प्र॒जाप॑तिरश्वमे॒धम॑सृजत । सो॑ऽस्मात्सृ॒ष्टोऽपा॑क्रामत् । तम॑ष्टाद॒शिभि॒रनु॒ प्रायु॑ङ्क्त । तमा॑प्नोत् । तमा॒प्त्वाऽष्टा॑द॒शिभि॒रवा॑रुन्ध । यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते॑ । य॒ज्ञमे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे । सव्ँ॒व॒त्स॒रस्य॒ वा ए॒षा प्र॑ति॒मा । यद॑ष्टाद॒शिनः॑ । द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ ॥1॥

सव्ँ॒व॒त्स॒रो॑ऽष्टाद॒शः । यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते॑ । सव्ँ॒व॒त्स॒रमे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे । अ॒ग्नि॒ष्ठे॑ऽन्यान्प॒शूनु॑पाक॒रोति॑ । इत॑रेषु॒ यूपे॑ष्वष्टाद॒शिनोऽजा॑मित्वाय । नव॑न॒वाल॑भ्यन्ते सवीर्य॒त्वाय॑ । यदा॑र॒ण्यैस्स॑स्था॒पये॑त् । व्यव॑स्येताम्पितापु॒त्रौ । व्यध्वा॑नᳶ क्रामेयुः । विदू॑र॒ङ्ग्राम॑योर्ग्रामा॒न्तौ स्या॑ताम् ॥2॥

ऋ॒क्षीका॑ᳶ पुरुषव्या॒घ्राᳶ प॑रिमो॒षिण॑ आव्या॒धिनी॒स्तस्क॑रा॒ अर॑ण्ये॒ष्वाजा॑येरन् । तदा॑हुः । अप॑शवो॒ वा ए॒ते । यदा॑र॒ण्याः । यदा॑र॒ण्यैस्स॑स्था॒पये॑त् । क्षि॒प्रे यज॑मान॒मर॑ण्यम्मृ॒तँ ह॑रेयुः । अर॑ण्यायतना॒ ह्या॑र॒ण्याᳶ प॒शव॒ इति॑ । यत्प॒शून्नालभे॑त । अन॑वरुद्धा अस्य प॒शव॑स्स्युः । यत्पर्य॑ग्निकृतानुत्सृ॒जेत् ॥3॥

य॒ज्ञ॒वे॒श॒सङ्कु॑र्यात् । यत्प॒शूना॒लभ॑ते । तेनै॒व प॒शूनव॑रुन्धे । यत्पर्य॑ग्निकृतानुत्सृ॒जत्यय॑ज्ञवेशसाय । अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति । न य॑ज्ञवेश॒सम्भ॑वति । न यज॑मान॒मर॑ण्यम्मृ॒तँ ह॑रन्ति । ग्रा॒म्यैस्स स्था॑पयति । ए॒ते वै प॒शवः॒ क्षेमो॒ नाम॑ । सम्पि॑तापु॒त्रावव॑स्यतः । समध्वा॑नᳶ क्रामन्ति । स॒म॒न्ति॒कङ्ग्राम॑योर्ग्रामा॒न्तौ भ॑वतः । नर्क्षीका॑ᳶ पुरुषव्या॒घ्राᳶ प॑रिमो॒षिण॑ आव्या॒धिनी॒स्तस्क॑रा॒ अर॑ण्ये॒ष्वाजा॑यन्ते ॥4॥

ऋ॒तव॑स्स्यातामुत्सृ॒जेत्स्य॑त॒स्त्रीणि॑ च ॥ 1 ॥

प्र॒जाप॑तिरकामयतो॒भौ लो॒कावव॑ रुन्धी॒येति॑ । स ए॒तानु॒भया॑न्प॒शून॑पश्यत् । ग्रा॒म्याँश्चा॑र॒ण्याँश्च॑ । तानाल॑भत । तैर्वै स उ॒भौ लो॒काववा॑रुन्ध । ग्रा॒म्यैरे॒व प॒शुभि॑रि॒मल्लोँ॒कमवा॑रुन्ध । आ॒र॒ण्यैर॒मुम् । यद्ग्रा॒म्यान्प॒शूना॒लभ॑ते । इ॒ममे॒व तैर्लो॒कमव॑ रुन्धे । यदा॑र॒ण्यान् ॥5॥

अ॒मुन्तैः । अन॑वरुद्धो॒ वा ए॒तस्य॑ सव्वँत्स॒र इत्या॑हुः । य इ॒तइ॑तश्चातुर्मा॒स्यानि॑ सव्वँत्स॒रम्प्र॑यु॒ङ्क्त इति॑ । ए॒तावा॒न्वै सव्ँ॑वत्स॒रः । यच्चा॑तुर्मा॒स्यानि॑ । यदे॒ते चा॑तुर्मा॒स्याᳶ प॒शव॑ आल॒भ्यन्ते॑ । प्र॒त्यक्ष॑मे॒व तैस्सव्ँ॑वत्स॒रय्यँज॑मा॒नोऽव॑रुन्धे । वि वा ए॒ष प्र॒जया॑ प॒शुभि॑र्ऋध्यते । यस्सव्ँ॑वत्स॒रम्प्र॑यु॒ङ्क्ते । सव्ँ॒व॒त्स॒रस्सु॑व॒र्गो लो॒कः ॥6॥

सु॒व॒र्गन्तु लो॒कन्नाप॑राध्नोति । प्र॒जा वै प॒शव॑ एकाद॒शिनी॑ । यदे॒त ऐ॑कादशि॒नाᳶ प॒शव॑ आल॒भ्यन्ते॑ । सा॒क्षादे॒व प्र॒जाम्प॒शून् यज॑मा॒नोऽव॑रुन्धे । प्र॒जाप॑तिर्वि॒राज॑मसृजत । सा सृ॒ष्टाऽश्व॑मे॒धम्प्रावि॑शत् । तान्द॒शिभि॒रनु॒ प्रायु॑ङ्क्त । तामा॑प्नोत् । तामा॒प्त्वा द॒शिभि॒रवा॑रुन्ध । यद्द॒शिन॑ आल॒भ्यन्ते॑ ॥7॥

वि॒राज॑मे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे । एका॑दश द॒शत॒ आल॑भ्यन्ते । एका॑दशाक्षरा त्रि॒ष्टुप् । त्रैष्टु॑भाᳶ प॒शवः॑ । प॒शूने॒वाव॑रुन्धे । वै॒श्व॒दे॒वो वा अश्वः॑ । ना॒ना॒दे॒व॒त्याः॑ प॒शवो॑ भवन्ति । अश्व॑स्य सर्व॒त्वाय॑ । नाना॑रूपा भवन्ति । तस्मा॒न्नाना॑रूपाᳶ प॒शवः॑ । ब॒हु॒रू॒पा भ॑वन्ति । तस्मा॑द्बहुरू॒पाᳶ प॒शव॒स्समृ॑द्ध्यै ॥8॥

आ॒र॒ण्याल्लोँ॒को द॒शिन॑ आल॒भ्यन्ते॒ नाना॑रूपाᳶ प॒शवो॒ द्वे च॑ ॥ 2 ॥

अ॒स्मै वै लो॒काय॑ ग्रा॒म्याᳶ प॒शव॒ आल॑भ्यन्ते । अ॒मुष्मा॑ आर॒ण्याः । यद्ग्रा॒म्यान्प॒शूना॒लभ॑ते । इ॒ममे॒व तैर्लो॒कमव॑रुन्धे । यदा॑र॒ण्यान् । अ॒मुन्तैः । उ॒भया॑न्प॒शूनाल॑भते । गा॒म्याँश्चा॑र॒ण्याँश्च॑ । उ॒भयो॑र्लो॒कयो॒रव॑रुद्ध्यै । उ॒भया॑न्प॒शूनाल॑भते ॥9॥

ग्रा॒म्याँश्चा॑र॒ण्याँश्च॑ । उ॒भय॑स्या॒न्नाद्य॒स्याव॑रुद्ध्यै । उ॒भया॑न्प॒शूनाल॑भते । ग्रा॒म्याँश्चा॑र॒ण्याँश्च॑ । उ॒भये॑षाम्पशू॒नामव॑रुद्ध्यै । त्रय॑स्त्रयो भवन्ति । त्रय॑ इ॒मे लो॒काः । ए॒षाल्लोँ॒काना॒माप्त्यै॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कस्मा॑त्स॒त्यात् ॥10॥

अ॒स्मिल्लोँ॒के ब॒हव॒ᳶ कामा॒ इति॑ । यत्स॑मा॒नीभ्यो॑ दे॒वता॑भ्यो॒ऽन्ये॑ऽन्ये प॒शव॑ आल॒भ्यन्ते॑ । अ॒स्मिन्ने॒व तल्लो॒के कामा॑न्दधाति । तस्मा॑द॒स्मिल्लोँ॒के ब॒हव॒ᳶ कामाः॑ । त्र॒या॒णान्त्र॑याणाँ स॒ह व॒पा जु॑होति । त्र्या॑वृतो॒ वै दे॒वाः । त्र्या॑वृत इ॒मे लो॒काः । ए॒षाल्लोँ॒काना॒माप्त्यै॑ । ए॒षाल्लोँ॒काना॒ङ्कॢप्त्यै॑ । पर्य॑ग्निकृतानार॒ण्यानुत्सृ॑ज॒न्त्यहिँ॑सायै ॥11॥

