सर्वा॒न्वा ए॒षो॑ऽग्नौ कामा॒न्प्रवे॑शयति । यो॑ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ । सयदनि॑ष्ट्वा प्रया॒यात् । अका॑मप्रीता एन॒ङ्कामा॒ नानु॒प्रया॑युः । अ॒ते॒जा अ॑वी॒र्य॑स्स्यात् । स जु॑हुयात् । तुभ्य॒न्ता अ॑ङ्गिरस्तम । विश्वा॑स्सुक्षि॒तय॒ᳶ पृथ॑क् । अग्ने॒ कामा॑य येमिर॒ इति॑ । कामा॑ने॒वास्मि॑न्दधाति ॥1॥

काम॑प्रीता एन॒ङ्कामा॒ अनु॒प्रया॑न्ति । ते॒ज॒स्वी वी॒र्या॑वान्भवति । सन्त॑ति॒र्वा ए॒षा य॒ज्ञस्य॑ । यो॑ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ । स यदु॒द्वाय॑ति । विच्छि॑त्तिरे॒वास्य॒ सा । तम्प्राञ्च॑मु॒द्धृत्य॑ । मन॒सोप॑तिष्ठेत । मनो॒ वै प्र॒जाप॑तिः । प्रा॒जा॒प॒त्यो य॒ज्ञः ॥2॥

मन॑सै॒व य॒ज्ञँ सन्त॑नोति । भूरित्या॑ह । भू॒तो वै प्र॒जाप॑तिः । भूति॑मे॒वोपै॑ति । वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते । यस्याहि॑ताग्नेर॒ग्निर॑प॒क्षाय॑ति । याव॒च्छम्य॑या प्र॒विध्ये॑त् । यदि॒ ताव॑दप॒क्षाये॑त् । तँ सम्भ॑रेत् । इ॒दन्त॒ एक॑म्प॒र उ॑त॒ एक॑म् ॥3॥

तृ॒तीये॑न॒ ज्योति॑षा॒ सव्विँ॑शस्व । सव्ँ॒वेश॑नस्त॒नुवै॒ चारु॑रेधि । प्रि॒ये दे॒वाना॑म्पर॒मे ज॒नित्र॒ इति॑ । ब्रह्म॑णै॒वैनँ॒ सम्भ॑रति । सैव तत॒ᳶ प्राय॑श्चित्तिः । यदि॑ परस्त॒राम॑प॒क्षाये॑त् । अ॒नु॒प्र॒यायाव॑स्येत् । सो ए॒व तत॒ᳶ प्राय॑श्चित्तिः । ओष॑धी॒र्वा ए॒तस्य॑ प॒शून्पय॒ᳶ प्रवि॑शति । यस्य॑ ह॒विषे॑ व॒त्सा अ॒पाकृ॑ता॒ धय॑न्ति ॥4॥

तान् यद्दु॒ह्यात् । या॒तया॑म्ना ह॒विषा॑ यजेत । यन्न दु॒ह्यात् । य॒ज्ञ॒प॒रुर॒न्तरि॑यात् । वा॒य॒व्या॑य्यँवा॒गून्निर्व॑पेत् । वा॒युर्वै पय॑सᳶ प्रदापयि॒ता । स ए॒वास्मै॒ पय॒ᳶ प्रदा॑पयति । पयो॒ वा ओष॑धयः । पय॒ᳶ पयः॑ । पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे ॥5॥

अथोत्त॑रस्मै ह॒विषे॑ व॒त्सान॒पाकु॑र्यात् । सैव तत॒ᳶ प्राय॑श्चित्तिः । अ॒न्य॒त॒रान् वा ए॒ष दे॒वान्भा॑ग॒धेये॑न॒ व्य॑र्धयति । ये यज॑मानस्य सा॒यङ्गृ॒हमा॒गच्छ॑न्ति । यस्य॑ सायन्दु॒ग्धँ ह॒विरार्ति॑मा॒र्च्छति॑ । इन्द्रा॑य व्री॒हीन्नि॒रुप्योप॑वसेत् । पयो॒ वा ओष॑धयः । पय॑ ए॒वारभ्य॑ गृही॒त्वोप॑वसति । यत्प्रा॒तस्स्यात् । तच्छृ॒तङ्कु॑र्यात् ॥6॥

अथेत॑र ऐ॒न्द्रᳶ पु॑रो॒डाश॑स्स्यात् । इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति । पयो॒ वा ओष॑धयः । पय॒ᳶ पयः॑ । पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे । अथोत्त॑रस्मै ह॒विषे॑ व॒त्सान॒पाकु॑र्यात् । सैव तत॒ᳶ प्राय॑श्चित्तिः । उ॒भया॒न्वा ए॒ष दे॒वान्भा॑ग॒धेये॑न॒ व्य॑र्धयति । ये यज॑मानस्य सा॒यञ्च॑ प्रा॒तश्च॑ गृ॒हमा॒गच्छ॑न्ति । यस्यो॒भयँ॑ ह॒विरार्ति॑मा॒र्च्छति॑ ॥7॥

ऐ॒न्द्रम्पञ्च॑शरावमोद॒नन्निर्व॑पेत् । अ॒ग्निन्दे॒वता॑नाम्प्रथ॒मय्यँ॑जेत् । अ॒ग्निमु॑खा ए॒व दे॒वता॑ᳶ प्रीणाति । अ॒ग्निव्वाँ अन्व॒न्या दे॒वताः॑ । इन्द्र॒मन्व॒न्याः । ता ए॒वोभयी॑ᳶ प्रीणाति । पयो॒ वा ओष॑धयः । पय॒ᳶ पयः॑ । पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे । अथोत्तर॑स्मै ह॒विषे॑ व॒त्सान॒पाकु॑र्यात् ॥8॥

सैव तत॒ᳶ प्राय॑श्चित्तिः । अ॒र्धो वा ए॒तस्य॑ य॒ज्ञस्य॑ मीयते । यस्य॒ व्रत्येऽह॒न्पत्न्य॑नालम्भु॒का भव॑ति । ताम॑प॒रुध्य॑ यजेत । सर्वे॑णै॒व य॒ज्ञेन॑ यजते । तामि॒ष्ट्वोप॑ह्वयेत । अमू॒हम॑स्मि । सा त्वम् । द्यौर॒हम् । पृ॒थि॒वी त्वम् । सामा॒हम् । ऋक्त्वम् । तावेहि॒ सम्भ॑वाव । स॒ह रेतो॑ दधावहै । पुँ॒से पु॒त्राय॒ वेत्त॑वै । रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॒येति॑ । अ॒र्ध ए॒वैना॒मुप॑ह्वयते । सैव तत॒ᳶ प्राय॑श्चित्तिः ॥9॥

द॒धा॒ति॒ य॒ज्ञ उ॑त॒ एक॒न्धय॑न्ति रुन्धे कुर्यादा॒र्च्छत्य॒पाकु॑र्यात्पृथि॒वी त्वम॒ष्टौ च॑ ॥ 1 ॥ (सर्वा॒न् वि वै यदि॑ परस्त॒रामोष॑धीरन्यत॒रानु॒भया॑न॒र्धो वै ॥ )

यद्विष्ष॑ण्णेन जुहु॒यात् । अप्र॑जा अप॒शुर्यज॑मानस्स्यात् । यदना॑यतने नि॒नये॑त् । अ॒ना॒य॒त॒नस्स्या॑त् । प्रा॒जा॒प॒त्यय॒र्चा व॑ल्मीकव॒पाया॒मव॑नयेत् । प्रा॒जा॒प॒त्यो वै व॒ल्मीकः॑ । य॒ज्ञᳶ प्र॒जाप॑तिः । प्र॒जाप॑तावे॒व य॒ज्ञम्प्रति॑ष्ठापयति । भूरित्या॑ह । भू॒तो वै प्र॒जाप॑तिः ॥10॥

भूति॑मे॒वोपै॑ति । तत्कृ॒त्वा । अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् । सैव तत॒ᳶ प्राय॑श्चित्तिः । यत्की॒टाव॑पन्नेन जुहु॒यात् । अप्र॑जा अप॒शुर्यज॑मानस्स्यात् । यदना॑यतने नि॒नये॑त् । अ॒ना॒य॒त॒नस्स्या॑त् । म॒ध्य॒मेन॑ प॒र्णेन॑ द्यावापृथि॒व्य॑य॒र्चाऽन्त॑ᳶपरि॒धि निन॑येत् । द्यावा॑पृथि॒व्योरे॒वैन॒त्प्रति॑ष्ठापयति ॥11॥

तत्कृ॒त्वा । अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् । सैव तत॒ᳶ प्राय॑श्चित्तिः । यदव॑वृष्टेन जुहु॒यात् । अप॑रूपमस्या॒त्मञ्जा॑येत । कि॒लासो॑ वा॒ स्याद॑र्श॒सो वा॑ । यत्प्रत्ये॒यात् । य॒ज्ञव्विँच्छि॑न्द्यात् । स जु॑हुयात् । मि॒त्रो जना॑न्कल्पयति प्रजा॒नन्न् ॥12॥

मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् । मि॒त्रᳶ कृ॒ष्टीरनि॑मिषा॒ऽभिच॑ष्टे । स॒त्याय॑ ह॒व्यङ्घृ॒तव॑ज्जुहो॒तेति॑ । मि॒त्रेणै॒वैन॑त्कल्पयति । तत्कृ॒त्वा । अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् । सैव तत॒ᳶ प्राय॑श्चित्तिः । यत्पूर्व॑स्या॒माहु॑त्याँ हु॒ताया॒मुत्त॒राऽऽहु॑ति॒स्स्कन्दे॑त् । द्वि॒पाद्भि॑ᳶ प॒शुभि॒र्यज॑मानो॒ व्यृ॑ध्येत । यदुत्त॑रया॒ऽभिजु॑हु॒यात् ॥13॥

चतु॑ष्पाद्भिᳶ प॒शुभि॒र्यज॑मानो॒ व्यृ॑ध्येत । यत्र॒ वेत्थ॑ वनस्पते दे॒वाना॒ङ्गुह्या॒ नामा॑नि । तत्र॑ ह॒व्यानि॑ गाम॒येति॑ वानस्प॒त्यय॒र्चा स॒मिध॑मा॒धाय॑ । तू॒ष्णीमे॒व पुन॑र्जुहुयात् । वन॒स्पति॑नै॒व य॒ज्ञस्यार्ता॒ञ्चाना॑र्ता॒ञ्चाहु॑ती॒ विदा॑धार । तत्कृ॒त्वा । अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् । सैव तत॒ᳶ प्राय॑श्चित्तिः । यत्पु॒रा प्र॑या॒जेभ्य॒ᳶ प्राङङ्गा॑र॒स्स्कन्दे॑त् । अ॒ध्व॒र्यवे॑ च॒ यज॑मानाय॒ चाक॑ स्यात् ॥14॥

यद्द॑क्षि॒णा । ब्र॒ह्मणे॑ च॒ यज॑मानाय॒ चाक॑ स्यात् । यत्प्र॒त्यक् । होत्रे॑ च॒ पत्नि॑यै च॒ यज॑मानाय॒ चाक॑ स्यात् । यदुदङ्ङ्॑ । अ॒ग्नीधे॑ च प॒शुभ्य॑श्च॒ यज॑मानाय॒ चाक॑ स्यात् । यद॑भिजुहु॒यात् । रु॒द्रो॑ऽस्य प॒शून्घातु॑कस्स्यात् । यन्नाभि॑जुहु॒यात् । अशा॑न्त॒ᳶ प्रह्रि॑येत ॥15॥

स्रु॒वस्य॒ बुध्ने॑नाभि॒निद॑ध्यात् । मा त॑मो॒ मा य॒ज्ञस्त॑म॒न्मा यज॑मानस्तमत् । नम॑स्ते अस्त्वाय॒ते । नमो॑ रुद्र पराय॒ते । नमो॒ यत्र॑ नि॒षीद॑सि । अ॒मुम्मा हिँ॑सीर॒मुम्मा हिँ॑सी॒रिति॒ येन॒ स्कन्दे॑त् । तम्प्रह॑रेत् । स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दाः । स्तोम॑पृष्ठो घृ॒तवा॑न्त्सु॒प्रती॑कः । मा नो॑ हासीन्मेत्थि॒तो नेत्त्वा॒ जहा॑म । गो॒पो॒षन्नो॑ वीरपो॒षञ्च॑ य॒च्छेति॑ । ब्रह्म॑णै॒वैन॒म्प्रह॑रति । सैव तत॒ᳶ प्राय॑श्चित्तिः ॥16॥

वै प्र॒जाप॑तिस्स्थापयति प्रजा॒नन्न॒भि जु॑हु॒यात्स्या॑द्ध्रियेत॒ जहा॑म॒ त्रीणि॑ च ॥ 2 ॥ (यद्विष्ष॑ण्णेन प्राजाप॒त्यया॒ यत्की॒टा म॑ध्य॒मेन॒ यदव॑वृष्टेन॒ यत्पूर्व॑स्या॒य्यँत्पु॒रा प्र॑या॒जेभ्य॒ᳶ प्राङङ्गा॑रो॒ यद्द॑क्षि॒णा यत्प्र॒त्यग्यदुदङ्ङ्॑ ॥ )

वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते । यस्याहि॑ताग्नेर॒ग्निर्म॒थ्यमा॑नो॒ न जाय॑ते । यत्रा॒न्यम्पश्ये॑त् । तत॑ आ॒हृत्य॑ होत॒व्य॑म् । अ॒ग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति । यद्य॒न्यन्न वि॒न्देत् । अ॒जायाँ॑ होत॒व्य॑म् । आ॒ग्ने॒यी वा ए॒षा । यद॒जा । अ॒ग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ॥17॥

अ॒जस्य॒ तु नाश्ञी॑यात् । यद॒जस्या॑श्ञी॒यात् । यामे॒वाग्नावाहु॑तिञ्जुहु॒यात् । ताम॑द्यात् । तस्मा॑द॒जस्य॒ नाश्य॑म् । यद्य॒जान्न वि॒न्देत् । ब्रा॒ह्म॒णस्य॒ दक्षि॑णे॒ हस्ते॑ होत॒व्य॑म् । ए॒ष वा अ॒ग्निर्वै॑श्वान॒रः । यद्ब्रा॑ह्म॒णः । अ॒ग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ॥18॥

ब्रा॒ह्म॒णन्तु व॑स॒त्यै॑ नाप॑रुन्ध्यात् । यद्ब्रा॑ह्म॒णव्वँ॑स॒त्या अ॑परु॒न्ध्यात् । यस्मि॑न्ने॒वाग्नावाहु॑तिञ्जुहु॒यात् । तम्भा॑ग॒धेये॑न॒ व्य॑र्धयेत् । तस्मा॑द्ब्राह्म॒णो व॑स॒त्यै॑ नाप॒रुध्यः॑ । यदि॑ ब्राह्म॒णन्न वि॒न्देत् । द॒र्भ॒स्त॒म्बे हो॑त॒व्य॑म् । अ॒ग्नि॒वान्‌ वै द॑र्भस्त॒म्बः । अ॒ग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति । द॒र्भाँस्तु नाध्या॑सीत ॥19॥

यद्द॒र्भान॒ध्यासी॑त । यामे॒वाग्नावाहु॑तिञ्जुहु॒यात् । तामध्या॑सीत । तस्मा॑द्द॒र्भा नाध्या॑सित॒व्याः॑ । यदि॑ द॒र्भान्न वि॒न्देत् । अ॒प्सु हो॑त॒व्य॑म् । आपो॒ वै सर्वा॑ दे॒वताः॑ । दे॒वता॑स्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति । आप॒स्तु न परि॑चक्षीत । यदाप॑ᳶ परि॒चक्षी॑त ॥20॥

यामे॒वाप्स्वाहु॑तिञ्जुहु॒यात् । ताम्परि॑चक्षीत । तस्मा॒दापो॒ न प॑रि॒चक्ष्याः॑ । मेध्या॑ च॒ वा ए॒तस्या॑मे॒ध्या च॑ त॒नुवौ॒ सँसृ॑ज्येते । यस्याहि॑ताग्नेर॒न्यैर॒ग्निभि॑र॒ग्नय॑स्सँसृ॒ज्यन्ते॑ । अ॒ग्नये॒ विवि॑चये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् । मेध्या॑ञ्चै॒वास्या॑मे॒ध्याञ्च॑ त॒नुवौ॒ व्याव॑र्तयति । अ॒ग्नये॑ व्र॒तप॑तये पु॒रो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् । अ॒ग्निमे॒व व्र॒तप॑ति॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति । स ए॒वैन॑व्व्रँ॒तमाल॑म्भयति ॥21॥

गर्भ॒॒ स्रव॑न्तमग॒दम॑कः । अ॒ग्निरिन्द्र॒स्त्वष्टा॒ बृह॒स्पतिः॑ । पृ॒थि॒व्यामव॑चुश्चोतै॒तत् । नाभिप्राप्नो॑ति॒ निर्ऋ॑तिम्परा॒चैः । रेतो॒ वा ए॒तद्वाजि॑न॒माहि॑ताग्नेः । यद॑ग्निहो॒त्रम् । तद्यत्स्रवे॑त् । रेतो॑ऽस्य॒ वाजि॑न स्रवेत् । गर्भँ॒ स्रव॑न्तमग॒दम॑क॒रित्या॑ह । रेत॑ ए॒वास्मि॒न्वाजि॑नन्दधाति ॥22॥

अ॒ग्निरित्या॑ह । अ॒ग्निर्वै रे॑तो॒धाः । रेत॑ ए॒व तद्द॑धाति । इन्द्र॒ इत्या॑ह । इ॒न्द्रि॒यमे॒वास्मि॑न्दधाति । त्वष्टेत्या॑ह । त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृत् । रू॒पमे॒व प॒शुषु॑ दधाति । बृह॒स्पति॒रित्या॑ह । ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पतिः॑ । ब्रह्म॑णै॒वास्मै॑ प्र॒जाᳶ प्रज॑नयति । पृ॒थि॒व्यामव॑ चुश्चोतै॒तदित्या॑ह । अ॒स्यामे॒वैन॒त्प्रति॑ष्ठापयति । नाभिप्राप्नो॑ति॒ निर्ऋ॑तिम्पराचै॒रित्या॑ह । रक्ष॑सा॒मप॑हत्यै ॥23॥

अ॒जाऽग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तं भ॑वति भवत्यासीत परि॒चक्षी॑त लम्भयति दधाति दे॒वानां॒ बृह॒स्पति॒ᳶ पञ्च॑ च ॥3॥ (वि वै यद्य॒न्यम॒जायां॑ ब्राह्म॒णस्य॑ दर्भस्त॒म्बे॑ऽप्सु हो॑त॒व्य॑म् ॥ )

याᳶ पु॒रस्ता॑त्प्र॒स्रव॑न्ति । उ॒परि॑ष्टात्स॒र्वत॑श्च॒ याः । ताभी॑ र॒श्मिप॑वित्राभिः । श्र॒द्धाय्यँ॒ज्ञमार॑भे । देवा॑ गातुविदः । गा॒तुय्यँ॒ज्ञाय॑ विन्दत । मन॑स॒स्पति॑ना दे॒वेन॑ । वाता॑द्य॒ज्ञᳶ प्रयु॑ज्यताम् । तृ॒तीय॑स्यै दि॒वः । गा॒य॒त्रि॒या सोम॒ आभृ॑तः ॥24॥

सो॒म॒पी॒थाय॒ सन्न॑यितुम् । वक॑ल॒मन्त॑र॒माद॑दे । आपो॑ देवीश्शु॒द्धास्स्थ॑ । इ॒मा पात्रा॑णि शुन्धत । उ॒पा॒त॒ङ्क्या॑य दे॒वाना॑म् । प॒र्ण॒व॒ल्कमु॒त शु॑न्धत । पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ । पयो॑ व॒त्सेषु॒ पय॒ इन्द्रा॑य ह॒विषे॑ ध्रियस्व । गा॒य॒त्री प॑र्णव॒ल्केन॑ । पय॒स्सोम॑ङ्करोत्वि॒मम् ॥25॥

अ॒ग्निङ्गृ॑ह्णामि सु॒रथय्ँ॒यो म॑यो॒भूः । य उ॒द्यन्त॑मा॒रोह॑ति॒ सूर्य॒मह्ने॑ । आ॒दि॒त्यञ्ज्योति॑षा॒ञ्ज्योति॑रुत्त॒मम् । श्वो य॒ज्ञाय॑ रमतान्दे॒वता॑भ्यः । वसू॑न्रु॒द्राना॑दि॒त्यान् । इन्द्रे॑ण स॒ह दे॒वताः॑ । ताᳶ पूर्व॒ᳶ परि॑गृह्णामि । स्व आ॒यत॑ने मनी॒षया॑ । इ॒मामूर्ज॑म्पञ्चद॒शीय्ँय्येँ प्रवि॑ष्टाः । तान्दे॒वान्परि॑गृह्णामि॒ पूर्वः॑ ॥26॥

अ॒ग्निर्ह॑व्य॒वाडि॒ह तानाव॑हतु । पौ॒र्ण॒मा॒सँ ह॒विरि॒दमे॑षा॒म्मयि॑ । आ॒मा॒वा॒स्यँ॑ ह॒विरि॒दमे॑षा॒म्मयि॑ । अ॒न्त॒राऽग्नी प॒शवः॑ । दे॒व॒सँ॒सद॒माग॑मन् । तान्पूर्व॒ᳶ परि॑गृह्णामि । स्व आ॒यत॑ने मनी॒षया॑ । इ॒ह प्र॒जा वि॒श्वरू॑पा रमन्ताम् । अ॒ग्निङ्गृ॒हप॑तिम॒भिसव्ँ॒वसा॑नाः । ताᳶ पूर्व॒ ᳶ परि॑गृह्णामि ॥27॥

स्व आ॒यत॑ने मनी॒षया॑ । इ॒ह प॒शवो॑ वि॒श्वरू॑पा रमन्ताम् । अ॒ग्निङ्गृ॒हप॑तिम॒भिसव्ँ॒वसा॑नाः । तान्पूर्व॒ᳶ परि॑गृह्णामि । स्व आ॒यत॑ने मनी॒षया॑ । अ॒यम्पि॑तृ॒णाम॒ग्निः । अवा॑ड्ढ॒व्या पि॒तृभ्य॒ आ । तम्पूर्व॒ᳶ परि॑गृह्णामि । अवि॑षन्नᳶ पि॒तुङ्क॑रत् । अज॑स्र॒न्त्वाँ स॑भापा॒लाः ॥28॥

वि॒ज॒यभा॑गँ॒ समि॑न्धताम् । अग्ने॑ दी॒दा॑य मे सभ्य । विजि॑त्यै श॒रद॑श्श॒तम् । अन्न॑मावस॒थीय॑म् । अ॒भिह॑राणि श॒रद॑श्श॒तम् । आ॒व॒स॒थे श्रिय॒म्मन्त्र॑म् । अहि॑र्बु॒ध्नियो॒ निय॑च्छतु । इ॒दम॒हम॒ग्निज्ये॑ष्ठेभ्यः । वसु॑भ्यो य॒ज्ञम्प्रब्र॑वीमि । इ॒दम॒हमिन्द्र॑ज्येष्ठेभ्यः ॥29॥

रु॒द्रेभ्यो॑ य॒ज्ञम्प्रब्र॑वीमि । इ॒दम॒हव्ँवरु॑णज्येष्ठेभ्यः । आ॒दि॒त्येभ्यो॑ य॒ज्ञम्प्रब्र॑वीमि । पय॑स्वती॒रोष॑धयः । पय॑स्वद्वी॒रुधा॒म्पयः॑ । अ॒पाम्पय॑सो॒ यत्पयः॑ । तेन॒ मामि॑न्द्र॒ सँसृ॑ज । अग्ने॑ व्रतपते व्र॒तञ्च॑रिष्यामि । तच्छ॑केय॒न्तन्मे॑ राध्यताम् । वायो॑ व्रतपत॒ आदि॑त्य व्रतपते ॥30॥

व्र॒ताना॑व्व्रँतपते व्र॒तञ्च॑रिष्यामि । तच्छ॑केय॒न्तन्मे॑ राध्यताम् । इ॒माम्प्राची॒मुदी॑चीम् । इष॒मूर्ज॑म॒भिसस्कृ॑ताम् । ब॒हु॒प॒र्णामशु॑ष्काग्राम् । हरा॑मि पशु॒पाम॒हम् । यत्कृष्णो॑ रू॒पङ्कृ॒त्वा । प्रावि॑श॒स्त्वव्वँन॒स्पती॑न् । तत॒स्त्वामे॑कविँशति॒धा । सम्भ॑रामि सुस॒म्भृता॑ ॥31॥

त्रीन्प॑रि॒धीँ स्ति॒स्रस्स॒मिधः॑ । य॒ज्ञायु॑रनुसञ्च॒रान् । उ॒प॒वे॒षम्मेक्ष॑ण॒न्धृष्टि॑म् । सम्भ॑रामि सुस॒म्भृता॑ । या जा॒ता ओष॑धयः । दे॒वेभ्य॑स्त्रियु॒गम्पु॒रा । तासा॒म्पर्व॑ राध्यासम् । प॒रि॒स्त॒रमा॒हर॑न् । अ॒पाम्मेध्यय्ँ॑ य॒ज्ञिय॑म् । सदे॑वँ शि॒वम॑स्तु मे ॥32॥

आ॒च्छे॒त्ता वो॒ मा रि॑षम् । जीवा॑नि श॒रद॑श्श॒तम् । अप॑रिमिताना॒म्परि॑मिताः । सन्न॑ह्ये सुकृ॒ताय॒ कम् । एनो॒ मा निगा॑ङ्कत॒मच्च॒नाहम् । पुन॑रु॒त्थाय॑ बहु॒ला भ॑वन्तु । स॒कृ॒दा॒च्छि॒न्नं ब॒र्हिरूर्णा॑मृदु । स्यो॒नम्पि॒तृभ्य॑स्त्वा भराम्य॒हम् । अ॒स्मिन्त्सी॑दन्तु मे पि॒तर॑स्सो॒म्याः । पि॒ता॒म॒हाᳶ प्रपि॑तामहाश्चानु॒गैस्स॒ह ॥33॥

