सा॒ङ्ग्र॒ह॒ण्येष्ट्या॑ यजते । इ॒माञ्ज॒नताँ॒ सङ्गृ॑ह्णा॒नीति॑ । द्वाद॑शारत्नी रश॒ना भ॑वति । द्वाद॑श॒ मासा॑स्सव्वँत्स॒रः । सव्ँ॒व॒त्स॒रमे॒वाव॑रुन्धे । मौ॒ञ्जी भ॑वति । ऊर्ग्वै मुञ्जाः॑ । ऊर्ज॑मे॒वाव॑रुन्धे । चि॒त्रा नक्ष॑त्रम्भवति । चि॒त्रव्वाँ ए॒तत्कर्म॑ ॥1॥

यद॑श्वमे॒धस्समृ॑द्ध्यै । पुण्य॑नाम देव॒यज॑नम॒ध्यव॑स्यति । पुण्या॑मे॒व तेन॑ की॒र्तिम॒भिज॑यति । अप॑दातीनृ॒त्विज॑स्स॒माव॑ह॒न्त्या सु॑ब्रह्म॒ण्यायाः॑ । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । के॒श॒श्म॒श्रु व॑पते । न॒खानि॒ निकृ॑न्तते । द॒तो धा॑वते । स्नाति॑ । अह॑तव्ँ॒वास॒ᳶ परि॑धत्ते । पा॒प्मनोऽप॑हत्यै । वाचय्ँ॑य॒त्वोप॑वसति । सु॒व॒र्गस्य॑ लो॒कस्य॒ गुप्त्यै॑ । रात्रि॑ञ्जाग॒रय॑न्त आसते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥2॥

कर्म॑ धत्ते॒ पञ्च॑ च ॥ 1 ॥

चतु॑ष्टय्य॒ आपो॑ भवन्ति । चतु॑श्शफो॒ वा अश्व॑ᳶ प्राजाप॒त्यस्समृ॑द्ध्यै । ता दि॒ग्भ्यस्स॒माभृ॑ता भवन्ति । दि॒क्षु वा आपः॑ । अन्नव्ँ॒वा आपः॑ । अ॒द्भ्यो वा अन्न॑ञ्जायते । यदे॒वाद्भ्योऽन्न॒ञ्जाय॑ते । तदव॑रुन्धे । तासु॑ ब्रह्मौद॒नम्प॑चति । रेत॑ ए॒व तद्द॑धाति ॥3॥

चतु॑श्शरावो भवति । दि॒क्ष्वे॑व प्रति॑तिष्ठति । उ॒भ॒यतो॑रु॒क्मौ भ॑वतः । उ॒भ॒यत॑ ए॒वास्मि॒न्रुच॑न्दधाति । उद्ध॑रति शृत॒त्वाय॑ । स॒र्पिष्वा॑न्भवति मेध्य॒त्वाय॑ । च॒त्वार॑ आर्षे॒याᳶ प्राश्ञ॑न्ति । दि॒शामे॒व ज्योति॑षि जुहोति । च॒त्वारि॒ हिर॑ण्यानि ददाति । दि॒शामे॒व ज्योतीँ॒ष्यव॑रुन्धे ॥4॥

यदाज्य॑मु॒च्छिष्य॑ते । तस्मि॑न्रश॒नान्यु॑नत्ति । प्र॒जाप॑ति॒र्वा ओ॑द॒नः । रेत॒ आज्य॑म् । यदाज्ये॑ रश॒नान्यु॒नत्ति॑ । प्र॒जाप॑तिमे॒व रेत॑सा॒ सम॑र्धयति । द॒र्भ॒मयी॑ रश॒ना भ॑वति । ब॒हु वा ए॒ष कु॑च॒रो॑ मे॒ध्यमुप॑गच्छति । यदश्वः॑ । प॒वित्रव्ँ॒ वै द॒र्भाः ॥5॥

यद्द॑र्भ॒मयी॑ रश॒ना भव॑ति । पु॒नात्ये॒वैन॑म् । पू॒तमे॑न॒म्मेध्य॒माल॑भते । अश्व॑स्य॒ वा आल॑ब्धस्य महि॒मोद॑क्रामत् । स म॒हर्त्वि॑ज॒ᳶ प्रावि॑शत् । तन्म॒हर्त्वि॑जाम्महर्त्वि॒क्त्वम् । यन्म॒हर्त्वि॑जᳶ प्रा॒श्ञन्ति॑ । म॒हि॒मान॑मे॒वास्मि॒न्तद्द॑धति । अश्व॑स्य॒ वा आल॑ब्धस्य॒ रेत॒ उद॑क्रामत् । तत्सु॒वर्णँ॒ हिर॑ण्यमभवत् । यत्सु॒वर्णँ॒ हिर॑ण्य॒न्ददा॑ति । रेत॑ ए॒व तद्द॑धाति । ओ॒द॒ने द॑दाति । रेतो॒ वा ओ॑द॒नः । रेतो॒ हिर॑ण्यम् । रेत॑सै॒वास्मि॒न्रेतो॑ दधाति ॥6॥

द॒धा॒ति॒ रु॒न्धे॒ द॒र्भा अ॑भव॒त्षट् च॑ ॥ 2 ॥

यो वै ब्रह्म॑णे दे॒वेभ्य॑ᳶ प्र॒जाप॑त॒येऽप्र॑तिप्रो॒च्याश्व॒म्मेध्य॑म्ब॒ध्नाति॑ । आ दे॒वता॑भ्यो वृश्च्यते । पापी॑यान्भवति । यᳶ प्र॑ति॒प्रोच्य॑ । न दे॒वता॑भ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति । यदाह॑ । ब्रह्म॒न्नश्व॒म्मेध्य॑म्भन्त्स्यामि दे॒वेभ्य॑ᳶ प्र॒जाप॑तये॒ तेन॑ राध्यास॒मिति॑ । ब्रह्म॒ वै ब्र॒ह्मा । ब्रह्म॑ण ए॒व दे॒वेभ्य॑ᳶ प्र॒जाप॑तये प्रति॒प्रोच्याश्व॒म्मेध्य॑म्बध्नाति ॥7॥

न दे॒वता॑भ्य॒ आ वृ॑श्च्यते । वसी॑यान्भवति । दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॑ रश॒नामाद॑त्ते॒ प्रसू॑त्यै । अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् । पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ । व्यृ॑द्धव्ँ॒वा ए॒तद्य॒ज्ञस्य॑ । यद॑य॒जुष्के॑ण क्रि॒यते॑ । इ॒माम॑गृभ्णन्रश॒नामृ॒तस्येत्यधि॑वदति॒ यजु॑ष्कृत्यै । य॒ज्ञस्य॒ समृ॑द्ध्यै ॥8॥

तदा॑हुः । द्वाद॑शारत्नी रश॒ना क॑र्त॒व्या ३ त्रयो॑दशार॒त्नी ३ रिति॑ । ऋ॒ष॒भो वा ए॒ष ऋ॑तू॒नाम् । यत्सव्ँ॑वत्स॒रः । तस्य॑ त्रयोद॒शो मासो॑ वि॒ष्टप॑म् । ऋ॒ष॒भ ए॒ष य॒ज्ञाना॑म् । यद॑श्वमे॒धः । यथा॒ वा ऋ॑ष॒भस्य॑ वि॒ष्टप॑म् । ए॒वमे॒तस्य॑ वि॒ष्टप॑म् । त्र॒यो॒द॒शम॑र॒त्निँ र॑श॒नाया॑मु॒पाद॑धाति ॥9॥

यथ॑र्ष॒भस्य॑ वि॒ष्टपँ॑ सस्क॒रोति॑ । ता॒दृगे॒व तत् । पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्येत्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । तया॑ दे॒वास्सु॒तमा ब॑भूवु॒रित्या॑ह । भूति॑मे॒वोपाव॑र्तते । ऋ॒तस्य॒ साम॑न्त्स॒रमा॒रप॒न्तीत्या॑ह । स॒त्यव्वाँ ऋ॒तम् । स॒त्येनै॒वैन॑मृ॒तेनार॑भते । अ॒भि॒धा अ॒सीत्या॑ह ॥10॥

तस्मा॑दश्वमेधया॒जी सर्वा॑णि भू॒तान्य॒भिभ॑वति । भुव॑नम॒सीत्या॑ह । भू॒मान॑मे॒वोपै॑ति । य॒न्ताऽसीत्या॑ह । य॒न्तार॑मे॒वैन॑ङ्करोति । ध॒र्तासीत्या॑ह । ध॒र्तार॑मे॒वैन॑ङ्करोति । सो॑ऽग्निव्वैँ॑श्वान॒रमित्या॑ह । अ॒ग्नावे॒वैनव्ँ॑ वैश्वान॒रे जु॑होति । सप्र॑थस॒मित्या॑ह ॥11॥

प्र॒जयै॒वैन॑म्प॒शुभि॑ᳶ प्रथयति । स्वाहा॑कृत॒ इत्या॑ह । होम॑ ए॒वास्यै॒षः । पृ॒थि॒व्यामित्या॑ह । अ॒स्यामे॒वैन॒म्प्रति॑ष्ठापयति । य॒न्ता राड्य॒न्ताऽसि॒ यम॑नो ध॒र्तासि॑ ध॒रुण॒ इत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्याँच॑ष्टे । कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य॒ त्वेत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । स्व॒गा त्वा॑ दे॒वेभ्य॒ इत्या॑ह । दे॒वेभ्य॑ ए॒वैन॑ स्व॒गा क॑रोति । स्वाहा॑ त्वा प्र॒जाप॑तय॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । यस्या॑ ए॒व दे॒वता॑या आल॒भ्यते॑ । तयै॒वैनँ॒ सम॑र्धयति ॥12॥

