तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत् । तङ्गा॑य॒त्र्याऽह॑रत् । तस्य॑ प॒र्णम॑च्छिद्यत । तत्प॒र्णो॑ऽभवत् । तत्प॒र्णस्य॑ पर्ण॒त्वम् । ब्रह्म॒ वै प॒र्णः । यत्प॑र्णशा॒खया॑ व॒त्सान॑पाक॒रोति॑ । ब्रह्म॑णै॒वैना॑न॒पाक॑रोति । गा॒य॒त्रो वै प॒र्णः । गा॒य॒त्राᳶ प॒शवः॑ ॥1॥

तस्मा॒त्त्रीणि॑त्रीणि प॒र्णस्य॑ पला॒शानि॑ । त्रि॒पदा॑ गाय॒त्री । यत्प॑र्णशा॒खया॒ गाᳶ प्रा॒र्पय॑ति । स्वयै॒वैना॑ दे॒वत॑या॒ प्रार्प॑यति । यङ्का॒मये॑ताप॒शुस्स्या॒दिति॑ । अ॒प॒र्णान्तस्मै॒ शुष्का॑ग्रा॒माह॑रेत् । अ॒प॒शुरे॒व भ॑वति । यङ्का॒मये॑त पशु॒मान्त्स्या॒दिति॑ । ब॒हु॒प॒र्णान्तस्मै॑ बहुशा॒खामाह॑रेत् । प॒शु॒मन्त॑मे॒वैन॑ङ्करोति ॥2।

यत्प्राची॑मा॒ हरे॑त् । दे॒व॒लो॒कम॒भिज॑येत् । यदुदी॑चीम्मनुष्यलो॒कम् । प्राची॒मुदी॑ची॒मा ह॑रति । उ॒भयो॑र्लो॒कयो॑र॒भिजि॑त्यै । इ॒षे त्वो॒र्जे त्वेत्या॑ह । इष॑मे॒वोर्जय्ँ॒यज॑माने दधाति । वा॒यव॒स्स्थेत्या॑ह । वा॒युर्वा अ॒न्तरि॑क्ष॒स्याध्य॑क्षाः । अ॒न्त॒रि॒क्ष॒दे॒व॒त्या॑ᳶ खलु॒ वै प॒शवः॑ ॥3॥

वा॒यव॑ ए॒वैना॒न्परि॑ ददाति । प्र वा ए॑नाने॒तदा क॑रोति । यदाह॑ । वा॒यव॒स्स्थेत्यु॑पा॒यव॒स्स्थेत्या॑ह । यज॑मानायै॒व प॒शूनुप॑ह्वयते । दे॒वो व॑स्सवि॒ता प्रार्प॑य॒त्वित्या॑ह॒ प्रसू॑त्यै । श्रेष्ठ॑तमाय॒ कर्म॑ण॒ इत्या॑ह । य॒ज्ञो हि श्रेष्ठ॑तम॒ङ्कर्म॑ । तस्मा॑दे॒वमा॑ह । आप्या॑यध्वमघ्निया देवभा॒गमित्या॑ह ॥4॥

व॒त्सेभ्य॑श्च॒ वा ए॒ताᳶ पु॒रा म॑नु॒ष्ये॑भ्य॒श्चाप्या॑यन्त । दे॒वेभ्य॑ ए॒वैना॒ इन्द्रा॒याप्या॑ययति । ऊर्ज॑स्वती॒ᳶ पय॑स्वती॒रित्या॑ह । ऊर्जँ॒ हि पय॑स्स॒म्भर॑न्ति । प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा इत्या॑ह॒ प्रजा॑त्यै । मा व॑स्स्ते॒न ई॑शत॒ माऽघशँ॑स॒ इत्या॑ह॒ गुप्त्यै॑ । रु॒द्रस्य॑ हे॒तिᳶ परि॑ वो वृण॒क्त्वित्या॑ह । रु॒द्रादे॒वैना॑स्त्रायते । ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीरित्या॑ह । ध्रु॒वा ए॒वास्मि॑न्ब॒ह्वीᳶ क॑रोति ॥5॥

यज॑मानस्य प॒शून्पा॒हीत्या॑ह । प॒शू॒नाङ्गो॑पी॒थाय॑ । तस्मा॑त्सा॒यम्प॒शव॒ उप॑स॒माव॑र्तन्ते । अन॑धस्सादयति । गर्भा॑णा॒न्धृत्या॒ अप्र॑पादाय । तस्मा॒द्गर्भा॑ᳶ प्र॒जाना॒मप्र॑पादुकाः । उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥6॥

प॒शव॑ᳶ करोति प॒शवो॑ देवभा॒गमित्या॑ह करोति॒ नव॑ च ॥ 1 ॥

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्य॑श्वप॒र्शुमाद॑त्ते॒ प्रसू॑त्यै । अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् । पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ । यो वा ओष॑धीᳶ पर्व॒शो वेद॑ । नैना॒स्स हि॑नस्ति । प्र॒जाप॑ति॒र्वा ओष॑धीᳶ पर्व॒शो वे॑द । स ए॑ना॒ न हि॑नस्ति । अ॒श्व॒प॒र्श्वा ब॒र्हिरच्छै॑ति । प्रा॒जा॒प॒त्यो वा अश्व॑स्सयोनि॒त्वाय॑ ॥7॥

ओष॑धीना॒महिँ॑सायै । य॒ज्ञस्य॑ घो॒षद॒सीत्या॑ह । यज॑मान ए॒व र॒यिन्द॑धाति । प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । प्रेयम॑गाद्धि॒षणा॑ ब॒र्हिरच्छेत्या॑ह । वि॒द्या वै धि॒षणा॑ । वि॒द्ययै॒वैन॒दच्छै॑ति । मनु॑ना कृ॒ता स्व॒धया॒ वित॒ष्टेत्या॑ह । मा॒न॒वी हि पर्शु॑स्स्व॒धाकृ॑ता ॥8॥

त आव॑हन्ति क॒वय॑ᳶ पु॒रस्ता॒दित्या॑ह । शु॒श्रु॒वाँसो॒ वै क॒वयः॑ । य॒ज्ञᳶ पु॒रस्ता॑त् । मु॒ख॒त ए॒व य॒ज्ञमार॑भते । अथो॒ यदे॒तदु॒क्त्वा यत॒ᳶ कुत॑श्चा॒हर॑ति । तत्प्राच्या॑ ए॒व दि॒शो भ॑वति । दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्हिरा॒सद॒ इत्या॑ह । ब॒र्हिष॒स्समृ॑द्ध्यै । कर्म॒णोऽन॑पराधाय । दे॒वाना॑म्परिषू॒तम॒सीत्या॑ह ॥9॥

यद्वा इ॒दङ्किञ्च॑ । तद्दे॒वाना॑म्परिषू॒तम् । अथो॒ यथा॒ वस्य॑से प्रति॒प्रोच्याहे॒दङ्क॑रिष्या॒मीति॑ । ए॒वमे॒व तद॑ध्व॒र्युर्दे॒वेभ्य॑ᳶ प्रति॒प्रोच्य॑ ब॒र्हिर्दा॑ति । आ॒त्मनोऽहिँ॑सायै । याव॑तस्स्त॒म्बान्प॑रिदि॒शेत् । यत्तेषा॑मुच्छिँ॒ष्यात् । अति॒ तद्य॒ज्ञस्य॑ रेचयेत् । एक॑ स्त॒म्बम्परि॑दिशेत् । तँ सर्व॑न्दायात् ॥10॥

य॒ज्ञस्यान॑तिरेकाय । व॒र्षवृ॑द्धम॒सीत्या॑ह । व॒र्षवृ॑द्धा॒ वा ओष॑धयः । देव॑बर्हि॒रित्या॑ह । दे॒वेभ्य॑ ए॒वैन॑त्करोति । मा त्वा॒ऽन्वङ्मा ति॒र्यगित्या॒हाहिँ॑सायै । पर्व॑ ते राध्यास॒मित्या॒हर्ध्यै॑ । आ॒च्छे॒त्ता ते॒ मा रि॑ष॒मित्या॑ह । नास्या॒त्मनो॑ मीयते । य ए॒वव्वेँद॑ ॥11॥

