स्वा॒द्वीन्त्वा॑ स्वा॒दुना॑ । ती॒व्रान्ती॒व्रेण॑ । अ॒मृता॑म॒मृते॑न । मधु॑मती॒म्मधु॑मता । सृ॒जामि॒ सँ सोमे॑न । सोमो॑ऽस्य॒श्विभ्या॑म्पच्यस्व । सर॑स्वत्यै पच्यस्व । इन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व । परी॒तो षि॑ञ्चता सु॒तम् । सोमो॒ य उ॑त्त॒मँ ह॒विः ॥1॥
द॒ध॒न्वा यो नर्यो॑ अ॒प्स्व॑न्तरा । सु॒षाव॒ सोम॒मद्रि॑भिः । पु॒नातु॑ ते परि॒स्रुत॑म् । सोमँ॒ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना॑ । वा॒युᳶ पू॒तᳶ प॒वित्रे॑ण । प्राङ्क्सोमो॒ अति॑द्रुतः । इन्द्र॑स्य॒ युज्य॒स्सखा॑ । वा॒युᳶ पू॒तᳶ प॒वित्रे॑ण । प्र॒त्यङ्क्सोमो॒ अति॑द्रुतः ॥2॥
इन्द्र॑स्य॒ युज्य॒स्सखा॑ । ब्रह्म॑ क्ष॒त्रम्प॑वते॒ तेज॑ इन्द्रि॒यम् । सुर॑या॒ सोम॑स्सु॒त आसु॑तो॒ मदा॑य । शु॒क्रेण॑ देव दे॒वता॑ᳶ पिपृग्धि । रसे॒नान्नय्ँ॒यज॑मानाय धेहि । कु॒विद॒ङ्ग यव॑मन्तो॒ यव॑ञ्चित् । यथा॒ दान्त्य॑नुपू॒र्वव्ँवि॒यूय॑ । इ॒हेहै॑षाङ्कृणुत॒ भोज॑नानि । ये ब॒र्हिषो॒ नमो॑वृक्ति॒न्न ज॒ग्मुः । उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्या॑न्त्वा॒ जुष्ट॑ङ्गृह्णामि ॥3॥
सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे॑ । ए॒ष ते॒ योनि॒स्तेज॑से त्वा । वी॒र्या॑य त्वा॒ बला॑य त्वा । तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि । वी॒र्य॑मसि वी॒र्य॑म्मयि॑ धेहि । बल॑मसि॒ बल॒म्मयि॑ धेहि । नाना॒ हि वा॑न्दे॒वहि॑तँ॒ सद॑ᳶ कृ॒तम् । मा सँसृ॑क्षाथाम्पर॒मे व्यो॑मन् । सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः । मा मा॑ हिँसी॒स्स्वाय्ँयोनि॑मावि॒शन्न् ॥4॥
उ॒प॒या॒मगृ॑हीतोऽस्याश्वि॒नन्तेजः॑ । सा॒र॒स्व॒तव्ँवी॒र्य॑म् । ऐ॒न्द्रम्बल॑म् । ए॒ष ते॒ योनि॒र्मोदा॑य त्वा । आ॒न॒न्दाय॑ त्वा॒ मह॑से त्वा । ओजो॒ऽस्योजो॒ मयि॑ धेहि । म॒न्युर॑सि म॒न्युम्मयि॑ धेहि । महो॑ऽसि॒ महो॒ मयि॑ धेहि । सहो॑ऽसि॒ सहो॒ मयि॑ धेहि । या व्या॒घ्रव्ँविषू॑चिका । उ॒भौ वृक॑ञ्च॒ रक्ष॑ति । श्ये॒नम्प॑त॒त्रिणँ॑ सिँ॒हम् । सेमम्पा॒त्वँह॑सः । स॒म्पृच॑स्स्थ॒ सम्मा॑ भ॒द्रेण॑ पृङ्क्त । वि॒पृच॑स्स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त ॥5॥
ह॒विᳶ प्र॒त्यङ्क्सोमो॒ अति॑द्रुतो गृह्णाम्यावि॒शन्विषू॑चिका॒ पञ्च॑ च ॥ 1 ॥
सोमो॒ राजा॒ऽमृतँ॑ सु॒तः । ऋ॒जी॒षेणा॑जहान्मृ॒त्युम् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । विपानँ॑ शु॒क्रमन्ध॑सः । इन्द्र॑स्येन्द्रि॒यम् । इ॒दम्पयो॒ऽमृत॒म्मधु॑ । सोम॑म॒द्भ्यो व्य॑पिबत् । छन्द॑सा हँ॒सश्शु॑चि॒षत् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । अ॒द्भ्यः क्षी॒रव्व्यँ॑पिबत् ॥6॥
क्रुङ्ङा॑ङ्गिर॒सो धि॒या । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । अन्ना॑त्परि॒स्रुतो॒ रस॑म् । ब्रह्म॑णा॒ व्य॑पिबत्क्ष॒त्रम् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । रेतो॒ मूत्रव्ँ॒विज॑हाति । योनि॑म्प्रवि॒शदि॑न्द्रि॒यम् । गर्भो॑ ज॒रायु॒णाऽऽवृ॑तः । उल्ब॑ञ्जहाति॒ जन्म॑ना । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ॥7॥
वेदे॑न रू॒पे व्य॑करोत् । स॒ता॒स॒ती प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । सोमे॑न॒ सोमौ॒ व्य॑पिबत् । सु॒ता॒सु॒तौ प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । दृ॒ष्ट्वा रू॒पे व्याक॑रोत् । स॒त्या॒नृ॒ते प्र॒जाप॑तिः । अश्र॑द्धा॒मनृ॒तेऽद॑धात् । श्र॒द्धाँ स॒त्ये प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । दृ॒ष्ट्वा प॑रि॒स्रुतो॒ रस॑म् । शु॒क्रेण॑ शु॒क्रव्व्यँ॑पिबत् । पय॒स्सोम॑म्प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । विपानँ॑ शु॒क्रमन्ध॑सः । इन्द्र॑स्येन्द्रि॒यम् । इ॒दम्पयो॒ऽमृत॒म्मधु॑ ॥8॥
