अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे॑व॒यन्तः॑ । वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न । यदू॒र्ध्वस्ति॑ष्ठा॒द्द्रवि॑णे॒ह ध॑त्तात् । यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे॑ । उच्छ्र॑यस्व वनस्पते । वर्ष्म॑न्पृथि॒व्या अधि॑ । सुमि॑ती मी॒यमा॑नः । वर्चो॑धा य॒ज्ञवा॑हसे । समि॑द्धस्य॒ श्रय॑माणᳶ पु॒रस्ता॑त् । ब्रह्म॑ वन्वा॒नो अ॒जरँ॑ सु॒वीर॑म् ॥1॥

आ॒रे अ॒स्मदम॑ति॒म्बाध॑मानः । उच्छ्र॑यस्व मह॒ते सौभ॑गाय । ऊ॒र्ध्व ऊ॒षुण॑ ऊ॒तये॑ । तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभिः॑ । वा॒घद्भि॑र्वि॒ह्वया॑महे । ऊ॒र्ध्वो न॑ᳶ पा॒ह्यँह॑सो॒ नि के॒तुना॑ । विश्वँ॒ सम॒त्रिण॑न्दह । कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒ रथा॑य जी॒वसे॑ । वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ॥2॥

जा॒तो जा॑यते सुदिन॒त्वे अह्ना॑म् । सम॒र्य आ वि॒दथे॒ वर्ध॑मानः । पु॒नन्ति॒ धीरा॑ अ॒पसो॑ मनी॒षा । दे॒व॒या विप्र॒ उदि॑यर्ति॒ वाच॑म् । युवा॑ सु॒वासा॒ᳶ परि॑वीत॒ आगा॑त् । स उ॒ श्रेया॑न्भवति॒ जाय॑मानः । तन्धीरा॑सᳶ क॒वय॒ उन्न॑यन्ति । स्वा॒धियो॒ मन॑सा देव॒यन्तः॑ । पृ॒थु॒पाजा॒ अम॑र्त्यः । घृ॒तनि॑र्णि॒क्स्वा॑हुतः । अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् । तँ स॒बाधो॑ य॒तस्स्रु॑चः । इ॒त्था धि॒या य॒ज्ञव॑न्तः । आच॑क्रुर॒ग्निमू॒तये॑ । त्वव्वँरु॑ण उ॒त मि॒त्रो अ॑ग्ने । त्वाव्वँ॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः । त्वे वसु॑ सुषण॒नानि॑ सन्तु । यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥3॥

सु॒वीर॒न्दुव॒स्स्वा॑हुतो॒ऽष्टौ च॑ ॥ 1 ॥

होता॑ यक्षद॒ग्निँ स॒मिधा॑ सुष॒मिधा॒ समि॑द्ध॒न्नाभा॑ पृथि॒व्यास्स॑ङ्ग॒थे वा॒मस्य॑ । वर्ष्म॑न्दि॒व इ॒डस्प॒दे वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्तनू॒नपा॑त॒मदि॑ते॒र्गर्भ॒म्भुव॑नस्य गो॒पाम् । मध्वा॒द्य दे॒वो दे॒वेभ्यो॑ देव॒याना॑न्प॒थो अ॑नक्तु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒न्नरा॒शँस॑न्नृश॒स्त्रन्नॄँᳶ प्र॑णेत्रम् । गोभि॑र्व॒पावा॒न्त्स्याद्वी॒रैश्शक्ती॑वा॒न्रथै॑ᳶ प्रथम॒यावा॒ हिर॑ण्यैश्च॒न्द्री वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षद॒ग्निमि॒ड ई॑डि॒तो दे॒वो दे॒वाँ आव॑क्षद्दू॒तो ह॑व्य॒वाडमू॑रः । उपे॒मय्यँ॒ज्ञमुपे॒मान्दे॒वो दे॒वहू॑तिमवतु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षद्ब॒र्हिस्सु॒ष्टरी॒मोर्ण॑म्म्रदा अ॒स्मिन् य॒ज्ञे वि च॒ प्र च॑ प्रथताँ स्वास॒स्थन्दे॒वेभ्यः॑ । एमे॑नद॒द्य वस॑वो रु॒द्रा आ॑दि॒त्यास्स॑दन्तु प्रि॒यमिन्द्र॑स्यास्तु॒ वेत्याज्य॑स्य॒ होत॒र्यज॑ ॥4॥

