पीवो॑न्नाँ रयि॒वृध॑स्सुमे॒धाः । श्वे॒तस्सि॑षक्ति नि॒युता॑मभि॒श्रीः । ते वा॒यवे॒ सम॑नसो॒ वित॑स्थुः । विश्वेन्नर॑स्स्वप॒त्यानि॑ चक्रुः । रा॒येऽनु यञ्ज॒ज्ञतू॒ रोद॑सी उ॒भे । रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् । अधा॑ वा॒युन्नि॒युत॑स्सश्चत॒ स्वाः । उ॒त श्वे॒तव्वँसु॑धितिन्निरे॒के । आ वा॑यो॒ प्र याभिः॑ । प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा ॥ 1 ॥
बृ॒हद्र॑यिव्विँ॒श्ववा॑राँ रथ॒प्राम् । द्यु॒तद्या॑मा नि॒युत॒ᳶ पत्य॑मानः । क॒विᳶ क॒विमि॑यक्षसि प्रयज्यो । आ नो॑ नि॒युद्भि॑श्श॒तिनी॑भिरध्व॒रम् । स॒ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् । वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व । यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः । प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः । विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु ॥ 2 ॥
व॒य स्या॑म॒ पत॑यो रयी॒णाम् । र॒यी॒णाम्पतिय्ँ॑यज॒तम्बृ॒हन्त॑म् । अ॒स्मिन्भरे॒ नृत॑मव्ँ॒वाज॑सातौ । प्र॒जाप॑तिम्प्रथम॒जामृ॒तस्य॑ । यजा॑म दे॒वमधि॑ नो ब्रवीतु । प्रजा॑पते॒ त्वन्नि॑धि॒पाᳶ पु॑रा॒णः । दे॒वाना॑म्पि॒ता ज॑नि॒ता प्र॒जाना॑म् । पति॒र्विश्व॑स्य॒ जग॑तᳶ पर॒स्पाः । ह॒विर्नो॑ देव विह॒वे जु॑षस्व । तवे॒मे लो॒काᳶ प्र॒दिशो॒ दिश॑श्च ॥ 3 ॥
प॒रा॒वतो॑ नि॒वत॑ उ॒द्वत॑श्च । प्रजा॑पते विश्व॒सृज्जी॒वध॑न्य इ॒दन्नो॑ देव । प्रति॑हर्य ह॒व्यम् । प्र॒जाप॑तिम्प्रथ॒मय्यँ॒ज्ञिया॑नाम् । दे॒वाना॒मग्रे॑ यज॒तय्यँ॑जध्वम् । स नो॑ ददातु॒ द्रवि॑णँ सु॒वीर्य॑म् । रा॒यस्पोषव्ँ॒वि ष्य॑तु॒ नाभि॑म॒स्मे । यो रा॒य ईशे॑ शतदा॒य उ॒क्थ्यः॑ । यᳶ प॑शू॒नाँ र॑क्षि॒ता विष्ठि॑तानाम् । प्र॒जाप॑तिᳶ प्रथम॒जा ऋ॒तस्य॑ ॥ 4 ॥
स॒हस्र॑धामा जुषताँ ह॒विर्नः॑ । सोमा॑पूषणे॒मौ दे॒वौ । सोमा॑पूषणा॒ रज॑सो वि॒मान॑म् । स॒प्तच॑क्रँ॒ रथ॒मवि॑श्वमिन्वम् । वि॒षू॒वृत॒म्मन॑सा यु॒ज्यमा॑नम् । तञ्जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम् । दि॒व्य॑न्यस्सद॑नञ्च॒क्र उ॒च्चा । पृ॒थि॒व्याम॒न्यो अध्य॒न्तरि॑क्षे । ताव॒स्मभ्य॑म्पुरु॒वार॑म्पुरु॒क्षुम् । रा॒यस्पोषव्ँ॒विष्य॑ता॒न्नाभि॑म॒स्मे ॥ 5 ॥
धिय॑म्पू॒षा जि॑न्वतु विश्वमि॒न्वः । र॒यिँ सोमो॑ रयि॒पति॑र्दधातु । अव॑तु दे॒व्यदि॑तिरन॒र्वा । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ । विश्वा॑न्य॒न्यो भुव॑ना ज॒जान॑ । विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति । सोमा॑पूषणा॒वव॑त॒न्धिय॑म्मे । यु॒वभ्याव्ँ॒विश्वा॒ᳶ पृत॑ना जयेम । उदु॑त्त॒मव्वँ॑रु॒णास्त॑भ्ना॒द्द्याम् । यत्किञ्चे॒दङ्कि॑त॒वासः॑ । अव॑ ते॒ हेड॒स्तत्त्वा॑ यामि । आ॒दि॒त्याना॒मव॑सा॒ न द॑क्षि॒णा । धा॒रय॑न्त आदि॒त्यास॑स्ति॒स्रो भूमी॑र्धारयन् । य॒ज्ञो दे॒वानाँ॒ शुचि॑र॒पः ॥ 6 ॥
म॒नी॒षाऽस्तु॑ च॒र्तस्या॒स्मे कि॑त॒वास॑श्च॒त्वारि॑ च ॥ 1 ॥
ते शु॒क्रास॒श्शुच॑यो रश्मि॒वन्तः॑ । सीद॑न्नादि॒त्या अधि॑ ब॒र्हिषि॑ प्रि॒ये । कामे॑न दे॒वास्स॒रथ॑न्दि॒वो नः॑ । आ या॑न्तु य॒ज्ञमुप॑ नो जुषा॒णाः । ते सू॒नवो॒ अदि॑तेᳶ पीव॒सामिष॑म् । घृ॒तम्पिन्व॒त्प्रति॑हर्यन्नृते॒जाः । प्र य॒ज्ञिया॒ यज॑मानाय येमुरे । आ॒दि॒त्याᳶ काम॑म्पितु॒मन्त॑म॒स्मे । आ न॑ᳶ पु॒त्रा अदि॑तेर्यान्तु य॒ज्ञम् । आ॒दि॒त्यास॑ᳶ प॒थिभि॑र्देव॒यानैः॑ ॥7 ॥
अ॒स्मे काम॑न्दा॒शुषे॑ स॒न्नम॑न्तः । पु॒रो॒डाश॑ङ्घृ॒तव॑न्तञ्जुषन्ताम् । स्क॒भा॒यत॒ निर्ऋ॑तिँ॒ सेध॒ताम॑तिम् । प्र र॒श्मिभि॒र्यत॑माना अमृध्राः । आदि॑त्या॒ᳶ काम॒ प्रय॑ताव्ँ॒वष॑ट्कृतिम् । जु॒षध्व॑न्नो ह॒व्यदा॑तिय्यँजत्राः । आ॒दि॒त्यान्काम॒मव॑से हुवेम । ये भू॒तानि॑ ज॒नय॑न्तो विचि॒ख्युः । सीद॑न्तु पु॒त्रा अदि॑तेरु॒पस्थ॑म् । स्ती॒र्णम्ब॒र्हिर्ह॑वि॒रद्या॑य दे॒वाः ॥ 8 ॥
स्ती॒र्णम्ब॒र्हिस्सी॑दता य॒ज्ञे अ॒स्मिन् । ध्रा॒जास्सेध॑न्तो॒ अम॑तिन्दु॒रेवा॑म् । अ॒स्मभ्य॑म्पुत्रा अदिते॒ᳶ प्र यँ॑सत । आदि॑त्या॒ᳶ काम॑ ह॒विषो॑ जुषा॒णाः । अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् । विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनः॑ । भूयि॑ष्ठान्ते॒ नम॑ उक्तिव्विँधेम । प्र व॑श्शु॒क्राय॑ भा॒नवे॑ भरध्वम् । ह॒व्यम्म॒तिञ्चा॒ग्नये॒ सुपू॑तम् ॥ 9 ॥
यो दैव्या॑नि॒ मानु॑षा ज॒नूँषि॑ । अ॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति । अच्छा॒ गिरो॑ म॒तयो॑ देव॒यन्तीः॑ । अ॒ग्निय्यँ॑न्ति॒ द्रवि॑ण॒म्भिक्ष॑माणाः । सु॒स॒न्दृशँ॑ सु॒प्रती॑क॒॒ स्वञ्च॑म् । ह॒व्य॒वाह॑मर॒तिम्मानु॑षाणाम् । अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वाः । अन॑ग्नित्रा अ॒भ्य॑मन्त कृ॒ष्टीः । पुन॑र॒स्मभ्यँ॑ सुवि॒ताय॑ देव । क्षाव्विँश्वे॑भिर॒जरे॑भिर्यजत्र ॥ 10 ॥
