्रच्यु॑तीना॒मप्र॑च्युतन्निकाम॒धर॑णम्पुरुस्पा॒र्हय्ँयश॑स्वदे॒ना ब॒र्हिषा॒ऽन्या ब॒र्हीँष्य॒भि ष्या॑म वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।
दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृ त्सु॒द्रवि॑णा म॒न्द्रᳵ क॒विस्स॒त्यम॑न्माऽऽय॒जी होता॒ होतु॑र्होतु॒राय॑जीया॒नग्ने॒ यान्दे॒वानया॒ड्याँ अपि॑प्रे॒र्ये ते॑ हो॒त्रे अम॑त्सत॒ ताँ स॑स॒नुषीँ॒ होत्रा॑न्देवङ्ग॒मान्दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मँ स्वि॑ष्ट॒कृच्चाग्ने॒ होताऽभू॑र्वसु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॒ यज॑ ॥33॥
दे॒वम्ब॒र्हिः ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु ।
दे॒वीर्द्वारः॑ ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु ।
दे॒वी उ॒षासा॒नक्ता॑ ।
व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् ।
दे॒वी जोष्ट्री॑ ।
व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् ।
दे॒वी ऊ॒र्जाहु॑ती ।
व॒सु॒वने॑ वसु॒धेयस्य॑ वीताम् ॥34॥
दे॒वा दैव्या॒ होता॑रा ।
व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् ।
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु ।
दे॒वो नरा॒शँसः॑ ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु ।
दे॒वो वन॒स्पतिः॑ ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु ।
दे॒वम्ब॒र्हिर्वारि॑तीनाम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु ॥35॥
दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् ।
सु॒द्रवि॑णा म॒न्द्रᳵ क॒विः ।
स॒त्यम॑न्माय॒जी होता॑ ।
होतु॑र्होतु॒राय॑जीयान् ।
अग्ने॒ यान्दे॒वानया॑ट् ।
याँ अपि॑प्रेः ।
ये ते॑ हो॒त्रे अम॑त्सत ।
ताँ स॑स॒नुषीँ॒ होत्रा॑न्देवङ्ग॒माम् ।
दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् ।
स्वि॒ष्ट॒कृच्चाग्ने॒ होताऽभूः॑ ।
व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑ ॥36॥
अ॒ग्निम॒द्य होता॑रमवृणीता॒यय्ँयज॑मान॒ᳶ पच॑न्प॒क्तीᳶ पच॑न्पुरो॒डाश॑म्ब॒ध्नन्नि॑न्द्रा॒ग्निभ्या॒ञ्छागँ॑ सूप॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवदिन्द्रा॒ग्निभ्या॒ञ्छागे॒नाघ॑स्ता॒न्तम्मे॑द॒स्तᳶ प्रति॑पच॒ताग्र॑भीष्टा॒मवी॑वृधेताम्पुरो॒डाशे॑न॒ त्वाम॒द्यर्ष॑ आर्षेय ऋषीणान्नपादवृणीता॒यय्ँयज॑मानो ब॒हुभ्य॒ आ सङ्ग॑तेभ्य ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑क्ष्यत॒ इति॒ ता या दे॒वा दे॑व॒दाना॒न्यदु॒स्तान्य॑स्मा॒ आ च॒ शास्वा च॑ गुरस्वेषि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षस्सूक्तवा॒काय॑ सू॒क्ता ब्रू॑हि ॥37॥
सर्वा॒न्वा ए॒षो॑ऽग्नौ कामा॒न्प्रवे॑शयति ।
यो॑ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ ।
सयदनि॑ष्ट्वा प्रया॒यात् ।
अका॑मप्रीता एन॒ङ्कामा॒ नानु॒प्रया॑युः ।
अ॒ते॒जा अ॑वी॒र्य॑स्स्यात् ।
स जु॑हुयात् ।
तुभ्य॒न्ता अ॑ङ्गिरस्तम ।
विश्वा॑स्सुक्षि॒तय॒ᳶ पृथ॑क् ।
अग्ने॒ कामा॑य येमिर॒ इति॑ ।
कामा॑ने॒वास्मि॑न्दधाति ॥1॥
काम॑प्रीता एन॒ङ्कामा॒ अनु॒प्रया॑न्ति ।
ते॒ज॒स्वी वी॒र्या॑वान्भवति ।
सन्त॑ति॒र्वा ए॒षा य॒ज्ञस्य॑ ।
यो॑ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ ।
स यदु॒द्वाय॑ति ।
विच्छि॑त्तिरे॒वास्य॒ सा ।
तम्प्राञ्च॑मु॒द्धृत्य॑ ।
मन॒सोप॑तिष्ठेत ।
मनो॒ वै प्र॒जाप॑तिः ।
प्रा॒जा॒प॒त्यो य॒ज्ञः ॥2॥
मन॑सै॒व य॒ज्ञँ सन्त॑नोति ।
भूरित्या॑ह ।
भू॒तो वै प्र॒जाप॑तिः ।
भूति॑मे॒वोपै॑ति ।
वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते ।
यस्याहि॑ताग्नेर॒ग्निर॑प॒क्षाय॑ति ।
याव॒च्छम्य॑या प्र॒विध्ये॑त् ।
यदि॒ ताव॑दप॒क्षाये॑त् ।
तँ सम्भ॑रेत् ।
इ॒दन्त॒ एक॑म्प॒र उ॑त॒ एक॑म् ॥3॥
तृ॒तीये॑न॒ ज्योति॑षा॒ सव्ँ वि॑शस्व ।
सव्ँ॒वेश॑नस्त॒नुवै॒ चारु॑रेधि ।
प्रि॒ये दे॒वाना॑म्पर॒मे ज॒नित्र॒ इति॑ ।
ब्रह्म॑णै॒वैनँ॒ सम्भ॑रति ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
यदि॑ परस्त॒राम॑प॒क्षाये॑त् ।
अ॒नु॒प्र॒यायाव॑स्येत् ।
सो ए॒व तत॒ᳶ प्राय॑श्चित्तिः ।
ओष॑धी॒र्वा ए॒तस्य॑ प॒शून्पय॒ᳶ प्रवि॑शति ।
यस्य॑ ह॒विषे॑ व॒त्सा अ॒पाकृ॑ता॒ धय॑न्ति ॥4॥
तान् यद्दु॒ह्यात् ।
या॒तया॑म्ना ह॒विषा॑ यजेत ।
यन्न दु॒ह्यात् ।
य॒ज्ञ॒प॒रुर॒न्तरि॑यात् ।
वा॒य॒व्याय्ँ॑यवा॒गून्निर्व॑पेत् ।
वा॒युर्वै पय॑सᳶ प्रदापयि॒ता ।
स ए॒वास्मै॒ पय॒ᳶ प्रदा॑पयति ।
पयो॒ वा ओष॑धयः ।
पय॒ᳶ पयः॑ ।
पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे ॥5॥
अथोत्त॑रस्मै ह॒विषे॑ व॒त्सान॒पाकु॑र्यात् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
अ॒न्य॒त॒रान् वा ए॒ष दे॒वान्भा॑ग॒धेये॑न॒ व्य॑र्धयति ।
ये यज॑मानस्य सा॒यङ्गृ॒हमा॒गच्छ॑न्ति ।
यस्य॑ सायन्दु॒ग्धँ ह॒विरार्ति॑मा॒र्च्छति॑ ।
इन्द्रा॑य व्री॒हीन्नि॒रुप्योप॑वसेत् ।
पयो॒ वा ओष॑धयः ।
पय॑ ए॒वारभ्य॑ गृही॒त्वोप॑वसति ।
यत्प्रा॒तस्स्यात् ।
तच्छृ॒तङ्कु॑र्यात् ॥6॥
अथेत॑र ऐ॒न्द्रᳶ पु॑रो॒डाश॑स्स्यात् ।
इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति ।
पयो॒ वा ओष॑धयः ।
पय॒ᳶ पयः॑ ।
पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे ।
अथोत्त॑रस्मै ह॒विषे॑ व॒त्सान॒पाकु॑र्यात् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
उ॒भया॒न्वा ए॒ष दे॒वान्भा॑ग॒धेये॑न॒ व्य॑र्धयति ।
ये यज॑मानस्य सा॒यञ्च॑ प्रा॒तश्च॑ गृ॒हमा॒गच्छ॑न्ति ।
यस्यो॒भयँ॑ ह॒विरार्ति॑मा॒र्च्छति॑ ॥7॥
ऐ॒न्द्रम्पञ्च॑शरावमोद॒नन्निर्व॑पेत् ।
अ॒ग्निन्दे॒वता॑नाम्प्रथ॒मय्ँय॑जेत् ।
अ॒ग्निमु॑खा ए॒व दे॒वता॑ᳶ प्रीणाति ।
अ॒ग्निव्ँ वा अन्व॒न्या दे॒वताः॑ ।
इन्द्र॒मन्व॒न्याः ।
ता ए॒वोभयी॑ᳶ प्रीणाति ।
पयो॒ वा ओष॑धयः ।
पय॒ᳶ पयः॑ ।
पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे ।
अथोत्तर॑स्मै ह॒विषे॑ व॒त्सान॒पाकु॑र्यात् ॥8॥
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
अ॒र्धो वा ए॒तस्य॑ य॒ज्ञस्य॑ मीयते ।
यस्य॒ व्रत्येऽह॒न्पत्न्य॑नालम्भु॒का भव॑ति ।
ताम॑प॒रुध्य॑ यजेत ।
सर्वे॑णै॒व य॒ज्ञेन॑ यजते ।
तामि॒ष्ट्वोप॑ह्वयेत ।
अमू॒हम॑स्मि ।
सा त्वम् ।
द्यौर॒हम् ।
पृ॒थि॒वी त्वम् ।
सामा॒हम् ।
ऋक्त्वम् ।
तावेहि॒ सम्भ॑वाव ।
स॒ह रेतो॑ दधावहै ।
पुँ॒से पु॒त्राय॒ वेत्त॑वै ।
रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॒येति॑ ।
अ॒र्ध ए॒वैना॒मुप॑ह्वयते ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ॥9॥
यद्विष्ष॑ण्णेन जुहु॒यात् ।
अप्र॑जा अप॒शुर्यज॑मानस्स्यात् ।
यदना॑यतने नि॒नये॑त् ।
अ॒ना॒य॒त॒नस्स्या॑त् ।
प्रा॒जा॒प॒त्यय॒र्चा व॑ल्मीकव॒पाया॒मव॑नयेत् ।
प्रा॒जा॒प॒त्यो वै व॒ल्मीकः॑ ।
य॒ज्ञᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑तावे॒व य॒ज्ञम्प्रति॑ष्ठापयति ।
भूरित्या॑ह ।
भू॒तो वै प्र॒जाप॑तिः ॥10॥
भूति॑मे॒वोपै॑ति ।
तत्कृ॒त्वा ।
अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
यत्की॒टाव॑पन्नेन जुहु॒यात् ।
अप्र॑जा अप॒शुर्यज॑मानस्स्यात् ।
यदना॑यतने नि॒नये॑त् ।
अ॒ना॒य॒त॒नस्स्या॑त् ।
म॒ध्य॒मेन॑ प॒र्णेन॑ द्यावापृथि॒व्य॑य॒र्चाऽन्त॑ᳶपरि॒धि निन॑येत् ।
द्यावा॑पृथि॒व्योरे॒वैन॒त्प्रति॑ष्ठापयति ॥11॥
तत्कृ॒त्वा ।
अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
यदव॑वृष्टेन जुहु॒यात् ।
अप॑रूपमस्या॒त्मञ्जा॑येत ।
कि॒लासो॑ वा॒ स्याद॑र्श॒सो वा॑ ।
यत्प्रत्ये॒यात् ।
य॒ज्ञव्ँ विच्छि॑न्द्यात् ।
स जु॑हुयात् ।
मि॒त्रो जना॑न्कल्पयति प्रजा॒नन्न् ॥12॥
मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् ।
मि॒त्रᳵ कृ॒ष्टीरनि॑मिषा॒ऽभिच॑ष्टे ।
स॒त्याय॑ ह॒व्यङ्घृ॒तव॑ज्जुहो॒तेति॑ ।
मि॒त्रेणै॒वैन॑त्कल्पयति ।
तत्कृ॒त्वा ।
अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
यत्पूर्व॑स्या॒माहु॑त्याँ हु॒ताया॒मुत्त॒राऽऽहु॑ति॒स्स्कन्दे॑त् ।
द्वि॒पाद्भि॑ᳶ प॒शुभि॒र्यज॑मानो॒ व्यृ॑ध्येत ।
यदुत्त॑रया॒ऽभिजु॑हु॒यात् ॥13॥
चतु॑ष्पाद्भिᳶ प॒शुभि॒र्यज॑मानो॒ व्यृ॑ध्येत ।
यत्र॒ वेत्थ॑ वनस्पते दे॒वाना॒ङ्गुह्या॒ नामा॑नि ।
तत्र॑ ह॒व्यानि॑ गाम॒येति॑ वानस्प॒त्यय॒र्चा स॒मिध॑मा॒धाय॑ ।
तू॒ष्णीमे॒व पुन॑र्जुहुयात् ।
वन॒स्पति॑नै॒व य॒ज्ञस्यार्ता॒ञ्चाना॑र्ता॒ञ्चाहु॑ती॒ विदा॑धार ।
तत्कृ॒त्वा ।
अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
यत्पु॒रा प्र॑या॒जेभ्य॒ᳶ प्राङङ्गा॑र॒स्स्कन्दे॑त् ।
अ॒ध्व॒र्यवे॑ च॒ यज॑मानाय॒ चाकँ॑ स्यात् ॥14॥
यद्द॑क्षि॒णा ।
ब्र॒ह्मणे॑ च॒ यज॑मानाय॒ चाकँ॑ स्यात् ।
यत्प्र॒त्यक् ।
होत्रे॑ च॒ पत्नि॑यै च॒ यज॑मानाय॒ चाकँ॑ स्यात् ।
यदुदङ्ङ्॑ ।
अ॒ग्नीधे॑ च प॒शुभ्य॑श्च॒ यज॑मानाय॒ चाकँ॑ स्यात् ।
यद॑भिजुहु॒यात् ।
रु॒द्रो॑ऽस्य प॒शून्घातु॑कस्स्यात् ।
यन्नाभि॑जुहु॒यात् ।
अशा॑न्त॒ᳶ प्रह्रि॑येत ॥15॥
स्रु॒वस्य॒ बुध्ने॑नाभि॒निद॑ध्यात् ।
मा त॑मो॒ मा य॒ज्ञस्त॑म॒न्मा यज॑मानस्तमत् ।
नम॑स्ते अस्त्वाय॒ते ।
नमो॑ रुद्र पराय॒ते ।
नमो॒ यत्र॑ नि॒षीद॑सि ।
अ॒मुम्मा हिँ॑सीर॒मुम्मा हिँ॑सी॒रिति॒ येन॒ स्कन्दे॑त् ।
तम्प्रह॑रेत् ।
स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दाः ।
स्तोम॑पृष्ठो घृ॒तवा॑न्त्सु॒प्रती॑कः ।
मा नो॑ हासीन्मेत्थि॒तो नेत्त्वा॒ जहा॑म ।
गो॒पो॒षन्नो॑ वीरपो॒षञ्च॑ य॒च्छेति॑ ।
ब्रह्म॑णै॒वैन॒म्प्रह॑रति ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ॥16॥
वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते ।
यस्याहि॑ताग्नेर॒ग्निर्म॒थ्यमा॑नो॒ न जाय॑ते ।
यत्रा॒न्यम्पश्ये॑त् ।
तत॑ आ॒हृत्य॑ होत॒व्य॑म् ।
अ॒ग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
यद्य॒न्यन्न वि॒न्देत् ।
अ॒जायाँ॑ होत॒व्य॑म् ।
आ॒ग्ने॒यी वा ए॒षा ।
यद॒जा ।
अ॒ग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ॥17॥
अ॒जस्य॒ तु नाश्ञी॑यात् ।
यद॒जस्या॑श्ञी॒यात् ।
यामे॒वाग्नावाहु॑तिञ्जुहु॒यात् ।
ताम॑द्यात् ।
तस्मा॑द॒जस्य॒ नाश्य॑म् ।
यद्य॒जान्न वि॒न्देत् ।
ब्रा॒ह्म॒णस्य॒ दक्षि॑णे॒ हस्ते॑ होत॒व्य॑म् ।
ए॒ष वा अ॒ग्निर्वै॑श्वान॒रः ।
यद्ब्रा॑ह्म॒णः ।
अ॒ग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ॥18॥
ब्रा॒ह्म॒णन्तु व॑स॒त्यै॑ नाप॑रुन्ध्यात् ।
यद्ब्रा॑ह्म॒णव्ँव॑स॒त्या अ॑परु॒न्ध्यात् ।
यस्मि॑न्ने॒वाग्नावाहु॑तिञ्जुहु॒यात् ।
तम्भा॑ग॒धेये॑न॒ व्य॑र्धयेत् ।
तस्मा॑द्ब्राह्म॒णो व॑स॒त्यै॑ नाप॒रुध्यः॑ ।
यदि॑ ब्राह्म॒णन्न वि॒न्देत् ।
द॒र्भ॒स्त॒म्बे हो॑त॒व्य॑म् ।
अ॒ग्नि॒वान् वै द॑र्भस्त॒म्बः ।
अ॒ग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
द॒र्भाँस्तु नाध्या॑सीत ॥19॥
यद्द॒र्भान॒ध्यासी॑त ।
यामे॒वाग्नावाहु॑तिञ्जुहु॒यात् ।
तामध्या॑सीत ।
तस्मा॑द्द॒र्भा नाध्या॑सित॒व्याः॑ ।
यदि॑ द॒र्भान्न वि॒न्देत् ।
अ॒प्सु हो॑त॒व्य॑म् ।
आपो॒ वै सर्वा॑ दे॒वताः॑ ।
दे॒वता॑स्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
आप॒स्तु न परि॑चक्षीत ।
यदाप॑ᳶ परि॒चक्षी॑त ॥20॥
यामे॒वाप्स्वाहु॑तिञ्जुहु॒यात् ।
ताम्परि॑चक्षीत ।
तस्मा॒दापो॒ न प॑रि॒चक्ष्याः॑ ।
मेध्या॑ च॒ वा ए॒तस्या॑मे॒ध्या च॑ त॒नुवौ॒ सँसृ॑ज्येते ।
यस्याहि॑ताग्नेर॒न्यैर॒ग्निभि॑र॒ग्नय॑स्सँसृ॒ज्यन्ते॑ ।
अ॒ग्नये॒ विवि॑चये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
मेध्या॑ञ्चै॒वास्या॑मे॒ध्याञ्च॑ त॒नुवौ॒ व्याव॑र्तयति ।
अ॒ग्नये॑ व्र॒तप॑तये पु॒रो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
अ॒ग्निमे॒व व्र॒तप॑तिँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वैन॑व्व्ँर॒तमाल॑म्भयति ॥21॥
गर्भँ॒ स्रव॑न्तमग॒दम॑कः ।
अ॒ग्निरिन्द्र॒स्त्वष्टा॒ बृह॒स्पतिः॑ ।
पृ॒थि॒व्यामव॑चुश्चोतै॒तत् ।
नाभिप्राप्नो॑ति॒ निर्ऋ॑तिम्परा॒चैः ।
रेतो॒ वा ए॒तद्वाजि॑न॒माहि॑ताग्नेः ।
यद॑ग्निहो॒त्रम् ।
तद्यत्स्रवे॑त् ।
रेतो॑ऽस्य॒ वाजि॑नँ स्रवेत् ।
गर्भँ॒ स्रव॑न्तमग॒दम॑क॒रित्या॑ह ।
रेत॑ ए॒वास्मि॒न्वाजि॑नन्दधाति ॥22॥
अ॒ग्निरित्या॑ह ।
अ॒ग्निर्वै रे॑तो॒धाः ।
रेत॑ ए॒व तद्द॑धाति ।
इन्द्र॒ इत्या॑ह ।
इ॒न्द्रि॒यमे॒वास्मि॑न्दधाति ।
त्वष्टेत्या॑ह ।
त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृत् ।
रू॒पमे॒व प॒शुषु॑ दधाति ।
बृह॒स्पति॒रित्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒वास्मै॑ प्र॒जाᳶ प्रज॑नयति ।
पृ॒थि॒व्यामव॑ चुश्चोतै॒तदित्या॑ह ।
अ॒स्यामे॒वैन॒त्प्रति॑ष्ठापयति ।
नाभिप्राप्नो॑ति॒ निर्ऋ॑तिम्पराचै॒रित्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ॥23॥
याᳶ पु॒रस्ता॑त्प्र॒स्रव॑न्ति ।
उ॒परि॑ष्टात्स॒र्वत॑श्च॒ याः ।
ताभी॑ र॒श्मिप॑वित्राभिः ।
श्र॒द्धाय्ँ य॒ज्ञमार॑भे ।
देवा॑ गातुविदः ।
गा॒तुय्ँ य॒ज्ञाय॑ विन्दत ।
मन॑स॒स्पति॑ना दे॒वेन॑ ।
वाता॑द्य॒ज्ञᳶ प्रयु॑ज्यताम् ।
तृ॒तीय॑स्यै दि॒वः ।
गा॒य॒त्रि॒या सोम॒ आभृ॑तः ॥24॥
सो॒म॒पी॒थाय॒ सन्न॑यितुम् ।
वक॑ल॒मन्त॑र॒माद॑दे ।
आपो॑ देवीश्शु॒द्धास्स्थ॑ ।
इ॒मा पात्रा॑णि शुन्धत ।
उ॒पा॒त॒ङ्क्या॑य दे॒वाना॑म् ।
प॒र्ण॒व॒ल्कमु॒त शु॑न्धत ।
पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ ।
पयो॑ व॒त्सेषु॒ पय॒ इन्द्रा॑य ह॒विषे॑ ध्रियस्व ।
गा॒य॒त्री प॑र्णव॒ल्केन॑ ।
पय॒स्सोम॑ङ्करोत्वि॒मम् ॥25॥
अ॒ग्निङ्गृ॑ह्णामि सु॒रथय्ँ॒यो म॑यो॒भूः ।
य उ॒द्यन्त॑मा॒रोह॑ति॒ सूर्य॒मह्ने॑ ।
आ॒दि॒त्यञ्ज्योति॑षा॒ञ्ज्योति॑रुत्त॒मम् ।
श्वो य॒ज्ञाय॑ रमतान्दे॒वता॑भ्यः ।
वसू॑न्रु॒द्राना॑दि॒त्यान् ।
इन्द्रे॑ण स॒ह दे॒वताः॑ ।
ताᳶ पूर्व॒ᳶ परि॑गृह्णामि ।
स्व आ॒यत॑ने मनी॒षया॑ ।
इ॒मामूर्ज॑म्पञ्चद॒शीय्ँय्ँ ये प्रवि॑ष्टाः ।
तान्दे॒वान्परि॑गृह्णामि॒ पूर्वः॑ ॥26॥
अ॒ग्निर्ह॑व्य॒वाडि॒ह तानाव॑हतु ।
पौ॒र्णमा॒सँ ह॒विरि॒दमे॑षा॒म्मयि॑ ।
आ॒मा॒वा॒स्यँ॑ ह॒विरि॒दमे॑षा॒म्मयि॑ ।
अ॒न्त॒राऽग्नी प॒शवः॑ ।
दे॒व॒सँ॒सद॒माग॑मन् ।
तान्पूर्व॒ᳶ परि॑गृह्णामि ।
स्व आ॒यत॑ने मनी॒षया॑ ।
इ॒ह प्र॒जा वि॒श्वरू॑पा रमन्ताम् ।
अ॒ग्निङ्गृ॒हप॑तिम॒भिसव्ँ॒वसा॑नाः ।
ताᳶ पूर्व॒ ᳶ परि॑गृह्णामि ॥27॥
स्व आ॒यत॑ने मनी॒षया॑ ।
इ॒ह प॒शवो॑ वि॒श्वरू॑पा रमन्ताम् ।
अ॒ग्निङ्गृ॒हप॑तिम॒भिसव्ँ॒वसा॑नाः ।
तान्पूर्व॒ᳶ परि॑गृह्णामि ।
स्व आ॒यत॑ने मनी॒षया॑ ।
अ॒यम्पि॑तृ॒णाम॒ग्निः ।
अवा॑ड्ढ॒व्या पि॒तृभ्य॒ आ ।
तम्पूर्व॒ᳶ परि॑गृह्णामि ।
अवि॑षन्नᳶ पि॒तुङ्क॑रत् ।
अज॑स्र॒न्त्वाँ स॑भापा॒लाः ॥28॥
वि॒ज॒यभा॑गँ॒ समि॑न्धताम् ।
अग्ने॑ दी॒दा॑य मे सभ्य ।
विजि॑त्यै श॒रद॑श्श॒तम् ।
अन्न॑मावस॒थीय॑म् ।
अ॒भिह॑राणि श॒रद॑श्श॒तम् ।
आ॒व॒स॒थे श्रिय॒म्मन्त्र॑म् ।
अहि॑र्बु॒ध्नियो॒ निय॑च्छतु ।
इ॒दम॒हम॒ग्निज्ये॑ष्ठेभ्यः ।
वसु॑भ्यो य॒ज्ञम्प्रब्र॑वीमि ।
इ॒दम॒हमिन्द्र॑ज्येष्ठेभ्यः ॥29॥
रु॒द्रेभ्यो॑ य॒ज्ञम्प्रब्र॑वीमि ।
इ॒दम॒हव्ँवरु॑णज्येष्ठेभ्यः ।
आ॒दि॒त्येभ्यो॑ य॒ज्ञम्प्रब्र॑वीमि ।
पय॑स्वती॒रोष॑धयः ।
पय॑स्वद्वी॒रुधा॒म्पयः॑ ।
अ॒पाम्पय॑सो॒ यत्पयः॑ ।
तेन॒ मामि॑न्द्र॒ सँसृ॑ज ।
अग्ने॑ व्रतपते व्र॒तञ्च॑रिष्यामि ।
तच्छ॑केय॒न्तन्मे॑ राध्यताम् ।
वायो॑ व्रतपत॒ आदि॑त्य व्रतपते ॥30॥
व्र॒ताना॑व्व्ँरतपते व्र॒तञ्च॑रिष्यामि ।
तच्छ॑केय॒न्तन्मे॑ राध्यताम् ।
इ॒माम्प्राची॒मुदी॑चीम् ।
इष॒मूर्ज॑म॒भिसँस्कृ॑ताम् ।
ब॒हु॒प॒र्णामशु॑ष्काग्राम् ।
हरा॑मि पशु॒पाम॒हम् ।
यत्कृष्णो॑ रू॒पङ्कृ॒त्वा ।
प्रावि॑श॒स्त्वव्ँवन॒स्पती॑न् ।
तत॒स्त्वामे॑कविँशति॒धा ।
सम्भ॑रामि सुस॒म्भृता॑ ॥31॥
त्रीन्प॑रि॒धीँ स्ति॒स्रस्स॒मिधः॑ ।
य॒ज्ञायु॑रनुसञ्च॒रान् ।
उ॒प॒वे॒षम्मेक्ष॑ण॒न्धृष्टि॑म् ।
सम्भ॑रामि सुस॒म्भृता॑ ।
या जा॒ता ओष॑धयः ।
दे॒वेभ्य॑स्त्रियु॒गम्पु॒रा ।
तासा॒म्पर्व॑ राध्यासम् ।
प॒रि॒स्त॒रमा॒हर॑न् ।
अ॒पाम्मेध्यय्ँ॑ य॒ज्ञिय॑म् ।
सदे॑वँ शि॒वम॑स्तु मे ॥32॥
आ॒च्छे॒त्ता वो॒ मा रि॑षम् ।
जीवा॑नि श॒रद॑श्श॒तम् ।
अप॑रिमिताना॒म्परि॑मिताः ।
सन्न॑ह्ये सुकृ॒ताय॒ कम् ।
एनो॒ मा निगा॑ङ्कत॒मच्च॒नाहम् ।
पुन॑रु॒त्थाय॑ बहु॒ला भ॑वन्तु ।
स॒कृ॒दा॒च्छि॒न्नं ब॒र्हिरूर्णा॑मृदु ।
स्यो॒नम्पि॒तृभ्य॑स्त्वा भराम्य॒हम् ।
अ॒स्मिन्त्सी॑दन्तु मे पि॒तर॑स्सो॒म्याः ।
पि॒ता॒म॒हाᳶ प्रपि॑तामहाश्चानु॒गैस्स॒ह ॥33॥
त्रि॒वृत्प॑ला॒शे द॒र्भः ।
इया॑न्प्रादे॒शस॑म्मितः ।
य॒ज्ञे प॒वित्र॒म्पोतृ॑तमम् ।
पयो॑ ह॒व्यङ्क॑रोतु मे ।
इ॒मौ प्रा॑णापा॒नौ ।
य॒ज्ञस्याङ्गा॑नि सर्व॒शः ।
आ॒प्या॒यय॑न्तौ॒ सञ्च॑रताम् ।
प॒वित्रे॑ हव्य॒शोध॑ने ।
प॒वित्रे॑ स्थो वैष्ण॒वी ।
वा॒युर्वा॒म्मन॑सा पुनातु ॥34॥
अ॒यम्प्रा॒णश्चा॑पा॒नश्च॑ ।
यज॑मान॒मपि॑गच्छताम् ।
य॒ज्ञे ह्यभू॑ता॒म्पोता॑रौ ।
प॒वित्रे॑ हव्य॒शोध॑ने ।
त्वया॒ वेदिव्ँ॑विविदुᳶ पृथि॒वीम् ।
त्वया॑ य॒ज्ञो जा॑यते विश्व॒दानिः॑ ।
अच्छि॑द्रय्ँ य॒ज्ञमन्वे॑षि वि॒द्वान् ।
त्वया॒ होता॒ सन्त॑नोत्यर्धमा॒सान् ।
त्र॒य॒स्त्रिँ॒शो॑ऽसि॒ तन्तू॑नाम् ।
प॒वित्रे॑ण स॒हाग॑हि ॥35॥