ब॒ध्ना॒ति॒ समृ॑द्ध्या उ॒पाद॑धात्य॒सीत्या॑ह॒ सप्र॑थस॒मित्या॑ह दे॒वेभ्य॒ इत्या॑ह॒ पञ्च॑ च ॥ 3 ॥

यᳶ पि॒तुर॑नु॒जाया॑ᳶ पु॒त्रः । स पु॒रस्ता॑न्नयति । यो मा॒तुर॑नु॒जाया॑ᳶ पु॒त्रः । स प॒श्चान्न॑यति । विष्व॑ञ्चमे॒वास्मा॑त्पा॒प्मानव्ँ॒विवृ॑हतः । यो अर्व॑न्त॒ञ्जिघाँ॑सति॒ तम॒भ्य॑मीति॒ वरु॑ण॒ इति॒ श्वान॑ञ्चतुर॒क्षम्प्रसौ॑ति । प॒रो मर्त॑ᳶ प॒रश्श्वेति॒ शुन॑श्चतुर॒क्षस्य॒ प्रह॑न्ति । श्वेव॒ वै पा॒प्मा भ्रातृ॑व्यः । पा॒प्मान॑मे॒वास्य॒ भ्रातृ॑व्यँ हन्ति । सै॒ध्र॒कम्मुस॑लम्भवति ॥13॥

कर्म॑कर्मै॒वास्मै॑ साधयति । पौँ॒श्च॒ले॒यो ह॑न्ति । पु॒॒श्च॒ल्वाव्वैँ दे॒वाश्शुच॒न्न्य॑दधुः । शु॒चैवास्य॒ शुचँ॑ हन्ति । पा॒प्मा वा ए॒तमी॑प्स॒तीत्या॑हुः । यो॑ऽश्वमे॒धेन॒ यज॑त॒ इति॑ । अश्व॑स्याधस्प॒दमुपा॑स्यति । व॒ज्री वा अश्व॑ᳶ प्राजाप॒त्यः । वज्रे॑णै॒व पा॒प्मान॒म्भ्रातृ॑व्य॒मव॑क्रामति । द॒क्षि॒णाऽप॑प्लावयति ॥14॥

पा॒प्मान॑मे॒वास्मा॒च्छम॑ल॒मप॑प्लावयति । ऐ॒षी॒क उ॑दू॒हो भ॑वति । आयु॒र्वा इ॒षीकाः॑ । आयु॑रे॒वास्मि॑न्दधति । अ॒मृतव्ँ॒वा इ॒षीकाः॑ । अ॒मृत॑मे॒वास्मि॑न्दधति । वे॒त॒स॒शा॒खोप॒सम्ब॑द्धा भवति । अ॒प्सुयो॑नि॒र्वा अश्वः॑ । अ॒प्सु॒जो वे॑त॒सः । स्वादे॒वैनय्ँ॒योने॒र्निर्मि॑मीते । पु॒रस्ता॑त्प्र॒त्यञ्च॑म॒भ्युदू॑हति । पु॒रस्ता॑दे॒वास्मि॑न्प्र॒तीच्य॒मृत॑न्दधाति । अ॒हञ्च॒ त्वञ्च॑ वृत्रह॒न्निति॑ ब्र॒ह्मा यज॑मानस्य॒ हस्त॑ङ्गृह्णाति । ब्र॒ह्म॒क्ष॒त्रे ए॒व सन्द॑धाति । अ॒भिक्रत्वे॑न्द्र भू॒रध॒ज्मन्नित्य॑ध्व॒र्युर्यज॑मानव्वाँचयत्य॒भिजि॑त्यै ॥ 15॥

भ॒व॒ति॒ प्ला॒व॒य॒ति॒ मि॒मी॒ते॒ पञ्च॑ च ॥ 4 ॥

च॒त्वार॑ ऋ॒त्विज॒स्समु॑क्षन्ति । आ॒भ्य ए॒वैन॑ञ्चत॒सृभ्यो॑ दि॒ग्भ्यो॑ऽभिसमी॑रयन्ति । श॒तेन॑ राजपु॒त्रैस्स॒हाध्व॒र्युः । पु॒रस्ता॑त्प्र॒त्यङ्तिष्ठ॒न्प्रोक्ष॑ति । अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा । अ॒यँ राजा॑ वृ॒त्रव्वँ॑ध्या॒दिति॑ । रा॒ज्यव्वाँ अ॑ध्व॒र्युः । क्ष॒त्रँ रा॑जपु॒त्रः । रा॒ज्येनै॒वास्मि॑न्क्ष॒त्रन्द॑धाति । श॒तेना॑ रा॒जभि॑रु॒ग्रैस्स॒ह ब्र॒ह्मा ॥16॥

द॒क्षि॒ण॒त उद॒ङ्तिष्ठ॒न्प्रोक्ष॑ति । अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा । अ॒यँ राजा॑प्रतिधृ॒ष्यो॑ऽस्त्विति॑ । बलव्ँ॒ वै ब्र॒ह्मा । बल॑मरा॒जोग्रः । बले॑नै॒वास्मि॒न्बल॑न्दधाति । श॒तेन॑ सूतग्राम॒णिभि॑स्स॒ह होता॑ । प॒श्चात्प्राङ्तिष्ठ॒न्प्रोक्ष॑ति । अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा । अ॒यँ राजा॒ऽस्यै वि॒शः ॥17॥

ब॒हु॒ग्वै ब॑ह्व॒श्वायै॑ बह्वजावि॒कायै॑ । ब॒हु॒व्री॒हि॒य॒वायै॑ बहुमाषति॒लायै॑ । ब॒हु॒हि॒र॒ण्यायै॑ बहुह॒स्तिका॑यै । ब॒हु॒दा॒स॒पू॒रु॒षायै॑ रयि॒मत्यै॒ पुष्टि॑मत्यै । ब॒हु॒रा॒य॒स्पो॒षायै॒ राजा॒स्त्विति॑ । भू॒मा वै होता॑ । भू॒मा सू॑तग्राम॒ण्यः॑ । भू॒म्नैवास्मि॑न्भू॒मान॑न्दधाति । श॒तेन॑ क्षत्तसङ्ग्रही॒तृभि॑स्स॒होद्गा॒ता । उ॒त्त॒र॒तो द॑क्षि॒णा तिष्ठ॒न्प्रोक्ष॑ति ॥18॥

अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा । अ॒यँ राजा॒ सर्व॒मायु॑रे॒त्विति॑ । आयु॒र्वा उ॑द्गा॒ता । आयुः॑ क्षत्तसङ्ग्रही॒तारः॑ । आयु॑षै॒वास्मि॒न्नायु॑र्दधाति । श॒तँश॑तम्भवन्ति । श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । च॒तु॒श्श॒ता भ॑वन्ति । चत॑स्रो॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑ तिष्ठति ॥19॥

ब्र॒ह्मा वि॒श उ॑क्षति॒ दिश॒ एक॑ञ्च ॥ 5 ॥

यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वव्वाँ ए॒तदश्व॑स्य स्कन्दति । यन्नि॒क्तमना॑लब्धमुत्सृ॒जन्ति॑ । यत्स्तोक्या॑ अ॒न्वाह॑ । स॒र्व॒हुत॑मे॒वैन॑ङ्करो॒त्यस्क॑न्दाय । अस्क॑न्नँ॒ हि तत् । यद्धु॒तस्य॒ स्कन्द॑ति । स॒हस्र॒मन्वा॑ह । स॒हस्र॑सम्मितस्सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ॥20॥

यत्परि॑मिता अनुब्रू॒यात् । परि॑मित॒मव॑ रुन्धीत । अप॑रिमिता॒ अन्वा॑ह । अप॑रिमितस्सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । स्तोक्या॑ जुहोति । या ए॒व वर्ष्या॒ आपः॑ । ता अव॑ रुन्धे । अ॒स्याञ्जु॑होति । इ॒यव्वाँ अ॒ग्निर्वै॑श्वान॒रः ॥21॥

अ॒स्यामे॒वैना॒ᳶ प्रति॑ष्ठापयति । उ॒वाच॑ ह प्र॒जाप॑तिः । स्तोक्या॑सु॒ वा अ॒हम॑श्वमे॒धँ सस्था॑पयामि । तेन॒ तत॒स्सस्थि॑तेन चरा॒मीति॑ । अ॒ग्नये॒ स्वाहेत्या॑ह । अ॒ग्नय॑ ए॒वैन॑ञ्जुहोति । सोमा॑य॒ स्वाहेत्या॑ह । सोमा॑यै॒वैन॑ञ्जुहोति । स॒वि॒त्रे स्वाहेत्या॑ह । स॒वि॒त्र ए॒वैन॑ञ्जुहोति ॥22॥

सर॑स्वत्यै॒ स्वाहेत्या॑ह । सर॑स्वत्या ए॒वैन॑ञ्जुहोति । पू॒ष्णे स्वाहेत्या॑ह । पू॒ष्ण ए॒वैन॑ञ्जुहोति । बृह॒स्पत॑ये॒ स्वाहेत्या॑ह । बृह॒स्पत॑य ए॒वैन॑ञ्जुहोति । अ॒पाम्मोदा॑य॒ स्वाहेत्या॑ह । अ॒द्भ्य ए॒वैन॑ञ्जुहोति । वा॒यवे॒ स्वाहेत्या॑ह । वा॒यव॑ ए॒वैन॑ञ्जुहोति ॥23॥

