स॒त्यम्प्रप॑द्ये । ऋ॒तम्प्रप॑द्ये । अ॒मृत॒म्प्रप॑द्ये । प्र॒जाप॑तेᳶ प्रि॒यान्त॒नुव॒मना॑र्ता॒म्प्रप॑द्ये । इ॒दम॒हम्प॑ञ्चद॒शेन॒ वज्रे॑ण । द्वि॒षन्त॒म्भ्रातृ॑व्य॒मव॑क्रामामि । यो॑ऽस्मान्द्वेष्टि॑ । यञ्च॑ व॒यन्द्वि॒ष्मः । भूर्भुव॒स्सुवः॑ । हिम् ॥1॥
स॒त्यन्दश॑ ॥ 1 ॥
प्र वो॒ वाजा॑ अ॒भिद्य॑वः । ह॒विष्म॑न्तो घृ॒ताच्या॑ । दे॒वाञ्जि॑गाति सुम्न॒युः । अग्न॒ आया॑हि वी॒तये॑ । गृ॒णा॒नो ह॒व्यदा॑तये । नि होता॑ सत्सि ब॒र्हिषि॑ । तन्त्वा॑ स॒मिद्भि॑रङ्गिरः । घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य । स न॑ᳶ पृ॒थुश्श्र॒वाय्य॑म् ॥2॥
अच्छा॑ देव विवाससि । बृ॒हद॑ग्ने सु॒वीर्य॑म् । ई॒डेन्यो॑ नम॒स्य॑स्ति॒रः । तमाँ॑सि दर्श॒तः । सम॒ग्निरि॑ध्यते॒ वृषा॑ । वृषो॑ अ॒ग्निस्समि॑ध्यते । अश्वो॒ न दे॑व॒वाह॑नः । तँ ह॒विष्म॑न्त ईडते । वृष॑णन्त्वा व॒यव्वृँष॑न् । वृषा॑ण॒स्समि॑धीमहि ॥3॥
अग्ने॒ दीद्य॑तम्बृ॒हत् । अ॒ग्निन्दू॒तव्वृँ॑णीमहे । होता॑रव्विँ॒श्ववे॑दसम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् । स॒मि॒ध्यमा॑नो अध्व॒रे । अ॒ग्निᳶ पा॑व॒क ईड्यः॑ । शो॒चिष्के॑श॒स्तमी॑महे । समि॑द्धो अग्न आहुत । दे॒वान् य॑क्षि स्वध्वर । त्वँ हि ह॑व्य॒वाडसि॑ । आजु॑होत दुव॒स्यत॑ । अ॒ग्निम्प्र॑य॒त्य॑ध्व॒रे । वृ॒णीध्वँ ह॑व्य॒वाह॑नम् । त्वव्वँरु॑ण उ॒त मि॒त्रो अ॑ग्ने । त्वाव्वँ॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः । त्वे वसु॑ सुषण॒नानि॑ सन्तु । यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥4॥
श्र॒वाय्य॑मिधीम॒ह्यसि॑ स॒प्त च॑ ॥ 2 ॥
अग्ने॑ म॒हाँ अ॑सि ब्राह्मण भारत । असा॒वसौ॑ । दे॒वेद्धो॒ मन्वि॑द्धः । ऋषि॑ष्टुतो॒ विप्रा॑नुमदितः । क॒वि॒श॒स्तो ब्रह्म॑सँशितो घृ॒ताह॑वनः । प्र॒णीर्य॒ज्ञाना॑म् । र॒थीर॑ध्व॒राणा॑म् । अ॒तूर्तो॒ होता॑ । तूर्णि॑र्हव्य॒वाट् । आस्पात्र॑ञ्जु॒हूर्दे॒वाना॑म् ॥5॥
च॒म॒सो दे॑व॒पानः॑ । अ॒राँ इ॑वाग्ने ने॒मिर्दे॒वाँ स्त्वम्प॑रि॒भूर॑सि । आ व॑ह दे॒वान् यज॑मानाय । अ॒ग्निम॑ग्न॒ आव॑ह । सोम॒माव॑ह । अ॒ग्निमाव॑ह । प्र॒जाप॑ति॒माव॑ह । अ॒ग्नीषोमा॒वाव॑ह । इ॒न्द्रा॒ग्नी आव॑ह । इन्द्र॒माव॑ह । म॒हे॒न्द्रमाव॑ह । दे॒वाँ आ॑ज्य॒पाँ आव॑ह । अ॒ग्निँ हो॒त्रायाव॑ह । स्वम्म॑हि॒मान॒माव॑ह । आ चा॑ग्ने दे॒वान् वह॑ । सु॒यजा॑ च यज जातवेदः ॥6॥