शि॒वेयँ रज्जु॑रभि॒धानी॑ ।
अ॒घ्नि॒यामुप॑सेवताम् ।
अप्र॑स्रँसाय य॒ज्ञस्य॑ ।
उ॒खे उप॑दधाम्य॒हम् ।
प॒शुभि॒स्सन्नी॑तम्बिभृताम् ।
इन्द्रा॑य शृ॒तन्दधि॑ ।
उ॒प॒वे॒षो॑ऽसि य॒ज्ञाय॑ ।
त्वाम्प॑रिवे॒षम॑धारयन् ।
इन्द्रा॑य ह॒विᳵ कृ॒ण्वन्तः॑ ।
शि॒वश्श॒ग्मो भ॑वासि नः ॥36॥
अमृ॑न्मयन्देवपा॒त्रम् ।
य॒ज्ञस्यायु॑षि॒ प्रयु॑ज्यताम् ।
ति॒र॒ᳶप॒वि॒त्रमति॑नीताः ।
आपो॑ धारय॒ माऽति॑गुः ।
दे॒वेन॑ सवि॒त्रोत्पू॑ताः ।
वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ ।
गान्दो॑हपवि॒त्रे रज्जु॑म् ।
सर्वा॒ पात्रा॑णि शुन्धत ।
ए॒ता आच॑रन्ति॒ मधु॑म॒द्दुहा॑नाः ।
प्र॒जाव॑तीर्य॒शसो॑ वि॒श्वरू॑पाः ॥37॥
ब॒ह्वीर्भव॑न्ती॒रुप॒जाय॑मानाः ।
इ॒ह व॒ इन्द्रो॑ रमयतु गावः ।
पू॒षा स्थ॑ ।
अ॒य॒क्ष्मा व॑ᳶ प्र॒जया॒ सँसृ॑जामि ।
रा॒यस्पोषे॑ण बहु॒लाभव॑न्तीः ।
ऊर्ज॒म्पय॒ᳶ पिन्व॑माना घृ॒तञ्च॑ ।
जी॒वो जीव॑न्ती॒रुप॑ वस्सदेयम् ।
द्यौश्चे॒मय्ँ य॒ज्ञम्पृ॑थि॒वी च॒ सन्दु॑हाताम् ।
धा॒ता सोमे॑न स॒ह वाते॑न वा॒युः ।
यज॑मानाय॒ द्रवि॑णन्दधातु ॥38॥
उत्स॑न्दुहन्ति क॒लश॒ञ्चतु॑र्बिलम् ।
इडा॑न्दे॒वीम्मधु॑मतीँ सुव॒र्विद॑म् ।
तदि॑न्द्रा॒ग्नी जि॑न्वतँ सू॒नृता॑वत् ।
तद्यज॑मानममृत॒त्वे द॑धातु ।
काम॑धुक्ष॒ᳶ प्र णो॑ ब्रूहि ।
इन्द्रा॑य ह॒विरि॑न्द्रि॒यम् ।
अ॒मूय्ँयस्या॑न्दे॒वाना॑म् ।
म॒नु॒ष्या॑णा॒म्पयो॑ हि॒तम् ।
ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यः॑ ।
ह॒व्यमाप्या॑यता॒म्पुनः॑ ॥39॥
व॒त्सेभ्यो॑ मनु॒ष्ये॑भ्यः ।
पु॒न॒र्दो॒हाय॑ कल्पताम् ।
य॒ज्ञस्य॒ सन्त॑तिरसि ।
य॒ज्ञस्य॑ त्वा॒ सन्त॑ति॒मनु॒सन्त॑नोमि ।
अद॑स्तमसि॒ विष्ण॑वे त्वा ।
य॒ज्ञायापि॑दधाम्य॒हम् ।
अ॒द्भिररि॑क्तेन॒ पात्रे॑ण ।
याᳶ पू॒ताᳶ प॑रि॒शेर॑ते ।
अ॒यम्पय॒स्सोम॑ङ्कृ॒त्वा ।
स्वाय्ँ योनि॒मपि॑गच्छतु ॥40॥
प॒र्ण॒व॒ल्कᳶ प॒वित्र॑म् ।
सौ॒म्यस्सोमा॒द्धि निर्मि॑तः ।
इ॒मौ प॒र्णञ्च॑ द॒र्भञ्च॑ ।
दे॒वानाँ॑ हव्य॒शोध॑नौ ।
प्रा॒त॒र्वे॒षाय॑ गोपाय ।
विष्णो॑ ह॒व्यँ हि रक्ष॑सि ।
उ॒भाव॒ग्नी उ॑पस्तृण॒ते ।
दे॒वता॒ उप॑वसन्तु मे ।
अ॒हङ्ग्रा॒म्यानुप॑वसामि ।
मह्य॒ङ्गोप॑तये प॒शून् ॥41॥
देवा॑ दे॒वेषु॒ परा॑क्रमध्वम् ।
प्रथ॑मा द्वि॒तीये॑षु ।
द्विती॑यास्तृ॒तीये॑षु ।
त्रिरे॑कादशा इ॒ह मा॑ऽवत ।
इ॒दँ श॑केयय्ँ॒यदि॒दङ्क॒रोमि॑ ।
आ॒त्मा क॑रोत्वा॒त्मने॑ ।
इ॒दङ्क॑रिष्ये भेष॒जम् ।
इ॒दम्मे॑ विश्वभेषजा ।
अश्वि॑ना॒ प्राव॑तय्ँ यु॒वम् ।
इ॒दम॒हँ सेना॑या अ॒भीत्व॑र्यै ॥42॥
मुख॒मपो॑हामि ।
सूर्य॑ ज्योति॒र्विभा॑हि ।
म॒ह॒त इ॑न्द्रि॒याय॑ ।
आप्या॑यताङ्घृ॒तयो॑निः ।
अ॒ग्निर्ह॒व्याऽनु॑मन्यताम् ।
खम॑ङ्क्ष्व॒ त्वच॑मङ्क्ष्व ।
सु॒रू॒पन्त्वा॑ वसु॒विद॑म् ।
प॒शू॒नान्तेज॑सा ।
अ॒ग्नये॒ जुष्ट॑म॒भिघा॑रयामि ।
स्यो॒नन्ते॒ सद॑नङ्करोमि ॥43॥
घृ॒तस्य॒ धार॑या सु॒शेव॑ङ्कल्पयामि ।
तस्मि॑न्त्सीदा॒मृते॒ प्रति॑तिष्ठ ।
व्री॒ही॒णाम्मे॑ध सुमन॒स्यमा॑नः ।
आ॒र्द्रᳶ प्र॑थस्नु॒र्भुव॑नस्य गो॒पाः ।
शृ॒त उत्स्ना॑ति जनि॒ता म॑ती॒नाम् ।
यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः ।
दे॒वानाव्ँ॑ वि॒ष्ठामनु॒ यो वि॑त॒स्थे ।
आ॒त्म॒न्वान्त्सो॑म घृ॒तवा॒न् हि भू॒त्वा ।
दे॒वान्ग॑च्छ॒ सुव॑र्विन्द॒ यज॑मानाय॒ मह्य॑म् ।
इरा॒ भूति॑ᳶ पृथि॒व्यै रसो॒ मोत्क्र॑मीत् ॥44॥
देवा॑ᳶ पितर॒ᳶ पित॑रो देवाः ।
यो॑ऽहम॑स्मि॒ स सन् य॑जे ।
यस्या॑स्मि॒ न तम॒न्तरे॑मि ।
स्वम्म॑ इ॒ष्टँ स्वन्द॒त्तम् ।
स्वम्पू॒र्तँ स्वँ श्रा॒न्तम् ।
स्वँ हु॒तम् ।
तस्य॑ मे॒ऽग्निरु॑पद्र॒ष्टा ।
वा॒युरु॑पश्रो॒ता ।
आ॒दि॒त्यो॑ऽनुख्या॒ता ।
द्यौᳶ पि॒ता ॥45॥
पृ॒थि॒वी मा॒ता ।
प्र॒जाप॑ति॒र्बन्धुः॑ ।
य ए॒वास्मि॒ स सन् य॑जे ।
मा भेर्मा सव्ँ वि॑क्था॒ मा त्वा॑ हिँसिषम् ।
मा ते॒ तेजोऽप॑क्रमीत् ।
भ॒र॒तमुद्ध॑रे॒मनु॑षिञ्च ।
अ॒व॒दाना॑नि ते प्र॒त्यव॑दास्यामि ।
नम॑स्ते अस्तु॒ मा मा॑ हिँसीः ।
यद॑व॒दाना॑नि तेऽव॒द्यन् ।
विलो॒माका॑र्षमा॒त्मनः॑ ॥46॥
आज्ये॑न॒ प्रत्य॑नज्म्येनत् ।
तत्त॒ आप्या॑यता॒म्पुनः॑ ।
अज्या॑यो यवमा॒त्रात् ।
आ॒व्या॒धात्कृ॑त्यतामि॒दम् ।
मा रू॑रुपाम य॒ज्ञस्य॑ ।
शु॒द्धँ स्वि॑ष्टमि॒दँ ह॒विः ।
मनु॑ना दृ॒ष्टाङ्घृतप॑दीम् ।
मि॒त्रावरु॑णसमीरिताम् ।
द॒क्षि॒णा॒र्धादस॑म्भिन्दन् ।
अव॑द्याम्येक॒तोमु॑खाम् ॥47॥
इडे॑ भा॒गञ्जु॑षस्व नः ।
जिन्व॒ गा जिन्वार्व॑तः ।
तस्या॑स्ते भक्षि॒वाण॑स्स्याम ।
स॒र्वात्मा॑नस्स॒र्वग॑णाः ।
ब्रध्न॒ पिन्व॑स्व ।
दद॑तो मे॒ मा क्षा॑यि ।
कु॒र्व॒तो मे॒ मोप॑दसत् ।
दि॒शाङ्कॢप्ति॑रसि ।
दिशो॑ मे कल्पन्ताम् ।
कल्प॑न्ताम्मे॒ दिशः॑ ॥48॥
दैवी॑श्च॒ मानु॑षीश्च ।
अ॒हो॒रा॒त्रे मे॑ कल्पेताम् ।
अ॒र्ध॒मा॒सा मे॑ कल्पन्ताम् ।
मासा॑ मे कल्पन्ताम् ।
ऋ॒तवो॑ मे कल्पन्ताम् ।
सव्ँ॒व॒त्स॒रो मे॑ कल्पताम् ।
कॢप्ति॑रसि॒ कल्प॑ताम्मे ।
आशा॑नान्त्वाऽऽशापा॒लेभ्यः॑ ।
च॒तुर्भ्यो॑ अ॒मृते॑भ्यः ।
इ॒दम्भू॒तस्याध्य॑क्षेभ्यः ॥49॥
वि॒धेम॑ ह॒विषा॑ व॒यम् ।
भज॑ताम्भा॒गी भा॒गम् ।
मा भा॒गोऽभ॑क्त ।
निर॑भा॒गम्भ॑जामः ।
अ॒पस्पि॑न्व ।
ओष॑धीर्जिन्व ।
द्वि॒पात्पा॑हि ।
चतु॑ष्पादव ।
दि॒वो वृष्टि॒मेर॑य ।
ब्रा॒ह्म॒णाना॑मि॒दँ ह॒विः ॥50॥
सो॒म्यानाँ॑ सोमपी॒थिना॑म् ।
निर्भ॒क्तो ब्रा॑ह्मणः ।
नेहाब्रा॑ह्मणस्यास्ति ।
सम॑ङ्क्ताम्ब॒र्हिर्ह॒विषा॑ घृ॒तेन॑ ।
समा॑दि॒त्यैर्वसु॑भि॒स्सम्म॒रुद्भिः॑ ।
समिन्द्रे॑ण॒ विश्वे॑भिर्दे॒वेभि॑रङ्क्ताम् ।
दि॒व्यन्नभो॑ गच्छतु॒ यत्स्वाहा॑ ।
इ॒न्द्रा॒णीवा॑ऽविध॒वा भू॑यासम् ।
अदि॑तिरिव सुपु॒त्रा ।
अ॒स्थू॒रि त्वा॑ गार्हपत्य ॥51॥
उप॒निष॑दे सुप्रजा॒स्त्वाय॑ ।
सम्पत्नी॒ पत्या॑ सुकृ॒तेन॑ गच्छताम् ।
य॒ज्ञस्य॑ यु॒क्तौ धुर्या॑वभूताम् ।
स॒ञ्जा॒ना॒नौ विज॑हता॒मरा॑तीः ।
दि॒वि ज्योति॑र॒जर॒मार॑भेताम् ।
दश॑ते त॒नुवो॑ यज्ञ य॒ज्ञियाः॑ ।
ताᳶ प्री॑णातु॒ यज॑मानो घृ॒तेन॑ ।
ना॒रि॒ष्ठयो॑ᳶ प्र॒शिष॒मीड॑मानः ।
दे॒वाना॒न्दैव्येऽपि॒ यज॑मानो॒ऽमृतो॑ऽभूत् ।
यव्ँ वा॑न्दे॒वा अ॑कल्पयन्न् ॥52॥
ऊ॒र्जो भा॒गँ श॑तक्रतू ।
ए॒तद्वा॒न्तेन॑ प्रीणानि ।
तेन॑ तृप्यतमँहहौ ।
अ॒हन्दे॒वानाँ॑ सु॒कृता॑मस्मि लो॒के ।
ममे॒दमि॒ष्टन्न मिथु॑र्भवाति ।
अ॒हन्ना॑रि॒ष्ठावनु॑ यजामि वि॒द्वान् ।
यदा॑भ्या॒मिन्द्रो॒ अद॑धाद्भाग॒धेय॑म् ।
अदा॑रसृद्भवत देव सोम ।
अ॒स्मिन् य॒ज्ञे म॑रुतो मृडता नः ।
मा नो॑ विदद॒भिभा॒मो अश॑स्तिः ॥53॥
मा नो॑ विदद्वृ॒जना॒ द्वेष्या॒ या ।
ऋ॒ष॒भव्ँ वा॒जिनव्ँ॑व॒यम् ।
पू॒र्णमा॑सय्ँयजामहे ।
स नो॑ दोहताँ सु॒वीर्य॑म् ।
रा॒यस्पोषँ॑ सह॒स्रिण॑म् ।
प्रा॒णाय॑ सु॒राध॑से ।
पू॒र्णमा॑साय॒ स्वाहा॑ ।
अ॒मा॒वा॒स्या॑ सु॒भगा॑ सु॒शेवा॑ ।
धे॒नुरि॑व॒ भूय॑ आ॒प्याय॑माना ।
सा नो॑ दोहताँ सु॒वीर्य॑म् ।
रा॒यस्पोषँ॑ सह॒स्रिण॑म् ।
अ॒पा॒नाय॑ सु॒राध॑से ।
अ॒मा॒वा॒स्या॑यै॒ स्वाहा॑ ।
अ॒भिस्तृ॑णीहि॒ परि॑धेहि॒ वेदि॑म् ।
जा॒मिम्मा हिँ॑सीरमु॒या शया॑ना ।
हो॒तृ॒षद॑ना॒ हरि॑तास्सु॒वर्णाः॑ ।
नि॒ष्का इ॒मे यज॑मानस्य ब्र॒ध्ने ॥54॥
परि॑स्तृणीत॒ परि॑धत्ता॒ग्निम् ।
परि॑हितो॒ऽग्निर्यज॑मानम्भुनक्तु ।
अ॒पाँ रस॒ ओष॑धीनाँ सु॒वर्णः॑ ।
नि॒ष्का इ॒मे यज॑मानस्य सन्तु काम॒दुघाः॑ ।
अ॒मुत्रा॒मुष्मिल्ँ॑ लो॒के ।
भूप॑ते॒ भुव॑नपते ।
म॒ह॒तो भू॒तस्य॑ पते ।
ब्र॒ह्माण॑न्त्वा वृणीमहे ।
अ॒हम्भूप॑तिर॒हम्भुव॑नपतिः ।
अ॒हम्म॑ह॒तो भू॒तस्य॒ पतिः॑ ॥55॥
दे॒वेन॑ सवि॒त्रा प्रसू॑त॒ आर्त्वि॑ज्यङ्करिष्यामि ।
देव॑ सवितरे॒तन्त्वा॑ वृणते ।
बृह॒स्पति॒न्दैव्य॑म्ब्र॒ह्माण॑म् ।
तद॒हम्मन॑से॒ प्रब्र॑वीमि ।
मनो॑ गायत्रि॒यै ।
गा॒य॒त्री त्रि॒ष्टुभे॑ ।
त्रि॒ष्टुब्जग॑त्यै ।
जग॑त्यनु॒ष्टुभे॑ ।
अ॒नु॒ष्टुक्प॒ङ्क्त्यै ।
प॒ङ्क्तिᳶ प्र॒जाप॑तये ॥56॥
प्र॒जाप॑ति॒र्विश्वे॑भ्यो दे॒वेभ्यः॑ ।
विश्वे॑ दे॒वा बृह॒स्पत॑ये ।
बृह॒स्पति॒र्ब्रह्म॑णे ।
ब्रह्म॒ भूर्भुव॒स्सुवः॑ ।
बृह॒स्पति॑र्दे॒वाना॑म्ब्र॒ह्मा ।
अ॒हम्म॑नु॒ष्या॑णाम् ।
बृह॑स्पते य॒ज्ञङ्गो॑पाय ।
इ॒दन्तस्मै॑ ह॒र्म्यङ्क॑रोमि ।
यो वो॑ देवा॒श्चर॑ति ब्रह्म॒चर्य॑म् ।
मे॒धा॒वी दि॒क्षु मन॑सा तप॒स्वी ॥57॥
अ॒न्तर्दू॒तश्च॑रति॒ मानु॑षीषु ।
चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः॑ ।
घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये॑ ।
म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय ।
मह्य॑न्धुक्ष्व॒ यज॑मानाय॒ कामा॑न् ।
भूमि॑र्भू॒त्वा म॑हि॒मान॑म्पुपोष ।
ततो॑ दे॒वी व॑र्धयते॒ पयाँ॑सि ।
य॒ज्ञिया॑ य॒ज्ञव्ँ वि च॒ यन्ति॒ शञ्च॑ ।
ओष॑धी॒राप॑ इ॒ह शक्व॑रीश्च ।
यो मा॑ हृ॒दा मन॑सा॒ यश्च॑ वा॒चा ॥58॥
यो ब्रह्म॑णा॒ कर्म॑णा॒ द्वेष्टि॑ देवाः ।
यश्श्रु॒तेन॒ हृद॑येनेष्ण॒ता च॑ ।
तस्ये॑न्द्र॒ वज्रे॑ण॒ शिर॑श्छिनद्मि ।
ऊर्णा॑मृदु॒ प्रथ॑मानँ स्यो॒नम् ।
दे॒वेभ्यो॒ जुष्टँ॒ सद॑नाय ब॒र्हिः ।
सु॒व॒र्गे लो॒के यज॑मानँ॒ हि धे॒हि ।
मान्नाक॑स्य पृ॒ष्ठे प॑र॒मे व्यो॑मन् ।
चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः॑ ।
घृ॒तप्र॑तीका व॒युना॑नि वस्ते ।
साऽऽस्ती॒र्यमा॑णा मह॒ते सौभ॑गाय ॥59 ॥
सा मे॑ धुक्ष्व॒ यज॑मानाय॒ कामा॑न् ।
शि॒वा च॑ मे श॒ग्मा चै॑धि ।
स्यो॒ना च॑ मे सु॒षदा॑ चैधि ।
ऊर्ज॑स्वती च मे॒ पय॑स्वती चैधि ।
इष॒मूर्ज॑म्मे पिन्वस्व ।
ब्रह्म॒ तेजो॑ मे पिन्वस्व ।
क्ष॒त्रमोजो॑ मे पिन्वस्व ।
विश॒म्पुष्टि॑म्मे पिन्वस्व ।
आयु॑र॒न्नाद्य॑म्मे पिन्वस्व ।
प्र॒जाम्प॒शून्मे॑ पिन्वस्व ॥60॥
अ॒स्मिन् य॒ज्ञ उप॒ भूय॒ इन्नु मे॑ ।
अवि॑क्षोभाय परि॒धीन्द॑धामि ।
ध॒र्ता ध॒रुणो॒ धरी॑यान् ।
अ॒ग्निर्द्वेषाँ॑सि॒ निरि॒तो नु॑दातै ।
विच्छि॑नद्मि॒ विधृ॑तीभ्याँ स॒पत्ना॑न् ।
जा॒तान्भ्रातृ॑व्या॒न्ये च॑ जनि॒ष्यमा॑णाः ।
वि॒शो य॒न्त्राभ्याव्ँ॒विध॑माम्येनान् ।
अ॒हँ स्वाना॑मुत्त॒मो॑ऽसानि देवाः ।
वि॒शो य॒न्त्रे नु॒दमा॑ने॒ अरा॑तिम् ।
विश्व॑म्पा॒प्मान॒मम॑तिन्दुर्मरा॒युम् ॥61॥
सीद॑न्ती दे॒वी सु॑कृ॒तस्य॑ लो॒के ।
धृती॑ स्थो॒ विधृ॑ती॒ स्वधृ॑ती ।
प्रा॒णान्मयि॑ धारयतम् ।
प्र॒जाम्मयि॑ धारयतम् ।
प॒शून्मयि॑ धारयतम् ।
अ॒यम्प्र॑स्त॒र उ॒भय॑स्य ध॒र्ता ।
ध॒र्ता प्र॑या॒जाना॑मु॒तानू॑या॒जाना॑म् ।
स दा॑धार स॒मिधो॑ वि॒श्वरू॑पाः ।
तस्मि॒न्त्स्रुचो॒ अध्यासा॑दयामि ।
आरो॑ह प॒थो जु॑हु देव॒याना॑न् ॥62॥
यत्रर्ष॑यᳶ प्रथम॒जा ये पु॑रा॒णाः ।
हिर॑ण्यपक्षाऽजि॒रा सम्भृ॑ताङ्गा ।
वहा॑सि मा सु॒कृताय्ँ॒यत्र॑ लो॒काः ।
अवा॒हम्बा॑ध उप॒भृता॑ स॒पत्ना॑न् ।
जा॒तान्भ्रातृ॑व्या॒न्ये च॑ जनि॒ष्यमा॑णाः ।
दोहै॑ य॒ज्ञँ सु॒दुघा॑मिव धे॒नुम् ।
अ॒हमुत्त॑रो भूयासम् ।
अध॑रे॒ मत्स॒पत्नाः॑ ।
यो मा॑ वा॒चा मन॑सा दुर्मरा॒युः ।
हृ॒दाऽरा॑ती॒याद॑भि॒दास॑दग्ने ॥63॥
इ॒दम॑स्य चि॒त्तमध॑रन्ध्रु॒वायाः॑ ।
अ॒हमुत्त॑रो भूयासम् ।
अध॑रे॒ मत्स॒पत्नाः॑ ।
ऋ॒ष॒भो॑ऽसि शाक्व॒रः ।
घृ॒ताची॑नाँ सू॒नुः ।
प्रि॒येण॒ नाम्ना॑ प्रि॒ये सद॑सि सीद ।
स्यो॒नो मे॑ सीद सु॒षद॑ᳶ पृथि॒व्याम् ।
प्रथ॑यि प्र॒जया॑ प॒शुभि॑स्सुव॒र्गे लो॒के ।
दि॒वि सी॑द पृथि॒व्याम॒न्तरि॑क्षे ।
अ॒हमुत्त॑रो भूयासम् ॥64॥
अध॑रे॒ मत्स॒पत्नाः॑ ।
इ॒यँ स्था॒ली घृ॒तस्य॑ पू॒र्णा ।
अच्छि॑न्नपयाश्श॒तधा॑र॒ उत्सः॑ ।
मा॒रु॒तेन॒ शर्म॑णा॒ दैव्ये॑न ।
य॒ज्ञो॑ऽसि स॒र्वत॑श्श्रि॒तः ।
स॒र्वतो॒ माम्भू॒तम्भ॑वि॒ष्यच्छ्र॑यताम् ।
श॒तम्मे॑ सन्त्वा॒शिषः॑ ।
स॒हस्र॑म्मे सन्तु सू॒नृताः॑ ।
इरा॑वतीᳶ पशु॒मतीः॑ ।
प्र॒जाप॑तिरसि स॒र्वत॑श्श्रि॒तः ॥65॥
स॒र्वतो॒ माम्भू॒तम्भ॑वि॒ष्यच्छ्र॑यताम् ।
श॒तम्मे॑ सन्त्वा॒शिषः॑ ।
स॒हस्र॑म्मे सन्तु सू॒नृताः॑ ।
इरा॑वतीᳶ पशु॒मतीः॑ ।
इ॒दमि॑न्द्रि॒यम॒मृतव्ँ॑ वी॒र्य॑म् ।
अ॒नेनेन्द्रा॑य प॒शवो॑ऽचिकित्सन् ।
तेन॑ देवा अव॒तोप॒ माम् ।
इ॒हेष॒मूर्जय्ँ॒यश॒स्सह॒ ओज॑स्सनेयम् ।
शृ॒तम्मयि॑ श्रयताम् ।
यत्पृ॑थि॒वीमच॑र॒त्तत्प्रवि॑ष्टम् ॥66॥
येनासि॑ञ्च॒द्बल॒मिन्द्रे॑ प्र॒जाप॑तिः ।
इ॒दन्तच्छु॒क्रम्मधु॑ वा॒जिनी॑वत् ।
येनो॒परि॑ष्टा॒दधि॑नोन्महे॒न्द्रम् ।
दधि॒ मान्धि॑नोतु ।
अ॒यव्ँ वे॒दᳶ पृ॑थि॒वीमन्व॑विन्दत् ।
गुहा॑ स॒तीङ्गह॑ने॒ गह्व॑रेषु ।
स वि॑न्दतु॒ यज॑मानाय लो॒कम् ।
अच्छि॑द्रय्ँ य॒ज्ञम्भूरि॑कर्मा करोतु ।
अ॒यय्ँ य॒ज्ञस्सम॑सदद्ध॒विष्मा॑न् ।
ऋ॒चा साम्ना॒ यजु॑षा दे॒वता॑भिः ॥67॥
तेन॑ लो॒कान्त्सूर्य॑वतो जयेम ।
इन्द्र॑स्य स॒ख्यम॑मृत॒त्वम॑श्याम् ।
यो न॒ᳵ कनी॑य इ॒ह का॒मया॑तै ।
अ॒स्मिन् य॒ज्ञे यज॑मानाय॒ मह्य॑म् ।
अप॒ तमि॑न्द्रा॒ग्नी भुव॑नान्नुदेताम् ।
अ॒हम्प्र॒जाव्ँ वी॒रव॑तीव्ँ विदेय ।
अग्ने॑ वाजजित् ।
वाज॑न्त्वा सरि॒ष्यन्त॑म् ।
वाज॑ञ्जे॒ष्यन्त॑म् ।
वा॒जिनव्ँ॑वाज॒जित॑म् ॥68॥
वा॒ज॒जि॒त्यायै॒ सम्मा॑र्ज्मि ।
अ॒ग्निम॑न्ना॒दम॒न्नाद्या॑य ।
उप॑हूतो॒ द्यौᳶ पि॒ता ।
उप॒ मान्द्यौᳶ पि॒ता ह्व॑यताम् ।
अ॒ग्निराग्नी॑ध्रात् ।
आयु॑षे॒ वर्च॑से ।
जी॒वात्वै पुण्या॑य ।
उप॑हूता पृथि॒वी मा॒ता ।
उप॒ माम्मा॒ता पृ॑थि॒वी ह्व॑यताम् ।
अ॒ग्निराग्नी॑ध्रात् ॥69॥
आयु॑षे॒ वर्च॑से ।
जी॒वात्वै पुण्या॑य ।
मनो॒ ज्योति॑र्जुषता॒माज्य॑म् ।
विच्छि॑न्नय्ँ य॒ज्ञँ समि॒मन्द॑धातु ।
बृह॒स्पति॑स्तनुतामि॒मन्नः॑ ।
विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ।
यन्ते॑ अग्न आवृ॒श्चामि॑ ।
अ॒हव्ँ वा॑ क्षिपि॒तश्चर॑न् ।
प्र॒जाञ्च॒ तस्य॒ मूल॑ञ्च ।
नी॒चैर्दे॑वा॒ निवृ॑श्चत ॥70॥
अग्ने॒ यो नो॑ऽभि॒दास॑ति ।
स॒मा॒नो यश्च॒ निष्ट्यः॑ ।
इ॒ध्मस्ये॑व प्र॒क्षाय॑तः ।
मा तस्योच्छे॑षि॒ किञ्च॒न ।
यो मान्द्वेष्टि॑ जातवेदः ।
यञ्चा॒हन्द्वेष्मि॒ यश्च॒ माम् ।
सर्वाँ॒ स्तान॑ग्ने॒ सन्द॑ह ।
याँ श्चा॒हन्द्वेष्मि॒ ये च॒ माम् ।
अग्ने॑ वाजजित् ।
वाज॑न्त्वा ससृ॒वाँस॑म् ॥71॥
वाज॑ञ्जिगि॒वाँस॑म् ।
वा॒जिनव्ँ॑वाज॒जित॑म् ।
वा॒ज॒जि॒त्यायै॒ सम्मा॑र्ज्मि ।
अ॒ग्निम॑न्ना॒दम॒न्नाद्या॑य ।
वेदि॑र्ब॒र्हिश्शृ॒तँ ह॒विः ।
इ॒ध्मᳶ प॑रि॒धय॒स्स्रुचः॑ ।
आज्यय्ँ॑ य॒ज्ञ ऋचो॒ यजुः॑ ।
या॒ज्या॑श्च वषट्का॒राः ।
सम्मे॒ सन्न॑तयो नमन्ताम् ।
इ॒ध्म॒स॒न्नह॑ने हु॒ते ॥72॥
दि॒वᳵ खीलोऽव॑ततः ।
पृ॒थि॒व्या अध्युत्थि॑तः ।
तेना॑ स॒हस्र॑काण्डेन ।
द्वि॒षन्तँ॑ शोचयामसि ।
द्वि॒षन्मे॑ ब॒हु शो॑चतु ।
ओष॑धे॒ मो अ॒हँ शु॑चम् ।
यज्ञ॒ नम॑स्ते यज्ञ ।
नमो॒ नम॑श्च ते यज्ञ ।
शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व ।
स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व ॥73॥
सु॒भू॒तेन॑ मे॒ सन्ति॑ष्ठस्व ।
ब्र॒ह्म॒व॒र्च॒सेन॑ मे॒ सन्ति॑ष्ठस्व ।
य॒ज्ञस्यर्द्धि॒मनु॒ सन्ति॑ष्ठस्व ।
उप॑ ते यज्ञ॒ नमः॑ ।
उप॑ ते॒ नमः॑ ।
उप॑ ते॒ नमः॑ ।
त्रिष्फ॒लीक्रि॒यमा॑णानाम् ।
यो न्य॒ङ्गो अ॑व॒शिष्य॑ते ।
रक्ष॑साम्भाग॒धेय॑म् ।
आप॒स्तत्प्रव॑हतादि॒तः ॥74॥
उ॒लूख॑ले॒ मुस॑ले॒ यच्च॒ शूर्पे॑ ।
आ॒शि॒श्लेष॑ दृ॒षदि॒ यत्क॒पाले॑ ।
अ॒व॒प्रुषो॑ वि॒प्रुष॒स्सय्ँय॑जामि ।
विश्वे॑ दे॒वा ह॒विरि॒दञ्जु॑षन्ताम् ।
य॒ज्ञे या वि॒प्रुष॒स्सन्ति॑ ब॒ह्वीः ।
अ॒ग्नौ तास्सर्वा॒स्स्वि॑ष्टा॒स्सुहु॑ता जुहोमि ।
उ॒द्यन्न॒द्यमि॑त्र महः ।
स॒पत्ना॑न्मे अनीनशः ।
दिवै॑नान् वि॒द्युता॑ जहि ।
नि॒म्रोच॒न्नध॑रान्कृधि ॥75॥
उ॒द्यन्न॒द्य वि नो॑ भज ।
पि॒ता पु॒त्रेभ्यो॒ यथा॑ ।
दी॒र्घा॒यु॒त्वस्य॑ हेशिषे ।
तस्य॑ नो देहि सूर्य ।
उ॒द्यन्न॒द्य मि॑त्रमहः ।
आ॒रोह॒न्नुत्त॑रा॒न्दिव॑म् ।
हृ॒द्रो॒गम्मम॑ सूर्य ।
ह॒रि॒माण॑ञ्च नाशय ।
शुके॑षु मे हरि॒माण॑म् ।
रो॒प॒णाका॑सु दध्मसि ॥76॥
अथो॑ हारिद्र॒वेषु॑ मे ।
ह॒रि॒माण॒न्निद॑ध्मसि ।
उद॑गाद॒यमा॑दि॒त्यः ।
विश्वे॑न॒ सह॑सा स॒ह ।
द्वि॒षन्त॒म्मम॑ र॒न्धय॑न् ।
मो अ॒हन्द्वि॑ष॒तो र॑धम् ।
यो न॒श्शपा॒दश॑पतः ।
यश्च॑ न॒श्शप॑त॒श्शपा॑त् ।
उ॒षाश्च॒ तस्मै॑ नि॒म्रुक्च॑ ।
सर्व॑म्पा॒पँ समू॑हताम् ॥77॥
यो न॑स्स॒पत्नो॒ यो रणः॑ ।
मर्तो॑ऽभि॒दास॑ति देवाः ।
इ॒ध्मस्ये॑व प्र॒क्षाय॑तः ।
मा तस्योच्छे॑षि॒ किञ्च॒न ।
अव॑सृष्ट॒ᳶ परा॑पत ।
श॒रो ब्रह्म॑सँशितः ।
गच्छा॒ऽमित्रा॒न्प्रवि॑श ।
मैषा॒ङ्कञ्च॒नोच्छि॑षः ॥78॥
सक्षे॒दम्प॑श्य ।
विध॑र्तरि॒दम्प॑श्य ।
नाके॒दम्प॑श्य ।
र॒मति॒ᳶ पनि॑ष्ठा ।
ऋ॒तव्ँवर्षि॑ष्ठम् ।
अ॒मृता॒यान्या॒हुः ।
सूर्यो॒ वरि॑ष्ठो अ॒क्षभि॒र्विभा॑ति ।
अनु॒ द्यावा॑पृथि॒वी दे॒वपु॑त्रे ।
दी॒क्षाऽसि॒ तप॑सो॒ योनिः॑ ।
तपो॑ऽसि॒ ब्रह्म॑णो॒ योनिः॑ ॥79॥
ब्रह्मा॑सि क्ष॒त्रस्य॒ योनिः॑ ।
क्ष॒त्रम॑स्यृ॒तस्य॒ योनिः॑ ।
ऋ॒तम॑सि॒ भूरार॑भे ।
श्र॒द्धाम्मन॑सा ।
दी॒क्षान्तप॑सा ।
विश्व॑स्य॒ भुव॑न॒स्याधि॑पत्नीम् ।
सर्वे॒ कामा॒ यज॑मानस्य सन्तु ।
वात॑म्प्रा॒णम्मन॑सा॒ऽन्वार॑भामहे ।
प्र॒जाप॑तिय्ँ॒यो भुव॑नस्य गो॒पाः ।
स नो॑ मृ॒त्योस्त्रा॑यता॒म्पात्वँह॑सः ॥80॥
ज्योग्जी॒वा ज॒राम॑शीमहि ।
इन्द्र॑ शाक्वर गाय॒त्रीम्प्रप॑द्ये ।
तान्ते॑ युनज्मि ।
इन्द्र॑ शाक्वर त्रि॒ष्टुभ॒म्प्रप॑द्ये ।
तान्ते॑ युनज्मि ।
इन्द्र॑ शाक्वर॒ जग॑ती॒म्प्रप॑द्ये ।
तान्ते॑ युनज्मि ।
इन्द्र॑ शाक्वरानु॒ष्टुभ॒म्प्रप॑द्ये ।
तान्ते॑ युनज्मि ।
इन्द्र॑ शाक्वर प॒ङ्क्तिम्प्रप॑द्ये ॥81॥
तान्ते॑ युनज्मि ।
आऽहन्दी॒क्षाम॑रुहमृ॒तस्य॒ पत्नी॑म् ।