अ॒द्भ्यः क्षी॒रव्व्यँ॑पिब॒ज्जन्म॑न॒र्तेन॑ स॒त्यमि॑न्द्रि॒य श्र॒द्धाँ स॒त्ये प्र॒जाप॑तिर॒ष्टौ च॑ ॥ 2 ॥
सुरा॑वन्तम्बर्हि॒षदँ॑ सु॒वीर॑म् । य॒ज्ञँ हि॑न्वन्ति महि॒षा नमो॑भिः । दधा॑ना॒स्सोम॑न्दि॒वि दे॒वता॑सु । मदे॒मेन्द्रय्ँ॒यज॑मानास्स्व॒र्काः । यस्ते॒ रस॒स्सम्भृ॑त॒ ओष॑धीषु । सोम॑स्य॒ शुष्म॒स्सुर॑या सु॒तस्य॑ । तेन॑ जिन्व॒ यज॑मान॒म्मदे॑न । सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम् । यम॒श्विना॒ नमु॑चेरासु॒रादधि॑ । सर॑स्व॒त्यस॑नोदिन्द्रि॒याय॑ ॥9॥
इ॒मन्तँ शु॒क्रम्मधु॑मन्त॒मिन्दु॑म् । सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि । यदत्र॑ रि॒प्तँ र॒सिन॑स्सु॒तस्य॑ । यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः । अ॒हन्तद॑स्य॒ मन॑सा शि॒वेन॑ । सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि । पि॒तृभ्य॑स्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ । पि॒ता॒म॒हेभ्य॑स्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ । प्रपि॑तामहेभ्यस्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ । अक्ष॑न्पि॒तरः॑ ॥10॥
अमी॑मदन्त पि॒तरः॑ । अती॑तृपन्त पि॒तरः॑ । अमी॑मृजन्त पि॒तरः॑ । पित॑र॒श्शुन्ध॑ध्वम् । पु॒नन्तु॑ मा पि॒तर॑स्सो॒म्यासः॑ । पु॒नन्तु॑ मा पिताम॒हाः । पु॒नन्तु॒ प्रपि॑तामहाः । प॒वित्रे॑ण श॒तायु॑षा । पु॒नन्तु॑ मा पिताम॒हाः । पु॒नन्तु॒ प्रपि॑तामहाः ॥11॥
प॒वित्रे॑ण श॒तायु॑षा । विश्व॒मायु॒र्व्य॑श्ञवै । अग्न॒ आयूँ॑षि पव॒सेऽग्ने॒ पव॑स्व । पव॑मान॒स्सुव॒र्जन॑ᳶ पु॒नन्तु॑ मा देवज॒नाः । जात॑वेदᳶ प॒वित्र॑व॒द्यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । उ॒भाभ्या॑न्देव सवितर्वैश्वदे॒वी पु॑न॒ती । ये स॑मा॒नास्सम॑नसः । पि॒तरो॑ यम॒राज्ये॑ । तेषा॑ल्लोँ॒कस्स्व॒धा नमः॑ । य॒ज्ञो दे॒वेषु॑ कल्पताम् ॥12॥
ये स॑जा॒तास्सम॑नसः । जी॒वा जी॒वेषु॑ माम॒काः । तेषाँ॒ श्रीर्मयि॑ कल्पताम् । अ॒स्मिल्लोँ॒के श॒तँ समाः॑ । द्वे स्रु॒ती अ॑शृणवम्पितृ॒णाम् । अ॒हन्दे॒वाना॑मु॒त मर्त्या॑नाम् । याभ्या॑मि॒दव्विँश्व॒मेज॒त्समे॑ति । यद॑न्त॒रा पि॒तर॑म्मा॒तर॑ञ्च । इ॒दँ ह॒विᳶ प्र॒जन॑नम्मे अस्तु । दश॑वीरँ स॒र्वग॑ण स्व॒स्तये॑ । आ॒त्म॒सनि॑ प्रजा॒सनि॑ । प॒शु॒सन्य॑भय॒सनि॑ लोक॒सनि॑ । अ॒ग्निᳶ प्र॒जाम्ब॑हु॒लाम्मे॑ करोतु । अन्न॒म्पयो॒ रेतो॑ अ॒स्मासु॑ धत्त । रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ दीधर॒त्स्वाहा॑ ॥13॥
इ॒न्द्रि॒याय॑ पि॒तर॑श्श॒तायु॑षा पु॒नन्तु॑ मा पिताम॒हाᳶ पु॒नन्तु॒ प्रपि॑तामहाᳶ कल्पताँ स्व॒स्तये॒ पञ्च॑ च ॥ 3 ॥
सीसे॑न॒ तन्त्र॒म्मन॑सा मनी॒षिणः॑ । ऊ॒र्णा॒सू॒त्रेण॑ क॒वयो॑ वयन्ति । अ॒श्विना॑ य॒ज्ञँ स॑वि॒ता सर॑स्वती । इन्द्र॑स्य रू॒पव्ँवरु॑णो भिष॒ज्यन् । तद॑स्य रू॒पम॒मृतँ॒ शची॑भिः । ति॒स्रोऽद॑धुर्दे॒वता॑स्सँररा॒णाः । लोमा॑नि॒ शष्पै॑र्बहु॒धा न तोक्म॑भिः । त्वग॑स्य माँ॒सम॑भव॒न्न ला॒जाः । तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तनी । सर॑स्वती वयति॒ पेशो॒ अन्त॑रः ॥14॥
अस्थि॑ म॒ज्जान॒म्मास॑रैः । का॒रो॒त॒रेण॒ दध॑तो॒ गवा॑न्त्व॒चि । सर॑स्वती॒ मन॑सा पेश॒लव्वँसु॑ । नास॑त्याभ्याव्ँवयति दर्श॒तव्वँपुः॑ । रस॑म्परि॒स्रुता॒ न रोहि॑तम् । न॒ग्नहु॒र्धीर॒स्तस॑र॒न्न वेम॑ । पय॑सा शु॒क्रम॒मृत॑ञ्ज॒नित्र॑म् । सुर॑या॒ मूत्रा॑ज्जनयन्ति॒ रेतः॑ । अपाम॑तिन्दुर्म॒तिम्बाध॑मानाः । ऊव॑ध्यव्ँ॒वातँ॑ स॒बुव॒न्तदा॒रात् ॥15॥