मि॒त्राय॒ स्वाहेत्या॑ह । मि॒त्रायै॒वैन॑ञ्जुहोति । वरु॑णाय॒ स्वाहेत्या॑ह । वरु॑णायै॒वैन॑ञ्जुहोति । ए॒ताभ्य॑ ए॒वैन॑न्दे॒वता॑भ्यो जुहोति । दश॑दश स॒म्पाद॑ञ्जुहोति । दशा॑क्षरा वि॒राट् । अन्नव्ँ॑वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे । प्र वा ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते । यᳶ परा॑ची॒राहु॑तीर्जु॒होति॑ । पुन॑ᳶपुनरभ्या॒वर्त॑ञ्जुहोति । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । ए॒ताँ ह वाव सो॑ऽश्वमे॒धस्य॒ सस्थि॑तिमुवा॒चास्क॑न्दाय । अस्क॑न्नँ॒ हि तत् । यद्य॒ज्ञस्य॒ सस्थि॑तस्य॒ स्कन्द॑ति ॥24॥

अ॒भिजि॑त्यै वैश्वान॒रस्स॑वि॒त्र ए॒वैनं॑ जुहोति वा॒यव॑ ए॒वैनं॑ जुहोति च्यवते॒ षट् च॑ ॥ 6 ॥

प्र॒जाप॑तये त्वा॒ जुष्ट॒म्प्रोक्षा॒मीति॑ पु॒रस्ता॑त्प्र॒त्यङ्तिष्ठ॒न्प्रोक्ष॑ति । प्र॒जाप॑ति॒र्वै दे॒वाना॑मन्ना॒दो वी॒र्या॑वान् । अ॒न्नाद्य॑मे॒वास्मि॑न्वी॒र्य॑न्दधाति । तस्मा॒दश्व॑ᳶ पशू॒नाम॑न्ना॒दो वी॒र्या॑वत्तमः । इ॒न्द्रा॒ग्निभ्या॒न्त्वेति॑ दक्षिण॒तः । इ॒न्द्रा॒ग्नी वै दे॒वाना॒मोजि॑ष्ठौ॒ बलि॑ष्ठौ । ओज॑ ए॒वास्मि॒न्बल॑न्दधाति । तस्मा॒दश्व॑ᳶ पशू॒नामोजि॑ष्ठो॒ बलि॑ष्ठः । वा॒यवे॒ त्वेति॑ प॒श्चात् । वा॒युर्वै दे॒वाना॑मा॒शुस्सा॑रसा॒रित॑मः ॥25॥

ज॒वमे॒वास्मि॑न्दधाति । तस्मा॒दश्व॑ᳶ पशू॒नामा॒शुस्सा॑रसा॒रित॑मः । विश्वे॑भ्यस्त्वा दे॒वेभ्य॒ इत्यु॑त्तर॒तः । विश्वे॒ वै दे॒वा दे॒वाना॑य्यँश॒स्वित॑माः । यश॑ ए॒वास्मि॑न्दधाति । तस्मा॒दश्व॑ᳶ पशू॒नाय्यँ॑श॒स्वित॑मः । दे॒वेभ्य॒स्त्वेत्य॒धस्ता॑त् । दे॒वा वै दे॒वाना॒मप॑चिततमाः । अप॑चितिमे॒वास्मि॑न्दधाति । तस्मा॒दश्व॑ᳶ पशू॒नामप॑चिततमः ॥26॥

सर्वे॑भ्यस्त्वा दे॒वेभ्य॒ इत्यु॒परि॑ष्टात् । सर्वे॒ वै दे॒वास्त्विषि॑मन्तो हर॒स्विनः॑ । त्विषि॑मे॒वास्मि॒न् हरो॑ दधाति । तस्मा॒दश्व॑ᳶ पशू॒नान्त्विषि॑मान्‌हर॒स्वित॑मः । दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेत्या॑ह । ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्य॒ᳶ प्रोक्ष॑ति । स॒ते त्वाऽस॑ते त्वा॒ऽद्भ्यस्त्वौष॑धीभ्यस्त्वा॒ विश्वे॑भ्यस्त्वा भू॒तेभ्य॒ इत्या॑ह । तस्मा॑दश्वमेधया॒जिनँ॒ सर्वा॑णि भू॒तान्युप॑जीवन्ति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यत्प्रा॑जाप॒त्योऽश्वः॑ । अथ॒ कस्मा॑देनम॒न्याभ्यो॑ दे॒वता॒भ्योऽपि॒ प्रोक्ष॒तीति॑ । अश्वे॒ वै सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः । तय्यँद्विश्वे॑भ्यस्त्वा भू॒तेभ्य॒ इति॑ प्रो॒क्षति॑ । दे॒वता॑ ए॒वास्मि॑न्न॒न्वा या॑तयति । तस्मा॒दश्वे॒ सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः ॥27॥

सा॒र॒सा॒रित॒मोऽप॑चिततमᳶ प्राजाप॒त्योऽश्व॒ᳶ पञ्च॑ च ॥ 7 ॥

यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वव्वाँ ए॒तदश्व॑स्य स्कन्दति । यत्प्रोक्षि॑त॒मना॑लब्धमुत्सृ॒जन्ति॑ । यद॑श्वचरि॒तानि॑ जु॒होति॑ । स॒र्व॒हुत॑मे॒वैन॑ङ्करो॒त्यस्क॑न्दाय । अस्क॑न्नँ॒ हि तत् । यद्धु॒तस्य॒ स्कन्द॑ति । ई॒ङ्का॒राय॒ स्वाहेङ्कृ॑ताय॒ स्वाहेत्या॑ह । ए॒तानि॒ वा अ॑श्वचरि॒तानि॑ । च॒रि॒तैरे॒वैनँ॒ सम॑र्धयति ॥28॥

तदा॑हुः । अना॑हुतयो॒ वा अ॑श्वचरि॒तानि॑ । नैता हो॑त॒व्या॑ इति॑ । अथो॒ खल्वा॑हुः । हो॒त॒व्या॑ ए॒व । अत्र॒ वावैवव्विँ॒द्वान॑श्वमे॒धँ सस्था॑पयति । यद॑श्वचरि॒तानि॑ जु॒होति॑ । तस्मा॑द्धोत॒व्या॑ इति॑ । ब॒हि॒र्धा वा ए॑नमे॒तदा॒यत॑नाद्दधाति । भ्रातृ॑व्यमस्मै जनयति ॥29॥

यस्या॑नायत॒ने॑ऽन्यत्रा॒ग्नेराहु॑तीर्जु॒होति॑ । सा॒वि॒त्रि॒या इष्ट्या॑ᳶ पु॒रस्ता॑त्स्विष्ट॒कृतः॑ । आ॒ह॒व॒नीये॑ऽश्वचरि॒तानि॑ जुहोति । आ॒यत॑न ए॒वास्याहु॑तीर्जुहोति । नास्मै॒ भ्रातृ॑व्यञ्जनयति । तदा॑हुः । य॒ज्ञ॒मु॒खेय॑ज्ञमुखे होत॒व्याः॑ । य॒ज्ञस्य॒ कॢप्त्यै॑ । सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या॒ इति॑ । अथो॒ खल्वा॑हुः ॥30॥

यद्य॑ज्ञमु॒खेय॑ज्ञमुखे जुहु॒यात् । प॒शुभि॒र्यज॑मान॒व्व्यँ॑र्धयेत् । अव॑ सुव॒र्गाल्लो॒कात्प॑द्येत । पापी॑यान्त्स्या॒दिति॑ । स॒कृदे॒व हो॑त॒व्याः॑ । न यज॑मानम्प॒शुभि॒र्व्य॑र्धयति । अ॒भि सु॑व॒र्गल्लोँ॒कञ्ज॑यति । न पापी॑यान्भवति । अ॒ष्टाच॑त्वारिँशतमश्वरू॒पाणि॑ जुहोति । अ॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती । जाग॒तोऽश्व॑ᳶ प्राजाप॒त्यस्समृ॑द्ध्यै । एक॒मति॑रिक्तञ्जुहोति । तस्मा॒देक॑ᳶ प्र॒जास्वर्धु॑कः ॥31॥

अ॒र्ध॒य॒ति॒ ज॒न॒य॒ति॒ खल्वा॑हु॒र्जग॑ती॒ त्रीणि॑ च ॥ 8 ॥

वि॒भूर्मा॒त्रा प्र॒भूᳶ पि॒त्रेत्या॑ह । इ॒यव्वैँ मा॒ता । अ॒सौ पि॒ता । आ॒भ्यामे॒वैन॒म्परि॑ददाति । अश्वो॑ऽसि॒ हयो॒ऽसीत्या॑ह । शास्त्ये॒वैन॑मे॒तत् । तस्मा॑च्छि॒ष्टाᳶ प्र॒जा जा॑यन्ते । अत्यो॒ऽसीत्या॑ह । तस्मा॒दश्व॒स्सर्वा॑न्प॒शूनत्ये॑ति । तस्मा॒दश्व॒स्सर्वे॑षाम्पशू॒नाँ श्रैष्ठ्य॑ङ्गच्छति ॥ 32॥

प्र यश॒श्श्रैष्ठ्य॑माप्नोति । य ए॒वव्वेँद॑ । नरो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्याँच॑ष्टे । ययु॒र्नामा॒ऽसीत्या॑ह । ए॒तद्वा अश्व॑स्य प्रि॒यन्ना॑म॒धेय॑म् । प्रि॒येणै॒वैन॑न्नाम॒धेये॑ना॒भिव॑दति । तस्मा॒दप्या॑मि॒त्रौ स॒ङ्गत्य॑ । नाम्ना॒ चेद्ध्वये॑ते । मि॒त्रमे॒व भ॑वतः ॥33॥

आ॒दि॒त्याना॒म्पत्वाऽन्वि॒हीत्या॑ह । आ॒दि॒त्याने॒वैन॑ङ्गमयति । अ॒ग्नये॒ स्वाहा॒ स्वाहे॑न्द्रा॒ग्निभ्या॒मिति॑ पूर्वहो॒माञ्जु॑होति । पूर्व॑ ए॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑क्रामति । भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वेत्युत्सृ॑जति सर्व॒त्वाय॑ । देवा॑ आशापाला ए॒तन्दे॒वेभ्योऽश्व॒म्मेधा॑य॒ प्रोक्षि॑तङ्गोपाय॒तेत्या॑ह । श॒तव्वैँ तल्प्या॑ राजपु॒त्रा दे॒वा आ॑शापा॒लाः । तेभ्य॑ ए॒वैन॒म्परि॑ददाति । ई॒श्व॒रो वा अश्व॒ᳶ प्रमु॑क्त॒ᳶ परा॑म्परा॒वत॒ङ्गन्तोः॑ । इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहेति॑ चतृ॒षु प॒त्सु जु॑होति ॥34॥