देव॑बर्हिश्श॒तव॑ल्‌्शव्ँ॒विरो॒हेत्या॑ह । प्र॒जा वै ब॒र्हिः । प्र॒जाना॑म्प्र॒जन॑नाय । स॒हस्र॑वल्‌शा॒ वि व॒यँ रु॑हे॒मेत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । पृ॒थि॒व्यास्स॒म्पृच॑ᳶ पा॒हीत्या॑ह॒ प्रति॑ष्ठित्यै । अयु॑ङ्गायुङ्गान्मु॒ष्टील्लुँ॑नोति । मि॒थु॒न॒त्वाय॒ प्रजा॑त्यै । सु॒स॒म्भृता॑ त्वा॒ सम्भ॑रा॒मीत्या॑ह । ब्रह्म॑णै॒वैन॒त्सम्भ॑रति ॥12॥

अदि॑त्यै॒ रास्ना॒ऽसीत्या॑ह । इ॒यव्वाँ अदि॑तिः । अ॒स्या ए॒वैन॒द्रास्ना॑ङ्करोति । इ॒न्द्रा॒ण्यै स॒न्नह॑न॒मित्या॑ह । इ॒न्द्रा॒णी वा अग्रे॑ दे॒वता॑नाँ॒ सम॑नह्यत । साऽऽर्ध्नो॑त् । ऋद्ध्यै॒ सन्न॑ह्यति । प्र॒जा वै ब॒र्हिः । प्र॒जाना॒मप॑रावापाय । तस्मा॒त्स्नाव॑सन्तताᳶ प्र॒जा जा॑यन्ते ॥13॥

पू॒षा ते॑ ग्र॒न्थिङ्ग्र॑थ्ना॒त्वित्या॑ह । पुष्टि॑मे॒व यज॑माने दधाति । स ते॒ मास्था॒दित्या॒हाहिँ॑सायै । प॒श्चात्प्राञ्च॒मुप॑गूहति । प॒श्चाद्वै प्रा॒चीनँ॒ रेतो॑ धीयते । प॒श्चादे॒वास्मै॑ प्रा॒चीनँ॒ रेतो॑ दधाति । इन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छ॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । बृह॒स्पते॑र्मू॒र्ध्ना ह॑रा॒मीत्या॑ह । ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पतिः॑ ॥14॥

ब्रह्म॑णै॒वैन॑द्धरति । उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑ह॒ गत्यै॑ । दे॒व॒ङ्ग॒मम॒सीत्या॑ह । दे॒वाने॒वैन॑द्गमयति । अन॑धस्सादयति । गर्भा॑णा॒न्धृत्या॒ अप्र॑पादाय । तस्मा॒द्गर्भा॑ᳶ प्र॒जाना॒मप्र॑पादुकाः । उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥15॥

स॒यो॒नि॒त्वाय॑ स्व॒धाकृ॑ता॒ऽसीत्या॑ह दाया॒द्वेद॑ भरति जायन्ते॒ बृह॒स्पति॒स्सम॑ष्ट्यै ॥ 2 ॥

पू॒र्वे॒द्युरि॒ध्माब॒र्हिᳶ क॑रोति । य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑वसति । प्र॒जाप॑तिर्य॒ज्ञम॑सृजत । तस्यो॒खे अ॑स्रँसेताम् । य॒ज्ञो वै प्र॒जाप॑तिः । यत्सा॑न्नाय्यो॒खे भव॑तः । य॒ज्ञस्यै॒व तदु॒खे उप॑दधा॒त्यप्र॑स्रँसाय । शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह । दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति । मा॒त॒रिश्व॑नो घ॒र्मो॑ऽसीत्या॑ह ॥16॥

अ॒न्तरि॑क्षव्ँ॒ वै मा॑त॒रिश्व॑नो घ॒र्मः । ए॒षाल्लोँ॒कानाव्ँ॒विधृ॑त्यै । द्यौर॑सि पृथि॒व्य॑सीत्या॑ह । दि॒वश्च॒ ह्ये॑षा पृ॑थि॒व्याश्च॒ सम्भृ॑ता । यदु॒खा । तस्मा॑दे॒वमा॑ह । वि॒श्वधा॑या असि पर॒मेण॒ धाम्नेत्या॑ह । वृष्टि॒र्वै वि॒श्वधा॑याः । वृष्टि॑मे॒वाव॑रुन्धे । दृँह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै॑ ॥17॥

वसू॑नाम्प॒वित्र॑म॒सीत्या॑ह । प्रा॒णा वै वस॑वः । तेषाव्ँ॒वा ए॒तद्भा॑ग॒धेय॑म् । यत्प॒वित्र॑म् । तेभ्य॑ ए॒वैन॑त्करोति । श॒तधा॑रँ स॒हस्र॑धार॒मित्या॑ह । प्रा॒णेष्वे॒वायु॑र्दधाति सर्व॒त्वाय॑ । त्रि॒वृत्प॑लाशशा॒खाया॑न्दर्भ॒मय॑म्भवति । त्रि॒वृद्वै प्रा॒णः । त्रि॒वृत॑मे॒व प्रा॒णम्म॑ध्य॒तो यज॑माने दधाति ॥18॥

सौ॒म्यᳶ प॒र्णस्स॑योनि॒त्वाय॑ । सा॒क्षात्प॒वित्र॑न्द॒र्भाः । प्राक्सा॒यमधि॒ निद॑धाति । तत्प्रा॑णापा॒नयो॑ रू॒पम् । ति॒र्यक्प्रा॒तः । तद्दर्श॑स्य रू॒पम् । दा॒र्श्य ह्ये॑तदहः॑ । अन्नव्ँ॒ वै च॒न्द्रमाः॑ । अन्न॑म्प्रा॒णाः । उ॒भय॑मे॒वोपै॒त्यजा॑मित्वाय ॥19॥

तस्मा॑द॒यँ स॒र्वत॑ᳶ पवते । हु॒तस्स्तो॒को हु॒तो द्र॒प्स इत्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषोऽस्क॑न्दाय । न हि हु॒त स्वाहा॑कृत॒ स्कन्द॑ति । दि॒वि नाको॒ नामा॒ग्निः । तस्य॑ वि॒प्रुषो॑ भाग॒धेय॑म् । अ॒ग्नये॑ बृह॒ते नाका॒येत्या॑ह । नाक॑मे॒वाग्निम्भा॑ग॒धेये॑न॒ सम॑र्धयति । स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह । द्यावा॑पृथि॒व्योरे॒वैन॒त्प्रति॑ष्ठापयति ॥20॥

प॒वित्र॑व॒त्यान॑यति । अ॒पाञ्चै॒वौष॑धीनाञ्च॒ रसँ॒ सँसृ॑जति । अथो॒ ओष॑धीष्वे॒व प॒शून्प्रति॑ष्ठापयति । अ॒न्वा॒रभ्य॒ वाचय्ँ॑यच्छति । य॒ज्ञस्य॒ धृत्यै॑ । धा॒रय॑न्नास्ते । धा॒रय॑न्त इव॒ हि दु॒हन्ति॑ । काम॑धुक्ष॒ इत्या॒हातृ॒तीय॑स्यै । त्रय॑ इ॒मे लो॒काः । इ॒माने॒व लो॒कान्‌यज॑मानो दुहे ॥21॥

अ॒मूमिति॒ नाम॑ गृह्णाति । भ॒द्रमे॒वासा॒ङ्कर्मा॒विष्क॑रोति । सा वि॒श्वायु॒स्सा वि॒श्वव्य॑चा॒स्सा वि॒श्वक॒र्मेत्या॑ह । इ॒यव्वैँ वि॒श्वायुः॑ । अ॒न्तरि॑क्षव्विँ॒श्वव्य॑चाः । अ॒सौ वि॒श्वक॑र्मा । इ॒माने॒वैताभि॑र्लो॒कान्‌ य॑थापू॒र्वन्दु॑हे । अथो॒ यथा॑ प्रदा॒त्रे पुण्य॑मा॒शास्ते॑ । ए॒वमे॒वैना॑ ए॒तदुप॑स्तौति । तस्मा॒त्प्रादा॒दित्यु॒न्नीय॒ वन्द॑माना उपस्तु॒वन्त॑ᳶ प॒शून्दु॑हन्ति ॥22॥

ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यो॑ ह॒विरिति॒ वाचव्ँ॒विसृ॑जते । य॒था॒दे॒व॒तमे॒व प्रसौ॑ति । दैव्य॑स्य च मानु॒षस्य॑ च॒ व्यावृ॑त्यै । त्रिरा॑ह । त्रिष॑त्या॒ हि दे॒वाः । अवा॑चय्यँ॒मोऽन॑न्वार॒भ्योत्त॑राः । अप॑रिमितमे॒वाव॑रुन्धे । न दा॑रुपा॒त्रेण॑ दुह्यात् । अ॒ग्नि॒वद्वै दा॑रुपा॒त्रम् । यद्दा॑रुपा॒त्रेण॑ दु॒ह्यात् ॥23॥