गा॒य॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च ।
ऋ॒तँ स॒त्ये॑ऽधायि ।
स॒त्यमृ॒ते॑ऽधायि ।
ऋ॒तञ्च॑ मे स॒त्यञ्चा॑भूताम् ।
ज्योति॑रभूवँ॒ सुव॑रगमम् ।
सु॒व॒र्गल्ँ लो॒कन्नाक॑स्य पृ॒ष्ठम् ।
ब्र॒ध्नस्य॑ वि॒ष्टप॑मगमम् ।
पृ॒थि॒वी दी॒क्षा ॥82॥
तया॒ऽग्निर्दी॒क्षया॑ दीक्षि॒तः ।
यया॒ऽग्निर्दी॒क्षया॑ दीक्षि॒तः ।
तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
अ॒न्तरि॑क्षन्दी॒क्षा ।
तया॑ वा॒युर्दी॒क्षया॑ दीक्षि॒तः ।
यया॑ वा॒युर्दी॒क्षया॑ दीक्षि॒तः ।
तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
द्यौर्दी॒क्षा ।
तया॑ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒तः ।
यया॑ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒तः ॥83॥
तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
दिशो॑ दी॒क्षा ।
तया॑ च॒न्द्रमा॑ दी॒क्षया॑ दीक्षि॒तः ।
यया॑ च॒न्द्रमा॑ दी॒क्षया॑ दीक्षि॒तः ।
तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
आपो॑ दी॒क्षा ।
तया॒ वरु॑णो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः ।
यया॒ वरु॑णो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः ।
तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
ओष॑धयो दी॒क्षा ॥84॥
तया॒ सोमो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः ।
यया॒ सोमो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः ।
तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
वाग्दी॒क्षा ।
तया॑ प्रा॒णो दी॒क्षया॑ दीक्षि॒तः ।
यया॑ प्रा॒णो दी॒क्षया॑ दीक्षि॒तः ।
तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
पृ॒थि॒वी त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् ।
अ॒न्तरि॑क्षन्त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् ।
द्यौस्त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् ॥85॥
दिश॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
आप॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
ओष॑धयस्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
वाक्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षताम् ।
ऋच॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
सामा॑नि त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
यजूँ॑षि त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
अह॑श्च॒ रात्रि॑श्च ।
कृ॒षिश्च॒ वृष्टि॑श्च ।
त्विषि॒श्चाप॑चितिश्च ॥ 86॥
आप॒श्चौष॑धयश्च ।
ऊर्क्च॑ सू॒नृता॑ च ।
तास्त्वा॒ दीक्ष॑माण॒मनु॑दीक्षन्ताम् ।
स्वे दक्षे॒ दक्ष॑पिते॒ह सी॑द ।
दे॒वानाँ॑ सु॒म्नो म॑ह॒ते रणा॑य ।
स्वा॒स॒स्थस्त॒नुवा॒ सव्ँ वि॑शस्व ।
पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवः॑ ।
शि॒वो मा॑ शि॒वमावि॑श ।
स॒त्यम्म॑ आ॒त्मा ।
श्र॒द्धा मेऽक्षि॑तिः ॥87॥
तपो॑ मे प्रति॒ष्ठा ।
स॒वि॒तृप्र॑सूता मा॒ दिशो॑ दीक्षयन्तु ।
स॒त्यम॑स्मि ।
अ॒हन्त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् ।
ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि ।
ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने ।
पु॒त्रᳶ पि॒त्रे लो॑क॒कृज्जा॑तवेदः ।
आ॒जुह्वा॑नस्सु॒प्रती॑कᳶ पु॒रस्ता॑त् ।
अग्ने॒ स्वाय्ँ योनि॒मा सी॑द सा॒ध्या ।
अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मिन्न् ॥88॥
विश्वे॑ देवा॒ यज॑मानश्च सीदत ।
एक॑मि॒षे विष्णु॒स्त्वाऽन्वे॑तु ।
द्वे ऊ॒र्जे विष्णु॒स्त्वाऽन्वे॑तु ।
त्रीणि॑ व्र॒ताय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
च॒त्वारि॒ मायो॑भवाय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
पञ्च॑ प॒शुभ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
षड्रा॒यस्पोषा॑य॒ विष्णु॒स्त्वाऽन्वे॑तु ।
स॒प्त स॒प्तभ्यो॒ होत्रा॑भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
सखा॑यस्स॒प्तप॑दा अभूम ।
स॒ख्यन्ते॑ गमेयम् ॥89॥
स॒ख्यात्ते॒ मा यो॑षम् ।
स॒ख्यान्मे॒ मा यो॑ष्ठाः ।
साऽसि॑ सुब्रह्मण्ये ।
तस्या॑स्ते पृथि॒वी पादः॑ ।
साऽसि॑ सुब्रह्मण्ये ।
तस्या॑स्ते॒ऽन्तरि॑क्ष॒म्पादः॑ ।
साऽसि॑ सुब्रह्मण्ये ।
तस्या॑स्ते॒ द्यौᳶ पादः॑ ।
साऽसि॑ सुब्रह्मण्ये ।
तस्या॑स्ते॒ दिश॒ᳶ पादः॑ ॥90॥
प॒रोर॑जास्ते पञ्च॒मᳶ पादः॑ ।
सा न॒ इष॒मूर्ज॑न्धुक्ष्व ।
तेज॑ इन्द्रि॒यम् ।
ब्र॒ह्म॒व॒र्च॒सम॒न्नाद्य॑म् ।
विमि॑मे त्वा॒ पय॑स्वतीम् ।
दे॒वाना॑न्धे॒नुँ सु॒दुघा॒मन॑पस्फुरन्तीम् ।
इन्द्र॒स्सोम॑म्पिबतु ।
क्षेमो॑ अस्तु नः ।
इ॒मान्न॑राᳵ कृणुत॒ वेदि॒मेत्य॑ ।
वसु॑मतीँ रु॒द्रव॑तीमादि॒त्यव॑तीम् ॥91॥
वर्ष्म॑न्दि॒वः ।
नाभा॑ पृथि॒व्याः ।
यथा॒ऽयय्ँयज॑मानो॒ न रिष्ये॑त् ।
दे॒वस्य॑ सवि॒तुस्स॒वे ।
चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः॑ ।
घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये॑ ।
तस्याँ॑ सुप॒र्णावधि॒ यौ निवि॑ष्टौ ।
तयो॑र्दे॒वाना॒मधि॑ भाग॒धेय॑म् ।
अ॒प जन्य॑म्भ॒यन्नु॑द ।
अप॑ च॒क्राणि॑ वर्तय ।
गृ॒हँ सोम॑स्य गच्छतम् ।
न वा उ॑ वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि ।
दे॒वाँ इदे॑षि प॒थिभि॑स्सु॒गेभिः॑ ।
यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ ।
तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु ॥92॥
यद॒स्य पा॒रे रज॑सः ।
शु॒क्रञ्ज्योति॒रजा॑यत ।
तन्न॑ᳶ पर्ष॒दति॒ द्विषः॑ ।
अग्ने॑ वैश्वानर॒ स्वाहा॑ ।
यस्मा॑द्भी॒षाऽवा॑शिष्ठाः ।
ततो॑ नो॒ अभ॑यङ्कृधि ।
प्र॒जाभ्य॒स्सर्वा॑भ्यो मृड ।
नमो॑ रु॒द्राय॑ मी॒ढुषे॑ ।
यस्मा॑द्भी॒षा न्यष॑दः ।
ततो॑ नो॒ अभ॑यङ्कृधि ॥93॥
प्र॒जाभ्य॒स्सर्वा॑भ्यो मृड ।
नमो॑ रु॒द्राय॑ मी॒ढुषे॑ ।
उदु॑स्र तिष्ठ॒ प्रति॑तिष्ठ॒ मा रि॑षः ।
मेमय्ँ य॒ज्ञय्ँयज॑मानञ्च रीरिषः ।
सु॒व॒र्गे लो॒के यज॑मानँ॒ हि धे॒हि ।
शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे ।
यस्मा॑द्भी॒षाऽवे॑पिष्ठाᳶ प॒लायि॑ष्ठास्स॒मज्ञा॑स्थाः ।
ततो॑ नो॒ अभ॑यङ्कृधि ।
प्र॒जाभ्य॒स्सर्वा॑भ्यो मृड ।
नमो॑ रु॒द्राय॑ मी॒ढुषे॑ ॥94॥
य इ॒दमकः॑ ।
तस्मै॒ नमः॑ ।
तस्मै॒ स्वाहा॑ ।
न वा उ॑वे॒तन्म्रि॑यसे ।
आशा॑नान्त्वा॒ विश्वा॒ आशाः॑ ।
य॒ज्ञस्य॒ हि स्थ ऋ॒त्वियौ॑ ।
इन्द्रा॑ग्नी॒ चेत॑नस्य च ।
हु॒ता॒हु॒तस्य॑ तृप्यतम् ।
अहु॑तस्य हु॒तस्य॑ च ।
हु॒तस्य॒ चाहु॑तस्य च ।
अहु॑तस्य हु॒तस्य॑ च ।
इन्द्रा॑ग्नी अ॒स्य सोम॑स्य ।
वी॒तम्पि॑बतञ्जु॒षेथा॑म् ।
मा यज॑मान॒न्तमो॑ विदत् ।
मर्त्विजो॒ मो इ॒माᳶ प्र॒जाः ।
मा यस्सोम॑मि॒मम्पिबा॑त् ।
सँसृ॑ष्टमु॒भय॑ङ्कृ॒तम् ॥95॥
अ॒ना॒गस॑स्त्वा व॒यम् ।
इन्द्रे॑ण॒ प्रेषि॑ता॒ उप॑ ।
वा॒युष्टे॑ अस्त्वँश॒भूः ।
मि॒त्रस्ते॑ अस्त्वँश॒भूः ।
वरु॑णस्ते अस्त्वँश॒भूः ।
अपा॑ङ्क्षया॒ ऋत॑स्य गर्भाः ।
भुव॑नस्य गोपा॒श्श्येना॑ अतिथयः ।
पर्व॑तानाङ्ककुभᳶ प्र॒युतो॑ नपातारः ।
व॒ग्नुनेन्द्रँ॑ ह्वयत ।
घोषे॒णामी॑वाँ श्चातयत ॥96॥
यु॒क्तास्स्थ॒ वह॑त ।
दे॒वा ग्रावा॑ण॒ इन्दु॒रिन्द्र॒ इत्य॑वादिषुः ।
एन्द्र॑मचुच्यवुᳶ पर॒मस्या॑ᳶ परा॒वतः॑ ।
आऽस्मात्स॒धस्था॑त् ।
ओरोर॒न्तरि॑क्षात् ।
आ सु॑भू॒तम॑सुषवुः ।
ब्र॒ह्म॒व॒र्च॒सम्म॒ आसु॑षवुः ।
स॒म॒रे रक्षाँ॑स्यवधिषुः ।
अप॑हतम्ब्रह्म॒ज्यस्य॑ ।
वाक्च॑ त्वा॒ मन॑श्च श्रीणीताम् ॥97॥
प्रा॒णश्च॑ त्वाऽपा॒नश्च॑ श्रीणीताम् ।
चक्षु॑श्च त्वा॒ श्रोत्र॑ञ्च श्रीणीताम् ।
दक्ष॑श्चत्वा॒ बल॑ञ्च श्रीणीताम् ।
ओज॑श्च त्वा॒ सह॑श्च श्रीणीताम् ।
आयु॑श्च त्वा ज॒रा च॑ श्रीणीताम् ।
आ॒त्मा च॑ त्वा त॒नूश्च॑ श्रीणीताम् ।
शृ॒तो॑ऽसि शृ॒तङ्कृ॑तः ।
शृ॒ताय॑ त्वा शृ॒तेभ्य॑स्त्वा ।
यमिन्द्र॑मा॒हुर्वरु॑णय्ँ॒यमा॒हुः ।
यम्मि॒त्रमा॒हुर्यमु॑ स॒त्यमा॒हुः ॥98॥
यो दे॒वाना॑न्दे॒वत॑मस्तपो॒जाः ।
तस्मै॑ त्वा॒ तेभ्य॑स्त्वा ।
मयि॒ त्यदि॑न्द्रि॒यम्मह॒त् ।
मयि॒ दक्षो॒ मयि॒ क्रतुः॑ ।
मयि॑ धायि सु॒वीर्य॑म् ।
त्रिशु॑ग्घ॒र्मो विभा॑तु मे ।
आकू॑त्या॒ मन॑सा स॒ह ।
वि॒राजा॒ ज्योति॑षा स॒ह ।
य॒ज्ञेन॒ पय॑सा स॒ह ।
तस्य॒ दोह॑मशीमहि ॥99॥
तस्य॑ सु॒म्नम॑शीमहि ।
तस्य॑ भ॒क्षम॑शीमहि ।
वाग्जु॑षा॒णा सोम॑स्य तृप्यतु ।
मि॒त्रो जना॒न्प्र स मि॑त्र ।
यस्मा॒न्न जा॒तᳶ परो॑ अ॒न्यो अस्ति॑ ।
य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑ ।
प्र॒जाप॑तिᳶ प्र॒जया॑ सव्ँ विदा॒नः ।
त्रीणि॒ ज्योतीँ॑षि सचते॒ स षो॑ड॒शी ।
ए॒ष ब्र॒ह्मा य ऋ॒त्वियः॑ ।
इन्द्रो॒ नाम॑ श्रु॒तो ग॒णे ॥100॥
प्र ते॑ म॒हे वि॒दथे॑ शँसिषँ॒ हरी॑ ।
य ऋ॒त्विय॒ᳶ प्र ते॑ वन्वे ।
व॒नुषो॑ हर्य॒तम्मद॑म् ।
इन्द्रो॒ नाम॑ घृ॒तन्नयः ।
हरि॑भि॒श्चारु॒ सेच॑ते ।
श्रु॒तो ग॒ण आ त्वा॑ विशन्तु ।
हरि॑वर्पस॒ङ्गिरः॑ ।
इन्द्राधि॑प॒तेऽधि॑पति॒स्त्वन्दे॒वाना॑मसि ।
अधि॑पति॒म्माम् ।
आयु॑ष्मन्तव्ँ॒वर्च॑स्वन्तम्मनु॒ष्ये॑षु कुरु ॥101॥
इन्द्र॑श्च स॒म्राड्वरु॑णश्च॒ राजा॑ ।
तौ ते॑ भ॒क्षञ्च॑क्रतु॒रग्र॑ ए॒तम् ।
तयो॒रनु॑ भ॒क्षम्भ॑क्षयामि ।
वाग्जु॑षा॒णा सोम॑स्य तृप्यतु ।
प्र॒जाप॑तिर्वि॒श्वक॑र्मा ।
तस्य॒ मनो॑ दे॒वय्ँ य॒ज्ञेन॑ राध्यासम् ।
अ॒र्थे॒गा अ॒स्य ज॑हितः ।
अ॒व॒सान॑पतेऽव॒सान॑म्मे विन्द ।
नमो॑ रु॒द्राय॑ वास्तो॒ष्पत॑ये ।
आय॑ने वि॒द्रव॑णे ॥102॥
उ॒द्याने॒ यत्प॒राय॑णे ।
आ॒वर्त॑ने वि॒वर्त॑ने ।
यो गो॑पा॒यति॒ तँ हु॑वे ।
यान्य॑पा॒मित्या॒न्यप्र॑तीत्ता॒न्यस्मि॑ ।
य॒मस्य॑ ब॒लिना॒ चरा॑मि ।
इ॒हैव सन्त॒ᳶ प्रति॒ तद्या॑तयामः ।
जी॒वा जी॒वेभ्यो॒ निह॑राम एनत् ।
अ॒नृ॒णा अ॒स्मिन्न॑नृ॒णाᳶ पर॑स्मिन् ।
तृ॒तीये॑ लो॒के अ॑नृ॒णास्स्या॑म ।
ये दे॑व॒याना॑ उ॒त पि॑तृ॒याणाः॑ ॥103॥
सर्वा॑न्प॒थो अ॑नृ॒णा आक्षी॑येम ।
इ॒दमू॒नु श्रेयो॑ऽव॒सान॒माग॑न्म ।
शि॒वे नो॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे ।
गोम॒द्धन॑व॒दश्व॑व॒दूर्ज॑स्वत् ।
सु॒वीरा॑ वी॒रैरनु॒ सञ्च॑रेम ।
अ॒र्कᳶ प॒वि॒त्रँ॒ रज॑सो वि॒मानः॑ ।
पु॒नाति॑ दे॒वाना॒म्भुव॑नानि॒ विश्वा॑ ।
द्यावा॑पृथि॒वी पय॑सा सव्ँ विदा॒ने ।
घृ॒तन्दु॑हाते अ॒मृत॒म्प्रपी॑ने ।
प॒वित्र॑म॒र्को रज॑सो वि॒मानः॑ ।
पु॒नाति॑ दे॒वाना॒म्भुव॑नानि॒ विश्वा॑ ।
सुव॒र्ज्योति॒र्यशो॑ म॒हत् ।
अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठाम् ॥104॥
उद॑स्ताम्प्सीत्सवि॒ता मि॒त्रो अ॑र्य॒मा ।
सर्वा॑न॒मित्रा॑नवधीद्यु॒गेन॑ ।
बृ॒हन्त॒म्माम॑करद्वी॒रव॑न्तम् ।
र॒थ॒न्त॒रे श्र॑यस्व॒ स्वाहा॑ पृथि॒व्याम् ।
वा॒म॒दे॒व्ये श्र॑यस्व॒ स्वाहा॒ऽन्तरि॑क्षे ।
बृ॒ह॒ति श्र॑यस्व॒ स्वाहा॑ दि॒वि ।
बृ॒ह॒ता त्वोप॑स्तभ्नोमि ।
आ त्वा॑ ददे॒ यश॑ले वी॒र्याय च ।
अ॒स्मास्व॑ध्रिया यूयं द॑धाथेन्द्रि॒यं पयः।
यस्ते॑ द्र॒प्सो यस्त॑ उद॒र्षः ॥105॥
दैव्य॑ᳵ के॒तुर्विश्व॒म्भुव॑नमावि॒वेश॑ ।
स न॑ᳶ पा॒ह्यरि॑ष्ट्यै॒ स्वाहा॑ ।
अनु॑ मा॒ सर्वो॑ य॒ज्ञो॑ऽयमे॑तु ।
विश्वे॑ दे॒वा म॒रुत॒स्सामा॒र्कः ।
आ॒प्रिय॒श्छन्दाँ॑सि नि॒विदो॒ यजूँ॑षि ।
अ॒स्यै पृ॑थि॒व्यै यद्य॒ज्ञिय॑म् ।
प्र॒जाप॑तेर्वर्त॒निमनु॑ वर्तस्व ।
अनु॑ वी॒रैरनु॑राध्याम॒ गोभिः॑ ।
अन्वश्वै॒रनु॒ सर्वै॑रु पु॒ष्टैः ।
अनु॑ प्र॒जयाऽन्वि॑न्द्रि॒येण॑ ॥106॥
दे॒वा नो॑ य॒ज्ञमृ॑जु॒धा न॑यन्तु ।
प्रति॑क्ष॒त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे ।
प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ ।
प्रति॑ प्र॒जाया॒म्प्रति॑तिष्ठामि॒ भव्ये॑ ।
विश्व॑म॒न्याऽभि॑वावृ॒धे ।
तद॒न्यस्या॒मधि॑श्रि॒तम् ।
दि॒वे च॑ वि॒श्वक॑र्मणे ।
पृ॒थि॒व्यै चा॑कर॒न्नमः॑ ।
अस्का॒न्द्यौᳶ पृ॑थि॒वीम् ।
अस्का॑नृष॒भो युवा॒गाः ॥107॥
स्क॒न्नेमा विश्वा॒ भुव॑ना ।
स्क॒न्नो य॒ज्ञᳶ प्रज॑नयतु ।
अस्का॒नज॑नि॒ प्राज॑नि ।
आ स्क॒न्नाज्जा॑यते॒ वृषा॑ ।
स्क॒न्नात्प्रज॑निषीमहि ।
ये दे॒वा येषा॑मि॒दम्भा॑ग॒धेय॑म्ब॒भूव॑ ।
येषा॑म्प्रया॒जा उ॒तानू॑या॒जाः ।
इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यः ।
अ॒ग्निहो॑तृभ्यो दे॒वेभ्य॒स्स्वाहा॑ ।
उ॒त त्या नो॒ दिवा॑ म॒तिः ॥108॥
अदि॑तिरू॒त्या ग॑मत् ।
सा शन्ता॑ची॒ मय॑स्करत् ।
अप॒ स्रिधः॑ ।
उ॒त त्या दैव्या॑ भि॒षजा॑ ।
शन्न॑स्करतो अ॒श्विना॑ ।
यू॒याता॑म॒स्मद्रपः॑ ।
अप॒ स्रिधः॑ ।
शम॒ग्निर॒ग्निभि॑स्करत् ।
शन्न॑स्तपतु॒ सूर्यः॑ ।
शव्ँ वातो॑ वात्वर॒पाः ॥ 109॥
अप॒ स्रिधः॑ ।
तदित्प॒दन्न विचि॑केत वि॒द्वान् ।
यन्मृ॒तᳶ पुन॑र॒प्येति॑ जी॒वान् ।
त्रि॒वृद्यद्भुव॑नस्य रथ॒वृत् ।
जी॒वो गर्भो॒ न मृ॒तस्स जी॑वात् ।
प्रत्य॑स्मै॒ पिपी॑षते ।
विश्वा॑नि वि॒दुषे॑ भर ।
अ॒र॒ङ्ग॒माय॒ जग्म॑वे ।
अप॑श्चाद्दघ्वने॒ नरे॑ ।
इन्दु॒रिन्दु॒मवा॑गात् ।
इन्दो॒रिन्द्रो॑ऽपात् ।
तस्य॑ त इन्द॒विन्द्र॑पीतस्य॒ मधु॑मतः ।
उप॑हूत॒स्योप॑हूतो भक्षयामि ॥110॥
ब्रह्म॑ प्रति॒ष्ठा मन॑सो॒ ब्रह्म॑ वा॒चः ।
ब्रह्म॑ य॒ज्ञानाँ॑ ह॒विषा॒माज्य॑स्य ।
अति॑रिक्त॒ङ्कर्म॑णो॒ यच्च॑ ही॒नम् ।
य॒ज्ञᳶ पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पय॑न् ।
स्वाहा॑कृ॒ताऽऽहु॑तिरेतु दे॒वान् ।
आश्रा॑वितम॒त्याश्रा॑वितम् ।
वष॑ट्कृतम॒त्यनू॑क्तञ्च य॒ज्ञे ।
अति॑रिक्त॒ङ्कर्म॑णो॒ यच्च॑ ही॒नम् ।
य॒ज्ञᳶ पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पय॑न् ।
स्वाहा॑कृ॒ताऽऽहु॑तिरेतु दे॒वान् ॥111॥
यद्वो॑ देवा अतिपा॒दया॑नि ।
वा॒चा चि॒त्प्रय॑तन्देव॒हेड॑नम् ।
अ॒रा॒यो अ॒स्माँ अ॒भिदु॑च्छुना॒यते॑ ।
अ॒न्यत्रा॒स्मन्म॑रुत॒स्तन्निधे॑तन ।
त॒तम्म॒ आप॒स्तदु॑ तायते॒ पुनः॑ ।
स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते ।
अ॒यँ स॑मु॒द्र उ॒त वि॒श्वभे॑षजः ।
स्वाहा॑कृतस्य॒ समु॑तृप्णुतर्भुवः ।
उद्व॒यन्तम॑स॒स्परि॑ ।
उदु॒त्यञ्चि॒त्रम् ॥112॥
इ॒मम्मे॑ वरुण॒ तत्त्वा॑ यामि ।
त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने ।
त्वम॑ग्ने अ॒यासि॒ प्रजा॑पते ।
इ॒मञ्जी॒वेभ्य॑ᳶ परि॒धिन्द॑धामि ।
मैषान्नु॑गा॒दप॑रो॒ अर्ध॑मे॒तम् ।
श॒तञ्जी॑वन्तु श॒रद॑ᳶ पुरू॒चीः ।
ति॒रो मृ॒त्युन्द॑धता॒म्पर्व॑तेन ।
इ॒ष्टेभ्य॒स्स्वाहा॒ वष॒डनि॑ष्टेभ्य॒स्स्वाहा॑ ।
भे॒ष॒जन्दुरि॑ष्ट्यै॒ स्वाहा॒ निष्कृ॑त्यै॒ स्वाहा॑ ।
दौरा॑र्ध्यै॒ स्वाहा॒ दैवी॑भ्यस्त॒नूभ्य॒स्स्वाहा॑ ॥113॥
ऋद्ध्यै॒ स्वाहा॒ समृ॑द्ध्यै॒ स्वाहा॑ ।
यत॑ इन्द्र॒ भया॑महे ।
ततो॑ नो॒ अभ॑यङ्कृधि ।
मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॑ ।
वि द्विषो॒ वि मृधो॑ जहि ।
स्व॒स्ति॒दा वि॒शस्पतिः॑ ।
वृ॒त्र॒हा वि मृधो॑ व॒शी ।
वृषेन्द्र॑ᳶ पु॒र ए॑तु नः ।
स्व॒स्ति॒दा अ॑भयङ्क॒रः ।
आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नम् ॥114॥
आप्या॑यय हरिवो॒ वर्ध॑मानः ।
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ ।
भू॒यि॒ष्ठ॒भाजो॒ अध॑ ते स्याम ।
अना॑ज्ञातय्ँ॒यदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।
पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।
यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन् ।
यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥115॥
यद्दे॑वा देव॒हेड॑नम् ।
देवा॑सश्चकृ॒मा व॒यम् ।
आदि॑त्या॒स्तस्मा॑न्मा मुञ्चत ।
ऋ॒तस्य॒र्तेन॒ मामु॒त ।
देवा॑ जीवनका॒म्या यत् ।
वा॒चाऽनृ॑तमूदि॒म ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।
गार्ह॑पत्य॒ᳶ प्रमु॑ञ्चतु ।
दु॒रि॒ता यानि॑ चकृ॒म ।
क॒रोतु॒ माम॑ने॒नस॑म् ॥116॥
ऋ॒तेन॑ द्यावापृथिवी ।
ऋ॒तेन॒ त्वँ स॑रस्वति ।
ऋ॒तान्मा॑ मुञ्च॒ताँह॑सः ।
यद॒न्यकृ॑तमारि॒म ।
स॒जा॒त॒शँ॒सादु॒त वा॑ जामिशँ॒सात् ।
ज्याय॑स॒श्शँसा॑दु॒त वा॒ कनी॑यसः ।
अना॑ज्ञातन्दे॒वकृ॑तय्ँ॒यदेनः॑ ।
तस्मा॒त्त्वम॒स्माञ्जा॑तवेदो मुमुग्धि ।
यद्वा॒चा यन्मन॑सा ।
बा॒हुभ्या॑मू॒रुभ्या॑मष्ठी॒वद्भ्या॑म् ॥117॥
शि॒श्ञैर्यदनृ॑तञ्चकृ॒मा व॒यम् ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।
यद्धस्ता॑भ्याञ्च॒कर॒ किल्बि॑षाणि ।
अ॒क्षाणाव्ँ॑व॒ग्नुमु॑प॒जिघ्न॑मानः ।
दू॒रे॒प॒श्या च॑ राष्ट्र॒भृच्च॑ ।
तान्य॑प्स॒रसा॒वनु॑दत्तामृ॒णानि॑ ।
अदी॑व्यन्नृ॒णय्ँयद॒हञ्च॒कार॑ ।
यद्वादा॑स्यन्त्सञ्ज॒गारा॒ जने॑भ्यः ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।
यन्मयि॑ मा॒ता गर्भे॑ स॒ति ॥118॥
एन॑श्च॒कार॒ यत्पि॒ता ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।
यदा॑पि॒पेष॑ मा॒तर॑म्पि॒तर॑म् ।
पु॒त्रᳶ प्रमु॑दितो॒ धय॑न् ।
अहिँ॑सितौ पि॒तरौ॒ मया॒ तत् ।
तद॑ग्ने अनृ॒णो भ॑वामि ।
यद॒न्तरि॑क्षम्पृथि॒वीमु॒त द्याम् ।
यन्मा॒तर॑म्पि॒तरव्ँ॑वा जिहिँसि॒म ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।
यदा॒शसा॑ नि॒शसा॒ यत्प॑रा॒शसा॑ ॥119॥
यदेन॑श्चकृ॒मा नूत॑नय्ँ॒यत्पु॑रा॒णम् ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।
अति॑क्रामामि दुरि॒तय्ँयदेनः॑ ।
जहा॑मि रि॒प्रम्प॑र॒मे स॒धस्थे॑ ।
यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ ।