अव॑रुद्ध्या उ॒भया॑न्प॒शूनाल॑भते स॒त्यादहिँ॑सायै ॥ 3 ॥

यु॒ञ्जन्ति॑ ब्र॒ध्नमित्या॑ह । अ॒सौ वा आ॑दि॒त्यो ब्र॒ध्नः । आ॒दि॒त्यमे॒वास्मै॑ युनक्ति । अ॒रु॒षमित्या॑ह । अ॒ग्निर्वा अ॑रु॒षः । अ॒ग्निमे॒वास्मै॑ युनक्ति । चर॑न्त॒मित्या॑ह । वा॒युर्वै चर॑न् । वा॒युमे॒वास्मै॑ युनक्ति । परि॑त॒स्थुष॒ इत्या॑ह ॥12॥

इ॒मे वै लो॒काᳶ परि॑त॒स्थुषः॑ । इ॒माने॒वास्मै॑ लो॒कान् यु॑नक्ति । रोच॑न्ते रोच॒ना दि॒वीत्या॑ह । नक्ष॑त्राणि॒ वै रो॑च॒ना दि॒वि । नक्ष॑त्राण्ये॒वास्मै॑ रोचयति । यु॒ञ्जन्त्य॑स्य॒ काम्येत्या॑ह । कामा॑ने॒वास्मै॑ युनक्ति । हरी॒ विप॑क्ष॒सेत्या॑ह । इ॒मे वै हरी॒ विप॑क्षसा । इ॒मे ए॒वास्मै॑ युनक्ति ॥ 13॥

शोणा॑ धृ॒ष्णू नृ॒वाह॒सेत्या॑ह । अ॒हो॒रा॒त्रे वै नृ॒वाह॑सा । अ॒हो॒रा॒त्रे ए॒वास्मै॑ युनक्ति । ए॒ता ए॒वास्मै॑ दे॒वता॑ युनक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । के॒तुङ्कृ॒ण्वन्न॑के॒तव॒ इति॑ ध्व॒जम्प्रति॑मुञ्चति । यश॑ ए॒वैनँ॒ राज्ञा॑ङ्गमयति । जी॒मूत॑स्येव भवति॒ प्रती॑क॒मित्या॑ह । य॒था॒य॒जुरे॒वैतत् । ये ते॒ पन्था॑नस्सवितᳶ पू॒र्व्यास॒ इत्य॑ध्व॒र्युर्यज॑मानव्वाँचयत्य॒भिजि॑त्यै ॥ 14॥

परा॒ वा ए॒तस्य॑ य॒ज्ञ ए॑ति । यस्य॑ प॒शुरु॒पाकृ॑तो॒ऽन्यत्र॒ वेद्या॒ एति॑ । ए॒त स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒माव॑र्तयासि न॒ इत्या॑ह । वा॒युर्वै स्तोता॑ । वा॒युमे॒वास्य॑ प॒रस्ता॑द्दधा॒त्यावृ॑त्त्यै । यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वव्वाँ ए॒तदश्व॑स्य स्कन्दति । यद॑स्यो॒पाकृ॑तस्य॒ लोमा॑नि॒ शीय॑न्ते । यद्वाले॑षु का॒चाना॒वय॑न्ति । लोमा॑न्ये॒वास्य॒ तत्सम्भ॑रन्ति ॥15॥

भूर्भुव॒स्सुव॒रिति॑ प्राजाप॒त्याभि॒राव॑यन्ति । प्रा॒जा॒प॒त्यो वा अश्वः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयन्ति । भूरिति॒ महि॑षी । भुव॒ इति॑ वा॒वाता॑ । सुव॒रिति॑ परिवृ॒क्ती । ए॒षाल्लोँ॒काना॑म॒भिजि॑त्यै । हि॒र॒ण्यया॑ᳶ का॒चा भ॑वन्ति । ज्योति॒र्वै हिर॑ण्यम् । रा॒ष्ट्रम॑श्वमे॒धः ॥16॥

ज्योति॑श्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति । स॒हस्र॑म्भवन्ति । स॒हस्र॑सम्मितस्सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । अप॒ वा ए॒तस्मा॒त्तेज॑ इन्द्रि॒यम्प॒शव॒श्श्रीᳶ क्रा॑मन्ति । यो॑ऽश्वमे॒धेन॒ यज॑ते । वस॑वस्त्वाऽञ्जन्तु गाय॒त्रेण॒ छन्द॒सेति॒ महि॑ष्य॒भ्य॑नक्ति । तेजो॒ वा आज्य॑म् । तेजो॑ गाय॒त्री । तेज॑सै॒वास्मै॒ तेजोऽव॑रुन्धे ॥17॥

रु॒द्रास्त्वा॑ऽञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॒सेति॑ वा॒वाता॑ । तेजो॒ वा आज्य॑म् । इ॒न्द्रि॒यन्त्रि॒ष्टुप् । तेज॑सै॒वास्मा॑ इन्द्रि॒यमव॑रुन्धे । आ॒दि॒त्यास्त्वा॑ऽञ्जन्तु॒ जाग॑तेन॒ छन्द॒सेति॑ परिवृ॒क्ती । तेजो॒ वा आज्य॑म् । प॒शवो॒ जग॑ती । तेज॑सै॒वास्मे॑ प॒शूनव॑रुन्धे । पत्न॑यो॒ऽभ्य॑ञ्जन्ति । श्रि॒या वा ए॒तद्रू॒पम् ॥ 18॥

यत्पत्न॑यः । श्रिय॑मे॒वास्मि॒न्तद्द॑धति । नास्मा॒त्तेज॑ इन्द्रि॒यम्प॒शव॒श्श्रीरप॑ क्रामन्ति । लाजी ३ ञ्छाची ३ न् यशो॑म॒माँ (4) इत्यति॑रिक्त॒मन्न॒मश्वा॑यो॒पाह॑रन्ति । प्र॒जामे॒वान्ना॒दीङ्कु॑र्वते । ए॒तद्दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापत॒ इत्या॑ह । प्र॒जाया॑मे॒वान्नाद्य॑न्दधते । यदि॒ नाव॒जिघ्रे॑त् । अ॒ग्निᳶ प॒शुरा॑सी॒दित्यव॑घ्रापयेत् । अव॑ है॒व जि॑घ्रति । आक्रा॑न्वा॒जी क्रमै॒रत्य॑क्रमीद्वा॒जी द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॒मित्यश्व॒मनु॑मन्त्रयते । ए॒षाल्लोँ॒काना॑म॒भिजि॑त्यै । समि॑द्धो अ॒ञ्जन्कृद॑रम्मती॒नामित्यश्व॑स्या॒प्रियो॑ भवन्ति सरूप॒त्वाय॑ ॥19॥

परि॑त॒स्थुष॒ इत्या॑हे॒मे ए॒वास्मै॑ युनक्त्य॒भिजि॑त्यै भरन्त्यश्वमे॒धो रु॑न्धे रू॒पञ्जि॑घ्रति॒ त्रीणि॑ च ॥ 4 ॥

तेज॑सा॒ वा ए॒ष ब्र॑ह्मवर्च॒सेन॒ व्यृ॑द्ध्यते । यो॑ऽश्वमे॒धेन॒ यज॑ते । होता॑ च ब्र॒ह्मा च॑ ब्र॒ह्मोद्यव्ँ॑वदतः । तेज॑सा चै॒वैन॑म्ब्रह्मवर्च॒सेन॑ च॒ सम॑र्धयतः । द॒क्षि॒ण॒तो ब्र॒ह्मा भ॑वति । द॒क्षि॒ण॒तआ॑यतनो॒ वै ब्र॒ह्मा । बा॒र्ह॒स्प॒त्यो वै ब्र॒ह्मा । ब्र॒ह्म॒व॒र्च॒समे॒वास्य॑ दक्षिण॒तो द॑धाति । तस्मा॒द्दक्षि॒णोऽर्धो॑ ब्रह्मवर्च॒सित॑रः । उ॒त्त॒र॒तो होता॑ भवति ॥20॥

उ॒त्त॒र॒तआ॑यतनो॒ वै होता॑ । आ॒ग्ने॒यो वै होता॑ । तेजो॒ वा अ॒ग्निः । तेज॑ ए॒वास्यो॑त्तर॒तो द॑धाति । तस्मा॒दुत्त॒रोऽर्ध॑स्तेज॒स्वित॑रः । यूप॑म॒भितो॑ वदतः । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै यूपः॑ । यज॑मानमे॒व तेज॑सा च ब्रह्मवर्च॒सेन॑ च॒ सम॑र्धयतः । कि स्वि॑दासीत्पू॒र्वचि॑त्ति॒रित्या॑ह । द्यौर्वै वृष्टि॑ᳶ पू॒र्वचि॑त्तिः ॥21॥