दे॒वाना॒मिन्द्र॒मा व॑ह॒ षट् च॑ ॥ 3 ॥
अ॒ग्निर् होता॒ वेत्व॒ग्निः । हो॒त्रव्वेँ॑त्तु प्रावि॒त्रम् । स्मो व॒यम् । सा॒धु ते॑ यजमान दे॒वता॑ । घृ॒तव॑तीमध्वर्यो॒ स्रुच॒मास्य॑स्व । दे॒वा॒युवव्ँ॑वि॒श्ववा॑राम् । ईडा॑महै दे॒वाँ ई॒डेन्या॑न् । न॒म॒स्याम॑ नम॒स्या॑न् । यजा॑म य॒ज्ञिया॑न् ॥7॥
अ॒ग्निर्होता॒ नव॑ ॥ 4 ॥
स॒मिधो॑ अग्न॒ आज्य॑स्य वियन्तु । तनू॒नपा॑दग्न॒ आज्य॑स्य वेतु । इ॒डो अ॑ग्न॒ आज्य॑स्य वियन्तु । ब॒र्हिर॑ग्न॒ आज्य॑स्य वेतु । स्वाहा॒ऽग्निम् । स्वाहा॒ सोम॑म् । स्वाहा॒ऽग्निम् । स्वाहा॑ प्र॒जाप॑तिम् । स्वाहा॒ऽग्नीषोमौ॑ । स्वाहे॑न्द्रा॒ग्नी । स्वाहेन्द्र॑म् । स्वाहा॑ महे॒न्द्रम् । स्वाहा॑ दे॒वाँ आ॑ज्य॒पान् । स्वाहा॒ऽग्निँ हो॒त्राज्जु॑षा॒णाः । अग्न॒ आज्य॑स्य वियन्तु ॥8॥
इ॒न्द्रा॒ग्नी पञ्च॑ च ॥ 5 ॥
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनत् । द्र॒वि॒ण॒स्युर्वि॑प॒न्यया॑ । समि॑द्धश्शु॒क्र आहु॑तः । जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु । त्वँ सो॑माऽसि॒ सत्प॑तिः । त्वँ राजो॒त वृ॑त्र॒हा । त्वम्भ॒द्रो अ॑सि॒ क्रतुः॑ । जु॒षा॒णस्सोम॒ आज्य॑स्य ह॒विषो॑ वेतु । अ॒ग्निᳶ प्र॒त्नेन॒ जन्म॑ना । शुम्भा॑नस्त॒नुव॒ स्वाम् । क॒विर्विप्रे॑ण वावृधे । जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु । सोम॑ गी॒र्भिष्ट्वा॑ व॒यम् । व॒र्धया॑मो वचो॒विदः॑ । सु॒मृ॒डी॒को न॒ आवि॑श । जु॒षा॒णस्सोम॒ आज्य॑स्य ह॒विषो॑ वेतु ॥9॥
स्वाँ षट् च॑ ॥ 6 ॥
अ॒ग्निर्मू॒र्धा दि॒वᳶ क॒कुत् । पति॑ᳶ पृथि॒व्या अ॒यम् । अ॒पाँ रेताँ॑सि जिन्वति । भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता । यत्रा॑ नि॒युद्भि॒स्सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धान॑न्दधिषे सुव॒र्षाम् । जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् । प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः । विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जहु॒मस्तन्नो॑ अस्तु ॥10॥
व॒य स्या॑म॒ पत॑यो रयी॒णाम् । स वे॑द पु॒त्रᳶ पि॒तरँ॒ स मा॒तर॑म् । स सू॒नुर्भु॑व॒त्स भु॑व॒त्पुन॑र्मघः । स द्यामौर्णो॑द॒न्तरि॑क्षँ॒ स सुवः॑ । स विश्वा॒ भुवो॑ अभव॒त्स आभ॑वत् । अग्नी॑षोमा॒ सवे॑दसा । सहू॑ती वनत॒ङ्गिरः॑ । सन्दे॑व॒त्रा ब॑भूवथुः । यु॒वमे॒तानि॑ दि॒वि रो॑च॒नानि॑ । अ॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ॥11॥