होता॑ यक्ष॒द्दुर॑ ऋ॒ष्वाᳶ क॑व॒ष्यो को॑षधावनी॒रुदाता॑भि॒र्जिह॑ताव्ँ॒वि पक्षो॑भिश्श्रयन्ताम् । सु॒प्रा॒य॒णा अ॒स्मिन् य॒ज्ञे विश्र॑यन्तामृता॒वृधो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षदु॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ नॄँᳶ पति॑भ्यो॒ योनि॑ङ्कृण्वा॒ने । स॒॒स्मय॑माने॒ इन्द्रे॑ण दे॒वैरेदम्ब॒र्हिस्सी॑दताव्वीँ॒तामाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒द्दैव्या॒ होता॑रा म॒न्द्रा पोता॑रा क॒वी प्रचे॑तसा । स्वि॑ष्टम॒द्यान्यᳶ क॑रदि॒षा स्व॑भिगूर्तम॒न्य ऊ॒र्जा सत॑वसे॒मय्यँ॒ज्ञन्दि॒वि दे॒वेषु॑ धत्ताव्वीँ॒तामाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षत्ति॒स्रो दे॒वीर॒पसा॑म॒पस्त॑मा॒ अच्छि॑द्रम॒द्येदमप॑स्तन्वताम् । दे॒वेभ्यो॑ दे॒वीर्दे॒वमपो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्त्वष्टा॑र॒मचि॑ष्टु॒मपा॑कँ रेतो॒धाव्ँविश्र॑वसय्यँशो॒धाम् । पु॒रु॒रूप॒मका॑मकर्शनँ सु॒पोष॒ᳶ पोषै॒स्स्यात्सु॒वीरो॑ वी॒रैर्वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒द्वन॒स्पति॑मु॒पाव॑स्रक्षद्धि॒यो जो॒ष्टारँ॑ श॒शम॒न्नरः॑ । स्वदा॒त्स्वधि॑तिर् ऋतु॒थाद्य दे॒वो दे॒वेभ्यो॑ ह॒व्यावा॒ड्वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षद॒ग्नि स्वाहाऽऽज्य॑स्य॒ स्वाहा॒ मेद॑स॒स्स्वाहा॑ स्तो॒कानाँ॒ स्वाहा॒ स्वाहा॑कृतीनाँ॒ स्वाहा॑ ह॒व्यसू॑क्तीनाम् । स्वाहा॑ दे॒वाँ आ॑ज्य॒पान्त्स्वाहा॒ऽग्निँ हो॒त्राज्जु॑षा॒णा अग्न॒ आज्य॑स्य वियन्तु॒ होत॒र्यज॑ ॥5॥

प्रि॒यमिन्द्र॑स्यास्तु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ सु॒वीरो॑ वी॒रैर्वेत्वाज्य॑स्य॒ होत॒र्यज॑ च॒त्वारि॑ च ॥ 2 ॥ (अ॒ग्निन्तनू॒नपा॑त॒न्नरा॒शँस॑म॒ग्निमि॒ड ई॑डि॒तो ब॒र्हिर्दुर॑ उ॒षासा॒नक्ता॒ दैव्या॑ ति॒स्रस्त्वष्टा॑र॒व्वँन॒स्पति॑म॒ग्निम् । पञ्च॒ वेत्वेको॑ वि॒यन्तु॒ द्विर्वी॒तामेको॑ वि॒यन्तु॒ द्विर्वेत्वेको॑ वियन्तु॒ होत॒र्यज॑ ॥ )

समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे । दे॒वो दे॒वान् य॑जसि जातवेदः । आ च॒ वह॑ मित्रमहश्चिकि॒त्वान् । त्वन्दू॒तᳶ क॒विर॑सि॒ प्रचे॑ताः । तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॑न् । मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व । मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन् । दे॒व॒त्रा च॑ कृणुह्यध्व॒रन्नः॑ । नरा॒शँस॑स्य महि॒मान॑मेषाम् । उप॑स्तोषाम यज॒तस्य॑ य॒ज्ञैः ॥6॥

ते सु॒क्रत॑व॒श्शुच॑यो धिय॒न्धाः । स्वद॑न्तु दे॒वा उ॒भया॑नि ह॒व्या । आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॑श्च । आया॑ह्यग्ने॒ वसु॑भिस्स॒जोषाः॑ । त्वन्दे॒वाना॑मसि यह्व॒ होता॑ । स ए॑नान् यक्षीषि॒तो यजी॑यान् । प्रा॒चीन॑म्ब॒र्हिᳶ प्र॒दिशा॑ पृथि॒व्याः । वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म् । व्यु॑ प्रथते वित॒रव्वँरी॑यः । दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥7॥