दिव॑मे॒व वृष्टि॒मव॑रुन्धे । कि स्वि॑दासीद्बृ॒हद्वय॒ इत्या॑ह । अश्वो॒ वै बृ॒हद्वयः॑ । अश्व॑मे॒वाव॑रुन्धे । कि स्वि॑दासीत्पिशङ्गि॒लेत्या॑ह । रात्रि॒र्वै पि॑शङ्गि॒ला । रात्रि॑मे॒वाव॑रुन्धे । कि स्वि॑दासीत्पिलिप्पि॒लेत्या॑ह । श्रीर्वै पि॑लिप्पि॒ला । अ॒न्नाद्य॑मे॒वाव॑रुन्धे ॥22॥

कस्स्वि॑देका॒की च॑र॒तीत्या॑ह । अ॒सौ वा आ॑दि॒त्य ए॑का॒की च॑रति । तेज॑ ए॒वाव॑रुन्धे । क उ॑स्विज्जायते॒ पुन॒रित्या॑ह । च॒न्द्रमा॒ वै जा॑यते॒ पुनः॑ । आयु॑रे॒वाव॑रुन्धे । कि स्वि॑द्धि॒मस्य॑ भेष॒जमित्या॑ह । अ॒ग्निर्वै हि॒मस्य॑ भेष॒जम् । ब्र॒ह्म॒व॒र्च॒समेवाव॑रुन्धे । कि स्वि॑दा॒वप॑नम्म॒हदित्या॑ह ॥23॥

अ॒यव्वैँ लो॒क आ॒वप॑नम्म॒हत् । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । पृ॒च्छामि॑ त्वा॒ पर॒मन्त॑म्पृथि॒व्या इत्या॑ह । वेदि॒र्वै परोऽन्त॑ᳶ पृथि॒व्याः । वेदि॑मे॒वाव॑रुन्धे । पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॒मित्या॑ह । य॒ज्ञो वै भुव॑नस्य॒ नाभिः॑ । य॒ज्ञमे॒वाव॑रुन्धे । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॒ इत्या॑ह । सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेतः॑ । सो॒म॒पी॒थमे॒वाव॑रुन्धे । पृ॒च्छामि॑ वा॒चᳶ प॑र॒मव्ँव्यो॑मेत्या॑ह । ब्रह्म॒ वै वा॒चᳶ प॑र॒मव्ँव्यो॑म । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ॥24॥

होता॑ भवति॒ वै वृष्टि॑ᳶ पू॒र्वचि॑त्तिर॒न्नाद्य॑मे॒वाव॑रुन्धे म॒हदित्या॑ह॒ सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेत॑श्च॒त्वारि॑ च ॥ 5 ॥

अप॒ वा ए॒तस्मा॑त्प्रा॒णाᳶ क्रा॑मन्ति । यो॑ऽश्वमे॒धेन॒ यज॑ते । प्रा॒णाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहेति॑ संज्ञ॒प्यमा॑न॒ आहु॑तीर्जुहोति । प्रा॒णाने॒वास्मि॑न्दधाति । नास्मा॑त्प्रा॒णा अप॑क्रामन्ति । अव॑न्ती॒स्स्थाव॑न्तीस्त्वाऽवन्तु । प्रि॒यन्त्वा॑ प्रि॒याणा॑म् । वर्षि॑ष्ठ॒माप्या॑नाम् । नि॒धी॒नान्त्वा॑ निधि॒पतिँ॑ हवामहे वसो म॒मेत्या॑ह । अपै॒वास्मै॒ तद्ध्नु॑वते ॥25॥

अथो॑ धु॒वन्त्ये॒वैन॑म् । अथो॒ न्ये॑वास्मै॑ ह्नुवते । त्रिᳶ परि॑यन्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॑ धुवते । त्रिᳶ पुन॒ᳶ परि॑यन्ति । षट्त्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैन॑न्धुवते । अप॒ वा ए॒तेभ्य॑ᳶ प्रा॒णाᳶ क्रा॑मन्ति ॥26॥

ये य॒ज्ञे धुव॑नन्त॒न्वते॑ । न॒व॒कृत्व॒ᳶ परि॑यन्ति । नव॒ वै पुरु॑षे प्रा॒णाः । प्रा॒णाने॒वात्मन्द॑धते । नैभ्य॑ᳶ प्रा॒णा अप॑क्रामन्ति । अम्बे॒ अम्बा॒ल्यम्बि॑क॒ इति॒ पत्नी॑मु॒दान॑यति । अह्व॑तै॒वैना॑म् । सुभ॑गे॒ काम्पी॑लवासि॒नीत्या॑ह । तप॑ ए॒वैना॒मुप॑नयति । सु॒व॒र्गे लो॒के सम्प्रोर्ण्वा॑था॒मित्या॑ह ॥27॥

सु॒व॒र्गमे॒वैना॑ल्लोँ॒कङ्ग॑मयति । आऽहम॑जानि गर्भ॒धमा त्वम॑जाऽसि गर्भ॒धमित्या॑ह । प्र॒जा वै प॒शवो॒ गर्भः॑ । प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते । दे॒वा वा अ॑श्वमे॒धे पव॑माने । सु॒व॒र्गल्लोँ॒कन्न प्राजा॑नन् । तमश्व॒ᳶ प्राजा॑नात् । यत्सू॒चीभि॑रसिप॒थान्क॒ल्पय॑न्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै । गा॒य॒त्री त्रि॒ष्टुब्जग॒तीत्या॑ह ॥28॥

य॒था॒य॒जुरे॒वैतत् । त्र॒य्यस्सू॒च्यो॑ भवन्ति । अ॒य॒स्मय्यो॑ रज॒ता हरि॑ण्यः । अ॒स्य वै लो॒कस्य॑ रू॒पम॑य॒स्मय्यः॑ । अ॒न्तरि॑क्षस्य रज॒ताः । दि॒वो हरि॑ण्यः । दिशो॒ वा अ॑य॒स्मय्यः॑ । अ॒वा॒न्त॒र॒दि॒शा र॑ज॒ताः । ऊ॒र्ध्वा हरि॑ण्यः । दिश॑ ए॒वास्मै॑ कल्पयति । कस्त्वा॑ छ्यति॒ कस्त्वा॒ विशा॒स्तीत्या॒हाहिँ॑सायै ॥29॥

ह्नु॒व॒ते॒ क्रा॒म॒न्त्यू॒र्ण्वा॒था॒मित्या॑ह॒ जग॒तीत्या॑ह कल्पय॒त्येक॑ञ्च ॥ 6 ॥

अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रङ्क्रा॑मति । यो॑ऽश्वमे॒धेन॒ यज॑ते । ऊ॒र्ध्वामे॑ना॒मुच्छ्र॑यता॒दित्या॑ह । श्रीर्वै रा॒ष्ट्रम॑श्वमे॒धः । श्रिय॑मे॒वास्मै॑ रा॒ष्ट्रमू॒र्ध्वमुच्छ्र॑यति । वे॒णु॒भा॒रङ्गि॒रावि॒वेत्या॑ह । रा॒ष्ट्रव्वैँ भा॒रः । रा॒ष्ट्रमे॒वास्मै॒ पर्यू॑हति । अथा॑स्या॒ मध्य॑मेधता॒मित्या॑ह । श्रीर्वै रा॒ष्ट्रस्य॒ मध्य॑म् ॥30॥

श्रिय॑मे॒वाव॑रुन्धे । शी॒ते वाते॑ पु॒नन्नि॒वेत्या॑ह । क्षेमो॒ वै रा॒ष्ट्रस्य॑ शी॒तो वातः॑ । क्षेम॑मे॒वाव॑रुन्धे । यद्ध॑रि॒णी यव॒मत्तीत्या॑ह । विड्वै ह॑रि॒णी । रा॒ष्ट्रय्यँवः॑ । विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति । न पु॒ष्टम्प॒शु म॑न्यत॒ इत्या॑ह । तस्मा॒द्राजा॑ प॒शून्न पुष्य॑ति ॥31॥

शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनाय॒तीत्या॑ह । तस्मा॑द्वैशीपु॒त्रन्नाभिषि॑ञ्चन्ते । इ॒यय्यँ॒का श॑कुन्ति॒केत्या॑ह । विड्वै श॑कुन्ति॒का । रा॒ष्ट्रम॑श्वमे॒धः । विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति । आ॒हल॒मिति॒ सर्प॒तीत्या॑ह । तस्मा॑द्रा॒ष्ट्राय॒ विश॑स्सर्पन्ति । आह॑तङ्ग॒भे पस॒ इत्या॑ह । विड्वै गभः॑ ॥ 32॥

रा॒ष्ट्रम्पसः॑ । रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति । तस्मा॑द्रा॒ष्ट्रव्विँश॒ङ्घातु॑कम् । मा॒ता च॑ ते पि॒ता च॑ त॒ इत्या॑ह । इ॒यव्वैँ मा॒ता । अ॒सौ पि॒ता । आ॒भ्यामे॒वैन॒म्परि॑ददाति । अग्र॑व्वृँ॒क्षस्य॑ रोहत॒ इत्या॑ह । श्रीर्वै वृ॒क्षस्याग्र॑म् । श्रिय॑मे॒वाव॑ रुन्धे ॥33॥