यु॒वँ सिन्धूँ॑ र॒भिश॑स्तेरव॒द्यात् । अग्नी॑षोमा॒वमु॑ञ्चतङ्गृभी॒तान् । इन्द्रा॑ग्नी रोच॒ना दि॒वः । परि॒ वाजे॑षु भूषथः । तद्वा॑ञ्चेति॒ प्र वी॒र्य॑म् । श्ञथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॑म् । इन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः॑ । सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ । एन्द्र॑ सान॒सिँ र॒यिम् ॥12॥
स॒जित्वा॑नँ सदा॒सह॑म् । वर्षि॑ष्ठमू॒तये॑ भर । प्रस॑साहिषे पुरुहूत॒ शत्रू॑न् । ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्राभ॑र॒ दक्षि॑णेना॒ वसू॑नि । पति॒स्सिन्धू॑नामसि रे॒वती॑नाम् । म॒हाँ इन्द्रो॒ य ओज॑सा । प॒र्जन्यो॑ वृष्टि॒माँ इ॑व । स्तोमै॑र्व॒त्सस्य॑ वावृधे । म॒हाँ इन्द्रो॑ नृ॒वदाच॑र्षणि॒प्राः ॥13॥
उ॒त द्वि॒बर्हा॑ अमि॒नस्सहो॑भिः । अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑य । उ॒रुᳶ पृ॒थुस्सुकृ॑तᳶ क॒र्तृभि॑र्भूत् । पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ । वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने । त्वँ होतॄ॑णाम॒स्याय॑जिष्ठः । अ॒ग्नि स्वि॑ष्ट॒कृत॑म् । अया॑ड॒ग्निर॒ग्नेᳶ प्रि॒या धामा॑नि । अया॒ट्त्सोम॑स्य प्रि॒या धामा॑नि ॥14॥
अया॑ड॒ग्नेᳶ प्रि॒या धामा॑नि । अया॑ट्प्र॒जाप॑तेᳶ प्रि॒या धामा॑नि । अया॑ड॒ग्नीषोम॑योᳶ प्रि॒या धामा॑नि । अया॑डिन्द्राग्नि॒योᳶ प्रि॒या धामा॑नि । अया॒डिन्द्र॑स्य प्रि॒या धामा॑नि । अया॑ण्महे॒न्द्रस्य॑ प्रि॒या धामा॑नि । अया॑ड्दे॒वाना॑माज्य॒पाना॑म्प्रि॒या धामा॑नि । यक्ष॑द॒ग्नेर्होतु॑ᳶ प्रि॒या धामा॑नि । यक्ष॒त्स्वम्म॑हि॒मान॑म् । आय॑जता॒मेज्या॒ इषः॑ । कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः । जु॒षताँ॑ ह॒विः । अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः । पाव॑क शोचे॒ वेष्ट्वँ हि यज्वा॑ । ऋ॒ता य॑जासि महि॒ना वियद्भूः । ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥15॥
अ॒स्त्व॒ध॒त्तँ॒ र॒यिञ्च॑र्षणि॒प्रास्सोम॑स्य प्रि॒या धामा॒नीष॒ष्षट्च॑ ॥ 7 ॥