व्यच॑स्वतीरुर्वि॒या विश्र॑यन्ताम् । पति॑भ्यो॒ न जन॑य॒श्शुम्भ॑मानाः । देवी॑र्द्वारो बृहतीर्विश्वमिन्वाः । दे॒वेभ्यो॑ भवथ सुप्राय॒णाः । आसु॒ष्वय॑न्ती यज॒ते उपा॑के । उ॒षासा॒नक्ता॑ सदता॒न्नि योनौ॑ । दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे । अधि॒ श्रियँ॑ शुक्र॒पिश॒न्दधा॑ने । दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॑ । मिमा॑ना य॒ज्ञम्मनु॑षो॒ यज॑ध्यै ॥8॥

प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू । प्रा॒चीन॒ञ्ज्योति॑ᳶ प्र॒दिशा॑ दि॒शन्ता॑ । आ नो॑ य॒ज्ञम्भार॑ती॒ तूय॑मेतु । इडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती । ति॒स्रो दे॒वीर्ब॒र्हिरेद स्यो॒नम् । सर॑स्वती॒ स्वप॑सस्सदन्तु । य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री । रू॒पैरपिँ॑श॒द्भुव॑नानि॒ विश्वा॑ । तम॒द्य हो॑तरिषि॒तो यजी॑यान् । दे॒वन्त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥9॥

उ॒पाव॑सृज॒त्त्मन्या॑ सम॒ञ्जन् । दे॒वाना॒म्पाथ॑ ऋतु॒था ह॒वीँषि॑ । वन॒स्पति॑श्शमि॒ता दे॒वो अ॒ग्निः । स्वद॑न्तु ह॒व्यम्मधु॑ना घृ॒तेन॑ । स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम् । अ॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः । अ॒स्य होतु॑ᳶ प्र॒दिश्यृ॒तस्य॑ वा॒चि । स्वाहा॑कृतँ ह॒विर॑दन्तु दे॒वाः ॥10॥

य॒ज्ञैस्स्यो॒नं यज॑ध्यै वि॒द्वान॒ष्टौ च॑ ॥ 3 ॥

अ॒ग्निर्होता॑ नो अध्व॒रे । वा॒जी सन्परि॑णीयते । दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ । परि॑त्रिवि॒ष्ट्य॑ध्व॒रम् । यात्य॒ग्नी र॒थीरि॑व । आ दे॒वेषु॒ प्रयो॒ दध॑त् । परि॒ वाज॑पतिᳶ क॒विः । अ॒ग्निर्ह॒व्यान्य॑क्रमीत् । दध॒द्रत्ना॑नि दा॒शुषे॑ ॥11॥

अ॒ग्निर्होता॑ नो॒ नव॑ ॥ 4 ॥

अजै॑द॒ग्निः । अस॑न॒द्वाज॒न्नि । दे॒वो दे॒वेभ्यो॑ ह॒व्यावा॑ट् । प्राञ्जो॑भिर्हिन्वा॒नः । धेना॑भि॒ᳶ कल्प॑मानः । य॒ज्ञस्यायु॑ᳶ प्रति॒रन् । उप॒ प्रेष्य॑ होतः । ह॒व्या दे॒वेभ्यः॑ ॥12॥

अजै॑द॒ष्टौ ॥ 5 ॥

दैव्या॑श्शमितार उ॒त म॑नुष्या॒ आर॑भध्वम् । उप॑नयत॒ मेध्या॒ दुरः॑ । आ॒शासा॑ना॒ मेध॑पतिभ्या॒म्मेध॑म् । प्रास्मा॑ अ॒ग्निम्भ॑रत । स्तृ॒णी॒त ब॒र्हिः । अन्वे॑नम्मा॒ता म॑न्यताम् । अनु॑ पि॒ता । अनु॒ भ्राता॒ सग॑र्भ्यः । अनु॒ सखा॒ सयू॑थ्यः । उ॒दी॒चीनाँ॑ अस्य प॒दो निध॑त्तात् ॥13॥

सूर्य॒ञ्चक्षु॑र्गमयतात् । वात॑म्प्रा॒णम॒न्वव॑सृजतात् । दिश॒श्श्रोत्र॑म् । अ॒न्तरि॑क्ष॒मसु॑म् । पृ॒थि॒वीँ शरी॑रम् । ए॒क॒धाऽस्य॒ त्वच॒माच्छ्य॑तात् । पु॒रा नाभ्या॑ अपि॒शसो॑ व॒पामुत्खि॑दतात् । अ॒न्तरे॒वोष्माणव्ँ॑वारयतात् । श्ये॒नम॑स्य॒ वक्ष॑ᳶ कृणुतात् । प्र॒शसा॑ बा॒हू ॥14॥

