त्रि॒वृत्स्तोमो॑ भवति । ब्र॒ह्म॒व॒र्च॒सव्वैँ त्रि॒वृत् । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे । अ॒ग्नि॒ष्टो॒मस्सोमो॑ भवति । ब्र॒ह्म॒व॒र्च॒सव्वाँ अ॑ग्निष्टो॒मः । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे । र॒थ॒न्त॒रँ साम॑ भवति । ब्र॒ह्म॒व॒र्च॒सव्वैँ र॑थन्त॒रम् । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे । प॒रि॒स्र॒जी होता॑ भवति ॥1॥
अ॒रु॒णो मि॑र्मि॒रस्त्रिशु॑क्रः । ए॒तद्वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पम् । रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑रुन्धे । बृह॒स्पति॑रकामयत दे॒वाना॑म्पुरो॒धाङ्ग॑च्छेय॒मिति॑ । स ए॒तम्बृ॑हस्पतिस॒वम॑पश्यत् । तमाऽह॑रत् । तेना॑यजत । ततो॒ वै स दे॒वाना॑म्पुरो॒धाम॑गच्छत् । यᳶ पु॑रो॒धाका॑म॒स्स्यात् । स बृ॑हस्पतिस॒वेन॑ यजेत ॥2॥
पु॒रो॒धामे॒व ग॑च्छति । तस्य॑ प्रातस्सव॒ने स॒न्नेषु॑ नाराशँ॒सेषु॑ । एका॑दश॒ दक्षि॑णा नीयन्ते । एका॑दश॒ माध्य॑न्दिने॒ सव॑ने स॒न्नेषु॑ नाराशँ॒सेषु॑ । एका॑दश तृतीयसव॒ने स॒न्नेषु॑ नाराशँ॒सेषु॑ । त्रय॑स्त्रिँश॒त्सम्प॑द्यन्ते । त्रय॑स्त्रिँश॒द्वै दे॒वताः॑ । दे॒वता॑ ए॒वाव॑रुन्धे । अश्व॑श्चतुस्त्रिँ॒शः । प्रा॒जा॒प॒त्यो वा अश्वः॑ ॥3॥
प्र॒जाप॑तिश्चतुस्त्रिँ॒शो दे॒वता॑नाम् । याव॑तीरे॒व दे॒वताः॑ । ता ए॒वाव॑रुन्धे । कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति । ब्रह्म॑णो॒ वा ए॒तद्रू॒पम् । यत्कृ॑ष्णाजि॒नम् । ब्र॒ह्म॒व॒र्च॒सेनै॒वैनँ॒ सम॑र्धयति । आज्ये॑ना॒भिषि॑ञ्चति । तेजो॒ वा आज्य॑म् । तेज॑ ए॒वास्मि॑न्दधाति ॥4॥
होता॑ भवति यजेत॒ वा अश्वो॑ दधाति ॥ 1 ॥
यदा॑ग्ने॒यो भव॑ति । अ॒ग्निमु॑खा॒ ह्यृद्धिः॑ । अथ॒ यत्पौ॒ष्णः । पुष्टि॒र्वै पू॒षा । पुष्टि॒र्वैश्य॑स्य । पुष्टि॑मे॒वाव॑रुन्धे । प्र॒स॒वाय॑ सावि॒त्रः । अथ॒ यत्त्वा॒ष्ट्रः । त्वष्टा॒ हि रू॒पाणि॑ विक॒रोति॑ । नि॒र्व॒रु॒ण॒त्वाय॑ वारु॒णः ॥5॥
अथो॒ य ए॒व कश्च॒ सन्त्सू॒यते॑ । स हि वा॑रु॒णः । अथ॒ यद्वै॑श्वदे॒वः । वै॒श्व॒दे॒वो हि वैश्यः॑ । अथ॒ यन्मा॑रु॒तः । मा॒रु॒तो हि वैश्यः॑ । स॒प्तैतानि॑ ह॒वीँषि॑ भवन्ति । स॒प्तग॑णा॒ वै म॒रुतः॑ । पृश्ञि॑ᳶ पष्ठौ॒ही मा॑रु॒त्याल॑भ्यते । विड्वै म॒रुतः॑ । विश॑ ए॒वैतन्म॑ध्य॒तो॑ऽभिषि॑च्यते । तस्मा॒द्वा ए॒ष वि॒शᳶ प्रि॒यः । वि॒शो हि म॑ध्य॒तो॑ऽभिषि॒च्यते॑ । ऋ॒ष॒भ॒च॒र्मेऽध्य॒भिषि॑ञ्चति । स हि प्र॑जनयि॒ता । द॒ध्नाऽभिषि॑ञ्चति । ऊर्ग्वा अ॒न्नाद्य॒न्दधि॑ । ऊ॒र्जैवैन॑म॒न्नाद्ये॑न॒ सम॑र्धयति ॥6॥
वा॒रु॒णो विड्वै म॒रुतो॒ऽष्टौ च॑ ॥ 2 ॥
यदा॑ग्ने॒यो भव॑ति । आ॒ग्ने॒यो वै ब्रा॑ह्म॒णः । अथ॒ यत्सौ॒म्यः । सौ॒म्यो हि ब्रा॑ह्म॒णः । प्र॒स॒वायै॒व सा॑वि॒त्रः । अथ॒ यद्बा॑र्हस्प॒त्यः । ए॒तद्वै ब्रा॑ह्म॒णस्य॑ वाक्प॒तीय॑म् । अथ॒ यद॑ग्नीषो॒मीयः॑ । आ॒ग्ने॒यो वै ब्रा॑ह्म॒णः । तौ य॒दा स॒ङ्गच्छे॑ते ॥7॥
अथ॑ वी॒र्या॑वत्तरो भवति । अथ॒ यत्सा॑रस्व॒तः । ए॒तद्धि प्र॒त्यक्ष॑म्ब्राह्म॒णस्य॑ वाक्प॒तीय॑म् । नि॒र्व॒रु॒ण॒त्वायै॒व वा॑रु॒णः । अथो॒ य ए॒व कश्च॒ सन्त्सू॒यते॑ । स हि वा॑रु॒णः । अथ॒ यद्द्या॑वापृथि॒व्यः॑ । इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । तन्द्यावा॑पृथि॒वी नान्व॑मन्येताम् । तमे॒तेनै॒व भा॑ग॒धेये॒नान्व॑मन्येताम् ॥8॥
वज्र॑स्य॒ वा ए॒षो॑ऽनुमा॒नाय॑ । अनु॑मतवज्रस्सूयाता॒ इति॑ । अ॒ष्टावे॒तानि॑ ह॒वीँषि॑ भवन्ति । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्री ब्र॑ह्मवर्च॒सम् । गा॒य॒त्रि॒यैव ब॑ह्मवर्च॒समव॑रुन्धे । हिर॑ण्येन घृ॒तमुत्पु॑नाति । तेज॑स ए॒व रु॒चे । कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति । ब्रह्म॑णो॒ वा ए॒तदृ॑क्सा॒मयो॑ रू॒पम् । यत्कृ॑ष्णाजि॒नम् । ब्रह्म॑न्ने॒वैन॑मृक्सा॒मयो॒रध्य॒भिषि॑ञ्चति । घृ॒तेना॒भिषि॑ञ्चति । तथा॑ वी॒र्या॑वत्तरो भवति ॥9॥