प्रसु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तँसय॒दित्या॑ह । विड्वै गभः॑ । रा॒ष्ट्रम्मु॒ष्टिः । रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति । तस्मा॑द्रा॒ष्ट्रव्विँश॒ङ्घातु॑कम् । अप॒ वा ए॒तेभ्य॑ᳶ प्रा॒णाᳶ क्रा॑मन्ति । ये य॒ज्ञेऽपू॑तव्ँ॒वद॑न्ति । द॒धि॒क्राव्ण्णो॑ अकारिष॒मिति॑ सुरभि॒मती॒मृचव्ँ॑वदन्ति । प्रा॒णा वै सु॑र॒भयः॑ । प्रा॒णाने॒वात्मन्द॑धते । नैभ्य॑ᳶ प्रा॒णा अप॑क्रामन्ति । आपो॒ हि ष्ठा म॑यो॒भुव॒ इत्य॒द्भिर्मा॑र्जयन्ते । आपो॒ वै सर्वा॑ दे॒वताः॑ । दे॒वता॑भिरे॒वात्मान॑म्पवयन्ते ॥34॥

रा॒ष्ट्रस्य॒ मध्यं॒ पुष्य॑ति॒ गभो॑ रुन्धे दधते च॒त्वारि॑ च ॥ 7 ॥

प्र॒जाप॑तिᳶ प्र॒जास्सृ॒ष्ट्वा प्रे॒णाऽनु॒ प्रावि॑शत् । ताभ्य॒ᳶ पुन॒स्सम्भ॑वितु॒न्नाश॑क्नोत् । सो॑ऽब्रवीत् । ऋ॒ध्नव॒दित्सः । यो मे॒तᳶ पुन॑स्स॒म्भर॒दिति॑ । तन्दे॒वा अ॑श्वमे॒धेनै॒व सम॑भरन् । ततो॒ वै त आ॑र्ध्नुवन् । यो॑ऽश्वमे॒धेन॒ यज॑ते । प्र॒जाप॑तिमे॒व सम्भ॑रत्यृ॒ध्नोति॑ । पुरु॑ष॒माल॑भते ॥35॥

वै॒रा॒जो वै पुरु॑षः । वि॒राज॑मे॒वाल॑भते । अथो॒ अन्नव्ँ॒ वै वि॒राट् । अन्न॑मे॒वाव॑रुन्धे । अश्व॒माल॑भते । प्रा॒जा॒प॒त्यो वा अश्वः॑ । प्र॒जाप॑तिमे॒वाल॑भते । अथो॒ श्रीर्वा एक॑शफम् । श्रिय॑मे॒वाव॑रुन्धे । गामाल॑भते ॥36॥

य॒ज्ञो वै गौः । य॒ज्ञमे॒वाल॑भते । अथो॒ अन्नव्ँ॒ वै गौः । अन्न॑मे॒वाव॑रुन्धे । अ॒जा॒वी आल॑भते भू॒म्ने । अथो॒ पुष्टि॒र्वै भू॒मा । पुष्टि॑मे॒वाव॑रुन्धे । पर्य॑ग्निकृत॒म्पुरु॑षञ्चार॒ण्याँश्चोत्सृ॑ज॒न्त्यहिँ॑सायै । उ॒भौ वा ए॒तौ प॒शू आल॑भ्येते । यश्चा॑व॒मो यश्च॑ पर॒मः । ते॑ऽस्यो॒भये॑ य॒ज्ञे ब॒द्धाः । अ॒भीष्टा॑ अ॒भिप्री॑ताः । अ॒भिजि॑ता अ॒भिहु॑ता भवन्ति । नैन॑न्द॒ङ्क्ष्णव॑ᳶ प॒शवो॑ य॒ज्ञे ब॒द्धाः । अ॒भीष्टा॑ अ॒भिप्री॑ताः । अ॒भिजि॑ता अ॒भिहु॑ता हिँसन्ति । यो॑ऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ ॥37॥

ल॒भ॒ते॒ गामाल॑भते पर॒मो॑ऽष्टौ च॑ ॥ 8 ॥

प्र॒थ॒मेन॒ वा ए॒ष स्तोमे॑न रा॒ध्वा । च॒तु॒ष्टो॒मेन॑ कृ॒तेनाया॑ना॒मुत्त॒रेह॑न् । ए॒क॒विँ॒शे प्र॑ति॒ष्ठाया॒म्प्रति॑ तिष्ठति । ए॒क॒विँ॒शात्प्र॑ति॒ष्ठाया॑ ऋ॒तून॒न्वारो॑हति । ऋ॒तवो॒ वै पृ॒ष्ठानि॑ । ऋ॒तव॑स्सव्वँत्स॒रः । ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्र॑ति॒ष्ठाय॑ । दे॒वता॑ अ॒भ्यारो॑हति । शक्व॑रयᳶ पृ॒ष्ठम्भ॑वन्त्य॒न्यद॑न्य॒च्छन्दः॑ । अ॒न्ये॑ऽन्ये॒ वा ए॒ते प॒शव॒ आल॑भ्यन्ते ॥38॥

उ॒तेव॑ ग्रा॒म्याः । उ॒तेवा॑र॒ण्याः । अह॑रे॒व रू॒पेण॒ सम॑र्धयति । अथो॒ अह्न॑ ए॒वैष ब॒लिर्ह्रि॑यते । तदा॑हुः । अप॑शवो॒ वा ए॒ते । यद॑जा॒वय॑श्चार॒ण्याश्च॑ । ए॒ते वै सर्वे॑ प॒शवः॑ । यद्ग॒व्या इति॑ । ग॒व्यान्प॒शूनु॑त्त॒मेऽह॒न्नाल॑भते ॥39॥

तेनै॒वोभया॑न्प॒शूनव॑रुन्धे । प्रा॒जा॒प॒त्या भ॑वन्ति । अन॑भिजितस्या॒भिजि॑त्यै । सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्ति । अ॒न्त॒त ए॒व ब्र॑ह्मवर्च॒समव॑रुन्धे । सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहा॒विति॑ द्व॒न्द्विन॑ᳶ प॒शूनाल॑भते । अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै । प॒शुभि॒र्वा ए॒ष व्यृ॑ध्यते । यो॑ऽश्वमे॒धेन॒ यज॑ते । छ॒ग॒लङ्क॒ल्माष॑ङ्किकिदी॒विव्विँ॑दी॒गय॒मिति॑ त्वा॒ष्ट्रान्प॒शूना ल॑भते । प॒शुभि॑रे॒वात्मानँ॒ सम॑र्धयति । ऋ॒तुभि॒र्वा ए॒ष व्यृ॑ध्यते । यो॑ऽश्वमे॒धेन॒ यज॑ते । पि॒शङ्गा॒स्त्रयो॑ वास॒न्ता इत्यृ॑तुप॒शूनाल॑भते । ऋ॒तुभि॑रे॒वात्मानँ॒ सम॑र्धयति । आ वा ए॒ष प॒शुभ्यो॑ वृश्च्यते । यो॑ऽश्वमे॒धेन॒ यज॑ते । पर्य॑ग्निकृता॒ उत्सृ॑ज॒न्त्यना॑व्रस्काय ॥40॥

ल॒भ्य॒न्ते॒ ल॒भ॒ते॒ त्वा॒ष्ट्रान्प॒शूनाल॑भते॒ऽष्टौ च॑ ॥ 9 ॥

प्र॒जाप॑तिरकामयत म॒हान॑न्ना॒दस्स्या॒मिति॑ । स ए॒ताव॑श्वमे॒धे म॑हि॒माना॑वपश्यत् । ताव॑गृह्णीत । ततो॒ वै स म॒हान॑न्ना॒दो॑ऽभवत् । यᳶ का॒मये॑त म॒हान॑न्ना॒दस्स्या॒मिति॑ । स ए॒ताव॑श्वमे॒धे म॑हि॒मानौ॑ गृह्णीत । म॒हाने॒वान्ना॒दो भ॑वति । य॒ज॒मा॒न॒दे॒व॒त्या॑ वै व॒पा । राजा॑ महि॒मा । यद्व॒पाम्म॑हि॒म्नोभ॒यत॑ᳶ परि॒यज॑ति । यज॑मानमे॒व रा॒ज्येनो॑भ॒यत॒ᳶ परि॑गृह्णाति । पु॒रस्ता॑त्स्वाहाकारा॒ वा अ॒न्ये दे॒वाः । उ॒परि॑ष्टात्स्वाहाकारा अ॒न्ये । ते वा ए॒तेऽश्व॑ ए॒व मेध्य॑ उ॒भयेऽव॑रुध्यन्ते । यद्व॒पाम्म॑हि॒म्नोभ॒यत॑ᳶ परि॒यज॑ति । ताने॒वोभया॑न्प्रीणाति ॥41॥

प॒रि॒यज॑ति॒ षट्च॑ ॥ 10 ॥

वै॒श्व॒दे॒वो वा अश्वः॑ । तय्यँत्प्रा॑जाप॒त्यङ्कु॒र्यात् । या दे॒वता॒ अपि॑भागाः । ता भा॑ग॒धेये॑न॒ व्य॑र्धयेत् । दे॒वता॑भ्यस्स॒मद॑न्दध्यात् । स्ते॒गान्दष्ट्रा॑भ्याम्म॒ण्डूका॒ञ्जम्भ्ये॑भि॒रिति॑ । आज्य॑मव॒दान॑ङ्कृ॒त्वा प्र॑तिस॒ङ्ख्याय॒माहु॑तीर्जुहोति । या ए॒व दे॒वता॒ अपि॑भागाः । ता भा॑ग॒धेये॑न॒ सम॑र्धयति । न दे॒वता॑भ्यस्स॒मद॑न्दधाति ॥42॥

