अ॒ग्निर्न॑ᳶ पातु॒ कृत्ति॑काः । नक्ष॑त्रन्दे॒वमि॑न्द्रि॒यम् । इ॒दमा॑साव्ँविचक्ष॒णम् । ह॒विरा॒सञ्जु॑होतन । यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा॑ । स कृत्ति॑काभिर॒भि सव्ँ॒वसा॑नः । अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु । प्र॒जाप॑ते रोहि॒णी वे॑तु॒ पत्नी॑ । वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः ॥1॥

सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु । यथा॒ जीवे॑म श॒रद॒स्सवी॑राः । रो॒हि॒णी दे॒व्युद॑गात्पु॒रस्ता॑त् । विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना । प्र॒जाप॑तिँ ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒या दे॒वाना॒मुप॑यातु य॒ज्ञम् । सोमो॒ राजा॑ मृगशी॒र्षेण॒ आग॑न् । शि॒वन्नक्ष॑त्रम्प्रि॒यम॑स्य॒ धाम॑ । आ॒प्याय॑मानो बहु॒धा जने॑षु । रेत॑ᳶ प्र॒जाय्यँज॑माने दधातु ॥2॥

यत्ते॒ न॑क्षत्रम्मृगशी॒र्षमस्ति॑ । प्रि॒यँ रा॑जन्प्रि॒यत॑मम्प्रि॒याणा॑म् । तस्मै॑ ते सोम ह॒विषा॑ विधेम । शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे । आ॒र्द्रया॑ रु॒द्रᳶ प्रथ॑मान एति । श्रेष्ठो॑ दे॒वाना॒म्पति॑रघ्नि॒याना॑म् । नक्ष॑त्रमस्य ह॒विषा॑ विधेम । मा न॑ᳶ प्र॒जाँ री॑रिष॒न्मोत वी॒रान् । हे॒ती रु॒द्रस्य॒ परि॑ णो वृणक्तु । आ॒र्द्रा नक्ष॑त्रञ्जुषताँ ह॒विर्नः॑ ॥3॥

प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा॑ । अपा॒घशँ॑सन्नुदता॒मरा॑तिम् । पुन॑र्नो दे॒व्यदि॑तिस्स्पृणोतु । पुन॑र्वसू न॒ᳶ पुन॒रेताय्ँ॑ य॒ज्ञम् । पुन॑र्नो दे॒वा अ॒भिय॑न्तु॒ सर्वे॑ । पुन॑ᳶपुनर्वो ह॒विषा॑ यजामः । ए॒वा न दे॒व्यदि॑तिरन॒र्वा । विश्व॑स्य भ॒र्त्री जग॑तᳶ प्रति॒ष्ठा । पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒यन्दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥4॥

बृह॒स्पति॑ᳶ प्रथ॒मञ्जाय॑मानः । ति॒ष्य॑न्नक्ष॑त्रम॒भिसम्ब॑भूव । श्रेष्ठो॑ दे॒वाना॒म्पृत॑नासु जि॒ष्णुः । दिशोऽनु॒ सर्वा॒ अभ॑यन्नो अस्तु । ति॒ष्य॑ᳶ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॑ । बृह॒स्पति॑र्न॒ᳶ परि॑ पातु प॒श्चात् । बाधे॑ता॒न्द्वेषो॒ अभ॑यङ्कृणुताम् । सु॒वीर्य॑स्य॒ पत॑यस्स्याम । इ॒दँ स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्ट॑म् । आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ ॥5॥

ये अ॒न्तरि॑क्षम्पृथि॒वीङ्क्षि॒यन्ति॑ । ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः । ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः । ये दिव॑न्दे॒वीमनु॑ स॒ञ्चर॑न्ति । येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ काम॑म् । तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि । उप॑हूताᳶ पि॒तरो॒ ये म॒घासु॑ । मनो॑जवसस्सु॒कृत॑स्सुकृ॒त्याः । ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मिष्ठाः । स्व॒धाभि॑र्य॒ज्ञम्प्रय॑तञ्जुषन्ताम् ॥6॥

ये अ॑ग्निद॒ग्धा येऽन॑ग्निदग्धाः । ये॑ऽमुल्लोँ॒कम्पि॒तर॑ᳶ क्षि॒यन्ति॑ । याँश्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म । म॒घासु॑ य॒ज्ञँ सुकृ॑तञ्जुषन्ताम् । गवा॒म्पति॒ᳶ फल्गु॑नीनामसि॒ त्वम् । तद॑र्यमन्वरुण मित्र॒ चारु॑ । तन्त्वा॑ व॒यँ स॑नि॒तारँ॑ सनी॒नाम् । जी॒वा जीव॑न्त॒मुप॒सव्विँ॑शेम । येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता । यस्य॑ दे॒वा अ॑नुसय्ँ॒यन्ति॒ चेतः॑ ॥7॥

अ॒र्य॒मा राजा॒ऽजर॒स्तुवि॑ष्मान् । फल्गु॑नीनामृष॒भो रो॑रवीति । श्रेष्ठो॑ दे॒वाना॑म्भगवो भगासि । तत्त्वा॑ विदु॒ᳶ फल्गु॑नी॒स्तस्य॑ वित्तात् । अ॒स्मभ्य॑ङ्क्ष॒त्रम॒जरँ॑ सु॒वीर्य॑म् । गोम॒दश्व॑व॒दुप॒सन्नु॑दे॒ह । भगो॑ ह दा॒ता भग॒ इत्प्र॑दा॒ता । भगो॑ दे॒वीᳶ फल्गु॑नी॒रावि॑वेश । भग॒स्येत्तम्प्र॑स॒वङ्ग॑मेम । यत्र॑ दे॒वैस्स॑ध॒माद॑म्मदेम ॥8॥

आया॑तु दे॒वस्स॑वि॒तोप॑यातु । हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न । वह॒न् हस्तँ॑ सु॒भगव्ँ॑विद्म॒नाप॑सम् । प्र॒यच्छ॑न्त॒म्पपु॑रि॒म्पुण्य॒मच्छ॑ । हस्त॒ᳶ प्रय॑च्छत्व॒मृतव्ँ॒वसी॑यः । दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत् । दा॒तार॑म॒द्य स॑वि॒ता वि॑देय । यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् । त्वष्टा॒ नक्ष॑त्रम॒भ्ये॑ति चि॒त्राम् । सु॒भँस॑सय्युँव॒तिँ रोच॑मानाम् ॥9॥