या॒तया॑म्ना ह॒विषा॑ यजेत । अथो॒ खल्वा॑हुः । पु॒रो॒डाश॑मुखानि॒ वै ह॒वीँषि॑ । नेतइ॑तᳶ पुरो॒डाशँ॑ ह॒विषो॒ यामो॒ऽस्तीति॑ । काम॑मे॒व दा॑रुपा॒त्रेण॑ दुह्यात् । शू॒द्र ए॒व न दु॑ह्यात् । अस॑तो॒ वा ए॒ष सम्भू॑तः । यच्छू॒द्रः । अह॑विरे॒व तदित्या॑हुः । यच्छू॒द्रो दोग्धीति॑ ॥24॥

अ॒ग्नि॒हो॒त्रमे॒व न दु॑ह्याच्छू॒द्रः । तद्धि नोत्पु॒नन्ति॑ । य॒दा खलु॒ वै प॒वित्र॑म॒त्येति॑ । अथ॒ तद्ध॒विरिति॑ । सम्पृ॑च्यध्वमृतावरी॒रित्या॑ह । अ॒पाञ्चै॒वौष॑धीनाञ्च॒ रसँ॒ सँसृ॑जति । तस्मा॑द॒पाञ्चौष॑धीनाञ्च॒ रस॒मुप॑जीवामः । म॒न्द्रा धन॑स्य सा॒तय॒ इत्या॑ह । पुष्टि॑मे॒व यज॑माने दधाति । सोमे॑न॒ त्वात॑न॒च्मीन्द्रा॑य॒ दधीत्या॑ह ॥25॥

सोम॑मे॒वैन॑त्करोति । यो वै सोम॑म्भक्षयि॒त्वा । सव्ँ॒व॒त्स॒रँ सोम॒न्न पिब॑ति । पु॒न॒र्भक्ष्यो॑ऽस्य सोमपी॒थो भ॑वति । सोम॒ᳶ खलु॒ वै सा॑न्ना॒य्यम् । य ए॒वव्विँ॒द्वान्त्सा॑न्ना॒य्यम्पिब॑ति । अ॒पु॒न॒र्भक्ष्यो॑ऽस्य सामपी॒थो भ॑वति । न मृ॒न्मये॒नापि॑ दध्यात् । यन्मृ॒न्मयो॑नापिद॒ध्यात् । पि॒तृ॒दे॒व॒त्य॑ स्यात् ॥26॥

अ॒य॒स्पा॒त्रेण॑ वा दारुपा॒त्रेण॒ वाऽपि॑दधाति । तद्धि सदे॑वम् । उ॒द॒न्वद्भ॑वति । आपो॒ वै र॑क्षो॒घ्नीः । रक्ष॑सा॒मप॑हत्यै । अद॑स्तमसि॒ विष्ण॑वे॒ त्वे॒त्या॑ह । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञायै॒वैन॒दद॑स्तङ्करोति । विष्णो॑ ह॒व्यँ र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै॑ । अन॑धस्सादयति । गर्भा॑णा॒न्धृत्या॒ अप्र॑पादाय । तस्मा॒द्गर्भा॑ᳶ प्र॒जाना॒मप्र॑पादुकाः । उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥27॥

अ॒सीत्या॑ह॒ धृत्यै॒ यज॑माने दधा॒त्यजा॑मित्वाय स्थापयति दुहे दुहन्ति दु॒ह्याद्दोग्धीति॒ दधीत्या॑ह स्यात्सादयति॒ पञ्च॑ च ॥ 3 ॥

कर्म॑णे वान्दे॒वेभ्य॑श्शकेय॒मित्या॑ह॒ शक्त्यै॑ । य॒ज्ञस्य॒ वै सन्त॑ति॒मनु॑ प्र॒जाᳶ प॒शवो॒ यज॑मानस्य॒ सन्ता॑यन्ते । य॒ज्ञस्य॒ विच्छि॑त्ति॒मनु॑ प्र॒जाᳶ प॒शवो॒ यज॑मानस्य॒ विच्छि॑द्यन्ते । य॒ज्ञस्य॒ सन्त॑तिरसि य॒ज्ञस्य॑ त्वा॒ सन्त॑त्यै स्तृणामि॒ सन्त॑त्यै त्वा य॒ज्ञस्येत्याह॑व॒नीया॒त्सन्त॑नोति । यज॑मानस्य प्र॒जायै॑ पशू॒नाँ सन्त॑त्यै । अ॒पᳶ प्रण॑यति । श्र॒द्धा वा आपः॑ । श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पᳶ प्रण॑यति । य॒ज्ञो वा आपः॑ ॥ 28॥

य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पᳶ प्रण॑यति । वज्रो॒ वा आपः॑ । वज्र॑मे॒व भ्रातृ॑व्येभ्यᳶ प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पᳶ प्रण॑यति । आपो॒ वै र॑क्षो॒घ्नीः । रक्ष॑सा॒मप॑हत्यै । अ॒पᳶ प्रण॑यति । आपो॒ वै दे॒वाना॑म्प्रि॒यन्धाम॑ । दे॒वाना॑मे॒व प्रि॒यन्धाम॑ प्र॒णीय॒ प्रच॑रति ॥29॥

अ॒पᳶ प्रण॑यति । आपो॒ वै सर्वा॑ दे॒वताः॑ । दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । वेषा॑य॒ त्वेत्या॑ह । वेषा॑य॒ ह्ये॑नदाद॒त्ते । प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । धूर॒सीत्या॑ह । ए॒ष वै धुर्यो॒ऽग्निः । तय्यँदनु॑पस्पृश्याती॒यात् ॥30॥

अ॒ध्व॒र्युञ्च॒ यज॑मानञ्च॒ प्रद॑हेत् । उ॒प॒स्पृश्यात्ये॑ति । अ॒ध्व॒र्योश्च॒ यज॑मानस्य॒ चाप्र॑दाहाय । धूर्व॒ तय्योँ॑स्मान्धूर्व॑ति॒ तन्धू॑र्व॒ यव्वँ॒यन्धूर्वा॑म॒ इत्या॑ह । द्वौ वाव पुरु॑षौ । यञ्चै॒व धूर्व॑ति । यश्चै॑न॒न्धूर्व॑ति । तावु॒भौ शु॒चाऽर्प॑यति । त्वन्दे॒वाना॑मसि॒ सस्नि॑तम॒म्पप्रि॑तम॒ञ्जुष्ट॑तमव्ँ॒वह्नि॑तमन्देव॒हूत॑म॒मित्या॑ह । य॒था॒य॒जुरे॒वैतत् ॥ 31॥

अह्रु॑तमसि हवि॒र्धान॒मित्या॒हाना॑र्त्यै । दृँह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै॑ । मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्ष॒ इत्या॑ह मित्र॒त्वाय॑ । मा भेर्मा सव्विँ॑क्था॒ मा त्वा॑ हिँसिष॒मित्या॒हाहिँ॑सायै । यद्वै किञ्च॒ वातो॒ नाभि॒वाति॑ । तत्सर्वव्ँ॑वरुणदेव॒त्य॑म् । उ॒रु वाता॒येत्या॑ह । अवा॑रुणमे॒वैन॑त्करोति । दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्या॑ह॒ प्रसू॑त्यै । अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह ॥ 32॥

अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् । पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ । अ॒ग्नये॒ जुष्ट॒न्निर्व॑पा॒मीत्या॑ह । अ॒ग्नय॑ ए॒वैना॒ञ्जुष्ट॒न्निर्व॑पति । त्रिर्यजु॑षा । त्रय॑ इ॒मे लो॒काः । ए॒षाल्लोँ॒काना॒माप्त्यै॑ । तू॒ष्णीञ्च॑तु॒र्थम् । अप॑रिमितमे॒वाव॑रुन्धे । स ए॒वमे॒वानु॑पू॒र्वँ ह॒वीँषि॒ निर्व॑पति ॥33॥