ए॒ता वा अश्व॑स्य॒ बन्ध॑नम् । ताभि॑रे॒वैन॑म्बध्नाति । तस्मा॒दश्व॒ᳶ प्रमु॑क्तो॒ बन्ध॑न॒माग॑च्छति । तस्मा॒दश्व॒ᳶ प्रमु॑क्तो॒ बन्ध॑न॒न्न ज॑हाति । रा॒ष्ट्रव्वाँ अ॑श्वमे॒धः । रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते । येऽश्व॒म्मेध्यँ॒ रक्ष॑न्ति । तेषाय्ँ॒य उ॒दृच॒ङ्गच्छ॑न्ति । रा॒ष्ट्रादे॒व ते रा॒ष्ट्रङ्ग॑च्छन्ति । अथ॒ य उ॒दृच॒न्न गच्छ॑न्ति ॥35॥

रा॒ष्ट्रादे॒व ते व्यव॑च्छिद्यन्ते । परा॒ वा ए॒ष सि॑च्यते । यो॑ऽब॒लो॑ऽश्वमे॒धेन॒ यज॑ते । यद॒मित्रा॒ अश्वव्ँ॑वि॒न्देर॑न् । ह॒न्येता॑स्य य॒ज्ञः । च॒तु॒श्श॒ता र॑क्षन्ति । य॒ज्ञस्याघा॑ताय । अथा॒न्यमा॒नीय॒ प्रोक्षे॑युः । सैव तत॒ᳶ प्राय॑श्चित्तिः ॥36॥

ग॒च्छ॒ति॒ भ॒व॒तः॒ प॒त्सु जु॑होति॒ न गच्छ॑न्ति॒ नव॑ च ॥ 9 ॥

प्र॒जाप॑तिरकामयताश्वमे॒धेन॑ यजे॒येति॑ । स तपो॑ऽतप्यत । तस्य॑ तेपा॒नस्य॑ । स॒प्तात्मनो॑ दे॒वता॒ उद॑क्रामन् । सा दी॒क्षाऽभ॑वत् । स ए॒तानि॑ वैश्वदे॒वान्य॑पश्यत् । तान्य॑जुहोत् । तैर्वै स दी॒क्षामवा॑रुन्ध । यद्वै॑श्वदे॒वानि॑ जु॒होति॑ । दी॒क्षामे॒व तैर्यज॑मा॒नोऽव॑रुन्धे ॥37॥

स॒प्त जु॑होति । स॒प्त हि ता दे॒वता॑ उ॒दक्रा॑मन् । अ॒न्व॒हञ्जु॑होति । अ॒न्व॒हमे॒व दी॒क्षामव॑रुन्धे । त्रीणि॑ वैश्वदे॒वानि॑ जुहोति । च॒त्वार्यौ॑द्ग्रह॒णानि॑ । स॒प्त सम्प॑द्यन्ते । स॒प्त वै शी॑र्ष॒ण्या॑ᳶ प्रा॒णाः । प्रा॒णा दी॒क्षा । प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑रुन्धे ॥38॥

एक॑विँशतिव्वैँश्वदे॒वानि॑ जुहोति । एक॑विँशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कविँ॒शः । ए॒ष सु॑व॒र्गो लो॒कः । तद्दैव्य॑ङ्क्ष॒त्रम् । सा श्रीः । तद्ब्र॒ध्नस्य॑ वि॒ष्टप॑म् । तत्स्वारा॑ज्यमुच्यते ॥39॥

त्रिँ॒शत॑मौद्ग्रह॒णानि॑ जुहोति । त्रिँ॒शद॑क्षरा वि॒राट् । अन्नव्ँ॑वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । त्रे॒धा वि॒भज्य॑ दे॒वता॑ञ्जुहोति । त्र्या॑वृतो॒ वै दे॒वाः । त्र्या॑वृत इ॒मे लो॒काः । ए॒षाल्ँ लो॒काना॒माप्त्यै॑ । ए॒षाल्ँ लो॒काना॒ङ्कॢप्त्यै॑ । अप॒ वा ए॒तस्मा॑त्प्रा॒णाᳶ क्रा॑मन्ति ॥40॥

यो दी॒क्षाम॑तिरे॒चय॑ति । स॒प्ता॒हम्प्रच॑रन्ति । स॒प्त वै शी॑र्ष॒ण्या॑ᳶ प्रा॒णाः । प्रा॒णा दी॒क्षा । प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑रुन्धे । पू॒र्णा॒हु॒तिमु॑त्त॒माञ्जु॑होति । सर्वव्ँ॒ वै पू॑र्णाहु॒तिः । सर्व॑मे॒वाप्नो॑ति । अथो॑ इ॒यव्ँ वै पू॑र्णाहु॒तिः । अ॒स्यामे॒व प्रति॑तिष्ठति ॥41॥

रु॒न्धे॒ प्रा॒णान्दी॒क्षामव॑ रुन्ध उच्यते क्रामन्ति तिष्ठति ॥ 10 ॥

प्र॒जाप॑तिरश्वमे॒धम॑सृजत । तँ सृ॒ष्टन्न किञ्च॒नोद॑यच्छत् । तव्ँ वै॑श्वदे॒वान्ये॒वोद॑यच्छन् । यद्वै॑श्वदे॒वानि॑ जु॒होति॑ । य॒ज्ञस्योद्य॑त्यै । स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहा॑ । स्वाहाऽधी॑त॒म्मन॑से॒ स्वाहा॑ । स्वाहा॒ मन॑ᳶ प्र॒जाप॑तये॒ स्वाहा॑ । काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहेति॑ प्राजाप॒त्ये मुख्ये॑ भवतः । प्र॒जाप॑तिमुखाभिरे॒वैन॑न्दे॒वता॑भि॒रुद्य॑च्छते ॥42॥

अदि॑त्यै॒ स्वाहाऽदि॑त्यै म॒ह्यै॑ स्वाहाऽदि॑त्यै सुमृडी॒कायै॒ स्वाहेत्या॑ह । इ॒यव्ँ वा अदि॑तिः । अ॒स्या ए॒वैन॑म्प्रति॒ष्ठायोद्य॑च्छते । सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै॑ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहेत्या॑ह । वाग्वै सर॑स्वती । वा॒चैवैन॒मुद्य॑च्छते । पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहेत्या॑ह । प॒शवो॒ वै पू॒षा । प॒शुभि॑रे॒वैन॒मुद्य॑च्छते । त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहेत्या॑ह । त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृत् । रू॒पमे॒व प॒शुषु॑ दधाति । अथो॑ रू॒पैरे॒वैन॒मुद्य॑च्छते । विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहेत्या॑ह । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञायै॒वैन॒मुद्य॑च्छते । पू॒र्णा॒हु॒तिमु॑त्त॒माञ्जु॑होति । प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ॥43॥

य॒च्छ॒ते॒ पु॒रु॒रूपा॑य॒ स्वाहेत्या॑हा॒ष्टौ च॑ ॥ 11 ॥

सा॒वि॒त्रम॒ष्टाक॑पालम्प्रा॒तर्निर्व॑पति । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रम्प्रा॑तस्सव॒नम् । प्रा॒त॒स्स॒व॒नादे॒वैन॑ङ्गायत्रि॒याश्छन्द॒सोऽधि॒ निर्मि॑मीते । अथो॑ प्रातस्सव॒नमे॒व तेना॑प्नोति । गा॒य॒त्रीञ्छन्दः॑ । स॒वि॒त्रे प्र॑सवि॒त्र एका॑दशकपालम्म॒ध्यन्दि॑ने । एका॑दशाक्षरा त्रि॒ष्टुप् । त्रैष्टु॑भ॒म्माध्य॑न्दिनँ॒ सव॑नम् । माध्य॑न्दिनादे॒वैनँ॒ सव॑नात्त्रि॒ष्टुभ॒श्छन्द॒सोऽधि॒ निर्मि॑मीते ॥44॥

अथो॒ माध्य॑न्दिनमे॒व सव॑न॒न्तेना॑प्नोति । त्रि॒ष्टुभ॒ञ्छन्दः॑ । स॒वि॒त्र आ॑सवि॒त्रे द्वाद॑शकपालमपरा॒ह्णे । द्वाद॑शाक्षरा॒ जग॑ती । जाग॑तन्तृतीयसव॒नम् । तृ॒ती॒य॒स॒व॒नादे॒वैन॒ञ्जग॑त्या॒श्छन्द॒सोऽधि॒ निर्मि॑मीते । अथो॑ तृतीयसव॒नमे॒व तेना॑प्नोति । जग॑ती॒ञ्छन्दः॑ । ई॒श्व॒रो वा अश्व॒ᳶ प्रमु॑क्त॒ᳶ परा॑म्परा॒वत॒ङ्गन्तोः॑ । इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहेति॒ चत॑स्र॒ आहु॑तीर्जुहोति ॥45॥

चत॑स्रो॒ दिशः॑ । दि॒ग्भिरे॒वैन॒म्परि॑गृह्णाति । आश्व॑त्थो व्र॒जो भ॑वति । प्र॒जाप॑तिर्दे॒वेभ्यो॒ निला॑यत । अश्वो॑ रू॒पङ्कृ॒त्वा । सो॑ऽश्व॒त्थे सव्ँ॑वत्स॒रम॑तिष्ठत् । तद॑श्व॒त्थस्या॑श्वत्थ॒त्वम् । यदाश्व॑त्थो व्र॒जो भव॑ति । स्व ए॒वैनय्ँ॒योनौ॒ प्रति॑ष्ठापयति ॥46॥