स॒ङ्गच्छे॑ते भाग॒धेये॒नान्व॑मन्येताँ रू॒पञ्च॒त्वारि॑ च ॥ 3 ॥
न वै सोमे॑न॒ सोम॑स्य स॒वो॑ऽस्ति । ह॒तो ह्ये॑षः । अ॒भिषु॑तो॒ ह्ये॑षः । न हि ह॒तस्सू॒यते॑ । सौ॒मीँ सू॒तव॑शा॒माल॑भते । सोमो॒ वै रे॑तो॒धाः । रेत॑ ए॒व तद्द॑धाति । सौ॒म्यर्चाऽभिषि॑ञ्चति । रे॒तो॒धा ह्ये॑षा । रेत॒स्सोमः॑ । रेत॑ ए॒वास्मि॑न्दधाति । यत्किञ्च॑ राज॒सूय॑मृ॒ते सोम॑म् । तत्सर्व॑म्भवति । अषा॑ढय्युँ॒त्सु पृत॑नासु॒ पप्रि॑म् । सु॒व॒र्षाम॒प्स्वाव्वृँ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जाँ सु॑क्षि॒तिँ सु॒श्रव॑सम् । जय॑न्त॒न्त्वामनु॑ मदेम सोम ॥10॥
रेत॒स्सोम॑स्स॒प्त च॑ ॥ 4 ॥
यो वै सोमे॑न सू॒यते॑ । स दे॑वस॒वः । यᳶ प॒शुना॑ सू॒यते॑ । स दे॑वस॒वः । य इष्ट्या॑ सू॒यते॑ । स म॑नुष्यस॒वः । ए॒तव्वैँ पृथ॑ये दे॒वाᳶ प्राय॑च्छन् । ततो॒ वै सोऽप्या॑र॒ण्याना॑म्पशू॒नाम॑सूयत । याव॑ती॒ᳶ किय॑तीश्च प्र॒जा वाचव्ँ॒वद॑न्ति । तासाँ॒ सर्वा॑साँ सूयते ॥11॥
य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । ना॒रा॒श॒स्यर्चाऽभिषि॑ञ्चति । म॒नु॒ष्या॑ वै नरा॒शँसः॑ । नि॒ह्नुत्य॒ वावैतत् । अथा॒भिषि॑ञ्चति । यत्किञ्च॑ राज॒सूय॑मनुत्तरवे॒दीक॑म् । तत्सर्व॑म्भवति । ये मे॑ पञ्चा॒शत॑न्द॒दुः । अश्वा॑नाँ स॒धस्तु॑तिः । द्यु॒मद॑ग्ने॒ महि॒ श्रवः॑ । बृ॒हत्कृ॑धि म॒घोना॑म् । नृ॒वद॑मृत नृ॒णाम् ॥12॥
सू॒य॒ते॒ स॒धस्तु॑ति॒स्त्रीणि॑ च ॥ 5 ॥
ए॒ष गो॑स॒वः । ष॒ट्त्रिँ॒श उ॒क्थ्यो॑ बृ॒हत्सा॑मा । पव॑माने कण्वरथन्त॒रम्भ॑वति । यो वै वा॑ज॒पेयः॑ । स स॑म्राट्त्स॒वः । यो रा॑ज॒सूयः॑ । स व॑रुणस॒वः । प्र॒जाप॑ति॒स्स्वारा॑ज्यम्परमे॒ष्ठी । स्वारा॑ज्य॒ङ्गौरे॒व । गौरि॑व भवति ॥13॥
य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः । तद्धि स्वारा॑ज्यम् । अ॒युत॒न्दक्षि॑णाः । तद्धि स्वारा॑ज्यम् । प्र॒ति॒धुषा॒ऽभिषि॑ञ्चति । तद्धि स्वारा॑ज्यम् । अनु॑द्धते॒ वेद्यै॑ दक्षिण॒त आ॑हव॒नीय॑स्य बृह॒तस्स्तो॒त्रम्प्रत्य॒भिषि॑ञ्चति । इ॒यव्वाँव र॑थन्त॒रम् ॥14॥
अ॒सौ बृ॒हत् । अ॒नयो॑रे॒वैन॒मन॑न्तर्हितम॒भिषि॑ञ्चति । प॒शु॒स्तो॒मो वा ए॒षः । तेन॑ गोस॒वः । ष॒ट्त्रिँ॒शस्सर्वः॑ । रे॒वज्जा॒तस्सह॑सा वृ॒द्धः । क्ष॒त्राणा॑ङ्खत्र॒भृत्त॑मो वयो॒धाः । म॒हान्म॑हि॒त्वे त॑स्तभा॒नः । क्ष॒त्रे रा॒ष्ट्रे च॑ जागृहि । प्र॒जाप॑तेस्त्वा परमे॒ष्ठिन॒स्स्वारा॑ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह । स्वारा॑ज्यमे॒वैन॑ङ्गमयति ॥15॥
इ॒व॒ भ॒व॒ति॒ र॒थ॒न्त॒रमा॒हैक॑ञ्च ॥ 6 ॥
सिँ॒हे व्या॒घ्र उ॒त या पृदा॑कौ । त्विषि॑र॒ग्नौ ब्रा॑ह्म॒णे सूर्ये॒ या । इन्द्रय्ँ॒या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा सव्विँदा॒ना । या रा॑ज॒न्ये॑ दुन्दु॒भावाय॑तायाम् । अश्व॑स्य॒ क्रन्द्ये॒ पुरु॑षस्य मा॒यौ । इन्द्रय्ँ॒या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा सव्विँदा॒ना । या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये । त्विषि॒रश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑ ॥16॥
इन्द्रय्ँ॒या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा सव्विँदा॒ना । रथे॑ अ॒क्षेषु॑ वृष॒भस्य॒ वाजे॑ । वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे॑ । इन्द्रय्ँ॒या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा सव्विँदा॒ना । राड॑सि वि॒राड॑सि । स॒म्राड॑सि स्व॒राड॑सि । इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्त श्रीणामि । इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑स्वन्त श्रीणामि ॥17॥