इ॒दन्दे॒वाना॑मि॒दमु॑ नस्स॒हेत्या॑ह॒ व्यावृ॑त्यै । स्फा॒त्यै त्वा॒ नारा॑त्या॒ इत्या॑ह॒ गुप्त्यै॑ । तम॑सीव॒ वा ए॒षो॑ऽन्तश्च॑रति । यᳶ प॑री॒णहि॑ । सुव॑र॒भि विख्ये॑षव्वैँश्वान॒रञ्ज्योति॒रित्या॑ह । सुव॑रे॒वाभि विप॑श्यति वैश्वान॒रञ्ज्योतिः॑ । द्यावा॑पृथि॒वी ह॒विषि॑ गृही॒त उद॑वेपेताम् । दृँह॑न्ता॒न्दुर्या॒ द्यावा॑पृथि॒व्योरित्या॑ह । गृ॒हाणा॒न्द्यावा॑पृथि॒व्योर्धृत्यै॑ । उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑ह॒ गत्यै॑ । अदि॑त्यास्त्वो॒पस्थे॑ सादया॒मीत्या॑ह । इ॒यव्वाँ अदि॑तिः । अ॒स्या ए॒वैन॑दु॒पस्थे॑ सादयति । अग्ने॑ ह॒व्यँ र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै॑ ॥34॥

य॒ज्ञो वा आपो॒ धाम॑ प्र॒णीय॒ प्रच॑रत्यती॒यादे॒तद्बा॒हुभ्या॒मित्या॑ह ह॒वीँषि॒ निर्व॑पति॒ गत्यै॑ च॒त्वारि॑ च ॥ 4 ॥

इन्द्रो॑ वृ॒त्रम॑हन् । सो॑ऽपः । अ॒भ्य॑म्रियत । तासाय्ँ॒यन्मेध्यय्ँ॑ य॒ज्ञियँ॒ सदे॑व॒मासी॑त् । तदपोद॑क्रामत् । ते द॒र्भा अ॑भवन् । यद्द॒र्भैर॒प उ॑त्पु॒नाति॑ । या ए॒व मेध्या॑ य॒ज्ञिया॒स्सदे॑वा॒ आपः॑ । ताभि॑रे॒वैना॒ उत्पु॑नाति । द्वाभ्या॒मुत्पु॑नाति ॥35॥

द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै । दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वित्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैना॒ उत्पु॑नाति । अच्छि॑द्रेण प॒वित्रे॒णेत्या॑ह । अ॒सौ वा आ॑दि॒त्योऽच्छि॑द्रम्प॒वित्र॑म् । तेनै॒वैना॒ उत्पु॑नाति । वसो॒स्सूर्य॑स्य र॒श्मिभि॒रित्या॑ह । प्रा॒णा वा आपः॑ । प्रा॒णा वस॑वः । प्रा॒णा र॒श्मयः॑ ॥ 36॥

प्रा॒णैरे॒व प्रा॒णान्त्सम्पृ॑णक्ति । सा॒वि॒त्रि॒यर्चा । स॒वि॒तृप्र॑सूतम्मे॒ कर्मा॑स॒दिति॑ । स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति । प॒च्छो गा॑यत्रि॒या त्रि॑ष्षमृद्ध॒त्वाय॑ । आपो॑ देवीरग्रेपुवो अग्रेगुव॒ इत्या॑ह । रू॒पमे॒वासा॑मे॒तन्म॑हि॒मानव्ँ॒व्याच॑ष्टे । अग्र॑ इ॒मय्ँ य॒ज्ञन्न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒मित्या॑ह । अग्र॑ ए॒व य॒ज्ञन्न॑यन्ति । अग्रे॑ य॒ज्ञप॑तिम् ॥37॥

यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वव्ँवृत्र॒तूर्य॒ इत्या॑ह । वृ॒त्रँ ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे । आपो॒ हेन्द्रव्ँ॑वव्रिरे । सं॒ज्ञामे॒वासा॑मे॒तत्सामा॑नव्ँ॒व्याच॑ष्टे । प्रोक्षि॑ता॒स्स्थेत्या॑ह । तेनाप॒ᳶ प्रोक्षि॑ताः । अ॒ग्नये॑ वो॒ जुष्ट॒म्प्रोक्षा॑म्य॒ग्नीषोमा॑भ्या॒मित्या॑ह । य॒था॒दे॒व॒तमे॒वैना॒न्प्रोक्ष॑ति । त्रिᳶ प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञः ॥38॥

अथो॒ रक्ष॑सा॒मप॑हत्यै । शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह । दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति । त्रिᳶ प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ । अव॑धूतँ॒ रक्षोऽव॑धूता॒ आरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अदि॑त्या॒स्त्वग॒सीत्या॑ह । इ॒यव्वाँ अदि॑तिः ॥39॥

अ॒स्या ए॒वैन॒त्त्वच॑ङ्करोति । प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै । पु॒रस्ता॑त्प्रती॒चीन॑ग्रीव॒मुत्त॑रलो॒मोप॑स्तृणाति मेध्य॒त्वाय॑ । तस्मा॑त्पु॒रस्ता॑त्प्र॒त्यञ्च॑ᳶ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते । तस्मा॑त्प्र॒जा मृ॒गङ्ग्राहु॑काः । य॒ज्ञो दे॒वेभ्यो॒ निला॑यत । कृष्णो॑ रू॒पङ्कृ॒त्वा । यत्कृ॑ष्णाजि॒ने ह॒विर॑ध्यव॒हन्ति॑ । य॒ज्ञादे॒व तद्य॒ज्ञम्प्रयु॑ङ्क्ते । ह॒विषोऽस्क॑न्दाय ॥40॥

अ॒धि॒षव॑णमसि वानस्प॒त्यमित्या॑ह । अ॒धि॒षव॑णमे॒वैन॑त्करोति । प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह सय॒त्वाय॑ । अ॒ग्नेस्त॒नूर॒सीत्या॑ह । अ॒ग्नेर्वा ए॒षा त॒नूः । यदोष॑धयः । वा॒चो वि॒सर्ज॑न॒मित्या॑ह । य॒दा हि प्र॒जा ओष॑धीनाम॒श्ञन्ति॑ । अथ॒ वाचव्ँ॒विसृ॑जन्ते । दे॒ववी॑तये त्वा गृह्णा॒मीत्या॑ह ॥41॥

दे॒वता॑भिरे॒वैन॒त्सम॑र्धयति । अद्रि॑रसि वानस्प॒त्य इत्या॑ह । ग्रावा॑णमे॒वैन॑त्करोति । स इ॒दन्दे॒वेभ्यो॑ ह॒व्यँ सु॒शमि॑ शमि॒ष्वेत्या॑ह॒ शान्त्यै॑ । हवि॑ष्कृ॒देहीत्या॑ह । य ए॒व दे॒वानाँ॑ हवि॒ष्कृतः॑ । तान्‌ ह्व॑यति । त्रिर्ह्व॑यति । त्रिष॑त्या॒ हि दे॒वाः । इष॒माव॒दोर्ज॒माव॒देत्या॑ह ॥ 42॥

इष॑मे॒वोर्जय्ँ॒यज॑माने दधाति । द्यु॒मद्व॑दत व॒यँ स॑ङ्घा॒तञ्जे॒ष्मेत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै । मनो॑श्श्र॒द्धादे॑वस्य॒ यज॑मानस्यासुर॒घ्नी वाक् । य॒ज्ञा॒यु॒धेषु॒ प्रवि॑ष्टाऽऽसीत् । तेऽसु॑रा॒ याव॑न्तो यज्ञायु॒धाना॑मु॒द्वद॑तामु॒पाशृ॑ण्वन् । ते परा॑भवन् । तस्मा॒त्स्वाना॒म्मध्ये॑ऽव॒साय॑ यजेत । याव॑न्तोऽस्य॒ भ्रातृ॑व्या यज्ञायु॒धाना॑मु॒द्वद॑तामुपशृ॒ण्वन्ति॑ । ते परा॑भवन्ति । उ॒च्चैस्स॒माह॑न्त॒ वा आ॑ह॒ विजि॑त्यै ॥43॥

वृ॒ङ्क्त ए॑षामिन्द्रि॒यव्वीँ॒र्य॑म् । श्रेष्ठ॑ एषाम्भवति । व॒र्षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्षवृ॑द्धव्वेँ॒त्त्वित्या॑ह । व॒र्षवृ॑द्धा॒ वा ओष॑धयः । व॒र्षवृ॑द्धा इ॒षीका॒स्समृ॑द्ध्यै । य॒ज्ञँ रक्षाँ॒स्यनु॒ प्रावि॑शन् । तान्य॒स्ना प॒शुभ्यो॑ नि॒रवा॑दयन्त । तुषै॒रोष॑धीभ्यः । परा॑पूतँ॒ रक्ष॒ᳶ परा॑पूता॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै ॥44॥