अग्ने॒ त्वम्पा॑रया॒ नव्यो॑ अ॒स्मान् । स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी । भवा॑ तो॒काय॒ तन॑याय॒ शय्योँः । प्रका॑रवो मन॒ना व॒च्यमा॑नाः । दे॒व॒द्रीची॑न्नयथ देव॒यन्तः॑ । द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये॑ति । ह॒विर्भर॑न्त्य॒ग्नये॑ घृ॒ताची॑ । इन्द्र॒न्नरो॑ यु॒जे रथ॑म् । ज॒गृ॒भ्णाते॒ दक्षि॑णमिन्द्र॒ हस्त॑म् ॥ 11 ॥
व॒सू॒यवो॑ वसुपते॒ वसू॑नाम् । वि॒द्मा हि त्वा॒ गोप॑तिँ शूर॒ गोना॑म् । अ॒स्मभ्य॑ञ्चि॒त्रव्वृँष॑णँ र॒यिन्दाः॑ । तवे॒दव्विँश्व॑म॒भित॑ᳶ पश॒व्य॑म् । यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य । गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र । भ॒क्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ । समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॑ । सँ सू॒रिभि॑र्मघव॒न्त्स स्व॒स्त्या । सम्ब्रह्म॑णा दे॒वकृ॑तय्ँ॒यदस्ति॑ ॥ 12 ॥
सन्दे॒वानाँ॑ सुम॒त्या य॒ज्ञिया॑नाम् । आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रम् । उ॒ग्रो यश्शम्ब॑ᳶ पुरुहूत॒ तेन॑ । अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र । कृ॒धीधिय॑ञ्जरि॒त्रे वाज॑रत्नाम् । आ वे॒धसँ॒ स हि शुचिः॑ । बृह॒स्पति॑ᳶ प्रथ॒मञ्जाय॑मानः । म॒हो ज्योति॑षᳶ पर॒मे व्यो॑मन् । स॒प्तास्य॑स्तुविजा॒तो रवे॑ण । वि स॒प्तर॑श्मिरधम॒त्तमाँ॑सि ॥ 13 ॥
बृह॒स्पति॒स्सम॑जय॒द्वसू॑नि । म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः । अ॒पस्सिषा॑स॒न्त्सुव॒रप्र॑तीत्तः । बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः । बृह॑स्पते॒ पर्ये॒वा पि॒त्रे । आ नो॑ दि॒वᳶ पावी॑रवी । इ॒मा जुह्वा॑ना॒ यस्ते॒ स्तनः॑ । सर॑स्वत्य॒भि नो॑ नेषि । इ॒यँ शुष्मे॑भिर्बिस॒खा इ॑वारुजत् । सानु॑ गिरी॒णान्त॑वि॒षेभि॑रू॒र्मिभिः॑ । पा॒रा॒व॒द॒घ्नीमव॑से सुवृ॒क्तिभिः॑ । सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ॥ 14 ॥
दे॒व॒यानै॑र्दे॒वास्सुपू॑तय्यँजत्र॒ हस्त॒मस्ति॒ तमाँ॑स्यू॒र्मिभि॒र्द्वे च॑ ॥ 2 ॥
सोमो॑ धे॒नुँ सोमो॒ अर्व॑न्तमा॒शुम् । सोमो॑ वी॒रङ्क॑र्म॒ण्य॑न्ददातु । सा॒द॒न्यव्ँ॑विद॒थ्यँ॑ स॒भेय॑म् । पि॒तु॒श्श्रव॑णय्ँ॒यो ददा॑शदस्मै । अषा॑ढय्युँ॒त्सु त्वँ सो॑म॒ क्रतु॑भिः । या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति । त्वमि॒मा ओष॑धीस्सोम॒ विश्वाः॑ । त्वम॒पो अ॑जनय॒स्त्वङ्गाः । त्वमात॑तन्थो॒र्व॑न्तरि॑क्षम् । त्वञ्ज्योति॑षा॒ वि तमो॑ ववर्थ ॥ 15 ॥
या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्याम् । या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । तेभि॑र्नो॒ विश्वै॑स्सु॒मना॒ अहे॑डन् । राज॑न्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय । विष्णो॒र्नुक॒न्तद॑स्य प्रि॒यम् । प्र तद्विष्णुः॑ । प॒रो मात्र॑या त॒नुवा॑ वृधान । न ते॑ महि॒त्वमन्व॑श्ञुवन्ति । उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वम् । प॒र॒मस्य॑ वित्से ॥ 16 ॥
विच॑क्रमे॒ त्रिर्दे॒वः । आ ते॑ म॒हो यो जा॒त ए॒व । अ॒भि गो॒त्राणि॑ । आभि॒स्स्पृधो॑ मिथ॒तीररि॑षण्यन् । अ॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र । आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑चीः । आर्या॑य॒ विशोव॑तारी॒र्दासीः॑ । अ॒यँ शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन् । अ॒यमु॒त प्र कृ॑णुते यु॒धा गाः । य॒दा स॒त्यङ्कृ॑णु॒ते म॒न्युमिन्द्रः॑ ॥ 17 ॥
विश्व॑न्दृ॒ढम्भ॑यत॒ एज॑दस्मात् । अनु॑ स्व॒धाम॑क्षर॒न्नापो॑ अस्य । अव॑र्धत॒ मध्य॒ आ ना॒व्या॑नाम् । स॒ध्री॒चीने॑न॒ मन॑सा॒ तमि॑न्द्र॒ ओजि॑ष्ठेन । हन्म॑नाहन्न॒भिद्यून् । म॒रुत्व॑न्तव्वृँष॒भव्वाँ॑वृधा॒नम् । अक॑वारिन्दि॒व्यँ शा॒समिन्द्र॑म् । वि॒श्वा॒साह॒मव॑से॒ नूत॑नाय । उ॒ग्रँ स॑हो॒दामि॒ह तँ हु॑वेम । जनि॑ष्ठा उ॒ग्रस्सह॑से तु॒राय॑ ॥ 18 ॥
म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः । अव॑र्ध॒न्निन्द्र॑म्म॒रुत॑श्चि॒दत्र॑ । मा॒ता यद्वी॒रन्द॒धन॒द्धनि॑ष्ठा । क्व॑स्यावो॑ मरुतस्स्व॒धाऽऽसी॑त् । यन्मामेकँ॑ स॒मध॑त्ताहि॒हत्ये॑ । अ॒ह ह्यु॑ग्रस्त॑वि॒षस्तुवि॑ष्मान् । विश्व॑स्य॒ शत्रो॒रन॑मव्वँध॒स्नैः । वृ॒त्रस्य॑ त्वा श्व॒सथा॒ दीष॑माणाः । विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः । म॒रुद्भि॑रिन्द्र स॒ख्यन्ते॑ अस्तु ॥ 19 ॥
अथे॒मा विश्वा॒ᳶ पृत॑ना जयासि । वधी॑व्वृँ॒त्रम्म॑रुत इन्द्रि॒येण॑ । स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् । अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः । सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः । स यो वृषा॒ वृष्णि॑येभि॒स्समो॑काः । म॒हो दि॒वᳶ पृ॑थि॒व्याश्च॑ स॒म्राट् । स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु । म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती । इन्द्रो॑ वृ॒त्रम॑तरद्वृत्र॒तूर्ये॑ ॥ 20 ॥
अ॒ना॒धृ॒ष्यो म॒घवा॒ शूर॒ इन्द्रः॑ । अन्वे॑नव्ँ॒विशो॑ अमदन्त पू॒र्वीः । अ॒यँ राजा॒ जग॑तश्चर्षणी॒नाम् । स ए॒व वी॒रस्स उ॑ वी॒र्या॑वान् । स ए॑करा॒जो जग॑तᳶ पर॒स्पाः । य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ । अथा॑भवद्दमि॒ताभिक्र॑तूनाम् । इन्द्रो॑ य॒ज्ञव्वँ॒र्धय॑न्वि॒श्ववे॑दाः । पु॒रो॒डाश॑स्य जुषताँ ह॒विर्नः॑ । वृ॒त्रन्ती॒र्त्वा दा॑न॒वव्वँज्र॑बाहुः ॥ 21 ॥