इन्द्रा॑य त्वा॒ पय॑स्वते॒ पय॑स्वन्त श्रीणामि । इन्द्रा॑य॒ त्वाऽऽयु॑ष्मत॒ आयु॑ष्मन्त श्रीणामि । तेजो॑ऽसि । तत्ते॒ प्रय॑च्छामि । तेज॑स्वदस्तु मे॒ मुख॑म् । तेज॑स्व॒च्छिरो॑ अस्तु मे । तेज॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् । तेज॑सा॒ सम्पि॑पृग्धि मा । ओजो॑ऽसि । तत्ते॒ प्रय॑च्छामि ॥18॥
ओज॑स्वदस्तु मे॒ मुख॑म् । ओज॑स्व॒च्छिरो॑ अस्तु मे । ओज॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् । ओज॑सा॒ सम्पि॑पृग्धि मा । पयो॑ऽसि । तत्ते॒ प्रय॑च्छामि । पय॑स्वदस्तु मे॒ मुख॑म् । पय॑स्व॒च्छिरो॑ अस्तु मे । पय॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् । पय॑सा॒ सम्पि॑पृग्धि मा ॥19॥
आयु॑रसि । तत्ते॒ प्रय॑च्छामि । आयु॑ष्मदस्तु मे॒ मुखम्॑ । आयु॑ष्म॒च्छिरो॑ अस्तु मे । आयु॑ष्मान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् । आयु॑षा॒ सम्पि॑पृग्धि मा । इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि । प्रि॒यँ रेतो॑ वरुण सोम राजन् । मा॒तेवा॑स्मा अदिते॒ शर्म॑ यच्छ । विश्वे॑ देवा॒ जर॑दष्टि॒र्यथाऽस॑त् ॥20॥
आयु॑रसि वि॒श्वायु॑रसि । स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि । यतो॒ वातो॒ मनो॑जवाः । यतः॒ क्षर॑न्ति॒ सिन्ध॑वः । तासा॑न्त्वा॒ सर्वा॑साँ रु॒चा । अ॒भिषि॑ञ्चामि॒ वर्च॑सा । स॒मु॒द्र इ॑वासि ग॒ह्मना॑ । सोम॑ इवा॒स्यदा॑भ्यः । अ॒ग्निरि॑व वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् । सूर्य॑ इव॒ ज्योति॑षा वि॒भूः ॥21॥
अ॒पाय्योँ द्रव॑णे॒ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि । अ॒पाय्यँ ऊ॒र्मौ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । ओज॑से वी॒र्या॑य गृह्णामि । अ॒पाय्योँ म॑ध्य॒तो रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । पुष्ट्यै॑ प्र॒जन॑नाय गृह्णामि । अ॒पाय्योँ य॒ज्ञियो॒ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । आयु॑षे दीर्घायु॒त्वाय॑ गृह्णामि ॥22॥
गोष्वोज॑स्वन्त श्रीणा॒म्योजो॑ऽसि॒ तत्ते॒ प्रय॑च्छामि॒ पय॑सा॒ संपि॑पृग्धि॒ माऽस॑द्वि॒भूर्य॒ज्ञियो॒ रसो॒ द्वे च॑ ॥ 7 ॥
अ॒भिप्रेहि॑ वी॒रय॑स्व । उ॒ग्रश्चेत्ता॑ सपत्न॒हा । आति॑ष्ठ मित्र॒वर्ध॑नः । तुभ्य॑न्दे॒वा अधि॑ब्रवन् । अ॒ङ्कौ न्य॒ङ्काव॒भित॒ आति॑ष्ठ वृत्रह॒न्रथ॑म् । आ॒तिष्ठ॑न्त॒म्परि॒ विश्वे॑ अभूषन् । श्रियव्ँ॒वसा॑नश्चरति॒ स्वरो॑चाः । म॒हत्तद॒स्यासु॑रस्य॒ नाम॑ । आ वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ । अनु॒ त्वेन्द्रो॑ मद॒त्वनु॒ बृह॒स्पतिः॑ ॥23॥
अनु॒ सोमो॒ अन्व॒ग्निरा॑वीत् । अनु॑ त्वा॒ विश्वे॑ दे॒वा अ॑वन्तु । अनु॑ स॒प्त राजा॑नो॒ य उ॒ताभिषि॑क्ताः । अनु॑ त्वा मि॒त्रावरु॑णावि॒हाव॑तम् । अनु॒ द्यावा॑पृथि॒वी वि॒श्वश॑म्भू । सूर्यो॒ अहो॑भि॒रनु॑ त्वाऽवतु । च॒न्द्रमा॒ नक्ष॑त्रै॒रनु॑ त्वाऽवतु । द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा । शु॒क्रो बृ॒हद्दक्षि॑णा त्वा पिपर्तु । अनु॑ स्व॒धा चि॑किताँ॒ सोमो॑ अ॒ग्निः । आऽयम्पृ॑णक्तु॒ रज॑सी उ॒पस्थ॑म् ॥24॥
बृह॒स्पति॒स्सोमो॑ अ॒ग्निरेक॑ञ्च ॥ 8 ॥
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत । ता अ॑स्मात्सृ॒ष्टाᳶ परा॑चीरायन् । स ए॒तम्प्र॒जाप॑तिरोद॒नम॑पश्यत् । सोऽन्न॑म्भू॒तो॑ऽतिष्ठत् । ता अ॒न्यत्रा॒न्नाद्य॒मवि॑त्वा । प्र॒जाप॑तिम्प्र॒जा उ॒पाव॑र्तन्त । अन्न॑मे॒वैन॑म्भू॒तम्पश्य॑न्तीᳶ प्र॒जा उ॒पाव॑र्तन्ते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । सर्वा॒ण्यन्ना॑नि भवन्ति ॥25॥
सर्वे॒ पुरु॑षाः । सर्वा॑ण्ये॒वान्ना॒न्यव॑रुन्धे । सर्वा॒न्पुरु॑षान् । राड॑सि वि॒राड॒सीत्या॑ह । स्वारा॑ज्यमे॒वैन॑ङ्गमयति । यद्धिर॑ण्य॒न्ददा॑ति । तेज॒स्तेनाव॑रुन्धे । यत्ति॑सृध॒न्वम् । वी॒र्य॑न्तेन॑ । यदष्ट्रा॑म् ॥26॥