त्रि॒ष्टुभ॒श्छन्द॒सोऽधि॒ निर्मि॑मीते जुहोति॒ नव॑ च ॥ 12 ॥

आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मित्या॑ह । ब्रा॒ह्म॒ण ए॒व ब्र॑ह्मवर्च॒सन्द॑धाति । तस्मा॑त्पु॒रा ब्रा॑ह्म॒णो ब्र॑ह्मवर्च॒स्य॑जायत । आऽस्मिन्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो जा॑यता॒मित्या॑ह । रा॒ज॒न्य॑ ए॒व शौ॒र्यम्म॑हि॒मान॑न्दधाति । तस्मा॑त्पु॒रा रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो॑ऽजायत । दोग्ध्री॑ धे॒नुरित्या॑ह । धे॒न्वामे॒व पयो॑ दधाति । तस्मा॑त्पु॒रा दोग्ध्री॑ धे॒नुर॑जायत । वोढा॑ऽन॒ड्वानित्या॑ह ॥47॥

अ॒न॒डुह्ये॒व वी॒र्य॑न्दधाति । तस्मा॑त्पु॒रा वोढा॑ऽन॒ड्वान॑जायत । आ॒शुस्सप्ति॒रित्या॑ह । अश्व॑ ए॒व ज॒वन्द॑धाति । तस्मा॑त्पु॒राऽऽशुरश्वो॑ऽजायत । पुर॑न्धि॒र्योषेत्या॑ह । यो॒षित्ये॒व रू॒पन्द॑धाति । तस्मा॒त्स्त्री यु॑व॒तिᳶ प्रि॒या भावु॑का । जि॒ष्णू र॑थे॒ष्ठा इत्या॑ह । आ ह॒ वै तत्र॑ जि॒ष्णू र॑थे॒ष्ठा जा॑यते ॥48॥

यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । स॒भेयो॒ युवेत्या॑ह । यो वै पू॑र्ववय॒सी । स स॒भेयो॒ युवा॑ । तस्मा॒द्युवा॒ पुमा॑न्प्रि॒यो भावु॑कः । आऽस्य यज॑मानस्य वी॒रो जा॑यता॒मित्या॑ह । आ ह॒ वै तत्र॒ यज॑मानस्य वी॒रो जा॑यते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । नि॒का॒मेनि॑कामे नᳶ प॒र्जन्यो॑ वर्ष॒त्वित्या॑ह । नि॒का॒मेनि॑कामे ह॒ वै तत्र॑ प॒र्जन्यो॑ वर्षति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । फ॒लिन्यो॑ न॒ ओष॑धयᳶ पच्यन्ता॒मित्या॑ह । फ॒लिन्यो॑ ह॒ वै तत्रौष॑धयᳶ पच्यन्ते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । यो॒ग॒क्षे॒मो न॑ᳶ कल्पता॒मित्या॑ह । कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥49॥

अ॒न॒ड्वानित्या॑ह जायते वर्षति स॒प्त च॑ ॥ 13 ॥

प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् । स आ॒त्मन्न॑श्वमे॒धम॑धत्त । तन्दे॒वा अ॑ब्रुवन् । ए॒ष वाव य॒ज्ञः । यद॑श्वमे॒धः । अप्ये॒व नोत्रा॒स्त्विति॑ । तेभ्य॑ ए॒तान॑न्नहो॒मान्प्राय॑च्छत् । तान॑जुहोत् । तैर्वै स दे॒वान॑प्रीणात् । यद॑न्नहो॒माञ्जु॒होति॑ ॥50॥

दे॒वाने॒व तैर्यज॑मानᳶ प्रीणाति । आज्ये॑न जुहोति । अ॒ग्नेर्वा ए॒तद्रू॒पम् । यदाज्य॑म् । यदाज्ये॑न जु॒होति॑ । अ॒ग्निमे॒व तत्प्री॑णाति । मधु॑ना जुहोति । म॒ह॒त्यै वा ए॒तद्दे॒वता॑यै रू॒पम् । यन्मधु॑ । यन्मधु॑ना जु॒होति॑ ॥51॥

म॒ह॒तीमे॒व तद्दे॒वता॑म्प्रीणाति । त॒ण्डु॒लैर्जु॑होति । वसू॑नाव्ँ॒वा ए॒तद्रू॒पम् । यत्त॑ण्डु॒लाः । यत्त॑ण्डु॒लैर्जु॒होति॑ । वसू॑ने॒व तत्प्री॑णाति । पृथु॑कैर्जुहोति । रु॒द्राणाव्ँ॒वा ए॒तद्रू॒पम् । यत्पृथु॑काः । यत्पृथु॑कैर्जु॒होति॑ ॥52॥

रु॒द्राने॒व तत्प्री॑णाति । ला॒जैर्जु॑होति । आ॒दि॒त्यानाव्ँ॒वा ए॒तद्रू॒पम् । यल्ला॒जाः । यल्ला॒जैर्जु॒होति॑ । आ॒दि॒त्याने॒व तत्प्री॑णाति । क॒रम्बै॑र्जुहोति । विश्वे॑षाव्ँ॒वा ए॒तद्दे॒वानाँ॑ रू॒पम् । यत्क॒रम्बाः॑ । यत्क॒रम्बै॑र्जु॒होति॑ ॥ 53॥

विश्वा॑ने॒व तद्दे॒वान्प्री॑णाति । धा॒नाभि॑र्जुहोति । नक्ष॑त्त्राणाव्ँ॒वा ए॒तद्रू॒पम् । यद्धा॒नाः । यद्धा॒नाभि॑र्जु॒होति॑ । नक्ष॑त्त्राण्ये॒व तत्प्री॑णाति । सक्तु॑भिर्जुहोति । प्र॒जाप॑ते॒र्वा ए॒तद्रू॒पम् । यत्सक्त॑वः । यत्सक्तु॑भिर्जु॒होति॑ ॥54॥

प्र॒जा॑पतिमे॒व तत्प्री॑णाति । म॒सूस्यै॑र्जुहोति । सर्वा॑साव्ँ॒वा ए॒तद्दे॒वता॑नाँ रू॒पम् । यन्म॒सूस्या॑नि । यन्म॒सूस्यै॑र्जु॒होति॑ । सर्वा॑ ए॒व तद्दे॒वता॑ᳶ प्रीणाति । प्रि॒य॒ङ्गु॒त॒ण्डु॒लैर्जु॑होति । प्रि॒याङ्गा॑ ह॒ वै नामै॒ते । ए॒तैर्वै दे॒वा अश्व॒स्याङ्गा॑नि॒ सम॑दधुः । यत्प्रि॑यङ्गुतण्डु॒लैर्जु॒होति॑ । अश्व॑स्यै॒वाङ्गा॑नि॒ सन्द॑धाति । दशान्ना॑नि जुहोति । दशा॑क्षरा वि॒राट् । वि॒राट्कृ॒त्स्नस्या॒न्नाद्य॒स्याव॑रुध्यै ॥55॥

जु॒होति॒ मधु॑ना जु॒होति॒ पृथु॑कैर्जु॒होति॑ क॒रम्बै॑र्जु॒होति॒ सक्तु॑भिर्जु॒होति॑ प्रियङ्गुतण्डु॒लैर्जु॒होति॑ च॒त्वारि॑ च ॥ 14 ॥ (अ॒न्न॒हो॒मानाज्ये॑ना॒ग्नेर्मधु॑ना तण्डु॒लैᳶ पृथु॑कैर्ला॒जैᳶ क॒रम्बै॑र्धा॒नाभि॒स्सक्तु॑भिर्म॒सूस्यै॑ᳶ प्रियङ्गुतण्डु॒लैर्दशान्ना॑नि वि॒राड्द्वाद॑श ।)

प्र॒जाप॑तिरश्वमे॒धम॑सृजत । तँ सृ॒ष्टँ रक्षाँ॑स्यजिघाँसन् । स ए॒तान्प्र॒जाप॑तिर्नक्तँहो॒मान॑पश्यत् । तान॑जुहोत् । तैर्वै स य॒ज्ञाद्रक्षाँ॒स्यपा॑हन् । यन्न॑क्तँहो॒माञ्जु॒होति॑ । य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षाँ॒स्यप॑ हन्ति । आज्ये॑न जुहोति । वज्रो॒ वा आज्य॑म् । वज्रे॑णै॒व य॒ज्ञाद्रक्षाँ॒स्यप॑हन्ति ॥56॥

आज्य॑स्य प्रति॒पद॑ङ्करोति । प्रा॒णो वा आज्य॑म् । मु॒ख॒त ए॒वास्य॑ प्रा॒णन्द॑धाति । अ॒न्न॒हो॒माञ्जु॑होति । शरी॑रवदे॒वाव॑रुन्धे । व्य॒त्यास॑ञ्जुहोति । उ॒भय॒स्याव॑रुध्यै । नक्त॑ञ्जुहोति । रक्ष॑सा॒मप॑हत्यै । आज्ये॑नान्त॒तो जु॑होति ॥57॥

प्रा॒णो वा आज्य॑म् । उ॒भ॒यत॑ ए॒वास्य॑ प्रा॒णन्द॑धाति । पु॒रस्ता॑च्चो॒परि॑ष्टाच्च । एक॑स्मै॒ स्वाहेत्या॑ह । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । द्वाभ्याँ॒ स्वाहेत्या॑ह । अ॒मुष्मि॑न्ने॒व लो॒के प्रति॑तिष्ठति । उ॒भयो॑रे॒व लो॒कयो॒ᳶ प्रति॑तिष्ठति । अ॒स्मिश्चा॒मुष्मि॑श्च । श॒ताय॒ स्वाहेत्या॑ह । श॒तायु॒र्वै पुरु॑षश्श॒तवी॑र्यः । आयु॑रे॒व वी॒र्य॑मव॑रुन्धे । स॒हस्रा॑य॒ स्वाहेत्या॑ह । आयु॒र्वै स॒हस्र॑म् । आयु॑रे॒वाव॑रुन्धे । सर्व॑स्मै॒ स्वाहेत्या॑ह । अप॑रिमितमे॒वाव॑रुन्धे ॥58॥