नि॒वे॒शय॑न्न॒मृता॒न्मर्त्याँ॑श्च । रू॒पाणि॑ पिँ॒शन्भुव॑नानि॒ विश्वा॑ । तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् । तन्नक्ष॑त्रम्भूरि॒दा अ॑स्तु॒ मह्य॑म् । तन्न॑ᳶ प्र॒जाव्वीँ॒रव॑तीँ सनोतु । गोभि॑र्नो॒ अश्वै॒स्सम॑नक्तु य॒ज्ञम् । वा॒युर्नक्ष॑त्त्रम॒भ्ये॑ति॒ निष्ट्या॑म् । ति॒ग्मशृ॑ङ्गो वृष॒भो रोरु॑वाणः । स॒मी॒रय॒न्भुव॑ना मात॒रिश्वा॑ । अप॒ द्वेषाँ॑सि नुदता॒मरा॑तीः ॥10॥

तन्नो॑ वा॒युस्तदु॒ निष्ट्या॑ शृणोतु । तन्नक्ष॑त्रम्भूरि॒दा अ॑स्तु॒ मह्य॑म् । तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम॑म् । यथा॒ तरे॑म दुरि॒तानि॒ विश्वा॑ । दू॒रम॒स्मच्छत्र॑वो यन्तु भी॒ताः । तदि॑न्द्रा॒ग्नी कृ॑णुता॒न्तद्विशा॑खे । तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञम् । प॒श्चात्पु॒रस्ता॒दभ॑यन्नो अस्तु । नक्ष॑त्राणा॒मधि॑पत्नी॒ विशा॑खे । श्रेष्ठा॑विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ ॥11॥

विषू॑च॒श्शत्रू॑नप॒ बाध॑मानौ । अप॒ क्षुध॑न्नुदता॒मरा॑तिम् । पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॑त् । उन्म॑ध्य॒तᳶ पौ॑र्णमा॒सी जि॑गाय । तस्या॑न्दे॒वा अधि॑ सव्ँ॒वस॑न्तः । उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् । पृ॒थ्वी सु॒वर्चा॑ युव॒तिस्स॒जोषाः॑ । पौ॒र्ण॒मा॒स्युद॑गा॒च्छोभ॑माना । आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा॑ । उ॒रुन्दुहाय्ँ॒यज॑मानाय य॒ज्ञम् ॥12॥

चि॒त्रभा॑नु॒र्यज॑माने दधातु ह॒विर्न॒ᳶ पाथ॒श्चेतो॑ जुषन्ता॒ञ्चेतो॑ मदेम॒ रोच॑माना॒मरा॑तीर्गो॒पौ य॒ज्ञम् ॥ 1 ॥

ऋ॒द्ध्यास्म॑ ह॒व्यैर्नम॑सोप॒सद्य॑ । मि॒त्रन्दे॒वम्मि॑त्र॒धेय॑न्नो अस्तु । अ॒नू॒रा॒धान् ह॒विषा॑ व॒र्धय॑न्तः । श॒तञ्जी॑वेम श॒रद॒स्सवी॑राः । चि॒त्रन्नक्ष॑त्र॒मुद॑गात्पु॒रस्ता॑त् । अ॒नू॒रा॒धास॒ इति॒ यद्वद॑न्ति । तन्मि॒त्र ए॑ति प॒थिभि॑र्देव॒यानैः॑ । हि॒र॒ण्ययै॒र्वित॑तैर॒न्तरि॑क्षे । इन्द्रो॑ ज्ये॒ष्ठामनु॒ नक्ष॑त्रमेति । यस्मि॑न्वृ॒त्रव्वृँ॑त्र॒तूर्ये॑ त॒तार॑ ॥13॥

तस्मि॑न्व॒यम॒मृत॒न्दुहा॑नाः । क्षुध॑न्तरेम॒ दुरि॑ति॒न्दुरि॑ष्टिम् । पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे॑ । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे॑ । इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना । उ॒रुङ्कृ॑णोतु॒ यज॑मानाय लो॒कम् । मूल॑म्प्र॒जाव्वीँ॒रव॑तीव्विँदेय । परा॑च्येतु॒ निर्ऋ॑तिᳶ परा॒चा । गोभि॒र्नक्ष॑त्रम्प॒शुभि॒स्सम॑क्तम् । अह॑र्भूया॒द्यज॑मानाय॒ मह्य॑म् ॥14॥

अह॑र्नो अ॒द्य सु॑वि॒ते द॑धातु । मूल॒न्नक्ष॑त्र॒मिति॒ यद्वद॑न्ति । परा॑चीव्वाँ॒चा निर्ऋ॑तिन्नुदामि । शि॒वम्प्र॒जायै॑ शि॒वम॑स्तु॒ मह्य॑म् । या दि॒व्या आप॒ᳶ पय॑सा सम्बभू॒वुः । या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः । यासा॑मषा॒ढा अ॑नु॒यन्ति॒ काम॑म् । ता न॒ आप॒श्श स्यो॒ना भ॑वन्तु । याश्च॒ कूप्या॒ याश्च॑ ना॒द्या॑स्समु॒द्रियाः॑ । याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः ॥15॥

यासा॑मषा॒ढा मधु॑ भ॒क्षय॑न्ति॒ । ता न॒ आप॒श्श स्यो॒ना भ॑वन्तु । तन्नो॒ विश्वे॒ उप॑शृण्वन्तु दे॒वाः । तद॑षा॒ढा अ॒भिसय्यँ॑न्तु य॒ज्ञम् । तन्नक्ष॑त्त्रम्प्रथताम्प॒शुभ्यः॑ । कृ॒षिर्वृ॒ष्टिर्यज॑मानाय कल्पताम् । शु॒भ्राᳶ क॒न्या॑ युव॒तय॑स्सु॒पेश॑सः । क॒र्म॒कृत॑स्सु॒कृतो॑ वी॒र्या॑वतीः । विश्वा॑न्दे॒वान् ह॒विषा॑ व॒र्धय॑न्तीः । अ॒षा॒ढाᳶ काम॒मुप॑ यान्तु य॒ज्ञम् ॥16॥

यस्मि॒न्ब्रह्मा॒ऽभ्यज॑य॒त्सर्व॑मे॒तत् । अ॒मुञ्च॑ लो॒कमि॒दमू॑ च॒ सर्व॑म् । तन्नो॒ नक्ष॑त्रमभि॒जिद्वि॒जित्य॑ । श्रिय॑न्दधा॒त्वहृ॑णीयमानम् । उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ । तन्नो॒ नक्ष॑त्रमभि॒जिद्विच॑ष्टाम् । तस्मि॑न्व॒यम्पृत॑ना॒स्सञ्ज॑येम । तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम॑म् । शृ॒ण्वन्ति॑ श्रो॒णाम॒मृत॑स्य गो॒पाम् । पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच॑म् ॥17 ॥