पुष्टि॒न्तेन॑ । यत्क॑म॒ण्डलु॑म् । आयु॒ष्टेन॑ । यद्धिर॑ण्यमाब॒ध्नाति॑ । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒वास्मि॑न्दधाति । अथो॒ तेजो॒ वै हिर॑ण्यम् । तेज॑ ए॒वात्मन्ध॑त्ते । यदो॑द॒नम्प्रा॒श्ञाति॑ । ए॒तदे॒व सर्व॑मव॒रुध्य॑ ॥27॥
तद॑स्मिन्नेक॒धाऽधा॑त् । रो॒हि॒ण्याङ्का॒र्यः॑ । यद्ब्रा॑ह्म॒ण ए॒व रो॑हि॒णी । तस्मा॑दे॒व । अथो॒ वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करोति । उ॒द्य॒ता सूर्ये॑ण का॒र्यः॑ । उ॒द्यन्तव्ँ॒वा ए॒तँ सर्वा॑ᳶ प्र॒जाᳶ प्रति॑नन्दन्ति । दि॒दृ॒क्षेण्यो॑ दर्श॒नीयो॑ भवति । य ए॒वव्वेँद॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ॥28॥
अ॒वेत्यो॑ऽवभृ॒था३ ना३ इति॑ । यद्द॑र्भपुञ्जी॒लैᳶ प॒वय॑ति । तत्स्वि॑दे॒वावै॑ति । तन्नावै॑ति । त्रि॒भिᳶ प॑वयति । त्रय॑ इ॒मे लो॒काः । ए॒भिरे॒वैनल्ँ॑ लो॒कैᳶ प॑वयति । अथो॑ अ॒पाव्वाँ ए॒तत्तेजो॒ वर्चः॑ । यद्द॒र्भाः । यद्द॑र्भपुञ्जी॒लैᳶ प॒वय॑ति । अ॒पामे॒वैन॒न्तेज॑सा॒ वर्च॑सा॒ऽभिषि॑ञ्चति ॥29॥
भ॒व॒न्त्यष्ट्रा॑मव॒रुध्य॑ वदन्ति द॒र्भा यद्द॑र्भपुञ्जी॒लैᳶ प॒वय॒त्येक॑ञ्च ॥ 9 ॥
प्र॒जाप॑तिरकामयत ब॒होर्भूया॑न्त्स्या॒मिति॑ । स ए॒तम्प॑ञ्चशार॒दीय॑मपश्यत् । तमाऽह॑रत् । तेना॑यजत । ततो॒ वै स ब॒होर्भूया॑नभवत् । यᳶ का॒मये॑त ब॒होर्भूया॑न्त्स्या॒मिति॑ । स प॑ञ्चशार॒दीये॑न यजेत । ब॒होरे॒व भूया॑न्भवति । म॒रु॒त्स्तो॒मो वा ए॒षः । म॒रुतो॒ हि दे॒वाना॒म्भूयि॑ष्ठाः ॥30 ॥
ब॒हुर्भ॑वति । य ए॒तेन॒ यज॑ते । य उ॑चैनमे॒वव्वेँद॑ । प॒ञ्च॒शा॒र॒दीयो॑ भवति । पञ्च॒ वा ऋ॒तव॑स्सव्वँत्स॒रः । ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑तिष्ठति । अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः । पाङ्क्तो॑ य॒ज्ञः । य॒ज्ञमे॒वाव॑रुन्धे । स॒प्त॒द॒श स्तोमा॒ नाति॑यन्ति । स॒प्त॒द॒शᳶ प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै॑ ॥31॥
भूयि॑ष्ठा यन्ति॒ द्वे च॑ ॥ 10 ॥
अ॒गस्त्यो॑ म॒रुद्भ्य॑ उ॒क्ष्णᳶ प्रौक्ष॑त् । तानिन्द्र॒ आद॑त्त । त ए॑नव्ँ॒वज्र॑मु॒द्यत्या॒भ्या॑यन्त । तान॒गस्त्य॑श्चै॒वेन्द्र॑श्च कयाशु॒भीये॑नाशमयताम् । ताञ्छा॒न्तानुपा॑ह्वयत । यत्क॑याशु॒भीय॒म्भव॑ति॒ शान्त्यै॑ । तस्मा॑दे॒त ऐ॑न्द्रामारु॒ता उ॒क्षाण॑स्सव॒नीया॑ भवन्ति । त्रय॑ᳶ प्रथ॒मेऽह॒न्नाल॑भ्यन्ते । ए॒वन्द्वि॒तीये॑ । ए॒वन्तृ॒तीये॑ ॥32॥
ए॒वञ्च॑तु॒र्थे । पञ्चो॑त्त॒मेऽह॒न्ना ल॑भ्यन्ते । वर्षि॑ष्ठमिव॒ ह्ये॑तदहः॑ । वर्षि॑ष्ठस्समा॒नाना॑म्भवति । य ए॒तेन॒ यज॑ते । य उ॑चैनमे॒वव्वेँद॑ । स्वारा॑ज्यव्ँ॒वा ए॒ष य॒ज्ञः । ए॒तेन॒ वा एक॒यावा॑ कान्द॒मस्स्वारा॑ज्यमगच्छत् । स्वरा॑ज्यङ्गच्छति । य ए॒तेन॒ यज॑ते ॥33॥
य उ॑ चैनमे॒वव्वेँद॑ । मा॒रु॒तो वा ए॒ष स्तोमः॑ । ए॒तेन॒ वै म॒रुतो॑ दे॒वाना॒म्भूयि॑ष्ठा अभवन् । भूयि॑ष्ठस्समा॒नाना॑म्भवति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । प॒ञ्च॒शा॒र॒दीयो॒ वा ए॒ष य॒ज्ञः । आ प॑ञ्च॒मात्पुरु॑षा॒दन्न॑मत्ति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । स॒प्त॒द॒श स्तोमा॒ नाति॑यन्ति । स॒प्त॒द॒शᳶ प्र॒जाप॑तिः । प्र॒जाप॑तेरे॒व नैति॑ ॥34॥
तृ॒तीये॑ गच्छति॒ य ए॒तेन॒ यज॑तेऽत्ति॒ य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्वेँद॒ त्रीणि॑ च ॥ 11 ॥ (अ॒गस्त्य॒स्स्वारा॑ज्यं मारु॒तᳶ प॑ञ्चशार॒दीयो॒ वा ए॒ष य॒ज्ञस्स॑प्तद॒शं प्र॒जाप॑तेरे॒व नैति॑ ॥ )