त्रि॒वृत्प॑ला॒शे द॒र्भः । इया॑न्प्रादे॒शस॑म्मितः । य॒ज्ञे प॒वित्र॒म्पोतृ॑तमम् । पयो॑ ह॒व्यङ्क॑रोतु मे । इ॒मौ प्रा॑णापा॒नौ । य॒ज्ञस्याङ्गा॑नि सर्व॒शः । आ॒प्या॒यय॑न्तौ॒ सञ्च॑रताम् । प॒वित्रे॑ हव्य॒शोध॑ने । प॒वित्रे॑ स्थो वैष्ण॒वी । वा॒युर्वा॒म्मन॑सा पुनातु ॥34॥

अ॒यम्प्रा॒णश्चा॑पा॒नश्च॑ । यज॑मान॒मपि॑गच्छताम् । य॒ज्ञे ह्यभू॑ता॒म्पोता॑रौ । प॒वित्रे॑ हव्य॒शोध॑ने । त्वया॒ वेदिव्ँ॑विविदुᳶ पृथि॒वीम् । त्वया॑ य॒ज्ञो जा॑यते विश्व॒दानिः॑ । अच्छि॑द्रय्यँ॒ज्ञमन्वे॑षि वि॒द्वान् । त्वया॒ होता॒ सन्त॑नोत्यर्धमा॒सान् । त्र॒य॒स्त्रिँ॒शो॑ऽसि॒ तन्तू॑नाम् । प॒वित्रे॑ण स॒हाग॑हि ॥35॥

शि॒वेयँ रज्जु॑रभि॒धानी॑ । अ॒घ्नि॒यामुप॑सेवताम् । अप्र॑स्रँसाय य॒ज्ञस्य॑ । उ॒खे उप॑दधाम्य॒हम् । प॒शुभि॒स्सन्नी॑तम्बिभृताम् । इन्द्रा॑य शृ॒तन्दधि॑ । उ॒प॒वे॒षो॑ऽसि य॒ज्ञाय॑ । त्वाम्प॑रिवे॒षम॑धारयन् । इन्द्रा॑य ह॒विᳶ कृ॒ण्वन्तः॑ । शि॒वश्श॒ग्मो भ॑वासि नः ॥36॥

अमृ॑न्मयन्देवपा॒त्रम् । य॒ज्ञस्यायु॑षि॒ प्रयु॑ज्यताम् । ति॒र॒ᳶप॒वि॒त्रमति॑नीताः । आपो॑ धारय॒ माऽति॑गुः । दे॒वेन॑ सवि॒त्रोत्पू॑ताः । वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ । गान्दो॑हपवि॒त्रे रज्जु॑म् । सर्वा॒ पात्रा॑णि शुन्धत । ए॒ता आच॑रन्ति॒ मधु॑म॒द्दुहा॑नाः । प्र॒जाव॑तीर्य॒शसो॑ वि॒श्वरू॑पाः ॥37॥

ब॒ह्वीर्भव॑न्ती॒रुप॒जाय॑मानाः । इ॒ह व॒ इन्द्रो॑ रमयतु गावः । पू॒षा स्थ॑ । अ॒य॒क्ष्मा व॑ᳶ प्र॒जया॒ सँसृ॑जामि । रा॒यस्पोषे॑ण बहु॒लाभव॑न्तीः । ऊर्ज॒म्पय॒ᳶ पिन्व॑माना घृ॒तञ्च॑ । जी॒वो जीव॑न्ती॒रुप॑ वस्सदेयम् । द्यौश्चे॒मय्यँ॒ज्ञम्पृ॑थि॒वी च॒ सन्दु॑हाताम् । धा॒ता सोमे॑न स॒ह वाते॑न वा॒युः । यज॑मानाय॒ द्रवि॑णन्दधातु ॥38॥

उत्स॑न्दुहन्ति क॒लश॒ञ्चतु॑र्बिलम् । इडा॑न्दे॒वीम्मधु॑मतीँ सुव॒र्विद॑म् । तदि॑न्द्रा॒ग्नी जि॑न्वतँ सू॒नृता॑वत् । तद्यज॑मानममृत॒त्वे द॑धातु । काम॑धुक्ष॒ᳶ प्र णो॑ ब्रूहि । इन्द्रा॑य ह॒विरि॑न्द्रि॒यम् । अ॒मूय्यँस्या॑न्दे॒वाना॑म् । म॒नु॒ष्या॑णा॒म्पयो॑ हि॒तम् । ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यः॑ । ह॒व्यमाप्या॑यता॒म्पुनः॑ ॥39॥

व॒त्सेभ्यो॑ मनु॒ष्ये॑भ्यः । पु॒न॒र्दो॒हाय॑ कल्पताम् । य॒ज्ञस्य॒ सन्त॑तिरसि । य॒ज्ञस्य॑ त्वा॒ सन्त॑ति॒मनु॒सन्त॑नोमि । अद॑स्तमसि॒ विष्ण॑वे त्वा । य॒ज्ञायापि॑दधाम्य॒हम् । अ॒द्भिररि॑क्तेन॒ पात्रे॑ण । याᳶ पू॒ताᳶ प॑रि॒शेर॑ते । अ॒यम्पय॒स्सोम॑ङ्कृ॒त्वा । स्वाय्योँनि॒मपि॑गच्छतु ॥40॥

प॒र्ण॒व॒ल्कᳶ प॒वित्र॑म् । सौ॒म्यस्सोमा॒द्धि निर्मि॑तः । इ॒मौ प॒र्णञ्च॑ द॒र्भञ्च॑ । दे॒वानाँ॑ हव्य॒शोध॑नौ । प्रा॒त॒र्वे॒षाय॑ गोपाय । विष्णो॑ ह॒व्यँ हि रक्ष॑सि । उ॒भाव॒ग्नी उ॑पस्तृण॒ते । दे॒वता॒ उप॑वसन्तु मे । अ॒हङ्ग्रा॒म्यानुप॑वसामि । मह्य॒ङ्गोप॑तये प॒शून् ॥41॥

आभृ॑त इ॒मङ्गृ॑ह्णामि॒ पूर्व॒स्ताᳶ पूर्व॒ᳶ परि॑गृह्णामि सभापा॒ला इन्द्र॑ज्येष्ठेभ्य॒ आदि॑त्य व्रतपते सुसं॒भृता॑ मे स॒ह पु॑नातु गहि नो वि॒श्वरू॑पा दधातु॒ पुन॑र्गच्छतु प॒शून् ॥ 4 ॥ (याᳶपु॒रस्ता॑दि॒मामूर्ज॑मि॒ह प्र॒जा इ॒ह प॒शवो॒ऽयं पि॑तृ॒णाम॒ग्निः । )

देवा॑ दे॒वेषु॒ परा॑क्रमध्वम् । प्रथ॑मा द्वि॒तीये॑षु । द्विती॑यास्तृ॒तीये॑षु । त्रिरे॑कादशा इ॒ह मा॑ऽवत । इ॒दँ श॑केयय्ँ॒यदि॒दङ्क॒रोमि॑ । आ॒त्मा क॑रोत्वा॒त्मने॑ । इ॒दङ्क॑रिष्ये भेष॒जम् । इ॒दम्मे॑ विश्वभेषजा । अश्वि॑ना॒ प्राव॑तय्युँ॒वम् । इ॒दम॒हँ सेना॑या अ॒भीत्व॑र्यै ॥42॥

मुख॒मपो॑हामि । सूर्य॑ ज्योति॒र्विभा॑हि । म॒ह॒त इ॑न्द्रि॒याय॑ । आप्या॑यताङ्घृ॒तयो॑निः । अ॒ग्निर्ह॒व्याऽनु॑मन्यताम् । खम॑ङ्क्ष्व॒ त्वच॑मङ्क्ष्व । सु॒रू॒पन्त्वा॑ वसु॒विद॑म् । प॒शू॒नान्तेज॑सा । अ॒ग्नये॒ जुष्ट॑म॒भिघा॑रयामि । स्यो॒नन्ते॒ सद॑नङ्करोमि ॥43॥

घृ॒तस्य॒ धार॑या सु॒शेव॑ङ्कल्पयामि । तस्मि॑न्त्सीदा॒मृते॒ प्रति॑तिष्ठ । व्री॒ही॒णाम्मे॑ध सुमन॒स्यमा॑नः । आ॒र्द्रᳶ प्र॑थस्नु॒र्भुव॑नस्य गो॒पाः । शृ॒त उत्स्ना॑ति जनि॒ता म॑ती॒नाम् । यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः । दे॒वाना॑व्विँ॒ष्ठामनु॒ यो वि॑त॒स्थे । आ॒त्म॒न्वान्त्सो॑म घृ॒तवा॒न् हि भू॒त्वा । दे॒वान्ग॑च्छ॒ सुव॑र्विन्द॒ यज॑मानाय॒ मह्य॑म् । इरा॒ भूति॑ᳶ पृथि॒व्यै रसो॒ मोत्क्र॑मीत् ॥44॥

देवा॑ᳶ पितर॒ᳶ पित॑रो देवाः । यो॑ऽहम॑स्मि॒ स सन् य॑जे । यस्या॑स्मि॒ न तम॒न्तरे॑मि । स्वम्म॑ इ॒ष्ट स्वन्द॒त्तम् । स्वम्पू॒र्त स्व श्रा॒न्तम् । स्वँ हु॒तम् । तस्य॑ मे॒ऽग्निरु॑पद्र॒ष्टा । वा॒युरु॑पश्रो॒ता । आ॒दि॒त्यो॑ऽनुख्या॒ता । द्यौᳶ पि॒ता ॥45॥

पृ॒थि॒वी मा॒ता । प्र॒जाप॑ति॒र्बन्धुः॑ । य ए॒वास्मि॒ स सन् य॑जे । मा भेर्मा सव्विँ॑क्था॒ मा त्वा॑ हिँसिषम् । मा ते॒ तेजोऽप॑क्रमीत् । भ॒र॒तमुद्ध॑रे॒मनु॑षिञ्च । अ॒व॒दाना॑नि ते प्र॒त्यव॑दास्यामि । नम॑स्ते अस्तु॒ मा मा॑ हिँसीः । यद॑व॒दाना॑नि तेऽव॒द्यन् । विलो॒माका॑र्षमा॒त्मनः॑ ॥46॥

आज्ये॑न॒ प्रत्य॑नज्म्येनत् । तत्त॒ आप्या॑यता॒म्पुनः॑ । अज्या॑यो यवमा॒त्रात् । आ॒व्या॒धात्कृ॑त्यतामि॒दम् । मा रू॑रुपाम य॒ज्ञस्य॑ । शु॒द्ध स्वि॑ष्टमि॒दँ ह॒विः । मनु॑ना दृ॒ष्टाङ्घृ॒तप॑दीम् । मि॒त्रावरु॑णसमीरिताम् । द॒क्षि॒णा॒र्धादस॑म्भिन्दन् । अव॑द्याम्येक॒तोमु॑खाम् ॥47॥

इडे॑ भा॒गञ्जु॑षस्व नः । जिन्व॒ गा जिन्वार्व॑तः । तस्या॑स्ते भक्षि॒वाण॑स्स्याम । स॒र्वात्मा॑नस्स॒र्वग॑णाः । ब्रध्न॒ पिन्व॑स्व । दद॑तो मे॒ मा क्षा॑यि । कु॒र्व॒तो मे॒ मोप॑दसत् । दि॒शाङ्कॢप्ति॑रसि । दिशो॑ मे कल्पन्ताम् । कल्प॑न्ताम्मे॒ दिशः॑ ॥48॥

दैवी॑श्च॒ मानु॑षीश्च । अ॒हो॒रा॒त्रे मे॑ कल्पेताम् । अ॒र्ध॒मा॒सा मे॑ कल्पन्ताम् । मासा॑ मे कल्पन्ताम् । ऋ॒तवो॑ मे कल्पन्ताम् । सव्ँ॒व॒त्स॒रो मे॑ कल्पताम् । कॢप्ति॑रसि॒ कल्प॑ताम्मे । आशा॑नान्त्वाऽऽशापा॒लेभ्यः॑ । च॒तुर्भ्यो॑ अ॒मृते॑भ्यः । इ॒दम्भू॒तस्याध्य॑क्षेभ्यः ॥49॥

वि॒धेम॑ ह॒विषा॑ व॒यम् । भज॑ताम्भा॒गी भा॒गम् । मा भा॒गोऽभ॑क्त । निर॑भा॒गम्भ॑जामः । अ॒पस्पि॑न्व । ओष॑धीर्जिन्व । द्वि॒पात्पा॑हि । चतु॑ष्पादव । दि॒वो वृष्टि॒मेर॑य । ब्रा॒ह्म॒णाना॑मि॒दँ ह॒विः ॥50॥