चतु॑र्दशै॒तान॑नुवा॒काञ्जु॑हो॒त्यन॑न्तरित्यै । प्र॒या॒साय॒ स्वाहेति॑ पञ्चद॒शम् । पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः । अ॒र्ध॒मा॒स॒शस्सव्ँ॑वत्स॒र आ॑प्यते । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन् । ते॑ऽब्रुवन्न॒ग्नय॑स्स्विष्ट॒कृतः॑ । अश्व॑स्य॒ मेध्य॑स्य व॒यमु॑द्धा॒रमुद्ध॑रामहै । अथै॒तान॒भि भ॑वा॒मेति॑ । ते लोहि॑त॒मुद॑हरन्त । ततो॑ दे॒वा अभ॑वन्न् ॥43॥

पराऽसु॑राः । यत्स्वि॑ष्ट॒कृद्भ्यो॒ लोहि॑तञ्जु॒होति॒ भ्रातृ॑व्याभिभूत्यै । भव॑त्या॒त्मना॑ । परा॑ऽस्य॒ भ्रातृ॑व्यो भवति । गो॒मृ॒ग॒क॒ण्ठेन॑ प्रथ॒मामाहु॑तिञ्जुहोति । प॒शवो॒ वै गो॑मृ॒गः । रु॒द्रो॑ऽग्निस्स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति । अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते॑ । न तत्र॑ रु॒द्रᳶ प॒शून॒भिम॑न्यते ॥44॥

अ॒श्व॒श॒फेन॑ द्वि॒तीया॒माहु॑तिञ्जुहोति । प॒शवो॒ वा एक॑शफम् । रु॒द्रो॑ऽग्निस्स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति । अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते॑ । न तत्र॑ रु॒द्रᳶ प॒शून॒भिम॑न्यते । अ॒य॒स्मये॑न कम॒ण्डलु॑ना तृ॒तीया॑म् । आहु॑तिञ्जुहोत्याया॒स्यो॑ वै प्र॒जाः । रु॒द्रो॑ऽग्निस्स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प्र॒जा अ॒न्तर्द॑धाति । अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते॑ । न तत्र॑ रु॒द्रᳶ प्र॒जा अ॒भिम॑न्यते ॥45॥

द॒धा॒त्यभ॑वन्मन्यते प्र॒जा अ॒न्तर्द॑धाति॒ द्वे च॑ ॥11॥

अश्व॑स्य॒ वा आल॑ब्धस्य॒ मेध॒ उद॑क्रामत् । तद॑श्वस्तो॒मीय॑मभवत् । यद॑श्वस्तो॒मीय॑ञ्जु॒होति॑ । समे॑धमे॒वैन॒माल॑भते । आज्ये॑न जुहोति । मेधो॒ वा आज्य॑म् । मेधो॑ऽश्वस्तो॒मीय॑म् । मेधे॑नै॒वास्मि॒न्मेध॑न्दधाति । षट्त्रिँ॑शतञ्जुहोति । षट्त्रिँ॑शदक्षरा बृह॒ती ॥46॥

बार्ह॑ताᳶ प॒शवः॑ । सा प॑शू॒नाम्मात्रा॑ । प॒शूने॒व मात्र॑या॒ सम॑र्धयति । तायद्भूय॑सीर्वा॒ कनी॑यसीर्वा जुहु॒यात् । प॒शून्मात्र॑या॒ व्य॑र्धयेत् । षट्त्रिँ॑शतञ्जुहोति । षट्त्रिँ॑शदक्षरा बृह॒ती । बार्ह॑ताᳶ प॒शवः॑ । सा प॑शू॒नाम्मात्रा॑ । प॒शूने॒व मात्र॑या॒ सम॑र्धयति ॥47॥

अ॒श्व॒स्तो॒मीयँ॑ हु॒त्वा द्वि॒पदा॑ जुहोति । द्वि॒पाद्वै पुरु॑षो॒ द्विप्र॑तिष्ठः । तदे॑नम्प्रति॒ष्ठया॒ सम॑र्धयति । तदा॑हुः । अ॒श्व॒स्तो॒मीय॒म्पूर्वँ॑ होत॒व्याँ ३ न्द्वि॒पदा ३ इति॑ । अश्वो॒ वा अ॑श्वस्तो॒मीय॑म् । पुरु॑षो द्वि॒पदाः॑ । अ॒श्व॒स्तो॒मीयँ॑ हु॒त्वा द्वि॒पदा॑ जुहोति । तस्मा॑द्द्वि॒पाच्चतु॑ष्पादमत्ति । अथो॑ द्वि॒पद्ये॒व चतु॑ष्पद॒ᳶ प्रति॑ष्ठापयति । द्वि॒पदा॑ हु॒त्वा । नान्यामुत्त॑रा॒माहु॑तिञ्जुहुयात् । यद॒न्यामुत्त॑रा॒माहु॑तिञ्जुहु॒यात् । प्र प्र॑ति॒ष्ठाया॑श्च्यवेत । द्वि॒पदा॑ अन्त॒तो जु॑होति॒ प्रति॑ष्ठित्यै ॥48॥

बृ॒ह॒त्य॑र्धयति स्थापयति॒ पञ्च॑ च ॥ 12 ॥

प्र॒जाप॑तिरश्वमे॒धम॑सृजत । सो॑ऽस्मात्सृ॒ष्टोऽपा॑क्रामत् । तय्यँ॑ज्ञक्र॒तुभि॒रन्वै॑च्छत् । तय्यँ॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दत् । तमिष्टि॑भि॒रन्वै॑च्छत् । तमिष्टि॑भि॒रन्व॑विन्दत् । तदिष्टी॑नामिष्टि॒त्वम् । यत्सव्ँ॑वत्स॒रमिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । सा॒वि॒त्रियो॑ भवन्ति ॥49॥

इ॒यव्वैँ स॑वि॒ता । यो वा अ॒स्यान्नश्य॑ति॒ यो नि॒लय॑ते । अ॒स्याव्वाँव तव्विँ॑न्दन्ति । न वा इ॒माङ्कश्च॒नेत्या॑हुः । ति॒र्यङ्नोर्ध्वोत्ये॑तुमर्ह॒तीति॑ । यत्सा॑वि॒त्रियो॒ भव॑न्ति । स॒वि॒तृप्र॑सूत ए॒वैन॑मिच्छति । ई॒श्व॒रो वा अश्व॒ᳶ प्रमु॑क्त॒ᳶ परा॑म्परा॒वत॒ङ्गन्तोः॑ । यत्सा॒यन्धृती॑र्जु॒होति॑ । अश्व॑स्य॒ यत्यै॒ धृत्यै॑ ॥50॥

यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । यत्सा॒यन्धृती॑र्जु॒होति॑ । अश्व॑स्यै॒व यत्यै॒ धृत्यै॑ । तस्मा॑त्सा॒यम्प्र॒जाः क्षे॒म्या॑ भवन्ति । यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । तस्मा॒द्दिवा॑ नष्टै॒ष ए॑ति । यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते सा॒यन्धृती॑र्जु॒होति॑ । अ॒हो॒रा॒त्राभ्या॑मे॒वैन॒मन्वि॑च्छति । अथो॑ अहोरा॒त्राभ्या॑मे॒वास्मै॑ योगक्षे॒मङ्क॑ल्पयति ॥51॥

भ॒व॒न्ति॒ धृत्या॑ एन॒मन्वि॑च्छ॒त्येक॑ञ्च ॥ 13 ॥

अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रङ्क्रा॑मति । यो॑ऽश्वमे॒धेन॒ यज॑ते । ब्रा॒ह्म॒णौ वी॑णागा॒थिनौ॑ गायतः । श्रि॒या वा ए॒तद्रू॒पम् । यद्वीणा॑ । श्रिय॑मे॒वास्मि॒न्तद्ध॑त्तः । य॒दा खलु॒ वै पुरु॑ष॒श्श्रिय॑मश्ञु॒ते । वीणा॑ऽस्मै वाद्यते । तदा॑हुः । यदु॒भौ ब्रा॑ह्म॒णौ गाये॑ताम् ॥52॥

प्र॒भ्रँशु॑कास्मा॒च्छ्रीस्स्या॑त् । न वै ब्रा॑ह्म॒णे श्री र॑मत॒ इति॑ । ब्रा॒ह्म॒णो॑ऽन्यो गाये॑त् । रा॒ज॒न्यो॑ऽन्यः । ब्रह्म॒ वै ब्रा॑ह्म॒णः । क्ष॒त्रँ रा॑ज॒न्यः॑ । तथा॑ हास्य॒ ब्रह्म॑णा च क्ष॒त्रेण॑ चोभ॒यत॒श्श्रीᳶ परि॑गृहीता भवति । तदा॑हुः । यदु॒भौ दिवा॒ गाये॑ताम् । अपा॑स्माद्रा॒ष्ट्रङ्क्रा॑मेत् ॥ 53॥