रक्ष॑साम्भा॒गो॑ऽसीत्या॑ह । तुषै॑रे॒व रक्षाँ॑सि नि॒रव॑दयते । अ॒प उप॑स्पृशति मेध्य॒त्वाय॑ । वा॒युर्वो॒ विवि॑न॒क्त्वित्या॑ह । प॒वित्रव्ँ॒ वै वा॒युः । पु॒नात्ये॒वैना॑न् । अ॒न्तरि॑क्षादिव॒ वा ए॒ते प्रस्क॑न्दन्ति । ये शूर्पा॑त् । दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ᳶ प्रति॑गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषोऽस्क॑न्दाय । त्रिष्फ॒लीक॑र्त॒वा आ॑ह । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ ॥45॥

द्वाभ्या॒मुत्पु॑नाति र॒श्मयो॑ नय॒न्त्यग्रे॑ य॒ज्ञप॑तिय्यँ॒ज्ञोऽदि॑ति॒रस्क॑न्दाय गृह्णा॒मीत्या॑ह व॒देत्या॑ह॒ विजि॑त्या॒ अप॑हत्या॒ अस्क॑न्दाय॒ त्रीणि॑ च ॥ 5 ॥

अव॑धूतँ॒ रक्षोऽव॑धूता॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अदि॑त्या॒स्त्वग॒सीत्या॑ह । इ॒यव्वाँ अदि॑तिः । अ॒स्या ए॒वैन॒त्त्वच॑ङ्करोति । प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै । पु॒रस्ता॑त्प्रती॒चीन॑ग्रीव॒मुत्त॑रलो॒मोप॑स्तृणाति मेध्य॒त्वाय॑ । तस्मा॑त्पु॒रस्ता॑त्प्र॒त्यञ्च॑ᳶ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते । तस्मा॑त्प्र॒जा मृ॒गङ्ग्राहु॑काः । य॒ज्ञो दे॒वेभ्यो॒ निला॑यत ॥46॥

कृष्णो॑ रू॒पङ्कृ॒त्वा । यत्कृ॑ष्णाजि॒ने ह॒विर॑धिपि॒नष्टि॑ । य॒ज्ञादे॒व तद्य॒ज्ञम्प्रयु॑ङ्क्ते । ह॒विषोऽस्क॑न्दाय । द्यावा॑पृथि॒वी स॒हास्ता॑म् । ते श॑म्यामा॒त्रमेक॒मह॒र्व्यैताँ॑ शम्यामा॒त्रमेक॒महः॑ । दि॒वस्स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह । द्यावा॑पृथि॒व्योर्वीत्यै॑ । धि॒षणा॑ऽसि पर्व॒त्या प्रति॑ त्वा दि॒वस्स्क॑म्भ॒निर्वे॒त्त्वित्या॑ह । द्यावा॑पृथि॒व्योर्विधृ॑त्यै ॥47॥

धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे॒त्त्वित्या॑ह । द्यावा॑पृथि॒व्योर्धृत्यै॑ । दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्या॑ह॒ प्रसू॑त्यै । अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह । अ॒श्वि॒नौ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् । पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्त्ये॑ । अधि॑वपा॒मीत्या॑ह । य॒था॒दे॒व॒तमे॒वैना॒नधि॑वपति । धा॒न्य॑मसि धिनु॒हि दे॒वानित्या॑ह । ए॒तस्य॒ यजु॑षो वी॒र्ये॑ण ॥48॥

याव॒देका॑ दे॒वता॑ का॒मय॑ते॒ याव॒देका॑ । ताव॒दाहु॑तिᳶ प्रथते । न हि तदस्ति॑ । यत्ताव॑दे॒व स्यात् । याव॑ज्जु॒होति॑ । प्रा॒णाय॑ त्वाऽपा॒नाय॒ त्वेत्या॑ह । प्रा॒णाने॒व यज॑माने दधाति । दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धा॒मित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । अ॒न्तरि॑क्षादिव॒ वा ए॒तानि॒ प्रस्क॑न्दन्ति । यानि॑ दृ॒षदः॑ । दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ᳶ प्रति॑गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषोऽस्क॑न्दाय । असव्ँ॑वपन्ती पिँषा॒णूनि॑ कुरुता॒दित्या॑ह मेध्य॒त्वाय॑ ॥49॥

निला॑यत॒ विधृ॑त्यै वी॒र्ये॑ण स्कन्दन्ति च॒त्वारि॑ च ॥ 6 ॥

धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छेत्या॑ह॒ धृत्यै॑ । अपा॑ग्ने॒ऽग्निमा॒माद॑ञ्जहि॒ निष्क्र॒व्यादँ॑ से॒धा दे॑व॒यजव्ँ॑व॒हेत्या॑ह । य ए॒वामात्क्र॒व्यात् । तम॑प॒हत्य॑ । मेध्ये॒ऽग्नौ क॒पाल॒मुप॑दधाति । निर्द॑ग्धँ॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तय॒ इत्या॑ह । रक्षाँ॑स्ये॒व निर्द॑हति । अ॒ग्नि॒वत्युप॑दधाति । अ॒स्मिन्ने॒व लो॒के ज्योति॑र्धत्ते । अङ्गा॑र॒मधि॑वर्तयति ॥50॥

अ॒न्तरि॑क्ष ए॒व ज्योति॑र्धत्ते । आ॒दि॒त्यमे॒वामुष्मिल्ँ॑ लो॒के ज्योति॑र्धत्ते । ज्योति॑ष्मन्तोऽस्मा इ॒मे लो॒का भ॑वन्ति । य ए॒वव्ँ वेद॑ । ध्रु॒वम॑सि पृथि॒वीन्दृँ॒हेत्या॑ह । पृ॒थि॒वीमे॒वैतेन॑ दृँ॒हति । ध॒र्त्रम॑स्य॒न्तरि॑क्षन्दृँ॒हेत्या॑ह । अ॒न्तरि॑क्षमे॒वैतेन॑ दृँहति । ध॒रुण॑मसि॒ दिव॑न्दृँ॒हेत्या॑ह । दिव॑मे॒वैतेन॑ दृँहति ॥51॥

धर्मा॑सि॒ दिशो॑ दृँ॒हेत्या॑ह । दिश॑ ए॒वैतेन॑ दृँहति । इ॒माने॒वैतैर्लो॒कान्दृँ॑हति । दृँह॑न्तेऽस्मा इ॒मे लो॒काᳶ प्र॒जया॑ प॒शुभिः॑ । य ए॒वव्ँ वेद॑ । त्रीण्यग्रे॑ क॒पाला॒न्युप॑दधाति । त्रय॑ इ॒मे लो॒काः । ए॒षाल्ँ लो॒काना॒माप्त्यै॑ । एक॒मग्रे॑ क॒पाल॒मुप॑दधाति । एकव्ँ॒ वा अग्रे॑ क॒पाल॒म्पुरु॑षस्य स॒म्भव॑ति ॥52॥

अथ॒ द्वे । अथ॒ त्रीणि॑ । अथ॑ च॒त्वारि॑ । अथा॒ष्टौ । तस्मा॑द॒ष्टाक॑पाल॒म्पुरु॑षस्य॒ शिरः॑ । यदे॒वङ्क॒पाला॑न्युप॒दधा॑ति । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञमे॒व प्र॒जाप॑तिँ॒ सस्क॑रोति । आ॒त्मान॑मे॒व तत्सँस्क॑रोति । तँ सस्कृ॑तमा॒त्मान॑म् ॥53॥

अ॒मुष्मिल्ँ॑ लो॒केऽनु॒ परै॑ति । यद॒ष्टावु॑प॒दधा॑ति । गा॒य॒त्रि॒या तत्सम्मि॑तम् । यन्नव॑ । त्रि॒वृता॒ तत् । यद्दश॑ । वि॒राजा॒ तत् । यदेका॑दश । त्रि॒ष्टुभा॒ तत् । यद्द्वाद॑श ॥54॥