सो॒म्यानाँ॑ सोमपी॒थिना॑म् । निर्भ॒क्तो ब्रा॑ह्मणः । नेहाब्रा॑ह्मणस्यास्ति । सम॑ङ्क्ताम्ब॒र्हिर्ह॒विषा॑ घृ॒तेन॑ । समा॑दि॒त्यैर्वसु॑भि॒स्सम्म॒रुद्भिः॑ । समिन्द्रे॑ण॒ विश्वे॑भिर्दे॒वेभि॑रङ्क्ताम् । दि॒व्यन्नभो॑ गच्छतु॒ यत्स्वाहा॑ । इ॒न्द्रा॒णीवा॑ऽविध॒वा भू॑यासम् । अदि॑तिरिव सुपु॒त्रा । अ॒स्थू॒रि त्वा॑ गार्हपत्य ॥51॥

उप॒निष॑दे सुप्रजा॒स्त्वाय॑ । सम्पत्नी॒ पत्या॑ सुकृ॒तेन॑ गच्छताम् । य॒ज्ञस्य॑ यु॒क्तौ धुर्या॑वभूताम् । स॒ञ्जा॒ना॒नौ विज॑हता॒मरा॑तीः । दि॒वि ज्योति॑र॒जर॒मार॑भेताम् । दश॑ते त॒नुवो॑ यज्ञ य॒ज्ञियाः॑ । ताᳶ प्री॑णातु॒ यज॑मानो घृ॒तेन॑ । ना॒रि॒ष्ठयो॑ᳶ प्र॒शिष॒मीड॑मानः । दे॒वाना॒न्दैव्येऽपि॒ यज॑मानो॒ऽमृतो॑ऽभूत् । यव्वाँ॑न्दे॒वा अ॑कल्पयन्न् ॥52॥

ऊ॒र्जो भा॒गँ श॑तक्रतू । ए॒तद्वा॒न्तेन॑ प्रीणानि । तेन॑ तृप्यतमँहहौ । अ॒हन्दे॒वानाँ॑ सु॒कृता॑मस्मि लो॒के । ममे॒दमि॒ष्टन्न मिथु॑र्भवाति । अ॒हन्ना॑रि॒ष्ठावनु॑ यजामि वि॒द्वान् । यदा॑भ्या॒मिन्द्रो॒ अद॑धाद्भाग॒धेय॑म् । अदा॑रसृद्भवत देव सोम । अ॒स्मिन् य॒ज्ञे म॑रुतो मृडता नः । मा नो॑ विदद॒भिभा॒मो अश॑स्तिः ॥53॥

मा नो॑ विदद्वृ॒जना॒ द्वेष्या॒ या । ऋ॒ष॒भव्वाँ॒जिनव्ँ॑व॒यम् । पू॒र्णमा॑सय्यँजामहे । स नो॑ दोहताँ सु॒वीर्य॑म् । रा॒यस्पोषँ॑ सह॒स्रिण॑म् । प्रा॒णाय॑ सु॒राध॑से । पू॒र्णमा॑साय॒ स्वाहा॑ । अ॒मा॒वा॒स्या॑ सु॒भगा॑ सु॒शेवा॑ । धे॒नुरि॑व॒ भूय॑ आ॒प्याय॑माना । सा नो॑ दोहताँ सु॒वीर्य॑म् । रा॒यस्पोषँ॑ सह॒स्रिण॑म् । अ॒पा॒नाय॑ सु॒राध॑से । अ॒मा॒वा॒स्या॑यै॒ स्वाहा॑ । अ॒भिस्तृ॑णीहि॒ परि॑धेहि॒ वेदि॑म् । जा॒मिम्मा हिँ॑सीरमु॒या शया॑ना । हो॒तृ॒षद॑ना॒ हरि॑तास्सु॒वर्णाः॑ । नि॒ष्का इ॒मे यज॑मानस्य ब्र॒ध्ने ॥54॥

अ॒भीत्व॑र्यै करोमि क्रमीत्पि॒ताऽऽत्मन॑ एक॒तो मु॑खां मे॒ दिशोऽध्य॑क्षेभ्यो ह॒विर्गा॑र्हपत्या कल्पय॒न्नश॑स्ति॒स्सा नो॑ दोहताँ सु॒वीर्यँ॑ स॒प्त च॑ ॥ 5 ॥

परि॑स्तृणीत॒ परि॑धत्ता॒ग्निम् । परि॑हितो॒ऽग्निर्यज॑मानम्भुनक्तु । अ॒पाँ रस॒ ओष॑धीनाँ सु॒वर्णः॑ । नि॒ष्का इ॒मे यज॑मानस्य सन्तु काम॒दुघाः॑ । अ॒मुत्रा॒मुष्मिल्ँ॑ लो॒के । भूप॑ते॒ भुव॑नपते । म॒ह॒तो भू॒तस्य॑ पते । ब्र॒ह्माण॑न्त्वा वृणीमहे । अ॒हम्भूप॑तिर॒हम्भुव॑नपतिः । अ॒हम्म॑ह॒तो भू॒तस्य॒ पतिः॑ ॥55॥

दे॒वेन॑ सवि॒त्रा प्रसू॑त॒ आर्त्वि॑ज्यङ्करिष्यामि । देव॑ सवितरे॒तन्त्वा॑ वृणते । बृह॒स्पति॒न्दैव्य॑म्ब्र॒ह्माण॑म् । तद॒हम्मन॑से॒ प्रब्र॑वीमि । मनो॑ गायत्रि॒यै । गा॒य॒त्री त्रि॒ष्टुभे॑ । त्रि॒ष्टुब्जग॑त्यै । जग॑त्यनु॒ष्टुभे॑ । अ॒नु॒ष्टुक्प॒ङ्क्त्यै । प॒ङ्क्तिᳶ प्र॒जाप॑तये ॥56॥

प्र॒जाप॑ति॒र्विश्वे॑भ्यो दे॒वेभ्यः॑ । विश्वे॑ दे॒वा बृह॒स्पत॑ये । बृह॒स्पति॒र्ब्रह्म॑णे । ब्रह्म॒ भूर्भुव॒स्सुवः॑ । बृह॒स्पति॑र्दे॒वाना॑म्ब्र॒ह्मा । अ॒हम्म॑नु॒ष्या॑णाम् । बृह॑स्पते य॒ज्ञङ्गो॑पाय । इ॒दन्तस्मै॑ ह॒र्म्यङ्क॑रोमि । यो वो॑ देवा॒श्चर॑ति ब्रह्म॒चर्य॑म् । मे॒धा॒वी दि॒क्षु मन॑सा तप॒स्वी ॥57॥

अ॒न्तर्दू॒तश्च॑रति॒ मानु॑षीषु । चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः॑ । घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये॑ । म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय । मह्य॑न्धुक्ष्व॒ यज॑मानाय॒ कामा॑न् । भूमि॑र्भू॒त्वा म॑हि॒मान॑म्पुपोष । ततो॑ दे॒वी व॑र्धयते॒ पयाँ॑सि । य॒ज्ञिया॑ य॒ज्ञव्विँ च॒ यन्ति॒ शञ्च॑ । ओष॑धी॒राप॑ इ॒ह शक्व॑रीश्च । यो मा॑ हृ॒दा मन॑सा॒ यश्च॑ वा॒चा ॥58॥

यो ब्रह्म॑णा॒ कर्म॑णा॒ द्वेष्टि॑ देवाः । यश्श्रु॒तेन॒ हृद॑येनेष्ण॒ता च॑ । तस्ये॑न्द्र॒ वज्रे॑ण॒ शिर॑श्छिनद्मि । ऊर्णा॑मृदु॒ प्रथ॑मान स्यो॒नम् । दे॒वेभ्यो॒ जुष्टँ॒ सद॑नाय ब॒र्हिः । सु॒व॒र्गे लो॒के यज॑मानँ॒ हि धे॒हि । मान्नाक॑स्य पृ॒ष्ठे प॑र॒मे व्यो॑मन् । चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः॑ । घृ॒तप्र॑तीका व॒युना॑नि वस्ते । साऽऽस्ती॒र्यमा॑णा मह॒ते सौभ॑गाय ॥59 ॥

सा मे॑ धुक्ष्व॒ यज॑मानाय॒ कामा॑न् । शि॒वा च॑ मे श॒ग्मा चै॑धि । स्यो॒ना च॑ मे सु॒षदा॑ चैधि । ऊर्ज॑स्वती च मे॒ पय॑स्वती चैधि । इष॒मूर्ज॑म्मे पिन्वस्व । ब्रह्म॒ तेजो॑ मे पिन्वस्व । क्ष॒त्रमोजो॑ मे पिन्वस्व । विश॒म्पुष्टि॑म्मे पिन्वस्व । आयु॑र॒न्नाद्य॑म्मे पिन्वस्व । प्र॒जाम्प॒शून्मे॑ पिन्वस्व ॥60॥

अ॒स्मिन् य॒ज्ञ उप॒ भूय॒ इन्नु मे॑ । अवि॑क्षोभाय परि॒धीन्द॑धामि । ध॒र्ता ध॒रुणो॒ धरी॑यान् । अ॒ग्निर्द्वेषाँ॑सि॒ निरि॒तो नु॑दातै । विच्छि॑नद्मि॒ विधृ॑तीभ्याँ स॒पत्ना॑न् । जा॒तान्भ्रातृ॑व्या॒न्ये च॑ जनि॒ष्यमा॑णाः । वि॒शो य॒न्त्राभ्याव्ँ॒विध॑माम्येनान् । अ॒ह स्वाना॑मुत्त॒मो॑ऽसानि देवाः । वि॒शो य॒न्त्रे नु॒दमा॑ने॒ अरा॑तिम् । विश्व॑म्पा॒प्मान॒मम॑तिन्दुर्मरा॒युम् ॥61॥

सीद॑न्ती दे॒वी सु॑कृ॒तस्य॑ लो॒के । धृती॑ स्थो॒ विधृ॑ती॒ स्वधृ॑ती । प्रा॒णान्मयि॑ धारयतम् । प्र॒जाम्मयि॑ धारयतम् । प॒शून्मयि॑ धारयतम् । अ॒यम्प्र॑स्त॒र उ॒भय॑स्य ध॒र्ता । ध॒र्ता प्र॑या॒जाना॑मु॒तानू॑या॒जाना॑म् । स दा॑धार स॒मिधो॑ वि॒श्वरू॑पाः । तस्मि॒न्त्स्रुचो॒ अध्यासा॑दयामि । आरो॑ह प॒थो जु॑हु देव॒याना॑न् ॥62॥

यत्रर्ष॑यᳶ प्रथम॒जा ये पु॑रा॒णाः । हिर॑ण्यपक्षाऽजि॒रा सम्भृ॑ताङ्गा । वहा॑सि मा सु॒कृताय्ँ॒यत्र॑ लो॒काः । अवा॒हम्बा॑ध उप॒भृता॑ स॒पत्ना॑न् । जा॒तान्भ्रातृ॑व्या॒न्ये च॑ जनि॒ष्यमा॑णाः । दोहै॑ य॒ज्ञँ सु॒दुघा॑मिव धे॒नुम् । अ॒हमुत्त॑रो भूयासम् । अध॑रे॒ मत्स॒पत्नाः॑ । यो मा॑ वा॒चा मन॑सा दुर्मरा॒युः । हृ॒दाऽरा॑ती॒याद॑भि॒दास॑दग्ने ॥63॥

इ॒दम॑स्य चि॒त्तमध॑रन्ध्रु॒वायाः॑ । अ॒हमुत्त॑रो भूयासम् । अध॑रे॒ मत्स॒पत्नाः॑ । ऋ॒ष॒भो॑ऽसि शाक्व॒रः । घृ॒ताची॑नाँ सू॒नुः । प्रि॒येण॒ नाम्ना॑ प्रि॒ये सद॑सि सीद । स्यो॒नो मे॑ सीद सु॒षद॑ᳶ पृथि॒व्याम् । प्रथ॑यि प्र॒जया॑ प॒शुभि॑स्सुव॒र्गे लो॒के । दि॒वि सी॑द पृथि॒व्याम॒न्तरि॑क्षे । अ॒हमुत्त॑रो भूयासम् ॥64॥

अध॑रे॒ मत्स॒पत्नाः॑ । इ॒य स्था॒ली घृ॒तस्य॑ पू॒र्णा । अच्छि॑न्नपयाश्श॒तधा॑र॒ उत्सः॑ । मा॒रु॒तेन॒ शर्म॑णा॒ दैव्ये॑न । य॒ज्ञो॑ऽसि स॒र्वत॑श्श्रि॒तः । स॒र्वतो॒ माम्भू॒तम्भ॑वि॒ष्यच्छ्र॑यताम् । श॒तम्मे॑ सन्त्वा॒शिषः॑ । स॒हस्र॑म्मे सन्तु सू॒नृताः॑ । इरा॑वतीᳶ पशु॒मतीः॑ । प्र॒जाप॑तिरसि स॒र्वत॑श्श्रि॒तः ॥65॥