तमारो॑हामि सु॒कृता॒न्नु लो॒कम् ।
त्रि॒ते दे॒वा अ॑मृजतै॒तदेनः॑ ।
त्रि॒त ए॒तन्म॑नु॒ष्ये॑षु मामृजे ।
ततो॑ मा॒ यदि॒ किञ्चि॑दान॒शे ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥120॥
गार्ह॑पत्य॒ᳶ प्रमु॑ञ्चतु ।
दु॒रि॒ता यानि॑ चकृ॒म ।
क॒रोतु॒ माम॑ने॒नस॑म् ।
दि॒वि जा॒ता अ॒प्सु जा॒ताः ।
या जा॒ता ओष॑धीभ्यः ।
अथो॒ या अ॑ग्नि॒जा आपः॑ ।
ता न॑श्शुन्धन्तु॒ शुन्ध॑नीः ।
यदापो॒ नक्त॑न्दुरि॒तञ्चरा॑म ।
यद्वा॒ दिवा॒ नूत॑नय्ँ॒यत्पु॑रा॒णम् ।
हिर॑ण्यवर्णा॒स्तत॒ उत्पु॑नीत नः ।
इ॒मम्मे॑ वरुण॒ तत्त्वा॑ यामि ।
त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने ।
त्वम॑ग्ने अ॒यासि॑ ॥ 121॥
यत्ते॒ ग्राव्ण्णा॑ चिच्छि॒दुस्सो॑म राजन् ।
प्रि॒याण्यङ्गा॑नि॒ स्वधि॑ता॒ परूँ॑षि ।
तत्सन्ध॒त्स्वाज्ये॑नो॒त व॑र्धयस्व ।
अ॒ना॒गसो॒ अध॒मित्स॒ङ्क्षये॑म ।
यत्ते॒ ग्रावा॑ बा॒हुच्यु॑तो॒ अचु॑च्यवुः ।
नरो॒ यत्ते॑ दुदु॒हुर्दक्षि॑णेन ।
तत्त॒ आप्या॑यता॒न्तत्ते॑ ।
निष्ट्या॑यतान्देव सोम ।
यत्ते॒ त्वच॑म्बिभि॒दुर्यच्च॒ योनि॑म् ।
यदा॒स्थाना॒त्प्रच्यु॑तो॒ वेन॑सि॒ त्मना॑ ॥122॥
त्वया॒ तत्सो॑म गु॒प्तम॑स्तु नः ।
सा न॑स्स॒न्धास॑त्पर॒मे व्यो॑मन् ।
अहा॒च्छरी॑र॒म्पय॑सा स॒मेत्य॑ ।
अ॒न्यो॑न्यो भवति॒ वर्णो॑ अस्य ।
तस्मि॑न्व॒यमुप॑हूता॒स्तव॑ स्मः ।
आ नो॑ भज॒ सद॑सि वि॒श्वरू॑पे ।
नृ॒चक्षा॒स्सोम॑ उ॒त शु॒श्रुग॑स्तु ।
मा नो॒ वि हा॑सी॒द्गिर॑ आवृणा॒नः ।
अना॑गास्त॒नुवो॑ वावृधा॒नः ।
आ नो॑ रू॒पव्ँव॑हतु॒ जाय॑मानः ॥123॥
उप॑क्षरन्ति जु॒ह्वो॑ घृ॒तेन॑ ।
प्रि॒याण्यङ्गा॑नि॒ तव॑ व॒र्धय॑न्तीः ।
तस्मै॑ ते सोम॒ नम॒ इद्वष॑ट्च ।
उप॑ मा राजन्त्सुकृ॒ते ह्व॑यस्व ।
सम्प्रा॑णापा॒नाभ्याँ॒ समु॒ चक्षु॑षा॒ त्वम् ।
सँ श्रोत्रे॑ण गच्छस्व सोम राजन् ।
यत्त॒ आस्थि॑तँ॒ शमु॒ तत्ते॑ अस्तु ।
जा॒नी॒तान्न॑स्स॒ङ्गम॑ने पथी॒नाम् ।
ए॒तञ्जा॑नीतात्पर॒मे व्यो॑मन् ।
वृका॑स्सधस्था वि॒द रू॒पम॑स्य ॥124॥
यदा॒गच्छा॑त्प॒थिभि॑र्देव॒यानैः॑ ।
इ॒ष्टा॒पू॒र्ते कृ॑णुतादा॒विर॑स्मै ।
अरि॑ष्टो राजन्नग॒दᳶ परे॑हि ।
नम॑स्ते अस्तु॒ चक्ष॑से रघूय॒ते ।
नाक॒मारो॑ह स॒ह यज॑मानेन ।
सूर्य॑ङ्गच्छतात्पर॒मे व्यो॑मन् ।
अभू॑द्दे॒वस्स॑वि॒ता वन्द्यो॒नु नः॑ ।
इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ ।
वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॑ ।
श्रेष्ठ॑न्नो॒ अत्र॒ द्रवि॑णय्ँ॒यथा॒ दध॑त् ।
उप॑ नो मित्रावरुणावि॒हाव॑तम् ।
अ॒न्वादी॑ध्याथामि॒ह न॑स्सखाया ।
आ॒दि॒त्याना॒म्प्रसि॑तिर् हे॒तिः ।
उ॒ग्रा श॒तापा॑ष्ठा घ॒विषा॒ परि॑ णो वृणक्तु ।
आप्या॑यस्व॒ सन्ते॑ ॥125॥
यद्दि॑दी॒क्षे मन॑सा॒ यच्च॑ वा॒चा ।
यद्वा॑ प्रा॒णैश्चक्षु॑षा॒ यच्च॒ श्रोत्रे॑ण ।
यद्रेत॑सा मिथु॒नेनाप्या॒त्मना॑ ।
अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् ।
शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः ।
आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् ।
यदृ॒चा साम्ना॒ यजु॑षा ।
प॒शू॒नाञ्चर्म॑न् ह॒विषा॑ दिदी॒क्षे ।
यच्छन्दो॑भि॒रोष॑धीभि॒र्वन॒स्पतौ॑ ।
अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् ॥ 126॥
शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः ।
आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् ।
येन॒ ब्रह्म॒ येन॑ क्ष॒त्रम् ।
येने॑न्द्रा॒ग्नी प्र॒जाप॑ति॒स्सोमो॒ वरु॑णो॒ येन॒ राजा॑ ।
विश्वे॑ दे॒वा ऋष॑यो॒ येन॑ प्रा॒णाः ।
अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् ।
शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः ।
आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् ।
अ॒पाम्पुष्प॑म॒स्योष॑धीनाँ॒ रसः॑ ।
सोम॑स्य प्रि॒यन्धाम॑ ॥127॥
अ॒ग्नेᳶ प्रि॒यत॑मँ ह॒विस्स्वाहा॑ ।
अ॒पाम्पुष्प॑म॒स्योष॑धीनाँ॒ रसः॑ ।
सोम॑स्य प्रि॒यन्धाम॑ ।
इन्द्र॑स्य प्रि॒यत॑मँ ह॒विस्स्वाहा॑ ।
अ॒पाम्पुष्प॑म॒स्योष॑धीनाँ॒ रसः॑ ।
सोम॑स्य प्रि॒यन्धाम॑ ।
विश्वे॑षान्दे॒वाना॑म्प्रि॒यत॑मँ ह॒विस्स्वाहा॑ ।
व॒यँ सो॑म व्र॒ते तव॑ ।
मन॑स्त॒नूषु॒ पिप्र॑तः ।
प्र॒जाव॑न्तो अशीमहि ॥128॥
दे॒वेभ्य॑ᳶ पि॒तृभ्य॒स्स्वाहा॑ ।
सो॒म्येभ्य॑ᳶ पि॒तृभ्य॒स्स्वाहा॑ ।
क॒व्येभ्य॑ᳶ पि॒तृभ्य॒स्स्वाहा॑ ।
देवा॑स इ॒ह मा॑दयध्वम् ।
सोम्या॑स इ॒ह मा॑दयध्वम् ।
कव्या॑स इ॒ह मा॑दयध्वम् ।
अ॒न॑न्तरिताᳶ पि॒तर॑स्सो॒म्यास्सो॑मपी॒थात् ।
अपै॑तु मृ॒त्युर॒मृत॑न्न॒ आग॑न् ।
वै॒व॒स्व॒तो नो॒ अभ॑यङ्कृणोतु ।
प॒र्णव्ँवन॒स्पते॑रिव ॥129॥
अ॒भि न॑श्शीयताँ र॒यिः ।
सच॑तान्न॒श्शची॒पतिः॑ ।
पर॑म्मृत्यो॒ अनु॒परे॑हि॒ पन्था॑म् ।
यस्ते॒ स्व इत॑रो देव॒याना॑त् ।
चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि ।
मा न॑ᳶ प्र॒जाँ री॑रिषो॒ मोत वी॒रान् ।
इ॒दमू॒नु श्रेयो॑व॒सान॒माग॑न्म ।
यद्गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यत् ।
प॒र्णव्ँवन॒स्पते॑रिव ।
अ॒भि न॑श्शीयताँ र॒यिः ।
सच॑तान्न॒श्शची॒पतिः॑ ॥130॥
सा॒ङ्ग्र॒ह॒ण्येष्ट्या॑ यजते ।
इ॒माञ्ज॒नताँ॒ सङ्गृ॑ह्णा॒नीति॑ ।
द्वाद॑शारत्नी रश॒ना भ॑वति ।
द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रमे॒वाव॑रुन्धे ।
मौ॒ञ्जी भ॑वति ।
ऊर्ग्वै मुञ्जाः॑ ।
ऊर्ज॑मे॒वाव॑रुन्धे ।
चि॒त्रा नक्ष॑त्रम्भवति ।
चि॒त्रव्ँ वा ए॒तत्कर्म॑ ॥1॥
यद॑श्वमे॒धस्समृ॑द्ध्यै ।
पुण्य॑नाम देव॒यज॑नम॒ध्यव॑स्यति ।
पुण्या॑मे॒व तेन॑ की॒र्तिम॒भिज॑यति ।
अप॑दातीनृ॒त्विज॑स्स॒माव॑ह॒न्त्या सु॑ब्रह्म॒ण्यायाः॑ ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
के॒श॒श्म॒श्रु व॑पते ।
न॒खानि॒ निकृ॑न्तते ।
द॒तो धा॑वते ।
स्नाति॑ ।
अह॑तव्ँ॒वास॒ᳶ परि॑धत्ते ।
पा॒प्मनोऽप॑हत्यै ।
वाचय्ँ॑य॒त्वोप॑वसति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ गुप्त्यै॑ ।
रात्रि॑ञ्जाग॒रय॑न्त आसते ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥2॥
चतु॑ष्टय्य॒ आपो॑ भवन्ति ।
चतु॑श्शफो॒ वा अश्व॑ᳶ प्राजाप॒त्यस्समृ॑द्ध्यै ।
ता दि॒ग्भ्यस्स॒माभृ॑ता भवन्ति ।
दि॒क्षु वा आपः॑ ।
अन्नव्ँ॒वा आपः॑ ।
अ॒द्भ्यो वा अन्न॑ञ्जायते ।
यदे॒वाद्भ्योऽन्न॒ञ्जाय॑ते ।
तदव॑रुन्धे ।
तासु॑ ब्रह्मौद॒नम्प॑चति ।
रेत॑ ए॒व तद्द॑धाति ॥3॥
चतु॑श्शरावो भवति ।
दि॒क्ष्वे॑व प्रति॑तिष्ठति ।
उ॒भ॒यतो॑रु॒क्मौ भ॑वतः ।
उ॒भ॒यत॑ ए॒वास्मि॒न्रुच॑न्दधाति ।
उद्ध॑रति शृत॒त्वाय॑ ।
स॒र्पिष्वा॑न्भवति मेध्य॒त्वाय॑ ।
च॒त्वार॑ आर्षे॒याᳶ प्राश्ञ॑न्ति ।
दि॒शामे॒व ज्योति॑षि जुहोति ।
च॒त्वारि॒ हिर॑ण्यानि ददाति ।
दि॒शामे॒व ज्योतीँ॒ष्यव॑रुन्धे ॥4॥
यदाज्य॑मु॒च्छिष्य॑ते ।
तस्मि॑न्रश॒नान्यु॑नत्ति ।
प्र॒जाप॑ति॒र्वा ओ॑द॒नः ।
रेत॒ आज्य॑म् ।
यदाज्ये॑ रश॒नान्यु॒नत्ति॑ ।
प्र॒जाप॑तिमे॒व रेत॑सा॒ सम॑र्धयति ।
द॒र्भ॒मयी॑ रश॒ना भ॑वति ।
ब॒हु वा ए॒ष कु॑च॒रो॑ मे॒ध्यमुप॑गच्छति ।
यदश्वः॑ ।
प॒वित्रव्ँ॒ वै द॒र्भाः ॥5॥
यद्द॑र्भ॒मयी॑ रश॒ना भव॑ति ।
पु॒नात्ये॒वैन॑म् ।
पू॒तमे॑न॒म्मेध्य॒माल॑भते ।
अश्व॑स्य॒ वा आल॑ब्धस्य महि॒मोद॑क्रामत् ।
स म॒हर्त्वि॑ज॒ᳶ प्रावि॑शत् ।
तन्म॒हर्त्वि॑जाम्महर्त्वि॒क्त्वम् ।
यन्म॒हर्त्वि॑जᳶ प्रा॒श्ञन्ति॑ ।
म॒हि॒मान॑मे॒वास्मि॒न्तद्द॑धति ।
अश्व॑स्य॒ वा आल॑ब्धस्य॒ रेत॒ उद॑क्रामत् ।
तत्सु॒वर्णँ॒ हिर॑ण्यमभवत् ।
यत्सु॒वर्णँ॒ हिर॑ण्य॒न्ददा॑ति ।
रेत॑ ए॒व तद्द॑धाति ।
ओ॒द॒ने द॑दाति ।
रेतो॒ वा ओ॑द॒नः ।
रेतो॒ हिर॑ण्यम् ।
रेत॑सै॒वास्मि॒न्रेतो॑ दधाति ॥6॥
यो वै ब्रह्म॑णे दे॒वेभ्य॑ᳶ प्र॒जाप॑त॒येऽप्र॑तिप्रो॒च्याश्व॒म्मेध्य॑म्ब॒ध्नाति॑ ।
आ दे॒वता॑भ्यो वृश्च्यते ।
पापी॑यान्भवति ।
यᳶ प्र॑ति॒प्रोच्य॑ ।
न दे॒वता॑भ्य॒ आवृ॑श्च्यते ।
वसी॑यान्भवति ।
यदाह॑ ।
ब्रह्म॒न्नश्व॒म्मेध्य॑म्भन्त्स्यामि दे॒वेभ्य॑ᳶ प्र॒जाप॑तये॒ तेन॑ राध्यास॒मिति॑ ।
ब्रह्म॒ वै ब्र॒ह्मा ।
ब्रह्म॑ण ए॒व दे॒वेभ्य॑ᳶ प्र॒जाप॑तये प्रति॒प्रोच्याश्व॒म्मेध्य॑म्बध्नाति ॥7॥
न दे॒वता॑भ्य॒ आ वृ॑श्च्यते ।
वसी॑यान्भवति ।
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॑ रश॒नामाद॑त्ते॒ प्रसू॑त्यै ।
अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।
पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ ।
व्यृ॑द्धव्ँ॒वा ए॒तद्य॒ज्ञस्य॑ ।
यद॑य॒जुष्के॑ण क्रि॒यते॑ ।
इ॒माम॑गृभ्णन्रश॒नामृ॒तस्येत्यधि॑वदति॒ यजु॑ष्कृत्यै ।
य॒ज्ञस्य॒ समृ॑द्ध्यै ॥8॥
तदा॑हुः ।
द्वाद॑शारत्नी रश॒ना क॑र्त॒व्या ३ त्रयो॑दशार॒त्नी ३ रिति॑ ।
ऋ॒ष॒भो वा ए॒ष ऋ॑तू॒नाम् ।
यत्सव्ँ॑वत्स॒रः ।
तस्य॑ त्रयोद॒शो मासो॑ वि॒ष्टप॑म् ।
ऋ॒ष॒भ ए॒ष य॒ज्ञाना॑म् ।
यद॑श्वमे॒धः ।
यथा॒ वा ऋ॑ष॒भस्य॑ वि॒ष्टप॑म् ।
ए॒वमे॒तस्य॑ वि॒ष्टप॑म् ।
त्र॒यो॒द॒शम॑र॒त्निँ र॑श॒नाया॑मु॒पाद॑धाति ॥9॥
यथ॑र्ष॒भस्य॑ वि॒ष्टपँ॑ सँस्क॒रोति॑ ।
ता॒दृगे॒व तत् ।
पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्येत्या॑ह ।
आयु॑रे॒वास्मि॑न्दधाति ।
तया॑ दे॒वास्सु॒तमा ब॑भूवु॒रित्या॑ह ।
भूति॑मे॒वोपाव॑र्तते ।
ऋ॒तस्य॒ साम॑न्त्स॒रमा॒रप॒न्तीत्या॑ह ।
स॒त्यव्ँ वा ऋ॒तम् ।
स॒त्येनै॒वैन॑मृ॒तेनार॑भते ।
अ॒भि॒धा अ॒सीत्या॑ह ॥10॥
तस्मा॑दश्वमेधया॒जी सर्वा॑णि भू॒तान्य॒भिभ॑वति ।
भुव॑नम॒सीत्या॑ह ।
भू॒मान॑मे॒वोपै॑ति ।
य॒न्ताऽसीत्या॑ह ।
य॒न्तार॑मे॒वैन॑ङ्करोति ।
ध॒र्तासीत्या॑ह ।
ध॒र्तार॑मे॒वैन॑ङ्करोति ।
सो॑ऽग्निव्ँ वै॑श्वान॒रमित्या॑ह ।
अ॒ग्नावे॒वैनव्ँ॑ वैश्वान॒रे जु॑होति ।
सप्र॑थस॒मित्या॑ह ॥11॥
प्र॒जयै॒वैन॑म्प॒शुभि॑ᳶ प्रथयति ।
स्वाहा॑कृत॒ इत्या॑ह ।
होम॑ ए॒वास्यै॒षः ।
पृ॒थि॒व्यामित्या॑ह ।
अ॒स्यामे॒वैन॒म्प्रति॑ष्ठापयति ।
य॒न्ता राड्य॒न्ताऽसि॒ यम॑नो ध॒र्तासि॑ ध॒रुण॒ इत्या॑ह ।
रू॒पमे॒वास्यै॒तन्म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।
कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य॒ त्वेत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
स्व॒गा त्वा॑ दे॒वेभ्य॒ इत्या॑ह ।
दे॒वेभ्य॑ ए॒वैनँ॑ स्व॒गा क॑रोति ।
स्वाहा॑ त्वा प्र॒जाप॑तय॒ इत्या॑ह ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
यस्या॑ ए॒व दे॒वता॑या आल॒भ्यते॑ ।
तयै॒वैनँ॒ सम॑र्धयति ॥12॥
यᳶ पि॒तुर॑नु॒जाया॑ᳶ पु॒त्रः ।
स पु॒रस्ता॑न्नयति ।
यो मा॒तुर॑नु॒जाया॑ᳶ पु॒त्रः ।
स प॒श्चान्न॑यति ।
विष्व॑ञ्चमे॒वास्मा॑त्पा॒प्मानव्ँ॒विवृ॑हतः ।
यो अर्व॑न्त॒ञ्जिघाँ॑सति॒ तम॒भ्य॑मीति॒ वरु॑ण॒ इति॒ श्वान॑ञ्चतुर॒क्षम्प्रसौ॑ति ।
प॒रो मर्त॑ᳶ प॒रश्श्वेति॒ शुन॑श्चतुर॒क्षस्य॒ प्रह॑न्ति ।
श्वेव॒ वै पा॒प्मा भ्रातृ॑व्यः ।
पा॒प्मान॑मे॒वास्य॒ भ्रातृ॑व्यँ हन्ति ।
सै॒ध्र॒कम्मुस॑लम्भवति ॥13॥
कर्म॑कर्मै॒वास्मै॑ साधयति ।
पौँ॒श्च॒ले॒यो ह॑न्ति ।
पुँ॒श्च॒ल्वाव्ँ वै दे॒वाश्शुच॒न्न्य॑दधुः ।
शु॒चैवास्य॒ शुचँ॑ हन्ति ।
पा॒प्मा वा ए॒तमी॑प्स॒तीत्या॑हुः ।
यो॑ऽश्वमे॒धेन॒ यज॑त॒ इति॑ ।
अश्व॑स्याधस्प॒दमुपा॑स्यति ।
व॒ज्री वा अश्व॑ᳶ प्राजाप॒त्यः ।
वज्रे॑णै॒व पा॒प्मान॒म्भ्रातृ॑व्य॒मव॑क्रामति ।
द॒क्षि॒णाऽप॑प्लावयति ॥14॥
पा॒प्मान॑मे॒वास्मा॒च्छम॑ल॒मप॑प्लावयति ।
ऐ॒षी॒क उ॑दू॒हो भ॑वति ।
आयु॒र्वा इ॒षीकाः॑ ।
आयु॑रे॒वास्मि॑न्दधति ।
अ॒मृतव्ँ॒वा इ॒षीकाः॑ ।
अ॒मृत॑मे॒वास्मि॑न्दधति ।
वे॒त॒स॒शा॒खोप॒सम्ब॑द्धा भवति ।
अ॒प्सुयो॑नि॒र्वा अश्वः॑ ।
अ॒प्सु॒जो वे॑त॒सः ।
स्वादे॒वैनय्ँ॒योने॒र्निर्मि॑मीते ।
पु॒रस्ता॑त्प्र॒त्यञ्च॑म॒भ्युदू॑हति ।
पु॒रस्ता॑दे॒वास्मि॑न्प्र॒तीच्य॒मृत॑न्दधाति ।
अ॒हञ्च॒ त्वञ्च॑ वृत्रह॒न्निति॑ ब्र॒ह्मा यज॑मानस्य॒ हस्त॑ङ्गृह्णाति ।
ब्र॒ह्म॒क्ष॒त्रे ए॒व सन्द॑धाति ।
अ॒भिक्रत्वे॑न्द्र भू॒रध॒ज्मन्नित्य॑ध्व॒र्युर्यज॑मानव्ँ वाचयत्य॒भिजि॑त्यै ॥ 15॥
च॒त्वार॑ ऋ॒त्विज॒स्समु॑क्षन्ति ।
आ॒भ्य ए॒वैन॑ञ्चत॒सृभ्यो॑ दि॒ग्भ्यो॑ऽभिसमी॑रयन्ति ।
श॒तेन॑ राजपु॒त्रैस्स॒हाध्व॒र्युः ।
पु॒रस्ता॑त्प्र॒त्यङ्तिष्ठ॒न्प्रोक्ष॑ति ।
अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा ।
अ॒यँ राजा॑ वृ॒त्रव्ँव॑ध्या॒दिति॑ ।
रा॒ज्यव्ँ वा अ॑ध्व॒र्युः ।
क्ष॒त्रँ रा॑जपु॒त्रः ।
रा॒ज्येनै॒वास्मि॑न्क्ष॒त्रन्द॑धाति ।
श॒तेना॑ रा॒जभि॑रु॒ग्रैस्स॒ह ब्र॒ह्मा ॥16॥
द॒क्षि॒ण॒त उद॒ङ्तिष्ठ॒न्प्रोक्ष॑ति ।
अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा ।
अ॒यँ राजा॑प्रतिधृ॒ष्यो॑ऽस्त्विति॑ ।
बलव्ँ॒ वै ब्र॒ह्मा ।
बल॑मरा॒जोग्रः ।
बले॑नै॒वास्मि॒न्बल॑न्दधाति ।
श॒तेन॑ सूतग्राम॒णिभि॑स्स॒ह होता॑ ।
प॒श्चात्प्राङ्तिष्ठ॒न्प्रोक्ष॑ति ।
अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा ।
अ॒यँ राजा॒ऽस्यै वि॒शः ॥17॥
ब॒हु॒ग्वै ब॑ह्व॒श्वायै॑ बह्वजावि॒कायै॑ ।
ब॒हु॒व्री॒हि॒य॒वायै॑ बहुमाषति॒लायै॑ ।
ब॒हु॒हि॒र॒ण्यायै॑ बहुह॒स्तिका॑यै ।
ब॒हु॒दा॒स॒पू॒रु॒षायै॑ रयि॒मत्यै॒ पुष्टि॑मत्यै ।
ब॒हु॒रा॒य॒स्पो॒षायै॒ राजा॒स्त्विति॑ ।
भू॒मा वै होता॑ ।
भू॒मा सू॑तग्राम॒ण्यः॑ ।
भू॒म्नैवास्मि॑न्भू॒मान॑न्दधाति ।
श॒तेन॑ क्षत्तसङ्ग्रही॒तृभि॑स्स॒होद्गा॒ता ।
उ॒त्त॒र॒तो द॑क्षि॒णा तिष्ठ॒न्प्रोक्ष॑ति ॥18॥
अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा ।
अ॒यँ राजा॒ सर्व॒मायु॑रे॒त्विति॑ ।
आयु॒र्वा उ॑द्गा॒ता ।
आयुः॑ क्षत्तसङ्ग्रही॒तारः॑ ।
आयु॑षै॒वास्मि॒न्नायु॑र्दधाति ।
श॒तँश॑तम्भवन्ति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
च॒तु॒श्श॒ता भ॑वन्ति ।
चत॑स्रो॒ दिशः॑ ।
दि॒क्ष्वे॑व प्रति॑ तिष्ठति ॥19॥
यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति ।
ए॒वव्ँ वा ए॒तदश्व॑स्य स्कन्दति ।
यन्नि॒क्तमना॑लब्धमुत्सृ॒जन्ति॑ ।
यत्स्तोक्या॑ अ॒न्वाह॑ ।
स॒र्व॒हुत॑मे॒वैन॑ङ्करो॒त्यस्क॑न्दाय ।
अस्क॑न्नँ॒ हि तत् ।
यद्धु॒तस्य॒ स्कन्द॑ति ।
स॒हस्र॒मन्वा॑ह ।
स॒हस्र॑सम्मितस्सुव॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ॥20॥
यत्परि॑मिता अनुब्रू॒यात् ।
परि॑मित॒मव॑ रुन्धीत ।
अप॑रिमिता॒ अन्वा॑ह ।
अप॑रिमितस्सुव॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
स्तोक्या॑ जुहोति ।
या ए॒व वर्ष्या॒ आपः॑ ।
ता अव॑ रुन्धे ।
अ॒स्याञ्जु॑होति ।
इ॒यव्ँ वा अ॒ग्निर्वै॑श्वान॒रः ॥21॥
अ॒स्यामे॒वैना॒ᳶ प्रति॑ष्ठापयति ।
उ॒वाच॑ ह प्र॒जाप॑तिः ।
स्तोक्या॑सु॒ वा अ॒हम॑श्वमे॒धँ सँस्था॑पयामि ।
तेन॒ तत॒स्सँस्थि॑तेन चरा॒मीति॑ ।
अ॒ग्नये॒ स्वाहेत्या॑ह ।
अ॒ग्नय॑ ए॒वैन॑ञ्जुहोति ।
सोमा॑य॒ स्वाहेत्या॑ह ।
सोमा॑यै॒वैन॑ञ्जुहोति ।
स॒वि॒त्रे स्वाहेत्या॑ह ।
स॒वि॒त्र ए॒वैन॑ञ्जुहोति ॥22॥
सर॑स्वत्यै॒ स्वाहेत्या॑ह ।
सर॑स्वत्या ए॒वैन॑ञ्जुहोति ।
पू॒ष्णे स्वाहेत्या॑ह ।
पू॒ष्ण ए॒वैन॑ञ्जुहोति ।
बृह॒स्पत॑ये॒ स्वाहेत्या॑ह ।
बृह॒स्पत॑य ए॒वैन॑ञ्जुहोति ।
अ॒पाम्मोदा॑य॒ स्वाहेत्या॑ह ।
अ॒द्भ्य ए॒वैन॑ञ्जुहोति ।
वा॒यवे॒ स्वाहेत्या॑ह ।
वा॒यव॑ ए॒वैन॑ञ्जुहोति ॥23॥
मि॒त्राय॒ स्वाहेत्या॑ह ।
मि॒त्रायै॒वैन॑ञ्जुहोति ।
वरु॑णाय॒ स्वाहेत्या॑ह ।
वरु॑णायै॒वैन॑ञ्जुहोति ।
ए॒ताभ्य॑ ए॒वैन॑न्दे॒वता॑भ्यो जुहोति ।
दश॑दश स॒म्पाद॑ञ्जुहोति ।
दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे ।
प्र वा ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते ।
यᳶ परा॑ची॒राहु॑तीर्जु॒होति॑ ।
पुन॑ᳶपुनरभ्या॒वर्त॑ञ्जुहोति ।
अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ।
ए॒ताँ ह वाव सो॑ऽश्वमे॒धस्य॒ सँस्थि॑तिमुवा॒चास्क॑न्दाय ।
अस्क॑न्नँ॒ हि तत् ।
यद्य॒ज्ञस्य॒ सँस्थि॑तस्य॒ स्कन्द॑ति ॥24॥
प्र॒जाप॑तये त्वा॒ जुष्ट॒म्प्रोक्षा॒मीति॑ पु॒रस्ता॑त्प्र॒त्यङ्तिष्ठ॒न्प्रोक्ष॑ति ।
प्र॒जाप॑ति॒र्वै दे॒वाना॑मन्ना॒दो वी॒र्या॑वान् ।
अ॒न्नाद्य॑मे॒वास्मि॑न्वी॒र्य॑न्दधाति ।
तस्मा॒दश्व॑ᳶ पशू॒नाम॑न्ना॒दो वी॒र्या॑वत्तमः ।
इ॒न्द्रा॒ग्निभ्या॒न्त्वेति॑ दक्षिण॒तः ।
इ॒न्द्रा॒ग्नी वै दे॒वाना॒मोजि॑ष्ठौ॒ बलि॑ष्ठौ ।
ओज॑ ए॒वास्मि॒न्बल॑न्दधाति ।
तस्मा॒दश्व॑ᳶ पशू॒नामोजि॑ष्ठो॒ बलि॑ष्ठः ।
वा॒यवे॒ त्वेति॑ प॒श्चात् ।
वा॒युर्वै दे॒वाना॑मा॒शुस्सा॑रसा॒रित॑मः ॥25॥
ज॒वमे॒वास्मि॑न्दधाति ।
तस्मा॒दश्व॑ᳶ पशू॒नामा॒शुस्सा॑रसा॒रित॑मः ।
विश्वे॑भ्यस्त्वा दे॒वेभ्य॒ इत्यु॑त्तर॒तः ।
विश्वे॒ वै दे॒वा दे॒वानाय्ँ॑यश॒स्वित॑माः ।
यश॑ ए॒वास्मि॑न्दधाति ।
तस्मा॒दश्व॑ᳶ पशू॒नाय्ँय॑श॒स्वित॑मः ।
दे॒वेभ्य॒स्त्वेत्य॒धस्ता॑त् ।
दे॒वा वै दे॒वाना॒मप॑चिततमाः ।
अप॑चितिमे॒वास्मि॑न्दधाति ।
तस्मा॒दश्व॑ᳶ पशू॒नामप॑चिततमः ॥26॥
सर्वे॑भ्यस्त्वा दे॒वेभ्य॒ इत्यु॒परि॑ष्टात् ।
सर्वे॒ वै दे॒वास्त्विषि॑मन्तो हर॒स्विनः॑ ।
त्विषि॑मे॒वास्मि॒न् हरो॑ दधाति ।
तस्मा॒दश्व॑ᳶ पशू॒नान्त्विषि॑मान्हर॒स्वित॑मः ।
दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेत्या॑ह ।
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्य॒ᳶ प्रोक्ष॑ति ।
स॒ते त्वाऽस॑ते त्वा॒ऽद्भ्यस्त्वौष॑धीभ्यस्त्वा॒ विश्वे॑भ्यस्त्वा भू॒तेभ्य॒ इत्या॑ह ।