दिशो॑ऽदृँहद्दृँहि॒ता दृँह॑णेन । इ॒मय्यँ॒ज्ञव्वँ॒र्धय॑न्वि॒श्ववे॑दाः । पु॒रो॒डाश॒म्प्रति॑ गृभ्णा॒त्विन्द्रः॑ । य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ । अथै॑करा॒जो अ॑भव॒ज्जना॑नाम् । इन्द्रो॑ दे॒वाञ्छ॑म्बर॒हत्य॑ आवत् । इन्द्रो॑ दे॒वाना॑मभवत्पुरो॒गाः । इन्द्रो॑ य॒ज्ञे ह॒विषा॑ वावृधा॒नः । वृ॒त्र॒तूर्नो॒ अभ॑यँ॒ शर्म॑ यँसत् । यस्स॒प्त सिन्धूँ॒ रद॑धात्पृथि॒व्याम् । यस्स॒प्त लो॒कानकृ॑णो॒द्दिश॑श्च । इन्द्रो॑ ह॒विष्मा॒न्त्सग॑णो म॒रुद्भिः॑ । वृ॒त्र॒तूर्नो॑ य॒ज्ञमि॒होप॑ यासत् ॥ 22 ॥
व॒व॒र्थ॒ वि॒त्स॒ इन्द्र॑स्तु॒राया॑स्तु वृत्र॒तूर्ये॒ वज्र॑बाहुᳶ पृथि॒व्यान्त्रीणि॑ च ॥ 3 ॥
इन्द्र॒स्तर॑स्वानभिमाति॒होग्रः । हिर॑ण्यवाशीरिषि॒रस्सु॑व॒र्षाः । तस्य॑ व॒यँ सु॑म॒तौ य॒ज्ञिय॑स्य । अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म । हिर॑ण्यवर्णो॒ अभ॑यङ्कृणोतु । अ॒भि॒मा॒ति॒हेन्द्र॒ᳶ पृत॑नासु जि॒ष्णुः । स न॒श्शर्म॑ त्रि॒वरू॑थव्ँ॒वि यँ॑सत् । यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः । इन्द्र॑ स्तुहि व॒ज्रिण॒॒ स्तोम॑पृष्ठम् । पु॒रो॒डाश॑स्य जुषताँ ह॒विर्नः॑ ॥ 23 ॥
ह॒त्वाभिमा॑ती॒ᳶ पृत॑ना॒स्सह॑स्वान् । अथाभ॑यङ्कृणुहि वि॒श्वतो॑ नः । स्तु॒हि शूरव्ँ॑व॒ज्रिण॒मप्र॑तीत्तम् । अ॒भि॒मा॒ति॒हन॑म्पुरुहू॒तमिन्द्र॑म् । य एक॒ इच्छ॒तप॑ति॒र्जने॑षु । तस्मा॒ इन्द्रा॑य ह॒विरा जु॑होत । इन्द्रो॑ दे॒वाना॑मधि॒पाᳶ पु॒रोहि॑तः । दि॒शाम्पति॑रभवद्वा॒जिनी॑वान् । अ॒भि॒मा॒ति॒हा त॑वि॒षस्तुवि॑ष्मान् । अ॒स्मभ्य॑ञ्चि॒त्रव्वृँष॑णँ र॒यिन्दा॑त् ॥ 24 ॥
य इ॒मे द्यावा॑पृथि॒वी म॑हि॒त्वा । बले॒नादृँ॑हदभिमाति॒हेन्द्रः॑ । स नो॑ ह॒विᳶ प्रति॑ गृभ्णातु रा॒तये॑ । दे॒वाना॑न्दे॒वो नि॑धि॒पा नो॑ अव्यात् । अन॑वस्ते॒ रथ॒व्वृँष्णे॒ यत्ते॑ । इन्द्र॑स्य॒ नु वी॒र्या॑ण्यह॒न्नहि॑म् । इन्द्रो॑ या॒तोऽव॑सितस्य॒ राजा॑ । शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः । सेदु॒ राजा॑ क्षेति चर्षणी॒नाम् । अ॒रान्न ने॒मिᳶ परि॒ ता ब॑भूव ॥ 25 ॥
अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रू॑न् । विति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑भेत् । सव्वँज्रे॑णासृजद्वृ॒त्रमिन्द्रः॑ । प्र स्वाम्म॒तिम॑तिर॒च्छाश॑दानः । विष्णु॑न्दे॒वव्वँरु॑णमू॒तये॒ भग॑म् । मेद॑सा दे॒वा व॒पया॑ यजध्वम् । ता नो॑ य॒ज्ञमाग॑तव्विँ॒श्वधे॑ना । प्र॒जाव॑द॒स्मे द्रवि॑णे॒ह ध॑त्तम् । मेद॑सा दे॒वा व॒पया॑ यजध्वम् । विष्णु॑ञ्च दे॒वव्वँरु॑णञ्च रा॒तिम् ॥ 26 ॥
ता नो॒ अमी॑वा अप॒ बाध॑मानौ । इ॒मय्यँ॒ज्ञञ्जु॒षमा॑णा॒वुपेत॑म् । विष्णू॑वरुणा यु॒वम॑ध्व॒राय॑ नः । वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । दी॒र्घप्र॑यज्ज्यू ह॒विषा॑ वृधा॒ना । ज्योति॒षाऽरा॑तीर्दहत॒न्तमाँ॑सि । ययो॒रोज॑सा स्कभि॒ता रजाँ॑सि । वी॒र्ये॑भिर्वी॒रत॑मा॒ शवि॑ष्ठा । याऽपत्ये॑ ते॒ अप्र॑तीत्ता॒ सहो॑भिः । विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ ॥ 27 ॥
विष्णू॑वरुणावभिशस्ति॒पावा॑म् । दे॒वा य॑जन्त ह॒विषा॑ घृ॒तेन॑ । अपामी॑वाँ सेधतँ र॒क्षस॑श्च । अथा॑धत्तय्ँ॒यज॑मानाय॒ शय्योँः । अँ॒हो॒मुचा॑ वृष॒भा सु॒प्रतू॑र्ती । दे॒वाना॑न्दे॒वत॑मा॒ शचि॑ष्ठा । विष्णू॑वरुणा॒ प्रति॑हर्यतन्नः । इ॒दन्नरा॒ प्रय॑तमू॒तये॑ ह॒विः । म॒ही नु द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे॑ । रु॒चा भ॑वताँ शु॒चय॑द्भिर॒र्कैः ॥ 28 ॥
यत्सीव्ँ॒वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन् । नृ॒वद्भ्यो॒क्षा प॑प्रथा॒नेभि॒रेवैः॑ । प्रपू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिः । गी॒र्भिᳶ कृ॑णुध्वँ॒ सद॑ने ऋ॒तस्य॑ । आ नो॑ द्यावापृथिवी॒ दैव्ये॑न । जने॑न यात॒म्महि॑ वाव्ँ॒वरू॑थम् । स इत्स्वपा॒ भुव॑नेष्वास । य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑ । उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके॑ । अ॒वँ॒शे धीर॒श्शच्या॒ समै॑रत् ॥ 29 ॥
भूरि॒न्द्वे अच॑रन्ती॒ चर॑न्तम् । प॒द्वन्त॒ङ्गर्भ॑म॒पदी॑दधाते । नित्य॒न्न सू॒नुम्पि॒त्रोरु॒पस्थे॑ । तम्पि॑पृतँ रोदसी सत्य॒वाच॑म् । इ॒दन्द्या॑वापृथिवी स॒त्यम॑स्तु । पित॒र्मात॒र्यदि॒होप॑ ब्रु॒वे वा॑म् । भू॒तन्दे॒वाना॑मव॒मे अवो॑भिः । विद्यामे॒षव्वृँ॒जन॑ञ्जी॒रदा॑नुम् । उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रे अ॑न्ते । उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन् । दधा॑ते॒ ये सु॒भगे॑ सु॒प्रतू॑र्ती । द्यावा॒ रक्ष॑तम्पृथि॒वी नो॒ अभ्वा॑त् । या जा॒ता ओष॑ध॒योऽति॒ विश्वा॑ᳶ परि॒ष्ठाः । या ओष॑धय॒स्सोम॑राज्ञीरश्वाव॒तीँ सो॑मव॒तीम् । ओष॑धी॒रिति॑ मातरो॒ऽन्या वो॑ अ॒न्याम॑वतु ॥ 30 ॥