स॒र्वतो॒ माम्भू॒तम्भ॑वि॒ष्यच्छ्र॑यताम् । श॒तम्मे॑ सन्त्वा॒शिषः॑ । स॒हस्र॑म्मे सन्तु सू॒नृताः॑ । इरा॑वतीᳶ पशु॒मतीः॑ । इ॒दमि॑न्द्रि॒यम॒मृत॑व्वीँ॒र्य॑म् । अ॒नेनेन्द्रा॑य प॒शवो॑ऽचिकित्सन् । तेन॑ देवा अव॒तोप॒ माम् । इ॒हेष॒मूर्जय्ँ॒यश॒स्सह॒ ओज॑स्सनेयम् । शृ॒तम्मयि॑ श्रयताम् । यत्पृ॑थि॒वीमच॑र॒त्तत्प्रवि॑ष्टम् ॥66॥

येनासि॑ञ्च॒द्बल॒मिन्द्रे॑ प्र॒जाप॑तिः । इ॒दन्तच्छु॒क्रम्मधु॑ वा॒जिनी॑वत् । येनो॒परि॑ष्टा॒दधि॑नोन्महे॒न्द्रम् । दधि॒ मान्धि॑नोतु । अ॒यव्वेँ॒दᳶ पृ॑थि॒वीमन्व॑विन्दत् । गुहा॑ स॒तीङ्गह॑ने॒ गह्व॑रेषु । स वि॑न्दतु॒ यज॑मानाय लो॒कम् । अच्छि॑द्रय्यँ॒ज्ञम्भूरि॑कर्मा करोतु । अ॒यय्यँ॒ज्ञस्सम॑सदद्ध॒विष्मा॑न् । ऋ॒चा साम्ना॒ यजु॑षा दे॒वता॑भिः ॥67॥

तेन॑ लो॒कान्त्सूर्य॑वतो जयेम इन्द्र॑स्य स॒ख्यम॑मृत॒त्वम॑श्याम् । यो न॒ᳶ कनी॑य इ॒ह का॒मया॑तै । अ॒स्मिन् य॒ज्ञे यज॑मानाय॒ मह्य॑म् । अप॒ तमि॑न्द्रा॒ग्नी भुव॑नान्नुदेताम् । अ॒हम्प्र॒जाव्वीँ॒रव॑तीव्विँदेय । अग्ने॑ वाजजित् । वाज॑न्त्वा सरि॒ष्यन्त॑म् । वाज॑ञ्जे॒ष्यन्त॑म् । वा॒जिनव्ँ॑वाज॒जित॑म् ॥68॥

वा॒ज॒जि॒त्यायै॒ सम्मा॑र्ज्मि । अ॒ग्निम॑न्ना॒दम॒न्नाद्या॑य । उप॑हूतो॒ द्यौᳶ पि॒ता । उप॒ मान्द्यौᳶ पि॒ता ह्व॑यताम् । अ॒ग्निराग्नी॑ध्रात् । आयु॑षे॒ वर्च॑से । जी॒वात्वै पुण्या॑य । उप॑हूता पृथि॒वी मा॒ता । उप॒ माम्मा॒ता पृ॑थि॒वी ह्व॑यताम् । अ॒ग्निराग्नी॑ध्रात् ॥69॥

आयु॑षे॒ वर्च॑से । जी॒वात्वै पुण्या॑य । मनो॒ ज्योति॑र्जुषता॒माज्य॑म् । विच्छि॑न्नय्यँ॒ज्ञँ समि॒मन्द॑धातु । बृह॒स्पति॑स्तनुतामि॒मन्नः॑ । विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् । यन्ते॑ अग्न आवृ॒श्चामि॑ । अ॒हव्वाँ॑ क्षिपि॒तश्चर॑न् । प्र॒जाञ्च॒ तस्य॒ मूल॑ञ्च । नी॒चैर्दे॑वा॒ निवृ॑श्चत ॥70॥

अग्ने॒ यो नो॑ऽभि॒दास॑ति । स॒मा॒नो यश्च॒ निष्ट्यः॑ । इ॒ध्मस्ये॑व प्र॒क्षाय॑तः । मा तस्योच्छे॑षि॒ किञ्च॒न । यो मान्द्वेष्टि॑ जातवेदः । यञ्चा॒हन्द्वेष्मि॒ यश्च॒ माम् । सर्वाँ॒ स्तान॑ग्ने॒ सन्द॑ह । याँ श्चा॒हन्द्वेष्मि॒ ये च॒ माम् । अग्ने॑ वाजजित् । वाज॑न्त्वा ससृ॒वाँस॑म् ॥71॥

वाज॑ञ्जिगि॒वाँस॑म् । वा॒जिनव्ँ॑वाज॒जित॑म् । वा॒ज॒जि॒त्यायै॒ सम्मा॑र्ज्मि । अ॒ग्निम॑न्ना॒दम॒न्नाद्या॑य । वेदि॑र्ब॒र्हिश्शृ॒तँ ह॒विः । इ॒ध्मᳶ प॑रि॒धय॒स्स्रुचः॑ । आज्यय्ँ॑ य॒ज्ञ ऋचो॒ यजुः॑ । या॒ज्या॑श्च वषट्का॒राः । सम्मे॒ सन्न॑तयो नमन्ताम् । इ॒ध्म॒स॒न्नह॑ने हु॒ते ॥72॥

दि॒वᳶ खीलोऽव॑ततः । पृ॒थि॒व्या अध्युत्थि॑तः । तेना॑ स॒हस्र॑काण्डेन । द्वि॒षन्तँ॑ शोचयामसि । द्वि॒षन्मे॑ ब॒हु शो॑चतु । ओष॑धे॒ मो अ॒हँ शु॑चम् । यज्ञ॒ नम॑स्ते यज्ञ । नमो॒ नम॑श्च ते यज्ञ । शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व । स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व ॥73॥

सु॒भू॒तेन॑ मे॒ सन्ति॑ष्ठस्व । ब्र॒ह्म॒व॒र्च॒सेन॑ मे॒ सन्ति॑ष्ठस्व । य॒ज्ञस्यर्द्धि॒मनु॒ सन्ति॑ष्ठस्व । उप॑ ते यज्ञ॒ नमः॑ । उप॑ ते॒ नमः॑ । उप॑ ते॒ नमः॑ । त्रिष्फ॒लीक्रि॒यमा॑णानाम् । यो न्य॒ङ्गो अ॑व॒शिष्य॑ते । रक्ष॑साम्भाग॒धेय॑म् । आप॒स्तत्प्रव॑हतादि॒तः ॥74॥

उ॒लूख॑ले॒ मुस॑ले॒ यच्च॒ शूर्पे॑ । आ॒शि॒श्लेष॑ दृ॒षदि॒ यत्क॒पाले॑ । अ॒व॒प्रुषो॑ वि॒प्रुष॒स्सय्यँ॑जामि । विश्वे॑ दे॒वा ह॒विरि॒दञ्जु॑षन्ताम् । य॒ज्ञे या वि॒प्रुष॒स्सन्ति॑ ब॒ह्वीः । अ॒ग्नौ तास्सर्वा॒स्स्वि॑ष्टा॒स्सुहु॑ता जुहोमि । उ॒द्यन्न॒द्यमि॑त्र महः । स॒पत्ना॑न्मे अनीनशः । दिवै॑नान् वि॒द्युता॑ जहि । नि॒म्रोच॒न्नध॑रान्कृधि ॥75॥

उ॒द्यन्न॒द्य वि नो॑ भज । पि॒ता पु॒त्रेभ्यो॒ यथा॑ । दी॒र्घा॒यु॒त्वस्य॑ हेशिषे । तस्य॑ नो देहि सूर्य । उ॒द्यन्न॒द्य मि॑त्रमहः । आ॒रोह॒न्नुत्त॑रा॒न्दिव॑म् । हृ॒द्रो॒गम्मम॑ सूर्य । ह॒रि॒माण॑ञ्च नाशय । शुके॑षु मे हरि॒माण॑म् । रो॒प॒णाका॑सु दध्मसि ॥76॥

अथो॑ हारिद्र॒वेषु॑ मे । ह॒रि॒माण॒न्निद॑ध्मसि । उद॑गाद॒यमा॑दि॒त्यः । विश्वे॑न॒ सह॑सा स॒ह । द्वि॒षन्त॒म्मम॑ र॒न्धय॑न् । मो अ॒हन्द्वि॑ष॒तो र॑धम् । यो न॒श्शपा॒दश॑पतः । यश्च॑ न॒श्शप॑त॒श्शपा॑त् । उ॒षाश्च॒ तस्मै॑ नि॒म्रुक्च॑ । सर्व॑म्पा॒पँ समू॑हताम् ॥77॥

यो न॑स्स॒पत्नो॒ यो रणः॑ । मर्तो॑ऽभि॒दास॑ति देवाः । इ॒ध्मस्ये॑व प्र॒क्षाय॑तः । मा तस्योच्छे॑षि॒ किञ्च॒न । अव॑सृष्ट॒ᳶ परा॑पत । श॒रो ब्रह्म॑सँशितः । गच्छा॒ऽमित्रा॒न्प्रवि॑श । मैषा॒ङ्कञ्च॒नोच्छि॑षः ॥78॥

पति॑ᳶ प्र॒जाप॑तये तप॒स्वी वा॒चा सौभ॑गाय प॒शून्मे॑ पिन्वस्व दुर्मरा॒युन्दे॑व॒याना॑नग्ने॒ऽन्तरि॑क्षे॒ऽहमुत्त॑रो भूयासं प्र॒जाप॑तिरसि स॒र्वत॑श्श्रि॒तᳶ प्रवि॑ष्टन्दे॒वता॑भिर्वाज॒जितं॑ पृथि॒वी ह्व॑यताम॒ग्निराग्नी॑ध्राद्वृश्चत ससृ॒वाँसँ॑ हु॒ते स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्वे॒तᳶ कृ॑धि दध्मस्यूहताम॒ष्टौ च॑ ॥ 6 ॥

सक्षे॒दम्प॑श्य । विध॑र्तरि॒दम्प॑श्य । नाके॒दम्प॑श्य । र॒मति॒ᳶ पनि॑ष्ठा । ऋ॒तव्वँर्षि॑ष्ठम् । अ॒मृता॒यान्या॒हुः । सूर्यो॒ वरि॑ष्ठो अ॒क्षभि॒र्विभा॑ति । अनु॒ द्यावा॑पृथि॒वी दे॒वपु॑त्रे । दी॒क्षाऽसि॒ तप॑सो॒ योनिः॑ । तपो॑ऽसि॒ ब्रह्म॑णो॒ योनिः॑ ॥79॥

ब्रह्मा॑सि क्ष॒त्रस्य॒ योनिः॑ । क्ष॒त्रम॑स्यृ॒तस्य॒ योनिः॑ । ऋ॒तम॑सि॒ भूरार॑भे । श्र॒द्धाम्मन॑सा । दी॒क्षान्तप॑सा । विश्व॑स्य॒ भुव॑न॒स्याधि॑पत्नीम् । सर्वे॒ कामा॒ यज॑मानस्य सन्तु । वात॑म्प्रा॒णम्मन॑सा॒ऽन्वार॑भामहे । प्र॒जाप॑तिय्ँ॒यो भुव॑नस्य गो॒पाः । स नो॑ मृ॒त्योस्त्रा॑यता॒म्पात्वँह॑सः ॥80॥

ज्योग्जी॒वा ज॒राम॑शीमहि । इन्द्र॑ शाक्वर गाय॒त्रीम्प्रप॑द्ये । तान्ते॑ युनज्मि । इन्द्र॑ शाक्वर त्रि॒ष्टुभ॒म्प्रप॑द्ये । तान्ते॑ युनज्मि । इन्द्र॑ शाक्वर॒ जग॑ती॒म्प्रप॑द्ये । तान्ते॑ युनज्मि । इन्द्र॑ शाक्वरानु॒ष्टुभ॒म्प्रप॑द्ये । तान्ते॑ युनज्मि । इन्द्र॑ शाक्वर प॒ङ्क्तिम्प्रप॑द्ये ॥81॥

तान्ते॑ युनज्मि । आऽहन्दी॒क्षाम॑रुहमृ॒तस्य॒ पत्नी॑म् । गा॒य॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च । ऋ॒तँ स॒त्ये॑ऽधायि । स॒त्यमृ॒ते॑ऽधायि । ऋ॒तञ्च॑ मे स॒त्यञ्चा॑भूताम् । ज्योति॑रभूवँ॒ सुव॑रगमम् । सु॒व॒र्गल्लोँ॒कन्नाक॑स्य पृ॒ष्ठम् । ब्र॒ध्नस्य॑ वि॒ष्टप॑मगमम् । पृ॒थि॒वी दी॒क्षा ॥82॥

तया॒ऽग्निर्दी॒क्षया॑ दीक्षि॒तः । यया॒ऽग्निर्दी॒क्षया॑ दीक्षि॒तः । तया॑ त्वा दी॒क्षया॑ दीक्षयामि । अ॒न्तरि॑क्षन्दी॒क्षा । तया॑ वा॒युर्दी॒क्षया॑ दीक्षि॒तः । यया॑ वा॒युर्दी॒क्षया॑ दीक्षि॒तः । तया॑ त्वा दी॒क्षया॑ दीक्षयामि । द्यौर्दी॒क्षा । तया॑ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒तः । यया॑ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒तः ॥83॥

तया॑ त्वा दी॒क्षया॑ दीक्षयामि । दिशो॑ दी॒क्षा । तया॑ च॒न्द्रमा॑ दी॒क्षया॑ दीक्षि॒तः । यया॑ च॒न्द्रमा॑ दी॒क्षया॑ दीक्षि॒तः । तया॑ त्वा दी॒क्षया॑ दीक्षयामि । आपो॑ दी॒क्षा । तया॒ वरु॑णो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः । यया॒ वरु॑णो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः । तया॑ त्वा दी॒क्षया॑ दीक्षयामि । ओष॑धयो दी॒क्षा ॥84॥

तया॒ सोमो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः । यया॒ सोमो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः । तया॑ त्वा दी॒क्षया॑ दीक्षयामि । वाग्दी॒क्षा । तया॑ प्रा॒णो दी॒क्षया॑ दीक्षि॒तः । यया॑ प्रा॒णो दी॒क्षया॑ दीक्षि॒तः । तया॑ त्वा दी॒क्षया॑ दीक्षयामि । पृ॒थि॒वी त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् । अ॒न्तरि॑क्षन्त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् । द्यौस्त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् ॥85॥

दिश॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । आप॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । ओष॑धयस्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । वाक्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षताम् । ऋच॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । सामा॑नि त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । यजूँ॑षि त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । अह॑श्च॒ रात्रि॑श्च । कृ॒षिश्च॒ वृष्टि॑श्च । त्विषि॒श्चाप॑चितिश्च ॥ 86॥

आप॒श्चौष॑धयश्च । ऊर्क्च॑ सू॒नृता॑ च । तास्त्वा॒ दीक्ष॑माण॒मनु॑दीक्षन्ताम् । स्वे दक्षे॒ दक्ष॑पिते॒ह सी॑द । दे॒वानाँ॑ सु॒म्नो म॑ह॒ते रणा॑य । स्वा॒स॒स्थस्त॒नुवा॒ सव्विँ॑शस्व । पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवः॑ । शि॒वो मा॑ शि॒वमावि॑श । स॒त्यम्म॑ आ॒त्मा । श्र॒द्धा मेऽक्षि॑तिः ॥87॥

तपो॑ मे प्रति॒ष्ठा । स॒वि॒तृप्र॑सूता मा॒ दिशो॑ दीक्षयन्तु । स॒त्यम॑स्मि । अ॒हन्त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि । ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्रᳶ पि॒त्रे लो॑क॒कृज्जा॑तवेदः । आ॒जुह्वा॑नस्सु॒प्रती॑कᳶ पु॒रस्ता॑त् । अग्ने॒ स्वाय्योँनि॒मा सी॑द सा॒ध्या । अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मिन्न् ॥88॥

विश्वे॑ देवा॒ यज॑मानश्च सीदत । एक॑मि॒षे विष्णु॒स्त्वाऽन्वे॑तु । द्वे ऊ॒र्जे विष्णु॒स्त्वाऽन्वे॑तु । त्रीणि॑ व्र॒ताय॒ विष्णु॒स्त्वाऽन्वे॑तु । च॒त्वारि॒ मायो॑भवाय॒ विष्णु॒स्त्वाऽन्वे॑तु । पञ्च॑ प॒शुभ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु । षड्रा॒यस्पोषा॑य॒ विष्णु॒स्त्वाऽन्वे॑तु । स॒प्त स॒प्तभ्यो॒ होत्रा॑भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु । सखा॑यस्स॒प्तप॑दा अभूम । स॒ख्यन्ते॑ गमेयम् ॥89॥

स॒ख्यात्ते॒ मा यो॑षम् । स॒ख्यान्मे॒ मा यो॑ष्ठाः । साऽसि॑ सुब्रह्मण्ये । तस्या॑स्ते पृथि॒वी पादः॑ । साऽसि॑ सुब्रह्मण्ये । तस्या॑स्ते॒ऽन्तरि॑क्ष॒म्पादः॑ । साऽसि॑ सुब्रह्मण्ये । तस्या॑स्ते॒ द्यौᳶ पादः॑ । साऽसि॑ सुब्रह्मण्ये । तस्या॑स्ते॒ दिश॒ᳶ पादः॑ ॥90॥

प॒रोर॑जास्ते पञ्च॒मᳶ पादः॑ । सा न॒ इष॒मूर्ज॑न्धुक्ष्व । तेज॑ इन्द्रि॒यम् । ब्र॒ह्म॒व॒र्च॒सम॒न्नाद्य॑म् । विमि॑मे त्वा॒ पय॑स्वतीम् । दे॒वाना॑न्धे॒नुँ सु॒दुघा॒मन॑पस्फुरन्तीम् । इन्द्र॒स्सोम॑म्पिबतु । क्षेमो॑ अस्तु नः । इ॒मान्न॑राᳶ कृणुत॒ वेदि॒मेत्य॑ । वसु॑मतीँ रु॒द्रव॑तीमादि॒त्यव॑तीम् ॥91॥

वर्ष्म॑न्दि॒वः । नाभा॑ पृथि॒व्याः । यथा॒ऽयय्यँज॑मानो॒ न रिष्ये॑त् । दे॒वस्य॑ सवि॒तुस्स॒वे । चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः॑ । घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये॑ । तस्याँ॑ सुप॒र्णावधि॒ यौ निवि॑ष्टौ । तयो॑र्दे॒वाना॒मधि॑ भाग॒धेय॑म् । अ॒प जन्य॑म्भ॒यन्नु॑द । अप॑ च॒क्राणि॑ वर्तय । गृ॒हँ सोम॑स्य गच्छतम् । न वा उ॑ वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि । दे॒वाँ इदे॑षि प॒थिभि॑स्सु॒गेभिः॑ । यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ । तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु ॥92॥

ब्रह्म॑णो॒ योनि॒रँह॑सᳶ प॒ङ्क्तिं प्रप॑द्ये दी॒क्षा यया॑ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒तस्तया॑ त्वा दी॒क्षया॑ दीक्षया॒म्योष॑धयो दी॒क्षा द्यौस्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षता॒मप॑चिति॒श्चाक्षि॑ति॒रुत्त॑रस्मिन्गमेय॒न्दिश॒ᳶ पाद॑ आदि॒त्यव॑तीव्वँर्तय॒ पञ्च॑ च ॥ 7 ॥

यद॒स्य पा॒रे रज॑सः । शु॒क्रञ्ज्योति॒रजा॑यत । तन्न॑ᳶ पर्ष॒दति॒ द्विषः॑ । अग्ने॑ वैश्वानर॒ स्वाहा॑ । यस्मा॑द्भी॒षाऽवा॑शिष्ठाः । ततो॑ नो॒ अभ॑यङ्कृधि । प्र॒जाभ्य॒स्सर्वा॑भ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे॑ । यस्मा॑द्भी॒षा न्यष॑दः । ततो॑ नो॒ अभ॑यङ्कृधि ॥93॥

प्र॒जाभ्य॒स्सर्वा॑भ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे॑ । उदु॑स्र तिष्ठ॒ प्रति॑तिष्ठ॒ मा रि॑षः । मेमय्यँ॒ज्ञय्यँज॑मानञ्च रीरिषः । सु॒व॒र्गे लो॒के यज॑मानँ॒ हि धे॒हि । शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे । यस्मा॑द्भी॒षाऽवे॑पिष्ठाᳶ प॒लायि॑ष्ठास्स॒मज्ञा॑स्थाः । ततो॑ नो॒ अभ॑यङ्कृधि । प्र॒जाभ्य॒स्सर्वा॑भ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे॑ ॥94॥

य इ॒दमकः॑ । तस्मै॒ नमः॑ । तस्मै॒ स्वाहा॑ । न वा उ॑वे॒तन्म्रि॑यसे । आशा॑नान्त्वा॒ विश्वा॒ आशाः॑ । य॒ज्ञस्य॒ हि स्थ ऋ॒त्वियौ॑ । इन्द्रा॑ग्नी॒ चेत॑नस्य च । हु॒ता॒हु॒तस्य॑ तृप्यतम् । अहु॑तस्य हु॒तस्य॑ च । हु॒तस्य॒ चाहु॑तस्य च । अहु॑तस्य हु॒तस्य॑ च । इन्द्रा॑ग्नी अ॒स्य सोम॑स्य । वी॒तम्पि॑बतञ्जु॒षेथा॑म् । मा यज॑मान॒न्तमो॑ विदत् । मर्त्विजो॒ मो इ॒माᳶ प्र॒जाः । मा यस्सोम॑मि॒मम्पिबा॑त् । सँसृ॑ष्टमु॒भय॑ङ्कृ॒तम् ॥95॥

कृ॒धि॒ मी॒ढुषेऽहु॑तस्य च स॒प्त च॑ ॥ 8 ॥

अ॒ना॒गस॑स्त्वा व॒यम् । इन्द्रे॑ण॒ प्रेषि॑ता॒ उप॑ । वा॒युष्टे॑ अस्त्वँश॒भूः । मि॒त्रस्ते॑ अस्त्वँश॒भूः । वरु॑णस्ते अस्त्वँश॒भूः । अपा॑ङ्क्षया॒ ऋत॑स्य गर्भाः । भुव॑नस्य गोपा॒श्श्येना॑ अतिथयः । पर्व॑तानाङ्ककुभᳶ प्र॒युतो॑ नपातारः । व॒ग्नुनेन्द्र॑ ह्वयत । घोषे॒णामी॑वाँ श्चातयत ॥96॥

यु॒क्तास्स्थ॒ वह॑त । दे॒वा ग्रावा॑ण॒ इन्दु॒रिन्द्र॒ इत्य॑वादिषुः । एन्द्र॑मचुच्यवुᳶ पर॒मस्या॑ᳶ परा॒वतः॑ । आऽस्मात्स॒धस्था॑त् । ओरोर॒न्तरि॑क्षात् । आ सु॑भू॒तम॑सुषवुः । ब्र॒ह्म॒व॒र्च॒सम्म॒ आसु॑षवुः । स॒म॒रे रक्षाँ॑स्यवधिषुः । अप॑हतम्ब्रह्म॒ज्यस्य॑ । वाक्च॑ त्वा॒ मन॑श्च श्रीणीताम् ॥97॥

प्रा॒णश्च॑ त्वाऽपा॒नश्च॑ श्रीणीताम् । चक्षु॑श्च त्वा॒ श्रोत्र॑ञ्च श्रीणीताम् । दक्ष॑श्चत्वा॒ बल॑ञ्च श्रीणीताम् । ओज॑श्च त्वा॒ सह॑श्च श्रीणीताम् । आयु॑श्च त्वा ज॒रा च॑ श्रीणीताम् । आ॒त्मा च॑ त्वा त॒नूश्च॑ श्रीणीताम् । शृ॒तो॑ऽसि शृ॒तङ्कृ॑तः । शृ॒ताय॑ त्वा शृ॒तेभ्य॑स्त्वा । यमिन्द्र॑मा॒हुर्वरु॑णय्ँ॒यमा॒हुः । यम्मि॒त्रमा॒हुर्यमु॑ स॒त्यमा॒हुः ॥98॥

यो दे॒वाना॑न्दे॒वत॑मस्तपो॒जाः । तस्मै॑ त्वा॒ तेभ्य॑स्त्वा । मयि॒ त्यदि॑न्द्रि॒यम्मह॒त् । मयि॒ दक्षो॒ मयि॒ क्रतुः॑ । मयि॑ धायि सु॒वीर्य॑म् । त्रिशु॑ग्घ॒र्मो विभा॑तु मे । आकू॑त्या॒ मन॑सा स॒ह । वि॒राजा॒ ज्योति॑षा स॒ह । य॒ज्ञेन॒ पय॑सा स॒ह । तस्य॒ दोह॑मशीमहि ॥99॥

तस्य॑ सु॒म्नम॑शीमहि । तस्य॑ भ॒क्षम॑शीमहि । वाग्जु॑षा॒णा सोम॑स्य तृप्यतु । मि॒त्रो जना॒न्प्र स मि॑त्र । यस्मा॒न्न जा॒तᳶ परो॑ अ॒न्यो अस्ति॑ । य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑ । प्र॒जाप॑तिᳶ प्र॒जया॑ सव्विँदा॒नः । त्रीणि॒ ज्योतीँ॑षि सचते॒ स षो॑ड॒शी । ए॒ष ब्र॒ह्मा य ऋ॒त्वियः॑ । इन्द्रो॒ नाम॑ श्रु॒तो ग॒णे ॥100॥