अ॒स्या जरा॑सो द॒मा म॒रित्राः॑ । अ॒र्चद्धू॑मासो अ॒ग्नय॑ᳶ पाव॒काः । श्वि॒ची॒चय॑श्श्वा॒त्रासो॑ भुर॒ण्यवः॑ । व॒न॒र्षदो॑ वा॒यवो॒ न सोमाः॑ । यजा॑ नो मि॒त्रावरु॑णा । यजा॑ दे॒वाँ ऋ॒तम्बृ॒हत् । अग्ने॒ यक्षि॒ स्वन्दम॑म् । अश्वि॑ना॒ पिब॑तँ सु॒तम् । दीद्य॑ग्नी शुचिव्रता । ऋ॒तुना॑ यज्ञवाहसा ॥ 35॥
द्वे विरू॑पे चरत॒स्स्वर्थे॑ । अ॒न्याऽन्या॑ व॒त्समुप॑धापयेते । हरि॑र॒न्यस्या॒म्भव॑ति स्व॒धावा॑न् । शु॒क्रो अ॒न्यस्या॑न्ददृशे सु॒वर्चाः॑ । पू॒र्वा॒प॒रञ्च॑रतो मा॒ययै॒तौ । शिशू॒ क्रीड॑न्तौ॒ परि॑यातो अध्व॒रम् । विश्वा॑न्य॒न्यो भुव॑नाऽभि॒चष्टे॑ । ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ । त्रीणि॑ श॒ता त्रीष॒हस्रा॑ण्य॒ग्निम् । त्रिँ॒शच्च॑ दे॒वा नव॑ चाऽसपर्यन्न् ॥36॥
औक्ष॑न्घृ॒तैरास्तृ॑णन्ब॒र्हिर॑स्मै । आदिद्धोता॑र॒न्न्य॑षादयन्त । अ॒ग्निना॒ऽग्निस्समि॑ध्यते । क॒विर्गृ॒हप॑ति॒र्युवा॑ । ह॒व्य॒वाड्जु॒ह्वा॑स्यः । अ॒ग्निर्दे॒वाना॑ञ्ज॒ठर॑म् । पू॒तद॑क्षᳶ क॒विक्र॑तुः । दे॒वो दे॒वेभि॒राग॑मत् । अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टयः । आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् ॥37॥
ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः । सिँ॒हा न हे॒षक्र॑तवस्सु॒दान॑वः । यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॑ । यद्वा॑ऽव॒मे सु॑भगासो दि॒वि ष्ठ । ततो॑ नो रुद्रा उ॒त वा॒ऽन्वस्य॑ । अग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑मः । ईडे॑ अ॒ग्नि स्वव॑स॒न्नमो॑भिः । इ॒ह प्र॑स॒प्तो वि च॑ यत्कृ॒तन्नः॑ । रथै॑रिव॒ प्रभ॑रे वाज॒यद्भिः॑ । प्र॒द॒क्षि॒णिन्म॒रुताँ॒ स्तोम॑मृद्ध्याम् ॥38॥
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिः । दे॒वैर॑ग्ने स॒याव॑भिः । आसी॑दन्तु ब॒र्हिषि॑ । मि॒त्रो वरु॑णो अर्य॒मा । प्रा॒त॒र्यावा॑णो अध्व॒रम् । विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नाम् । विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् । अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः । सु॒मृ॒डी॒को भवतु वि॒श्ववे॑दाः । त्वे अ॑ग्ने सुम॒तिम्भिक्ष॑माणाः ॥39॥
दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः । नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे । कृ॒ष्णञ्च॒ वर्ण॑मरु॒णञ्च॒ सन्धुः॑ । त्वाम॑ग्न आदि॒त्यास॑ आ॒स्य॑म् । त्वाञ्जि॒ह्वाँ शुच॑यश्चक्रिरे कवे । त्वाँ रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे । त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् । नि त्वा॑ य॒ज्ञस्य॒ साध॑नम् । अग्ने॒ होता॑रमृ॒त्विज॑म् । व॒नु॒ष्वद्दे॑व धीमहि॒ प्रचे॑तसम् । जी॒रन्दू॒तमम॑र्त्यम् ॥40॥
य॒ज्ञ॒वा॒ह॒सा॒स॒प॒र्य॒न्व॒यमृ॑द्ध्यां॒ भिक्ष॑माणाः॒ प्रचे॑तस॒मेक॑ञ्च ॥ 12 ॥
तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि । वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ । पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे । इन्द्र॒स्स्वाहा॑ ररि॒मा ते॒ मदा॑य । कस्य॒ वृषा॑ सु॒ते सचा॑ । नि॒युत्वा॑न्वृष॒भो र॑णत् । वृ॒त्र॒हा सोम॑पीतये । इन्द्रव्ँ॑व॒यम्म॑हाध॒ने । इन्द्र॒मर्भे॑ हवामहे । युज॑व्वृँ॒त्रेषु॑ व॒ज्रिण॑म् ॥41॥
द्वि॒ता यो वृ॑त्र॒हन्त॑मः । वि॒द इन्द्र॑श्श॒तक्र॑तुः । उप॑ नो॒ हरि॑भिस्सु॒तम् । स सूर॒ आज॒नय॒ञ्ज्योति॒रिन्द्र॑म् । अ॒या धि॒या त॒रणि॒रद्रि॑बर्हाः । ऋ॒तेन॑ शु॒ष्मी नव॑मानो अ॒र्कैः । व्यु॑स्रिधो॑ अ॒स्रो अद्रि॑र्बिभेद । उ॒तत्यदा॒श्वश्वि॑यम् । यदि॑न्द्र॒ नाहु॑षी॒ष्वा । अग्रे॑ वि॒क्षु प्रतीद॑यत् ॥42॥