ए॒व य॒ज्ञाद्रक्षाँ॒स्यप॑हन्त्यन्त॒तो जु॑होति श॒ताय॒ स्वाहेत्या॑ह स॒प्त च॑ ॥ 15 ॥

प्र॒जाप॑तिव्ँ॒वा ए॒ष ई॑प्स॒तीत्या॑हुः । यो॑ऽश्वमे॒धेन॒ यज॑त॒ इति॑ । अथो॑ आहुः । सर्वा॑णि भू॒तानीति॑ । एक॑स्मै॒ स्वाहेत्या॑ह । प्र॒जाप॑ति॒र्वा एकः॑ । तमे॒वाप्नो॑ति । एक॑स्मै॒ स्वाहा॒ द्वाभ्याँ॒ स्वाहेत्य॑भिपू॒र्वमाहु॑तीर्जुहोति । अ॒भि॒पू॒र्वमे॒व सु॑व॒र्गल्ँ लो॒कमे॑ति । ए॒को॒त्त॒रञ्जु॑होति ॥59॥

ए॒क॒वदे॒व सु॑व॒र्गल्ँ लो॒कमे॑ति । सन्त॑तञ्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै । श॒ताय॒ स्वाहेत्या॑ह । श॒तायु॒र्वै पुरु॑षश्श॒तवी॑र्यः । आयु॑रे॒व वी॒र्य॑मव॑रुन्धे । स॒हस्रा॑य॒ स्वाहेत्या॑ह । आयु॒र्वै स॒हस्र॑म् । आयु॑रे॒वाव॑रुन्धे । अ॒युता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा॑ प्र॒युता॑य॒ स्वाहेत्या॑ह ॥60॥

त्रय॑ इ॒मे लो॒काः । इ॒माने॒व लो॒कानव॑रुन्धे । अर्बु॑दाय॒ स्वाहेत्या॑ह । वाग्वा अर्बु॑दम् । वाच॑मे॒वाव॑रुन्धे । न्य॑र्बुदाय॒ स्वाहेत्या॑ह । यो वै वा॒चो भू॒मा । तन्न्य॑र्बुदम् । वा॒च ए॒व भू॒मान॒मव॑रुन्धे । स॒मु॒द्राय॒ स्वाहेत्या॑ह ॥61॥

स॒मु॒द्रमे॒वाप्नो॑ति । मध्या॑य॒ स्वाहेत्या॑ह । मध्य॑मे॒वाप्नो॑ति । अन्ता॑य॒ स्वाहेत्या॑ह । अन्त॑मे॒वाप्नो॑ति । प॒रा॒र्धाय॒ स्वाहेत्या॑ह । प॒रा॒र्धमे॒वाप्नो॑ति । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्या॑ह । रात्रि॒र्वा उ॒षाः । अह॒र्व्यु॑ष्टिः । अ॒हो॒रा॒त्रे ए॒वाव॑रुन्धे । अथो॑ अहोरा॒त्रयो॑रे॒व प्रति॑तिष्ठति । ता यदु॒भयी॒र्दिवा॑ वा॒ नक्तव्ँ॑वा जुहु॒यात् । अ॒हो॒रा॒त्रे मो॑हयेत् । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहो॑द्य॒ते स्वाहेत्यनु॑दिते जुहोति । उदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहेत्युदि॑ते जुहोति । अ॒हो॒रा॒त्रयो॒रव्य॑तिमोहाय ॥62॥

ए॒को॒त्त॒रं जु॑होति प्र॒युता॑य॒ स्वाहेत्या॑ह समु॒द्राय॒ स्वाहेत्या॒हाह॒र्व्यु॑ष्टिस्स॒प्त च॑ ॥ 16 ॥

वि॒भूर्मा॒त्रा प्र॒भूᳶ पि॒त्रेत्य॑श्वना॒मानि॑ जुहोति । उ॒भयो॑रे॒वैनल्ँ॑ लो॒कयो॑र्नाम॒धेय॑ङ्गमयति । आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहेत्यु॑द्द्रा॒वाञ्जु॑होति । सर्व॑मे॒वैन॒मस्क॑न्नँ सुव॒र्गल्ँ लो॒कङ्ग॑मयति । अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वहो॒माञ्जु॑होति । पूर्व॑ ए॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑ क्रामति । पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वदी॒क्षा जु॑होति । पूर्व॑ ए॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑क्रामति ॥63॥

पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्ये॑कविँ॒शिनी॑न्दी॒क्षाञ्जु॑होति । एक॑विँशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कविँ॒शः । ए॒ष सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । भुवो॑ दे॒वाना॒ङ्कर्म॒णेत्यृ॑तुदी॒क्षा जु॑होति । ऋ॒तूने॒वास्मै॑ कल्पयति । अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहेति॑ जुहो॒त्यन॑न्तरित्यै ॥64॥

अ॒र्वाङ्य॒ज्ञस्सङ्क्रा॑म॒त्वित्याप्ती॑र्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्याप्त्यै॑ । भू॒तम्भव्य॑म्भवि॒ष्यदिति॒ पर्या॑प्तीर्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्य॒ पर्या॑प्त्यै । आ मे॑ गृ॒हा भ॑व॒न्त्वित्या॒भूर्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्याभू॑त्यै । अ॒ग्निना॒ तपोऽन्व॑भव॒दित्य॑नु॒भूर्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्यानु॑भूत्यै । स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहेति॒ सम॑स्तानि वैश्वदे॒वानि॑ जुहोति । सम॑स्तमे॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑क्रामति ॥65॥

द॒द्भ्यस्स्वाहा॒ हनू॑भ्याँ॒ स्वाहेत्य॑ङ्गहो॒माञ्जु॑होति । अङ्गे॑अङ्गे॒ वै पुरु॑षस्य पा॒प्मोप॑श्लिष्टः । अङ्गा॑दङ्गादे॒वैन॑म्पा॒प्मन॒स्तेन॑ मुञ्चति । अ॒ञ्ज्ये॒ताय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा॑ श्वे॒ताय॒ स्वाहेत्य॑श्वरू॒पाणि॑ जुहोति । रू॒पैरे॒वैनँ॒ सम॑र्धयति । ओष॑धीभ्य॒स्स्वाहा॒ मूले॑भ्य॒स्स्वाहेत्यो॑षधिहो॒माञ्जु॑होति । द्व॒य्यो वा ओष॑धयः । पुष्पे॑भ्यो॒ऽन्याᳶ फल॑ङ्गृ॒ह्णन्ति॑ । मूले॑भ्यो॒ऽन्याः । ता ए॒वोभयी॒रव॑रुन्धे ॥66॥

वन॒स्पति॑भ्य॒स्स्वाहेति॑ वनस्पतिहो॒माञ्जु॑होति । आ॒र॒ण्यस्या॒न्नाद्य॒स्याव॑रुध्यै । मे॒षस्त्वा॑ पच॒तैर॑व॒त्वित्यपा॑व्यानि जुहोति । प्रा॒णा वै दे॒वा अपा॑व्याः । प्रा॒णाने॒वाव॑रुन्धे । कूप्या॑भ्य॒स्स्वाहा॒द्भ्यस्स्वाहेत्य॒पाँ होमा॑ञ्जुहोति । अ॒प्सु वा आपः॑ । अन्नव्ँ॒वा आपः॑ । अ॒द्भ्यो वा अन्न॑ञ्जायते । यदे॒वाद्भ्योऽन्न॒ञ्जाय॑ते । तदव॑रुन्धे ॥67॥

पू॒र्व॒दी॒क्षा जु॑होति॒ पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑ क्राम॒त्यन॑न्तरित्यै क्रामति रुन्धे॒ जाय॑त॒ एकं॑ च ॥ 17 ॥

अम्भाँ॑सि जुहोति । अ॒यव्ँ वै लो॒कोऽम्भाँ॑सि । तस्य॒ वस॒वोऽधि॑पतयः । अ॒ग्निर्ज्योतिः॑ । यदम्भाँ॑सि जु॒होति॑ । इ॒ममे॒व लो॒कमव॑रुन्धे । वसू॑नाँ॒ सायु॑ज्यङ्गच्छति । अ॒ग्निञ्ज्योति॒रव॑रुन्धे । नभाँ॑सि जुहोति । अ॒न्तरि॑क्षव्ँ॒ वै नभाँ॑सि ॥68॥

तस्य॑ रु॒द्रा अधि॑पतयः । वा॒युर्ज्योतिः॑ । यन्नभाँ॑सि जु॒होति॑ । अ॒न्तरि॑क्षमे॒वाव॑रुन्धे । रु॒द्राणाँ॒ सायु॑ज्यङ्गच्छति । वा॒युञ्ज्योति॒रव॑रुन्धे । महाँ॑सि जुहोति । अ॒सौ वै लो॒को महाँ॑सि । तस्या॑दि॒त्या अधि॑पतयः । सूर्यो॒ ज्योतिः॑ ॥69॥

यन्महाँ॑सि जु॒होति॑ । अ॒मुमे॒व लो॒कमव॑रुन्धे । आ॒दि॒त्यानाँ॒ सायु॑ज्यङ्गच्छति । सूर्य॒ञ्ज्योति॒रव॑रुन्धे । नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒येति॑ य॒व्यानि॑ जुहोति । अ॒न्नाद्य॒स्याव॑रुध्यै । म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा इति॑ ग॒व्यानि॑ जुहोति । प॒शू॒नामव॑रुध्यै । प्रा॒णाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहेति॑ सन्ततिहो॒माञ्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ॥70॥