जग॑त्या॒ तत् । छन्द॑स्सम्मितानि॒ स उ॑प॒दध॑त्क॒पाला॑नि । इ॒माल्लोँ॒कान॑नुपू॒र्वन्दिशो॒ विधृ॑त्यै दृँहति । अथायु॑ᳶ प्रा॒णान्प्र॒जाम्प॒शून् यज॑माने दधाति । स॒जा॒तान॑स्मा अ॒भितो॑ बहु॒लान्क॑रोति । चित॒स्स्थेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । भृगू॑णा॒मङ्गि॑रसा॒न्तप॑सा तप्यध्व॒मित्या॑ह । दे॒वता॑नामे॒वैना॑नि॒ तप॑सा तपति । तानि॒ तत॒स्सस्थि॑ते । यानि॑ घ॒र्मे क॒पाला॑न्युपचि॒न्वन्ति॑ वे॒धस॒ इति॒ चतु॑ष्पदय॒र्चा वि मु॑ञ्चति । चतु॑ष्पादᳶ प॒शवः॑ । प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑तिष्ठति ॥55॥

व॒र्त॒य॒ति॒ दिव॑मे॒वैतेन॑ दृँहति स॒म्भव॑ति॒ तँ सस्कृ॑तमा॒त्मान॒न्द्वाद॑श॒ सस्थि॑ते॒ त्रीणि॑ च ॥ 7 ॥

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्या॑ह॒ प्रसू॑त्यै । अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् । पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ । सव्वँ॑पा॒मीत्या॑ह । य॒था॒दे॒व॒तमे॒वैना॑नि॒ सव्वँ॑पति । समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॒नेत्या॑ह । आपो॒ वा ओष॑धीर्जिन्वन्ति । ओष॑धयो॒ऽपो जि॑न्वन्ति । अ॒न्या वा ए॒तासा॑म॒न्या जि॑न्वन्ति ॥56॥

तस्मा॑दे॒वमा॑ह । सँ रे॒वती॒र्जग॑तीभि॒र्मधु॑मती॒र्मधु॑मतीभिस्सृज्यध्व॒मित्या॑ह । आपो॒ वै रे॒वतीः॑ । प॒शवो॒ जग॑तीः । ओष॑धयो॒ मधु॑मतीः । आप॒ ओष॑धीᳶ प॒शून् । ताने॒वास्मा॑ एक॒धा सँ॒सृज्य॑ । मधु॑मतᳶ करोति । अ॒द्भ्यᳶ परि॒ प्रजा॑तास्स्थ॒ सम॒द्भिᳶ पृ॑च्यध्व॒मिति॑ प॒र्याप्ला॑वयति । यथा॒ सुवृ॑ष्ट इ॒माम॑नुवि॒सृत्य॑ ॥57॥

आप॒ ओष॑धीर्म॒हय॑न्ति । ता॒दृगे॒व तत् । जन॑यत्यै त्वा॒ सय्ँयौ॒मीत्या॑ह । प्र॒जा ए॒वैतेन॑ दाधार । अ॒ग्नये॑ त्वा॒ऽग्नीषोमा॑भ्या॒मित्या॑ह॒ व्यावृ॑त्त्यै । म॒खस्य॒ शिरो॒ऽसीत्या॑ह । य॒ज्ञो वै म॒खः । तस्यै॒तच्छिरः॑ । यत्पु॑रो॒डाशः॑ । तस्मा॑दे॒वमा॑ह ॥58॥

घ॒र्मो॑ऽसि वि॒श्वायु॒रित्या॑ह । विश्व॑मे॒वायु॒र्यज॑माने दधाति । उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिᳶ प्रथता॒मित्या॑ह । यज॑मानमे॒व प्र॒जया॑ प॒शुभि॑ᳶ प्रथयति । त्वच॑ङ्गृह्णी॒ष्वेत्या॑ह । सर्व॑मे॒वैनँ॒ सत॑नुङ्करोति । अथा॒प आ॒नीय॒ परि॑मार्ष्टि । माँ॒स ए॒व तत्त्वच॑न्दधाति । तस्मा॑त्त्व॒चा माँ॒सञ्छ॒न्नम् । घ॒र्मो वा ए॒षोऽशा॑न्तः ॥59॥

अ॒र्ध॒मा॒से॑ऽर्धमासे॒ प्रवृ॑ज्यते । यत्पु॑रो॒डाशः॑ । स ई॑श्व॒रो यज॑मानँ शु॒चा प्र॒दहः॑ । पर्य॑ग्नि करोति । प॒शुमे॒वैन॑मकः । शान्त्या॒ अप्र॑दाहाय । त्रिᳶ पर्य॑ग्नि करोति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॒ रक्ष॑सा॒मप॑हत्यै । अ॒न्तरि॑तँ॒ रक्षो॒ऽन्तरि॑ता॒ अरा॑तय॒ इत्या॑ह ॥60॥

रक्ष॑साम॒न्तर्हि॑त्यै । पु॒रो॒डाशव्ँ॒ वा अधि॑श्रितँ॒ रक्षाँ॑स्यजिघाँसन् । दि॒वि नाको॒ नामा॒ग्नी र॑क्षो॒हा । स ए॒वास्मा॒द्रक्षाँ॒स्यपा॑हन् । दे॒वस्त्वा॑ सवि॒ता श्र॑पय॒त्वित्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैन॑ श्रपयति । वर्षि॑ष्ठे॒ अधि॒ नाक॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अ॒ग्निस्ते॑ त॒नुव॒म्माऽति॑धा॒गित्या॒हाऽन॑तिदाहाय । अग्ने॑ ह॒व्यँ र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै॑ ॥61॥

अवि॑दहन्तश्श्रपय॒तेति॒ वाचव्ँ॒विसृ॑जते । य॒ज्ञमे॒व ह॒वीँष्य॑भिव्या॒हृत्य॒ प्रत॑नुते । पु॒रो॒रुच॒मवि॑दाहाय॒ शृत्त्यै॑ करोति । म॒स्तिष्को॒ वै पु॑रो॒डाशः॑ । तय्यँन्नाभि॑वा॒सये॑त् । आ॒विर्म॒स्तिष्क॑स्स्यात् । अ॒भिवा॑सयति । तस्मा॒द्गुहा॑ म॒स्तिष्कः॑ । भस्म॑ना॒ऽभिवा॑सयति । तस्मा॑न्माँ॒सेनास्थि॑ छ॒न्नम् ॥62॥

वे॒देना॒भिवा॑सयति । तस्मा॒त्केशै॒श्शिर॑श्छ॒न्नम् । अख॑लतिभावुको भवति । य ए॒वव्वेँद॑ । प॒शोर्वै प्र॑ति॒मा पु॑रो॒डाशः॑ । स नाय॒जुष्क॑मभि॒वास्यः॑ । वृथे॑व स्यात् । ई॒श्व॒रा यज॑मानस्य प॒शव॒ᳶ प्रमे॑तोः । सम्ब्रह्म॑णा पृच्य॒स्वेत्या॑ह । प्रा॒णा वै ब्रह्म॑ ॥63॥

प्रा॒णाᳶ प॒शवः॑ । प्रा॒णैरे॒व प॒शून्त्सम्पृ॑णक्ति । न प्र॒मायु॑का भवन्ति । यज॑मानो॒ वै पु॑रो॒डाशः॑ । प्र॒जा प॒शव॒ᳶ पुरी॑षम् । यदे॒वम॑भिवा॒सय॑ति । यज॑मानमे॒व प्र॒जया॑ प॒शुभि॒स्सम॑र्धयति । दे॒वा वै ह॒विर्भृ॒त्वाऽब्रु॑वन् । कस्मि॑न्नि॒दम्म्र॑क्ष्यामह॒ इति॑ । सो॑ऽग्निर॑ब्रवीत् ॥64॥

मयि॑ त॒नूस्सन्निध॑ध्वम् । अ॒हव्ँव॒स्तञ्ज॑नयिष्यामि । यस्मि॑न्म्र॒क्ष्यध्व॒ इति॑ । ते दे॒वा अ॒ग्नौ त॒नूस्सन्न्य॑दधत । तस्मा॑दाहुः । अ॒ग्निस्सर्वा॑ दे॒वता॒ इति॑ । सोऽङ्गा॑रेणा॒पः । अ॒भ्य॑पातयत् । तत॑ एक॒तो॑ऽजायत । स द्वि॒तीय॑म॒भ्य॑पातयत् ॥65॥

ततो॑ द्वि॒तो॑ऽजायत । स तृ॒तीय॑म॒भ्य॑पातयत् । तत॑स्त्रि॒तो॑ऽजायत । यद॒द्भ्योऽजा॑यन्त । तदा॒प्याना॑माप्य॒त्वम् । यदा॒त्मभ्योऽजा॑यन्त । तदा॒त्म्याना॑मात्म्य॒त्वम् । ते दे॒वा आ॒प्येष्व॑मृजत । आ॒प्या अ॑मृजत॒ सूर्या॑भ्युदिते । सूर्या॑भ्युदित॒स्सूर्या॑भिनिम्रुक्ते ॥66॥