म॒हीन्दे॒वीव्विँष्णु॑पत्नीमजू॒र्याम् । प्र॒तीची॑मेनाँ ह॒विषा॑ यजामः । त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे । म॒हीन्दिव॑म्पृथि॒वीम॒न्तरि॑क्षम् । तच्छ्रो॒णैति॒ श्रव॑ इ॒च्छमा॑ना । पुण्य॒॒ श्लोकय्ँ॒यज॑मानाय कृण्व॒ती । अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑ । चत॑स्रो दे॒वीर॒जरा॒श्श्रवि॑ष्ठाः । ते य॒ज्ञम्पा॑न्तु॒ रज॑सᳶ प॒रस्ता॑त् । सव्ँ॒व॒त्स॒रीण॑म॒मृत॑ स्व॒स्ति ॥18॥

य॒ज्ञन्न॑ᳶ पान्तु॒ वस॑वᳶ पु॒रस्ता॑त् । द॒क्षि॒ण॒तो॑ऽभिय॑न्तु॒ श्रवि॑ष्ठाः । पुण्य॒न्नक्ष॑त्रम॒भिसव्विँ॑शाम । मा नो॒ अरा॑तिर॒घशँ॒साऽग॑न् । क्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः । नक्ष॑त्राणाँ श॒तभि॑ष॒ग्वसि॑ष्ठः । तौ दे॒वेभ्य॑ᳶ कृणुतो दी॒र्घमायुः॑ । श॒तँ स॒हस्रा॑ भेष॒जानि॑ धत्तः । य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु । तन्नो॒ विश्वे॑ अ॒भिसय्यँ॑न्तु दे॒वाः ॥19॥

तन्नो॒ नक्ष॑त्रँ श॒तभि॑षग्जुषा॒णम् । दी॒र्घमायु॒ᳶ प्रति॑रद्भेष॒जानि॑ । अ॒ज एक॑पा॒दुद॑गात्पु॒रस्ता॑त् । विश्वा॑ भू॒तानि॑ प्रति॒मोद॑मानः । तस्य॑ दे॒वाᳶ प्र॑स॒वय्यँ॑न्ति॒ सर्वे॑ । प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः । वि॒भ्राज॑मानस्समिधा॒न उ॒ग्रः । आऽन्तरि॑क्षमरुह॒दग॒न्द्याम् । तँ सूर्य॑न्दे॒वम॒जमेक॑पादम् । प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे॑ ॥20॥

अहि॑र्बु॒ध्निय॒ᳶ प्रथ॑मान एति । श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम् । तम्ब्रा॑ह्म॒णास्सो॑म॒पास्सो॒म्यासः॑ । प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑क्षन्ति॒ सर्वे॑ । च॒त्वार॒ एक॑म॒भिकर्म॑ दे॒वाः । प्रो॒ष्ठ॒प॒दास॒ इति॒ यान् वद॑न्ति । ते बु॒ध्निय॑म्परि॒षद्य॑ स्तु॒वन्तः॑ । अहिँ॑ रक्षन्ति॒ नम॑सोप॒सद्य॑ । पू॒षा रे॒वत्यन्वे॑ति॒ पन्था॑म् । पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ ॥21॥

इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा । सु॒गैर्नो॒ यानै॒रुप॑याताय्यँ॒ज्ञम् । क्षु॒द्रान्प॒शून्र॑क्षतु रे॒वती॑ नः । गावो॑ नो॒ अश्वाँ॒ अन्वे॑तु पू॒षा । अन्नँ॒ रक्ष॑न्तौ बहु॒धा विरू॑पम् । वाजँ॑ सनुताय्ँ॒यज॑मानाय य॒ज्ञम् । तद॒श्विना॑वश्व॒युजोप॑याताम् । शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः॑ । स्वन्नक्ष॑त्रँ ह॒विषा॒ यज॑न्तौ । मध्वा॒ सम्पृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ ॥22॥

यौ दे॒वाना॑म्भि॒षजौ॑ हव्यवा॒हौ । विश्व॑स्य दू॒ताव॒मृत॑स्य गो॒पौ । तौ नक्ष॑त्रञ्जुजुषा॒णोप॑याताम् । नमो॒ऽश्विभ्या॑ङ्कृणुमोऽश्व॒युग्भ्या॑म् । अप॑ पा॒प्मान॒म्भर॑णीर्भरन्तु । तद्य॒मो राजा॒ भग॑वा॒न्विच॑ष्टाम् । लो॒कस्य॒ राजा॑ मह॒तो म॒हान् हि । सु॒गन्नᳶ पन्था॒मभ॑यङ्कृणोतु । यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा॑ । यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः । तद॑स्य चि॒त्रँ ह॒विषा॑ यजाम । अप॑ पा॒प्मान॒म्भर॑णीर्भरन्तु । नि॒वेश॑नी॒ यत्ते॑ दे॒वा अद॑धुः ॥23॥

त॒तार॒ मह्यं॑ प्रास॒चीर्या या॑न्तु य॒ज्ञव्वाँच॑ स्व॒स्ति दे॒वा अनु॑यन्ति॒ सर्वे॒ वाज॑बस्त्यौ॒ सम॑क्तौ दे॒वास्त्रीणि॑ च ॥ 2 ॥

नवो॑नवो भवति॒ जाय॑मानो॒ यमा॑दि॒त्या अँ॒शुमा॑प्या॒यय॑न्ति । ये विरू॑पे॒ सम॑नसा स॒व्व्यँय॑न्ती । स॒मा॒नन्तन्तु॑म्परितात॒ना ते॑ । वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे । ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मेतम् । व॒यन्दे॒वी ब्रह्म॑णा सव्विँदा॒नाः । सु॒रत्ना॑सो दे॒ववी॑ति॒न्दधा॑नाः । अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्धय॑न्तः । अति॑ पा॒प्मान॒मति॑ मुक्त्या गमेम । प्रत्यु॑वदृश्याय॒ती ॥24॥

व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः । अ॒पो म॒ही वृ॑णुते॒ चक्षु॑षा । तमो॒ ज्योति॑ष्कृणोति सू॒नरी॑ । उदु॒स्रिया॑स्सचते॒ सूर्यः॑ । सचा॑ उ॒द्यन्नक्ष॑त्रमर्चि॒मत् । तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च । सम्भ॒क्तेन॑ गमेमहि । तन्नो॒ नक्ष॑त्रमर्चि॒मत् । भा॒नु॒मत्तेज॑ उ॒च्चर॑त् । उप॑य॒ज्ञमि॒हाग॑मत् ॥25॥