श॒ला दो॒षणी॑ । क॒श्यपे॒वाँसा॑ । अच्छि॑द्रे॒ श्रोणी॑ । क॒वषो॒रू स्रे॒कप॑र्णाष्ठी॒वन्ता॑ । षड्विँ॑शतिरस्य॒ वङ्क्र॑यः । ता अ॑नु॒ष्ठ्योच्च्या॑वयतात् । गात्र॑ङ्गात्रम॒स्यानू॑नङ्कृणुतात् । ऊ॒व॒ध्य॒गो॒हम्पार्थि॑वङ्खनतात् । अ॒स्ना रक्ष॒स्सँसृ॑जतात् । व॒नि॒ष्ठुम॑स्य॒ मा रा॑विष्ट ॥15॥

उरू॑क॒म्मन्य॑मानाः । नेद्व॑स्तो॒के तन॑ये । रवि॑ता॒रव॑च्छमितारः । अध्रि॑गो शमी॒ध्वम् । सु॒शमि॑ शमीध्वम् । श॒मी॒ध्वम॑ध्रिगो । अध्रि॑गु॒श्चापा॑पश्च । उ॒भौ दे॒वानाँ॑ शमि॒तारौ॑ । तावि॒मम्प॒शु श्र॑पयताम्प्रवि॒द्वाँसौ॑ । यथा॑यथाऽस्य॒ श्रप॑ण॒न्तथा॑तथा ॥16॥

ध॒त्ता॒द्बा॒हू मा रा॑विष्ट॒ तथा॑तथा ॥ 6 ॥

जु॒षस्व॑ स॒प्रथ॑स्तमम् । वचो॑ दे॒वप्स॑रस्तमम् । ह॒व्या जुह्वा॑न आ॒सनि॑ । इ॒मन्नो॑ य॒ज्ञम॒मृते॑षु धेहि । इ॒मा ह॒व्या जा॑तवेदो जुषस्व । स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॑ । होत॒ᳶ प्राशा॑न प्रथ॒मो नि॒षद्य॑ । घृ॒तव॑न्तᳶ पावक ते । स्तो॒काश्श्चो॑तन्ति॒ मेद॑सः । स्वध॑र्मन्दे॒ववी॑तये ॥17॥

श्रेष्ठ॑न्नो धेहि॒ वार्य॑म् । तुभ्य॑ स्तो॒का घृ॑त॒श्चुतः॑ । अग्ने॒ विप्रा॑य सन्त्य । ऋषि॒श्श्रेष्ठ॒स्समि॑ध्यसे । य॒ज्ञस्य॑ प्रावि॒ता भ॑व । तुभ्य॑ श्चोतन्त्यध्रिगो शचीवः । स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ । क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागाः॑ । ह॒व्या जु॑षस्व मेधिर । ओजि॑ष्ठन्ते मध्य॒तो मेद॒ उद्भृ॑तम् । प्र ते॑ व॒यन्द॑दामहे । श्चोत॑न्ति ते वसो स्तो॒का अधि॑त्व॒चि । प्रति॒ तान्दे॑व॒शोवि॑हि ॥18॥

दे॒ववी॑तय॒ उद्भृ॑त॒न्त्रीणि॑ च ॥ 7 ॥

आवृ॑त्रहणा वृत्र॒हभि॒श्शुष्मैः॑ । इन्द्र॑ या॒तन्नमो॑भिरग्ने अ॒र्वाक् । यु॒वँ राधो॑भि॒रक॑वेभिरिन्द्र । अग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ । होता॑ यक्षदिन्द्रा॒ग्नी । छाग॑स्य व॒पाया॒ मेद॑सः । जु॒षेताँ॑ ह॒विः । होत॒र्यज॑ । विह्यख्य॒न्मन॑सा॒ वस्य॑ इ॒च्छन् । इन्द्रा॑ग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् ॥19॥

नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्य॑म् । स वा॒न्धियव्ँ॑वाज॒यन्ती॑मतक्षम् । होता॑ यक्षदिन्द्रा॒ग्नी । पु॒रो॒डाश॑स्य जु॒षेताँ॑ ह॒विः । होत॒र्यज॑ । त्वामी॑डते अजि॒रन्दू॒त्या॑य । ह॒विष्म॑न्त॒स्सद॒मिन्मानु॑षासः । यस्य॑ दे॒वैरास॑दो ब॒र्हि॒र॑ग्ने । अहा॑न्यस्मै सु॒दिना॑ भवन्तु । होता॑ यक्षद॒ग्निम् । पु॒रो॒डाश॑स्य जु॒षताँ॑ ह॒विः । होत॒र्यज॑ ॥20॥