इन्द्र॑स्सु॒त्रामा॒ हृद॑येन स॒त्यम् । पु॒रो॒डाशे॑न सवि॒ता ज॑जान । यकृ॑त्क्लो॒मानव्ँ॒वरु॑णो भिष॒ज्यन् । मत॑स्ने वाय॒व्यै॑र्न मि॑नाति पि॒त्तम् । आ॒न्त्राणि॑ स्था॒ली मधु॒ पिन्व॑माना । गुदा॒ पात्रा॑णि सु॒दुघा॒ न धे॒नुः । श्ये॒नस्य॒ पत्र॒न्न प्ली॒हा शची॑भिः । आ॒स॒न्दी नाभि॑रु॒दर॒न्न मा॒ता । कु॒म्भो व॑नि॒ष्ठुर्ज॑नि॒ता शची॑भिः । यस्मि॒न्नग्रे॒ योन्या॒ङ्गर्भो॑ अ॒न्तः ॥16॥
प्ला॒शीर्व्य॑क्तश्श॒तधा॑र॒ उत्सः॑ । दु॒हे न कु॒म्भीँ स्व॒धाम्पि॒तृभ्यः॑ । मुखँ॒ सद॑स्य॒ शिर॒ इत्सदे॑न । जि॒ह्वा प॒वित्र॑म॒श्विना॒ सँ सर॑स्वती । चप्प॒न्न पा॒युर्भि॒षग॑स्य॒ वालः॑ । व॒स्तिर्न शेपो॒ हर॑सा तर॒स्वी । अ॒श्विभ्या॒ञ्चक्षु॑र॒मृत॒ङ्ग्रहा॑भ्याम् । छागे॑न॒ तेजो॑ ह॒विषा॑ शृ॒तेन॑ । पक्ष्मा॑णि गो॒धूमै॒ᳶ क्व॑लैरु॒तानि॑ । पेशो॒ न शु॒क्लमसि॑तव्वँसाते ॥17॥
अवि॒र्न मे॒षो न॒सि वी॒र्या॑य । प्रा॒णस्य॒ पन्था॑ अ॒मृतो॒ ग्रहा॑भ्याम् । सर॑स्व॒त्युप॒वाकै॑र्व्या॒नम् । नस्या॑नि ब॒र्हिर्बद॑रैर्जजान । इन्द्र॑स्य रू॒पमृ॑ष॒भो बला॑य । कर्णा॑भ्याँ॒ श्रोत्र॑म॒मृत॒ङ्ग्रहा॑भ्याम् । यवा॒ न ब॒र्हिर्भ्रु॒वि केस॑राणि । क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घम्मुखा॑त् । आ॒त्मन्नु॒पस्थे॒ न वृक॑स्य॒ लोम॑ । मुखे॒ श्मश्रू॑णि॒ न व्या॑घ्रलो॒मम् ॥18॥
केशा॒ न शी॒र्षन् यश॑से श्रि॒यै शिखा॑ । सिँ॒हस्य॒ लोम॒ त्विषि॑रिन्द्रि॒याणि॑ । अङ्गा॑न्या॒त्मन्भि॒षजा॒ तद॒श्विना॑ । आ॒त्मान॒मङ्गै॒स्सम॑धा॒त्सर॑स्वती । इन्द्र॑स्य रू॒पँ श॒तमा॑न॒मायुः॑ । च॒न्द्रेण॒ ज्योति॑र॒मृत॒न्दधा॑ना । सर॑स्वती॒ योन्या॒ङ्गर्भ॑म॒न्तः । अ॒श्विभ्या॒म्पत्नी॒ सुकृ॑तम्बिभर्ति । अ॒पाँ रसे॑न॒ वरु॑णो॒ न साम्ना॑ । इन्द्र॑ श्रि॒यै ज॒नय॑न्न॒प्सु राजा॑ । तेज॑ᳶ पशू॒नाँ ह॒विरि॑न्द्रि॒याव॑त् । प॒रि॒स्रुता॒ पय॑सा सार॒घम्मधु॑ । अ॒श्विभ्या॑न्दु॒ग्धम्भि॒षजा॒ सर॑स्वत्या सुतासु॒ताभ्या॑म् । अ॒मृत॒स्सोम॒ इन्दुः॑ ॥19॥
अन्त॑र आ॒राद॒न्तर्व॑साते व्याघ्रलो॒मँ राजा॑ च॒त्वारि॑ च ॥ 4 ॥
मि॒त्रो॑ऽसि॒ वरु॑णोऽसि । सम॒हव्ँविश्वै॑र्दे॒वैः । क्ष॒त्रस्य॒ नाभि॑रसि । क्ष॒त्रस्य॒ योनि॑रसि । स्यो॒नामा सी॑द । सु॒षदा॒मा सी॑द । मा त्वा॑ हिँसीत् । मा मा॑ हिँसीत् । निष॑साद धृ॒तव्र॑तो॒ वरु॑णः । प॒स्त्या॑स्वा ॥20॥
साम्रा॑ज्याय सु॒क्रतुः॑ । दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे । अ॒श्विनो॑र्बा॒हुभ्या॑म् । पू॒ष्णो हस्ता॑भ्याम् । अ॒श्विनो॒र्भैष॑ज्येन । तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि । दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे । अ॒श्विनो॑र्बा॒हुभ्या॑म् । पू॒ष्णो हस्ता॑भ्याम् । सर॑स्वत्यै॒ भैष॑ज्येन ॥21॥
वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि । दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे । अ॒श्विनो॑र्बा॒हुभ्या॑म् । पू॒ष्णो हस्ता॑भ्याम् । इन्द्र॑स्येन्द्रि॒येण॑ । श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि । को॑ऽसि कत॒मो॑ऽसि । कस्मै॑ त्वा॒ काय॑ त्वा । सुश्लो॒काँ (4) सुम॑ङ्ग॒लाँ (4) सत्य॑रा॒जा ३न् । शिरो॑ मे॒ श्रीः ॥22॥
यशो॒ मुख॑म् । त्विषि॒ᳶ केशा॑श्च॒ श्मश्रू॑णि । राजा॑ मे प्रा॒णो॑ऽमृत॑म् । स॒म्राट्चक्षुः॑ । वि॒राट्छ्रोत्र॑म् । जि॒ह्वा मे॑ भ॒द्रम् । वाङ्महः॑ । मनो॑ म॒न्युः । स्व॒राड्भामः॑ । मोदा॑ᳶ प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि ॥23॥
चि॒त्तम्मे॒ सहः॑ । बा॒हू मे॒ बल॑मिन्द्रि॒यम् । हस्तौ॑ मे॒ कर्म॑ वी॒र्य॑म् । आ॒त्मा क्ष॒त्रमुरो॒ मम॑ । पृ॒ष्टीर्मे॑ रा॒ष्ट्रमु॒दर॒मँसौ॑ । ग्री॒वाश्च॒ श्रोण्यौ॑ । ऊ॒रू अ॑र॒त्नी जानु॑नी । विशो॒ मेऽङ्गा॑नि स॒र्वतः॑ । नाभि॑र्मे चि॒त्तव्विँ॒ज्ञान॑म् । पा॒युर्मेऽप॑चितिर्भ॒सत् ॥24॥
