ब्रह्म॑णे ब्राह्म॒णमाल॑भते । क्ष॒त्त्राय॑ राज॒न्य॑म् । म॒रुद्भ्यो॒ वैश्य॑म् । तप॑से शू॒द्रम् । तम॑से॒ तस्क॑रम् । नार॑काय वीर॒हण॑म् । पा॒प्मने॑ क्ली॒बम् । आ॒क्र॒याया॑यो॒गूम् । कामा॑य पुश्च॒लूम् । अति॑क्रुष्टाय माग॒धम् ॥1॥

गी॒ताय॑ सू॒तम् । नृ॒त्ताय॑ शैलू॒षम् । धर्मा॑य सभाच॒रम् । न॒र्माय॑ रे॒भम् । नरि॑ष्ठायै भीम॒लम् । हसा॑य॒ कारि॑म् । आ॒न॒न्दाय॑ स्त्रीष॒खम् । प्रमुदे॑ कुमारीपु॒त्रम् । मे॒धायै॑ रथका॒रम् । धैर्या॑य॒ तक्षा॑णम् ॥2॥

श्रमा॑य कौला॒लम् । मा॒यायै॑ कार्मा॒रम् । रू॒पाय॑ मणिका॒रम् । शुभे॑ व॒पम् । श॒र॒व्या॑या इषुका॒रम् । हे॒त्यै ध॑न्वका॒रम् । कर्म॑णे ज्याका॒रम् । दि॒ष्टाय॑ रज्जुस॒र्गम् । मृ॒त्य॑वे मृग॒युम् । अन्त॑काय श्व॒नित॑म् ॥3॥

स॒न्धये॑ जा॒रम् । गे॒हायो॑पप॒तिम् । निर्ऋ॑त्यै परिवि॒त्तम् । आर्त्यै॑ परिविविदा॒नम् । अरा॑ध्यै दिधिषू॒पति॑म् । प॒वित्रा॑य भि॒षज॑म् । प्र॒ज्ञाना॑य नक्षत्रद॒र्शम् । निष्कृ॑त्यै पेशस्का॒रीम् । बला॑योप॒दाम् । वर्णा॑यानू॒रुध॑म् ॥4॥

न॒दीभ्य॑ᳶ पौञ्जि॒ष्टम् । ऋ॒क्षीका॑भ्यो॒ नैषा॑दम् । पु॒रु॒ष॒व्या॒घ्राय॑ दु॒र्मद॑म् । प्र॒युद्भ्य॒ उन्म॑त्तम् । ग॒न्ध॒र्वा॒प्स॒राभ्यो॒ व्रात्य॑म् । स॒र्प॒दे॒व॒ज॒नेभ्योऽप्र॑तिपदम् । अवे॑भ्यᳶ कित॒वम् । इ॒र्यता॑या॒ अकि॑तवम् । पि॒शा॒चेभ्यो॑ बिदलका॒रम् । या॒तु॒धाने॑भ्यᳶ कण्टकका॒रम् ॥5॥

उ॒त्सा॒देभ्य॑ᳶ कु॒ब्जम् । प्र॒मुदे॑ वाम॒नम् । द्वा॒र्भ्यस्स्रा॒मम् । स्वप्ना॑या॒न्धम् । अध॑र्माय बधि॒रम् । सं॒ज्ञाना॑य स्मरका॒रीम् । प्र॒का॒मोद्या॑योप॒सद॑म् । आ॒शि॒क्षायै॑ प्र॒श्ञिन॑म् । उ॒प॒शि॒क्षाया॑ अभिप्र॒श्ञिन॑म् । म॒र्यादा॑यै प्रश्ञविवा॒कम् ॥6॥

ऋत्यै॑ स्ते॒नहृ॑दयम् । वैर॑हत्याय॒ पिशु॑नम् । विवि॑त्त्यै क्ष॒त्तार॑म् । औप॑द्रष्टाय सङ्ग्रही॒तार॑म् । बला॑यानुच॒रम् । भू॒म्ने प॑रिष्क॒न्दम् । प्रि॒याय॑ प्रियवा॒दिन॑म् । अरि॑ष्ट्या अश्वसा॒दम् । मेधा॑य वासᳶपल्पू॒लीम् । प्र॒का॒माय॑ रजयि॒त्रीम् ॥7॥