न वै ब्रा॑ह्म॒णे रा॒ष्ट्रँ र॑मत॒ इति॑ । य॒दा खलु॒ वै राजा॑ का॒मय॑ते । अथ॑ ब्राह्म॒णञ्जि॑नाति । दिवा॑ ब्राह्म॒णो गा॑येत् । नक्तँ॑ राज॒न्यः॑ । ब्रह्म॑णो॒ वै रू॒पमहः॑ । क्ष॒त्रस्य॒ रात्रिः॑ । तथा॑ हास्य॒ ब्रह्म॑णा च क्ष॒त्रेण॑ चोभ॒यतो॑ रा॒ष्ट्रम्परि॑गृहीतम्भवति । इत्य॑ददा॒ इत्य॑यजथा॒ इत्य॑पच॒ इति॑ ब्राह्म॒णो गाये॑त् । इ॒ष्टा॒पू॒र्तव्वैँ ब्रा॑ह्म॒णस्य॑ ॥54॥

इ॒ष्टा॒पू॒र्तेनै॒वैनँ॒ स सम॑र्धयति । इत्य॑जिना॒ इत्य॑युध्यथा॒ इत्य॒मुँ स॑ङ्ग्रा॒मम॑ह॒न्निति॑ राज॒न्यः॑ । यु॒द्धव्वैँ रा॑ज॒न्य॑स्य । यु॒द्धेनै॒वैनँ॒ स सम॑र्धयति । अकॢ॑प्ता॒ वा ए॒तस्य॒र्तव॒ इत्या॑हुः । यो॑ऽश्वमे॒धेन॒ यज॑त॒ इति॑ । ति॒स्रो॑ऽन्यो गाय॑ति ति॒स्रो॑ऽन्यः । षट्त्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒वास्मै॑ कल्पयतः । ताभ्याँ॑ स॒॒स्थाया॑म् । अ॒नो॒यु॒क्ते च॑ श॒ते च॑ ददाति । श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ॥55॥

गाये॑ताङ्क्रामेद्ब्राह्म॒णस्य॑ कल्पयतश्च॒त्वारि॑ च ॥ 14 ॥

सर्वे॑षु॒ वा ए॒षु लो॒केषु॑ मृ॒त्यवो॒ऽन्वाय॑त्ताः । तेभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒यात् । लो॒केलो॑क एनम्मृ॒त्युर्वि॑न्देत् । मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहेत्य॑भिपू॒र्वमाहु॑तीर्जुहोति । लो॒काल्लो॑कादे॒व मृ॒त्युमव॑यजते । नैनल्ँ॑ लो॒केलो॑के मृ॒त्युर्वि॑न्दति । यद॒मुष्मै॒ स्वाहा॒ऽमुष्मै॒ स्वाहेति॒ जुह्व॑त्स॒ञ्चक्षी॑त । ब॒हुम्मृ॒त्युम॒मित्र॑ङ्कुर्वीत । मृ॒त्यवे॒ स्वाहेत्येक॑स्मा ए॒वैका॑ञ्जुहुयात् । एको॒ वा अ॒मुष्मिल्ँ॑ लो॒के मृ॒त्युः ॥56॥

अ॒श॒न॒या॒मृ॒त्युरे॒व । तमे॒वामुष्मिल्ँ॑ लो॒केऽव॑यजते । भ्रू॒ण॒ह॒त्यायै॒ स्वाहेत्य॑वभृ॒थ आहु॑तिञ्जुहोति । भ्रू॒ण॒ह॒त्यामे॒वाव॑ यजते । तदा॑हुः । यद्भ्रू॑णह॒त्या पा॒त्र्याऽथ॑ । कस्मा॑द्य॒ज्ञेऽपि॑ क्रियत॒ इति॑ । अमृ॑त्यु॒र्वा अ॒न्यो भ्रू॑णह॒त्याया॒ इत्या॑हुः । भ्रू॒ण॒ह॒त्या वाव मृ॒त्युरिति॑ । यद्भ्रू॑णह॒त्यायै॒ स्वाहेत्य॑वभृ॒थ आहु॑तिञ्जु॒होति॑ ॥57॥

मृ॒त्युमे॒वाहु॑त्या तर्पयि॒त्वा प॑रि॒पाण॑ङ्कृ॒त्वा । भ्रू॒ण॒घ्ने भे॑ष॒जङ्क॑रोति । ए॒ताँ ह॒ वै मु॑ण्डि॒भ औ॑दन्य॒वः । भ्रू॒ण॒ह॒त्यायै॒ प्राय॑श्चित्तिव्विँ॒दाञ्च॑कार । यो हा॒स्यापि॑ प्र॒जाया॑म्ब्राह्म॒णँ हन्ति॑ । सर्व॑स्मै॒ तस्मै॑ भेष॒जङ्क॑रोति । जु॒म्ब॒काय॒ स्वाहेत्य॑वभृ॒थ उ॑त्त॒मामाहु॑तिञ्जुहोति । वरु॑णो॒ वै जु॑म्ब॒कः । अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते । ख॒ल॒तेर्वि॑क्लि॒धस्य॑ शु॒क्लस्य॑ पिङ्गा॒क्षस्य॑ मू॒र्धञ्जु॑होति । ए॒तद्वै वरु॑णस्य रू॒पम् । रू॒पेणै॒व वरु॑ण॒मव॑यजते ॥58॥

लो॒के मृ॒त्युर्जु॒होति॑ मू॒र्धञ्जु॑होति॒ द्वे च॑ ॥ 15 ॥

वा॒रु॒णो वा अश्वः॑ । तन्दे॒वत॑या॒ व्य॑र्धयति । यत्प्रा॑जाप॒त्यङ्क॒रोति॑ । नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒येत्या॑ह । वा॒रु॒णो वा अश्वः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयति । नमोऽश्वा॑य॒ नम॑ᳶ प्र॒जाप॑तय॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयति । नमोऽधि॑पतय॒ इत्या॑ह ॥59॥

धर्मो॒ वा अधि॑पतिः । धर्म॑मे॒वाव॑रुन्धे । अधि॑पतिर॒स्यधि॑पतिम्मा कु॒र्वधि॑पतिर॒हम्प्र॒जाना॑म्भूयास॒मित्या॑ह । अधि॑पतिमे॒वैनँ॑ समा॒नाना॑ङ्करोति । मान्धे॑हि॒ मयि॑ धे॒हीत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । उ॒पाकृ॑ताय॒ स्वाहेत्यु॒पाकृ॑ते जुहोति । आल॑ब्धाय॒ स्वाहेति॒ नियु॑क्ते जुहोति । हु॒ताय॒ स्वाहेति॑ हु॒ते जु॑होति । ए॒षाल्लोँ॒काना॑म॒भिजि॑त्यै ॥60 ॥

प्र वा ए॒ष ए॒भ्यो लो॒केभ्य॑श्च्यवते । यो॑ऽश्वमे॒धेन॒ यज॑ते । आ॒ग्ने॒यमै॑न्द्रा॒ग्नमा॑श्वि॒नम् । तान्प॒शूनाल॑भते॒ प्रति॑ष्ठित्यै । यदा॑ग्ने॒यो भव॑ति । अ॒ग्निस्सर्वा॑ दे॒वताः॑ । दे॒वता॑ ए॒वाव॑रुन्धे । ब्रह्म॒ वा अ॒ग्निः । क्ष॒त्रमिन्द्रः॑ । यदै॑न्द्रा॒ग्नो भव॑ति ॥61॥

ब्र॒ह्म॒क्ष॒त्रे ए॒वाव॑रुन्धे । यदा॑श्वि॒नो भव॑ति । आ॒शिषा॒मव॑रुद्ध्यै । त्रयो॑ भवन्ति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑तिष्ठति । अ॒ग्नयेऽँ॑हो॒मुचे॒ऽष्टाक॑पाल॒ इति॒ दश॑हविष॒मिष्टि॒न्निर्व॑पति । दशा॑क्षरा वि॒राट् । अन्नव्ँ॑वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तस॒ इति॑ याज्यानुवा॒क्या॑ भवन्ति सर्व॒त्वाय॑ ॥62॥

अधि॑पतय॒ इत्या॑हा॒भि॑जित्या ऐन्द्रा॒ग्नो भव॑ति रुन्ध॒ एक॑ञ्च ॥ 16 ॥

यद्यश्व॑मुप॒तप॑द्वि॒न्देत् । आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेत् । सौ॒म्यञ्च॒रुम् । सा॒वि॒त्रम॒ष्टाक॑पालम् । यदा॑ग्ने॒यो भव॑ति । अ॒ग्निस्सर्वा॑ दे॒वताः॑ । दे॒वता॑भिरे॒वैन॑म्भिषज्यति । यत्सौ॒म्यो भव॑ति । सोमो॒ वा ओष॑धीनाँ॒ राजा॑ । याभ्य॑ ए॒वैनव्विँ॒न्दति॑ ॥63॥