तस्मा॑दश्वमेधया॒जिनँ॒ सर्वा॑णि भू॒तान्युप॑जीवन्ति ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
यत्प्रा॑जाप॒त्योऽश्वः॑ ।
अथ॒ कस्मा॑देनम॒न्याभ्यो॑ दे॒वता॒भ्योऽपि॒ प्रोक्ष॒तीति॑ ।
अश्वे॒ वै सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः ।
तय्ँयद्विश्वे॑भ्यस्त्वा भू॒तेभ्य॒ इति॑ प्रो॒क्षति॑ ।
दे॒वता॑ ए॒वास्मि॑न्न॒न्वा या॑तयति ।
तस्मा॒दश्वे॒ सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः ॥27॥
यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति ।
ए॒वव्ँ वा ए॒तदश्व॑स्य स्कन्दति ।
यत्प्रोक्षि॑त॒मना॑लब्धमुत्सृ॒जन्ति॑ ।
यद॑श्वचरि॒तानि॑ जु॒होति॑ ।
स॒र्व॒हुत॑मे॒वैन॑ङ्करो॒त्यस्क॑न्दाय ।
अस्क॑न्नँ॒ हि तत् ।
यद्धु॒तस्य॒ स्कन्द॑ति ।
ई॒ङ्का॒राय॒ स्वाहेङ्कृ॑ताय॒ स्वाहेत्या॑ह ।
ए॒तानि॒ वा अ॑श्वचरि॒तानि॑ ।
च॒रि॒तैरे॒वैनँ॒ सम॑र्धयति ॥28॥
तदा॑हुः ।
अना॑हुतयो॒ वा अ॑श्वचरि॒तानि॑ ।
नैता हो॑त॒व्या॑ इति॑ ।
अथो॒ खल्वा॑हुः ।
हो॒त॒व्या॑ ए॒व ।
अत्र॒ वावैवव्ँ वि॒द्वान॑श्वमे॒धँ सँस्था॑पयति ।
यद॑श्वचरि॒तानि॑ जु॒होति॑ ।
तस्मा॑द्धोत॒व्या॑ इति॑ ।
ब॒हि॒र्धा वा ए॑नमे॒तदा॒यत॑नाद्दधाति ।
भ्रातृ॑व्यमस्मै जनयति ॥29॥
यस्या॑नायत॒ने॑ऽन्यत्रा॒ग्नेराहु॑तीर्जु॒होति॑ ।
सा॒वि॒त्रि॒या इष्ट्या॑ᳶ पु॒रस्ता॑त्स्विष्ट॒कृतः॑ ।
आ॒ह॒व॒नीये॑ऽश्वचरि॒तानि॑ जुहोति ।
आ॒यत॑न ए॒वास्याहु॑तीर्जुहोति ।
नास्मै॒ भ्रातृ॑व्यञ्जनयति ।
तदा॑हुः ।
य॒ज्ञ॒मु॒खेय॑ज्ञमुखे होत॒व्याः॑ ।
य॒ज्ञस्य॒ कॢप्त्यै॑ ।
सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या॒ इति॑ ।
अथो॒ खल्वा॑हुः ॥30॥
यद्य॑ज्ञमु॒खेय॑ज्ञमुखे जुहु॒यात् ।
प॒शुभि॒र्यज॑मानव्ँ॒ व्य॑र्धयेत् ।
अव॑ सुव॒र्गाल्लो॒कात्प॑द्येत ।
पापी॑यान्त्स्या॒दिति॑ ।
स॒कृदे॒व हो॑त॒व्याः॑ ।
न यज॑मानम्प॒शुभि॒र्व्य॑र्धयति ।
अ॒भि सु॑व॒र्गल्ँ लो॒कञ्ज॑यति ।
न पापी॑यान्भवति ।
अ॒ष्टाच॑त्वारिँशतमश्वरू॒पाणि॑ जुहोति ।
अ॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती ।
जाग॒तोऽश्व॑ᳶ प्राजाप॒त्यस्समृ॑द्ध्यै ।
ए॒कमति॑रिक्तञ्जुहोति ।
तस्मा॒देक॑ᳶ प्र॒जास्वर्धु॑कः ॥31॥
वि॒भूर्मा॒त्रा प्र॒भूᳶ पि॒त्रेत्या॑ह ।
इ॒यव्ँ वै मा॒ता ।
अ॒सौ पि॒ता ।
आ॒भ्यामे॒वैन॒म्परि॑ददाति ।
अश्वो॑ऽसि॒ हयो॒ऽसीत्या॑ह ।
शास्त्ये॒वैन॑मे॒तत् ।
तस्मा॑च्छि॒ष्टाᳶ प्र॒जा जा॑यन्ते ।
अत्यो॒ऽसीत्या॑ह ।
तस्मा॒दश्व॒स्सर्वा॑न्प॒शूनत्ये॑ति ।
तस्मा॒दश्व॒स्सर्वे॑षाम्पशू॒नाँ श्रैष्ठ्य॑ङ्गच्छति ॥ 32॥
प्र यश॒श्श्रैष्ठ्य॑माप्नोति ।
य ए॒वव्ँ वेद॑ ।
नरो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह ।
रू॒पमे॒वास्यै॒तन्म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।
ययु॒र्नामा॒ऽसीत्या॑ह ।
ए॒तद्वा अश्व॑स्य प्रि॒यन्ना॑म॒धेय॑म् ।
प्रि॒येणै॒वैन॑न्नाम॒धेये॑ना॒भिव॑दति ।
तस्मा॒दप्या॑मि॒त्रौ स॒ङ्गत्य॑ ।
नाम्ना॒ चेद्ध्वये॑ते ।
मि॒त्रमे॒व भ॑वतः ॥33॥
आ॒दि॒त्याना॒म्पत्वाऽन्वि॒हीत्या॑ह ।
आ॒दि॒त्याने॒वैन॑ङ्गमयति ।
अ॒ग्नये॒ स्वाहा॒ स्वाहे॑न्द्रा॒ग्निभ्या॒मिति॑ पूर्वहो॒माञ्जु॑होति ।
पूर्व॑ ए॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑क्रामति ।
भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वेत्युत्सृ॑जति सर्व॒त्वाय॑ ।
देवा॑ आशापाला ए॒तन्दे॒वेभ्योऽश्व॒म्मेधा॑य॒ प्रोक्षि॑तङ्गोपाय॒तेत्या॑ह ।
श॒तव्ँ वै तल्प्या॑ राजपु॒त्रा दे॒वा आ॑शापा॒लाः ।
तेभ्य॑ ए॒वैन॒म्परि॑ददाति ।
ई॒श्व॒रो वा अश्व॒ᳶ प्रमु॑क्त॒ᳶ परा॑म्परा॒वत॒ङ्गन्तोः॑ ।
इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहेति॑ चतृ॒षु प॒त्सु जु॑होति ॥34॥
ए॒ता वा अश्व॑स्य॒ बन्ध॑नम् ।
ताभि॑रे॒वैन॑म्बध्नाति ।
तस्मा॒दश्व॒ᳶ प्रमु॑क्तो॒ बन्ध॑न॒माग॑च्छति ।
तस्मा॒दश्व॒ᳶ प्रमु॑क्तो॒ बन्ध॑न॒न्न ज॑हाति ।
रा॒ष्ट्रव्ँ वा अ॑श्वमे॒धः ।
रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते ।
येऽश्व॒म्मेध्यँ॒ रक्ष॑न्ति ।
तेषाय्ँ॒य उ॒दृच॒ङ्गच्छ॑न्ति ।
रा॒ष्ट्रादे॒व ते रा॒ष्ट्रङ्ग॑च्छन्ति ।
अथ॒ य उ॒दृच॒न्न गच्छ॑न्ति ॥35॥
रा॒ष्ट्रादे॒व ते व्यव॑च्छिद्यन्ते ।
परा॒ वा ए॒ष सि॑च्यते ।
यो॑ऽब॒लो॑ऽश्वमे॒धेन॒ यज॑ते ।
यद॒मित्रा॒ अश्वव्ँ॑वि॒न्देर॑न् ।
ह॒न्येता॑स्य य॒ज्ञः ।
च॒तु॒श्श॒ता र॑क्षन्ति ।
य॒ज्ञस्याघा॑ताय ।
अथा॒न्यमा॒नीय॒ प्रोक्षे॑युः ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ॥36॥
प्र॒जाप॑तिरकामयताश्वमे॒धेन॑ यजे॒येति॑ ।
स तपो॑ऽतप्यत ।
तस्य॑ तेपा॒नस्य॑ ।
स॒प्तात्मनो॑ दे॒वता॒ उद॑क्रामन् ।
सा दी॒क्षाऽभ॑वत् ।
स ए॒तानि॑ वैश्वदे॒वान्य॑पश्यत् ।
तान्य॑जुहोत् ।
तैर्वै स दी॒क्षामवा॑रुन्ध ।
यद्वै॑श्वदे॒वानि॑ जु॒होति॑ ।
दी॒क्षामे॒व तैर्यज॑मा॒नोऽव॑रुन्धे ॥37॥
स॒प्त जु॑होति ।
स॒प्त हि ता दे॒वता॑ उ॒दक्रा॑मन् ।
अ॒न्व॒हञ्जु॑होति ।
अ॒न्व॒हमे॒व दी॒क्षामव॑रुन्धे ।
त्रीणि॑ वैश्वदे॒वानि॑ जुहोति ।
च॒त्वार्यौ॑द्ग्रह॒णानि॑ ।
स॒प्त सम्प॑द्यन्ते ।
स॒प्त वै शी॑र्ष॒ण्या॑ᳶ प्रा॒णाः ।
प्रा॒णा दी॒क्षा ।
प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑रुन्धे ॥38॥
एक॑विँशतिव्ँ वैश्वदे॒वानि॑ जुहोति ।
एक॑विँशति॒र्वै दे॑वलो॒काः ।
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ ।
त्रय॑ इ॒मे लो॒काः ।
अ॒सावा॑दि॒त्य ए॑कविँ॒शः ।
ए॒ष सु॑व॒र्गो लो॒कः ।
तद्दैव्य॑ङ्क्ष॒त्रम् ।
सा श्रीः ।
तद्ब्र॒ध्नस्य॑ वि॒ष्टप॑म् ।
तत्स्वारा॑ज्यमुच्यते ॥39॥
त्रिँ॒शत॑मौद्ग्रह॒णानि॑ जुहोति ।
त्रिँ॒शद॑क्षरा वि॒राट् ।
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ।
त्रे॒धा वि॒भज्य॑ दे॒वता॑ञ्जुहोति ।
त्र्या॑वृतो॒ वै दे॒वाः ।
त्र्या॑वृत इ॒मे लो॒काः ।
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।
ए॒षाल्ँ लो॒काना॒ङ्कॢप्त्यै॑ ।
अप॒ वा ए॒तस्मा॑त्प्रा॒णाᳵ क्रा॑मन्ति ॥40॥
यो दी॒क्षाम॑तिरे॒चय॑ति ।
स॒प्ता॒हम्प्रच॑रन्ति ।
स॒प्त वै शी॑र्ष॒ण्या॑ᳶ प्रा॒णाः ।
प्रा॒णा दी॒क्षा ।
प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑रुन्धे ।
पू॒र्णा॒हु॒तिमु॑त्त॒माञ्जु॑होति ।
सर्वव्ँ॒ वै पू॑र्णाहु॒तिः ।
सर्व॑मे॒वाप्नो॑ति ।
अथो॑ इ॒यव्ँ वै पू॑र्णाहु॒तिः ।
अ॒स्यामे॒व प्रति॑तिष्ठति ॥41॥
प्र॒जाप॑तिरश्वमे॒धम॑सृजत ।
तँ सृ॒ष्टन्न किञ्च॒नोद॑यच्छत् ।
तव्ँ वै॑श्वदे॒वान्ये॒वोद॑यच्छन् ।
यद्वै॑श्वदे॒वानि॑ जु॒होति॑ ।
य॒ज्ञस्योद्य॑त्यै ।
स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहा॑ ।
स्वाहाऽधी॑त॒म्मन॑से॒ स्वाहा॑ ।
स्वाहा॒ मन॑ᳶ प्र॒जाप॑तये॒ स्वाहा॑ ।
काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहेति॑ प्राजाप॒त्ये मुख्ये॑ भवतः ।
प्र॒जाप॑तिमुखाभिरे॒वैन॑न्दे॒वता॑भि॒रुद्य॑च्छते ॥42॥
अदि॑त्यै॒ स्वाहाऽदि॑त्यै म॒ह्यै॑ स्वाहाऽदि॑त्यै सुमृडी॒कायै॒ स्वाहेत्या॑ह ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्या ए॒वैन॑म्प्रति॒ष्ठायोद्य॑च्छते ।
सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै॑ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहेत्या॑ह ।
वाग्वै सर॑स्वती ।
वा॒चैवैन॒मुद्य॑च्छते ।
पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहेत्या॑ह ।
प॒शवो॒ वै पू॒षा ।
प॒शुभि॑रे॒वैन॒मुद्य॑च्छते ।
त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहेत्या॑ह ।
त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृत् ।
रू॒पमे॒व प॒शुषु॑ दधाति ।
अथो॑ रू॒पैरे॒वैन॒मुद्य॑च्छते ।
विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहेत्या॑ह ।
य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञायै॒वैन॒मुद्य॑च्छते ।
पू॒र्णा॒हु॒तिमु॑त्त॒माञ्जु॑होति ।
प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ॥43॥
सा॒वि॒त्रम॒ष्टाक॑पालम्प्रा॒तर्निर्व॑पति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रम्प्रा॑तस्सव॒नम् ।
प्रा॒त॒स्स॒व॒नादे॒वैन॑ङ्गायत्रि॒याश्छन्द॒सोऽधि॒ निर्मि॑मीते ।
अथो॑ प्रातस्सव॒नमे॒व तेना॑प्नोति ।
गा॒य॒त्रीञ्छन्दः॑ ।
स॒वि॒त्रे प्र॑सवि॒त्र एका॑दशकपालम्म॒ध्यन्दि॑ने ।
एका॑दशाक्षरा त्रि॒ष्टुप् ।
त्रैष्टु॑भ॒म्माध्य॑न्दिनँ॒ सव॑नम् ।
माध्य॑न्दिनादे॒वैनँ॒ सव॑नात्त्रि॒ष्टुभ॒श्छन्द॒सोऽधि॒ निर्मि॑मीते ॥44॥
अथो॒ माध्य॑न्दिनमे॒व सव॑न॒न्तेना॑प्नोति ।
त्रि॒ष्टुभ॒ञ्छन्दः॑ ।
स॒वि॒त्र आ॑सवि॒त्रे द्वाद॑शकपालमपरा॒ह्णे ।
द्वाद॑शाक्षरा॒ जग॑ती ।
जाग॑तन्तृतीयसव॒नम् ।
तृ॒ती॒य॒स॒व॒नादे॒वैन॒ञ्जग॑त्या॒श्छन्द॒सोऽधि॒ निर्मि॑मीते ।
अथो॑ तृतीयसव॒नमे॒व तेना॑प्नोति ।
जग॑ती॒ञ्छन्दः॑ ।
ई॒श्व॒रो वा अश्व॒ᳶ प्रमु॑क्त॒ᳶ परा॑म्परा॒वत॒ङ्गन्तोः॑ ।
इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहेति॒ चत॑स्र॒ आहु॑तीर्जुहोति ॥45॥
चत॑स्रो॒ दिशः॑ ।
दि॒ग्भिरे॒वैन॒म्परि॑गृह्णाति ।
आश्व॑त्थो व्र॒जो भ॑वति ।
प्र॒जाप॑तिर्दे॒वेभ्यो॒ निला॑यत ।
अश्वो॑ रू॒पङ्कृ॒त्वा ।
सो॑ऽश्व॒त्थे सव्ँ॑वत्स॒रम॑तिष्ठत् ।
तद॑श्व॒त्थस्या॑श्वत्थ॒त्वम् ।
यदाश्व॑त्थो व्र॒जो भव॑ति ।
स्व ए॒वैनय्ँ॒योनौ॒ प्रति॑ष्ठापयति ॥46॥
आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मित्या॑ह ।
ब्रा॒ह्म॒ण ए॒व ब्र॑ह्मवर्च॒सन्द॑धाति ।
तस्मा॑त्पु॒रा ब्रा॑ह्म॒णो ब्र॑ह्मवर्च॒स्य॑जायत ।
आऽस्मिन्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो जा॑यता॒मित्या॑ह ।
रा॒ज॒न्य॑ ए॒व शौ॒र्यम्म॑हि॒मान॑न्दधाति ।
तस्मा॑त्पु॒रा रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो॑ऽजायत ।
दोग्ध्री॑ धे॒नुरित्या॑ह ।
धे॒न्वामे॒व पयो॑ दधाति ।
तस्मा॑त्पु॒रा दोग्ध्री॑ धे॒नुर॑जायत ।
वोढा॑ऽन॒ड्वानित्या॑ह ॥47॥
अ॒न॒डुह्ये॒व वी॒र्य॑न्दधाति ।
तस्मा॑त्पु॒रा वोढा॑ऽन॒ड्वान॑जायत ।
आ॒शुस्सप्ति॒रित्या॑ह ।
अश्व॑ ए॒व ज॒वन्द॑धाति ।
तस्मा॑त्पु॒राऽऽशुरश्वो॑ऽजायत ।
पुर॑न्धि॒र्योषेत्या॑ह ।
यो॒षित्ये॒व रू॒पन्द॑धाति ।
तस्मा॒त्स्त्री यु॑व॒तिᳶ प्रि॒या भावु॑का ।
जि॒ष्णू र॑थे॒ष्ठा इत्या॑ह ।
आ ह॒ वै तत्र॑ जि॒ष्णू र॑थे॒ष्ठा जा॑यते ॥48॥
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
स॒भेयो॒ युवेत्या॑ह ।
यो वै पू॑र्ववय॒सी ।
स स॒भेयो॒ युवा॑ ।
तस्मा॒द्युवा॒ पुमा॑न्प्रि॒यो भावु॑कः ।
आऽस्य यज॑मानस्य वी॒रो जा॑यता॒मित्या॑ह ।
आ ह॒ वै तत्र॒ यज॑मानस्य वी॒रो जा॑यते ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
नि॒का॒मेनि॑कामे नᳶ प॒र्जन्यो॑ वर्ष॒त्वित्या॑ह ।
नि॒का॒मेनि॑कामे ह॒ वै तत्र॑ प॒र्जन्यो॑ वर्षति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
फ॒लिन्यो॑ न॒ ओष॑धयᳶ पच्यन्ता॒मित्या॑ह ।
फ॒लिन्यो॑ ह॒ वै तत्रौष॑धयᳶ पच्यन्ते ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
यो॒ग॒क्षे॒मो न॑ᳵ कल्पता॒मित्या॑ह ।
कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥49॥
प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् ।
स आ॒त्मन्न॑श्वमे॒धम॑धत्त ।
तन्दे॒वा अ॑ब्रुवन् ।
ए॒ष वाव य॒ज्ञः ।
यद॑श्वमे॒धः ।
अप्ये॒व नोत्रा॒स्त्विति॑ ।
तेभ्य॑ ए॒तान॑न्नहो॒मान्प्राय॑च्छत् ।
तान॑जुहोत् ।
तैर्वै स दे॒वान॑प्रीणात् ।
यद॑न्नहो॒माञ्जु॒होति॑ ॥50॥
दे॒वाने॒व तैर्यज॑मानᳶ प्रीणाति ।
आज्ये॑न जुहोति ।
अ॒ग्नेर्वा ए॒तद्रू॒पम् ।
यदाज्य॑म् ।
यदाज्ये॑न जु॒होति॑ ।
अ॒ग्निमे॒व तत्प्री॑णाति ।
मधु॑ना जुहोति ।
म॒ह॒त्यै वा ए॒तद्दे॒वता॑यै रू॒पम् ।
यन्मधु॑ ।
यन्मधु॑ना जु॒होति॑ ॥51॥
म॒ह॒तीमे॒व तद्दे॒वता॑म्प्रीणाति ।
त॒ण्डु॒लैर्जु॑होति ।
वसू॑नाव्ँ॒वा ए॒तद्रू॒पम् ।
यत्त॑ण्डु॒लाः ।
यत्त॑ण्डु॒लैर्जु॒होति॑ ।
वसू॑ने॒व तत्प्री॑णाति ।
पृथु॑कैर्जुहोति ।
रु॒द्राणाव्ँ॒वा ए॒तद्रू॒पम् ।
यत्पृथु॑काः ।
यत्पृथु॑कैर्जु॒होति॑ ॥52॥
रु॒द्राने॒व तत्प्री॑णाति ।
ला॒जैर्जु॑होति ।
आ॒दि॒त्यानाव्ँ॒वा ए॒तद्रू॒पम् ।
यल्ला॒जाः ।
यल्ला॒जैर्जु॒होति॑ ।
आ॒दि॒त्याने॒व तत्प्री॑णाति ।
क॒रम्बै॑र्जुहोति ।
विश्वे॑षाव्ँ॒वा ए॒तद्दे॒वानाँ॑ रू॒पम् ।
यत्क॒रम्बाः॑ ।
यत्क॒रम्बै॑र्जु॒होति॑ ॥ 53॥
विश्वा॑ने॒व तद्दे॒वान्प्री॑णाति ।
धा॒नाभि॑र्जुहोति ।
नक्ष॑त्त्राणाव्ँ॒वा ए॒तद्रू॒पम् ।
यद्धा॒नाः ।
यद्धा॒नाभि॑र्जु॒होति॑ ।
नक्ष॑त्त्राण्ये॒व तत्प्री॑णाति ।
सक्तु॑भिर्जुहोति ।
प्र॒जाप॑ते॒र्वा ए॒तद्रू॒पम् ।
यत्सक्त॑वः ।
यत्सक्तु॑भिर्जु॒होति॑ ॥54॥
प्र॒जा॑पतिमे॒व तत्प्री॑णाति ।
म॒सूस्यै॑र्जुहोति ।
सर्वा॑साव्ँ॒वा ए॒तद्दे॒वता॑नाँ रू॒पम् ।
यन्म॒सूस्या॑नि ।
यन्म॒सूस्यै॑र्जु॒होति॑ ।
सर्वा॑ ए॒व तद्दे॒वता॑ᳶ प्रीणाति ।
प्रि॒य॒ङ्गु॒त॒ण्डु॒लैर्जु॑होति ।
प्रि॒याङ्गा॑ ह॒ वै नामै॒ते ।
ए॒तैर्वै दे॒वा अश्व॒स्याङ्गा॑नि॒ सम॑दधुः ।
यत्प्रि॑यङ्गुतण्डु॒लैर्जु॒होति॑ ।
अश्व॑स्यै॒वाङ्गा॑नि॒ सन्द॑धाति ।
दशान्ना॑नि जुहोति ।
दशा॑क्षरा वि॒राट् ।
वि॒राट्कृ॒त्स्नस्या॒न्नाद्य॒स्याव॑रुध्यै ॥55॥
प्र॒जाप॑तिरश्वमे॒धम॑सृजत ।
तँ सृ॒ष्टँ रक्षाँ॑स्यजिघाँसन् ।
स ए॒तान्प्र॒जाप॑तिर्न॒क्तँहो॒मान॑पश्यत् ।
तान॑जुहोत् ।
तैर्वै स य॒ज्ञाद्रक्षाँ॒स्यपा॑हन् ।
यन्न॑क्तँहो॒माञ्जु॒होति॑ ।
य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षाँ॒स्यप॑ हन्ति ।
आज्ये॑न जुहोति ।
वज्रो॒ वा आज्य॑म् ।
वज्रे॑णै॒व य॒ज्ञाद्रक्षाँ॒स्यप॑हन्ति ॥56॥
आज्य॑स्य प्रति॒पद॑ङ्करोति ।
प्रा॒णो वा आज्य॑म् ।
मु॒ख॒त ए॒वास्य॑ प्रा॒णन्द॑धाति ।
अ॒न्न॒हो॒माञ्जु॑होति ।
शरी॑रवदे॒वाव॑रुन्धे ।
व्य॒त्यास॑ञ्जुहोति ।
उ॒भय॒स्याव॑रुध्यै ।
नक्त॑ञ्जुहोति ।
रक्ष॑सा॒मप॑हत्यै ।
आज्ये॑नान्त॒तो जु॑होति ॥57॥
प्रा॒णो वा आज्य॑म् ।
उ॒भ॒यत॑ ए॒वास्य॑ प्रा॒णन्द॑धाति ।
पु॒रस्ता॑च्चो॒परि॑ष्टाच्च ।
एक॑स्मै॒ स्वाहेत्या॑ह ।
अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ।
द्वाभ्याँ॒ स्वाहेत्या॑ह ।
अ॒मुष्मि॑न्ने॒व लो॒के प्रति॑तिष्ठति ।
उ॒भयो॑रे॒व लो॒कयो॒ᳶ प्रति॑तिष्ठति ।
अ॒स्मिँश्चा॒मुष्मिँ॑श्च ।
श॒ताय॒ स्वाहेत्या॑ह ।
श॒तायु॒र्वै पुरु॑षश्श॒तवी॑र्यः ।
आयु॑रे॒व वी॒र्य॑मव॑रुन्धे ।
स॒हस्रा॑य॒ स्वाहेत्या॑ह ।
आयु॒र्वै स॒हस्र॑म् ।
आयु॑रे॒वाव॑रुन्धे ।
सर्व॑स्मै॒ स्वाहेत्या॑ह ।
अप॑रिमितमे॒वाव॑रुन्धे ॥58॥
प्र॒जाप॑तिव्ँ॒वा ए॒ष ई॑प्स॒तीत्या॑हुः ।
यो॑ऽश्वमे॒धेन॒ यज॑त॒ इति॑ ।
अथो॑ आहुः ।
सर्वा॑णि भू॒तानीति॑ ।
एक॑स्मै॒ स्वाहेत्या॑ह ।
प्र॒जाप॑ति॒र्वा एकः॑ ।
तमे॒वाप्नो॑ति ।
एक॑स्मै॒ स्वाहा॒ द्वाभ्याँ॒ स्वाहेत्य॑भिपू॒र्वमाहु॑तीर्जुहोति ।
अ॒भि॒पू॒र्वमे॒व सु॑व॒र्गल्ँ लो॒कमे॑ति ।
ए॒को॒त्त॒रञ्जु॑होति ॥59॥
ए॒क॒वदे॒व सु॑व॒र्गल्ँ लो॒कमे॑ति ।
सन्त॑तञ्जुहोति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ।
श॒ताय॒ स्वाहेत्या॑ह ।
श॒तायु॒र्वै पुरु॑षश्श॒तवी॑र्यः ।
आयु॑रे॒व वी॒र्य॑मव॑रुन्धे ।
स॒हस्रा॑य॒ स्वाहेत्या॑ह ।
आयु॒र्वै स॒हस्र॑म् ।
आयु॑रे॒वाव॑रुन्धे ।
अ॒युता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा॑ प्र॒युता॑य॒ स्वाहेत्या॑ह ॥60॥
त्रय॑ इ॒मे लो॒काः ।
इ॒माने॒व लो॒कानव॑रुन्धे ।
अर्बु॑दाय॒ स्वाहेत्या॑ह ।
वाग्वा अर्बु॑दम् ।
वाच॑मे॒वाव॑रुन्धे ।
न्य॑र्बुदाय॒ स्वाहेत्या॑ह ।
यो वै वा॒चो भू॒मा ।
तन्न्य॑र्बुदम् ।
वा॒च ए॒व भू॒मान॒मव॑रुन्धे ।
स॒मु॒द्राय॒ स्वाहेत्या॑ह ॥61॥
स॒मु॒द्रमे॒वाप्नो॑ति ।
मध्या॑य॒ स्वाहेत्या॑ह ।
मध्य॑मे॒वाप्नो॑ति ।
अन्ता॑य॒ स्वाहेत्या॑ह ।
अन्त॑मे॒वाप्नो॑ति ।
प॒रा॒र्धाय॒ स्वाहेत्या॑ह ।
प॒रा॒र्धमे॒वाप्नो॑ति ।
उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्या॑ह ।
रात्रि॒र्वा उ॒षाः ।
अह॒र्व्यु॑ष्टिः ।
अ॒हो॒रा॒त्रे ए॒वाव॑रुन्धे ।
अथो॑ अहोरा॒त्रयो॑रे॒व प्रति॑तिष्ठति ।
ता यदु॒भयी॒र्दिवा॑ वा॒ नक्तव्ँ॑वा जुहु॒यात् ।
अ॒हो॒रा॒त्रे मो॑हयेत् ।
उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहो॑द्य॒ते स्वाहेत्यनु॑दिते जुहोति ।
उदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहेत्युदि॑ते जुहोति ।
अ॒हो॒रा॒त्रयो॒रव्य॑तिमोहाय ॥62॥
वि॒भूर्मा॒त्रा प्र॒भूᳶ पि॒त्रेत्य॑श्वना॒मानि॑ जुहोति ।
उ॒भयो॑रे॒वैनल्ँ॑ लो॒कयो॑र्नाम॒धेय॑ङ्गमयति ।
आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहेत्यु॑द्द्रा॒वाञ्जु॑होति ।
सर्व॑मे॒वैन॒मस्क॑न्नँ सुव॒र्गल्ँ लो॒कङ्ग॑मयति ।
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वहो॒माञ्जु॑होति ।
पूर्व॑ ए॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑ क्रामति ।
पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वदी॒क्षा जु॑होति ।
पूर्व॑ ए॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑क्रामति ॥63॥
पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्ये॑कविँ॒शिनी॑न्दी॒क्षाञ्जु॑होति ।
एक॑विँशति॒र्वै दे॑वलो॒काः ।
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ ।
त्रय॑ इ॒मे लो॒काः ।