भायै॑ दार्वाहा॒रम् । प्र॒भाया॑ आग्ने॒न्धम् । नाक॑स्य पृ॒ष्ठाया॑भिषे॒क्तार॑म् । ब्र॒ध्नस्य॑ वि॒ष्टपा॑य पात्रनिर्णे॒गम् । दे॒व॒लो॒काय॑ पेशि॒तार॑म् । म॒नु॒ष्य॒लो॒काय॑ प्रकरि॒तार॑म् । सर्वे॑भ्यो लो॒केभ्य॑ उपसे॒क्तार॑म् । अव॑र्त्यै व॒धायो॑पमन्थि॒तार॑म् । सु॒व॒र्गाय॑ लो॒काय॑ भाग॒दुघ॑म् । वर्षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टार॑म् ॥8॥

अर्मे॑भ्यो हस्ति॒पम् । ज॒वाया॑श्व॒पम् । पुष्ट्यै॑ गोपा॒लम् । तेज॑सेऽजपा॒लम् । वी॒र्या॑याविपा॒लम् । इरा॑यै की॒नाश॑म् । की॒लाला॑य सुराका॒रम् । भ॒द्राय॑ गृह॒पम् । श्रेय॑से वित्त॒धम् । अध्य॑क्षायानुक्ष॒त्तार॑म् ॥9॥

म॒न्यवे॑ऽयस्ता॒पम् । क्रोधा॑य निस॒रम् । शोका॑याभिस॒रम् । उ॒त्कू॒ल॒वि॒कू॒लाभ्या॑न्त्रि॒स्थिन॑म् । योगा॑य यो॒क्तार॑म् । क्षेमा॑य विमो॒क्तार॑म् । वपु॑षे मानस्कृ॒तम् । शीला॑याञ्जनीका॒रम् । निर्ऋ॑त्यै कोशका॒रीम् । य॒माया॒सूम् ॥10॥

य॒म्यै॑ यम॒सूम् । अथ॑र्व॒भ्योऽव॑तोकाम् । सव्ँ॒व॒त्स॒राय॑ पर्या॒रिणी॑म् । प॒रि॒व॒त्स॒रायावि॑जाताम् । इ॒दा॒व॒त्स॒राया॑प॒स्कद्व॑रीम् । इ॒द्व॒त्स॒राया॒तीत्व॑वरीम् । व॒त्स॒राय॒ विज॑र्जराम् । स॒र्व॒न्त्स॒राय॒ पलि॑क्नीम् । वना॑य वन॒पम् । अ॒न्यतो॑रण्याय दाव॒पम् ॥11॥

सरो॑भ्यो धैव॒रम् । वेश॑न्ताभ्यो॒ दाश॑म् । उ॒प॒स्थाव॑रीभ्यो॒ बैन्द॑म् । न॒ड्व॒लाभ्य॑श्शौष्क॒लम् । पा॒र्या॑य कैव॒र्तम् । अ॒वा॒र्या॑य मार्गा॒रम् । ती॒र्थेभ्य॑ आ॒न्दम् । विष॑मेभ्यो मैना॒लम् । स्वने॑भ्य॒ᳶ पर्ण॑कम् । गुहा॑भ्य॒ᳶ किरा॑तम् । सानु॑भ्यो॒ जम्भ॑कम् । पर्व॑तेभ्य॒ᳶ किम्पू॑रुषम् ॥ 12॥

प्र॒ति॒श्रुत्का॑या ऋतु॒लम् । घोषा॑य भ॒षम् । अन्ता॑य बहुवा॒दिन॑म् । अ॒न॒न्ताय॒ मूक॑म् । मह॑से वीणावा॒दम् । क्रोशा॑य तूणव॒ध्मम् । आ॒क्र॒न्दाय॑ दुन्दुभ्याघा॒तम् । अ॒व॒र॒स्प॒राय॑ शङ्ख॒ध्मम् । ऋ॒भुभ्यो॑ऽजिनसन्धा॒यम् । सा॒ध्येभ्य॑श्चर्म॒म्णम् ॥13॥

बी॒भ॒त्सायै॑ पौल्क॒सम् । भूत्यै॑ जागर॒णम् । अभू॑त्यै स्वप॒नम् । तु॒लायै॑ वाणि॒जम् । वर्णा॑य हिरण्यका॒रम् । विश्वे॑भ्यो दे॒वेभ्य॑स्सिध्म॒लम् । प॒श्चा॒द्दो॒षाय॑ ग्ला॒वम् । ऋत्यै॑ जनवा॒दिन॑म् । व्यृ॑द्ध्या अपग॒ल्भम् । सँ॒श॒राय॑ प्र॒च्छिद॑म् ॥14॥