प्र नक्ष॑त्राय दे॒वाय॑ । इन्द्रा॒येन्दुँ॑ हवामहे । सन॑स्सवि॒ता सु॑वत्स॒निम् । पु॒ष्टि॒दाव्वीँ॒रव॑त्तमम् । उदु॒त्यञ्चि॒त्रम् । अदि॑तिर्न उरुष्यतु म॒हीमू॒ षु मा॒तर॑म् । इ॒दव्विँष्णु॒ᳶ प्रतद्विष्णुः॑ । अ॒ग्निर्मू॒र्धा भुवः॑ । अनु॑ नो॒ऽद्यानु॑मति॒रन्विद॑नुमते॒ त्वम् । ह॒व्य॒वाह॒॒ स्वि॑ष्टम् ॥26॥

आ॒य॒त्य॑गम॒त्स्वि॑ष्टम् ॥ 3 ॥

अ॒ग्निर्वा अ॑कामयत । अ॒न्ना॒दो दे॒वानाँ॑ स्या॒मिति॑ । स ए॒तम॒ग्नये॒ कृत्ति॑काभ्यᳶ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपत् । ततो॒ वै सो॑ऽन्ना॒दो दे॒वाना॑मभवत् । अ॒ग्निर्वै दे॒वाना॑मन्ना॒दः । यथा॑ ह॒ वा अ॒ग्निर्दे॒वाना॑मन्ना॒दः । ए॒वँ ह॒ वा ए॒ष म॑नु॒ष्या॑णाम्भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ कृत्ति॑काभ्य॒स्स्वाहा॑ । अ॒म्बायै॒ स्वाहा॑ दु॒लायै॒ स्वाहा॑ । नि॒त॒त्न्यै स्वाहा॒ऽभ्रय॑न्त्यै॒ स्वाहा॑ । मे॒घय॑न्त्यै॒ स्वाहा॑ व॒र्षय॑न्त्यै॒ स्वाहा॑ । चु॒पु॒णीका॑यै॒ स्वाहेति॑ ॥27॥

प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत । ता अ॑स्मात्सृ॒ष्टाᳶ परा॑चीरायन् । तासाँ॑ रोहि॒णीम॒भ्य॑ध्यायत् । सो॑ऽकामयत । उप॒ मा व॑र्तेत । समे॑नया गच्छे॒येति॑ । स ए॒तम्प्र॒जाप॑तये रोहि॒ण्यै च॒रुन्निर॑वपत् । ततो॒ वै सा तमु॒पाव॑र्तत । समे॑नयाऽगच्छत । उप॑ ह॒ वा ए॑नम्प्रि॒यमाव॑र्तते । सम्प्रि॒येण॑ गच्छते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा॑ । रोच॑मानायै॒ स्वाहा॑ प्र॒जाभ्य॒स्स्वाहेति॑ ॥28॥

सोमो॒ वा अ॑कामयत । ओष॑धीनाँ रा॒ज्यम॒भिज॑येय॒मिति॑ । स ए॒तँ सोमा॑य मृगशी॒र्षाय॑ श्यामा॒कञ्च॒रुम्पय॑सि॒ निर॑वपत् । ततो॒ वै स ओष॑धीनाँ रा॒ज्यम॒भ्य॑जयत् । स॒मा॒नानाँ॑ ह॒ वै रा॒ज्यम॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । सोमा॑य॒ स्वाहा॑ मृगशी॒र्षाय॒ स्वाहा॑ । इ॒न्व॒काभ्य॒स्स्वाहौष॑धीभ्य॒स्स्वाहा॑ । रा॒ज्याय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥29॥

रु॒द्रो वा अ॑कामयत । प॒शु॒मान्त्स्या॒मिति॑ । स ए॒तँ रु॒द्राया॒र्द्रायै॒ प्रैय्य॑ङ्गवञ्च॒रुम्पय॑सि॒ निर॑वपत् । ततो॒ वै स प॑शु॒मान॑भवत् । प॒शु॒मान् ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । रु॒द्राय॒ स्वाहा॒ऽर्द्रायै॒ स्वाहा॑ । पिन्व॑मानायै॒ स्वाहा॑ प॒शुभ्य॒स्स्वाहेति॑ ॥30॥

ऋ॒क्षा वा इ॒यम॑लो॒मका॑ऽऽसीत् । साऽका॑मयत । ओष॑धीभि॒र्वन॒स्पति॑भि॒ᳶ प्रजा॑ये॒येति॑ । सैतमदि॑त्यै॒ पुन॑र्वसुभ्याञ्च॒रुन्निर॑वपत् । ततो॒ वा इ॒यमोष॑धीभि॒र्वन॒स्पति॑भि॒ᳶ प्राजा॑यत । प्रजा॑यते ह॒ वै प्र॒जया॑ प॒शुभिः॑ । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्याम् । स्वाहा भू॑त्यै॒ स्वाहा॒ प्रजा॑त्यै॒ स्वाहेति॑ ॥31॥

बृह॒स्पति॒र्वा अ॑कामयत । ब्र॒ह्म॒व॒र्च॒सी स्या॒मिति॑ । स ए॒तम्बृह॒स्पत॑ये ति॒ष्या॑य नैवा॒रञ्च॒रुम्पय॑सि॒ निर॑वपत् । ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भवत् । ब्र॒ह्म॒व॒र्च॒सी ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा॑ । ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहेति॑ ॥32॥

दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन् । ते दे॒वास्स॒र्पेभ्य॑ आश्रे॒षाभ्य॒ आज्ये॑ कर॒म्भन्निर॑वपन् । ताने॒ताभि॑रे॒व दे॒वता॑भि॒रुपा॑नयन् । ए॒ताभि॑र्ह॒ वै दे॒वता॑भिर्द्वि॒षन्त॒म्भ्रातृ॑व्य॒मुप॑नयति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । स॒र्पेभ्य॒स्स्वाहा॑ऽऽश्रे॒षाभ्य॒स्स्वाहा॑ । द॒न्द॒शूके॑भ्य॒स्स्वाहेति॑ ॥33॥