उप॑हूतँ रथन्त॒रँ स॒ह पृ॑थि॒व्या । उप॑ मा रथन्त॒रँ स॒ह पृ॑थि॒व्या ह्व॑यताम् । उप॑हूतव्वाँमदे॒व्यँ स॒हान्तरि॑क्षेण । उप॑ मा वामदे॒व्यँ स॒हान्तरि॑क्षेण ह्वयताम् । उप॑हूतम्बृ॒हत्स॒ह दि॒वा । उप॑ मा बृ॒हत्स॒ह दि॒वा ह्व॑यताम् । उप॑हूतास्स॒प्त होत्राः॑ । उप॑ मा स॒प्त होत्रा॑ ह्वयन्ताम् । उप॑हूता धे॒नुस्स॒हर्ष॑भा । उप॑ मा धे॒नुस्स॒हर्ष॑भा ह्वयताम् ॥16॥
उप॑हूतो भ॒क्षस्सखा॑ । उप॑ मा भ॒क्षस्सखा॑ ह्वयताम् । उप॑हू॒ताँ (4) हो । इडोप॑हूता । उप॑हू॒तेडा॑ । उपो॑ अ॒स्माँ इडा॑ ह्वयताम् । इडोप॑हूता । उप॑हू॒तेडा॑ । मा॒न॒वी घृ॒तप॑दी मैत्रावरु॒णी । ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूतम् ॥17॥
दैव्या॑ अध्व॒र्यव॒ उप॑हूताः । उप॑हूता मनु॒ष्याः॑ । य इ॒मय्यँ॒ज्ञमवा॑न् । ये य॒ज्ञप॑तिव्ँ॒वर्धा॑न् । उप॑हूते॒ द्यावा॑पृथि॒वी । पू॒र्व॒जे ऋ॒ताव॑री । दे॒वी दे॒वपु॑त्रे । उप॑हूतो॒ऽयय्यँज॑मानः । उत्त॑रस्यान्देवय॒ज्याया॒मुप॑हूतः । भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतः । दि॒व्ये धाम॒न्नुप॑हूतः । इ॒दम्मे॑ दे॒वा ह॒विर्जु॑षन्ता॒मिति॒ तस्मि॒न्नुप॑हूतः । विश्व॑मस्य प्रि॒यमुप॑हूतम् । विश्व॑स्य प्रि॒यस्योप॑हूत॒स्योप॑हूतः ॥18॥
स॒हर्ष॑भा ह्वयता॒मुप॑हूतँ हवि॒ष्कर॑ण॒ उप॑हूतश्च॒त्वारि॑ च ॥ 8 ॥
दे॒वम्ब॒र्हिः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो नरा॒शँसः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् । सु॒द्रवि॑णा म॒न्द्रᳶ क॒विः । स॒त्यम॑न्माय॒जी होता॑ । होतु॑र्होतु॒राय॑जीयान् । अग्ने॒ यान्दे॒वानया॑ट् । याँ अपि॑प्रेः । ये ते॑ हो॒त्रे अम॑त्सत । ताँ स॑स॒नुषीँ॒ होत्रा॑न्देवङ्ग॒माम् । दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् । स्वि॒ष्ट॒कृच्चाग्ने॒ होताऽभूः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑ ॥19॥
अपि॑प्रे॒ᳶ पञ्च॑ च ॥ 9 ॥
इ॒दन्द्या॑वापृथिवी भ॒द्रम॑भूत् । आर्ध्म॑ सूक्तवा॒कम् । उ॒त न॑मोवा॒कम् । ऋ॒ध्यास्म॑ सू॒क्तोच्य॑मग्ने । त्वँ सू॑क्त॒वाग॑सि । उप॑श्रितो दि॒वᳶ पृ॑थि॒व्योः । ओम॑न्वती ते॒ऽस्मिन् य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी स्ता॑म् । श॒ङ्ग॒ये जी॒रदा॑नू । अत्र॑स्नू॒ अप्र॑वेदे । उ॒रुग॑व्यूती अभय॒ङ्कृतौ॑ ॥20॥