अ॒सावा॑दि॒त्य ए॑कविँ॒शः ।
ए॒ष सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
भुवो॑ दे॒वाना॒ङ्कर्म॒णेत्यृ॑तुदी॒क्षा जु॑होति ।
ऋ॒तूने॒वास्मै॑ कल्पयति ।
अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहेति॑ जुहो॒त्यन॑न्तरित्यै ॥64॥
अ॒र्वाङ्य॒ज्ञस्सङ्क्रा॑म॒त्वित्याप्ती॑र्जुहोति ।
सु॒व॒र्गस्य॑ लो॒कस्याप्त्यै॑ ।
भू॒तम्भव्य॑म्भवि॒ष्यदिति॒ पर्या॑प्तीर्जुहोति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ पर्या॑प्त्यै ।
आ मे॑ गृ॒हा भ॑व॒न्त्वित्या॒भूर्जु॑होति ।
सु॒व॒र्गस्य॑ लो॒कस्याभू॑त्यै ।
अ॒ग्निना॒ तपोऽन्व॑भव॒दित्य॑नु॒भूर्जु॑होति ।
सु॒व॒र्गस्य॑ लो॒कस्यानु॑भूत्यै ।
स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहेति॒ सम॑स्तानि वैश्वदे॒वानि॑ जुहोति ।
सम॑स्तमे॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑क्रामति ॥65॥
द॒द्भ्यस्स्वाहा॒ हनू॑भ्याँ॒ स्वाहेत्य॑ङ्गहो॒माञ्जु॑होति ।
अङ्गे॑अङ्गे॒ वै पुरु॑षस्य पा॒प्मोप॑श्लिष्टः ।
अङ्गा॑दङ्गादे॒वैन॑म्पा॒प्मन॒स्तेन॑ मुञ्चति ।
अ॒ञ्ज्ये॒ताय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा॑ श्वे॒ताय॒ स्वाहेत्य॑श्वरू॒पाणि॑ जुहोति ।
रू॒पैरे॒वैनँ॒ सम॑र्धयति ।
ओष॑धीभ्य॒स्स्वाहा॒ मूले॑भ्य॒स्स्वाहेत्यो॑षधिहो॒माञ्जु॑होति ।
द्व॒य्यो वा ओष॑धयः ।
पुष्पे॑भ्यो॒ऽन्याᳶ फल॑ङ्गृ॒ह्णन्ति॑ ।
मूले॑भ्यो॒ऽन्याः ।
ता ए॒वोभयी॒रव॑रुन्धे ॥66॥
वन॒स्पति॑भ्य॒स्स्वाहेति॑ वनस्पतिहो॒माञ्जु॑होति ।
आ॒र॒ण्यस्या॒न्नाद्य॒स्याव॑रुध्यै ।
मे॒षस्त्वा॑ पच॒तैर॑व॒त्वित्यपा॑व्यानि जुहोति ।
प्रा॒णा वै दे॒वा अपा॑व्याः ।
प्रा॒णाने॒वाव॑रुन्धे ।
कूप्या॑भ्य॒स्स्वाहा॒द्भ्यस्स्वाहेत्य॒पाँ होमा॑ञ्जुहोति ।
अ॒प्सु वा आपः॑ ।
अन्नव्ँ॒वा आपः॑ ।
अ॒द्भ्यो वा अन्न॑ञ्जायते ।
यदे॒वाद्भ्योऽन्न॒ञ्जाय॑ते ।
तदव॑रुन्धे ॥67॥
अम्भाँ॑सि जुहोति ।
अ॒यव्ँ वै लो॒कोऽम्भाँ॑सि ।
तस्य॒ वस॒वोऽधि॑पतयः ।
अ॒ग्निर्ज्योतिः॑ ।
यदम्भाँ॑सि जु॒होति॑ ।
इ॒ममे॒व लो॒कमव॑रुन्धे ।
वसू॑नाँ॒ सायु॑ज्यङ्गच्छति ।
अ॒ग्निञ्ज्योति॒रव॑रुन्धे ।
नभाँ॑सि जुहोति ।
अ॒न्तरि॑क्षव्ँ॒ वै नभाँ॑सि ॥68॥
तस्य॑ रु॒द्रा अधि॑पतयः ।
वा॒युर्ज्योतिः॑ ।
यन्नभाँ॑सि जु॒होति॑ ।
अ॒न्तरि॑क्षमे॒वाव॑रुन्धे ।
रु॒द्राणाँ॒ सायु॑ज्यङ्गच्छति ।
वा॒युञ्ज्योति॒रव॑रुन्धे ।
महाँ॑सि जुहोति ।
अ॒सौ वै लो॒को महाँ॑सि ।
तस्या॑दि॒त्या अधि॑पतयः ।
सूर्यो॒ ज्योतिः॑ ॥69॥
यन्महाँ॑सि जु॒होति॑ ।
अ॒मुमे॒व लो॒कमव॑रुन्धे ।
आ॒दि॒त्यानाँ॒ सायु॑ज्यङ्गच्छति ।
सूर्य॒ञ्ज्योति॒रव॑रुन्धे ।
नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒येति॑ य॒व्यानि॑ जुहोति ।
अ॒न्नाद्य॒स्याव॑रुध्यै ।
म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा इति॑ ग॒व्यानि॑ जुहोति ।
प॒शू॒नामव॑रुध्यै ।
प्रा॒णाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहेति॑ सन्ततिहो॒माञ्जु॑होति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ॥70॥
सि॒ताय॒ स्वाहाऽसि॑ताय॒ स्वाहेति॒ प्रमु॑क्तीर्जुहोति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रमु॑क्त्यै ।
पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
द॒त्वते॒ स्वाहा॑ऽद॒न्तका॑य॒ स्वाहेति॑ शरीरहो॒माञ्जु॑होति ।
पि॒तृ॒लो॒कमे॒व तैर्यज॑मानो॒ऽव॑रुन्धे ।
कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्विति॑ परि॒धीन् यु॑नक्ति ।
इ॒मे वै लो॒काᳶ प॑रि॒धयः॑ ।
इ॒माने॒वास्मै॑ लो॒कान् यु॑नक्ति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥71॥
यᳶ प्रा॑ण॒तो य आ॑त्म॒दा इति॑ महि॒मानौ॑ जुहोति ।
सु॒व॒र्गो वै लो॒को महः॑ ।
सु॒व॒र्गमे॒व ताभ्याल्ँ॑ लो॒कय्ँयज॑मा॒नोऽव॑रुन्धे ।
आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मिति॒ सम॑स्तानि ब्रह्मवर्च॒सानि॑ जुहोति ।
ब्र॒ह्म॒व॒र्चसमे॒व तैर्यज॑मा॒नोऽव॑रुन्धे ।
जज्ञि॒ बीज॒मिति॑ जुहो॒त्यन॑न्तरित्यै ।
अ॒ग्नये॒ सम॑नमत्पृथि॒व्यै सम॑नम॒दिति॑ सन्नतिहो॒माञ्जु॑होति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्न॑त्यै ।
भू॒ताय॒ स्वाहा॑ भविष्य॒ते स्वाहेति॑ भूताभ॒व्यौ होमौ॑ जुहोति ।
अ॒यव्ँ वै लो॒को भू॒तम् ॥72॥
अ॒सौ भ॑वि॒ष्यत् ।
अ॒नयो॑रे॒व लो॒कयो॒ᳶ प्रति॑तिष्ठति ।
सर्व॒स्याप्त्यै॑ ।
सर्व॒स्याव॑रुध्यै ।
यदक्र॑न्दᳶ प्रथ॒मञ्जाय॑मान॒ इत्य॑श्वस्तो॒मीय॑ञ्जुहोति ।
सर्व॒स्याप्त्यै॑ ।
सर्व॑स्य॒ जित्यै॑ ।
सर्व॑मे॒व तेना॑प्नोति ।
सर्व॑ञ्जयति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ॥73॥
य उ॑ चैनमे॒वव्ँवेद॑ ।
य॒ज्ञँ रक्षाँ॑स्यजिघाँसन् ।
स ए॒तान्प्र॒जाप॑तिर्नक्तँहो॒मान॑पश्यत् ।
तान॑जुहोत् ।
तैर्वै स य॒ज्ञाद्रक्षाँ॒स्यपा॑हन् ।
यन्न॑क्तँहो॒माञ्जु॒होति॑ ।
य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षाँ॒स्यप॑हन्ति ।
उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्य॑न्त॒तो जु॑होति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥74॥
ए॒क॒यू॒पो वै॑काद॒शिनी॑ वा ।
अ॒न्येषाय्ँ॑ य॒ज्ञानाय्ँ॒यूपा॑ भवन्ति ।
ए॒क॒विँ॒शिन्य॑श्वमे॒धस्य॑ ।
सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
बै॒ल्वो वा॑ खादि॒रो वा॑ पाला॒शो वा॑ ।
अ॒न्येषाय्ँ॑ यज्ञक्रतू॒नाय्ँयूपा॑ भवन्ति ।
राज्जु॑दाल॒ एक॑विँशत्यरत्निरश्वमे॒धस्य॑ ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
नान्येषा॑म्पशू॒नान्ते॑ज॒न्या अ॑व॒द्यन्ति॑ ।
अव॑द्य॒न्त्यश्व॑स्य ॥75॥
पा॒प्मा वै ते॑ज॒नी ।
पा॒प्मनोऽप॑हत्यै ।
प्ल॒क्ष॒शा॒खाया॑म॒न्येषा॑म्पशू॒नाम॑व॒द्यन्ति॑ ।
वे॒त॒स॒शा॒खाया॒मश्व॑स्य ।
अ॒प्सुयो॑नि॒र्वा अश्वः॑ ।
अ॒प्सु॒जो वे॑त॒सः ।
स्व ए॒वास्य॒ योना॒वव॑द्यति ।
यूपे॑षु ग्रा॒म्यान्प॒शून्नि॑यु॒ञ्जन्ति॑ ।
आ॒रो॒केष्वा॑र॒ण्यान्धा॑रयन्ति ।
प॒शू॒नाव्व्ँयावृ॑त्त्यै ।
आ ग्रा॒म्यान्प॒शूल्लँभ॑न्ते ।
प्रार॒ण्यान्त्सृ॑जन्ति ।
पा॒प्मनोऽप॑हत्यै ॥76॥
राज्जु॑दालमग्नि॒ष्ठम्मि॑नोति ।
भ्रू॒ण॒ह॒त्याया॒ अप॑हत्यै ।
पौतु॑द्रवाव॒भितो॑ भवतः ।
पुण्य॑स्य ग॒न्धस्याव॑रुध्यै ।
भ्रू॒ण॒ह॒त्यामे॒वास्मा॑दप॒हत्य॑ ।
पुण्ये॑न ग॒न्धेनो॑भ॒यत॒ᳶ परि॑गृह्णाति ।
षड्बै॒ल्वा भ॑वन्ति ।
ब्र॒ह्म॒व॒र्च॒सस्याव॑रुध्यै ।
षट्खा॑दि॒राः ।
तेज॒सोऽव॑रुध्यै ॥77॥
षट्पा॑ला॒शाः ।
सो॒म॒पी॒थस्याव॑रुध्यै ।
एक॑विँशति॒स्सम्प॑द्यन्ते ।
एक॑विँशति॒र्वै दे॑वलो॒काः ।
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ ।
त्रय॑ इ॒मे लो॒काः ।
अ॒सावा॑दि॒त्य एक॑विँ॒शः ।
ए॒ष सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
श॒तम्प॒शवो॑ भवन्ति ॥78॥
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
सर्वव्ँ॒ वा अ॑श्वमे॒ध्याप्नो॑ति ।
अप॑रिमिता भवन्ति ।
अप॑रिमित॒स्याव॑रुध्यै ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
कस्मा॑त्स॒त्यात् ।
द॒क्षि॒ण॒तो॑ऽन्येषा॑म्पशू॒नाम॑व॒द्यन्ति॑ ।
उ॒त्त॒र॒तोऽश्व॒स्येति॑ ।
वा॒रुणो॒ वा अश्वः॑ ॥79॥
ए॒षा वै वरु॑णस्य॒ दिक् ।
स्वाया॑मे॒वास्य॑ दि॒श्यव॑द्यति ।
यदित॑रेषाम्पशू॒नाम॑व॒द्यति॑ ।
श॒त॒दे॒व॒त्य॑न्तेनाव॑रुन्धे ।
चि॒ते॑ऽग्नावधि॑ वैत॒से कटेऽश्व॑ञ्चिनोति ।
अ॒प्सुयो॑नि॒र्वा अश्वः॑ ।
अ॒प्सु॒जो वे॑त॒सः ।
स्व ए॒वैनय्ँ॒योनौ॒ प्रति॑ष्ठापयति ।
पु॒रस्ता॑त्प्र॒त्यञ्च॑न्तूप॒रञ्चि॑नोति ।
प॒श्चात्प्रा॒चीन॑ङ्गोमृ॒गम् ॥80॥
प्रा॒णा॒पा॒नावे॒वास्मि॑न्त्स॒म्यञ्चौ॑ दधाति ।
अश्व॑न्तूप॒रङ्गो॑मृ॒गमिति॑ सर्व॒हुत॑ ए॒ताञ्जु॑होति ।
ए॒षाल्ँ लो॒काना॑म॒भिजि॑त्यै ।
आ॒त्मना॒ऽभिजु॑होति ।
सात्मा॑नमे॒वैनँ॒ सत॑नुङ्करोति ।
सात्मा॒ऽमुष्मिल्ँ॑ लो॒के भ॑वति ।
य ए॒वव्ँ वेद॑ ।
अथो॒ वसो॑रे॒व धारा॒न्तेनाव॑रुन्धे ।
इ॒लु॒वर्दा॑य॒ स्वाहा॑ बलि॒वर्दा॑य॒ स्वाहेत्या॑ह ।
सव्ँ॒व॒त्स॒रो वा इ॑लु॒वर्दः॑ ।
प॒रि॒व॒त्स॒रो ब॑लि॒वर्दः॑ ।
सव्ँ॒व॒त्स॒रादे॒व प॑रिवत्स॒रादायु॒रव॑रुन्धे ।
आयु॑रे॒वास्मि॑न्दधाति ।
तस्मा॑दश्वमेधया॒जी ज॒रसा॑ वि॒स्रसा॒मुल्ँ लो॒कमे॑ति ॥81॥
ए॒क॒विँ॒शो॑ऽग्निर्भ॑वति ।
ए॒क॒विँ॒शस्स्तोमः॑ ।
एक॑विँशति॒र्यूपाः॑ ।
यथा॒ वा अश्वा॑ वर्ष॒भा वा॒ वृषा॑णस्सँस्फु॒रेर॑न् ।
ए॒वमे॒व तत्स्तोमा॒स्सँस्फु॑रन्ते ।
यदे॑कविँ॒शाः ।
ते यत्स॑मृ॒च्छेर॑न् ।
ह॒न्येता॑स्य य॒ज्ञः ।
द्वा॒द॒श ए॒वाग्निस्स्या॒दित्या॑हुः ।
द्वा॒द॒शस्स्तोमः॑ ॥82॥
एका॑दश॒ यूपाः॑ ।
यद्द्वा॑द॒शो॑ऽग्निर्भव॑ति ।
द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे ।
यद्दश॒ यूपा॒ भव॑न्ति ।
दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ।
य ए॑काद॒शः ।
स्तन॑ ए॒वास्यै॒ सः ॥83॥
दु॒ह ए॒वैना॒न्तेन॑ ।
तदा॑हुः ।
यद्द्वा॑द॒शो॑ऽग्निस्स्या॑द्द्वाद॒शस्स्तोम॒ एका॑दश॒ यूपाः॑ ।
यथा॒ स्थूरि॑णा या॒यात् ।
ता॒दृक्तत् ।
ए॒क॒विँ॒श ए॒वाग्निस्स्या॒दित्या॑हुः ।
ए॒क॒विँ॒शस्स्तोमः॑ ।
एक॑विँशति॒र्यूपाः॑ ।
यथा॒ प्रष्टि॑भि॒र्याति॑ ।
ता॒दृगे॒व तत् ॥84॥
यो वा अ॑श्वमे॒धे ति॒स्रᳵ क॒कुभो॒ वेद॑ ।
क॒कुद्ध॒ राज्ञा॑म्भवति ।
ए॒क॒विँ॒शो॑ऽग्निर्भ॑वति ।
ए॒क॒विँ॒शस्स्तोमः॑ ।
एक॑विँशति॒र्यूपाः॑ ।
ए॒ता वा अ॑श्वमे॒धे ति॒स्रᳵ क॒कुभः॑ ।
य ए॒वव्ँ वेद॑ ।
क॒कुद्ध॒ राज्ञा॑म्भवति ।
यो वा अश्व॑मे॒धे त्रीणि॑ शी॒र्षाणि॒ वेद॑ ।
शिरो॑ ह॒ राज्ञा॑म्भवति ।
ए॒क॒विँ॒शो॑ऽग्निर्भ॑वति ।
ए॒क॒विँ॒शस्स्तोमः॑ ।
एक॑विँशति॒र्यूपाः॑ ।
ए॒तानि॒ वा अ॑श्वमे॒धे त्रीणि॑ शी॒र्षाणि॑ ।
य ए॒वव्ँ वेद॑ ।
शिरो॑ ह॒ राज्ञा॑म्भवति ॥85॥
दे॒वा वा अ॑श्वमे॒धे पव॑माने ।
सु॒व॒र्गल्ँ लो॒कन्न प्राजा॑नन् ।
तमश्व॒ᳶ प्राजा॑नात् ।
यद॑श्वमे॒धेऽश्वे॑न॒ मेध्ये॒नोद॑ञ्चो बहिष्पवमा॒नँ सर्प॑न्ति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै ।
न वै म॑नु॒ष्य॑स्सुव॒र्गल्ँ लो॒कमञ्ज॑सा वेद ।
अश्वो॒ वै सु॑व॒र्गल्ँ लो॒कमञ्ज॑सा वेद ।
यदु॑द्गा॒तोद्गाये॑त् ।
यथा क्षे॑त्रज्ञो॒ऽन्येन॑ प॒था प्र॑तिपा॒दये॑त् ।
ता॒दृक्तत् ॥86॥
उ॒द्गा॒तार॑मप॒रुध्य॑ ।
अश्व॑मुद्गी॒थाय॑ वृणीते ।
यथा॑ क्षेत्र॒ज्ञोऽञ्ज॑सा॒ नय॑ति ।
ए॒वमे॒वैन॒मश्व॑स्सुव॒र्गल्ँ लो॒कमञ्ज॑सा नयति ।
पुच्छ॑म॒न्वार॑भन्ते ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
हिङ्क॑रोति ।
सामै॒वाकः॑ ।
हिङ्क॑रोति ।
उ॒द्गी॒थ ए॒वास्य॒ सः ॥87॥
वड॑बा॒ उप॑रुन्धन्ति ।
मि॒थु॒न॒त्वाय॒ प्रजा॑त्यै ।
अथो॒ यथो॑पगा॒तार॑ उप॒गाय॑न्ति ।
ता॒दृगे॒व तत् ।
उद॑गासी॒दश्वो॒ मेध्य॒ इत्या॑ह ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
प्र॒जाप॑तिरुद्गी॒थः ।
उ॒द्गी॒थमे॒वाव॑रुन्धे ।
अथो॑ ऋक्सा॒मयो॑रे॒व प्रति॑तिष्ठति ।
हिर॑ण्येनो॒पाक॑रोति ।
ज्योति॒र्वै हिर॑ण्यम् ।
ज्योति॑रे॒व मु॑ख॒तो द॑धाति ।
यज॑माने च प्र॒जासु॑ च ।
अथो॒ हिर॑ण्यज्योतिरे॒व यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति ॥88॥
पुरु॑षो॒ वै य॒ज्ञः ।
य॒ज्ञᳶ प्र॒जाप॑तिः ।
यदश्वे॑ प॒शून्नि॑यु॒ञ्जन्ति॑ ।
य॒ज्ञादे॒व तद्य॒ज्ञम्प्रयु॑ङ्क्ते ।
अश्व॑न्तूप॒रङ्गो॑मृ॒गम् ।
तान॑ग्नि॒ष्ठ आल॑भते ।
से॒ना॒मु॒खमे॒व तत्सँश्य॑ति ।
तस्मा॑द्राजमु॒खम्भी॒ष्मम्भावु॑कम् ।
आ॒ग्ने॒यङ्कृ॒ष्णग्री॑वम्पु॒रस्ता॑ल्ल॒लाटे॑ ।
पू॒र्वा॒ग्निमे॒व तङ्कु॑रुते ॥89॥
तस्मा॑त्पूर्वा॒ग्निम्पु॒रस्ता॑त्स्थापयन्ति ।
पौ॒ष्णम॒न्वञ्च॑म् ।
अन्नव्ँ॒ वै पू॒षा ।
तस्मा॑त्पूर्वा॒ग्नावा॑हा॒र्य॑माह॑रन्ति ।
ऐ॒न्द्रा॒पौ॒ष्णमु॒परि॑ष्टात् ।
ऐ॒न्द्रो वै रा॑ज॒न्योऽन्न॑म्पू॒षा ।
अ॒न्नाद्ये॑नै॒वैन॑मुभ॒यत॒ᳶ परि॑गृह्णाति ।
तस्मा॑द्राज॒न्यो॑ऽन्ना॒दोभावु॑कः ।
आ॒ग्ने॒यौ कृ॒ष्णग्री॑वौ बाहु॒वोः ।
बा॒हु॒वोरे॒व वी॒र्यन्धत्ते ॥90॥
तस्मा॑द्राज॒न्यो॑ बाहुब॒लीभावु॑कः ।
त्वा॒ष्ट्रौ लो॑मशस॒क्थौ स॒क्थ्योः ।
स॒क्थ्योरे॒व वी॒र्य॑न्धत्ते ।
तस्मा॑द्राज॒न्य॑ ऊरुब॒लीभावु॑कः ।
शि॒ति॒पृ॒ष्ठौ बा॑र्हस्प॒त्यौ पृ॒ष्ठे ।
ब्र॒ह्म॒व॒र्च॒समे॒वोपरि॑ष्टाद्धत्ते ।
अथो॑ क॒वचे॑ ए॒वैते अ॒भित॒ᳶ पर्यू॑हते ।
तस्मा॑द्राज॒न्य॑स्सन्न॑द्धो वी॒र्य॑ङ्करोति ।
धा॒त्रे पृ॑षोद॒रम॒धस्ता॑त् ।
प्र॒ति॒ष्ठामे॒वैताङ्कु॑रुते ।
अथो॑ इ॒यव्ँ वै धा॒ता ।
अ॒स्यामे॒व प्रति॑तिष्ठति ।
सौ॒र्यम्ब॒लक्ष॒म्पुच्छे॑ ।
उ॒त्से॒धमे॒व तङ्कु॑रुते ।
तम्मा॑दुत्से॒धम्भ॒ये प्र॒जा अ॒भिसँश्र॑यन्ति ॥91॥
प्र॒जाप॑तिरश्वमे॒धम॑सृजत ।
सो॑ऽस्मात्सृ॒ष्टोऽपा॑क्रामत् ।
तम॑ष्टाद॒शिभि॒रनु॒ प्रायु॑ङ्क्त ।
तमा॑प्नोत् ।
तमा॒प्त्वाऽष्टा॑द॒शिभि॒रवा॑रुन्ध ।
यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते॑ ।
य॒ज्ञमे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे ।
सव्ँ॒व॒त्स॒रस्य॒ वा ए॒षा प्र॑ति॒मा ।
यद॑ष्टाद॒शिनः॑ ।
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ ॥1॥
सव्ँ॒व॒त्स॒रो॑ऽष्टाद॒शः ।
यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते॑ ।
सव्ँ॒व॒त्स॒रमे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे ।
अ॒ग्नि॒ष्ठे॑ऽन्यान्प॒शूनु॑पाक॒रोति॑ ।
इत॑रेषु॒ यूपे॑ष्वष्टाद॒शिनोऽजा॑मित्वाय ।
नव॑न॒वाल॑भ्यन्ते सवीर्य॒त्वाय॑ ।
यदा॑र॒ण्यैस्सँ॑स्था॒पये॑त् ।
व्यव॑स्येताम्पितापु॒त्रौ ।
व्यध्वा॑नᳵ क्रामेयुः ।
विदू॑र॒ङ्ग्राम॑योर्ग्रामा॒न्तौ स्या॑ताम् ॥2॥
ऋ॒क्षीका॑ᳶ पुरुषव्या॒घ्राᳶ प॑रिमो॒षिण॑ आव्या॒धिनी॒स्तस्क॑रा॒ अर॑ण्ये॒ष्वाजा॑येरन् ।
तदा॑हुः ।
अप॑शवो॒ वा ए॒ते ।
यदा॑र॒ण्याः ।
यदा॑र॒ण्यैस्सँ॑स्था॒पये॑त् ।
क्षि॒प्रे यज॑मान॒मर॑ण्यम्मृ॒तँ ह॑रेयुः ।
अर॑ण्यायतना॒ ह्या॑र॒ण्याᳶ प॒शव॒ इति॑ ।
यत्प॒शून्नालभे॑त ।
अन॑वरुद्धा अस्य प॒शव॑स्स्युः ।
यत्पर्य॑ग्निकृतानुत्सृ॒जेत् ॥3॥
य॒ज्ञ॒वे॒श॒सङ्कु॑र्यात् ।
यत्प॒शूना॒लभ॑ते ।
तेनै॒व प॒शूनव॑रुन्धे ।
यत्पर्य॑ग्निकृतानुत्सृ॒जत्यय॑ज्ञवेशसाय ।
अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति ।
न य॑ज्ञवेश॒सम्भ॑वति ।
न यज॑मान॒मर॑ण्यम्मृ॒तँ ह॑रन्ति ।
ग्रा॒म्यैस्सँ स्था॑पयति ।
ए॒ते वै प॒शवः॒ क्षेमो॒ नाम॑ ।
सम्पि॑तापु॒त्रावव॑स्यतः ।
समध्वा॑नᳵ क्रामन्ति ।
स॒म॒न्ति॒कङ्ग्राम॑योर्ग्रामा॒न्तौ भ॑वतः ।
नर्क्षीका॑ᳶ पुरुषव्या॒घ्राᳶ प॑रिमो॒षिण॑ आव्या॒धिनी॒स्तस्क॑रा॒ अर॑ण्ये॒ष्वाजा॑यन्ते ॥4॥
प्र॒जाप॑तिरकामयतो॒भौ लो॒कावव॑ रुन्धी॒येति॑ ।
स ए॒तानु॒भया॑न्प॒शून॑पश्यत् ।
ग्रा॒म्याँश्चा॑र॒ण्याँश्च॑ ।
तानाल॑भत ।
तैर्वै स उ॒भौ लो॒काववा॑रुन्ध ।
ग्रा॒म्यैरे॒व प॒शुभि॑रि॒मल्ँ लो॒कमवा॑रुन्ध ।
आ॒र॒ण्यैर॒मुम् ।
यद्ग्रा॒म्यान्प॒शूना॒लभ॑ते ।
इ॒ममे॒व तैर्लो॒कमव॑ रुन्धे ।
यदा॑र॒ण्यान् ॥5॥
अ॒मुन्तैः ।
अन॑वरुद्धो॒ वा ए॒तस्य॑ सव्ँवत्स॒र इत्या॑हुः ।
य इ॒तइ॑तश्चातुर्मा॒स्यानि॑ सव्ँवत्स॒रम्प्र॑यु॒ङ्क्त इति॑ ।
ए॒तावा॒न्वै सव्ँ॑वत्स॒रः ।
यच्चा॑तुर्मा॒स्यानि॑ ।
यदे॒ते चा॑तुर्मा॒स्याᳶ प॒शव॑ आल॒भ्यन्ते॑ ।
प्र॒त्यक्ष॑मे॒व तैस्सव्ँ॑वत्स॒रय्ँयज॑मा॒नोऽव॑रुन्धे ।
वि वा ए॒ष प्र॒जया॑ प॒शुभि॑र्ऋध्यते ।
यस्सव्ँ॑वत्स॒रम्प्र॑यु॒ङ्क्ते ।
सव्ँ॒व॒त्स॒रस्सु॑व॒र्गो लो॒कः ॥6॥
सु॒व॒र्गन्तु लो॒कन्नाप॑राध्नोति ।
प्र॒जा वै प॒शव॑ एकाद॒शिनी॑ ।
यदे॒त ऐ॑कादशि॒नाᳶ प॒शव॑ आल॒भ्यन्ते॑ ।
सा॒क्षादे॒व प्र॒जाम्प॒शून् यज॑मा॒नोऽव॑रुन्धे ।
प्र॒जाप॑तिर्वि॒राज॑मसृजत ।
सा सृ॒ष्टाऽश्व॑मे॒धम्प्रावि॑शत् ।
तान्द॒शिभि॒रनु॒ प्रायु॑ङ्क्त ।
तामा॑प्नोत् ।
तामा॒प्त्वा द॒शिभि॒रवा॑रुन्ध ।
यद्द॒शिन॑ आल॒भ्यन्ते॑ ॥7॥
वि॒राज॑मे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे ।
एका॑दश द॒शत॒ आल॑भ्यन्ते ।
एका॑दशाक्षरा त्रि॒ष्टुप् ।
त्रैष्टु॑भाᳶ प॒शवः॑ ।
प॒शूने॒वाव॑रुन्धे ।
वै॒श्व॒दे॒वो वा अश्वः॑ ।
ना॒ना॒दे॒व॒त्याः॑ प॒शवो॑ भवन्ति ।
अश्व॑स्य सर्व॒त्वाय॑ ।
नाना॑रूपा भवन्ति ।
तस्मा॒न्नाना॑रूपाᳶ प॒शवः॑ ।
ब॒हु॒रू॒पा भ॑वन्ति ।
तस्मा॑द्बहुरू॒पाᳶ प॒शव॒स्समृ॑द्ध्यै ॥8॥
अ॒स्मै वै लो॒काय॑ ग्रा॒म्याᳶ प॒शव॒ आल॑भ्यन्ते ।
अ॒मुष्मा॑ आर॒ण्याः ।
यद्ग्रा॒म्यान्प॒शूना॒लभ॑ते ।
इ॒ममे॒व तैर्लो॒कमव॑रुन्धे ।
यदा॑र॒ण्यान् ।
अ॒मुन्तैः ।
उ॒भया॑न्प॒शूनाल॑भते ।
गा॒म्याँश्चा॑र॒ण्याँश्च॑ ।
उ॒भयो॑र्लो॒कयो॒रव॑रुद्ध्यै ।
उ॒भया॑न्प॒शूनाल॑भते ॥9॥
ग्रा॒म्याँश्चा॑र॒ण्याँश्च॑ ।
उ॒भय॑स्या॒न्नाद्य॒स्याव॑रुद्ध्यै ।
उ॒भया॑न्प॒शूनाल॑भते ।
ग्रा॒म्याँश्चा॑र॒ण्याँश्च॑ ।
उ॒भये॑षाम्पशू॒नामव॑रुद्ध्यै ।
त्रय॑स्त्रयो भवन्ति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
कस्मा॑त्स॒त्यात् ॥10॥
अ॒स्मिल्ँ लो॒के ब॒हव॒ᳵ कामा॒ इति॑ ।
यत्स॑मा॒नीभ्यो॑ दे॒वता॑भ्यो॒ऽन्ये॑ऽन्ये प॒शव॑ आल॒भ्यन्ते॑ ।
अ॒स्मिन्ने॒व तल्लो॒के कामा॑न्दधाति ।
तस्मा॑द॒स्मिल्ँ लो॒के ब॒हव॒ᳵ कामाः॑ ।
त्र॒या॒णान्त्र॑याणाँ स॒ह व॒पा जु॑होति ।
त्र्या॑वृतो॒ वै दे॒वाः ।
त्र्या॑वृत इ॒मे लो॒काः ।
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।
ए॒षाल्ँ लो॒काना॒ङ्कॢप्त्यै॑ ।
पर्य॑ग्निकृतानार॒ण्यानुत्सृ॑ज॒न्त्यहिँ॑सायै ॥11॥
यु॒ञ्जन्ति॑ ब्र॒ध्नमित्या॑ह ।