भरे॒ष्विन्द्रँ॑ सु॒हवँ॑ हवामहे । अँ॒हो॒मुचँ॑ सु॒कृत॒न्दैव्य॒ञ्जन॑म् । अ॒ग्निम्मि॒त्रव्वँरु॑णँ सा॒तये॒ भग॑म् । द्यावा॑पृथि॒वी म॒रुत॑स्स्व॒स्तये॑ । म॒हि क्षेत्र॑म्पु॒रुश्च॒न्द्रव्विँ वि॒द्वान् । आदित्सखि॑भ्यश्च॒रथँ॒ समै॑रत् । इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नस्सा॒कम् । सूर्य॑मु॒षस॑ङ्गा॒तुम॒ग्निम् । उ॒रुन्नो॑ लो॒कमनु॑नेषि वि॒द्वान् । सुव॑र्व॒ज्ज्योति॒रभ॑य स्व॒स्ति ॥43॥
ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू । उप॑स्थेयाम शर॒णा बृ॒हन्ता॑ । आ नो॒ विश्वा॑भिरू॒तिभि॑स्स॒जोषाः॑ । ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि । वरी॑वृज॒त्स्थवि॑रेभिस्सुशिप्र । अ॒स्मे दध॒द्वृष॑णँ॒ शुष्म॑मिन्द्र । इन्द्रा॑य॒ गाव॑ आ॒शिर॑म् । दु॒दु॒ह्रे व॒ज्रिणे॒ मधु॑ । यत्सी॑मुपह्व॒रे वि॒दत् । तास्ते॑ वज्रिन्धे॒नवो॑ जोजयुर्नः ॥44॥
गभ॑स्तयो नि॒युतो॑ वि॒श्ववा॑राः । अह॑रह॒र्भूय॒ इज्जोगु॑वानाः । पू॒र्णा इ॑न्द्र क्षु॒मतो॒ भोज॑नस्य । इ॒मान्ते॒ धिय॒म्प्र भ॑रे म॒हो म॒हीम् । अ॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे । तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिम् । इन्द्र॑न्दे॒वास॒श्शव॑सा मद॒न्ननु॑ ॥45॥
व॒ज्रिण॑मयत्स्व॒स्ति जो॑जयुर्नस्स॒प्त च॑ ॥ 13 ॥
प्र॒जाप॑तिᳶ प॒शून॑सृजत । ते॑ऽस्मात्सृ॒ष्टाᳶ परा॑ञ्च आयन् । तान॑ग्निष्टो॒मेन॒ नाप्नो॑त् । तानु॒क्थ्ये॑न॒ नाप्नो॑त् । तान्त्षो॑ड॒शिना॒ नाप्नो॑त् । तान्रात्रि॑या॒ नाप्नो॑त् । तान्त्स॒न्धिना॒ नाप्नो॑त् । सो॑ऽग्निम॑ब्रवीत् । इ॒मान्म॑ ई॒प्सेति॑ । तान॒ग्निस्त्रि॒वृता॒ स्तोमे॑न॒ नाप्नो॑त् ॥46॥
स इन्द्र॑मब्रवीत् । इ॒मान्म॑ ई॒प्सेति॑ । तानिन्द्र॑ᳶ पञ्चद॒शेन॒ स्तोमे॑न॒ नाप्नो॑त् । स विश्वा॑न्दे॒वान॑ब्रवीत् । इ॒मान्म॑ ईप्स॒तेति॑ । तान् विश्वे॑ दे॒वास्स॑प्तद॒शेन॒ स्तोमे॑न॒ नाप्नु॑वन् । स विष्णु॑मब्रवीत् । इ॒मान्म॑ ई॒प्सेति॑ । तान् विष्णु॑रेकविँ॒शेन॒ स्तोमे॑नाप्नोत् । वा॒र॒व॒न्तीये॑नावारयत ॥47॥
इ॒दव्विँष्णु॒र्विच॑क्रम॒ इति॒ व्य॑क्रमत । यस्मा॑त्प॒शव॒ᳶ प्रप्रेव॒ भ्रँशे॑रन् । स ए॒तेन॑ यजेत । यदाप्नो॑त् । तद॒प्तोर्याम॑स्याप्तोर्याम॒त्वम् । ए॒तेन॒ वै दे॒वा जैत्वा॑नि जि॒त्वा । यङ्काम॒मका॑मयन्त॒ तमा॑प्नुवन् । यङ्काम॑ङ्का॒मय॑ते । तमे॒तेना॑प्नोति ॥48॥
स्तोमे॑न॒ नाप्नो॑दवारयत॒ नव॑ च ॥ 14 ॥
व्या॒घ्रो॑ऽयम॒ग्नौ च॑रति॒ प्रवि॑ष्टः । ऋषी॑णाम्पु॒त्रो अ॑भिशस्ति॒पा अ॒यम् । न॒म॒स्का॒रेण॒ नम॑सा ते जुहोमि । मा दे॒वाना॑म्मिथु॒याक॑र्म भा॒गम् । सावी॒र्हि दे॑व प्रस॒वाय॑ पित्रे । व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै । अथा॒स्मभ्यँ॑ सवितस्स॒र्वता॑ता । दि॒वेदि॑व॒ आ सु॑वा॒ भूरि॑ प॒श्वः । भू॒तो भू॒तेषु॑ चरति॒ प्रवि॑ष्टः । स भू॒ताना॒मधि॑पतिर्बभूव ॥49॥
तस्य॑ मृ॒त्यौ च॑रति राज॒सूय॑म् । स राजा॑ रा॒ज्यमनु॑मन्यतामि॒दम् । येभि॒श्शिल्पै॑ᳶ पप्रथा॒नामदृँ॑हत् । येभि॒र्द्याम॒भ्यपिँ॑शत्प्र॒जाप॑तिः । येभि॒र्वाचव्ँ॑वि॒श्वरू॑पाँ स॒मव्य॑यत् । तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि । येभि॑रादि॒त्यस्तप॑ति॒ प्र के॒तुभिः॑ । येभि॒स्सूर्यो॑ ददृ॒शे चि॒त्रभा॑नुः । येभि॒र्वाच॑म्पुष्क॒लेभि॒रव्य॑यत् । तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि ॥50॥
आऽयम्भा॑तु॒ शव॑सा॒ पञ्च॑ कृ॒ष्टीः । इन्द्र॑ इव ज्ये॒ष्ठो भ॑वतु प्र॒जावा॑न् । अ॒स्मा अ॑स्तु पुष्क॒लञ्चि॒त्रभा॑नु । आऽयम्पृ॑णक्तु॒ रज॑सी उ॒पस्थ॑म् । यत्ते॒ शिल्प॑ङ्कश्यप रोच॒नाव॑त् । इ॒न्द्रि॒याव॑त्पुष्क॒लञ्चि॒त्रभा॑नु । यस्मि॒न्त्सूर्या॒ अर्पि॑तास्स॒प्त सा॒कम् । तस्मि॒न्राजा॑न॒मधि॒ विश्र॑ये॒मम् । द्यौर॑सि पृथि॒व्य॑सि । व्या॒घ्रो वैया॒घ्रेऽधि॑ ॥51॥