ताभि॑रे॒वैन॑म्भिषज्यति । यत्सा॑वि॒त्रो भव॑ति । स॒वि॒तृप्र॑सूत ए॒वैन॑म्भिषज्यति । ए॒ताभि॑रे॒वैन॑न्दे॒वता॑भिर्भिषज्यति । अ॒ग॒दो है॒व भ॑वति । पौ॒ष्णञ्च॒रुन्निर्व॑पेत् । यदि॑ श्लो॒णस्स्यात् । पू॒षा वै श्लौण्य॑स्य भि॒षक् । स ए॒वैन॑म्भिषज्यति । अश्लो॑णो है॒व भ॑वति ॥64॥

रौ॒द्रञ्च॒रुन्निर्व॑पेत् । यदि॑ मह॒ती दे॒वता॑ऽभि॒मन्ये॑त । ए॒त॒द्दे॒व॒त्यो॑ वा अश्वः॑ । स्वयै॒वैन॑न्दे॒वत॑या भिषज्यति । अ॒ग॒दो है॒व भ॑वति । वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेन्मृगाख॒रे यदि॒ नागच्छे॑त् । इ॒यव्वाँ अ॒ग्निर्वै॑श्वान॒रः । इ॒यमे॒वैन॑म॒र्चिभ्या॑म्परि॒रोध॒मान॑यति । आहै॒व सुत्य॒मह॑र्गच्छति । यद्य॑धी॒यात् ॥65॥

अ॒ग्नयेऽँ॑हो॒मुचे॒ऽष्टाक॑पालः । सौ॒र्यम्पयः॑ । वा॒य॒व्य॑ आज्य॑भागः । यज॑मानो॒ वा अश्वः॑ । अँह॑सा॒ वा ए॒ष गृ॑ही॒तः । यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒ऽध्येति॑ । यदँ॑हो॒मुचे॑ नि॒र्वप॑ति । अँह॑स ए॒व तेन॑ मुच्यते । यज॑मानो॒ वा अश्वः॑ । रेत॑सा॒ वा ए॒ष व्यृ॑ध्यते ॥66॥

यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒ऽध्येति॑ । सौ॒र्यँ रेतः॑ । यत्सौ॒र्यम्पयो॒ भव॑ति । रेत॑सै॒वैनँ॒ स सम॑र्धयति । यज॑मानो॒ वा अश्वः॑ । गर्भै॒र्वा ए॒ष व्यृ॑ध्यते । यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒ऽध्येति॑ । वा॒य॒व्या॑ गर्भाः॑ । यद्वा॑य॒व्य॑ आज्य॑भागो॒ भव॑ति । गर्भै॑रे॒वैनँ॒ स सम॑र्धयति । अथो॒ यस्यै॒षाऽश्व॑मे॒धे प्राय॑श्चित्तिᳶ क्रि॒यते॑ । इ॒ष्ट्वा वसी॑यान्भवति ॥67॥

वि॒न्दत्यश्लो॑णो है॒व भ॑वत्यधी॒यादृ॑ध्यते॒ गर्भै॑रे॒वैनँ॒ स सम॑र्धयति॒ द्वे च॑ ॥ 17 ॥

तदा॑हुः । द्वाद॑श ब्रह्मौद॒नान्त्सस्थि॑ते॒ निर्व॑पेत् । द्वा॒द॒शभि॒र्वेष्टि॑भिर्यजे॒तेति॑ । यदिष्टि॑भि॒र्यजे॑त । उ॒प॒नामु॑क एनय्यँ॒ज्ञस्स्या॑त् । पापी॑याँ॒स्तु स्या॑त् । आ॒प्तानि॒ वा ए॒तस्य॒ छन्दाँ॑सि । य ई॑जा॒नः । तानि॒ क ए॒ताव॑दाशु॒ पुन॒ᳶ प्रयु॑ञ्जी॒तेति॑ । सर्वा॒ वै सस्थि॑ते य॒ज्ञे वागा॑प्यते ॥68 ॥

साप्ता भ॑वति या॒तया॑म्नी । क्रू॒रीकृ॑तेव॒ हि भव॒त्यरु॑ष्कृता । सा न पुन॑ᳶ प्र॒युज्येत्या॑हुः । द्वाद॑शै॒व ब्र॑ह्मौद॒नान्त्सस्थि॑ते॒ निर्व॑पेत् । प्र॒जाप॑ति॒र्वा ओ॑द॒नः । य॒ज्ञᳶ प्र॒जाप॑तिः । उ॒प॒नामु॑क एनय्यँ॒ज्ञो भ॑वति । न पापी॑यान्भवति । द्वाद॑श भवन्ति । द्वाद॑श॒ मासा॑स्सव्वँत्स॒रः । सव्ँ॒व॒त्स॒र ए॒व प्रति॑तिष्ठति ॥69॥

आ॒प्य॒ते॒ स॒व्वँ॒त्स॒र एक॑ञ्च ॥ 18 ॥

ए॒ष वै वि॒भूर्नाम॑ य॒ज्ञः । सर्वँ॑ ह॒ वै तत्र॑ वि॒भु भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै प्र॒भूर्नाम॑ य॒ज्ञः । सर्वँ॑ ह॒ वै तत्र॑ प्र॒भु भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वा ऊर्ज॑स्वा॒न्नाम॑ य॒ज्ञः । सर्वँ॑ ह॒ वै तत्रोर्ज॑स्वद्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै पय॑स्वा॒न्नाम॑ य॒ज्ञः ॥70॥

सर्वँ॑ ह॒ वै तत्र॒ पय॑स्वद्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै विधृ॑तो॒ नाम॑ य॒ज्ञः । सर्वँ॑ ह॒ वै तत्र॒ विधृ॑तम्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै व्यावृ॑त्तो॒ नाम॑ य॒ज्ञः । सर्वँ॑ ह॒ वै तत्र॒ व्यावृ॑त्तम्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै प्रति॑ष्ठितो॒ नाम॑ य॒ज्ञः । सर्वँ॑ ह॒ वै तत्र॒ प्रति॑ष्ठितम्भवति ॥71॥

यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै ते॑ज॒स्वी नाम॑ य॒ज्ञः । सर्वँ॑ ह॒ वै तत्र॑ तेज॒स्वि भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै ब्र॑ह्मवर्च॒सी नाम॑ य॒ज्ञः । आ ह॒ वै तत्र॑ ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वा अ॑तिव्या॒धी नाम॑ य॒ज्ञः । आ ह॒ वै तत्र॑ राज॒न्यो॑ऽतिव्या॒धी जा॑यते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै दी॒र्घो नाम॑ य॒ज्ञः । दी॒र्घायु॑षो ह॒ वै तत्र॑ मनु॒ष्या॑ भवन्ति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै कॢ॒प्तो नाम॑ य॒ज्ञः । कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥72॥

पय॑स्वा॒न्नाम॑ य॒ज्ञः प्रति॑ष्ठितम्भवति॒ यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते॒ षट्च॑ ॥ 19 ॥ (ए॒ष वै विभूᳶ प्र॒भूरूर्ज॑स्वा॒न्पय॑स्वा॒न् विधृ॑तो॒ व्यावृ॑त्त॒ᳶप्रति॑ष्ठितस्तेज॒स्वी ब्र॑ह्मवर्च॒स्य॑तिव्या॒धी दी॒र्घᳶ कॢ॒प्तो द्वाद॑श ॥ )

ता॒र्प्येणाश्वँ॒ संज्ञ॑पयन्ति । य॒ज्ञो वै ता॒र्प्यम् । य॒ज्ञेनै॒वैनँ॒ सम॑र्धयन्ति । या॒मेन॒ साम्ना॑ प्रस्तो॒ताऽनूप॑तिष्ठते । य॒म॒लो॒कमे॒वैन॑ङ्गमयति । ता॒र्प्ये च॑ कृत्यधीवा॒से चाश्वँ॒ संज्ञ॑पयन्ति । ए॒तद्वै प॑शू॒नाँ रू॒पम् । रू॒पेणै॒व प॒शूनव॑रुन्धे । हि॒र॒ण्य॒क॒शि॒पु भ॑वति । तेज॒सोऽव॑रुद्ध्यै ॥73॥

रु॒क्मो भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै । अश्वो॑ भवति । प्र॒जाप॑ते॒राप्त्यै॑ । अ॒स्य वै लो॒कस्य॑ रू॒पन्ता॒र्प्यम् । अ॒न्तरि॑क्षस्य कृत्यधीवा॒सः । दि॒वो हि॑रण्यकशि॒पु । आ॒दि॒त्यस्य॑ रु॒क्मः । प्र॒जाप॑ते॒रश्वः॑ । इ॒ममे॒व लो॒कन्ता॒र्प्येणा॑प्तोति ॥74॥

अ॒न्तरि॑क्षङ्कृत्यधीवा॒सेन॑ । दिवँ॑ हिरण्यकशि॒पुना॑ । आ॒दि॒त्यँ रु॒क्मेण॑ । अश्वे॑नै॒व मेध्ये॑न प्र॒जाप॑ते॒स्सायु॑ज्यँ सलो॒कता॑माप्नोति । ए॒तासा॑मे॒व दे॒वता॑नाँ॒ सायु॑ज्यम् । सा॒र्ष्टिताँ॑ समानलो॒कता॑माप्नोति । यो॑ऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ ॥75॥