पि॒तरो॒ वा अ॑कामयन्त । पि॒तृ॒लो॒क ऋ॑ध्नुया॒मेति॑ । त ए॒तम्पि॒तृभ्यो॑ म॒घाभ्य॑ᳶ पुरो॒डाशँ॒ षट्क॑पाल॒न्निर॑वपन् । ततो॒ वै ते पि॑तृलो॒क आ॑र्ध्नुवन् । पि॒तृ॒लो॒के ह॒ वा ऋ॑ध्नोति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । पि॒तृभ्य॒स्स्वाहा॑ म॒घाभ्यः॑ । स्वाहा॑ऽन॒घाभ्य॒स्स्वाहा॑ग॒दाभ्यः॑ । स्वाहा॑ऽरुन्ध॒तीभ्य॒स्स्वाहेति॑ ॥34॥

अ॒र्य॒मा वा अ॑कामयत । प॒शु॒मान्त्स्या॒मिति॑ । स ए॒तम॑र्य॒म्णे फल्गु॑नीभ्याञ्च॒रुन्निर॑वपत् । ततो॒ वै स प॑शु॒मान॑भवत् । प॒शुमान् ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्याँ॒ स्वाहा॑ । प॒शुभ्य॒स्स्वाहेति॑ ॥35॥

भगो॒ वा अ॑कामयत । भ॒गी श्रे॒ष्ठी दे॒वानाँ॑ स्या॒मिति॑ । स ए॒तम्भगा॑य॒ फल्गु॑नीभ्याञ्च॒रुन्निर॑वपत् । ततो॒ वै स भ॒गी श्रे॒ष्ठी दे॒वाना॑मभवत् । भ॒गी ह॒ वै श्रे॒ष्ठी स॑मा॒नाना॑म्भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्याँ॒ स्वाहा॑ । श्रैष्ठ्या॑य॒ स्वाहेति॑ ॥36॥

स॒वि॒ता वा अ॑कामयत । श्रन्मे॑ दे॒वा दधी॑रन् । स॒वि॒ता स्या॒मिति॑ । स ए॒तँ स॑वि॒त्रे हस्ता॑य पुरो॒डाश॒न्द्वाद॑शकपाल॒न्निर॑वपदाशू॒नाव्व्रीँ॑ही॒णाम् । ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑धत । स॒वि॒ताऽभ॑वत् । श्रद्ध॒वा अ॑स्मै मनु॒ष्या॑ दधते । स॒वि॒ता स॑मा॒नाना॑म्भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । स॒वि॒त्रे स्वाहा॒ हस्ता॑य । स्वाहा॑ दद॒ते स्वाहा॑ पृण॒ते । स्वाहा॑ प्र॒यच्छ॑ते॒ स्वाहा॑ प्रतिगृभ्ण॒ते स्वाहेति॑ ॥37 ॥

त्वष्टा॒ वा अ॑कामयत । चि॒त्रम्प्र॒जाव्विँ॑न्दे॒येति॑ । स ए॒तन्त्वष्ट्रे॑ चि॒त्रायै॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपत् । ततो॒ वै स चि॒त्रम्प्र॒जाम॑विन्दत । चि॒त्रँ ह॒ वै प्र॒जाव्विँ॑न्दते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा॑ । चैत्रा॑य॒ स्वाहा॑ प्र॒जायै॒ स्वाहेति॑ ॥38॥

वा॒युर्वा अ॑कामयत । का॒म॒चार॑मे॒षु लो॒केष्व॒भिज॑येय॒मिति॑ । स ए॒तद्वा॒यवे॒ निष्ट्या॑यै गृ॒ष्ट्यै दु॒ग्धम्पयो॒ निर॑वपत् । ततो॒ वै स का॑म॒चार॑मे॒षु लो॒केष्व॒भ्य॑जयत् । का॒म॒चारँ॑ ह॒ वा ए॒षु लो॒केष्व॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा॑ । का॒म॒चारा॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥39॥

इ॒न्द्रा॒ग्नी वा अ॑कामयेताम् । श्रैष्ठ्य॑न्दे॒वाना॑म॒भिज॑ये॒वेति॑ । तावे॒तमि॑न्द्रा॒ग्निभ्याव्ँ॒विशा॑खाभ्याम्पुरो॒डाश॒मेका॑दशकपाल॒न्निर॑वपताम् । ततो॒ वै तौ श्रैष्ठ्य॑न्दे॒वाना॑म॒भ्य॑जयताम् । श्रैष्ठ्यँ॑ ह॒ वै स॑मा॒नाना॑म॒भि ज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । इ॒न्द्रा॒ग्निभ्याँ॒ स्वाहा॒ विशा॑खाभ्याँ॒ स्वाहा॑ । श्रैष्ठ्या॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥40॥

अथै॒तत्पौ॑र्णमा॒स्या आज्य॒न्निर्व॑पति । कामो॒ वै पौ॑र्णमा॒सी । काम॒ आज्य॑म् । कामे॑नै॒व कामँ॒ सम॑र्धयति । क्षि॒प्रमे॑नँ॒ सकाम॒ उप॑नमति । येन॒ कामे॑न॒ यज॑ते । सोऽत्र॑ जुहोति । पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहेति॑ ॥41॥

अ॒ग्निः पञ्च॑दश प्र॒जाप॑ति॒ष्षोड॑श॒ सोम॒ एका॑दश रु॒द्रो दश॒र्क्षैका॑दश॒ बृह॒स्पति॒र्दश॑ देवासु॒रा नव॑ पि॒तर॒ एका॑दशार्य॒मा भगो॒ दश॑ दश सवि॒ता चतु॑र्दश॒ त्वष्टा॑ वा॒युरि॑न्द्रा॒ग्नी दश॑ द॒शाथै॒तत्पौ॑र्णमा॒स्या अ॒ष्टौ पञ्च॑दश ॥ 4 ॥

मि॒त्रो वा अ॑कामयत । मि॒त्र॒धेय॑मे॒षु लो॒केष्व॒भिज॑येय॒मिति॑ । स ए॒तम्मि॒त्राया॑नूरा॒धेभ्य॑श्च॒रुन्निर॑वपत् । ततो॒ वै स मि॑त्र॒धेय॑मे॒षु लो॒केष्व॒भ्य॑जयत् । मि॒त्र॒धेयँ॑ ह॒ वा ए॒षु लो॒केष्व॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । मि॒त्राय॒ स्वाहा॑ऽनूरा॒धेभ्य॒स्स्वाहा॑ । मि॒त्र॒धेया॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥42॥