ह॒विर्नो॑ दाद्भभूव रा॒तिं पू॒र्वहू॑ताव॒र्कैरै॑रद॒स्मिन्पञ्च॑ च ॥ 4 ॥
शुचि॒न्नु स्तोम॒॒ श्ञथ॑द्वृ॒त्रम् । उ॒भा वा॑मिन्द्राग्नी॒ प्र च॑र्ष॒णिभ्यः॑ । आ वृ॑त्रहणा गी॒र्भिर्विप्रः॑ । ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता । सू॒क्तस्य॑ बोधि॒ तन॑यञ्च जिन्व । विश्व॒न्तद्भ॒द्रय्यँद॒वन्ति॑ दे॒वाः । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ । स ईँ॑ स॒त्येभि॒स्सखि॑भिश्शु॒चद्भिः॑ । गोधा॑यसव्ँ॒विध॑न॒सैर॑तर्दत् । ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहैः॑ ॥ 31 ॥
घ॒र्मस्वे॑देभि॒र्द्रवि॑ण॒व्व्याँ॑नट् । ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शम् । स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः । यो गा उ॒दाज॒त्स दि॒वे वि चा॑भजत् । म॒हीव॑ री॒तिश्शव॑सा सर॒त्पृथ॑क् । इन्धा॑नो अ॒ग्निव्ँव॑नवद्वनुष्य॒तः । कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् । जा॒तेन॑ जा॒तमति॒सृत्प्र सृँ॑सते । यय्ँ यय्ँ॒ युज॑ङ्कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ । ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा॑ ॥ 32 ॥
रा॒यस्स्या॑म र॒थ्यो॑ विव॑स्वतः । वी॒रेषु॑ वी॒राँ उप॑पृङ्ग्धि न॒स्त्वम् । यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव॑म् । स इज्जने॑न॒ स वि॒शा स जन्म॑ना । स पु॒त्रैर्वाज॑म्भरते॒ धना॒ नृभिः॑ । दे॒वानाय्ँ॒यᳶ पि॒तर॑मा॒ विवा॑सति । श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति॑म् । यास्ते॑ पूष॒न्नावो॑ अ॒न्तः । शु॒क्रन्ते॑ अ॒न्यत्पू॒षेमा आशाः॑ । प्रप॑थे प॒थाम॑जनिष्ट पू॒षा ॥33॥
प्रप॑थे दि॒वᳶ प्रप॑थे पृथि॒व्याः । उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॑ । आ च॒ परा॑ च चरति प्रजा॒नन् । पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्याः । इ॒डस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः । तन्दे॒वासो॒ अद॑दुस्सू॒र्यायै॑ । कामे॑न कृ॒तन्त॒वस॒॒ स्वञ्च॑म् । अ॒जाऽश्व॑ᳶ पशु॒पा वाज॑बस्त्यः । धि॒य॒ञ्जि॒न्वो विश्वे॒ भुव॑ने॒ अर्पि॑तः । अष्ट्रा॑म्पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत् ॥ 34 ॥
स॒ञ्चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते । शुची॑ वो ह॒व्या म॑रुत॒श्शुची॑नाम् । शुचिँ॑ हिनोम्यध्व॒रँ शुचि॑भ्यः । ऋ॒तेन॑ स॒त्यमृत॒साप॑ आयन् । शुचि॑जन्मान॒श्शुच॑यᳶ पाव॒काः । प्र चि॒त्रम॒र्कङ्गृ॑ण॒ते तु॒राय॑ । मारु॑ताय॒ स्वत॑वसे भरध्वम् । ये सहाँ॑सि॒ सह॑सा॒ सह॑न्ते । रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ । अँसे॒ष्वा म॑रुतᳶ खा॒दयो॑ वः ॥ 35 ॥
वक्ष॑स्सुरु॒क्मा उप॑ शिश्रिया॒णाः । वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒नाः । अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः । या व॒श्शर्म॑ शशमा॒नाय॒ सन्ति॑ । त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्य॒न्तानि॑ मरुतो॒ विय॑न्त । र॒यिन्नो॑ धत्त वृषणस्सु॒वीर॑म् । इ॒मे तु॒रम्म॒रुतो॑ रामयन्ति । इ॒मे सह॒स्सह॑स॒ आ न॑मन्ति । इ॒मे शँसव्ँ॑वनुष्य॒तो नि पा॑न्ति ॥ 36 ॥
गु॒रुद्वेषो॒ अर॑रुषे दधन्ति । अ॒रा इ॒वेदच॑रमा॒ अहे॑व । प्रप्र॑ जायन्ते॒ अक॑वा॒ महो॑भिः । पृश्ञे॑ᳶ प्रु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः । स्वया॑ म॒त्या म॒रुत॒स्सम्मि॑मिक्षुः । अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ । स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये॑ । अनु॑ क्ष॒त्रमनु॒ सहो॑ यजत्र । इन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये॑ । य इन्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॑ ॥ 37 ॥
शिक्षा॒ सखि॑भ्यᳶ पुरुहूत॒ नृभ्यः॑ । त्वँ हि दृ॒ढा म॑घव॒न्विचे॑ताः । अपा॑वृधि॒ परि॑वृति॒न्न राधः॑ । इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नाम् । अ॒धि॒क्षमि॒ विषु॑रूपय्ँ॒यदस्ति॑ । ततो॑ ददातु दा॒शुषे॒ वसू॑नि । चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् । तमु॑ष्टुहि॒ यो अ॒भिभू॑त्योजाः । व॒न्वन्नवा॑तᳶ पुरुहू॒त इन्द्रः॑ । अषा॑ढमु॒ग्रँ सह॑मानमा॒भिः ॥ 38 ॥
गी॒र्भिर्व॑र्ध वृष॒भञ्च॑र्षणी॒नाम् । स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॑ । तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र॑म् । यो वा॒युना॒ जय॑ति॒ गोम॑तीषु । प्र धृ॑ष्णु॒या न॑यति॒ वस्यो॒ अच्छ॑ । आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात् । ओत्त॒राद॑ध॒रागा पु॒रस्ता॑त् । आ वि॒श्वतो॑ अ॒भिसमे॑त्व॒र्वाङ् । इन्द्र॑ द्यु॒म्नँ सुव॑र्वद्धेह्य॒स्मे ॥ 39 ॥
व॒राहै॑र्वि॒श्वहा॑ऽजनिष्ट पू॒षोद्वरी॑वृजत्खा॒दयो॑ वᳶ पा॒न्त्यस्त्या॒भिर्नव॑ च ॥ 5 ॥
आ दे॒वो या॑तु सवि॒ता सु॒रत्नः॑ । अ॒न्त॒रि॒क्ष॒प्रा वह॑मानो॒ अश्वैः॑ । हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ । नि॒वे॒शय॑ञ्च प्रसु॒वञ्च॒ भूम॑ । अ॒भीवृ॑त॒ङ्कृश॑नैर्वि॒श्वरू॑पम् । हिर॑ण्यशम्यय्यँज॒तो बृ॒हन्त॑म् । आस्था॒द्रथँ॑ सवि॒ता चि॒त्रभा॑नुः । कृ॒ष्णा रजाँ॑ सि॒ तवि॑षी॒न्दधा॑नः । सघा॑ नो दे॒वस्स॑वि॒ता स॒वाय॑ । आ सा॑विष॒द्वसु॑पति॒र्वसू॑नि ॥ 40 ॥