स॒जा॒तान॒ग्निन्द्वे च॑ ॥ 8 ॥

गी॒र्भिर्विप्र॒ᳶ प्रम॑तिमि॒च्छमा॑नः । ईट्टे॑ र॒यिय्यँ॒शस॑म्पूर्व॒भाज॑म् । इन्द्रा॑ग्नी वृत्रहणा सुवज्रा । प्र णो॒ नव्ये॑भिस्तिरतन्दे॒ष्णैः । माच्छे॑द्म र॒श्मीँरिति॒ नाध॑मानाः । पि॒तृ॒णाँ शक्ती॑रनु॒यच्छ॑मानाः । इ॒न्द्रा॒ग्निभ्या॒ङ्कव्वृँष॑णो मदन्ति । ताह्यद्री॑ धि॒षणा॑या उ॒पस्थे॑ । अ॒ग्निँ सु॑दी॒तिँ सु॒दृश॑ङ्गृ॒णन्तः॑ । न॒म॒स्याम॒स्त्वेड्य॑ञ्जातवेदः । त्वान्दू॒तम॑र॒तिँ ह॑व्य॒वाह॑म् । दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥21॥

जा॒त॒वे॒दो॒ द्वे च॑ ॥ 9 ॥

त्व ह्य॑ग्ने प्रथ॒मो म॒नोता॑ । अ॒स्या धि॒यो अभ॑वो दस्म॒होता॑ । त्वँ सी॑व्वृँषन्नकृणोर्दु॒ष्टरी॑तु । सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै । अधा॒ होता॒ न्य॑सीदो॒ यजी॑यान् । इ॒डस्प॒द इ॒षय॒न्नीड्य॒स्सन् । तन्त्वा॒ नर॑ᳶ प्रथ॒मन्दे॑व॒यन्तः॑ । म॒हो रा॒ये चि॒तय॑न्तो॒ अनु॑ग्मन् । वृ॒तेव॒ यन्त॑म्ब॒हुभि॑र्वस॒व्यैः॑ । त्वे र॒यिञ्जा॑गृ॒वाँसो॒ अनु॑ग्मन्न् ॥22॥

रुश॑न्तम॒ग्निन्द॑र्श॒तम्बृ॒हन्त॑म् । व॒पाव॑न्तव्विँ॒श्वहा॑ दीदि॒वाँस॑म् । प॒दन्दे॒वस्य॒ नम॑सा वि॒यन्तः॑ । श्र॒व॒स्यव॒श्श्रव॑ आप॒न्नमृ॑क्तम् । नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि । भ॒द्राया॑न्ते रणयन्त॒ सन्दृ॑ष्टौ । त्वाव्वँ॑र्धन्ति क्षि॒तय॑ᳶ पृथि॒व्याम् । त्वँ राय॑ उ॒भया॑सो॒ जना॑नाम् । त्वन्त्रा॒ता त॑रणे॒ चेत्यो॑भूः । पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ॥23॥

सप॒र्येण्य॒स्स प्रि॒यो वि॒क्ष्व॑ग्निः । होता॑ म॒न्द्रो निष॑सादा॒ यजी॑यान् । तन्त्वा॑ व॒यन्दम॒ आ दी॑दि॒वाँस॑म् । उप॑ज्ञु॒बाधो॒ नम॑सा सदेम । तन्त्वा॑ व॒यँ सु॒धियो॒ नव्य॑मग्ने । सु॒म्ना॒यव॑ ईमहे देव॒यन्तः॑ । त्वव्विँशो॑ अनयो॒ दीद्या॑नः । दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ । वि॒शाङ्क॒विव्विँ॒श्पतिँ॒ शश्व॑तीनाम् । नि॒तोश॑नव्वृँष॒भञ्च॑र्षणी॒नाम् ॥24॥

प्रेती॑षणि मि॒षय॑न्तम्पाव॒कम् । राज॑न्तम॒ग्निय्यँ॑ज॒तँ र॑यी॒णाम् । सो अ॑ग्न ईजे शश॒मे च॒ मर्तः॑ । यस्त॒ आन॑ट्त्स॒मिधा॑ ह॒व्यदा॑तिम् । य आहु॑ति॒म्परि॒ वेदा॒ नमो॑भिः । विश्वेत्सवा॒मा द॑धते॒ त्वोतः॑ । अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम । नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः । वेदी॑सूनो सहसो गी॒र्भिरु॒क्थैः । आ ते॑ भ॒द्रायाँ॑ सुम॒तौ य॑तेम ॥25॥