सूर्या॑भिनिम्रुक्तᳶ कुन॒खिनि॑ । कु॒न॒खी श्या॒वद॑ति । श्या॒वद॑न्नग्रदिधि॒षौ । अ॒ग्र॒दि॒धि॒षुᳶ प॑रिवि॒त्ते । प॒रि॒वि॒त्तो वी॑र॒हणि॑ । वी॒र॒हा ब्र॑ह्म॒हणि॑ । तद्ब्र॑ह्म॒हण॒न्नात्य॑च्यवत । अ॒न्त॒र्वे॒दि निन॑य॒त्यव॑रुध्यै । उल्मु॑केना॒भिगृ॑ह्णाति शृत॒त्वाय॑ । शृ॒तका॑मा इव॒ हि दे॒वाः ॥67॥

अ॒न्या जि॑न्वन्त्यनु वि॒सृत्यै॒वमा॒हाशा॑न्त आह॒ गुप्त्यै॑ छ॒न्नं ब्रह्मा॑ब्रवीद्द्वि॒तीय॑म॒भ्य॑पातय॒त्सूर्या॑भिनिम्रुक्ते दे॒वाः ॥ 8 ॥

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॒ स्फ्यमाद॑त्ते॒ प्रसू॑त्यै । अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् । पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ । आद॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑ण॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । स॒हस्र॑भृष्टिश्श॒तते॑जा॒ इत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मानव्ँ॒व्याच॑ष्टे । वा॒युर॑सि ति॒ग्मते॑जा॒ इत्या॑ह । तेजो॒ वै वा॒युः ॥68॥

तेज॑ ए॒वास्मि॑न्दधाति । वि॒षाद्वै नामा॑सु॒र आ॑सीत् । सो॑ऽबिभेत् । य॒ज्ञेन॑ मा दे॒वा अ॒भिभ॑विष्य॒न्तीति॑ । स पृ॑थि॒वीम॒भ्य॑वमीत् । साऽमे॒ध्याऽभ॑वत् । अथो॒ यदिन्द्रो॑ वृ॒त्रमह॑न् । तस्य॒ लोहि॑तम्पृथि॒वीमनु॒ व्य॑धावत् । साऽमे॒ध्याऽभ॑वत् । पृथि॑वि देवयज॒नीत्या॑ह ॥69॥

मेध्या॑मे॒वैना॑न्देव॒यज॑नीङ्करोति । ओष॑ध्यास्ते॒ मूल॒म्मा हिँ॑सिष॒मित्या॑ह । ओष॑धीना॒महिँ॑सायै । व्र॒जङ्ग॑च्छ गो॒स्थान॒मित्या॑ह । छन्दाँ॑सि॒ वै व्र॒जो गो॒स्थानः॑ । छन्दा॑स्ये॒वास्मै॑ व्र॒जङ्गो॒स्थान॑ङ्करोति । वर्ष॑तु ते॒ द्यौरित्या॑ह । वृष्टि॒र्वै द्यौः । वृष्टि॑मे॒वाव॑रुन्धे । ब॒धा॒न दे॑व सवितᳶ पर॒मस्या॑म्परा॒वतीत्या॑ह ॥70॥

द्वौ वाव पुरु॑षौ । यञ्चै॒व द्वेष्टि॑ । यश्चै॑न॒न्द्वेष्टि॑ । तावु॒भौ ब॑ध्नाति पर॒मस्या॑म्परा॒वति॑ श॒तेन॒ पाशैः॑ । यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा मौ॒गित्या॒हानि॑म्रुक्त्यै । अ॒ररु॒र्वै नामा॑सु॒र आ॑सीत् । स पृ॑थि॒व्यामुप॑म्लुप्तोऽशयत् । तन्दे॒वा अप॑हतो॒ऽररु॑ᳶ पृथि॒व्या इति॑ पृथि॒व्या अपा॑घ्नन् । भ्रातृ॑व्यो॒ वा अ॒ररुः॑ । अप॑हतो॒ऽररु॑ᳶ पृथि॒व्या इति॒ यदाह॑ ॥71॥

भ्रातृ॑व्यमे॒व पृ॑थि॒व्या अप॑हन्ति । ते॑ऽमन्यन्त । दिवव्ँ॒ वा अ॒यमि॒तᳶ प॑तिष्य॒तीति॑ । तम॒ररु॑स्ते॒ दिव॒म्माऽस्का॒निति॑ दि॒वᳶ पर्य॑बाधन्त । भ्रातृ॑व्यो॒ वा अ॒ररुः॑ । अ॒ररु॑स्ते॒ दिव॒म्मा स्का॒निति॒ यदाह॑ । भ्रातृ॑व्यमे॒व दि॒वᳶ परि॑बाधते । स्त॒म्ब॒य॒जुर्ह॑रति । पृ॒थि॒व्या ए॒व भ्रातृ॑व्य॒मप॑हन्ति । द्वि॒तीयँ॑ हरति ॥72॥

अ॒न्तरि॑क्षादे॒वैन॒मप॑हन्ति । तृ॒तीयँ॑ हरति । दि॒व ए॒वैन॒मप॑हन्ति । तू॒ष्णीञ्च॑तु॒र्थँ ह॑रति । अप॑रिमितादे॒वैन॒मप॑हन्ति । असु॑राणाव्ँ॒वा इ॒यमग्र॑ आसीत् । याव॒दासी॑नᳶ परा॒पश्य॑ति । ताव॑द्दे॒वाना॑म् । ते दे॒वा अ॑ब्रुवन् । अस्त्वे॒व नो॒ऽस्यामपीति॑ ॥73॥

क्य॑न्नो दास्य॒थेति॑ । याव॑त्स्व॒यम्प॑रिगृह्णी॒थेति॑ । ते वस॑व॒स्त्वेति॑ दक्षिण॒तᳶ पर्य॑गृह्णन् । रु॒द्रास्त्वेति॑ प॒श्चात् । आ॒दि॒त्यास्त्वेत्यु॑त्तर॒तः । ते॑ऽग्निना॒ प्राञ्चो॑ऽजयन् । वसु॑भिर्दक्षि॒णा । रु॒द्रैᳶ प्र॒त्यञ्चः॑ । आ॒दि॒त्यैरुद॑ञ्चः । यस्यै॒वव्ँवि॒दुषो॒ वेदि॑म्परिगृ॒ह्णन्ति॑ ॥74॥

भव॑त्या॒त्मना॑ । परा॑ऽस्य॒ भ्रातृ॑व्यो भवति । दे॒वस्य॑ सवि॒तुस्स॒व इत्या॑ह॒ प्रसू॑त्यै । कर्म॑ कृण्वन्ति वे॒धस॒ इत्या॑ह । इ॒षि॒तँ हि कर्म॑ क्रि॒यते॑ । पृ॒थि॒व्यै मेध्य॑ञ्चामे॒ध्यञ्च॒ व्युद॑क्रामताम् । प्रा॒चीन॑मुदी॒चीन॒म्मेध्य॑म् । प्र॒ती॒चीन॑न्दक्षि॒णाऽमे॒ध्यम् । प्राची॒मुदी॑चीम्प्रव॒णाङ्क॑रोति । मेध्या॑मे॒वैना॑न्देव॒यज॑नीङ्करोति ॥75॥

प्राञ्चौ॑ वेद्यँ॒सावुन्न॑यति । आ॒ह॒व॒नीय॑स्य॒ परि॑गृहीत्यै । प्र॒तीची॒ श्रोणी॑ । गार्ह॑पत्यस्य॒ परि॑गृहीत्यै । अथो॑ मिथुन॒त्वाय॑ । उद्ध॑न्ति । यदे॒वास्या॑ अमे॒ध्यम् । तदप॑हन्ति । उद्ध॑न्ति । तस्मा॒दोष॑धय॒ᳶ परा॑भवन्ति ॥76॥

मूल॑ञ्छिनत्ति । भ्रातृ॑व्यस्यै॒व मूल॑ञ्छिनत्ति । मूलव्ँ॒ वा अ॑ति॒तिष्ठ॒द्रक्षाँ॒स्यनूत्पि॑पते । यद्धस्ते॑न छि॒न्द्यात् । कु॒न॒खिनी॑ᳶ प्र॒जास्स्युः॑ । स्फ्येन॑ छिनत्ति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒व य॒ज्ञाद्रक्षाँ॒स्यप॑हन्ति । पि॒तृ॒दे॒व॒त्याऽति॑खाता । इय॑तीङ्खनति ॥77॥