वृ॒ष्टिद्या॑वा री॒त्या॑पा । श॒म्भुवौ॑ मयो॒भुवौ॑ । ऊर्ज॑स्वती च॒ पय॑स्वती च । सू॒प॒च॒र॒णा च॑ स्वधिचर॒णा च॑ । तयो॑रा॒विदि॑ । अ॒ग्निरि॒दँ ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । सोम॑ इ॒दँ ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । अ॒ग्निरि॒दँ ह॒विर॑जुषत ॥21॥
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । प्र॒जाप॑तिरि॒दँ ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । अ॒ग्नीषोमा॑वि॒दँ ह॒विर॑जुषेताम् । अवी॑वृधेता॒म्महो॒ ज्यायो॑ऽक्राताम् । इ॒न्द्रा॒ग्नी इ॒दँ ह॒विर॑जुषेताम् । अवी॑वृधेता॒म्महो॒ ज्यायो॑ऽक्राताम् । इन्द्र॑ इ॒दँ ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । म॒हे॒न्द्र इ॒दँ ह॒विर॑जुषत ॥22॥
अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । दे॒वा आ॑ज्य॒पा आज्य॑मजुषन्त । अवी॑वृधन्त॒ महो॒ ज्यायो॑ऽक्रत । अ॒ग्निर्हो॒त्रेणे॒दँ ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । अ॒स्यामृध॒द्धोत्रा॑यान्देवङ्ग॒माया॑म् । आशा॑स्ते॒ऽयय्यँज॑मानो॒ऽसौ । आयु॒राशा॑स्ते । सु॒प्र॒जा॒स्त्वमाशा॑स्ते । स॒जा॒त॒व॒न॒स्यामाशा॑स्ते ॥23॥
उत्त॑रान्देवय॒ज्यामाशा॑स्ते । भूयो॑ हवि॒ष्कर॑ण॒माशा॑स्ते । दि॒व्यन्धामाशा॑स्ते । विश्व॑म्प्रि॒यमाशा॑स्ते । यद॒नेन॑ ह॒विषाऽऽशा॑स्ते । तद॑श्या॒त्तदृ॑ध्यात् । तद॑स्मै दे॒वा रा॑सन्ताम् । तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते । व॒यम॒ग्नेर्मानु॑षाः । इ॒ष्टञ्च॑ वी॒तञ्च॑ । उ॒भे च॑ नो॒ द्यावा॑पृथि॒वी अँह॑सस्पाताम् । इ॒ह गति॑र्वा॒मस्ये॒दञ्च॑ । नमो॑ दे॒वेभ्यः॑ ॥24॥
अ॒भ॒य॒ङ्कृता॑वकृता॒ग्निरि॒दँ ह॒विर॑जुषत महे॒न्द्र इ॒दँ ह॒विर॑जुषत सजातवन॒स्यामा शा॑स्ते वी॒तञ्च॒ त्रीणि॑ च ॥ 10 ॥
तच्छय्ँ॒योरावृ॑णीमहे । गा॒तुय्यँ॒ज्ञाय॑ । गा॒तुय्यँ॒ज्ञप॑तये । दैवी॑ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वञ्जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे॑ । शञ्चतु॑ष्पदे ॥25॥
तच्छ॒य्योँर॒ष्टौ ॥ 11 ॥
आप्या॑यस्व॒ सन्ते॑ । इ॒ह त्वष्टा॑रमग्रि॒यन्तन्न॑स्तु॒रीप॑म् । दे॒वाना॒म्पत्नी॑रुश॒तीर॑वन्तु नः । प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये । याᳶ पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते । ता नो॑ देवीस्सुहवा॒श्शर्म॑ यच्छत । उ॒त ग्ना वि॑यन्तु दे॒वप॑त्नीः । इ॒न्द्रा॒ण्य॑ग्नाय्य॒श्विनी॒ राट् । आ रोद॑सी वरुणा॒नी शृ॑णोतु । वि॒यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम् ॥26॥