आ॒न॒न्द॒न॒न्दावा॒ण्डौ मे॑ । भग॒स्सौभा॑ग्य॒म्पसः॑ । जङ्घा॑भ्याम्प॒द्भ्यान्धर्मो॑ऽस्मि । वि॒शि राजा॒ प्रति॑ष्ठितः । प्रति॑ क्ष॒त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे । प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ । प्रत्यङ्गे॑षु॒ प्रति॑तिष्ठाम्या॒त्मन् । प्रति॑ प्रा॒णेषु॒ प्रति॑तिष्ठामि पु॒ष्टे । प्रति॒ द्यावा॑पृथि॒व्योः । प्रति॑तिष्ठामि य॒ज्ञे ॥25॥
त्र॒या दे॒वा एका॑दश । त्र॒य॒स्त्रिँ॒शास्सु॒राध॑सः । बृह॒स्पति॑पुरोहिताः । दे॒वस्य॑ सवि॒तुस्स॒वे । दे॒वा दे॒वैर॑वन्तु मा । प्र॒थ॒मा द्वि॒तीयैः॑ । द्वि॒तीया॑स्तृ॒तीयैः॑ । तृ॒तीया॑स्स॒त्येन॑ । स॒त्यय्यँ॒ज्ञेन॑ । य॒ज्ञो यजु॑र्भिः ॥26 ॥
यजूँ॑षि॒ साम॑भिः । सामा॑न्यृ॒ग्भिः । ऋचो॑ या॒ज्या॑भिः । या॒ज्या॑ वषट्का॒रैः । व॒ष॒ट्का॒रा आहु॑तिभिः । आहु॑तयो मे॒ कामा॒न्त्सम॑र्धयन्तु । भूस्स्वाहा॑ । लोमा॑नि॒ प्रय॑ति॒र्मम॑ । त्वङ्म॒ आन॑ति॒राग॑तिः । माँ॒सम्म॒ उप॑नतिः । वस्वस्थि॑ । म॒ज्जा म॒ आन॑तिः ॥27॥
प॒स्त्या॑स्वा सर॑स्वत्यै॒ भैष॑ज्येन॒ श्रीरङ्गा॑नि भ॒सद्य॒ज्ञे य॒ज्ञो यजु॑र्भि॒रुप॑नति॒र्द्वे च॑ ॥ 5 ॥
यद्दे॑वा देव॒हेड॑नम् । देवा॑सश्चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । विश्वा॑न्मुञ्च॒त्वँह॑सः । यदि॒ दिवा॒ यदि॒ नक्त॑म् । एनाँ॑सि चकृ॒मा व॒यम् । वा॒युर्मा॒ तस्मा॒देन॑सः । विश्वा॑न्मुञ्च॒त्वँह॑सः । यदि॒ जाग्र॒द्यदि॒ स्वप्ने॑ । एनाँ॑सि चकृ॒मा व॒यम् ॥28॥
सूर्यो॑ मा॒ तस्मा॒देन॑सः । विश्वा॑न्मुञ्च॒त्वँह॑सः । यद्ग्रामे॒ यदर॑ण्ये । यत्स॒भायाय्ँ॒यदि॑न्द्रि॒ये । यच्छू॒द्रे यद॒र्ये॑ । एन॑श्चकृ॒मा व॒यम् । यदेक॒स्याधि॒ धर्म॑णि । तस्या॑व॒यज॑नमसि । यदापो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे । ततो॑ वरुण नो मुञ्च ॥29॥
अव॑भृथ निचङ्कुण निचे॒रुर॑सि निचङ्कुण । अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयाट् । अव॒ मर्त्यै॒र्मर्त्य॑कृतम् । उ॒रोरा नो॑ देव रि॒षस्पा॑हि । सु॒मि॒त्रा न॒ आप॒ ओष॑धयस्सन्तु । दु॒र्मि॒त्रास्तस्मै॑ भूयासुः । यो॑ऽस्मान्द्वेष्टि॑ । यञ्च॑ व॒यन्द्वि॒ष्मः । द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः । स्वि॒न्नस्स्ना॒त्वी मला॑दिव ॥30॥
पू॒तम्प॒वित्रे॑णे॒वाज्य॑म् । आप॑श्शुन्धन्तु॒ मैन॑सः । उद्व॒यन्तम॑स॒स्परि॑ । पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वन्दे॑व॒त्रा सूर्य॑म् । अग॑न्म॒ ज्योति॑रुत्त॒मम् । प्रति॑युतो॒ वरु॑णस्य॒ पाशः॑ । प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ । एधो॑ऽस्येधिषी॒महि॑ । स॒मिद॑सि ॥31॥
तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि । अ॒पो अन्व॑चारिषम् । रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वाँ अग्न॒ आग॑मम् । तम्मा॒ सँसृ॑ज॒ वर्च॑सा । प्र॒जया॑ च॒ धने॑न च । स॒माव॑वर्ति पृथि॒वी । समु॒षाः । समु॒ सूर्यः॑ । समु॒ विश्व॑मि॒दञ्जग॑त् । वै॒श्वा॒न॒रज्यो॑तिर्भूयासम् । वि॒भुङ्काम॒व्व्यँ॑श्ञवै । भूस्स्वाहा॑ ॥32॥
स्वप्न॒ एनाँ॑सि चकृ॒मा व॒यं मु॑ञ्च॒ मला॑दिव स॒मिद॑सि॒ जग॒त्त्रीणि॑ च ॥ 6 ॥
होता॑ यक्षत्स॒मिधेन्द्र॑मि॒डस्प॒दे । नाभा॑ पृथि॒व्या अधि॑ । दि॒वो वर्ष्म॒न्त्समि॑ध्यते । ओजि॑ष्ठश्चर्षणी॒ सहा॑न् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्तनू॒नपा॑तम् । ऊ॒तिभि॒र्जेता॑र॒मप॑राजितम् । इन्द्र॑न्दे॒वँ सु॑व॒र्विद॑म् । प॒थिभि॒र्मधु॑मत्तमैः । नरा॒शँसे॑न॒ तेज॑सा ॥33॥
वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒दिडा॑भि॒रिन्द्र॑मीडि॒तम् । आ॒जुह्वा॑न॒मम॑र्त्यम् । दे॒वो दे॒वैस्सवी॑र्यः । वज्र॑हस्तᳶ पुरन्द॒रः । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षद्ब॒र्हिषीन्द्र॑न्निषद्व॒रम् । वृ॒ष॒भन्नर्या॑पसम् । वसु॑भी रु॒द्रैरा॑दि॒त्यैः । स॒युग्भि॑र्ब॒र्हिरास॑दत् ॥34॥
वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒दोजो॒ न वी॒र्य॑म् । सहो॒ द्वार॒ इन्द्र॑मवर्धयन् । सु॒प्रा॒य॒णा विश्र॑यन्तामृता॒वृधः॑ । द्वार॒ इन्द्रा॑य मी॒ढुषे॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षदु॒षे इन्द्र॑स्य धे॒नू । सु॒दुघे॑ मा॒तरौ॑ म॒ही । सवा॒तरौ॒ न तेज॑सी । व॒त्समिन्द्र॑मवर्धताम् ॥35॥
वी॒तामाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒द्दैव्या॒ होता॑रा । भि॒षजा॒ सखा॑या । ह॒विषेन्द्र॑म्भिषज्यतः । क॒वी दे॒वौ प्रचे॑तसौ । इन्द्रा॑य धत्त इन्द्रि॒यम् । वी॒तामाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षत्ति॒स्रो दे॒वीः । त्रय॑स्त्रि॒धात॑वो॒पसः॑ । इडा॒ सर॑स्वती॒ भार॑ती ॥36॥
म॒हीन्द्र॑पत्नीर्ह॒विष्म॑तीः । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्त्वष्टा॑र॒मिन्द्र॑न्दे॒वम् । भि॒षजँ॑ सु॒यज॑ङ्घृत॒श्रिय॑म् । पु॒रु॒रूपँ॑ सु॒रेत॑सम्म॒घोनि॑म् । इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒द्वन॒स्पति॑म् । श॒मि॒तारँ॑ श॒तक्र॑तुम् । धि॒यो जो॒ष्टार॑मिन्द्रि॒यम् ॥37॥
मध्वा॑ सम॒ञ्जन्प॒थिभि॑स्सु॒गेभिः॑ । स्वदा॑ति ह॒व्यम्मधु॑ना घृ॒तेन॑ । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒दिन्द्र॒॒ स्वाहाऽऽज्य॑स्य । स्वाहा॒ मेद॑सः । स्वाहा॑ स्तो॒काना॑म् । स्वाहा॒ स्वाहा॑कृतीनाम् । स्वाहा॑ ह॒व्यसू॑क्तीनाम् । स्वाहा॑ दे॒वाँ आ॑ज्य॒पान् । स्वाहेन्द्रँ॑ हो॒त्राज्जु॑षा॒णाः । इन्द्र॒ आज्य॑स्य वियन्तु । होत॒र्यज॑ ॥38॥
तेज॑साऽऽसददवर्धतां॒ भार॑तीन्द्रि॒यञ्जु॑षा॒णा द्वे च॑ ॥ 7 ॥ (स॒मिधेन्द्र॒न्तनू॒नपा॑त॒मिडा॑भिर्ब॒र्हिष्योज॑ उ॒षे दैव्या॑ ति॒स्रस्त्वष्टा॑र॒व्वँन॒स्पति॒मिन्द्र॑म् ॥ स॒मिधेन्द्र॑ञ्च॒तुर्वेत्वेको॑ वि॒यन्तु॒ द्विर्वी॒तामेको॑ वि॒यन्तु॒ द्विर्वेत्वेको॑ वि॒यन्तु॒ होत॒र्यज॑ ॥ )
समि॑द्ध॒ इन्द्र॑ उ॒षसा॒मनी॑के । पु॒रो॒रुचा॑ पूर्व॒कृद्वा॑वृधा॒नः । त्रि॒भिर्दे॒वैस्त्रिँ॒शता॒ वज्र॑बाहुः । ज॒घान॑ वृ॒त्रव्विँ दुरो॑ ववार । नरा॒शँस॒ᳶ प्रति॒शूरो॒ मिमा॑नः । तनू॒नपा॒त्प्रति॑ य॒ज्ञस्य॒ धाम॑ । गोभि॑र्व॒पावा॒न्मधु॑ना सम॒ञ्जन् । हिर॑ण्यैश्च॒न्द्री य॑जति॒ प्रचे॑ताः । ई॒डि॒तो दे॒वैर्हरि॑वाँ अभि॒ष्टिः । आ॒जुह्वा॑नो ह॒विषा॒ शर्ध॑मानः ॥39॥
पु॒र॒न्द॒रो म॒घवा॒न् वज्र॑बाहुः । आया॑तु य॒ज्ञमुप॑ नो जुषा॒णः । जु॒षा॒णो ब॒र्हिर्हरि॑वान्न॒ इन्द्रः॑ । प्रा॒चीनँ॑ सीदत्प्र॒दिशा॑ पृथि॒व्याः । उ॒रु॒व्यचा॒ᳶ प्रथ॑मान स्यो॒नम् । आ॒दि॒त्यैर॒क्तव्वँसु॑भिस्स॒जोषाः॑ । इन्द्र॒न्दुर॑ᳶ कव॒ष्यो॑ धाव॑मानाः । वृषा॑णय्यँन्तु॒ जन॑यस्सु॒पत्नीः॑ । द्वारो॑ दे॒वीर॒भितो॒ विश्र॑यन्ताम् । सु॒वीरा॑ वी॒रम्प्रथ॑माना॒ महो॑भिः ॥40॥
उ॒षासा॒नक्ता॑ बृह॒ती बृ॒हन्त॑म् । पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्र॑म् । पेश॑स्वती॒ तन्तु॑ना स॒व्व्यँय॑न्ती । दै॒वाना॑न्दे॒वय्यँ॑जतस्सुरु॒क्मे । दैव्या॒ मिमा॑ना॒ मन॑सा पुरु॒त्रा । होता॑रा॒विन्द्र॑म्प्रथ॒मा सु॒वाचा॑ । मू॒र्धन् य॒ज्ञस्य॒ मधु॑ना॒ दधा॑ना । प्रा॒चीन॒ञ्ज्योति॑र् ह॒विषा॑ वृधातः । ति॒स्रो दे॒वीर् ह॒विषा॒ वर्ध॑मानाः । इन्द्र॑ञ्जुषा॒णा वृष॑ण॒न्न पत्नीः॑ ॥41॥
अच्छि॑न्न॒न्तन्तु॒म्पय॑सा॒ सर॑स्वती । इडा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः । त्वष्टा॒ दध॒दिन्द्रा॑य॒ शुष्म॑म् । अपा॒कोचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑ । वृषा॒ यज॒न्वृष॑ण॒म्भूरि॑रेताः । मू॒र्धन् यज्ञस्य॒ सम॑नक्तु दे॒वान् । वन॒स्पति॒रव॑सृष्टो॒ न पाशैः॑ । त्मन्या॑ सम॒ञ्जञ्छ॑मि॒ता न दे॒वः । इन्द्र॑स्य ह॒व्यैर्ज॒ठर॑म्पृणा॒नः । स्वदा॑ति ह॒व्यम्मधु॑ना घृ॒तेन॑ । स्तो॒काना॒मिन्दु॒म्प्रति॒ शूर॒ इन्द्रः॑ । वृ॒षा॒यमा॑णो वृष॒भस्तु॑रा॒षाट् । घृ॒त॒प्रुषा॒ मधु॑ना ह॒व्यमु॒न्दन् । मू॒र्धन् य॒ज्ञस्य॑ जुषताँ॒ स्वाहा॑ ॥42॥