आ॒ यस्त॒तन्थ॒ रोद॑सी॒ विभा॒सा । श्रवो॑भिश्च श्रव॒स्य॑स्तरु॑त्रः । बृ॒हद्भि॒र्वाजै॒स्स्थवि॑रेभिर॒स्मे । रे॒वद्भि॑रग्ने वित॒रव्विँ भा॑हि । नृ॒वद्व॑सो॒ सद॒मिद्धे॑ह्य॒स्मे । भूरि॑तो॒काय॒ तन॑याय प॒श्वः । पू॒र्वीरिषो॑ बृह॒तीरा॒रे अ॑घाः । अ॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु । पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या । वसू॑नि राजन्व॒सुता॑ते अश्याम् । पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्ति॑ । अग्ने॒ वसु॑ विध॒ते राज॑नि॒त्वे ॥26॥

जा॒गृ॒वाँसो॒ अनु॑ग्म॒न्मानु॑षाणाञ्चर्षणी॒नाय्यँ॑तेमाश्या॒न्द्वे च॑ ॥ 10 ॥

आ भ॑रतँ शिक्षतव्वँज्रबाहू । अ॒स्माँ इ॑न्द्राग्नी अवतँ॒ शची॑भिः । इ॒मे नु ते र॒श्मय॒स्सूर्य॑स्य । येभि॑स्सपि॒त्वम्पि॒तरो॑ न॒ आय॑न् । होता॑ यक्षदिन्द्रा॒ग्नी । छाग॑स्य ह॒विष॒ आत्ता॑म॒द्य । म॒ध्य॒तो मेद॒ उद्भृ॑तम् । पु॒रा द्वेषो॑भ्यः । पु॒रा पौरु॑षेय्या गृ॒भः । घस्ता॑न्नू॒नम् ॥27॥

घा॒से अ॑ज्राणाय्ँ॒यव॑सप्रथमानाम् । सु॒मत्क्ष॑राणाँ श॒तरु॑द्रियाणाम् । अ॒ग्नि॒ष्वा॒त्ताना॒म्पीवो॑पवसनानाम् । पा॒र्श्व॒तश्श्रो॑णि॒तश्शि॑ताम॒त उ॑त्साद॒तः । अङ्गा॑दङ्गा॒दव॑त्तानाम् । कर॑त ए॒वेन्द्रा॒ग्नी । जु॒षेताँ॑ ह॒विः । होत॒र्यज॑ । दे॒वेभ्यो॑ वनस्पते ह॒वीँषि॑ । हिर॑ण्यपर्ण प्र॒दिव॑स्ते॒ अर्थ॑म् ॥28॥

प्र॒द॒क्षि॒णिद्र॑श॒नया॑ नि॒यूय॑ । ऋ॒तस्य॑ वक्षि प॒थिभी॒ रजि॑ष्ठैः । होता॑ यक्षद्वन॒स्पति॑म॒भिहि । पि॒ष्टत॑मया॒ रभि॑ष्ठया रश॒नयाधि॑त । यत्रे॑न्द्राग्नि॒योश्छाग॑स्य ह॒विष॑ᳶ प्रि॒या धामा॑नि । यत्र॒ वन॒स्पते॑ᳶ प्रि॒या पाथाँ॑सि । यत्र॑ दे॒वाना॑माज्य॒पाना॑म्प्रि॒या धामा॑नि । यत्रा॒ग्नेर्होतु॑ᳶ प्रि॒या धामा॑नि । तत्रै॒तम्प्र॒स्तुत्ये॑वोप॒स्तुत्ये॑ वो॒पाव॑स्रक्षत् । रभी॑याँसमिव कृ॒त्वी ॥29॥

कर॑दे॒वन्दे॒वो वन॒स्पतिः॑ । जु॒षताँ॑ ह॒विः । होत॒र्यज॑ । पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ । वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने । त्वँ होतॄ॑णाम॒स्याय॑जिष्ठः । होता॑ यक्षद॒ग्नि स्वि॑ष्ट॒कृत॑म् । अया॑ड॒ग्निरि॑न्द्राग्नि॒योश्छाग॑स्य ह॒विष॑ᳶ प्रि॒या धामा॑नि । अया॒ड्वन॒स्पते॑ᳶ प्रि॒या पाथाँ॑सि । अया॑ड्दे॒वाना॑माज्य॒पाना॑म्प्रि॒या धामा॑नि । यक्ष॑द॒ग्नेर्होतु॑ᳶ प्रि॒या धामा॑नि । यक्ष॒त्स्वम्म॑हि॒मान॑म् । आय॑जता॒मेज्या॒ इषः॑ । कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः । जु॒षताँ॑ ह॒विः । होत॒र्यज॑ ॥30॥