वि॒श्रय॑माणो॒ अम॑तिमुरू॒चीम् । म॒र्त॒भोज॑न॒मध॑रासतेन । विजना॑ञ्छ्या॒वाश्शि॑ति॒पादो॑ अख्यन् । रथँ॒ हिर॑ण्यप्रउगव्ँ॒वह॑न्तः । शश्व॒द्दिश॑स्सवि॒तुर्दैव्य॑स्य । उ॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः । वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यत् । ग॒भी॒रवे॑पा॒ असु॑रस्सुनी॒थः । क्वे॑दानीँ॒ सूर्य॒ᳶ कश्चि॑केत । क॒त॒मान्द्याँ र॒श्मिर॒स्या त॑तान ॥ 41 ॥
भग॒न्धियव्ँ॑वा॒जय॑न्त॒ᳶ पुर॑न्धिम् । नरा॒शँसो॒ ग्नास्पति॑र्नो अव्यात् । आ ये वा॒मस्य॑ सङ्ग॒थे र॑यी॒णाम् । प्रि॒या दे॒वस्य॑ सवि॒तुस्स्या॑म । आ नो॒ विश्वे॒ अस्क्रा॑गमन्तु दे॒वाः । मि॒त्रो अ॑र्य॒मा वरु॑णस्स॒जोषाः॑ । भुव॒न्यथा॑ नो॒ विश्वे॑ वृ॒धासः॑ । कर॑न्त्सु॒षाहा॑ विथु॒रन्न शवः॑ । शन्नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु । शँ सर॑स्वती स॒ह धी॒भिर॑स्तु ॥ 42 ॥
शम॑भि॒षाच॒श्शमु॑ राति॒षाचः॑ । शन्नो॑ दि॒व्याᳶ पार्थि॑वा॒श्शन्नो॒ अप्याः॑ । ये स॑वि॒तुस्स॒त्यस॑वस्य॒ विश्वे॑ । मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः । ते सौभ॑गव्ँवी॒रव॒द्गोम॒दप्नः॑ । दधा॑तन॒ द्रवि॑णञ्चि॒त्रम॒स्मे । अग्ने॑ या॒हि दू॒त्यव्ँ॑वारि॑षेण्यः । दे॒वाँ अच्छा॑ ब्रह्म॒कृता॑ ग॒णेन॑ । सर॑स्वतीम्म॒रुतो॑ अ॒श्विना॒पः । य॒क्षि॒ दे॒वान्र॑त्न॒धेया॑य॒ विश्वा॑न् ॥ 43 ॥
द्यौᳶ पि॑त॒ᳶ पृथि॑वि॒ मात॒रध्रु॑क् । अग्ने॑ भ्रातर्वसवो मृ॒डता॑ नः । विश्व॑ आदित्या अदिते स॒जोषाः॑ । अ॒स्मभ्यँ॒ शर्म॑ बहु॒लव्विँ य॑न्त । विश्वे॑ देवाश्शृणु॒तेमँ हव॑म्मे । ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्राः । आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् । आ वा॑म्मित्रावरुणा ह॒व्यजु॑ष्टिम् । नम॑सा देवा॒वव॑साववृत्याम् ॥ 44 ॥
अ॒स्माक॒म्ब्रह्म॒ पृत॑नासु सह्या अ॒स्माक॑म् । वृ॒ष्टिर्दि॒व्या सु॑पा॒रा । यु॒वव्वँस्त्रा॑णि पीव॒सा व॑साथे । यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गाः॑ । अवा॑तिरत॒मनृ॑तानि॒ विश्वा॑ । ऋ॒तेन॑ मित्रावरुणा सचेथे । तत्सु वा॑म्मित्रावरुणा महि॒त्वम् । ई॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे । विश्वा॑ᳶ पिन्वथ॒ स्वस॑रस्य॒ धेनाः॑ । अनु॑ वा॒मेक॑ᳶ प॒विरा व॑वर्ति ॥ 45 ॥
यद्बँहि॑ष्ठ॒न्नाति॒ विदे॑ सुदानू । अच्छि॑द्रँ॒ शर्म॒ भुव॑नस्य गोपा । ततो॑ नो मित्रावरुणाववीष्टम् । सिषा॑सन्तो जी(जि?)गि॒वाँस॑स्स्याम । आ नो मित्रावरुणा ह॒व्यदा॑तिम् । घृ॒तैर्गव्यू॑तिमुक्षत॒मिडा॑भिः । प्रति॑ वा॒मत्र॒ वर॒मा जना॑य । पृ॒णी॒तमु॒द्नो दि॒व्यस्य॒ चारोः॑ । प्र बा॒हवा॑ सिसृतञ्जी॒वसे॑ नः । आ नो॒ गव्यू॑तिमुक्षतङ्घृ॒तेन॑ ॥ 46 ॥
आ नो॒ जने॑ श्रवयतय्युँवाना । श्रु॒तम्मे॑ मित्रावरुणा॒ हवे॒मा । इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः॑ । क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाम्ने॑ । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे॑ । ति॒ग्मायु॑धाय भरता शृ॒णोत॑न । त्वाद॑त्तेभी रुद्र॒ शन्त॑मेभिः । श॒तँ हिमा॑ अशीय भेष॒जेभिः॑ । व्य॑स्मद्द्वेषो॑ वित॒रव्व्यँँहः॑ । व्यमी॑वाँश्चातयस्वा॒ विषू॑चीः ॥ 47 ॥
अर्ह॑न्बिभर्षि॒ मा न॑स्तो॒के । आ ते॑ पितर्मरुताँ सु॒म्नमे॑तु । मा न॒स्सूर्य॑स्य स॒न्दृशो॑ युयोथाः । अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत । प्र जा॑येमहि रुद्र प्र॒जाभिः॑ । ए॒वा ब॑भ्रो वृषभ चेकितान । यथा॑ देव॒ न हृ॑णी॒षे न हँसि॑ । हा॒व॒न॒श्रूर्नो॑ रुद्रे॒ह बो॑धि । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ । परि॑ णो रु॒द्रस्य॑ हे॒तिस्स्तु॒हि श्रु॒तम् । मीढु॑ष्ट॒मार्ह॑न्बिभर्षि । त्वम॑ग्ने रु॒द्र आ वो॒ राजा॑नम् ॥ 48 ॥
वसू॑नि ततानास्तु॒ विश्वा॑न् ववृत्याव्वँवर्ति घृ॒तेन॒ विषू॑चीश्श्रु॒तन्द्वे च॑ ॥ 6 ॥
सूर्यो॑ दे॒वीमु॒षसँ॒ रोच॑माना॒मर्यः॑ । न योषा॑म॒भ्ये॑ति प॒श्चात् । यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ । वि॒त॒न्वते॒ प्रति॑ भ॒द्राय॑ भ॒द्रम् । भ॒द्रा अश्वा॑ ह॒रित॒स्सूर्य॑स्य । चि॒त्रा एद॑ग्वा अनु॒माद्या॑सः । न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थुः । परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः । तत्सूर्य॑स्य देव॒त्वन्तन्म॑हि॒त्वम् । म॒ध्या कर्तो॒र्वित॑तँ॒ सञ्ज॑भार ॥ 49 ॥
य॒देदयु॑क्त ह॒रित॑स्स॒धस्था॑त् । आद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ । तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॑ । सूर्यो॑ रू॒पङ्कृ॑णुते॒ द्योरु॒पस्थे॑ । अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ । कृ॒ष्णम॒न्यद्ध॒रित॒स्सम्भ॑रन्ति । अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य । निरँह॑सᳶ पिपृ॒तान्निर॑व॒द्यात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ताम् । अदि॑ति॒स्सिन्धु॑ᳶ पृथि॒वी उ॒त द्यौः ॥ 50 ॥
दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति । दू॒रे अ॑र्थस्त॒रणि॒र्भ्राज॑मानः । नू॒नञ्जना॒स्सूर्ये॑ण॒ प्रसू॑ताः । आयन्नर्था॑नि कृ॒णव॒न्नपाँ॑सि । शन्नो॑ भव॒ चक्ष॑सा॒ शन्नो॒ अह्ना॑ । शम्भा॒नुना॒ शँ हि॒मा शङ्घृ॒णेन॑ । यथा॒ शम॒स्मै शमस॑द्दुरो॒णे । तत्सू॑र्य॒ द्रवि॑णन्धे॒हि चि॒त्रम् । चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑कम् । चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ॥ 51 ॥
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् । सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च । त्वष्टा॒ दध॒त्तन्न॑स्तु॒रीप॑म् । त्वष्टा॑ वी॒रम्पि॒शङ्ग॑रूपः । दशे॒मन्त्वष्टु॑र्जनयन्त॒ गर्भ॑म् । अत॑न्द्रासो युव॒तयो॒ बिभ॑र्त्रम् । ति॒ग्मानी॑क॒॒ स्वय॑शस॒ञ्जने॑षु । वि॒रोच॑मान॒म्परि॑षीन्नयन्ति । आविष्ट्यो॑ वर्धते॒ चारु॑रासु । जि॒ह्माना॑मू॒र्ध्वस्वय॑शा उ॒पस्थे॑ ॥ 52 ॥
उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात् । प्र॒तीची॑ सिँ॒हम्प्रति॑जोषयेते । मि॒त्रो जना॒न्प्र स मि॑त्र । अ॒यम्मि॒त्रो न॑म॒स्य॑स्सु॒शेवः॑ । राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः । तस्य॑ व॒यँ सु॑म॒तौ य॒ज्ञिय॑स्य । अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म । अ॒न॒मी॒वास॒ इड॑या॒ मद॑न्तः । मि॒तज्म॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः । आ॒दि॒त्यस्य॑ व्र॒तमु॑प॒क्ष्यन्तः॑ ॥ 53 ॥
व॒यम्मि॒त्रस्य॑ सुम॒तौ स्या॑म । मि॒त्रन्न ईँ शिम्या॒ गोषु॑ ग॒व्यव॑त् । स्वा॒धियो॑ वि॒दथे॑ अ॒प्स्वजी॑जनन् । अरे॑जयताँ॒ रोद॑सी॒ पाज॑सा गि॒रा । प्रति॑ प्रि॒यय्यँ॑ज॒तञ्ज॒नुषा॒मवः॑ । म॒हाँ आ॑दि॒त्यो नम॑सोप॒सद्यः॑ । या॒त॒यज्ज॑नो गृण॒ते सु॒शेवः॑ । तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्ट॑म् । अ॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत । आ वाँ॒ रथो॒ रोद॑सी बद्बधा॒नः ॥ 54 ॥
हि॒र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः॑ । घृ॒तव॑र्तनिᳶ प॒विभी॑रुचा॒नः । इ॒षाव्वोँ॒ढा नृ॒पति॑र्वा॒जिनी॑वान् । स प॑प्रथा॒नो अ॒भि पञ्च॒ भूम॑ । त्रि॒व॒न्धु॒रो मन॒साया॑तु यु॒क्तः । विशो॒ येन॒ गच्छ॑थो देव॒यन्तीः॑ । कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना । स्वश्वा॑ य॒शसाऽऽया॑तम॒र्वाक् । दस्रा॑ नि॒धिम्मधु॑मन्तम्पिबाथः । वि वाँ॒ रथो॑ व॒ध्वा॑ याद॑मानः ॥ 55 ॥
अन्ता॑न्दि॒वो बा॑धते वर्त॒निभ्या॑म् । यु॒वोश्श्रिय॒म्परि॒ योषा॑वृणीत । सूरो॑ दुहि॒ता परि॑तक्मियायाम् । यद्दे॑व॒यन्त॒मव॑थ॒श्शची॑भिः । परि॑घ्रँ॒ सवा॒म्मना॑वाव्ँ॒वयो॑गाम् । यो ह॒स्यवाँ॑ रथिरा॒वस्त॑ उ॒स्राः । रथो॑ युजा॒नᳶ प॑रि॒याति॑ व॒र्तिः । तेन॑ न॒श्शय्ँयोरु॒षसो॒ व्यु॑ष्टौ । न्य॑श्विना वहतय्यँ॒ज्ञे अ॒स्मिन् । यु॒वम्भु॒ज्युमव॑विद्धँ समु॒द्रे ॥ 56 ॥
उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः । प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभिः॑ । दँ॒सना॑भिरश्विना पा॒रय॑न्ता । अग्नी॑षोमा॒ यो अ॒द्य वा॑म् । इ॒दव्वँच॑स्सप॒र्यति॑ । तस्मै॑ धत्तँ सु॒वीर्य॑म् । गवा॒म्पोष॒॒ स्वश्वि॑यम् । यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्यात् । दे॒व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ । तस्य॑ व्र॒तँ र॑क्षतम्पा॒तमँह॑सः ॥ 57 ॥
वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । अग्नी॑षोमा॒ य आहु॑तिम् । यो वा॒न्दाशा॑द्ध॒विष्कृ॑तिम् । स प्र॒जया॑ सु॒वीर्य॑म् । विश्व॒मायु॒र्व्य॑श्ञवत् । अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यव्ँ॑वाम् । यदमु॑ष्णीतमव॒सम्प॒णिङ्गोः । अवा॑तिरत॒म्प्रथ॑यस्य॒ शेषः॑ । अवि॑न्दत॒ञ्ज्योति॒रेक॑म्ब॒हुभ्यः॑ । अग्नी॑षोमावि॒मँ सु मेऽग्नी॑षोमा ह॒विष॒ᳶ प्रस्थि॑तस्य ॥ 58 ॥
ज॒भा॒र॒ द्यौर॒ग्नेरु॒पस्थ॑ उप॒क्ष्यन्तो॑ बद्बधा॒नो व॒ध्वा॑ याद॑मानस्समु॒द्रेऽँह॑स॒ᳶ प्रस्थि॑तस्य ॥ 7 ॥
अ॒हम॑स्मि प्रथम॒जा ऋ॒तस्य॑ । पूर्व॑न्दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ । यो मा॒ ददा॑ति॒ स इदे॒वमावाः॑ । अ॒हमन्न॒मन्न॑न॒दन्त॑मद्मि । पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्न॑म् । य॒त्तौ हा॑साते अहमुत्त॒रेषु॑ । व्यात्त॑मस्य प॒शव॑स्सु॒जम्भ॑म् । पश्य॑न्ति॒ धीरा॒ᳶ प्रच॑रन्ति॒ पाकाः॑ । जहा॑म्य॒न्यन्न ज॑हाम्य॒न्यम् । अ॒हमन्नव्ँ॒वश॒मिच्च॑रामि ॥ 59 ॥
स॒मा॒नमर्थ॒म्पर्ये॑मि भु॒ञ्जत् । को मामन्न॑म्मनु॒ष्यो॑ दयेत । परा॑के॒ अन्न॒न्निहि॑तल्लोँ॒क ए॒तत् । विश्वै॑र्दे॒वैᳶ पि॒तृभि॑र्गु॒प्तमन्न॑म् । यद॒द्यते॑ लु॒प्यते॒ यत्प॑रो॒प्यते॑ । श॒त॒त॒मी सा त॒नूर्मे॑ बभूव । म॒हान्तौ॑ च॒रू स॑कृद्दु॒ग्धेन॑ पप्रौ । दिव॑ञ्च॒ पृश्ञि॑ पृथि॒वीञ्च॑ सा॒कम् । तत्स॒म्पिब॑न्तो॒ न मि॑नन्ति वे॒धसः॑ । नैतद्भूयो॒ भव॑ति॒ नो कनी॑यः ॥ 60 ॥