इन्द्रो॒ वा अ॑कामयत । ज्यैष्ठ्य॑न्दे॒वाना॑म॒भिज॑येय॒मिति॑ । स ए॒तमिन्द्रा॑य ज्ये॒ष्ठायै॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर॑वपन्म॒हाव्री॑हीणाम् । ततो॒ वै स ज्यैष्ठ्य॑न्दे॒वाना॑म॒भ्य॑जयत् । ज्यैष्ठ्यँ॑ ह॒ वै स॑मा॒नाना॑म॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । इन्द्रा॑य॒ स्वाहा॑ ज्ये॒ष्ठायै॒ स्वाहा॑ । ज्यैष्ठ्या॑य॒ स्वाहा॒भिजि॑त्यै॒ स्वाहेति॑ ॥43॥

प्र॒जाप॑ति॒र्वा अ॑कामयत । मूल॑म्प्र॒जाव्ँवि॑न्दे॒येति॑ । स ए॒तम्प्र॒जाप॑तये॒ मूला॑य च॒रुन्निर॑वपत् । ततो॒ वै स मूल॑म्प्र॒जाम॑विन्दत । मूलँ॑ ह॒ वै प्र॒जाव्विँ॑न्दते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा॑ । प्र॒जायै॒ स्वाहेति॑ ॥44॥

आपो॒ वा अ॑कामयन्त । स॒मु॒द्रङ्काम॑म॒भिज॑ये॒मेति॑ । ता ए॒तम॒द्भ्यो॑ऽषा॒ढाभ्य॑श्च॒रुन्निर॑वपन् । ततो॒ वै तास्स॑मु॒द्रङ्काम॑म॒भ्य॑जयन् । स॒मु॒द्रँ ह॒ वै काम॑म॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒द्भ्यस्स्वाहा॑ऽषा॒ढाभ्य॒स्स्वाहा॑ । स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा॑ । अ॒भिजि॑त्यै॒ स्वाहेति॑ ॥45॥

विश्वे॒ वै दे॒वा अ॑कामयन्त । अ॒न॒प॒ज॒य्यञ्ज॑ये॒मेति॑ । त ए॒तव्विँश्वे॑भ्यो दे॒वेभ्यो॑ऽषा॒ढाभ्य॑श्च॒रुन्निर॑वपन् । ततो॒ वै ते॑ऽनपज॒य्यम॑जयन् । अ॒न॒प॒ज॒य्यँ ह॒ वै ज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । विश्वे॑भ्यो दे॒वेभ्य॒स्स्वाहा॑ऽषा॒ढाभ्य॒स्स्वाहा॑ । अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहेति॑ ॥46॥

ब्रह्म॒ वा अ॑कामयत । ब्र॒ह्म॒लो॒कम॒भिज॑येय॒मिति॑ । तदे॒तम्ब्रह्म॑णेऽभि॒जिते॑ च॒रुन्निर॑वपत् । ततो॒ वै तद्ब्र॑ह्मलो॒कम॒भ्य॑जयत् । ब्र॒ह्म॒लो॒कँ ह॒ वा अ॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । ब्रह्म॑णे॒ स्वाहा॑ऽभि॒जिते॒ स्वाहा॑ । ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥47॥

विष्णु॒र्वा अ॑कामयत । पुण्य॒ श्लोकँ॑ शृण्वीय । न मा॑ पा॒पी की॒र्तिराग॑च्छे॒दिति॑ । स ए॒तव्विँष्ण॑वे श्रो॒णायै॑ पुरो॒डाश॑न्त्रिकपा॒लन्निर॑वपत् । ततो॒ वै स पुण्य॒॒ श्लोक॑मशृणुत । नैन॑म्पा॒पी की॒र्तिराग॑च्छत् । पुण्यँ॑ ह॒ वै श्लोकँ॑ शृणुते । नैन॑म्पा॒पी की॒र्तिराग॑च्छति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । विष्ण॑वे॒ स्वाहा॑ श्रो॒णायै॒ स्वाहा॑ । श्लोका॑य॒ स्वाहा॑ श्रु॒ताय॒ स्वाहेति॑ ॥48॥

वस॑वो॒ वा अ॑कामयन्त । अग्र॑न्दे॒वता॑ना॒म्परी॑या॒मेति॑ । त ए॒तव्ँवसु॑भ्य॒श्श्रवि॑ष्ठाभ्यᳶ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपन् । ततो॒ वै तेऽग्र॑न्दे॒वता॑ना॒म्पर्या॑यन् । अग्रँ॑ ह॒ वै स॑मा॒नाना॒म्पर्ये॑ति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । वसु॑भ्य॒स्स्वाहा॒ श्रवि॑ष्ठाभ्य॒स्स्वाहा॑ । अग्रा॑य॒ स्वाहा॒ परी॑त्यै॒ स्वाहेति॑ ॥49॥

इन्द्रो॒ वा अ॑कामयत । दृ॒ढोऽशि॑थिलस्स्या॒मिति॑ । स ए॒तव्ँवरु॑णाय श॒तभि॑षजे भेष॒जेभ्य॑ᳶ पुरो॒डाश॒न्दश॑कपाल॒न्निर॑वपत्कृ॒ष्णानाव्ँ॑व्रीही॒णाम् । ततो॒ वै स दृ॒ढोऽशि॑थिलोऽभवत् । दृ॒ढो ह॒ वा अशि॑थिलो भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । वरु॑णाय॒ स्वाहा॑ श॒तभि॑षजे॒ स्वाहा॑ । भे॒ष॒जेभ्य॒स्स्वाहेति॑ ॥50॥

अ॒जो वा एक॑पादकामयत । ते॒ज॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑ । स ए॒तम॒जायैक॑पदे प्रोष्ठप॒देभ्य॑श्च॒रुन्निर॑वपत् । ततो॒ वै स ते॑ज॒स्वी ब्र॑ह्मवर्च॒स्य॑भवत् । ते॒ज॒स्वी ह॒ वै ब्र॑ह्मवर्च॒सी भ॑वति । य ए॒तेन॑ ह॒विषा॒ यजते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒जायैक॑पदे॒ स्वाहा॑ प्रोष्ठप॒देभ्य॒स्स्वाहा॑ । तेज॑से॒ स्वाहा॑ ब्रह्मवर्च॒साय॒ स्वाहेति॑ ॥51॥

अहि॒र्वै बु॒ध्नियो॑ऽकामयत । इ॒माम्प्र॑ति॒ष्ठाव्विँ॑न्दे॒येति॑ । स ए॒तमह॑ये बु॒ध्निया॑य प्रोष्ठप॒देभ्य॑ᳶ पुरो॒डाश॒म्भूमि॑कपाल॒न्निर॑वत् । ततो॒ वै स इ॒माम्प्र॑ति॒ष्ठाम॑विन्दत । इ॒माँ ह॒ वै प्र॑ति॒ष्ठाव्विँ॑न्दते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अह॑ये बु॒ध्निया॑य॒ स्वाहा॑ प्रोष्ठप॒देभ्य॒स्स्वाहा॑ । प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ॥52॥