नू॒नमर्थ॑ङ्कृ॒त्वी पाथाँ॑सि स॒प्त च॑ ॥ 11 ॥

उपो॑ ह॒ यद्वि॒दथव्ँ॑वा॒जिनो॒ गूः । गी॒र्भिर्विप्रा॒ᳶ प्रम॑तिमि॒च्छमा॑नाः । अ॒र्वन्तो॒ न काष्ठा॒न्नक्ष॑माणाः । इ॒न्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते । वन॑स्पते रश॒नया॑ऽभि॒धाय॑ । पि॒ष्टत॑मया व॒युना॑नि वि॒द्वान् । वह॑ देव॒त्रा दि॑धिषो ह॒वीँषि॑ । प्र च॑दा॒तार॑म॒मृते॑षु वोचः । अ॒ग्नि स्वि॑ष्ट॒कृत॑म् । अया॑ड॒ग्निरि॑न्द्राग्नि॒योश्छग॑स्य ह॒विष॑ᳶ प्रि॒या धामा॑नि ॥31॥

अया॒ड्वन॒स्पते॑ᳶ प्रि॒या पाथाँ॑सि । अया॑ड्दे॒वाना॑माज्य॒पाना॑म्प्रि॒या धामा॑नि । यक्ष॑द॒ग्नेर्होतु॑ᳶ प्रि॒या धामा॑नि । यक्ष॒त्स्वम्म॑हि॒मान॑म् । आय॑जता॒मेज्या॒ इषः॑ । कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः । जु॒षताँ॑ ह॒विः । अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः । पाव॑क शोचे॒ वेष्ट्वँ हि यज्वा॑ । ऋ॒ता य॑जासि महि॒ना वियद्भूः । ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥32॥

धामा॑नि॒ भूरेक॑ञ्च ॥ 12 ॥

दे॒वम्ब॒र्हिस्सु॑दे॒वन्दे॒वैस्स्यात्सु॒वीर॑व्वीँ॒रैर्वस्तो॑र्वृ॒ज्येता॒क्तोᳶ प्रभ्रि॑ये॒तात्य॒न्यान्रा॒या ब॒र्हिष्म॑तो मदेम वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वीर्द्वार॑स्सङ्घा॒ते वि॒ड्वीर्याम॑ञ्छिथि॒रा ध्रु॒वा दे॒वहू॑तौ व॒त्स ई॑मेना॒स्तरु॑ण॒ आमि॑मीयात्कुमा॒रो वा॒ नव॑जातो॒ मैना॒ अर्वा॑ रे॒णुक॑काट॒ᳶ पृण॑ग्वसु॒वने॑ वसु॒धेय॑स्य वियन्तु यज॑ । दे॒वी उ॒षासा॒नक्ताऽद्या॒स्मिन्‌य॒ज्ञे प्र॑य॒त्य॑ह्वेता॒मपि॑ नू॒नन्दैवी॒र्विश॒ᳶ प्राया॑सिष्टाँ॒ सुप्री॑ते॒ सुधि॑ते वसु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ । दे॒वी जोष्ट्री॒ वसु॑धिती॒ ययो॑र॒न्याऽघा द्द्वेषाँ॑सि यू॒यव॒दान्याव॑क्ष॒द्वसु॒ वार्या॑णि॒ यज॑मानाय वसु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ । दे॒वी ऊ॒र्जाहु॑ती॒ इष॒मूर्ज॑म॒न्याव॑क्ष॒त्सग्धिँ॒ सपी॑तिम॒न्या नवे॑न॒ पूर्व॒न्दय॑माना॒स्स्याम॑ पुरा॒णेन॒ नव॒न्तामूर्ज॑मू॒र्जाहु॑ती ऊ॒र्जय॑माने अधाताव्वँसु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ । दे॒वा दैव्या॒ होता॑रा॒ नेष्टा॑रा॒ पोता॑रा ह॒ताघ॑शँसावाभ॒रद्व॑सू वसु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीरिडा॒ सर॑स्वती॒ भार॑ती॒ द्याम्भार॑त्यादि॒त्यैर॑स्पृक्ष॒त्सर॑स्वती॒मँ रु॒द्रैर्य॒ज्ञमा॑वीदि॒हैवेड॑या॒ वसु॑मत्या सध॒माद॑म्मदेम वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वो नरा॒शँस॑स्त्रिशी॒र्षा ष॑ड॒क्षश्श॒तमिदे॑नँ शितिपृ॒ष्ठा आद॑धति स॒हस्र॑मी॒म्प्रव॑हन्ति मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्ह॑तो॒ बृह॒स्पति॑स्स्तो॒त्रम॒श्विनाऽऽ ध्व॑र्यवव्वँसु॒वने॑ वसु॒धेयस्य॑ वेतु॒ यज॑ । दे॒वो वन॒स्पति॑र्व॒र्षप्रा॑वा घृ॒तनि॑र्णि॒ग्द्यामग्रे॒णास्पृ॑क्ष॒दान्तरि॑क्ष॒म्मध्ये॑नाप्राᳶ पृथि॒वीमुप॑रेणादृँहीद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वम्ब॒र्हिर्वारि॑तीनान्नि॒धेधा॑ऽसि॒ प्रच्यु॑तीना॒मप्र॑च्युतन्निकाम॒धर॑णम्पुरुस्पा॒र्हय्यँश॑स्वदे॒ना ब॒र्हिषा॒ऽन्या ब॒र्हीँष्य॒भि ष्या॑म वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृ त्सु॒द्रवि॑णा म॒न्द्रᳶ क॒विस्स॒त्यम॑न्माऽऽय॒जी होता॒ होतु॑र्॒होतु॒राय॑जीया॒नग्ने॒ यान्दे॒वानया॒ड्याँ अपि॑प्रे॒र्ये ते॑ हो॒त्रे अम॑त्सत॒ ताँ स॑स॒नुषीँ॒ होत्रा॑न्देवङ्ग॒मान्दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒म स्वि॑ष्ट॒कृच्चाग्ने॒ होताऽभू॑र्वसु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॒ यज॑ ॥33॥