अन्न॑म्प्रा॒णमन्न॑मपा॒नमा॑हुः । अन्न॑म्मृ॒त्युन्तमु॑ जी॒वातु॑माहुः । अन्न॑म्ब्र॒ह्माणो॑ ज॒रसव्ँ॑वदन्ति । अन्न॑माहुᳶ प्र॒जन॑नम्प्र॒जाना॑म् । मोघ॒मन्नव्ँ॑विन्दते॒ अप्र॑चेताः । स॒त्यम्ब्र॑वीमि व॒ध इत्स तस्य॑ । नार्य॒मण॒म्पुष्य॑ति॒ नो सखा॑यम् । केव॑लाघो भवति केवला॒दी । अ॒हम्मे॒घस्स्त॒नय॒न्वऱ्ष॑न्नस्मि । माम॑दन्त्य॒हम॑द्म्य॒न्यान् ॥ 61 ॥
अ॒हँ सद॒मृतो॑ भवामि । मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति । दे॒वीव्वाँच॑मजनयन्त॒ यद्वाग्वद॑न्ती । अ॒न॒न्तामन्ता॒दधि॒ निर्मि॑ताम्म॒हीम् । यस्या॑न्दे॒वा अ॑दधु॒र्भोज॑नानि । एका॑क्षरान्द्वि॒पदाँ॒ षट्प॑दाञ्च । वाच॑न्दे॒वा उप॑ जीवन्ति॒ विश्वे॑ । वाच॑न्दे॒वा उप॑ जीवन्ति॒ विश्वे॑ । वाच॑ङ्गन्ध॒र्वाᳶ प॒शवो॑ मनु॒ष्याः॑ । वा॒चीमा विश्वा॒ भुव॑ना॒न्यर्पि॑ता ॥ 62 ॥
सा नो॒ हव॑ञ्जुषता॒मिन्द्र॑पत्नी । वाग॒क्षर॑म्प्रथम॒जा ऋ॒तस्य॑ । वेदा॑नाम्मा॒ताऽमृत॑स्य॒ नाभिः॑ । सा नो॑ जुषा॒णोप॑ य॒ज्ञमागा॑त् । अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु । यामृष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑ । अ॒न्वैच्छ॑न्दे॒वास्तप॑सा॒ श्रमे॑ण । तान्दे॒वीव्वाँचँ॑ ह॒विषा॑ यजामहे । सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के । च॒त्वारि॒ वाक्परि॑मिता प॒दानि॑ ॥ 63 ॥
तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ । गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति । तु॒रीयव्ँ॑वा॒चो म॑नु॒ष्या॑ वदन्ति । श्र॒द्धया॒ऽग्निस्समि॑ध्यते । श्र॒द्धया॑ विन्दते ह॒विः । श्र॒द्धाम्भग॑स्य मू॒र्धनि॑ । वच॒सा वे॑दयामसि । प्रि॒य श्र॑द्धे॒ दद॑तः । प्रि॒य श्र॑द्धे॒ दिदा॑सतः । प्रि॒यम्भो॒जेषु॒ यज्व॑सु ॥ 64 ॥
इ॒दम्म॑ उदि॒तङ्कृ॑धि । यथा॑ दे॒वा असु॑रेषु । श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒वम्भो॒जेषु॒ यज्व॑सु । अ॒स्माक॑मुदि॒तङ्कृ॑धि । श्र॒द्धान्दे॑वा॒ यज॑मानाः । वा॒युगो॑पा॒ उपा॑सते । श्र॒द्धाँ हृ॑द॒य्य॑याऽऽकू॑त्या । श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धाम्प्रा॒तर्ह॑वामहे ॥ 65 ॥
श्र॒द्धाम्म॒ध्यन्दि॑न॒म्परि॑ । श्र॒द्धाँ सूर्य॑स्य नि॒म्रुचि॑ । श्रद्धे॒ श्रद्धा॑पये॒ह मा॑ । श्र॒द्धा दे॒वानधि॑ वस्ते । श्र॒द्धा विश्व॑मि॒दञ्जग॑त् । श्र॒द्धाङ्काम॑स्य मा॒तर॑म् । ह॒विषा॑ वर्धयामसि । ब्रह्म॑ जज्ञा॒नम्प्र॑थ॒मम्पु॒रस्ता॑त् । वि सी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒ मा अ॑स्य वि॒ष्ठाः ॥ 66 ॥
स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ । पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् । अ॒न्तरि॑क्षव्विँ॒श्वरू॑प॒ आवि॑वेश । तम॒र्कैर॒भ्य॑र्चन्ति व॒त्सम् । ब्रह्म॒ सन्त॒म्ब्रह्म॑णा व॒र्धय॑न्तः । ब्रह्म॑ दे॒वान॑जनयत् । ब्रह्म॒ विश्व॑मि॒दञ्जग॑त् । ब्रह्म॑णः क्ष॒त्रन्निर्मि॑तम् । ब्रह्म॑ ब्राह्म॒ण आ॒त्मना॑ । अ॒न्तर॑स्मिन्नि॒मे लो॒काः ॥ 67 ॥
अ॒न्तर्विश्व॑मि॒दञ्जग॑त् । ब्रह्मै॒व भू॒ताना॒ञ्ज्येष्ठ॑म् । तेन॒ को॑ऽर्हति॒ स्पर्धि॑तुम् । ब्रह्म॑न्दे॒वास्त्रय॑स्त्रिँशत् । ब्रह्म॑न्निन्द्रप्रजाप॒ती । ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ । ना॒वीवा॒न्तस्स॒माहि॑ता । चत॑स्र॒ आशा॒ᳶ प्रच॑रन्त्व॒ग्नयः॑ । इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन् । घृ॒तम्पिन्व॑न्न॒जरँ॑ सु॒वीर॑म् ॥ 68 ॥
ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् । आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्रन् । सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे । प्र॒जाव॑तीᳶ पुरु॒रूपा॑ इ॒ह स्युः । इन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः । इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्षति । उपेद्द॑दाति॒ न स्वम्मु॑षायति । भूयो॑भूयो र॒यमिद॑स्य व॒र्धय॑न् । अभि॑न्ने खि॒ल्ले नि द॑धाति देव॒युम् । न ता न॑शन्ति॒ न ता अर्वा॑ ॥ 69 ॥
गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छात् । गाव॒स्सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः । इ॒मा या गाव॒स्सज॑नास॒ इन्द्रः॑ । इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र॑म् । यू॒यङ्गा॑वो मेदयथा कृ॒शञ्चि॑त् । अ॒श्ली॒लञ्चि॑त्कृणुथा सु॒प्रती॑कम् । भ॒द्रङ्गृ॒हङ्कृ॑णुथ भद्रवाचः । बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ । प्र॒जाव॑तीस्सू॒यव॑सँ रि॒शन्तीः॑ । शु॒द्धा अ॒पस्सु॑प्रपा॒णे पिब॑न्तीः । मा व॑स्स्ते॒न ई॑शत॒ माऽघशँ॑सः । परि॑ वो हे॒ती रु॒द्रस्य॑ वृञ्ज्यात् । उपे॒दमु॑प॒पर्च॑नम् । आ॒सु गोषूप॑पृच्यताम् । उप॑र्ष॒भस्य॒ रेत॑सि । उपे॑न्द्र॒ तव॑ वी॒र्ये॑ ॥ 70 ॥
च॒रा॒मि॒ कनी॑यो॒ऽन्यानर्पि॑ता प॒दानि॒ यज्व॑सु हवामहे वि॒ष्ठा लो॒कास्सु॒वीर॒मर्वा॒ पिब॑न्ती॒ष्षट्च॑ ॥ 8 ॥