विश्र॑यस्व॒ दिशो॑ म॒हीः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु । मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् । या दि॒व्या आप॒ᳶ पय॑सा सम्बभू॒वुः । या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः । तासा॑न्त्वा॒ सर्वा॑साँ रु॒चा । अ॒भिषि॑ञ्चामि॒ वर्च॑सा । अ॒भि त्वा॒ वर्च॑साऽसिचन्दि॒व्येन॑ । पय॑सा स॒ह । यथासा॑ राष्ट्र॒वर्ध॑नः ॥52॥
तथा॑ त्वा सवि॒ता क॑रत् । इन्द्रव्ँ॒विश्वा॑ अवीवृधन् । स॒मु॒द्रव्य॑चस॒ङ्गिरः॑ । र॒थीत॑मँ रथी॒नाम् । वाजा॑नाँ॒ सत्प॑ति॒म्पति॑म् । वस॑वस्त्वा पु॒रस्ता॑द॒भिषि॑ञ्चन्तु गाय॒त्रेण॒ छन्द॑सा । रु॒द्रास्त्वा॑ दक्षिण॒तो॑ऽभिषि॑ञ्चन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा । आ॒दि॒त्यास्त्वा॑ प॒श्चाद॒भिषि॑ञ्चन्तु॒ जाग॑तेन॒ छन्द॑सा । विश्वे॑ त्वा दे॒वा उ॑त्तर॒तो॑ऽभिषि॑ञ्च॒न्त्वानु॑ष्टुभेन॒ छन्द॑सा । बृह॒स्पति॑स्त्वो॒परि॑ष्टाद॒भिषि॑ञ्चतु॒ पाङ्क्ते॑न॒ छन्द॑सा ॥53॥
अ॒रु॒णन्त्वा॒ वृक॑मु॒ग्रङ्ख॑जङ्क॒रम् । रोच॑मानम्म॒रुता॒मग्रे॑ अ॒र्चिषः॑ । सूर्य॑वन्तम्म॒घवा॑नव्विँषास॒हिम् । इन्द्र॑मु॒क्थेषु॑ नाम॒हूत॑मँ हुवेम । प्र बा॒हवा॑ सिसृतञ्जी॒वसे॑ नः । आ नो॒ गव्यू॑तिमुक्षतङ्घृ॒तेन॑ । आ नो॒ जने॑ श्रवयतय्युँवाना । श्रु॒तम्मे॑ मित्रावरुणा॒ हवे॒मा । इन्द्र॑स्य ते वीर्य॒कृतः॑ । बा॒हू उ॒पाव॑हरामि ॥54॥
ब॒भू॒वाव्य॑य॒त्तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि॒ वैया॒घ्रेऽधि॑ राष्ट्र॒वर्ध॑न॒ᳶपाङ्क्ते॑न॒ छन्द॑सो॒पाव॑हरामि ॥ 15 ॥
अ॒भिप्रेहि॑ वी॒रय॑स्व । उ॒ग्रश्चेत्ता॑ सपत्न॒हा । आति॑ष्ठ वृत्र॒हन्त॑मः । तुभ्य॑न्दे॒वा अधि॑ब्रवन् । अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथय्ँ॒यौ । ध्वा॒न्तव्वाँ॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ । दू॒रेहे॑तिरिन्द्रि॒यावा॑न्पत॒त्री । ते नो॒ऽग्नय॒ᳶ पप्र॑यᳶ पारयन्तु । नम॑स्त ऋषे गद । अव्य॑थायै त्वा स्व॒धायै॑ त्वा ॥55॥
मा न॑ इन्द्रा॒भित॒स्त्वदृ॒ष्वारि॑ष्टासः । ए॒वा ब्र॑ह्म॒न्तवेद॑स्तु । तिष्ठा॒ रथे॒ अधि॒ यद्वज्र॑हस्तः । आ र॒श्मीन्दे॑व युवसे॒ स्वश्वः॑ । आति॑ष्ठ वृत्रहन्ना॒तिष्ठ॑न्त॒म्परि॑ । अनु॒ त्वेन्द्रो॑ मद॒त्वनु॑ त्वा मि॒त्रावरु॑णौ । द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा । शु॒क्रो बृ॒हद्दक्षि॑णा त्वा पिपर्तु । अनु॑ स्व॒धा चि॑किताँ॒ सोमो॑ अ॒ग्निः । अनु॑ त्वाऽवतु सवि॒ता स॒वेन॑ ॥56॥
इन्द्रव्ँ॒विश्वा॑ अवीवृधन् । स॒मु॒द्रव्य॑चस॒ङ्गिरः॑ । र॒थीत॑मँ रथी॒नाम् । वाजा॑नाँ॒ सत्प॑ति॒म्पति॑म् । परि॑मा से॒न्या घोषाः॑ । ज्याना॑व्वृँञ्जन्तु गृ॒ध्नवः॑ । मे॒थि॒ष्ठाᳶ पिन्व॑माना इ॒ह । माङ्गोप॑तिम॒भि सव्विँ॑शन्तु । तन्मेऽनु॑मति॒रनु॑ मन्यताम् । तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ॥57॥
तद्ग्रावा॑णस्सोम॒सुतो॑ मयो॒भुवः॑ । तद॑श्विना शृणुतँ सौभगा यु॒वम् । अव॑ ते॒ हेड॒ उदु॑त्त॒मम् । ए॒ना व्या॒घ्रम्प॑रिषस्वजा॒नाः । सिँ॒हँ हि॑न्वन्ति मह॒ते सौभ॑गाय । स॒मु॒द्रन्न सु॒हुव॑न्तस्थि॒वाँस॑म् । म॒र्मृ॒ज्यन्ते॑ द्वी॒पिन॑म॒प्स्व॑न्तः । उद॒सावे॑तु॒ सूर्यः॑ । उदि॒दम्मा॑म॒कव्वँचः॑ । उदि॑हि देव सूर्य । स॒ह व॒ग्नुना॒ मम॑ । अ॒हव्वाँ॒चो वि॒वाच॑नम् । मयि॒ वाग॑स्तु धर्ण॒सिः । यन्तु॑ न॒दयो॒ वर्ष॑न्तु प॒र्जन्याः॑ । सु॒पि॒प्प॒ला ओष॑धयो भवन्तु । अन्न॑वतामोद॒नव॑तामा॒मिक्ष॑वताम् । ए॒षाँ राजा॑ भूयसाम् ॥58॥
स्व॒धायै॑ त्वा स॒वेन॒ द्यौस्सू॑र्य स॒प्त च॑ ॥ 16 ॥
ये के॒शिन॑ᳶ प्रथ॒मास्स॒त्रमास॑त । येभि॒राभृ॑तय्ँ॒यदि॒दव्विँ॒रोच॑ते । तेभ्यो॑ जुहोमि बहु॒धा घृ॒तेन॑ । रा॒यस्पोषे॑णे॒मव्वँर्च॑सा॒ सँ सृ॑जाथ । नर्ते ब्रह्म॑ण॒स्तप॑सो विमो॒कः । द्वि॒नाम्नी॑ दी॒क्षा व॒शिनी॒ ह्यु॑ग्रा । प्र केशा॑स्सु॒वते॑ का॒ण्डिनो॑ भवन्ति । तेषा॑म्ब्र॒ह्मेदीशे॒ वप॑नस्य॒ नान्यः । आ रो॑ह॒ प्रोष्ठव्ँ॒विष॑हस्व॒ शत्रू॑न् । अवा॑स्राग्दी॒क्षा व॒शिनी॒ ह्यु॑ग्रा ॥59॥