अव॑रुध्या आप्नोत्य॒ष्टौ च॑ ॥ 20 ॥

आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒के॑ऽस्पर्धन्त । तेऽङ्गि॑रस आदि॒त्येभ्यः॑ । अ॒मुमा॑दि॒त्यमश्व॑ श्वे॒तम्भू॒तन्दक्षि॑णामनयन् । ते॑ऽब्रुवन् । यन्नोऽने॑ष्ट । स वर्यो॑ भू॒दिति॑ । तस्मा॒दश्वँ॒ सव॒र्येत्याह्व॑यन्ति । तस्मा॑द्य॒ज्ञे वरो॑ दीयते । यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् । तस्मा॒दश्वो॒ नाम॑ ॥76॥

यच्छ्वय॒दरु॒रासी॑त् । तस्मा॒दर्वा॒ नाम॑ । यत्स॒द्यो वाजा॑न्त्स॒मज॑यत् । तस्मा॑द्वा॒जी नाम॑ । यदसु॑राणाल्लोँ॒कानाद॑त्त । तस्मा॑दादि॒त्यो नाम॑ । अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम् । सूर्यो॒ऽग्नेर्योनि॑रा॒यत॑नम् । यद॑श्वमे॒धे॑ऽग्नौ चित्य॑ उत्तरवे॒दिमु॑प॒वप॑ति । योनि॑मन्तमे॒वैन॑मा॒यत॑नवन्तङ्करोति ॥77॥

योनि॑माना॒यत॑नवान्भवति । य ए॒वव्वेँद॑ । प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वाना॑म् । यद॑र्काश्वमे॒धौ । प्रा॒णा॒पा॒नावे॒वाव॑रुन्धे । ओजो॒ बलव्ँ॒वा ए॒तौ दे॒वाना॑म् । यद॑र्काश्वमे॒धौ । ओजो॒ बल॑मे॒वाव॑रुन्धे । अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम् । सूर्यो॒ग्नेर्योनि॑रा॒यत॑नम् । यद॑श्वमे॒धे॑ऽग्नौ चित्य॑ उत्तरवे॒दिञ्चि॒नोति॑ । ताव॑र्काश्वमे॒धौ । अ॒र्का॒श्व॒मे॒धावे॒वाव॑रुन्धे । अथो॑ अर्काश्वमे॒धयो॑रे॒व प्रति॑तिष्ठति ॥78॥

नाम॑ करोति॒ सूर्यो॒ऽग्नेर्योनि॑रा॒यत॑नञ्च॒त्वारि॑ च ॥ 21 ॥

प्र॒जाप॑तिव्ँ॒ वै दे॒वाᳶ पि॒तर॑म् । प॒शुम्भू॒तम्मेधा॒याल॑भन्त । तमा॒लभ्योपा॑वसन् । प्रा॒तर्यष्टा॑स्मह॒ इति॑ । एकव्ँ॒वा ए॒तद्दे॒वाना॒महः॑ । यत्सव्ँ॑वत्स॒रः । तस्मा॒दश्व॑ᳶ पु॒रस्ता॑त्सव्वँत्स॒र आल॑भ्यते । यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् । तस्मा॒दश्वः॑ । यत्स॒द्यो मेधोऽभ॑वत् ॥ 79॥

तस्मा॑दश्वमे॒धः । वेदु॒कोऽश्व॑मा॒शुम्भ॑वति । य ए॒वव्वेँद॑ । यद्वै तत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् । तस्मा॒दश्व॑ᳶ प्र॒जाप॑तेᳶ पशू॒नामनु॑रूपतमः । आऽस्य॑ पु॒त्रᳶ प्रति॑रूपो जायते । य ए॒वव्वेँद॑ । सर्वा॑णि भू॒तानि॑ स॒म्भृत्याल॑भते । समे॑नन्दे॒वास्तेज॑से ब्रह्मवर्च॒साय॑ भरन्ति । यो॑ऽश्वमे॒धेन॒ यज॑ते ॥80॥

य उ॑ चैनमे॒वव्वेँद॑ । ए॒तद्वै तद्दे॒वा ए॒तान्दे॒वता॑म् । प॒शुम्भू॒तम्मेधा॒याल॑भन्त । य॒ज्ञमे॒व । य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । का॒म॒प्रय्यँ॒ज्ञम॑कुर्वत । ते॑ऽमृत॒त्वम॑कामयन्त । ते॑ऽमृत॒त्वम॑गच्छन् । यो॑ऽश्वमे॒धेन॒ यज॑ते । दे॒वाना॑मे॒वाय॑नेनैति ॥81॥

प्रा॒जा॒प॒त्येनै॒व य॒ज्ञेन॑ यजते काम॒प्रेण॑ । अपु॑नर्मारमे॒व ग॑च्छति । ए॒तस्य॒ वै रू॒पेण॑ पु॒रस्ता॑त्प्राजाप॒त्यमृ॑ष॒भन्तू॑प॒रम्ब॑हुरू॒पमाल॑भते । सर्वे॑भ्य॒ᳶ कामे॑भ्यः । सर्व॒स्याप्त्यै॑ । सर्व॑स्य॒ जित्यै॑ । सर्व॑मे॒व तेना॑प्नोति । सर्व॑ञ्जयति । यो॑ऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ ॥82॥

मेधोऽभ॑व॒द्यज॑त एति॒ वेद॑ ॥ 22 ॥

यो वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी॒ वेद॑ । अश्व॑स्यै॒व मेध्य॑स्य॒ लोमल्ँ॑लोमञ्जुहोति । अ॒हो॒रा॒त्रे वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी । यत्सा॒यम्प्रा॑तर्जु॒होति॑ । अश्व॑स्यै॒व मेध्य॑स्य॒ लोमल्ँ॑लोमञ्जुहोति । ए॒तद॑नुकृति ह स्म॒ वै पु॒रा । अश्व॑स्य॒ मेध्य॑स्य॒ लोमल्ँ॑लोमञ्जुह्वति । यो वा अश्व॑स्य॒ मेध्य॑स्य प॒दे वेद॑ । अश्व॑स्यै॒व मेध्य॑स्य प॒देप॑दे जुहोति । द॒र्श॒पू॒र्ण॒मा॒सौ वा अश्व॑स्य॒ मेध्य॑स्य प॒दे ॥83॥

यद्द॑र्शपूर्णमा॒सौ यज॑ते । अश्व॑स्यै॒व मेध्य॑स्य प॒देप॑दे जुहोति । ए॒तद॑नुकृति ह स्म॒ वै पु॒रा । अश्व॑स्य॒ मेध्य॑स्य प॒देप॑दे जुह्वति । यो वा अश्व॑स्य॒ मेध्य॑स्य वि॒वर्त॑नव्ँ॒वेद॑ । अश्व॑स्यै॒व मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुहोति । अ॒सौ वा आ॑दि॒त्योऽश्वः॑ । स आ॑हव॒नीय॒माग॑च्छति । तद्विव॑र्तते । यद॑ग्निहो॒त्रञ्जु॒होति॑ । अश्व॑स्यै॒व मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुहोति । ए॒तद॑नुकृति ह स्म॒ वै पु॒रा । अश्व॑स्य॒ मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुह्वति ॥84॥

प॒दे अ॑ग्निहो॒त्रञ्जु॒होति॒ त्रीणि॑ च ॥ 23 ॥

प्र॒जाप॑ति॒स्तम॑ष्टाद॒शिभि॑ᳶ प्र॒जाप॑तिरकामयतो॒भाव॒स्मै यु॒ञ्जन्ति॒ तेज॒साऽप॑प्राणा अप॒श्रीरू॒र्ध्वां प्र॒जाप॑तिᳶ प्रे॒णाऽनु॑ प्रथ॒मेन॑ प्र॒जाप॑तिरकामयत म॒हान्‌वै॑श्वदे॒वो वा अश्वोऽश्व॑स्य प्र॒जाप॑ति॒स्तय्यँ॑ज्ञक्र॒तुभि॒रप॒श्रीर्ब्रा॑ह्म॒णौ सर्वे॑षु वारु॒णो यद्यश्व॒न्तदा॑हुरे॒ष वै वि॒भूस्ता॒र्प्येणा॑दि॒त्याᳶ प्र॒जाप॑तिं पि॒तर॒य्योँ वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी॒ त्रयो॑विँशतिः ॥ 23 ॥ प्र॒जाप॑तिर॒स्मिल्ँ लो॒क उ॑त्तर॒तश्श्रिय॑मे॒व प्र॒जाप॑तिरकामयत म॒हान्‌यत्प्रा॒तᳶ प्र वा ए॒ष ए॒भ्यो लो॒केभ्य॒स्सर्वँ॑ ह॒ वै तत्र॒ पय॑स्स्व॒द्य उ॑ चैनमे॒वव्वेँद॑ च॒त्वार्यशी॑तिः ॥ 84 ॥ प्र॒जाप॑तिरश्वमे॒धञ्जु॑ह्वति ॥ ॥ हरिः॑ ओम् ॥ श्रीकृष्णार्पणमस्तु ॥ कृष्णयजुर्ब्राह्मणे तृतीयाष्टके नवमप्रपाठकस्समाप्तः ॥