अ॒सौ वा आ॑दि॒त्यो ब्र॒ध्नः ।
आ॒दि॒त्यमे॒वास्मै॑ युनक्ति ।
अ॒रु॒षमित्या॑ह ।
अ॒ग्निर्वा अ॑रु॒षः ।
अ॒ग्निमे॒वास्मै॑ युनक्ति ।
चर॑न्त॒मित्या॑ह ।
वा॒युर्वै चर॑न् ।
वा॒युमे॒वास्मै॑ युनक्ति ।
परि॑त॒स्थुष॒ इत्या॑ह ॥12॥
इ॒मे वै लो॒काᳶ परि॑त॒स्थुषः॑ ।
इ॒माने॒वास्मै॑ लो॒कान् यु॑नक्ति ।
रोच॑न्ते रोच॒ना दि॒वीत्या॑ह ।
नक्ष॑त्राणि॒ वै रो॑च॒ना दि॒वि ।
नक्ष॑त्राण्ये॒वास्मै॑ रोचयति ।
यु॒ञ्जन्त्य॑स्य॒ काम्येत्या॑ह ।
कामा॑ने॒वास्मै॑ युनक्ति ।
हरी॒ विप॑क्ष॒सेत्या॑ह ।
इ॒मे वै हरी॒ विप॑क्षसा ।
इ॒मे ए॒वास्मै॑ युनक्ति ॥ 13॥
शोणा॑ धृ॒ष्णू नृ॒वाह॒सेत्या॑ह ।
अ॒हो॒रा॒त्रे वै नृ॒वाह॑सा ।
अ॒हो॒रा॒त्रे ए॒वास्मै॑ युनक्ति ।
ए॒ता ए॒वास्मै॑ दे॒वता॑ युनक्ति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
के॒तुङ्कृ॒ण्वन्न॑के॒तव॒ इति॑ ध्व॒जम्प्रति॑मुञ्चति ।
यश॑ ए॒वैनँ॒ राज्ञा॑ङ्गमयति ।
जी॒मूत॑स्येव भवति॒ प्रती॑क॒मित्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
ये ते॒ पन्था॑नस्सवितᳶ पू॒र्व्यास॒ इत्य॑ध्व॒र्युर्यज॑मानव्ँ वाचयत्य॒भिजि॑त्यै ॥ 14॥
परा॒ वा ए॒तस्य॑ य॒ज्ञ ए॑ति ।
यस्य॑ प॒शुरु॒पाकृ॑तो॒ऽन्यत्र॒ वेद्या॒ एति॑ ।
ए॒तँ स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒माव॑र्तयासि न॒ इत्या॑ह ।
वा॒युर्वै स्तोता॑ ।
वा॒युमे॒वास्य॑ प॒रस्ता॑द्दधा॒त्यावृ॑त्त्यै ।
यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति ।
ए॒वव्ँ वा ए॒तदश्व॑स्य स्कन्दति ।
यद॑स्यो॒पाकृ॑तस्य॒ लोमा॑नि॒ शीय॑न्ते ।
यद्वाले॑षु का॒चाना॒वय॑न्ति ।
लोमा॑न्ये॒वास्य॒ तत्सम्भ॑रन्ति ॥15॥
भूर्भुव॒स्सुव॒रिति॑ प्राजाप॒त्याभि॒राव॑यन्ति ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयन्ति ।
भूरिति॒ महि॑षी ।
भुव॒ इति॑ वा॒वाता॑ ।
सुव॒रिति॑ परिवृ॒क्ती ।
ए॒षाल्ँ लो॒काना॑म॒भिजि॑त्यै ।
हि॒र॒ण्यया॑ᳵ का॒चा भ॑वन्ति ।
ज्योति॒र्वै हिर॑ण्यम् ।
रा॒ष्ट्रम॑श्वमे॒धः ॥16॥
ज्योति॑श्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति ।
स॒हस्र॑म्भवन्ति ।
स॒हस्र॑सम्मितस्सुव॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
अप॒ वा ए॒तस्मा॒त्तेज॑ इन्द्रि॒यम्प॒शव॒श्श्रीᳵ क्रा॑मन्ति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
वस॑वस्त्वाऽञ्जन्तु गाय॒त्रेण॒ छन्द॒सेति॒ महि॑ष्य॒भ्य॑नक्ति ।
तेजो॒ वा आज्य॑म् ।
तेजो॑ गाय॒त्री ।
तेज॑सै॒वास्मै॒ तेजोऽव॑रुन्धे ॥17॥
रु॒द्रास्त्वा॑ऽञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॒सेति॑ वा॒वाता॑ ।
तेजो॒ वा आज्य॑म् ।
इ॒न्द्रि॒यन्त्रि॒ष्टुप् ।
तेज॑सै॒वास्मा॑ इन्द्रि॒यमव॑रुन्धे ।
आ॒दि॒त्यास्त्वा॑ऽञ्जन्तु॒ जाग॑तेन॒ छन्द॒सेति॑ परिवृ॒क्ती ।
तेजो॒ वा आज्य॑म् ।
प॒शवो॒ जग॑ती ।
तेज॑सै॒वास्मे॑ प॒शूनव॑रुन्धे ।
पत्न॑यो॒ऽभ्य॑ञ्जन्ति ।
श्रि॒या वा ए॒तद्रू॒पम् ॥ 18॥
यत्पत्न॑यः ।
श्रिय॑मे॒वास्मि॒न्तद्द॑धति ।
नास्मा॒त्तेज॑ इन्द्रि॒यम्प॒शव॒श्श्रीरप॑ क्रामन्ति ।
लाजी ३ ञ्छाची ३ न् यशो॑म॒माँ (4) इत्यति॑रिक्त॒मन्न॒मश्वा॑यो॒पाह॑रन्ति ।
प्र॒जामे॒वान्ना॒दीङ्कु॑र्वते ।
ए॒तद्दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापत॒ इत्या॑ह ।
प्र॒जाया॑मे॒वान्नाद्य॑न्दधते ।
यदि॒ नाव॒जिघ्रे॑त् ।
अ॒ग्निᳶ प॒शुरा॑सी॒दित्यव॑घ्रापयेत् ।
अव॑ है॒व जि॑घ्रति ।
आक्रा॑न्वा॒जी क्रमै॒रत्य॑क्रमीद्वा॒जी द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॒मित्यश्व॒मनु॑मन्त्रयते ।
ए॒षाल्ँ लो॒काना॑म॒भिजि॑त्यै ।
समि॑द्धो अ॒ञ्जन्कृद॑रम्मती॒नामित्यश्व॑स्या॒प्रियो॑ भवन्ति सरूप॒त्वाय॑ ॥19॥
तेज॑सा॒ वा ए॒ष ब्र॑ह्मवर्च॒सेन॒ व्यृ॑द्ध्यते ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
होता॑ च ब्र॒ह्मा च॑ ब्र॒ह्मोद्यव्ँ॑वदतः ।
तेज॑सा चै॒वैन॑म्ब्रह्मवर्च॒सेन॑ च॒ सम॑र्धयतः ।
द॒क्षि॒ण॒तो ब्र॒ह्मा भ॑वति ।
द॒क्षि॒ण॒तआ॑यतनो॒ वै ब्र॒ह्मा ।
बा॒र्ह॒स्प॒त्यो वै ब्र॒ह्मा ।
ब्र॒ह्म॒व॒र्च॒समे॒वास्य॑ दक्षिण॒तो द॑धाति ।
तस्मा॒द्दक्षि॒णोऽर्धो॑ ब्रह्मवर्च॒सित॑रः ।
उ॒त्त॒र॒तो होता॑ भवति ॥20॥
उ॒त्त॒र॒तआ॑यतनो॒ वै होता॑ ।
आ॒ग्ने॒यो वै होता॑ ।
तेजो॒ वा अ॒ग्निः ।
तेज॑ ए॒वास्यो॑त्तर॒तो द॑धाति ।
तस्मा॒दुत्त॒रोऽर्ध॑स्तेज॒स्वित॑रः ।
यूप॑म॒भितो॑ वदतः ।
य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै यूपः॑ ।
यज॑मानमे॒व तेज॑सा च ब्रह्मवर्च॒सेन॑ च॒ सम॑र्धयतः ।
किँ स्वि॑दासीत्पू॒र्वचि॑त्ति॒रित्या॑ह ।
द्यौर्वै वृष्टि॑ᳶ पू॒र्वचि॑त्तिः ॥21॥
दिव॑मे॒व वृष्टि॒मव॑रुन्धे ।
किँ स्वि॑दासीद्बृ॒हद्वय॒ इत्या॑ह ।
अश्वो॒ वै बृ॒हद्वयः॑ ।
अश्व॑मे॒वाव॑रुन्धे ।
किँ स्वि॑दासीत्पिशङ्गि॒लेत्या॑ह ।
रात्रि॒र्वै पि॑शङ्गि॒ला ।
रात्रि॑मे॒वाव॑रुन्धे ।
किँ स्वि॑दासीत्पिलिप्पि॒लेत्या॑ह ।
श्रीर्वै पि॑लिप्पि॒ला ।
अ॒न्नाद्य॑मे॒वाव॑रुन्धे ॥22॥
कस्स्वि॑देका॒की च॑र॒तीत्या॑ह ।
अ॒सौ वा आ॑दि॒त्य ए॑का॒की च॑रति ।
तेज॑ ए॒वाव॑रुन्धे ।
क उ॑स्विज्जायते॒ पुन॒रित्या॑ह ।
च॒न्द्रमा॒ वै जा॑यते॒ पुनः॑ ।
आयु॑रे॒वाव॑रुन्धे ।
किँ स्वि॑द्धि॒मस्य॑ भेष॒जमित्या॑ह ।
अ॒ग्निर्वै हि॒मस्य॑ भेष॒जम् ।
ब्र॒ह्म॒व॒र्च॒समेवाव॑रुन्धे ।
किँ स्वि॑दा॒वप॑नम्म॒हदित्या॑ह ॥23॥
अ॒यव्ँ वै लो॒क आ॒वप॑नम्म॒हत् ।
अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ।
पृ॒च्छामि॑ त्वा॒ पर॒मन्त॑म्पृथि॒व्या इत्या॑ह ।
वेदि॒र्वै परोऽन्त॑ᳶ पृथि॒व्याः ।
वेदि॑मे॒वाव॑रुन्धे ।
पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॒मित्या॑ह ।
य॒ज्ञो वै भुव॑नस्य॒ नाभिः॑ ।
य॒ज्ञमे॒वाव॑रुन्धे ।
पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॒ इत्या॑ह ।
सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेतः॑ ।
सो॒म॒पी॒थमे॒वाव॑रुन्धे ।
पृ॒च्छामि॑ वा॒चᳶ प॑र॒मव्व्ँयो॑मेत्या॑ह ।
ब्रह्म॒ वै वा॒चᳶ प॑र॒मव्व्ँयो॑म ।
ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ॥24॥
अप॒ वा ए॒तस्मा॑त्प्रा॒णाᳵ क्रा॑मन्ति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
प्रा॒णाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहेति॑ संज्ञ॒प्यमा॑न॒ आहु॑तीर्जुहोति ।
प्रा॒णाने॒वास्मि॑न्दधाति ।
नास्मा॑त्प्रा॒णा अप॑क्रामन्ति ।
अव॑न्ती॒स्स्थाव॑न्तीस्त्वाऽवन्तु ।
प्रि॒यन्त्वा॑ प्रि॒याणा॑म् ।
वर्षि॑ष्ठ॒माप्या॑नाम् ।
नि॒धी॒नान्त्वा॑ निधि॒पतिँ॑ हवामहे वसो म॒मेत्या॑ह ।
अपै॒वास्मै॒ तद्ध्नु॑वते ॥25॥
अथो॑ धु॒वन्त्ये॒वैन॑म् ।
अथो॒ न्ये॑वास्मै॑ ह्नुवते ।
त्रिᳶ परि॑यन्ति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॑ धुवते ।
त्रिᳶ पुन॒ᳶ परि॑यन्ति ।
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑रे॒वैन॑न्धुवते ।
अप॒ वा ए॒तेभ्य॑ᳶ प्रा॒णाᳵ क्रा॑मन्ति ॥26॥
ये य॒ज्ञे धुव॑नन्त॒न्वते॑ ।
न॒व॒कृत्व॒ᳶ परि॑यन्ति ।
नव॒ वै पुरु॑षे प्रा॒णाः ।
प्रा॒णाने॒वात्मन्द॑धते ।
नैभ्य॑ᳶ प्रा॒णा अप॑क्रामन्ति ।
अम्बे॒ अम्बा॒ल्यम्बि॑क॒ इति॒ पत्नी॑मु॒दान॑यति ।
अह्व॑तै॒वैना॑म् ।
सुभ॑गे॒ काम्पी॑लवासि॒नीत्या॑ह ।
तप॑ ए॒वैना॒मुप॑नयति ।
सु॒व॒र्गे लो॒के सम्प्रोर्ण्वा॑था॒मित्या॑ह ॥27॥
सु॒व॒र्गमे॒वैनाल्ँ॑ लो॒कङ्ग॑मयति ।
आऽहम॑जानि गर्भ॒धमा त्वम॑जाऽसि गर्भ॒धमित्या॑ह ।
प्र॒जा वै प॒शवो॒ गर्भः॑ ।
प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते ।
दे॒वा वा अ॑श्वमे॒धे पव॑माने ।
सु॒व॒र्गल्ँ लो॒कन्न प्राजा॑नन् ।
तमश्व॒ᳶ प्राजा॑नात् ।
यत्सू॒चीभि॑रसिप॒थान्क॒ल्पय॑न्ति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै ।
गा॒य॒त्री त्रि॒ष्टुब्जग॒तीत्या॑ह ॥28॥
य॒था॒य॒जुरे॒वैतत् ।
त्र॒य्यस्सू॒च्यो॑ भवन्ति ।
अ॒य॒स्मय्यो॑ रज॒ता हरि॑ण्यः ।
अ॒स्य वै लो॒कस्य॑ रू॒पम॑य॒स्मय्यः॑ ।
अ॒न्तरि॑क्षस्य रज॒ताः ।
दि॒वो हरि॑ण्यः ।
दिशो॒ वा अ॑य॒स्मय्यः॑ ।
अ॒वा॒न्त॒र॒दि॒शा र॑ज॒ताः ।
ऊ॒र्ध्वा हरि॑ण्यः ।
दिश॑ ए॒वास्मै॑ कल्पयति ।
कस्त्वा॑ छ्यति॒ कस्त्वा॒ विशा॒स्तीत्या॒हाहिँ॑सायै ॥29॥
अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रङ्क्रा॑मति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
ऊ॒र्ध्वामे॑ना॒मुच्छ्र॑यता॒दित्या॑ह ।
श्रीर्वै रा॒ष्ट्रम॑श्वमे॒धः ।
श्रिय॑मे॒वास्मै॑ रा॒ष्ट्रमू॒र्ध्वमुच्छ्र॑यति ।
वे॒णु॒भा॒रङ्गि॒रावि॒वेत्या॑ह ।
रा॒ष्ट्रव्ँ वै भा॒रः ।
रा॒ष्ट्रमे॒वास्मै॒ पर्यू॑हति ।
अथा॑स्या॒ मध्य॑मेधता॒मित्या॑ह ।
श्रीर्वै रा॒ष्ट्रस्य॒ मध्य॑म् ॥30॥
श्रिय॑मे॒वाव॑रुन्धे ।
शी॒ते वाते॑ पु॒नन्नि॒वेत्या॑ह ।
क्षेमो॒ वै रा॒ष्ट्रस्य॑ शी॒तो वातः॑ ।
क्षेम॑मे॒वाव॑रुन्धे ।
यद्ध॑रि॒णी यव॒मत्तीत्या॑ह ।
विड्वै ह॑रि॒णी ।
रा॒ष्ट्रय्ँयवः॑ ।
विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति ।
न पु॒ष्टम्प॒शु म॑न्यत॒ इत्या॑ह ।
तस्मा॒द्राजा॑ प॒शून्न पुष्य॑ति ॥31॥
शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनाय॒तीत्या॑ह ।
तस्मा॑द्वैशीपु॒त्रन्नाभिषि॑ञ्चन्ते ।
इ॒यय्ँ य॒का श॑कुन्ति॒केत्या॑ह ।
विड्वै श॑कुन्ति॒का ।
रा॒ष्ट्रम॑श्वमे॒धः ।
विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति ।
आ॒हल॒मिति॒ सर्प॒तीत्या॑ह ।
तस्मा॑द्रा॒ष्ट्राय॒ विश॑स्सर्पन्ति ।
आह॑तङ्ग॒भे पस॒ इत्या॑ह ।
विड्वै गभः॑ ॥ 32॥
रा॒ष्ट्रम्पसः॑ ।
रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति ।
तस्मा॑द्रा॒ष्ट्रव्ँ विश॒ङ्घातु॑कम् ।
मा॒ता च॑ ते पि॒ता च॑ त॒ इत्या॑ह ।
इ॒यव्ँ वै मा॒ता ।
अ॒सौ पि॒ता ।
आ॒भ्यामे॒वैन॒म्परि॑ददाति ।
अग्रव्ँ॑ वृ॒क्षस्य॑ रोहत॒ इत्या॑ह ।
श्रीर्वै वृ॒क्षस्याग्र॑म् ।
श्रि॒यमे॒वाव॑ रुन्धे ॥33॥
प्रसु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तँसय॒दित्या॑ह ।
विड्वै गभः॑ ।
रा॒ष्ट्रम्मु॒ष्टिः ।
रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति ।
तस्मा॑द्रा॒ष्ट्रव्ँ विश॒ङ्घातु॑कम् ।
अप॒ वा ए॒तेभ्य॑ᳶ प्रा॒णाᳵ क्रा॑मन्ति ।
ये य॒ज्ञेऽपू॑तव्ँ॒वद॑न्ति ।
द॒धि॒क्राव्ण्णो॑ अकारिष॒मिति॑ सुरभि॒मती॒मृचव्ँ॑वदन्ति ।
प्रा॒णा वै सु॑र॒भयः॑ ।
प्रा॒णाने॒वात्मन्द॑धते ।
नैभ्य॑ᳶ प्रा॒णा अप॑क्रामन्ति ।
आपो॒ हि ष्ठा म॑यो॒भुव॒ इत्य॒द्भिर्मा॑र्जयन्ते ।
आपो॒ वै सर्वा॑ दे॒वताः॑ ।
दे॒वता॑भिरे॒वात्मान॑म्पवयन्ते ॥34॥
प्र॒जाप॑तिᳶ प्र॒जास्सृ॒ष्ट्वा प्रे॒णाऽनु॒ प्रावि॑शत् ।
ताभ्य॒ᳶ पुन॒स्सम्भ॑वितु॒न्नाश॑क्नोत् ।
सो॑ऽब्रवीत् ।
ऋ॒ध्नव॒दित्सः ।
यो मे॒तᳶ पुन॑स्स॒म्भर॒दिति॑ ।
तन्दे॒वा अ॑श्वमे॒धेनै॒व सम॑भरन् ।
ततो॒ वै त आ॑र्ध्नुवन् ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
प्र॒जाप॑तिमे॒व सम्भ॑रत्यृ॒ध्नोति॑ ।
पुरु॑ष॒माल॑भते ॥35॥
वै॒रा॒जो वै पुरु॑षः ।
वि॒राज॑मे॒वाल॑भते ।
अथो॒ अन्नव्ँ॒ वै वि॒राट् ।
अन्न॑मे॒वाव॑रुन्धे ।
अश्व॒माल॑भते ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
प्र॒जाप॑तिमे॒वाल॑भते ।
अथो॒ श्रीर्वा एक॑शफम् ।
श्रिय॑मे॒वाव॑रुन्धे ।
गामाल॑भते ॥36॥
य॒ज्ञो वै गौः ।
य॒ज्ञमे॒वाल॑भते ।
अथो॒ अन्नव्ँ॒ वै गौः ।
अन्न॑मे॒वाव॑रुन्धे ।
अ॒जा॒वी आल॑भते भू॒म्ने ।
अथो॒ पुष्टि॒र्वै भू॒मा ।
पुष्टि॑मे॒वाव॑रुन्धे ।
पर्य॑ग्निकृत॒म्पुरु॑षञ्चार॒ण्याँश्चोत्सृ॑ज॒न्त्यहिँ॑सायै ।
उ॒भौ वा ए॒तौ प॒शू आल॑भ्येते ।
यश्चा॑व॒मो यश्च॑ पर॒मः ।
ते॑ऽस्यो॒भये॑ य॒ज्ञे ब॒द्धाः ।
अ॒भीष्टा॑ अ॒भिप्री॑ताः ।
अ॒भिजि॑ता अ॒भिहु॑ता भवन्ति ।
नैन॑न्द॒ङ्क्ष्णव॑ᳶ प॒शवो॑ य॒ज्ञे ब॒द्धाः ।
अ॒भीष्टा॑ अ॒भिप्री॑ताः ।
अ॒भिजि॑ता अ॒भिहु॑ता हिँसन्ति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ॥37॥
प्र॒थ॒मेन॒ वा ए॒ष स्तोमे॑न रा॒ध्वा ।
च॒तु॒ष्टो॒मेन॑ कृ॒तेनाया॑ना॒मुत्त॒रेह॑न् ।
ए॒क॒विँ॒शे प्र॑ति॒ष्ठाया॒म्प्रति॑ तिष्ठति ।
ए॒क॒विँ॒शात्प्र॑ति॒ष्ठाया॑ ऋ॒तून॒न्वारो॑हति ।
ऋ॒तवो॒ वै पृ॒ष्ठानि॑ ।
ऋ॒तव॑स्सव्ँवत्स॒रः ।
ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्र॑ति॒ष्ठाय॑ ।
दे॒वता॑ अ॒भ्यारो॑हति ।
शक्व॑रयᳶ पृ॒ष्ठम्भ॑वन्त्य॒न्यद॑न्य॒च्छन्दः॑ ।
अ॒न्ये॑ऽन्ये॒ वा ए॒ते प॒शव॒ आल॑भ्यन्ते ॥38॥
उ॒तेव॑ ग्रा॒म्याः ।
उ॒तेवा॑र॒ण्याः ।
अह॑रे॒व रू॒पेण॒ सम॑र्धयति ।
अथो॒ अह्न॑ ए॒वैष ब॒लिर्ह्रि॑यते ।
तदा॑हुः ।
अप॑शवो॒ वा ए॒ते ।
यद॑जा॒वय॑श्चार॒ण्याश्च॑ ।
ए॒ते वै सर्वे॑ प॒शवः॑ ।
यद्ग॒व्या इति॑ ।
ग॒व्यान्प॒शूनु॑त्त॒मेऽह॒न्नाल॑भते ॥39॥
तेनै॒वोभया॑न्प॒शूनव॑रुन्धे ।
प्रा॒जा॒प॒त्या भ॑वन्ति ।
अन॑भिजितस्या॒भिजि॑त्यै ।
सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्ति ।
अ॒न्त॒त ए॒व ब्र॑ह्मवर्च॒समव॑रुन्धे ।
सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहा॒विति॑ द्व॒न्द्विन॑ᳶ प॒शूनाल॑भते ।
अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै ।
प॒शुभि॒र्वा ए॒ष व्यृ॑ध्यते ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
छ॒ग॒लङ्क॒ल्माष॑ङ्किकिदी॒विव्ँ वि॑दी॒गय॒मिति॑ त्वा॒ष्ट्रान्प॒शूना ल॑भते ।
प॒शुभि॑रे॒वात्मानँ॒ सम॑र्धयति ।
ऋ॒तुभि॒र्वा ए॒ष व्यृ॑ध्यते ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
पि॒शङ्गा॒स्त्रयो॑ वास॒न्ता इत्यृ॑तुप॒शूनाल॑भते ।
ऋ॒तुभि॑रे॒वात्मानँ॒ सम॑र्धयति ।
आ वा ए॒ष प॒शुभ्यो॑ वृश्च्यते ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
पर्य॑ग्निकृता॒ उत्सृ॑ज॒न्त्यना॑व्रस्काय ॥40॥
प्र॒जाप॑तिरकामयत म॒हान॑न्ना॒दस्स्या॒मिति॑ ।
स ए॒ताव॑श्वमे॒धे म॑हि॒माना॑वपश्यत् ।
ताव॑गृह्णीत ।
ततो॒ वै स म॒हान॑न्ना॒दो॑ऽभवत् ।
यᳵ का॒मये॑त म॒हान॑न्ना॒दस्स्या॒मिति॑ ।
स ए॒ताव॑श्वमे॒धे म॑हि॒मानौ॑ गृह्णीत ।
म॒हाने॒वान्ना॒दो भ॑वति ।
य॒ज॒मा॒न॒दे॒व॒त्या॑ वै व॒पा ।
राजा॑ महि॒मा ।
यद्व॒पाम्म॑हि॒म्नोभ॒यत॑ᳶ परि॒यज॑ति ।
यज॑मानमे॒व रा॒ज्येनो॑भ॒यत॒ᳶ परि॑गृह्णाति ।
पु॒रस्ता॑त्स्वाहाकारा॒ वा अ॒न्ये दे॒वाः ।
उ॒परि॑ष्टात्स्वाहाकारा अ॒न्ये ।
ते वा ए॒तेऽश्व॑ ए॒व मेध्य॑ उ॒भयेऽव॑रुध्यन्ते ।
यद्व॒पाम्म॑हि॒म्नोभ॒यत॑ᳶ परि॒यज॑ति ।
ताने॒वोभया॑न्प्रीणाति ॥41॥
वै॒श्व॒दे॒वो वा अश्वः॑ ।
तय्ँयत्प्रा॑जाप॒त्यङ्कु॒र्यात् ।
या दे॒वता॒ अपि॑भागाः ।
ता भा॑ग॒धेये॑न॒ व्य॑र्धयेत् ।
दे॒वता॑भ्यस्स॒मद॑न्दध्यात् ।
स्ते॒गान्दँष्ट्रा॑भ्याम्म॒ण्डूका॒ञ्जम्भ्ये॑भि॒रिति॑ ।
आज्य॑मव॒दान॑ङ्कृ॒त्वा प्र॑तिस॒ङ्ख्याय॒माहु॑तीर्जुहोति ।
या ए॒व दे॒वता॒ अपि॑भागाः ।
ता भा॑ग॒धेये॑न॒ सम॑र्धयति ।
न दे॒वता॑भ्यस्स॒मद॑न्दधाति ॥42॥
चतु॑र्दशै॒तान॑नुवा॒काञ्जु॑हो॒त्यन॑न्तरित्यै ।
प्र॒या॒साय॒ स्वाहेति॑ पञ्चद॒शम् ।
पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः ।
अ॒र्ध॒मा॒स॒शस्सव्ँ॑वत्स॒र आ॑प्यते ।
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
ते॑ऽब्रुवन्न॒ग्नय॑स्स्विष्ट॒कृतः॑ ।
अश्व॑स्य॒ मेध्य॑स्य व॒यमु॑द्धा॒रमुद्ध॑रामहै ।
अथै॒तान॒भि भ॑वा॒मेति॑ ।
ते लोहि॑त॒मुद॑हरन्त ।
ततो॑ दे॒वा अभ॑वन्न् ॥43॥
पराऽसु॑राः ।
यत्स्वि॑ष्ट॒कृद्भ्यो॒ लोहि॑तञ्जु॒होति॒ भ्रातृ॑व्याभिभूत्यै ।
भव॑त्या॒त्मना॑ ।
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ।
गो॒मृ॒ग॒क॒ण्ठेन॑ प्रथ॒मामाहु॑तिञ्जुहोति ।
प॒शवो॒ वै गो॑मृ॒गः ।
रु॒द्रो॑ऽग्निस्स्वि॑ष्ट॒कृत् ।
रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति ।
अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते॑ ।
न तत्र॑ रु॒द्रᳶ प॒शून॒भिम॑न्यते ॥44॥
अ॒श्व॒श॒फेन॑ द्वि॒तीया॒माहु॑तिञ्जुहोति ।
प॒शवो॒ वा एक॑शफम् ।
रु॒द्रो॑ऽग्निस्स्वि॑ष्ट॒कृत् ।
रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति ।
अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते॑ ।
न तत्र॑ रु॒द्रᳶ प॒शून॒भिम॑न्यते ।
अ॒य॒स्मये॑न कम॒ण्डलु॑ना तृ॒तीया॑म् ।
आहु॑तिञ्जुहोत्याया॒स्यो॑ वै प्र॒जाः ।
रु॒द्रो॑ऽग्निस्स्वि॑ष्ट॒कृत् ।
रु॒द्रादे॒व प्र॒जा अ॒न्तर्द॑धाति ।
अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते॑ ।
न तत्र॑ रु॒द्रᳶ प्र॒जा अ॒भिम॑न्यते ॥45॥
अश्व॑स्य॒ वा आल॑ब्धस्य॒ मेध॒ उद॑क्रामत् ।
तद॑श्वस्तो॒मीय॑मभवत् ।
यद॑श्वस्तो॒मीय॑ञ्जु॒होति॑ ।
समे॑धमे॒वैन॒माल॑भते ।
आज्ये॑न जुहोति ।
मेधो॒ वा आज्य॑म् ।
मेधो॑ऽश्वस्तो॒मीय॑म् ।
मेधे॑नै॒वास्मि॒न्मेध॑न्दधाति ।
षट्त्रिँ॑शतञ्जुहोति ।
षट्त्रिँ॑शदक्षरा बृह॒ती ॥46॥
बार्ह॑ताᳶ प॒शवः॑ ।
सा प॑शू॒नाम्मात्रा॑ ।
प॒शूने॒व मात्र॑या॒ सम॑र्धयति ।
तायद्भूय॑सीर्वा॒ कनी॑यसीर्वा जुहु॒यात् ।
प॒शून्मात्र॑या॒ व्य॑र्धयेत् ।
षट्त्रिँ॑शतञ्जुहोति ।
षट्त्रिँ॑शदक्षरा बृह॒ती ।
बार्ह॑ताᳶ प॒शवः॑ ।
सा प॑शू॒नाम्मात्रा॑ ।
प॒शूने॒व मात्र॑या॒ सम॑र्धयति ॥47॥
अ॒श्व॒स्तो॒मीयँ॑ हु॒त्वा द्वि॒पदा॑ जुहोति ।
द्वि॒पाद्वै पुरु॑षो॒ द्विप्र॑तिष्ठः ।
तदे॑नम्प्रति॒ष्ठया॒ सम॑र्धयति ।
तदा॑हुः ।
अ॒श्व॒स्तो॒मीय॒म्पूर्वँ॑ होतव्ँ॒ या ३ न्द्वि॒पदाँ ३ इति॑ ।