पू॒षा वा अ॑कामयत । प॒शु॒मान्त्स्या॒मिति॑ । स ए॒तम्पू॒ष्णे रे॒वत्यै॑ च॒रुन्निर॑वपत् । ततो॒ वै स प॑शु॒मान॑भवत् । प॒शु॒मान् ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ स्वाहा॑ । प॒शुभ्य॒स्स्वाहेति॑ ॥53॥

अ॒श्विनौ॒ वा अ॑कामयेताम् । श्रो॒त्र॒स्विना॒वब॑धिरौ स्या॒वेति॑ । तावे॒तम॒श्विभ्या॑मश्व॒युग्भ्या॑म्पुरो॒डाश॑न्द्विकपा॒लन्निर॑वपताम् । ततो॒ वै तौ श्रो॑त्र॒स्विना॒वब॑धिरावभवताम् । श्रो॒त्र॒स्वी ह॒ वा अब॑धिरो भवति । य एते॒न॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अ॒श्विभ्याँ॒ स्वाहा॑ऽश्व॒युग्भ्याँ॒ स्वाहा॑ । श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहेति॑ ॥54॥

य॒मो वा अ॑कामयत । पि॒तृ॒णाँ रा॒ज्यम॒भिज॑येय॒मिति॑ । स ए॒तय्यँ॒माया॑प॒भर॑णीभ्यश्च॒रुन्निर॑पवत् । ततो॒ वै स पि॑तृ॒णाँ रा॒ज्यम॒भ्य॑जयत् । स॒मा॒नानाँ॑ ह॒ वै रा॒ज्यम॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । य॒माय॒ स्वाहा॑ऽप॒भर॑णीभ्य॒स्स्वाहा॑ । रा॒ज्याय॒ स्वाहा॒भिजि॑त्यै॒ स्वाहेति॑ ॥55॥

अथै॒तद॑मावा॒स्या॑या॒ आज्य॒न्निर्व॑पति । कामो॒ वा अ॑मावा॒स्या॑ । काम॒ आज्य॑म् । कामे॑नै॒व कामँ॒ सम॑र्धयति । क्षि॒प्रमे॑नँ॒ सकाम॒ उप॑नमति । येन॒ कामे॑न॒ यज॑ते । सोऽत्र॑ जुहोति । अ॒मा॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहेति॑ ॥56॥

मि॒त्र इन्द्र॑ᳶ प्र॒जाप॑ति॒र्दश॑ द॒शाप॒ एका॑दश॒ विश्वे॒ ब्रह्म॒ दश॑दश॒ विष्णु॒स्त्रयो॑दश॒ वस॑व॒ इन्द्रो॒ऽजोऽहि॒र्वै बु॒ध्निय॑ᳶ पू॒षाऽश्विनौ॑ य॒मो दश॑ द॒शाथै॒तद॑मावा॒स्या॑या अ॒ष्टौ पञ्च॑दश ॥ 5 ॥

च॒न्द्रमा॒ वा अ॑कामयत । अ॒होरा॒त्रान॑र्धमा॒सान्मासा॑नृ॒तून्त्सव्ँ॑वत्स॒रमा॒प्त्वा । च॒न्द्रम॑स॒स्सायु॑ज्यँ सलो॒कता॑माप्नुया॒मिति॑ । स ए॒तञ्च॒न्द्रम॑से प्रती॒दृश्या॑यै पुरो॒डाश॒म्पञ्च॑दशकपाल॒न्निर॑वपत् । ततो॒ वै सो॑ऽहोरा॒त्रान॑र्धमा॒सान्मासा॑नृ॒तून्त्सव्ँ॑वत्स॒रमा॒प्त्वा । च॒न्द्रम॑स॒स्सायु॑ज्यँ सलो॒कता॑माप्नोत् । अ॒हो॒रा॒त्रान् ह॒ वा अ॑र्धमा॒सान्मासा॑नृ॒तून्त्सव्ँ॑वत्स॒रमा॒प्त्वा । च॒न्द्रम॑स॒स्सायु॑ज्यँ सलो॒कता॑माप्नोति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । च॒न्द्रम॑से॒ स्वाहा॑ प्रती॒दृश्या॑यै॒ स्वाहा॑ । अ॒हो॒रा॒त्रेभ्य॒स्स्वाहा॑ऽर्धमा॒सेभ्य॒स्स्वाहा॑ । मासे॑भ्य॒स्स्वाह॒र्तुभ्य॒स्स्वाहा॑ । सव्ँ॒व॒त्स॒राय॒ स्वाहेति॑ ॥57॥

अ॒हो॒रा॒त्रे वा अ॑कामयेताम् । अत्य॑होरा॒त्रे मु॑च्येवहि । न ना॑वहोरा॒त्रे आ॑प्नुयाता॒मिति॑ । ते ए॒तम॑होरा॒त्राभ्या॑ञ्च॒रुन्निर॑वपताम् । द्व॒याना॑व्व्रीँही॒णाम् । शु॒क्लाना॑ञ्च कृ॒ष्णाना॑ञ्च । स॒वा॒त्योर्दु॒ग्धे । श्वे॒तायै॑ च कृ॒ष्णायै॑ च । ततो॒ वै ते अत्य॑होरा॒त्रे अ॑मुच्येते । नैने॑ अहोरा॒त्रे आ॑प्नुताम् । अति॑ ह॒ वा अ॑होरा॒त्रे मु॑च्यते । नैन॑महोरा॒त्रे आ॑प्नुतः । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । अह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाहा॑ । अति॑मुक्त्यै॒ स्वाहेति॑ ॥58॥

उ॒षा वा अ॑कामयत । प्रि॒याऽऽदि॒त्यस्य॑ सु॒भगा॑ स्या॒मिति॑ । सैतमु॒षसे॑ च॒रुन्निर॑वपत् । ततो॒ वै सा प्रि॒याऽऽदि॒त्यस्य॑ सु॒भगा॑ऽभवत् । प्रि॒यो ह॒ वै स॑मा॒नानाँ॑ सु॒भगो॑ भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहा॑ । व्यू॒षुष्यै॒ स्वाहा॑ व्यु॒च्छन्त्यै॒ स्वाहा॑ । व्यु॑ष्टायै॒ स्वाहेति॑ ॥59॥