हसा॑य पुश्च॒लूमा ल॑भते । वी॒णा॒वा॒दङ्गण॑कङ्गी॒ताय॑ । याद॑से शाबु॒ल्याम् । न॒र्माय॑ भद्रव॒तीम् । तू॒ण॒व॒ध्मङ्ग्रा॑म॒ण्य॑म्पाणिसङ्घा॒तन्नृ॒त्ताय॑ । मोदा॑यानु॒क्रोश॑कम् । आ॒न॒न्दाय॑ तल॒वम् ॥15॥

अ॒क्ष॒रा॒जाय॑ कित॒वम् । कृ॒ताय॑ सभा॒विन॑म् । त्रेता॑या आदिनवद॒र्शम् । द्वा॒प॒राय॑ बहि॒स्सद॑म् । कल॑ये सभास्था॒णुम् । दु॒ष्कृ॒ताय॑ च॒रका॑चार्यम् । अध्व॑ने ब्रह्मचा॒रिण॑म् । पि॒शा॒चेभ्य॑स्सैल॒गम् । पि॒पा॒सायै॑ गोव्य॒च्छम् । निर्ऋ॑त्यै गोघा॒तम् । क्षु॒धे गो॑विक॒र्तम् । क्षु॒त्तृ॒ष्णाभ्या॒न्तम् । यो गाव्विँ॒कृन्त॑न्तम्माँ॒सम्भिक्ष॑माण उप॒तिष्ठ॑ते ॥16॥

भूम्यै॑ पीठस॒र्पिण॒मा ल॑भते । अ॒ग्नयेऽँ॑स॒लम् । वा॒यवे॑ चाण्डा॒लम् । अ॒न्तरि॑क्षाय वँशन॒र्तिन॑म् । दि॒वे ख॑ल॒तिम् । सूर्या॑य हर्य॒क्षम् । च॒न्द्रम॑से मिर्मि॒रम् । नक्ष॑त्रेभ्यᳶ कि॒लास॑म् । अह्ने॑ शु॒क्लम्पि॑ङ्ग॒लम् । रात्रि॑यै कृ॒ष्णम्पि॑ङ्गा॒क्षम् ॥17॥

वा॒चे पुरु॑ष॒माल॑भते । प्रा॒णम॑पा॒नव्व्याँ॒नमु॑दा॒नँ स॑मा॒नन्तान् वा॒यवे॑ । सूर्या॑य॒ चक्षु॒राल॑भते । मन॑श्च॒न्द्रम॑से । दि॒ग्भ्यश्श्रोत्र॑म् । प्र॒जाप॑तये॒ पुरु॑षम् ॥18॥

अथै॒तानरू॑पेभ्य॒ आल॑भते । अति॑ह्रस्व॒मति॑दीर्घम् । अतिकृ॑श॒मत्यँ॑सलम् । अति॑शुक्ल॒मति॑कृष्णम् । अति॑श्लक्ष्ण॒मति॑लोमशम् । अति॑किरिट॒मति॑दन्तुरम् । अति॑मिर्मिर॒मति॑मेमिषम् । आ॒शायै॑ जा॒मिम् । प्र॒ती॒क्षायै॑ कुमा॒रीम् ॥19॥

ब्रह्म॑णे गी॒ताय॒ श्रमा॑य स॒न्धये॑ न॒दीभ्य॑ उत्सा॒देभ्य॒ ऋत्यै॒ भाया॒ अर्मे॑भ्यो म॒न्यवे॑ य॒म्यै॑ दश॑दश॒ सरो॑भ्यो॒ द्वाद॑श प्रति॒श्रुत्का॑यै बीभ॒त्सायै॒ दश॑दश॒ हसा॑य स॒प्ताक्ष॑रा॒जाय॒ त्रयो॑दश॒ भूम्यै॒ दश॑ वा॒चे षडथ॒ नवैका॒न्नविँ॑शतिः ॥ 19 ॥ ब्रह्म॑णे य॒म्यै॑ नव॑दश ॥ 19 ॥ ब्रह्म॑णे कुमा॒रीम् ॥ हरिः॑ ओम् । श्रीकृष्णार्पणमस्तु ॥ चतुर्थप्रपाठकस्समाप्तः ॥