अश्वो॒ वा अ॑श्वस्तो॒मीय॑म् ।
पुरु॑षो द्वि॒पदाः॑ ।
अ॒श्व॒स्तो॒मीयँ॑ हु॒त्वा द्वि॒पदा॑ जुहोति ।
तस्मा॑द्द्वि॒पाच्चतु॑ष्पादमत्ति ।
अथो॑ द्वि॒पद्ये॒व चतु॑ष्पद॒ᳶ प्रति॑ष्ठापयति ।
द्वि॒पदा॑ हु॒त्वा ।
नान्यामुत्त॑रा॒माहु॑तिञ्जुहुयात् ।
यद॒न्यामुत्त॑रा॒माहु॑तिञ्जुहु॒यात् ।
प्र प्र॑ति॒ष्ठाया॑श्च्यवेत ।
द्वि॒पदा॑ अन्त॒तो जु॑होति॒ प्रति॑ष्ठित्यै ॥48॥
प्र॒जाप॑तिरश्वमे॒धम॑सृजत ।
सो॑ऽस्मात्सृ॒ष्टोऽपा॑क्रामत् ।
तय्ँय॑ज्ञक्र॒तुभि॒रन्वै॑च्छत् ।
तय्ँय॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दत् ।
तमिष्टि॑भि॒रन्वै॑च्छत् ।
तमिष्टि॑भि॒रन्व॑विन्दत् ।
तदिष्टी॑नामिष्टि॒त्वम् ।
यत्सव्ँ॑वत्स॒रमिष्टि॑भि॒र्यज॑ते ।
अश्व॑मे॒व तदन्वि॑च्छति ।
सा॒वि॒त्रियो॑ भवन्ति ॥49॥
इ॒यव्ँ वै स॑वि॒ता ।
यो वा अ॒स्यान्नश्य॑ति॒ यो नि॒लय॑ते ।
अ॒स्याव्ँ वाव तव्ँ वि॑न्दन्ति ।
न वा इ॒माङ्कश्च॒नेत्या॑हुः ।
ति॒र्यङ्नोर्ध्वोत्ये॑तुमर्ह॒तीति॑ ।
यत्सा॑वि॒त्रियो॒ भव॑न्ति ।
स॒वि॒तृप्र॑सूत ए॒वैन॑मिच्छति ।
ई॒श्व॒रो वा अश्व॒ᳶ प्रमु॑क्त॒ᳶ परा॑म्परा॒वत॒ङ्गन्तोः॑ ।
यत्सा॒यन्धृती॑र्जु॒होति॑ ।
अश्व॑स्यै॒व यत्यै॒ धृत्यै॑ ॥50॥ यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते ।
अश्व॑मे॒व तदन्वि॑च्छति ।
यत्सा॒यन्धृती॑र्जु॒होति॑ ।
अश्व॑स्यै॒व यत्यै॒ धृत्यै॑ ।
तस्मा॑त्सा॒यम्प्र॒जाः क्षे॒म्या॑ भवन्ति ।
यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते ।
अश्व॑मे॒व तदन्वि॑च्छति ।
तस्मा॒द्दिवा॑ नष्टै॒ष ए॑ति ।
यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते सा॒यन्धृती॑र्जु॒होति॑ ।
अ॒हो॒रा॒त्राभ्या॑मे॒वैन॒मन्वि॑च्छति ।
अथो॑ अहोरा॒त्राभ्या॑मे॒वास्मै॑ योगक्षे॒मङ्क॑ल्पयति ॥51॥
अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रङ्क्रा॑मति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
ब्रा॒ह्म॒णौ वी॑णागा॒थिनौ॑ गायतः ।
श्रि॒या वा ए॒तद्रू॒पम् ।
यद्वीणा॑ ।
श्रिय॑मे॒वास्मि॒न्तद्ध॑त्तः ।
य॒दा खलु॒ वै पुरु॑ष॒श्श्रिय॑मश्ञु॒ते ।
वीणा॑ऽस्मै वाद्यते ।
तदा॑हुः ।
यदु॒भौ ब्रा॑ह्म॒णौ गाये॑ताम् ॥52॥
प्र॒भ्रँशु॑कास्मा॒च्छ्रीस्स्या॑त् ।
न वै ब्रा॑ह्म॒णे श्री र॑मत॒ इति॑ ।
ब्रा॒ह्म॒णो॑ऽन्यो गाये॑त् ।
रा॒ज॒न्यो॑ऽन्यः ।
ब्रह्म॒ वै ब्रा॑ह्म॒णः ।
क्ष॒त्रँ रा॑ज॒न्यः॑ ।
तथा॑ हास्य॒ ब्रह्म॑णा च क्ष॒त्रेण॑ चोभ॒यत॒श्श्रीᳶ परि॑गृहीता भवति ।
तदा॑हुः ।
यदु॒भौ दिवा॒ गाये॑ताम् ।
अपा॑स्माद्रा॒ष्ट्रङ्क्रा॑मेत् ॥ 53॥
न वै ब्रा॑ह्म॒णे रा॒ष्ट्रँ र॑मत॒ इति॑ ।
य॒दा खलु॒ वै राजा॑ का॒मय॑ते ।
अथ॑ ब्राह्म॒णञ्जि॑नाति ।
दिवा॑ ब्राह्म॒णो गा॑येत् ।
नक्तँ॑ राज॒न्यः॑ ।
ब्रह्म॑णो॒ वै रू॒पमहः॑ ।
क्ष॒त्रस्य॒ रात्रिः॑ ।
तथा॑ हास्य॒ ब्रह्म॑णा च क्ष॒त्रेण॑ चोभ॒यतो॑ रा॒ष्ट्रम्परि॑गृहीतम्भवति ।
इत्य॑ददा॒ इत्य॑यजथा॒ इत्य॑पच॒ इति॑ ब्राह्म॒णो गाये॑त् ।
इ॒ष्टा॒पू॒र्तव्ँ वै ब्रा॑ह्म॒णस्य॑ ॥54॥
इ॒ष्टा॒पू॒र्तेनै॒वैनँ॒ स सम॑र्धयति ।
इत्य॑जिना॒ इत्य॑युध्यथा॒ इत्य॒मुँ स॑ङ्ग्रा॒मम॑ह॒न्निति॑ राज॒न्यः॑ ।
यु॒द्धव्ँ वै रा॑ज॒न्य॑स्य ।
यु॒द्धेनै॒वैनँ॒ स सम॑र्धयति ।
अकॢ॑प्ता॒ वा ए॒तस्य॒र्तव॒ इत्या॑हुः ।
यो॑ऽश्वमे॒धेन॒ यज॑त॒ इति॑ ।
ति॒स्रो॑ऽन्यो गाय॑ति ति॒स्रो॑ऽन्यः ।
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तूने॒वास्मै॑ कल्पयतः ।
ताभ्याँ॑ सँ॒स्थाया॑म् ।
अ॒नो॒यु॒क्ते च॑ श॒ते च॑ ददाति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ॥55॥
सर्वे॑षु॒ वा ए॒षु लो॒केषु॑ मृ॒त्यवो॒ऽन्वाय॑त्ताः ।
तेभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒यात् ।
लो॒केलो॑क एनम्मृ॒त्युर्वि॑न्देत् ।
मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहेत्य॑भिपू॒र्वमाहु॑तीर्जुहोति ।
लो॒काल्लो॑कादे॒व मृ॒त्युमव॑यजते ।
नैनल्ँ॑ लो॒केलो॑के मृ॒त्युर्वि॑न्दति ।
यद॒मुष्मै॒ स्वाहा॒ऽमुष्मै॒ स्वाहेति॒ जुह्व॑त्स॒ञ्चक्षी॑त ।
ब॒हुम्मृ॒त्युम॒मित्र॑ङ्कुर्वीत ।
मृ॒त्यवे॒ स्वाहेत्येक॑स्मा ए॒वैका॑ञ्जुहुयात् ।
एको॒ वा अ॒मुष्मिल्ँ॑ लो॒के मृ॒त्युः ॥56॥
अ॒श॒न॒या॒मृ॒त्युरे॒व ।
तमे॒वामुष्मिल्ँ॑ लो॒केऽव॑यजते ।
भ्रू॒ण॒ह॒त्यायै स्वाहेत्य॑वभृ॒थ आहु॑तिञ्जुहोति ।
भ्रू॒ण॒ह॒त्यामे॒वाव॑ यजते ।
तदा॑हुः ।
यद्भ्रू॑णह॒त्या पा॒त्र्याऽथ॑ ।
कस्मा॑द्य॒ज्ञेऽपि॑ क्रियत॒ इति॑ ।
अमृ॑त्यु॒र्वा अ॒न्यो भ्रू॑णह॒त्याया॒ इत्या॑हुः ।
भ्रू॒ण॒ह॒त्या वाव मृ॒त्युरिति॑ ।
यद्भ्रू॑णह॒त्यायै॒ स्वाहेत्य॑वभृ॒थ आहु॑तिञ्जु॒होति॑ ॥57॥
मृ॒त्युमे॒वाहु॑त्या तर्पयि॒त्वा प॑रि॒पाण॑ङ्कृ॒त्वा ।
भ्रू॒ण॒घ्ने भे॑ष॒जङ्क॑रोति ।
ए॒ताँ ह॒ वै मु॑ण्डि॒भ औ॑दन्य॒वः ।
भ्रू॒ण॒ह॒त्यायै॒ प्राय॑श्चित्तिव्ँ वि॒दाञ्च॑कार ।
यो हा॒स्यापि॑ प्र॒जाया॑म्ब्राह्म॒णँ हन्ति॑ ।
सर्व॑स्मै॒ तस्मै॑ भेष॒जङ्क॑रोति ।
जु॒म्ब॒काय॒ स्वाहेत्य॑वभृ॒थ उ॑त्त॒मामाहु॑तिञ्जुहोति ।
वरु॑णो॒ वै जु॑म्ब॒कः ।
अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते ।
ख॒ल॒तेर्वि॑क्लि॒धस्य॑ शु॒क्लस्य॑ पिङ्गा॒क्षस्य॑ मू॒र्धञ्जु॑होति ।
ए॒तद्वै वरु॑णस्य रू॒पम् ।
रू॒पेणै॒व वरु॑ण॒मव॑यजते ॥58॥
वा॒रु॒णो वा अश्वः॑ ।
तन्दे॒वत॑या॒ व्य॑र्धयति ।
यत्प्रा॑जाप॒त्यङ्क॒रोति॑ ।
नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒येत्या॑ह ।
वा॒रु॒णो वा अश्वः॑ ।
स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयति ।
नमोऽश्वा॑य॒ नम॑ᳶ प्र॒जाप॑तय॒ इत्या॑ह ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयति ।
नमोऽधि॑पतय॒ इत्या॑ह ॥59॥
धर्मो॒ वा अधि॑पतिः ।
धर्म॑मे॒वाव॑रुन्धे ।
अधि॑पतिर॒स्यधि॑पतिम्मा कु॒र्वधि॑पतिर॒हम्प्र॒जाना॑म्भूयास॒मित्या॑ह ।
अधि॑पतिमे॒वैनँ॑ समा॒नाना॑ङ्करोति ।
मान्धे॑हि॒ मयि॑ धे॒हीत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
उ॒पाकृ॑ताय॒ स्वाहेत्यु॒पाकृ॑ते जुहोति ।
आल॑ब्धाय॒ स्वाहेति॒ नियु॑क्ते जुहोति ।
हु॒ताय॒ स्वाहेति॑ हु॒ते जु॑होति ।
ए॒षाल्ँ लो॒काना॑म॒भिजि॑त्यै ॥60 ॥
प्र वा ए॒ष ए॒भ्यो लो॒केभ्य॑श्च्यवते ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
आ॒ग्ने॒यमै॑न्द्रा॒ग्नमा॑श्वि॒नम् ।
तान्प॒शूनाल॑भते॒ प्रति॑ष्ठित्यै ।
यदा॑ग्ने॒यो भव॑ति ।
अ॒ग्निस्सर्वा॑ दे॒वताः॑ ।
दे॒वता॑ ए॒वाव॑रुन्धे ।
ब्रह्म॒ वा अ॒ग्निः ।
क्ष॒त्रमिन्द्रः॑ ।
यदै॑न्द्रा॒ग्नो भव॑ति ॥61॥
ब्र॒ह्म॒क्ष॒त्रे ए॒वाव॑रुन्धे ।
यदा॑श्वि॒नो भव॑ति ।
आ॒शिषा॒मव॑रुद्ध्यै ।
त्रयो॑ भवन्ति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒ष्वे॑व लो॒केषु॒ प्रति॑तिष्ठति ।
अ॒ग्नयेऽँ॑हो॒मुचे॒ऽष्टाक॑पाल॒ इति॒ दश॑हविष॒मिष्टि॒न्निर्व॑पति ।
दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ।
अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तस॒ इति॑ याज्यानुवा॒क्या॑ भवन्ति सर्व॒त्वाय॑ ॥62॥
यद्यश्व॑मुप॒तप॑द्वि॒न्देत् ।
आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
सौ॒म्यञ्च॒रुम् ।
सा॒वि॒त्रम॒ष्टाक॑पालम् ।
यदा॑ग्ने॒यो भव॑ति ।
अ॒ग्निस्सर्वा॑ दे॒वताः॑ ।
दे॒वता॑भिरे॒वैन॑म्भिषज्यति ।
यत्सौ॒म्यो भव॑ति ।
सोमो॒ वा ओष॑धीनाँ॒ राजा॑ ।
याभ्य॑ ए॒वैनव्ँ वि॒न्दति॑ ॥63॥
ताभि॑रे॒वैन॑म्भिषज्यति ।
यत्सा॑वि॒त्रो भव॑ति ।
स॒वि॒तृप्र॑सूत ए॒वैन॑म्भिषज्यति ।
ए॒ताभि॑रे॒वैन॑न्दे॒वता॑भिर्भिषज्यति ।
अ॒ग॒दो है॒व भ॑वति ।
पौ॒ष्णञ्च॒रुन्निर्व॑पेत् ।
यदि॑ श्लो॒णस्स्यात् ।
पू॒षा वै श्लौण्य॑स्य भि॒षक् ।
स ए॒वैन॑म्भिषज्यति ।
अश्लो॑णो है॒व भ॑वति ॥64॥
रौ॒द्रञ्च॒रुन्निर्व॑पेत् ।
यदि॑ मह॒ती दे॒वता॑ऽभि॒मन्ये॑त ।
ए॒त॒द्दे॒व॒त्यो॑ वा अश्वः॑ ।
स्वयै॒वैन॑न्दे॒वत॑या भिषज्यति ।
अ॒ग॒दो है॒व भ॑वति ।
वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेन्मृगाख॒रे यदि॒ नागच्छे॑त् ।
इ॒यव्ँ वा अ॒ग्निर्वै॑श्वान॒रः ।
इ॒यमे॒वैन॑म॒र्चिभ्या॑म्परि॒रोध॒मान॑यति ।
आहै॒व सुत्य॒मह॑र्गच्छति ।
यद्य॑धी॒यात् ॥65॥
अ॒ग्नयेऽँ॑हो॒मुचे॒ऽष्टाक॑पालः ।
सौ॒र्यम्पयः॑ ।
वा॒य॒व्य॑ आज्य॑भागः ।
यज॑मानो॒ वा अश्वः॑ ।
अँह॑सा॒ वा ए॒ष गृ॑ही॒तः ।
यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒ऽध्येति॑ ।
यदँ॑हो॒मुचे॑ नि॒र्वप॑ति ।
अँह॑स ए॒व तेन॑ मुच्यते ।
यज॑मानो॒ वा अश्वः॑ ।
रेत॑सा॒ वा ए॒ष व्यृ॑ध्यते ॥66॥
यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒ऽध्येति॑ ।
सौ॒र्यँ रेतः॑ ।
यत्सौ॒र्यम्पयो॒ भव॑ति ।
रेत॑सै॒वैनँ॒ स सम॑र्धयति ।
यज॑मानो॒ वा अश्वः॑ ।
गर्भै॒र्वा ए॒ष व्यृ॑ध्यते ।
यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒ऽध्येति॑ ।
वा॒य॒व्या॑ गर्भाः॑ ।
यद्वा॑य॒व्य॑ आज्य॑भागो॒ भव॑ति ।
गर्भै॑रे॒वैनँ॒ स सम॑र्धयति ।
अथो॒ यस्यै॒षाऽश्व॑मे॒धे प्राय॑श्चित्तिᳵ क्रि॒यते॑ ।
इ॒ष्ट्वा वसी॑यान्भवति ॥67॥
तदा॑हुः ।
द्वाद॑श ब्रह्मौद॒नान्त्सँस्थि॑ते॒ निर्व॑पेत् ।
द्वा॒द॒शभि॒र्वेष्टि॑भिर्यजे॒तेति॑ ।
यदिष्टि॑भि॒र्यजे॑त ।
उ॒प॒नामु॑क एनय्ँ य॒ज्ञस्स्या॑त् ।
पापी॑याँ॒स्तु स्या॑त् ।
आ॒प्तानि॒ वा ए॒तस्य॒ छन्दाँ॑सि ।
य ई॑जा॒नः ।
तानि॒ क ए॒ताव॑दाशु॒ पुन॒ᳶ प्रयु॑ञ्जी॒तेति॑ ।
सर्वा॒ वै सँस्थि॑ते य॒ज्ञे वागा॑प्यते ॥68 ॥
साप्ता भ॑वति या॒तया॑म्नी ।
क्रू॒रीकृ॑तेव॒ हि भव॒त्यरु॑ष्कृता ।
सा न पुन॑ᳶ प्र॒युज्येत्या॑हुः ।
द्वाद॑शै॒व ब्र॑ह्मौद॒नान्त्सँस्थि॑ते॒ निर्व॑पेत् ।
प्र॒जाप॑ति॒र्वा ओ॑द॒नः ।
य॒ज्ञᳶ प्र॒जाप॑तिः ।
उ॒प॒नामु॑क एनय्ँ य॒ज्ञो भ॑वति ।
न पापी॑यान्भवति ।
द्वाद॑श भवन्ति ।
द्वाद॑श॒मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒र ए॒व प्रति॑तिष्ठति ॥69॥
ए॒ष वै वि॒भूर्नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्र॑ वि॒भु भ॑वति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
ए॒ष वै प्र॒भूर्नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्र॑ प्र॒भु भ॑वति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
ए॒ष वा ऊर्ज॑स्वा॒न्नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्रोर्ज॑स्वद्भवति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
ए॒ष वै पय॑स्वा॒न्नाम॑ य॒ज्ञः ॥70॥
सर्वँ॑ ह॒ वै तत्र॒ पय॑स्वद्भवति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
ए॒ष वै विधृ॑तो॒ नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्र॒ विधृ॑तम्भवति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
ए॒ष वै व्यावृ॑त्तो॒ नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्र॒ व्यावृ॑त्तम्भवति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
ए॒ष वै प्रति॑ष्ठितो॒ नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्र॒ प्रति॑ष्ठितम्भवति ॥71॥
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
ए॒ष वै ते॑ज॒स्वी नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्र॑ तेज॒स्वि भ॑वति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
ए॒ष वै ब्र॑ह्मवर्च॒सी नाम॑ य॒ज्ञः ।
आ ह॒ तत्र॑ ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यते ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
ए॒ष वा अ॑तिव्या॒धी नाम॑ य॒ज्ञः ।
आ ह॒ वै तत्र॑ राज॒न्यो॑ऽतिव्या॒धी जा॑यते ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
ए॒ष वै दी॒र्घो नाम॑ य॒ज्ञः ।
दी॒र्घायु॑षो ह॒ वै तत्र॑ मनु॒ष्या॑ भवन्ति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
ए॒ष वै कॢ॒प्तो नाम॑ य॒ज्ञः ।
कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥72॥
ता॒र्प्येणाश्वँ॒ संज्ञ॑पयन्ति ।
य॒ज्ञो वै ता॒र्प्यम् ।
य॒ज्ञेनै॒वैनँ॒ सम॑र्धयन्ति ।
या॒मेन॒ साम्ना॑ प्रस्तो॒ताऽनूप॑तिष्ठते ।
य॒म॒लो॒कमे॒वैन॑ङ्गमयति ।
ता॒र्प्ये च॑ कृत्यधीवा॒से चाश्वँ॒ संज्ञ॑पयन्ति ।
ए॒तद्वै प॑शू॒नाँ रू॒पम् ।
रू॒पेणै॒व प॒शूनव॑रुन्धे ।
हि॒र॒ण्य॒क॒शि॒पु भ॑वति ।
तेज॒सोऽव॑रुद्ध्यै ॥73॥
रु॒क्मो भ॑वति ।
सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।
अश्वो॑ भवति ।
प्र॒जाप॑ते॒राप्त्यै॑ ।
अ॒स्य वै लो॒कस्य॑ रू॒पन्ता॒र्प्यम् ।
अ॒न्तरि॑क्षस्य कृत्यधीवा॒सः ।
दि॒वो हि॑रण्यकशि॒पु ।
आ॒दि॒त्यस्य॑ रु॒क्मः ।
प्र॒जाप॑ते॒रश्वः॑ ।
इ॒ममे॒व लो॒कन्ता॒र्प्येणा॑प्तोति ॥74॥
अ॒न्तरि॑क्षङ्कृत्यधीवा॒सेन॑ ।
दिवँ॑ हिरण्यकशि॒पुना॑ ।
आ॒दि॒त्यँ रु॒क्मेण॑ ।
अश्वे॑नै॒व मेध्ये॑न प्र॒जाप॑ते॒स्सायु॑ज्यँ सलो॒कता॑माप्नोति ।
ए॒तासा॑मे॒व दे॒वता॑नाँ॒ सायु॑ज्यम् ।
सा॒र्ष्टिताँ॑ समानलो॒कता॑माप्नोति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ॥75॥
आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒के॑ऽस्पर्धन्त ।
तेऽङ्गि॑रस आदि॒त्येभ्यः॑ ।
अ॒मुमा॑दि॒त्यमश्वँ॑ श्वे॒तम्भू॒तन्दक्षि॑णामनयन् ।
ते॑ऽब्रुवन् ।
यन्नोने॑ष्ट ।
स वर्यो॑ भू॒दिति॑ ।
तस्मा॒दश्वँ॒ सव॒र्येत्याह्व॑यन्ति ।
तस्मा॑द्य॒ज्ञे वरो॑ दीयते ।
यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् ।
तस्मा॒दश्वो॒ नाम॑ ॥76॥
यच्छ्वय॒दरु॒रासी॑त् ।
तस्मा॒दर्वा॒ नाम॑ ।
यत्स॒द्यो वाजा॑न्त्स॒मज॑यत् ।
तस्मा॑द्वा॒जी नाम॑ ।
यदसु॑राणाल्ँ लो॒कानाद॑त्त ।
तस्मा॑दादि॒त्यो नाम॑ ।
अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम् ।
सूर्यो॒ऽग्नेर्योनि॑रा॒यत॑नम् ।
यद॑श्वमे॒धे॑ऽग्नौ चित्य॑ उत्तरवे॒दिमु॑प॒वप॑ति ।
योनि॑मन्तमे॒वैन॑मा॒यत॑नवन्तङ्करोति ॥77॥
योनि॑माना॒यत॑नवान्भवति ।
य ए॒वव्ँ वेद॑ ।
प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वाना॑म् ।
यद॑र्काश्वमे॒धौ ।
प्रा॒णा॒पा॒नावे॒वाव॑रुन्धे ।
ओजो॒ बलव्ँ॒वा ए॒तौ दे॒वाना॑म् ।
यद॑र्काश्वमे॒धौ ।
ओजो॒ बल॑मे॒वाव॑रुन्धे ।
अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम् ।
सूर्यो॒ग्नेर्योनि॑रा॒यत॑नम् ।
यद॑श्वमे॒धे॑ऽग्नौ चित्य॑ उत्तरवे॒दिञ्चि॒नोति॑ ।
ताव॑र्काश्वमे॒धौ ।
अ॒र्का॒श्व॒मे॒धावे॒वाव॑रुन्धे ।
अथो॑ अर्काश्वमे॒धयो॑रे॒व प्रति॑तिष्ठति ॥78॥
प्र॒जाप॑तिव्ँ॒ वै दे॒वाᳶ पि॒तर॑म् ।
प॒शुम्भू॒तम्मेधा॒याल॑भन्त ।
तमा॒लभ्योपा॑वसन् ।
प्रा॒तर्यष्टा॑स्मह॒ इति॑ ।
एकव्ँ॒वा ए॒तद्दे॒वाना॒महः॑ ।
यत्सव्ँ॑वत्स॒रः ।
तस्मा॒दश्व॑ᳶ पु॒रस्ता॑त्सव्ँवत्स॒र आल॑भ्यते ।
यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् ।
तस्मा॒दश्वः॑ ।
यत्स॒द्यो मेधोऽभ॑वत् ॥ 79॥
तस्मा॑दश्वमे॒धः ।
वेदु॒कोऽश्व॑मा॒शुम्भ॑वति ।
य ए॒वव्ँ वेद॑ ।
यद्वै तत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् ।
तस्मा॒दश्व॑ᳶ प्र॒जाप॑तेᳶ पशू॒नामनु॑रूपतमः ।
आऽस्य॑ पु॒त्रᳶ प्रति॑रूपो जायते ।
य ए॒वव्ँ वेद॑ ।
सर्वा॑णि भू॒तानि॑ स॒म्भृत्याल॑भते ।
समे॑नन्दे॒वास्तेज॑से ब्रह्मवर्च॒साय॑ भरन्ति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ॥80॥
य उ॑ चैनमे॒वव्ँ वेद॑ ।
ए॒तद्वै तद्दे॒वा ए॒तान्दे॒वता॑म् ।
प॒शुम्भू॒तम्मेधा॒याल॑भन्त ।
य॒ज्ञमे॒व ।
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः ।
का॒म॒प्रय्ँ य॒ज्ञम॑कुर्वत ।
ते॑ऽमृत॒त्वम॑कामयन्त ।
ते॑ऽमृत॒त्वम॑गच्छन् ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
दे॒वाना॑मे॒वाय॑नेनैति ॥81॥
प्रा॒जा॒प॒त्येनै॒व य॒ज्ञेन॑ यजते काम॒प्रेण॑ ।
अपु॑नर्मारमे॒व ग॑च्छति ।
ए॒तस्य॒ वै रू॒पेण॑ पु॒रस्ता॑त्प्राजाप॒त्यमृ॑ष॒भन्तू॑प॒रम्ब॑हुरू॒पमाल॑भते ।
सर्वे॑भ्य॒ᳵ कामे॑भ्यः ।
सर्व॒स्याप्त्यै॑ ।
सर्व॑स्य॒ जित्यै॑ ।
सर्व॑मे॒व तेना॑प्नोति ।
सर्व॑ञ्जयति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ॥82॥
यो वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी॒ वेद॑ ।
अश्व॑स्यै॒व मेध्य॑स्य॒ लोमल्ँ॑लोमञ्जुहोति ।
अ॒हो॒रा॒त्रे वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी ।
यत्सा॒यम्प्रा॑तर्जु॒होति॑ ।
अश्व॑स्यै॒व मेध्य॑स्य॒ लोमल्ँ॑लोमञ्जुहोति ।
ए॒तद॑नुकृति ह स्म॒ वै पु॒रा ।
अश्व॑स्य॒ मेध्य॑स्य॒ लोमल्ँ॑लोमञ्जुह्वति ।
यो वा अश्व॑स्य॒ मेध्य॑स्य प॒दे वेद॑ ।
अश्व॑स्यै॒व मेध्य॑स्य प॒देप॑दे जुहोति ।
द॒र्श॒पू॒र्ण॒मा॒सौ वा अश्व॑स्य॒ मेध्य॑स्य प॒दे ॥83॥
यद्द॑र्शपूर्णमा॒सौ यज॑ते ।
अश्व॑स्यै॒व मेध्य॑स्य प॒देप॑दे जुहोति ।
ए॒तद॑नुकृति ह स्म॒ वै पु॒रा ।
अश्व॑स्य॒ मेध्य॑स्य प॒देप॑दे जुह्वति ।
यो वा अश्व॑स्य॒ मेध्य॑स्य वि॒वर्त॑नव्ँ॒वेद॑ ।
अश्व॑स्यै॒व मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुहोति ।
अ॒सौ वा आ॑दि॒त्योऽश्वः॑ ।
स आ॑हव॒नीय॒माग॑च्छति ।
तद्विव॑र्तते ।
यद॑ग्निहो॒त्रञ्जु॒होति॑ ।
अश्व॑स्यै॒व मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुहोति ।
ए॒तद॑नुकृति ह स्म॒ वै पु॒रा ।
अ॑श्वस्य॒ मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुह्वति ॥84॥