सि॒ताय॒ स्वाहाऽसि॑ताय॒ स्वाहेति॒ प्रमु॑क्तीर्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रमु॑क्त्यै । पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । द॒त्वते॒ स्वाहा॑ऽद॒न्तका॑य॒ स्वाहेति॑ शरीरहो॒माञ्जु॑होति । पि॒तृ॒लो॒कमे॒व तैर्यज॑मानो॒ऽव॑रुन्धे । कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्विति॑ परि॒धीन् यु॑नक्ति । इ॒मे वै लो॒काᳶ प॑रि॒धयः॑ । इ॒माने॒वास्मै॑ लो॒कान् यु॑नक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥71॥

यᳶ प्रा॑ण॒तो य आ॑त्म॒दा इति॑ महि॒मानौ॑ जुहोति । सु॒व॒र्गो वै लो॒को महः॑ । सु॒व॒र्गमे॒व ताभ्याल्ँ॑ लो॒कय्ँयज॑मा॒नोऽव॑रुन्धे । आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मिति॒ सम॑स्तानि ब्रह्मवर्च॒सानि॑ जुहोति । ब्र॒ह्म॒व॒र्च॒समे॒व तैर्यज॑मा॒नोऽव॑रुन्धे । जज्ञि॒ बीज॒मिति॑ जुहो॒त्यन॑न्तरित्यै । अ॒ग्नये॒ सम॑नमत्पृथि॒व्यै सम॑नम॒दिति॑ सन्नतिहो॒माञ्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्न॑त्यै । भू॒ताय॒ स्वाहा॑ भविष्य॒ते स्वाहेति॑ भूताभ॒व्यौ होमौ॑ जुहोति । अ॒यव्ँ वै लो॒को भू॒तम् ॥72॥

अ॒सौ भ॑वि॒ष्यत् । अ॒नयो॑रे॒व लो॒कयो॒ᳶ प्रति॑तिष्ठति । सर्व॒स्याप्त्यै॑ । सर्व॒स्याव॑रुध्यै । यदक्र॑न्दᳶ प्रथ॒मञ्जाय॑मान॒ इत्य॑श्वस्तो॒मीय॑ञ्जुहोति । सर्व॒स्याप्त्यै॑ । सर्व॑स्य॒ जित्यै॑ । सर्व॑मे॒व तेना॑प्नोति । सर्व॑ञ्जयति । यो॑ऽश्वमे॒धेन॒ यज॑ते ॥73॥

य उ॑ चैनमे॒वव्ँवेद॑ । य॒ज्ञँ रक्षाँ॑स्यजिघाँसन् । स ए॒तान्प्र॒जाप॑तिर्नक्तँहो॒मान॑पश्यत् । तान॑जुहोत् । तैर्वै स य॒ज्ञाद्रक्षाँ॒स्यपा॑हन् । यन्न॑क्तँहो॒माञ्जु॒होति॑ । य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षाँ॒स्यप॑हन्ति । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्य॑न्त॒तो जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥74॥

वै नभाँ॑सि॒ सूर्यो॒ ज्योति॒स्सन्त॑त्यै॒ सम॑ष्ट्यै भू॒तं यज॑ते॒ नव॑ च ॥ 18 ॥

ए॒क॒यू॒पो वै॑काद॒शिनी॑ वा । अ॒न्येषाय्ँ॑ य॒ज्ञानाय्ँ॒यूपा॑ भवन्ति । ए॒क॒विँ॒शिन्य॑श्वमे॒धस्य॑ । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । बै॒ल्वो वा॑ खादि॒रो वा॑ पाला॒शो वा॑ । अ॒न्येषाय्ँ॑ यज्ञक्रतू॒नाय्ँयूपा॑ भवन्ति । राज्जु॑दाल॒ एक॑विँशत्यरत्निरश्वमे॒धस्य॑ । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । नान्येषा॑म्पशू॒नान्ते॑ज॒न्या अ॑व॒द्यन्ति॑ । अव॑द्य॒न्त्यश्व॑स्य ॥75॥

पा॒प्मा वै ते॑ज॒नी । पा॒प्मनोऽप॑हत्यै । प्ल॒क्ष॒शा॒खाया॑म॒न्येषा॑म्पशू॒नाम॑व॒द्यन्ति॑ । वे॒त॒स॒शा॒खाया॒मश्व॑स्य । अ॒प्सुयो॑नि॒र्वा अश्वः॑ । अ॒प्सु॒जो वे॑त॒सः । स्व ए॒वास्य॒ योना॒वव॑द्यति । यूपे॑षु ग्रा॒म्यान्प॒शून्नि॑यु॒ञ्जन्ति॑ । आ॒रो॒केष्वा॑र॒ण्यान्धा॑रयन्ति । प॒शू॒नाव्ँव्यावृ॑त्त्यै । आ ग्रा॒म्यान्प॒शूल्लँभ॑न्ते । प्रार॒ण्यान्त्सृ॑जन्ति । पा॒प्मनोऽप॑हत्यै ॥76॥

अश्व॑स्य॒ व्यावृ॑त्त्यै॒ त्रीणि॑ च ॥ 19 ॥

राज्जु॑दालमग्नि॒ष्ठम्मि॑नोति । भ्रू॒ण॒ह॒त्याया॒ अप॑हत्यै । पौतु॑द्रवाव॒भितो॑ भवतः । पुण्य॑स्य ग॒न्धस्याव॑रुध्यै । भ्रू॒ण॒ह॒त्यामे॒वास्मा॑दप॒हत्य॑ । पुण्ये॑न ग॒न्धेनो॑भ॒यत॒ᳶ परि॑गृह्णाति । षड्बै॒ल्वा भ॑वन्ति । ब्र॒ह्म॒व॒र्च॒सस्याव॑रुध्यै । षट्खा॑दि॒राः । तेज॒सोऽव॑रुध्यै ॥77॥

षट्पा॑ला॒शाः । सो॒म॒पी॒थस्याव॑रुध्यै । एक॑विँशति॒स्सम्प॑द्यन्ते । एक॑विँशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य एक॑विँ॒शः । ए॒ष सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । श॒तम्प॒शवो॑ भवन्ति ॥78॥

श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । सर्वव्ँ॒ वा अ॑श्वमे॒ध्याप्नो॑ति । अप॑रिमिता भवन्ति । अप॑रिमित॒स्याव॑रुध्यै । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कस्मा॑त्स॒त्यात् । द॒क्षि॒ण॒तो॑ऽन्येषा॑म्पशू॒नाम॑व॒द्यन्ति॑ । उ॒त्त॒र॒तोऽश्व॒स्येति॑ । वा॒रुणो॒ वा अश्वः॑ ॥79॥

ए॒षा वै वरु॑णस्य॒ दिक् । स्वाया॑मे॒वास्य॑ दि॒श्यव॑द्यति । यदित॑रेषाम्पशू॒नाम॑व॒द्यति॑ । श॒त॒दे॒व॒त्य॑न्तेनाव॑रुन्धे । चि॒ते॑ऽग्नावधि॑ वैत॒से कटेऽश्व॑ञ्चिनोति । अ॒प्सुयो॑नि॒र्वा अश्वः॑ । अ॒प्सु॒जो वे॑त॒सः । स्व ए॒वैनय्ँ॒योनौ॒ प्रति॑ष्ठापयति । पु॒रस्ता॑त्प्र॒त्यञ्च॑न्तूप॒रञ्चि॑नोति । प॒श्चात्प्रा॒चीन॑ङ्गोमृ॒गम् ॥80॥

प्रा॒णा॒पा॒नावे॒वास्मि॑न्त्स॒म्यञ्चौ॑ दधाति । अश्व॑न्तूप॒रङ्गो॑मृ॒गमिति॑ सर्व॒हुत॑ ए॒ताञ्जु॑होति । ए॒षाल्ँ लो॒काना॑म॒भिजि॑त्यै । आ॒त्मना॒ऽभिजु॑होति । सात्मा॑नमे॒वैनँ॒ सत॑नुङ्करोति । सात्मा॒ऽमुष्मिल्ँ॑ लो॒के भ॑वति । य ए॒वव्ँ वेद॑ । अथो॒ वसो॑रे॒व धारा॒न्तेनाव॑रुन्धे । इ॒लु॒वर्दा॑य॒ स्वाहा॑ बलि॒वर्दा॑य॒ स्वाहेत्या॑ह । सव्ँ॒व॒त्स॒रो वा इ॑लु॒वर्दः॑ । प॒रि॒व॒त्स॒रो ब॑लि॒वर्दः॑ । सव्ँ॒व॒त्स॒रादे॒व प॑रिवत्स॒रादायु॒रव॑रुन्धे । आयु॑रे॒वास्मि॑न्दधाति । तस्मा॑दश्वमेधया॒जी ज॒रसा॑ वि॒स्रसा॒मुल्ँ लो॒कमे॑ति ॥81॥

तेज॒सोऽव॑रुध्यै भव॒न्त्यश्वो॑ गोमृ॒गमि॑लु॒वर्द॑श्च॒त्वारि॑ च ॥ 20 ॥

ए॒क॒विँ॒शो॑ऽग्निर्भ॑वति । ए॒क॒विँ॒शस्स्तोमः॑ । एक॑विँशति॒र्यूपाः॑ । यथा॒ वा अश्वा॑ वर्ष॒भा वा॒ वृषा॑णस्सस्फु॒रेर॑न् । ए॒वमे॒व तत्स्तोमा॒स्सस्फु॑रन्ते । यदे॑कविँ॒शाः । ते यत्स॑मृ॒च्छेर॑न् । ह॒न्येता॑स्य य॒ज्ञः । द्वा॒द॒श ए॒वाग्निस्स्या॒दित्या॑हुः । द्वा॒द॒शस्स्तोमः॑ ॥82॥