शर्ध॑मानो॒ महो॑भि॒ᳶ पत्नी॑र्घृ॒तेन॑ च॒त्वारि॑ च ॥ 8 ॥
आच॑र्षणि॒प्रा वि॒वेष॒ यन्मा॑ । तँ स॒ध्रीचीः॑ । स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अस्ति॑ । इन्द्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न् । अह॒न्नहि॑म्परि॒शया॑न॒मर्णः॑ । अवा॑सृजो॒ऽपो अच्छा॑ समु॒द्रम् । प्रस॑साहिषे पुरुहूत॒ शत्रू॑न् । ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्राभ॑र॒ दक्षि॑णेना॒ वसू॑नि । पति॒स्सिन्धू॑नामसि रे॒वती॑नाम् । स शेवृ॑ध॒मधि॑ धाद्द्यु॒म्नम॒स्मे । महि॑ क्ष॒त्रञ्ज॑ना॒षाडि॑न्द्र॒ तव्य॑म् । रक्षा॑ च नो म॒घोन॑ᳶ पा॒हि सू॒रीन् । रा॒ये च॑ नस्स्वप॒त्या इ॒षे धाः॑ ॥43॥
रे॒वती॑नाञ्च॒त्वारि॑ च ॥ 9 ॥
दे॒वम्ब॒र्हिरिन्द्रँ॑ सुदे॒वन्दे॒वैः । वी॒रव॑त्स्ती॒र्णव्वेँद्या॑मवर्धयत् । वस्तो॑र्वृ॒तम्प्राक्तो॑र्भृ॒तम् । रा॒या ब॒र्हिष्म॒तोऽत्य॑गात् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वीर्द्वार॒ इन्द्रँ॑ सङ्घा॒ते । वि॒ड्वीर्याम॑न्नवर्धयन् । आ व॒त्सेन॒ तरु॑णेन कुमा॒रेण॑ चमीवि॒ता अपार्वा॑णम् । रे॒णुक॑काटन्नुदन्ताम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥44॥
दे॒वी उ॒षासा॒नक्ता॑ । इन्द्रय्ँ॑ य॒ज्ञे प्र॑य॒त्य॑ह्वेताम् । दैवी॒र्विश॒ᳶ प्राया॑सिष्टाम् । सुप्री॑ते॒ सुधि॑ते अभूताम् । व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ । दे॒वी जोष्ट्री॒ वसु॑धिती । दे॒वमिन्द्र॑मवर्धताम् । अया॑व्य॒न्याघा द्वेषाँ॑सि । आन्यावा॑क्षी॒द्वसु॒ वार्या॑णि । यज॑मानाय शिक्षि॒ते ॥45॥
व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ । दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे॑ । पय॒सेन्द्र॑मवर्धताम् । इष॒मूर्ज॑म॒न्याऽवा॑क्षीत् । सग्धिँ॒ सपी॑तिम॒न्या । नवे॑न॒ पूर्व॒न्दय॑माने । पु॒रा॒णेन॒ नव॑म् । अधा॑ता॒मूर्ज॑मू॒र्जाहु॑ती॒ वसु॒ वार्या॑णि । यज॑मानाय शिक्षि॒ते । व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ॥46 ॥
दे॒वा दैव्या॒ होता॑रा । दे॒वमिन्द्र॑मवर्धताम् । ह॒ताघ॑शँसा॒वाभा॑र्ष्टाव्ँ॒वसु॒ वार्या॑णि । यज॑मानाय शिक्षि॒तौ । व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः । पति॒मिन्द्र॑मवर्धयन् । अस्पृ॑क्ष॒द्भार॑ती॒ दिव॑म् । रु॒द्रैर्य॒ज्ञँ सर॑स्वती । इडा॒ वसु॑मती गृ॒हान् ॥47॥
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒व इन्द्रो॒ नरा॒शँसः॑ । त्रि॒व॒रू॒थस्त्रि॑वन्धु॒रः । दे॒वमिन्द्र॑मवर्धयत् । श॒तेन॑ शितिपृ॒ष्ठाना॒माहि॑तः । स॒हस्रे॑ण॒ प्रव॑र्तते । मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्ह॑तः । बृह॒स्पति॑स्स्तो॒त्रम् । अ॒श्विनाऽऽध्व॑र्यवम् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥48॥
दे॒व इन्द्रो॒ वन॒स्पतिः॑ । हिर॑ण्यवर्णो॒ मधु॑शाखस्सुपिप्प॒लः । दे॒वमिन्द्र॑मवर्धयत् । दिव॒मग्रे॑णाप्रात् । आऽन्तरि॑क्षम्पृथि॒वीम॑दृँहीत् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वम्ब॒र्हिर्वारि॑तीनाम् । दे॒वमिन्द्र॑मवर्धयत् । स्वा॒स॒स्थमिन्द्रे॒णास॑न्नम् । अ॒न्या ब॒र्हीँष्य॒भ्य॑भूत् । व॒सु॒वने॑ वसु॒धेयस्य॑ वेतु॒ यज॑ । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् । दे॒वमिन्द्र॑मवर्धयत् । स्वि॑ष्टङ्कु॒र्वन्त्स्वि॑ष्ट॒कृत् । स्वि॑ष्टम॒द्य क॑रोतु नः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥49॥