दे॒हि दक्षि॑णा॒म्प्रति॑र॒स्वायुः॑ । अथा॑मुच्यस्व॒ वरु॑णस्य॒ पाशा॑त् । येनाव॑पत्सवि॒ता क्षु॒रेण॑ । सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् । तेन॑ ब्रह्माणो वपते॒दम॒स्योर्जेमम् । र॒य्या वर्च॑सा॒ सँसृ॑जाथ । मा ते॒ केशा॒ननु॑ गा॒द्वर्च॑ ए॒तत् । तथा॑ धा॒ता क॑रोतु ते । तुभ्य॒मिन्द्रो॒ बृह॒स्पतिः॑ । स॒वि॒ता वर्च॒ आद॑धात् ॥60॥
तेभ्यो॑ नि॒धान॑म्बहु॒धा व्यैच्छ॑न् । अ॒न्त॒रा द्यावा॑पृथि॒वी अ॒पस्सुवः॑ । द॒र्भ॒स्त॒म्बे वी॒र्य॑कृते नि॒धाय॑ । पौँस्ये॑ने॒मव्वँर्च॑सा॒ सँसृ॑जाथ । बल॑न्ते बाहु॒वोस्स॑वि॒ता द॑धातु । सोम॑स्त्वाऽनक्तु॒ पय॑सा घृ॒तेन॑ । स्त्री॒षु रू॒पम॑श्विनै॒तन्निध॑त्तम् । पौँस्ये॑ने॒मव्वँर्च॑सा॒ सँसृ॑जाथ । यत्सी॒मन्त॒ङ्कङ्क॑तस्ते लि॒लेख॑ । यद्वा॑ क्षु॒रᳶ प॑रिव॒वर्ज॒ वपँ॑स्ते । स्त्री॒षु रू॒पम॑श्विनै॒तन्निध॑त्तम् । पौँस्ये॑ने॒मँ सँसृ॑जाथो वी॒र्ये॑ण ॥61॥
अवा॑स्राग्दी॒क्षा व॒शिनी॒ ह्यु॑ग्राऽद॑धाद्व॒वर्ज॒ वप॑ स्ते॒ द्वे च॑ ॥ 17 ॥
इन्द्रव्ँ॒ वै स्वाविशो॑ म॒रुतो॒ नापा॑चायन् । सोऽन॑पचाय्यमान ए॒तव्विँ॑घ॒नम॑पश्यत् । तमाऽह॑रत् । तेना॑यजत । तेनै॒वासा॒न्तँ स॑ स्त॒म्भव्व्यँ॑हन् । यद्व्यह॑न् । तद्वि॑घ॒नस्य॑ विघन॒त्वम् । वि पा॒प्मान॒म्भ्रातृ॑व्यँ हते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ ॥62॥
यँ राजा॑नव्ँ॒विशो॒ नाप॒चाये॑युः । यो वा॑ ब्राह्म॒णस्तम॑सा पा॒प्मना॒ प्रावृ॑त॒स्स्यात् । स ए॒तेन॑ यजेत । वि॒घ॒नेनै॒वैन॑द्वि॒हत्य॑ । वि॒शामाधि॑पत्यङ्गच्छति । तस्य॒ द्वे द्वा॑द॒शे स्तो॒त्रे भव॑तः । द्वे च॑तुर्विँ॒शे । औद्भि॑द्यमे॒व तत् । ए॒तद्वै क्ष॒त्रस्यौद्भि॑द्यम् । यद॑स्मै॒ स्वाविशो॑ ब॒लिँ हर॑न्ति ॥63॥
हर॑न्त्यस्मै॒ विशो॑ ब॒लिम् । ऐन॒मप्र॑तिख्यातङ्गच्छति । य ए॒वव्वेँद॑ । प्र॒बाहु॒ग्वा अग्रे॑ क्ष॒त्राण्याते॑पुः । तेषा॒मिन्द्रः॑ क्ष॒त्राण्याद॑त्त । न वा इ॒मानि॑ क्ष॒त्राण्य॑भूव॒न्निति॑ । तन्नक्ष॑त्राणन्नक्षत्र॒त्वम् । आ श्रेय॑सो॒ भ्रातृ॑व्यस्य॒ तेज॑ इन्द्रि॒यन्द॑त्ते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ ॥ 64॥
तद्यथा॑ ह॒ वै स॑च॒क्रिणौ॒ कप्ल॑कावु॒पाव॑हितौ॒ स्याता॑म् । ए॒वमे॒तौ यु॒ग्मन्तौ॒ स्तोमौ॑ । अ॒युक्षु॒ स्तोमे॑षु क्रियेते । पा॒प्मनोऽप॑हत्यै । अप॑ पा॒प्मान॒म्भ्रातृ॑व्यँ हते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्वेँद॑ । तद्यथा॑ ह॒ वै सू॑तग्राम॒ण्यः॑ । ए॒वञ्छन्दाँ॑सि । तेष्व॒सावा॑दि॒त्यो बृ॑ह॒तीर॒भ्यू॑ढः ॥65॥
स॒तोबृ॑हतीषु स्तुवते स॒तो बृ॑हन् । प्र॒जया॑ प॒शुभि॑रसा॒नीत्ये॒व । व्यति॑षक्ताभिस्स्तुवते । व्यति॑षक्तव्ँ॒ वै क्ष॒त्रव्विँ॒शा । वि॒शैवैन॑ङ्क्ष॒त्रेण॒ व्यति॑षजति । व्यति॑षक्ताभिस्स्तुवते । व्यति॑षक्तो॒ वै ग्रा॑म॒णीस्स॑जा॒तैः । स॒जा॒तैरे॒वैन॒व्व्यँति॑षजति । व्यति॑षक्ताभिस्स्तुवते । व्यति॑षक्तो॒ वै पुरु॑षᳶ पा॒प्मभिः॑ । व्यति॑षक्ताभिरे॒वास्य॑ पा॒प्मनो॑ नुदते ॥66॥
वेद॒ हर॑न्त्येनमे॒वव्वेँदा॒भ्यू॑ढᳶ पा॒प्मभि॒रेक॑ञ्च ॥ 18 ॥
त्रि॒वृद्यदा॑ग्ने॒यो॑ऽग्निमु॑खा॒ ह्यृद्धि॒र्यदा॑ग्ने॒य आ॑ग्ने॒यो न वै सोमे॑न॒ यो वै सोमे॑नै॒ष गो॑स॒वस्सिँ॒हे॑ऽभि प्रेहि॑ मित्र॒वर्ध॑नः प्र॒जाप॑ति॒स्ता ओ॑द॒नं प्र॒जाप॑तिरकामयत ब॒होर्भूया॑न॒गस्त्यो॒स्या जरा॑स॒स्तिष्ठा॒ हरी॑ प्र॒जाप॑तिᳶप॒शून्व्या॒घ्रो॑ऽयम॒भिप्रेहि॑ वृत्र॒हन्त॑मो॒ ये के॒शिन॒ इन्द्र॒व्वाँ अ॒ष्टाद॑श ॥ 18 । त्रि॒वृद्यो वै सोमे॒नायु॑रसि ब॒हुर्भ॑वति॒ तिष्ठा॒ हरी॒रथ॒ आयं भा॑तु॒ तेभ्यो॑ नि॒धानँ॒ षट्त्ष॑ष्टिः ॥ 66 ॥ त्रि॒वृत्पा॒प्मनो॑ नुदते ॥ हरिः॑ओम् ॥ श्रीकृष्णार्पणमस्तु । सप्तमप्पाठकस्समाप्तः ।