प्र ते॑ म॒हे वि॒दथे॑ शँसिषँ॒ हरी॑ । य ऋ॒त्विय॒ᳶ प्र ते॑ वन्वे । व॒नुषो॑ हर्य॒तम्मद॑म् । इन्द्रो॒ नाम॑ घृ॒तन्नयः । हरि॑भि॒श्चारु॒ सेच॑ते । श्रु॒तो ग॒ण आ त्वा॑ विशन्तु । हरि॑वर्पस॒ङ्गिरः॑ । इन्द्राधि॑प॒तेऽधि॑पति॒स्त्वन्दे॒वाना॑मसि । अधि॑पति॒म्माम् । आयु॑ष्मन्तव्ँ॒वर्च॑स्वन्तम्मनु॒ष्ये॑षु कुरु ॥101॥

इन्द्र॑श्च स॒म्राड्वरु॑णश्च॒ राजा॑ । तौ ते॑ भ॒क्षञ्च॑क्रतु॒रग्र॑ ए॒तम् । तयो॒रनु॑ भ॒क्षम्भ॑क्षयामि । वाग्जु॑षा॒णा सोम॑स्य तृप्यतु । प्र॒जाप॑तिर्वि॒श्वक॑र्मा । तस्य॒ मनो॑ दे॒वय्यँ॒ज्ञेन॑ राध्यासम् । अ॒र्थे॒गा अ॒स्य ज॑हितः । अ॒व॒सान॑पतेऽव॒सान॑म्मे विन्द । नमो॑ रु॒द्राय॑ वास्तो॒ष्पत॑ये । आय॑ने वि॒द्रव॑णे ॥102॥

उ॒द्याने॒ यत्प॒राय॑णे । आ॒वर्त॑ने वि॒वर्त॑ने । यो गो॑पा॒यति॒ तँ हु॑वे । यान्य॑पा॒मित्या॒न्यप्र॑तीत्ता॒न्यस्मि॑ । य॒मस्य॑ ब॒लिना॒ चरा॑मि । इ॒हैव सन्त॒ᳶ प्रति॒ तद्या॑तयामः । जी॒वा जी॒वेभ्यो॒ निह॑राम एनत् । अ॒नृ॒णा अ॒स्मिन्न॑नृ॒णाᳶ पर॑स्मिन् । तृ॒तीये॑ लो॒के अ॑नृ॒णास्स्या॑म । ये दे॑व॒याना॑ उ॒त पि॑तृ॒याणाः॑ ॥103॥

सर्वा॑न्प॒थो अ॑नृ॒णा आक्षी॑येम । इ॒दमू॒नु श्रेयो॑ऽव॒सान॒माग॑न्म । शि॒वे नो॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । गोम॒द्धन॑व॒दश्व॑व॒दूर्ज॑स्वत् । सु॒वीरा॑ वी॒रैरनु॒ सञ्च॑रेम । अ॒र्कᳶ प॒वि॒त्रँ॒ रज॑सो वि॒मानः॑ । पु॒नाति॑ दे॒वाना॒म्भुव॑नानि॒ विश्वा॑ । द्यावा॑पृथि॒वी पय॑सा सव्विँदा॒ने । घृ॒तन्दु॑हाते अ॒मृत॒म्प्रपी॑ने । प॒वित्र॑म॒र्को रज॑सो वि॒मानः॑ । पु॒नाति॑ दे॒वाना॒म्भुव॑नानि॒ विश्वा॑ । सुव॒र्ज्योति॒र्यशो॑ म॒हत् । अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठाम् ॥104॥

चा॒त॒य॒त॒ श्री॒णी॒ताँ॒ स॒त्यमा॒हुर॑शीमहि ग॒णे कु॑रु वि॒द्रव॑णे पितृ॒याणा॑ अ॒र्को रज॑सो वि॒मान॒स्त्रीणि॑ च ॥ 9 ॥

उद॑स्ताम्प्सीत्सवि॒ता मि॒त्रो अ॑र्य॒मा । सर्वा॑न॒मित्रा॑नवधीद्यु॒गेन॑ । बृ॒हन्त॒म्माम॑करद्वी॒रव॑न्तम् । र॒थ॒न्त॒रे श्र॑यस्व॒ स्वाहा॑ पृथि॒व्याम् । वा॒म॒दे॒व्ये श्र॑यस्व॒ स्वाहा॒ऽन्तरि॑क्षे । बृ॒ह॒ति श्र॑यस्व॒ स्वाहा॑ दि॒वि । बृ॒ह॒ता त्वोप॑स्तभ्नोमि । आ त्वा॑ ददे॒ यश॑से वी॒र्या॑य च । अ॒स्मास्व॑घ्निया यू॒यन्द॑धाथेन्द्रि॒यम्पयः॑ । यस्ते॑ द्र॒प्सो यस्त॑ उद॒र्षः ॥105॥

दैव्य॑ᳶ के॒तुर्विश्व॒म्भुव॑नमावि॒वेश॑ । स न॑ᳶ पा॒ह्यरि॑ष्ट्यै॒ स्वाहा॑ । अनु॑ मा॒ सर्वो॑ य॒ज्ञो॑ऽयमे॑तु । विश्वे॑ दे॒वा म॒रुत॒स्सामा॒र्कः । आ॒प्रिय॒श्छन्दाँ॑सि नि॒विदो॒ यजूँ॑षि । अ॒स्यै पृ॑थि॒व्यै यद्य॒ज्ञिय॑म् । प्र॒जाप॑तेर्वर्त॒निमनु॑ वर्तस्व । अनु॑ वी॒रैरनु॑राध्याम॒ गोभिः॑ । अन्वश्वै॒रनु॒ सर्वै॑रु पु॒ष्टैः । अनु॑ प्र॒जयाऽन्वि॑न्द्रि॒येण॑ ॥106॥

दे॒वा नो॑ य॒ज्ञमृ॑जु॒धा न॑यन्तु । प्रति॑क्ष॒त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे । प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ । प्रति॑ प्र॒जाया॒म्प्रति॑तिष्ठामि॒ भव्ये॑ । विश्व॑म॒न्याऽभि॑वावृ॒धे । तद॒न्यस्या॒मधि॑श्रि॒तम् । दि॒वे च॑ वि॒श्वक॑र्मणे । पृ॒थि॒व्यै चा॑कर॒न्नमः॑ । अस्का॒न्द्यौᳶ पृ॑थि॒वीम् । अस्का॑नृष॒भो युवा॒गाः ॥107॥

स्क॒न्नेमा विश्वा॒ भुव॑ना । स्क॒न्नो य॒ज्ञᳶ प्रज॑नयतु । अस्का॒नज॑नि॒ प्राज॑नि । आ स्क॒न्नाज्जा॑यते॒ वृषा॑ । स्क॒न्नात्प्रज॑निषीमहि । ये दे॒वा येषा॑मि॒दम्भा॑ग॒धेय॑म्ब॒भूव॑ । येषा॑म्प्रया॒जा उ॒तानू॑या॒जाः । इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यः । अ॒ग्निहो॑तृभ्यो दे॒वेभ्य॒स्स्वाहा॑ । उ॒त त्या नो॒ दिवा॑ म॒तिः ॥108॥

अदि॑तिरू॒त्या ग॑मत् । सा शन्ता॑ची॒ मय॑स्करत् । अप॒ स्रिधः॑ । उ॒त त्या दैव्या॑ भि॒षजा॑ । शन्न॑स्करतो अ॒श्विना॑ । यू॒याता॑म॒स्मद्रपः॑ । अप॒ स्रिधः॑ । शम॒ग्निर॒ग्निभि॑स्करत् । शन्न॑स्तपतु॒ सूर्यः॑ । शव्वाँतो॑ वात्वर॒पाः ॥ 109॥

अप॒ स्रिधः॑ । तदित्प॒दन्न विचि॑केत वि॒द्वान् । यन्मृ॒तᳶ पुन॑र॒प्येति॑ जी॒वान् । त्रि॒वृद्यद्भुव॑नस्य रथ॒वृत् । जी॒वो गर्भो॒ न मृ॒तस्स जी॑वात् । प्रत्य॑स्मै॒ पिपी॑षते । विश्वा॑नि वि॒दुषे॑ भर । अ॒र॒ङ्ग॒माय॒ जग्म॑वे । अप॑श्चाद्दघ्वने॒ नरे॑ । इन्दु॒रिन्दु॒मवा॑गात् । इन्दो॒रिन्द्रो॑ऽपात् । तस्य॑ त इन्द॒विन्द्र॑पीतस्य॒ मधु॑मतः । उप॑हूत॒स्योप॑हूतो भक्षयामि ॥110॥

उ॒द॒र्ष इ॑न्द्रि॒येण॒ गा म॒तिर॑र॒पा अ॑गा॒त्त्रीणि॑ च ॥ 10 ॥

ब्रह्म॑ प्रति॒ष्ठा मन॑सो॒ ब्रह्म॑ वा॒चः । ब्रह्म॑ य॒ज्ञानाँ॑ ह॒विषा॒माज्य॑स्य । अति॑रिक्त॒ङ्कर्म॑णो॒ यच्च॑ ही॒नम् । य॒ज्ञᳶ पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पय॑न् । स्वाहा॑कृ॒ताऽऽहु॑तिरेतु दे॒वान् । आश्रा॑वितम॒त्याश्रा॑वितम् । वष॑ट्कृतम॒त्यनू॑क्तञ्च य॒ज्ञे । अति॑रिक्त॒ङ्कर्म॑णो॒ यच्च॑ ही॒नम् । य॒ज्ञᳶ पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पय॑न् । स्वाहा॑कृ॒ताऽऽहु॑तिरेतु दे॒वान् ॥111॥

यद्वो॑ देवा अतिपा॒दया॑नि । वा॒चा चि॒त्प्रय॑तन्देव॒हेड॑नम् । अ॒रा॒यो अ॒स्माँ अ॒भिदु॑च्छुना॒यते॑ । अ॒न्यत्रा॒स्मन्म॑रुत॒स्तन्निधे॑तन । त॒तम्म॒ आप॒स्तदु॑ तायते॒ पुनः॑ । स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते । अ॒यँ स॑मु॒द्र उ॒त वि॒श्वभे॑षजः । स्वाहा॑कृतस्य॒ समु॑तृप्णुतर्भुवः । उद्व॒यन्तम॑स॒स्परि॑ । उदु॒त्यञ्चि॒त्रम् ॥112॥

इ॒मम्मे॑ वरुण॒ तत्त्वा॑ यामि । त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने । त्वम॑ग्ने अ॒यासि॒ प्रजा॑पते । इ॒मञ्जी॒वेभ्य॑ᳶ परि॒धिन्द॑धामि । मैषान्नु॑गा॒दप॑रो॒ अर्ध॑मे॒तम् । श॒तञ्जी॑वन्तु श॒रद॑ᳶ पुरू॒चीः । ति॒रो मृ॒त्युन्द॑धता॒म्पर्व॑तेन । इ॒ष्टेभ्य॒स्स्वाहा॒ वष॒डनि॑ष्टेभ्य॒स्स्वाहा॑ । भे॒ष॒जन्दुरि॑ष्ट्यै॒ स्वाहा॒ निष्कृ॑त्यै॒ स्वाहा॑ । दौरा॑र्ध्यै॒ स्वाहा॒ दैवी॑भ्यस्त॒नूभ्य॒स्स्वाहा॑ ॥113॥

ऋद्ध्यै॒ स्वाहा॒ समृ॑द्ध्यै॒ स्वाहा॑ । यत॑ इन्द्र॒ भया॑महे । ततो॑ नो॒ अभ॑यङ्कृधि । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॑ । वि द्विषो॒ वि मृधो॑ जहि । स्व॒स्ति॒दा वि॒शस्पतिः॑ । वृ॒त्र॒हा वि मृधो॑ व॒शी । वृषेन्द्र॑ᳶ पु॒र ए॑तु नः । स्व॒स्ति॒दा अ॑भयङ्क॒रः । आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नम् ॥114॥

आप्या॑यय हरिवो॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ । भू॒यि॒ष्ठ॒भाजो॒ अध॑ ते स्याम । अना॑ज्ञातय्ँ॒यदाज्ञा॑तम् । य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ । अग्ने॒ तद॑स्य कल्पय । त्वँ हि वेत्थ॑ यथात॒थम् । पुरु॑षसम्मितो य॒ज्ञः । य॒ज्ञᳶ पुरु॑षसम्मितः । अग्ने॒ तद॑स्य कल्पय । त्वँ हि वेत्थ॑ यथात॒थम् । यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न । य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः । अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन् । यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥115॥

दे॒वाँ श्चि॒त्रं त॒नूभ्य॒स्स्वाहो॒नं पुरु॑षसम्मि॒तोऽग्ने॒ तद॑स्य कल्पय॒ पञ्च॑ च ॥ 11 ॥

यद्दे॑वा देव॒हेड॑नम् । देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒स्तस्मा॑न्मा मुञ्चत । ऋ॒तस्य॒र्तेन॒ मामु॒त । देवा॑ जीवनका॒म्या यत् । वा॒चाऽनृ॑तमूदि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । गार्ह॑पत्य॒ᳶ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नस॑म् ॥116॥