वि॒य॒न्तु॒ यज॑ शिक्षि॒ते शि॑क्षि॒ते व॑सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ गृ॒हान् वे॑तु॒ यजा॑भू॒त्षट्च॑ ॥ 10 ॥ (दे॒वं ब॒र्हिर्दे॒वीर्द्वारो॑ दे॒वी उ॒षासा॒नक्ता॑ दे॒वी जोष्ट्री॑ दे॒वी ऊ॒र्जाहु॑ती दे॒वा दैव्या॒ होता॑रा शिक्षि॒तौ दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्दे॒व इन्द्रो॒ नरा॒शँसो॑ दे॒व इन्द्रो॒ वन॒स्पति॑र्दे॒वं ब॒र्हिर्वारि॑तीनान्दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वम् । वे॒तु॒ वि॒य॒न्तु॒ च॒तुर्वी॑ता॒मेको॑ वियन्तु च॒तुर्वे॑त्ववर्धयदवर्धय॒न्त्रिर॑वर्धता॒मेको॑ऽ वर्धयश्च॒तुर॑वर्धयत् । वस्तो॒रा व॒त्सेन॒ दैवी॒रया॒वीषँ॑ह॒ताऽस्पृ॑क्षच्छ॒तेन॒ दिव॑ स्वास॒स्थ स्वि॑ष्टँ शिक्षि॒ते शि॑क्षि॒ते शि॑क्षि॒तौ ॥ )
होता॑ यक्षत्स॒मिधा॒ऽग्निमि॒डस्प॒दे । अ॒श्विनेन्द्रँ॒ सर॑स्वतीम् । अ॒जो धू॒म्रो न गो॒धूमै॒ᳶ क्व॑लैर्भेष॒जम् । मधु॒ शष्पै॒र्न तेज॑ इन्द्रि॒यम् । पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्तनू॒नपा॒त्सर॑स्वती । अवि॑र्मे॒षो न भे॑ष॒जम् । प॒था मधु॑म॒ताभ॑रन् । अ॒श्विनेन्द्रा॑य वी॒र्य॑म् ॥50॥
बद॑रैरुप॒वाका॑भिर्भेष॒जन्तोक्म॑भिः । पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒न्नरा॒शँस॒न्न न॒ग्नहु॑म् । पतिँ॒ सुरा॑यै भेष॒जम् । मे॒षस्सर॑स्वती भि॒षक् । रथो॒ न च॒न्द्र्य॑श्विनो॑र्व॒पा इन्द्र॑स्य वी॒र्य॑म् । बद॑रैरुप॒वाका॑भिर्भेष॒जन्तोक्म॑भिः । पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥51॥
होता॑ यक्षदि॒डेडि॒त आ॒जुह्वा॑न॒स्सर॑स्वतीम् । इन्द्र॒म्बले॑न व॒र्धय॑न् । ऋ॒ष॒भेण॒ गवे॑न्द्रि॒यम् । अ॒श्विनेन्द्रा॑य वी॒र्य॑म् । यवै॑ᳶ क॒र्कन्धु॑भिः । मधु॑ ला॒जैर्न मास॑रम् । पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षद्ब॒र्हिस्सु॒ष्टरी॒मोर्ण॑म्रदाः । भि॒षङ्नास॑त्या ॥52॥
भि॒षजा॒ऽश्विनाऽश्वा॒ शिशु॑मती । भि॒षग्धे॒नुस्सर॑स्वती । भि॒षग्दु॒ह इन्द्रा॑य भेष॒जम् । पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒द्दुरो॒ दिशः॑ । क॒व॒ष्यो॑ न व्यच॑स्वतीः । अ॒श्विभ्या॒न्न दुरो॒ दिशः॑ । इन्द्रो॒ न रोद॑सी॒ दुघे॑ । दु॒हे कामा॒न्त्सर॑स्वती ॥53॥
अ॒श्विनेन्द्रा॑य भेष॒जम् । शु॒क्रन्न ज्योति॑रिन्द्रि॒यम् । पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षत्सु॒पेश॑सो॒षे नक्त॒न्दिवा॑ । अ॒श्विना॑ सञ्जाना॒ने । सम॑ञ्जाते॒ सर॑स्वत्या । त्विषि॒मिन्द्रे॒ न भे॑ष॒जम् । श्ये॒नो न रज॑सा हृ॒दा । पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ ॥ 54॥
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒ऽश्विना॑ । इन्द्र॒न्न जागृ॑वी॒ दिवा॒ नक्त॒न्न भे॑ष॒जैः । शूषँ॒ सर॑स्वती भि॒षक् । सीसे॑न दुह इन्द्रि॒यम् । पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जम् । त्रय॑स्त्रि॒धात॑वो॒ऽपसः॑ । रू॒पमिन्द्रे॑ हिर॒ण्यय॑म् ॥55॥
अ॒श्विनेडा॒ न भार॑ती । वा॒चा सर॑स्वती । मह॒ इन्द्रा॑य दधुरिन्द्रि॒यम् । पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्त्वष्टा॑र॒मिन्द्र॑म॒श्विना॑ । भि॒षज॒न्न सर॑स्वतीम् । ओजो॒ न जू॒तिरि॑न्द्रि॒यम् । वृको॒ न र॑भ॒सो भि॒षक् । यश॒स्सुर॑या भेष॒जम् ॥56 ॥
श्रि॒या न मास॑रम् । पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒द्वन॒स्पति॑म् । श॒मि॒तारँ॑ श॒तक्र॑तुम् । भी॒मन्न म॒न्युँ राजा॑नव्व्याँ॒घ्रन्नम॑सा॒ऽश्विना॒ भाम॑म् । सर॑स्वती भि॒षक् । इन्द्रा॑य दुह इन्द्रि॒यम् । पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥57॥