अथै॒तस्मै॒ नक्ष॑त्राय च॒रुनिर्व॑पति । यथा॒ त्वन्दे॒वाना॒मसि॑ । ए॒वम॒हम्म॑नु॒ष्या॑णाम्भूयास॒मिति॑ । यथा॑ ह॒ वा ए॒तद्दे॒वाना॑म् । ए॒वँ ह॒ वा ए॒ष म॑नु॒ष्या॑णाम्भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । नक्ष॑त्राय॒ स्वाहो॑देष्य॒ते स्वाहा॑ । उ॒द्य॒ते स्वाहोदि॑ताय॒ स्वाहा॑ । हर॑से॒ स्वाहा॒ भर॑से॒ स्वाहा॑ । भ्राज॑से॒ स्वाहा॒ तेज॑से॒ स्वाहा॑ । तप॑से॒ स्वाहा॑ ब्रह्मवर्च॒साय॒ स्वाहेति॑ ॥60॥

सूर्यो॒ वा अ॑कामयत । नक्ष॑त्राणाम्प्रति॒ष्ठा स्या॒मिति॑ । स ए॒तँ सूर्या॑य॒ नक्ष॑त्रेभ्यश्च॒रुन्निर॑वपत् । ततो॒ वै स नक्ष॑त्राणाम्प्रति॒ष्ठाऽभ॑वत् । प्र॒ति॒ष्ठा ह॒ वै स॑मा॒नाना॑म्भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्वेँद॑ । सोऽत्र॑ जुहोति । सूर्या॑य॒ स्वाहा॒ नक्ष॑त्रेभ्य॒स्स्वाहा॑ । प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ॥61॥

अथै॒तमदि॑त्यै च॒रुन्निर्व॑पति । इ॒यव्वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । सोऽत्र॑ जुहोति । अदि॑त्यै॒ स्वाहा॑ प्रति॒ष्ठायै॒ स्वाहेति॑ ॥62॥

अथै॒तव्विँष्ण॑वे च॒रुन्निर्व॑पति । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञ ए॒वान्त॒तᳶ प्रति॑तिष्ठति । सोऽत्र॑ जुहोति । विष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा॑ । प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ॥63॥

च॒न्द्रमा॒ᳶ पञ्च॑दशाहोरा॒त्रे स॒प्तद॑शो॒षा एका॑द॒शाथै॒तस्मै॒ नक्ष॑त्त्राय॒ त्रयो॑दश॒ सूर्यो॒ दशाथै॒तमदि॑त्यै॒ पञ्चाथै॒तव्विँष्ण॑वे॒ षट्त्स॒प्त ॥ 6 ॥ (स॒वि॒ताऽऽशू॒नाव्व्रीँ॑ही॒णामिन्द्रो॑ म॒हाव्री॑हीणा॒मिन्द्र॑ᳶकृ॒ष्णाना॑व्व्रीँही॒णाम॑होरा॒त्रे द्व॒याना॑व्व्रीँही॒णाम् । पि॒तर॒ष्षट्क॑पालँ सवि॒ता द्वाद॑शकपालमिन्द्रा॒ग्नी एका॑दशकपाल॒मिन्द्र॒ एका॑दशकपाल॒मिन्द्रो॒ दश॑कपाल॒व्विँष्णु॑स्त्रिकपा॒लमहि॒र्भूमि॑- कपालम॒श्विनौ॑ द्विकपा॒लञ्च॒न्द्रमा॒ᳶ पञ्च॑दशकपालम॒ग्निस्त्वष्टा॒ वस॑वो॒ऽष्टाक॑पालम॒न्यत्र॑ च॒रुम् । रु॒द्रो॑ऽर्य॒मा पू॒षा प॑शु॒मान्त्स्याँ॒ सोमो॑ रु॒द्रो बृह॒स्पति॒ᳶ पय॑सि वा॒युᳶ पय॒स्सोमो॑ वा॒युरि॑न्द्रा॒ग्नी मि॒त्र इन्द्र॒ आपो॒ ब्रह्म॑ य॒मो॑ऽभिजि॑त्यै॒ त्वष्टा॑ प्र॒जाप॑तिᳶप्र॒जायै॑ पौर्णमा॒स्या अ॑मावा॒स्या॑या॒ अग॑त्यै॒ विश्वे॒ जित्या॑ अ॒श्विनौ॒ श्रुत्यै॑ । ब्रह्म॒ तदे॒तव्विँष्णु॒स्स ए॒तव्वाँ॒युस्स ए॒तदाप॒स्ताः । पि॒तरो॒ विश्वे॒ वस॑वोऽकामयन्त॒ मेति॒ त ए॒तन्निर॑वपन् । आपो॑ऽकामयन्त॒ मेति॒ ता ए॒तन्निर॑वपन् । इ॒न्द्रा॒ग्नी अ॒श्विना॑वकामयेता॒व्वेँति॒ तावे॒तन्निर॑वपताम् । अ॒हो॒रा॒त्रे वा अ॑कामयेता॒मिति॒ ते ए॒तन्निर॑वपताम् । अ॒न्यत्रा॑कामय॒तेति॒ स ए॒तन्निर॑वपत् । इ॒न्द्रा॒ग्नी श्रैष्ठ्य॒मिन्द्रो॒ ज्यैष्ठ्य॒मिन्द्रो॑ दृ॒ढः । अहि॒स्सूर्योऽदि॑त्यै॒ विष्ण॑वे प्रति॒ष्ठायै॑ । सोमो॑ य॒मस्स॑मा॒नाना॑म् । अ॒ग्निर्नो॑ रीरिषद॒न्यत्र॑ रीरिषः ॥ )

अ॒ग्निर्न॑ ऋ॒ध्यास्म॒ नवो॑नवो॒ऽग्निर्मि॒त्रश्च॒न्द्रमा॒ष्षट् ॥ 6 ॥ अ॒ग्निर्न॒स्तन्नो॑ वा॒युरहि॑र्बु॒ध्निय॑ ऋ॒क्षा वा इ॒यमथै॒तत्पौ॑र्णमा॒स्या अ॒जो वा एक॑पा॒त्सूर्य॒स्त्रिष॑ष्टिः ॥ 63 ॥ अ॒ग्निर्न॑ᳶ पातु प्रति॒ष्ठायै॒ स्वाहेति॑ ॥ हरिः॑ओम् ॥ श्रीकृष्णार्पणमस्तु ॥ कृष्णयजुर्ब्राह्मणे-तृतीयाष्टके प्रथमप्रपाठकस्समाप्तः ॥