यजैक॑ञ्च ॥ 13 ॥

दे॒वम्ब॒र्हिः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वीर्द्वारः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु । दे॒वी उ॒षासा॒नक्ता॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वी जोष्ट्री॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वी ऊ॒र्जाहु॑ती । व॒सु॒वने॑ वसु॒धेयस्य॑ वीताम् ॥34॥

दे॒वा दैव्या॒ होता॑रा । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु । दे॒वो नरा॒शँसः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो वन॒स्पतिः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वम्ब॒र्हिर्वारि॑तीनाम् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु ॥35॥

दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् । सु॒द्रवि॑णा म॒न्द्रᳶ क॒विः । स॒त्यम॑न्माय॒जी होता॑ । होतु॑र्होतु॒राय॑जीयान् । अग्ने॒ यान्दे॒वानया॑ट् । याँ अपि॑प्रेः । ये ते॑ हो॒त्रे अम॑त्सत । ताँ स॑स॒नुषीँ॒ होत्रा॑न्देवङ्ग॒माम् । दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् । स्वि॒ष्ट॒कृच्चाग्ने॒ होताऽभूः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑ ॥36॥

वी॒ता॒व्वेँ॒त्वभू॒रेक॑ञ्च ॥ 14 ॥

अ॒ग्निम॒द्य होता॑रमवृणीता॒यय्यँज॑मान॒ᳶ पच॑न्प॒क्तीᳶ पच॑न्पुरो॒डाश॑म्ब॒ध्नन्नि॑न्द्रा॒ग्निभ्या॒ञ्छागँ॑ सूप॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवदिन्द्रा॒ग्निभ्या॒ञ्छागे॒नाघ॑स्ता॒न्तम्मे॑द॒स्तᳶ प्रति॑पच॒ताग्र॑भीष्टा॒मवी॑वृधेताम्पुरो॒डाशे॑न॒ त्वाम॒द्यर्ष॑ आर्षेय ऋषीणान्नपादवृणीता॒यय्यँज॑मानो ब॒हुभ्य॒ आ सङ्ग॑तेभ्य ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑क्ष्यत॒ इति॒ ता या दे॒वा दे॑व॒दाना॒न्यदु॒स्तान्य॑स्मा॒ आ च॒ शास्वा च॑ गुरस्वेषि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षस्सूक्तवा॒काय॑ सू॒क्ता ब्रू॑हि ॥37॥

अ॒ग्निम॒द्यैक॑म् ॥ 15 ॥

अ॒ञ्जन्ति॒ होता॑ यक्ष॒त्समि॑द्धो अ॒द्याग्निरजै॒द्दैव्या॑ जु॒षस्वा वृ॑त्रहणा गी॒र्भिस्त्व ह्याभ॑रत॒मुपो॑ह॒ यद्दे॒वं ब॒र्हिस्सु॑दे॒वन्दे॒वं ब॒र्हिर॒ग्निम॒द्य पञ्च॑दश ॥ 15 ॥ अ॒ञ्जन्त्य॒ग्निऱ्होता॑ नो गी॒र्भिरुपो॑ ह॒ यद्वि॒दथं॑ वा॒जिन॑स्स॒प्तत्रिँ॑शत् ॥ 37 ॥ अ॒ञ्जन्ति॑ सू॒क्ताब्रू॑हि ॥ हरिः॑ओम् ॥ श्रीकृष्णार्पणमस्तु । षष्ठ प्रपाठकस्समाप्तः ॥