अ॒ग्निर्होता॑ गृ॒हप॑ति॒स्स राजा॑ । विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः । दे॒वाना॑मु॒त यो मर्त्या॑नाम् । यजि॑ष्ठ॒स्स प्रय॑जतामृ॒तावा॑ । व॒यमु॑ त्वा गृहपते॒ जना॑नाम् । अग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हन्त॑म् । अ॒स्थू॒रि णो॒ गार्ह॑पत्यानि सन्तु । ति॒ग्मेन॑ न॒स्तेज॑सा॒ सँशि॑शाधि ॥27॥
जनी॑नाम॒ष्टौ च॑ ॥ 12 ॥
उप॑हूतँ रथन्त॒रँ स॒ह पृ॑थि॒व्या । उप॑ मा रथन्त॒रँ स॒ह पृ॑थि॒व्या ह्व॑यताम् । उप॑हूतव्वाँमदे॒व्यँ स॒हान्तरि॑क्षेण । उप॑ मा वामदे॒व्यँ स॒हान्तरि॑क्षेण ह्वयताम् । उप॑हूतम्बृ॒हत्स॒ह दि॒वा । उप॑ मा बृ॒हत्स॒ह दि॒वा ह्व॑यताम् । उप॑हूतास्स॒प्त होत्राः॑ । उप॑ मा स॒प्त होत्रा॑ ह्वयन्ताम् । उप॑हूता धे॒नुस्स॒हर्ष॑भा । उप॑ मा धे॒नुस्स॒हर्ष॑भा ह्वयताम् ॥28॥
उप॑हूतो भ॒क्षस्सखा॑ । उप॑ मा भ॒क्षस्सखा॑ ह्वयताम् । उप॑हू॒ताँ (4) हो । इडोप॑हूता । उप॑हू॒तेडा॑ । उपो॑ अ॒स्माँ इडा॑ ह्वयताम् । इडोप॑हूता । उप॑हू॒तेडा॑ । मा॒न॒वी घृ॒तप॑दी मैत्रावरु॒णी । ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूतम् ॥29॥
दैव्या॑ अध्व॒र्यव॒ उप॑हूताः । उप॑हूता मनु॒ष्याः॑ । य इ॒मय्यँ॒ज्ञमवा॑न् । ये य॒ज्ञप॑त्नीव्ँ॒वर्धा॑न् । उप॑हूते॒ द्यावा॑पृथि॒वी । पू॒र्व॒जे ऋ॒ताव॑री । दे॒वी दे॒वपु॑त्रे । उप॑हूते॒यय्यँज॑माना । इ॒न्द्राणीवा॑ऽविध॒वा । अदि॑तिरिव सुपु॒त्रा । उत्त॑रस्यान्देवय॒ज्याया॒मुप॑हूता । भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूता । दि॒व्ये धाम॒न्नुप॑हूता । इ॒दम्मे॑ दे॒वा ह॒विर्जु॑षन्ता॒मिति॒ तस्मि॒न्नुप॑हूता । विश्व॑मस्याᳶ प्रि॒यमुप॑हूतम् । विश्व॑स्य प्रि॒यस्योप॑हूत॒स्योप॑हूता ॥30॥
स॒हऱ्ष॑भा ह्वयता॒मुप॑हूतँ सुपु॒त्रा षट्च॑ ॥ 13 ॥
स॒त्यं प्रवोऽग्ने॑ म॒हान॒ग्निर् होता॑ स॒मिधो॒ऽग्निर्वृ॒त्राण्य॒ग्निर्मू॒र्धोप॑हूतन्दे॒वं ब॒र्हिरि॒दन्द्या॑वापृथिवी॒ तच्छ॒य्योँरा प्या॑य॒स्वोप॑हूत॒न्त्रयो॑दश ॥ 13 ॥ स॒त्यव्वँ॒य स्या॑म वृ॒ष्टिद्या॑वा त्रिँ॒शत् । स॒त्यमुप॑हूता ॥ 30 ॥ हरिः॑ ओम् ॥ श्रीकृष्णार्पणमस्तु ॥ कृष्णयजुर्ब्राह्मणे तृतीयाष्टके पञ्चम प्रपाठकस्समाप्तः ॥