ऋ॒तेन॑ द्यावापृथिवी । ऋ॒तेन॒ त्वँ स॑रस्वति । ऋ॒तान्मा॑ मुञ्च॒ताँह॑सः । यद॒न्यकृ॑तमारि॒म । स॒जा॒त॒शँ॒सादु॒त वा॑ जामिशँ॒सात् । ज्याय॑स॒श्शँसा॑दु॒त वा॒ कनी॑यसः । अना॑ज्ञातन्दे॒वकृ॑तय्ँ॒यदेनः॑ । तस्मा॒त्त्वम॒स्माञ्जा॑तवेदो मुमुग्धि । यद्वा॒चा यन्मन॑सा । बा॒हुभ्या॑मू॒रुभ्या॑मष्ठी॒वद्भ्या॑म् ॥117॥

शि॒श्ञैर्यदनृ॑तञ्चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । यद्धस्ता॑भ्याञ्च॒कर॒ किल्बि॑षाणि । अ॒क्षाणा॑व्वँ॒ग्नुमु॑प॒जिघ्न॑मानः । दू॒रे॒प॒श्या च॑ राष्ट्र॒भृच्च॑ । तान्य॑प्स॒रसा॒वनु॑दत्तामृ॒णानि॑ । अदी॑व्यन्नृ॒णय्यँद॒हञ्च॒कार॑ । यद्वादा॑स्यन्त्सञ्ज॒गारा॒ जने॑भ्यः । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । यन्मयि॑ मा॒ता गर्भे॑ स॒ति ॥118॥

एन॑श्च॒कार॒ यत्पि॒ता । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । यदा॑पि॒पेष॑ मा॒तर॑म्पि॒तर॑म् । पु॒त्रᳶ प्रमु॑दितो॒ धय॑न् । अहिँ॑सितौ पि॒तरौ॒ मया॒ तत् । तद॑ग्ने अनृ॒णो भ॑वामि । यद॒न्तरि॑क्षम्पृथि॒वीमु॒त द्याम् । यन्मा॒तर॑म्पि॒तरव्ँ॑वा जिहिँसि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । यदा॒शसा॑ नि॒शसा॒ यत्प॑रा॒शसा॑ ॥119॥

यदेन॑श्चकृ॒मा नूत॑नय्ँ॒यत्पु॑रा॒णम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । अति॑क्रामामि दुरि॒तय्यँदेनः॑ । जहा॑मि रि॒प्रम्प॑र॒मे स॒धस्थे॑ । यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ । तमारो॑हामि सु॒कृता॒न्नु लो॒कम् । त्रि॒ते दे॒वा अ॑मृजतै॒तदेनः॑ । त्रि॒त ए॒तन्म॑नु॒ष्ये॑षु मामृजे । ततो॑ मा॒ यदि॒ किञ्चि॑दान॒शे । अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥120॥

गार्ह॑पत्य॒ᳶ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नस॑म् । दि॒वि जा॒ता अ॒प्सु जा॒ताः । या जा॒ता ओष॑धीभ्यः । अथो॒ या अ॑ग्नि॒जा आपः॑ । ता न॑श्शुन्धन्तु॒ शुन्ध॑नीः । यदापो॒ नक्त॑न्दुरि॒तञ्चरा॑म । यद्वा॒ दिवा॒ नूत॑नय्ँ॒यत्पु॑रा॒णम् । हिर॑ण्यवर्णा॒स्तत॒ उत्पु॑नीत नः । इ॒मम्मे॑ वरुण॒ तत्त्वा॑ यामि । त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने । त्वम॑ग्ने अ॒यासि॑ ॥ 121॥

अ॒ने॒नस॑मष्ठी॒वद्भ्याँ॑ स॒ति प॑रा॒शसा॑ऽऽन॒शे॑ऽग्निर्मा॒ तस्मा॒देन॑सᳶ पुनीत न॒स्त्रीणि॑ च ॥ 12 ॥ (यद्दे॑वा॒ देवा॑ ऋ॒तेन॑ सजातशँ॒साद्यद्वा॒चा यद्धस्ता॑भ्या॒मदी॑व्य॒य्यँन्मयि॑ मा॒ता यदा॑ पि॒पेष॒ यद॒न्तरि॑क्ष॒य्यँदा॒शसाऽति॑ क्रामामि त्रि॒ते दे॒वा दि॒वि जा॒ता अ॒प्सु जा॒ता यदाप॑ इ॒मम्मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने॒ त्वम॑ग्ने अ॒यासि॑ । )

यत्ते॒ ग्राव्ण्णा॑ चिच्छि॒दुस्सो॑म राजन् । प्रि॒याण्यङ्गा॑नि॒ स्वधि॑ता॒ परूँ॑षि । तत्सन्ध॒त्स्वाज्ये॑नो॒त व॑र्धयस्व । अ॒ना॒गसो॒ अध॒मित्स॒ङ्क्षये॑म । यत्ते॒ ग्रावा॑ बा॒हुच्यु॑तो॒ अचु॑च्यवुः । नरो॒ यत्ते॑ दुदु॒हुर्दक्षि॑णेन । तत्त॒ आप्या॑यता॒न्तत्ते॑ । निष्ट्या॑यतान्देव सोम । यत्ते॒ त्वच॑म्बिभि॒दुर्यच्च॒ योनि॑म् । यदा॒स्थाना॒त्प्रच्यु॑तो॒ वेन॑सि॒ त्मना॑ ॥122॥

त्वया॒ तत्सो॑म गु॒प्तम॑स्तु नः । सा न॑स्स॒न्धास॑त्पर॒मे व्यो॑मन् । अहा॒च्छरी॑र॒म्पय॑सा स॒मेत्य॑ । अ॒न्यो॑न्यो भवति॒ वर्णो॑ अस्य । तस्मि॑न्व॒यमुप॑हूता॒स्तव॑ स्मः । आ नो॑ भज॒ सद॑सि वि॒श्वरू॑पे । नृ॒चक्षा॒स्सोम॑ उ॒त शु॒श्रुग॑स्तु । मा नो॒ वि हा॑सी॒द्गिर॑ आवृणा॒नः । अना॑गास्त॒नुवो॑ वावृधा॒नः । आ नो॑ रू॒पव्वँ॑हतु॒ जाय॑मानः ॥123॥

उप॑क्षरन्ति जु॒ह्वो॑ घृ॒तेन॑ । प्रि॒याण्यङ्गा॑नि॒ तव॑ व॒र्धय॑न्तीः । तस्मै॑ ते सोम॒ नम॒ इद्वष॑ट्च । उप॑ मा राजन्त्सुकृ॒ते ह्व॑यस्व । सम्प्रा॑णापा॒नाभ्याँ॒ समु॒ चक्षु॑षा॒ त्वम् । स श्रोत्रे॑ण गच्छस्व सोम राजन् । यत्त॒ आस्थि॑तँ॒ शमु॒ तत्ते॑ अस्तु । जा॒नी॒तान्न॑स्स॒ङ्गम॑ने पथी॒नाम् । ए॒तञ्जा॑नीतात्पर॒मे व्यो॑मन् । वृका॑स्सधस्था वि॒द रू॒पम॑स्य ॥124॥

यदा॒गच्छा॑त्प॒थिभि॑र्देव॒यानैः॑ । इ॒ष्टा॒पू॒र्ते कृ॑णुतादा॒विर॑स्मै । अरि॑ष्टो राजन्नग॒दᳶ परे॑हि । नम॑स्ते अस्तु॒ चक्ष॑से रघूय॒ते । नाक॒मारो॑ह स॒ह यज॑मानेन । सूर्य॑ङ्गच्छतात्पर॒मे व्यो॑मन् । अभू॑द्दे॒वस्स॑वि॒ता वन्द्यो॒नु नः॑ । इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ । वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॑ । श्रेष्ठ॑न्नो॒ अत्र॒ द्रवि॑णय्ँ॒यथा॒ दध॑त् । उप॑ नो मित्रावरुणावि॒हाव॑तम् । अ॒न्वादी॑ध्याथामि॒ह न॑स्सखाया । आ॒दि॒त्याना॒म्प्रसि॑तिर् हे॒तिः । उ॒ग्रा श॒तापा॑ष्ठा घ॒विषा॒ परि॑ णो वृणक्तु । आप्या॑यस्व॒ सन्ते॑ ॥125॥

त्मना॒ जाय॑मानोऽस्य॒ दध॒त्पञ्च॑ च ॥ 13 ॥

यद्दि॑दी॒क्षे मन॑सा॒ यच्च॑ वा॒चा । यद्वा॑ प्रा॒णैश्चक्षु॑षा॒ यच्च॒ श्रोत्रे॑ण । यद्रेत॑सा मिथु॒नेनाप्या॒त्मना॑ । अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् । शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः । आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् । यदृ॒चा साम्ना॒ यजु॑षा । प॒शू॒नाञ्चर्म॑न् ह॒विषा॑ दिदी॒क्षे । यच्छन्दो॑भि॒रोष॑धीभि॒र्वन॒स्पतौ॑ । अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् ॥ 126॥

शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः । आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् । येन॒ ब्रह्म॒ येन॑ क्ष॒त्रम् । येने॑न्द्रा॒ग्नी प्र॒जाप॑ति॒स्सोमो॒ वरु॑णो॒ येन॒ राजा॑ । विश्वे॑ दे॒वा ऋष॑यो॒ येन॑ प्रा॒णाः । अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् । शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः । आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् । अ॒पाम्पुष्प॑म॒स्योष॑धीनाँ॒ रसः॑ । सोम॑स्य प्रि॒यन्धाम॑ ॥127॥

अ॒ग्नेᳶ प्रि॒यत॑मँ ह॒विस्स्वाहा॑ । अ॒पाम्पुष्प॑म॒स्योष॑धीनाँ॒ रसः॑ । सोम॑स्य प्रि॒यन्धाम॑ । इन्द्र॑स्य प्रि॒यत॑मँ ह॒विस्स्वाहा॑ । अ॒पाम्पुष्प॑म॒स्योष॑धीनाँ॒ रसः॑ । सोम॑स्य प्रि॒यन्धाम॑ । विश्वे॑षान्दे॒वाना॑म्प्रि॒यत॑मँ ह॒विस्स्वाहा॑ । व॒यँ सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒ पिप्र॑तः । प्र॒जाव॑न्तो अशीमहि ॥128॥

दे॒वेभ्य॑ᳶ पि॒तृभ्य॒स्स्वाहा॑ । सो॒म्येभ्य॑ᳶ पि॒तृभ्य॒स्स्वाहा॑ । क॒व्येभ्य॑ᳶ पि॒तृभ्य॒स्स्वाहा॑ । देवा॑स इ॒ह मा॑दयध्वम् । सोम्या॑स इ॒ह मा॑दयध्वम् । कव्या॑स इ॒ह मा॑दयध्वम् । अन॑न्तरिताᳶ पि॒तर॑स्सो॒म्यास्सो॑मपी॒थात् । अपै॑तु मृ॒त्युर॒मृत॑न्न॒ आग॑न् । वै॒व॒स्व॒तो नो॒ अभ॑यङ्कृणोतु । प॒र्णव्वँन॒स्पते॑रिव ॥129॥

अ॒भि न॑श्शीयताँ र॒यिः । सच॑तान्न॒श्शची॒पतिः॑ । पर॑म्मृत्यो॒ अनु॒परे॑हि॒ पन्था॑म् । यस्ते॒ स्व इत॑रो देव॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि । मा न॑ᳶ प्र॒जाँ री॑रिषो॒ मोत वी॒रान् । इ॒दमू॒नु श्रेयो॑व॒सान॒माग॑न्म । यद्गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यत् । प॒र्णव्वँन॒स्पते॑रिव । अ॒भि न॑श्शीयताँ र॒यिः । सच॑तान्न॒श्शची॒पतिः॑ ॥130॥

वन॒स्पता॑व॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यन्धामा॑शीमहीवा॒भिन॑श्शीयताँ र॒यिरेक॑ञ्च ॥ 14 ॥

सर्वा॒न् यद्विष्ष॑ण्णेन॒ वि वै याᳶ पु॒रस्ता॒द्देवा॑ दे॒वेषु॒ परि॑स्तृणीत॒ सक्षे॒दय्यँद॒स्य पा॒रे॑ऽना॒गस॒ उद॑स्तांप्सी॒द्ब्रह्म॑ प्रति॒ष्ठा यद्दे॑वा॒ यत्ते॒ ग्राव्ण्णा॒ यद्दि॑दी॒क्षे चतु॑र्दश ॥ 14 ॥ सर्वा॒न्भूति॑मे॒व यामे॒वाप्स्वाहु॑तिव्व्रँ॒तानां॑ पर्णव॒ल्कस्सो॒म्याना॑म॒स्मिन्‌य॒ज्ञेऽग्ने॒ यो नो॒ ज्योग्जी॒वाᳶ प॒रोर॑जा॒ᳶ प्रते॑महे॒ ब्रह्म॑ प्रति॒ष्ठा गार्ह॑पत्यस्त्रिँ॒शदु॑त्तरश॒तम् ॥ 130 ॥ सर्वा॒ञ्छची॒पतिः॑ ॥ ॥ हरिः॑ओम् ॥ श्रीकृष्णार्पणमस्तु । सप्तम प्रपाठकस्समाप्तः ॥