प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑ताम् । वेदि॑र्दे॒वेभ्यो॒ निला॑यत । ताञ्च॑तुरङ्गु॒लेऽन्व॑विन्दन् । तस्मा॑च्चतुरङ्गु॒लङ्खेया॑ । च॒तु॒र॒ङ्गु॒लङ्ख॑नति । च॒तु॒र॒ङ्गु॒ले ह्योष॑धयᳶ प्रति॒तिष्ठ॑न्ति । आ प्र॑ति॒ष्ठायै॑ खनति । यज॑मानमे॒व प्र॑ति॒ष्ठाङ्ग॑मयति । द॒क्षि॒ण॒तो वर्षी॑यसीङ्करोति । दे॒व॒यज॑नस्यै॒व रू॒पम॑कः ॥78॥

पुरी॑षवतीङ्करोति । प्र॒जा वै प॒शव॒ᳶ पुरी॑षम् । प्र॒जयै॒वैन॑म्प॒शुभि॒ᳶ पुरी॑षवन्तङ्करोति । उत्त॑रम्परिग्रा॒हम्परि॑गृह्णाति । ए॒ताव॑ती॒ वै पृ॑थि॒वी । याव॑ती॒ वेदिः॑ । तस्या॑ ए॒तावत॑ ए॒व भ्रातृ॑व्यन्नि॒र्भज्य॑ । आ॒त्मन॒ उत्त॑रम्परिग्रा॒हम्परि॑गृह्णाति । ऋ॒तम॑स्यृत॒सद॑नमस्यृत॒श्रीर॒सीत्या॑ह । य॒था॒य॒जुरे॒वैतत् ॥79॥

क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति । यद्वेदि॑ङ्क॒रोति॑ । धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै॑ । उ॒र्वी चासि॒ वस्वी॑ चा॒सीत्या॑ह । उ॒र्वीमे॒वैनाव्ँ॒वस्वी॑ङ्करोति । पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शि॒न्नित्या॑ह मेध्य॒त्वाय॑ । उ॒दा॒दाय॑ पृथि॒वीञ्जी॒रदा॑नु॒र्यामैर॑यञ्च॒न्द्रम॑सि स्व॒धाभि॒रित्या॑ह । यदे॒वास्या॑ अमे॒ध्यम् । तद॑प॒हत्य॑ । मेध्या॑न्देव॒यज॑नीङ्कृ॒त्वा ॥80॥

यद॒दश्च॒न्द्रम॑सि॒ मेध्य॑म् । तद॒स्यामेर॑यति । तान्धीरा॑सो अनु॒दृश्य॑ यजन्त॒ इत्या॒हानु॑ख्यात्यै । प्रोक्ष॑णी॒रासा॑दय । इ॒ध्माब॒र्हिरुप॑सादय । स्रु॒वञ्च॒ स्रुच॑श्च॒ सम्मृ॑ड्ढि । पत्नीँ॒ सन्न॑ह्य । आज्ये॑नो॒देहीत्या॑हानुपू॒र्वता॑यै । प्रोक्ष॑णी॒रासा॑दयति । आपो॒ वै र॑क्षो॒घ्नीः ॥81॥

रक्ष॑सा॒मप॑हत्यै । स्फ्यस्य॒ वर्त्म॑न्त्सादयति । य॒ज्ञस्य॒ सन्त॑त्यै । उ॒वाच॒ हासि॑तो दैव॒लः । ए॒ताव॑ती॒र्वा अ॒मुष्मिल्ँ॑ लो॒क आप॑ आसन् । याव॑ती॒ᳶ प्रोक्ष॑णी॒रिति॑ । तस्मा॑द्ब॒ह्वीरा॒साद्याः॑ । स्फ्यमु॒दस्य॑न् । यन्द्वि॒ष्यात्तन्ध्या॑येत् । शु॒चैवैन॑मर्पयति ॥82॥

वै वा॒युरा॑ह परा॒वतीत्या॒हाह॑ द्वि॒तीयँ॑ हर॒तीति॑ परिगृ॒ह्णन्ति॑ देव॒यज॑नीं करोति भवन्ति खनत्यकरे॒तत्कृ॒त्वा र॑क्षो॒घ्नीर॑र्पयति ॥ 9 ॥

वज्रो॒ वै स्फ्यः । यद॒न्वञ्च॑न्धा॒रये॑त् । वज्रे॑ऽध्व॒र्युः क्ष॑ण्वीत । पु॒रस्ता॑त्ति॒र्यञ्च॑न्धारयति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षाँ॒स्यप॑हन्ति । अ॒ग्निभ्या॒म्प्राच॑श्च प्र॒तीच॑श्च । स्फ्येनोदी॑चश्चाध॒राच॑श्च । स्फ्येन॒ वा ए॒ष वज्रे॑णा॒स्यै पा॒प्मान॒म्भ्रातृ॑व्यमप॒हत्य॑ । उ॒त्क॒रेऽधि॒ प्रवृ॑श्चति ॥83॥

यथो॑प॒धाय॑ वृ॒श्चन्त्ये॒वम् । हस्ता॒वव॑नेनिक्ते । आ॒त्मान॑मे॒व प॑वयते । स्फ्यम्प्रक्षा॑लयति मेध्य॒त्वाय॑ । अथो॑ पा॒प्मन॑ ए॒व भ्रातृ॑व्यस्य न्य॒ङ्गञ्छि॑नत्ति । इ॒ध्माब॒र्हिरुप॑सादयति॒ युक्त्यै॑ । य॒ज्ञस्य॑ मिथुन॒त्वाय॑ । अथो॑ पुरो॒रुच॑मे॒वैतान्द॑धाति । उत्त॑रस्य॒ कर्म॒णोऽनु॑ख्यात्यै । न पु॒रस्ता॑त्प्र॒त्यगुप॑सादयेत् ॥84॥

यत्पु॒रस्ता॑त्प्र॒त्यगु॑पसा॒दये॑त् । अ॒न्यत्रा॑हुतिप॒थादि॒ध्मम्प्रति॑पादयेत् । प्र॒जा वै ब॒र्हिः । अप॑राध्नुयाद्ब॒र्हिषा॑ प्र॒जाना॑म्प्र॒जन॑नम् । प॒श्चात्प्रागुप॑सादयति । आ॒हु॒ति॒प॒थेने॒ध्मम्प्रति॑पादयति । स॒म्प्र॒त्ये॑व ब॒र्हिषा॑ प्र॒जाना॑म्प्र॒जन॑न॒मुपै॑ति । दक्षि॑णमि॒ध्मम् । उत्त॑रम्ब॒र्हिः । आ॒त्मा वा इ॒ध्मः । प्र॒जा ब॒र्हिः । प्र॒जा ह्या॑त्मन॒ उत्त॑रतरा ती॒र्थे । ततो॒ मेध॑मुप॒नीय॑ । य॒था॒दे॒व॒तमे॒वैन॒त्प्रति॑ष्ठापयति । प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ॥85॥

वृ॒श्च॒ति॒ सा॒द॒ये॒दि॒ध्मᳶ पञ्च॑ च ॥ 10 ॥

तृ॒तीय॑स्यां दे॒वस्या॑श्वप॒ऱ्शुं यो वै पू॑र्वे॒द्युᳶ कर्म॑णे वा॒मिन्द्रो॑ वृ॒त्रम॑ह॒न्त्सो॑ऽपोऽव॑धूत॒न्धृष्टि॑र्दे॒वस्येत्या॑ह॒ सव्वँ॑पामि दे॒वस्य॒ स्फ्यमा द॑दे॒ वज्रो॒ वै स्फ्यो दश॑ ॥ 10 ॥ तृ॒तीय॑स्यां य॒ज्ञस्यान॑तिरेकाय प॒वित्र॑वत्यध्व॒र्युं चा॑धि॒षव॑णमस्य॒न्तरि॑क्ष ए॒व रक्ष॑साम॒न्तऱ्हि॑त्यै॒ द्वौ वाव पुरु॑षौ॒ यद॒दश्च॒न्द्रम॑सि॒ मेध्यं॒ पञ्चाशी॑तिः ॥ 85 ॥ तृ॒तीय॑स्या॒य्यँज॑मानः ॥ हरिः॑ओम् ॥ श्रीकृष्णार्पणमस्तु । कृष्णयजुर्ब्राह्मणे तृतीयाष्टके द्वितीयप्रपाठकस्समाप्तः ॥