एका॑दश॒ यूपाः॑ । यद्द्वा॑द॒शो॑ऽग्निर्भव॑ति । द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः । सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे । यद्दश॒ यूपा॒ भव॑न्ति । दशा॑क्षरा वि॒राट् । अन्नव्ँ॑वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । य ए॑काद॒शः । स्तन॑ ए॒वास्यै॒ सः ॥83॥

दु॒ह ए॒वैना॒न्तेन॑ । तदा॑हुः । यद्द्वा॑द॒शो॑ऽग्निस्स्या॑द्द्वाद॒शस्स्तोम॒ एका॑दश॒ यूपाः॑ । यथा॒ स्थूरि॑णा या॒यात् । ता॒दृक्तत् । ए॒क॒विँ॒श ए॒वाग्निस्स्या॒दित्या॑हुः । ए॒क॒विँ॒शस्स्तोमः॑ । एक॑विँशति॒र्यूपाः॑ । यथा॒ प्रष्टि॑भि॒र्याति॑ । ता॒दृगे॒व तत् ॥84॥

यो वा अ॑श्वमे॒धे ति॒स्रᳶ क॒कुभो॒ वेद॑ । क॒कुद्ध॒ राज्ञा॑म्भवति । ए॒क॒विँ॒शो॑ऽग्निर्भ॑वति । ए॒क॒विँ॒शस्स्तोमः॑ । एक॑विँशति॒र्यूपाः॑ । ए॒ता वा अ॑श्वमे॒धे ति॒स्रᳶ क॒कुभः॑ । य ए॒वव्ँ वेद॑ । क॒कुद्ध॒ राज्ञा॑म्भवति । यो वा अश्व॑मे॒धे त्रीणि॑ शी॒र्षाणि॒ वेद॑ । शिरो॑ ह॒ राज्ञा॑म्भवति । ए॒क॒विँ॒शो॑ऽग्निर्भ॑वति । ए॒क॒विँ॒शस्स्तोमः॑ । एक॑विँशति॒र्यूपाः॑ । ए॒तानि॒ वा अ॑श्वमे॒धे त्रीणि॑ शी॒र्षाणि॑ । य ए॒वव्ँ वेद॑ । शिरो॑ ह॒ राज्ञा॑म्भवति ॥85॥

द्वा॒द॒शस्स्तोम॒स्स ए॒व तच्छिरो॑ ह॒ राज्ञां॑ भवति॒ षट् च॑ ॥ 21 ॥

दे॒वा वा अ॑श्वमे॒धे पव॑माने । सु॒व॒र्गल्ँ लो॒कन्न प्राजा॑नन् । तमश्व॒ᳶ प्राजा॑नात् । यद॑श्वमे॒धेऽश्वे॑न॒ मेध्ये॒नोद॑ञ्चो बहिष्पवमा॒नँ सर्प॑न्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै । न वै म॑नु॒ष्य॑स्सुव॒र्गल्ँ लो॒कमञ्ज॑सा वेद । अश्वो॒ वै सु॑व॒र्गल्ँ लो॒कमञ्ज॑सा वेद । यदु॑द्गा॒तोद्गाये॑त् । यथाऽक्षे॑त्रज्ञो॒ऽन्येन॑ प॒था प्र॑तिपा॒दये॑त् । ता॒दृक्तत् ॥86॥

उ॒द्गा॒तार॑मप॒रुध्य॑ । अश्व॑मुद्गी॒थाय॑ वृणीते । यथा॑ क्षेत्र॒ज्ञोऽञ्ज॑सा॒ नय॑ति । ए॒वमे॒वैन॒मश्व॑स्सुव॒र्गल्ँ लो॒कमञ्ज॑सा नयति । पुच्छ॑म॒न्वार॑भन्ते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । हिङ्क॑रोति । सामै॒वाकः॑ । हिङ्क॑रोति । उ॒द्गी॒थ ए॒वास्य॒ सः ॥87॥

वड॑बा॒ उप॑रुन्धन्ति । मि॒थु॒न॒त्वाय॒ प्रजा॑त्यै । अथो॒ यथो॑पगा॒तार॑ उप॒गाय॑न्ति । ता॒दृगे॒व तत् । उद॑गासी॒दश्वो॒ मेध्य॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । प्र॒जाप॑तिरुद्गी॒थः । उ॒द्गी॒थमे॒वाव॑रुन्धे । अथो॑ ऋक्सा॒मयो॑रे॒व प्रति॑तिष्ठति । हिर॑ण्येनो॒पाक॑रोति । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒व मु॑ख॒तो द॑धाति । यज॑माने च प्र॒जासु॑ च । अथो॒ हिर॑ण्यज्योतिरे॒व यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति ॥88॥

तत्स उ॒पाक॑रोति च॒त्वारि॑ च ॥ 22 ॥

पुरु॑षो॒ वै य॒ज्ञः । य॒ज्ञᳶ प्र॒जाप॑तिः । यदश्वे॑ प॒शून्नि॑यु॒ञ्जन्ति॑ । य॒ज्ञादे॒व तद्य॒ज्ञम्प्रयु॑ङ्क्ते । अश्व॑न्तूप॒रङ्गो॑मृ॒गम् । तान॑ग्नि॒ष्ठ आल॑भते । से॒ना॒मु॒खमे॒व तत्सश्य॑ति । तस्मा॑द्राजमु॒खम्भी॒ष्मम्भावु॑कम् । आ॒ग्ने॒यङ्कृ॒ष्णग्री॑वम्पु॒रस्ता॑ल्ल॒लाटे॑ । पू॒र्वा॒ग्निमे॒व तङ्कु॑रुते ॥89॥

तस्मा॑त्पूर्वा॒ग्निम्पु॒रस्ता॑त्स्थापयन्ति । पौ॒ष्णम॒न्वञ्च॑म् । अन्नव्ँ॒ वै पू॒षा । तस्मा॑त्पूर्वा॒ग्नावा॑हा॒र्य॑माह॑रन्ति । ऐ॒न्द्रा॒पौ॒ष्णमु॒परि॑ष्टात् । ऐ॒न्द्रो वै रा॑ज॒न्योऽन्न॑म्पू॒षा । अ॒न्नाद्ये॑नै॒वैन॑मुभ॒यत॒ᳶ परि॑गृह्णाति । तस्मा॑द्राज॒न्यो॑ऽन्ना॒दोभावु॑कः । आ॒ग्ने॒यौ कृ॒ष्णग्री॑वौ बाहु॒वोः । बा॒हु॒वोरे॒व वी॒र्यन्धत्ते ॥90॥

तस्मा॑द्राज॒न्यो॑ बाहुब॒लीभावु॑कः । त्वा॒ष्ट्रौ लो॑मशस॒क्थौ स॒क्थ्योः । स॒क्थ्योरे॒व वी॒र्य॑न्धत्ते । तस्मा॑द्राज॒न्य॑ ऊरुब॒लीभावु॑कः । शि॒ति॒पृ॒ष्ठौ बा॑र्हस्प॒त्यौ पृ॒ष्ठे । ब्र॒ह्म॒व॒र्च॒समे॒वोपरि॑ष्टाद्धत्ते । अथो॑ क॒वचे॑ ए॒वैते अ॒भित॒ᳶ पर्यू॑हते । तस्मा॑द्राज॒न्य॑स्सन्न॑द्धो वी॒र्य॑ङ्करोति । धा॒त्रे पृ॑षोद॒रम॒धस्ता॑त् । प्र॒ति॒ष्ठामे॒वैताङ्कु॑रुते । अथो॑ इ॒यव्ँ वै धा॒ता । अ॒स्यामे॒व प्रति॑तिष्ठति । सौ॒र्यम्ब॒लक्ष॒म्पुच्छे॑ । उ॒त्से॒धमे॒व तङ्कु॑रुते । तम्मा॑दुत्से॒धम्भ॒ये प्र॒जा अ॒भिसश्र॑यन्ति ॥91॥

कु॒रु॒ते॒ ध॒त्ते॒ कु॒रु॒ते॒ पञ्च॑ च ॥ 23 ॥

सा॒ङ्ग्र॒ह॒ण्या चतु॑ष्टय्यो॒ यो वै यᳶ पि॒तुश्च॒त्वारो॒ यथा॑ नि॒क्तं प्र॒जाप॑तये त्वा॒ यथा॒ प्रोक्षि॑तव्विँ॒भूरा॑ह प्र॒जाप॑तिरकामयताश्वमे॒धेन॑ प्र॒जाप॑ति॒र्न किञ्च॒न सा॑वि॒त्रमा ब्रह्म॑न्प्र॒जाप॑तिर्दे॒वैभ्य॑ᳶ प्र॒जाप॑ती॒ रक्षाँ॑सि प्र॒जाप॑तिमीप्सति वि॒भूर॑श्वना॒मान्यम्भाँ॑स्येकयू॒पो राज्जु॑दालमेकविँ॒शो दे॒वाᳶ पुरु॑ष॒स्त्रयो॑विँशतिः ॥ 23 ॥ सा॒ङ्ग्रह॒ण्या तस्मा॑दश्वमेधया॒जी यत्परि॑मिता॒ यद्य॑ज्ञमु॒खे यो दी॒क्षान्दे॒वाने॒व त्रय॑ इ॒मे सि॒ताय॑ प्राणापा॒नावे॒वास्मि॒न्तस्मा॑द्राज॒न्य॑ एक॑नवतिः ॥ 91 ॥ सा॒ङ्ग्र॒ह॒ण्या सश्र॑यन्ति ॥ हरिः॑ ओम् ॥ श्री कृष्णार्पणमस्तु । अष्टमप्रपाठकस्समाप्तः ।