ता सू॑र्याचन्द्र॒मसा॑ विश्व॒भृत्त॑मा म॒हत् । तेजो॒ वसु॑मद्राजतो दि॒वि । सामा॑त्माना चरतस्सामचा॒रिणा॑ । ययो॑र्व्र॒तन्न म॒मे जातु॑ दे॒वयोः॑ । उ॒भावन्तौ॒ परि॑ यात॒ अर्म्या॑ । दि॒वो न र॒श्मीँ स्त॑नु॒तो व्य॑र्ण॒वे । उ॒भा भु॑व॒न्ती भुव॑ना क॒विक्र॑तू । सूर्या॒ न च॒न्द्रा च॑रतो ह॒ताम॑ती । पती॑ द्यु॒मद्वि॑श्व॒विदा॑ उ॒भा दि॒वः । सूर्या॑ उ॒भा च॒न्द्रम॑सा विचक्ष॒णा ॥ 71 ॥
वि॒श्ववा॑रा वरिवो॒भा वरे॑ण्या । ता नो॑ऽवतम्मति॒मन्ता॒ महि॑व्रता । वि॒श्व॒वप॑री प्र॒तर॑णा तर॒न्ता । सु॒व॒र्विदा॑ दृ॒शये॒ भूरि॑रश्मी । सूर्या॒ हि च॒न्द्रा वसु॑ त्वे॒षद॑र्शता । म॒न॒स्विनो॒भानु॑चर॒तोनु॒ सन्दिव॑म् । अ॒स्य श्रवो॑ न॒द्य॑स्स॒प्त बि॑भ्रति । द्यावा॒ क्षामा॑ पृथि॒वी द॑र्श॒तव्वँपुः॑ । अ॒स्मे सू॑र्याचन्द्र॒मसा॑ऽभि॒चक्षे॑ । श्र॒द्धेकमि॑न्द्र चरतो विचर्तु॒रम् ॥ 72 ॥
पू॒र्वा॒प॒रञ्च॑रतो मा॒ययै॒तौ । शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो अध्व॒रम् । विश्वा॑न्य॒न्यो भुव॑नाऽभि॒ चष्टे॑ । ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ । हिर॑ण्यवर्णा॒श्शुच॑यᳶ पाव॒का यासाँ॒ राजा॑ । यासा॑न्दे॒वाश्शि॒वेन॑ मा॒ चक्षु॑षा पश्यत । आपो॑ भ॒द्रा आदित्प॑श्यामि । नास॑दासी॒न्नो सदा॑सीत्त॒दानी॑म् । नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् । किमाव॑रीव॒ᳶ कुह॒ कस्य॒ शर्म॑न् ॥ 73 ॥
अम्भ॒ᳶ किमा॑सी॒द्गह॑नङ्गभी॒रम् । न मृ॒त्युर॒मृत॒न्तर्हि॒ न । रात्रि॑या॒ अह्न॑ आसीत्प्रके॒तः । आनी॑दवा॒त स्व॒धया॒ तदेक॑म् । तस्मा॑द्धा॒न्यन्न प॒रᳶ किञ्च॒नास॑ । तम॑ आसी॒त्तम॑सा गू॒ढमग्रे॑ प्रके॒तम् । स॒लि॒लँ सर्व॑मा इ॒दम् । तु॒च्छेना॒भ्वपि॑हितय्ँ॒यदासी॑त् । तम॑स॒स्तन्म॑हि॒नाजा॑य॒तैक॑म् । काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ ॥ 74 ॥
मन॑सो॒ रेत॑ᳶ प्रथ॒मय्यँदासी॑त् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा । ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम् । अ॒धस्स्वि॑दा॒सी ३ दु॒परि॑ स्विदासी ३ त् । रे॒तो॒धा आ॑सन्महि॒मान॑ आसन् । स्व॒धा अ॒वस्ता॒त्प्रय॑तिᳶ प॒रस्ता॑त् । को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑चत् । कुत॒ आजा॑ता॒ कुत॑ इ॒यव्विँसृ॑ष्टिः । अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑नाय ॥ 75 ॥
अथा॒ को वे॑द॒ यत॑ आब॒भूव॑ । इ॒यव्विँसृ॑ष्टि॒र्यत॑ आब॒भूव॑ । यदि॑ वा द॒धे यदि॑ वा॒ न । यो अ॒स्याध्य॑क्षᳶ पर॒मे व्यो॑मन् । सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ । किस्वि॒द्वन॒ङ्क उ॒ स वृ॒क्ष आ॑सीत् । यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒तत् । यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् । ब्रह्म॒ वन॒म्ब्रह्म॒ स वृ॒क्ष आ॑सीत् ॥ 76 ॥
यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा॒ विब्र॑वीमि वः । ब्रह्मा॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् । प्रा॒तर॒ग्निम्प्रा॒तरिन्द्रँ॑ हवामहे । प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ । प्रा॒तर्भग॑म्पू॒षण॒म्ब्रह्म॑ण॒स्पति॑म् । प्रा॒तस्सोम॑मु॒त रु॒द्रँ हु॑वेम । प्रा॒त॒र्जित॒म्भग॑मु॒ग्रँ हु॑वेम । व॒यम्पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒ध्रश्चि॒द्यम्मन्य॑मानस्तु॒रश्चि॑त् ॥ 77 ॥
राजा॑ चि॒द्यम्भग॑म्भ॒क्षीत्याह॑ । भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः । भगे॒मान्धिय॒मुद॑व॒ दद॑न्नः । भग॒ प्र णो॑ जनय॒ गोभि॒रश्वैः॑ । भग॒ प्र नृभि॑र्नृ॒वन्त॑स्स्याम । उ॒तेदानी॒म्भग॑वन्तस्स्याम । उ॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना॑म् । उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य । व॒यन्दे॒वानाँ॑ सुम॒तौ स्या॑म । भग॑ ए॒व भग॑वाँ अस्तु देवाः ॥ 78 ॥
तेन॑ व॒यम्भग॑वन्तस्स्याम । तन्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि । स नो॑ भग पुरए॒ता भ॑वे॒ह । सम॑ध्व॒रायो॒षसो॑ नमन्त । द॒धि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ । अ॒र्वा॒ची॒नव्वँ॑सु॒विद॒म्भग॑न्नः । रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु । अश्वा॑वती॒र्गोम॑तीर्न उ॒षासः॑ । वी॒रव॑ती॒स्सद॑मुच्छन्तु भ॒द्राः । घृ॒तन्दुहा॑ना वि॒श्वत॒ᳶ प्रपी॑नाः । यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥ 79 ॥
वि॒च॒क्ष॒णा वि॑चर्तु॒रँ शर्म॒न्नधि॑ वि॒सर्ज॑नाय॒ ब्रह्म॒ वनं॒ ब्रह्म॒ स वृ॒क्ष आ॑सीत्तु॒रश्चि॑द्देवा॒ᳶ प्रपी॑ना॒ एक॑ञ्च ॥ 9 ॥
पीवो॑न्ना॒न्ते शु॒क्रास॒स्सोमो॑ धे॒नुमिन्द्र॒स्तर॑स्वा॒ञ्छुचि॒मा दे॒वो या॑तु॒ सूर्यो॑ दे॒वीम॒हम॑स्मि॒ ता सू॑र्याचन्द्र॒मसा॒ नव॑ ॥9॥ पीवो॑न्ना॒मग्ने॒ त्वं पा॑रयानाधृ॒ष्यश्शुचि॒न्नु वि॒श्रय॑माणो दि॒वो रु॒क्मोऽन्नं॑ प्रा॒णमन्न॒न्ता सू॑र्याचन्द्र॒मसा॒ नव॑सप्ततिः ॥79 ॥ पीवो॑न्नाय्यूँ॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥ हरिः॑ ओम् ॥ श्रीकृष्णार्पणमस्तु ॥ कृष्णयजुर्ब्राह्मणे द्वितीयाष्टके अष्टम प्रपाठकः द्वितीयाष्टकञ्च समाप्तम् ।