होता॑ यक्षद॒ग्नि स्वाहाऽऽज्य॑स्य स्तो॒काना॑म् । स्वाहा॒ मेद॑सा॒म्पृथ॑क् । स्वाहा॒ छाग॑म॒श्विभ्या॑म् । स्वाहा॑ मे॒षँ सर॑स्वत्यै । स्वाह॑र्ष॒भमिन्द्रा॑य सिँ॒हाय॒ सह॑सेन्द्रि॒यम् । स्वाहा॒ऽग्निन्न भे॑ष॒जम् । स्वाहा॒ सोम॑मिन्द्रि॒यम् । स्वाहेन्द्रँ॑ सु॒त्रामा॑णँ सवि॒तारव्ँ॒वरु॑णम्भि॒षजा॒म्पति॑म् । स्वाहा॒ वन॒स्पति॑म्प्रि॒यम्पाथो॒ न भे॑ष॒जम् । स्वाहा॑ दे॒वाँ आ॑ज्य॒पान् ॥58॥
स्वाहा॒ऽग्निँ हो॒त्राज्जु॑षा॒णो अ॒ग्निर्भे॑ष॒जम् । पय॒स्सोम॑ᳶ परि॒स्रुता॑ घृ॒तम्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षद॒श्विना॒ सर॑स्वती॒मिन्द्रँ॑ सु॒त्रामा॑णम् । इ॒मे सोमा॑स्सु॒रामा॑णः । छागै॒र्न मे॒षैर्ऋ॑ष॒भैस्सु॒ताः । शष्पै॒र्न तोक्म॑भिः । ला॒जैर्मह॑स्वन्तः । मदा॒ मास॑रेण॒ परि॑ष्कृताः । शु॒क्राᳶ पय॑स्वन्तो॒ऽमृताः॑ । प्रस्थि॑ता वो मधु॒श्चुतः॑ । तान॒श्विना॒ सर॑स्व॒तीन्द्र॑स्सु॒त्रामा॑ वृत्र॒हा । जु॒षन्ताँ॑ सौ॒म्यम्मधु॑ । पिब॑न्तु॒ मद॑न्तु वि॒यन्तु॒ सोम॑म् । होत॒र्यज॑ ॥59॥
वी॒र्य॑व्विँ॒यन्त्वाज्य॑स्य॒ होत॒र्यज॒ नास॑त्या॒ सर॑स्वती॒ मधु॑ हिर॒ण्ययं॑ भेष॒जव्विँ॒यन्त्वाज्य॑स्य॒ होत॒र्यजा॑ज्य॒पान॒मृता॒ᳶ पञ्च॑ च ॥ 11 ॥ (स॒मिधा॒ऽग्निँ षट् । तनू॒नपा॑त्स॒प्त । नरा॒शँस॒मृषिः॑ । इ॒डेडि॒तो यवै॑र॒ष्टौ । ब॒र्हि॒स्स॒प्त । दुरो॒ऽश्विना॑ शु॒क्रं नव॑ । सु॒पेश॒सर्षिः॑ । दैव्या॒ होता॑रा॒ सीसे॑न॒ रसः॑ । ति॒स्रस्त्वष्टा॑रम॒ष्टाव॑ष्टौ । वन॒स्पति॒मृषिः॑ । अ॒ग्निन्त्रयो॑दश । अ॒श्विना॒ द्वाद॑श त्रयोदश । स॒मिधा॒ऽग्निं बद॑रै॒र्बद॑रै॒र्यवै॑र॒श्विना॒ त्विषि॑म॒श्विना॒ न भे॑ष॒जँ रू॒पम॒श्विना॑ भी॒मं भाम॑म् ॥ )
समि॑द्धो अ॒ग्निर॑श्विना । त॒प्तो घ॒र्मो वि॒राट्त्सु॒तः । दु॒हे धे॒नुस्सर॑स्वती । सोमँ॑ शु॒क्रमि॒हेन्द्रि॒यम् । त॒नू॒पा भि॒षजा॑ सु॒ते । अ॒श्विनो॒भा सर॑स्वती । मध्वा॒ रजाँ॑सीन्द्रि॒यम् । इन्द्रा॑य प॒थिभि॑र्वहान् । इन्द्रा॒येन्दुँ॒ सर॑स्वती । नरा॒शँसे॑न न॒ग्नहुः॑ ॥60॥
अधा॑ताम॒श्विना॒ मधु॑ । भे॒ष॒जम्भि॒षजा॑ सु॒ते । आ॒जुह्वा॑ना॒ सर॑स्वती । इन्द्रा॑येन्द्रि॒याणि॑ वी॒र्य॑म् । इडा॑भिर॒श्विना॒विष॑म् । समूर्जँ॒ सँर॒यिन्द॑धुः । अश्वि॑ना॒ नमु॑चेस्सु॒तम् । सोमँ॑ शु॒क्रम्प॑रि॒स्रुता॑ । सर॑स्वती॒ तमाभ॑रत् । ब॒र्हिषेन्द्रा॑य॒ पात॑वे ॥61॥
क॒व॒ष्यो॑ न व्यच॑स्वतीः । अ॒श्विभ्या॒न्न दु॒रो दिशः॑ । इन्द्रो॒ न रोद॑सी॒ दुघे॑ । दु॒हे कामा॒न्त्सर॑स्वती । उ॒षासा॒ नक्त॑मश्विना । दिवेन्द्रँ॑ सा॒यमि॑न्द्रि॒यैः । स॒ञ्जा॒ना॒ने सु॒पेश॑सा । सम॑ञ्जाते॒ सर॑स्वत्या । पा॒तन्नो॑ अश्विना॒ दिवा॑ । पा॒हि नक्तँ॑ सरस्वति ॥62॥
दैव्या॑ होतारा भिषजा । पा॒तमिन्द्रँ॒ सचा॑ सु॒ते । ति॒स्रस्त्रे॒धा सर॑स्वती । अ॒श्विना॒ भार॒तीडा॑ । ती॒व्रम्प॑रि॒स्रुता॒ सोम॑म् । इन्द्रा॑य सुषवु॒र्मद॑म् । अश्वि॑ना भेष॒जम्मधु॑ । भे॒ष॒जन्न॒स्सर॑स्वती । इन्द्रे॒ त्वष्टा॒ यश॒श्श्रिय॑म् । रू॒पँ रू॑पमधुस्सु॒ते । ऋ॒तु॒थेन्द्रो॒ वन॒स्पतिः॑ । श॒श॒मा॒नᳶ प॑रि॒स्रुता॑ । की॒लाल॑म॒श्विभ्या॒म्मधु॑ । दु॒हे धे॒नुस्सर॑स्वती । गोभि॒र्न सोम॑मश्विना । मास॑रेण परि॒ष्कृता॑ । सम॑धाताँ॒ सर॑स्वत्या । स्वाहेन्द्रे॑ सु॒तम्मधु॑ ॥63॥
न॒ग्नहु॒ᳶ पात॑वे सरस्वत्यधुस्सु॒ते॑ऽष्टौ च॑ ॥ 12 ॥
अ॒श्विना॑ ह॒विरि॑न्द्रि॒यम् । नमु॑चेर्धि॒या सर॑स्वती । आ शु॒क्रमा॑सु॒राद्व॒सु । म॒घमिन्द्रा॑य जभ्रिरे । यम॒श्विना॒ सर॑स्वती । ह॒विषेन्द्र॒मव॑र्धयन् । स बि॑भेद व॒लम्म॒घम् । नमु॑चावासु॒रे सचा॑ । तमिन्द्र॑म्प॒शव॒स्सचा॑ । अ॒श्विनो॒भा सर॑स्वती ॥64॥
दधा॑ना अ॒भ्य॑नूषत । ह॒विषा॑ य॒ज्ञमि॑न्द्रि॒यम् । य इन्द्र॑ इन्द्रि॒यन्द॒धुः । स॒वि॒ता वरु॑णो॒ भगः॑ । स सु॒त्रामा॑ ह॒विष्प॑तिः । यज॑मानाय सश्चत । स॒वि॒ता वरु॑णो॒ऽदध॑त् । यज॑मानाय दा॒शुषे॑ । आद॑त्त॒ नमु॑चे॒र्वसु॑ । सु॒त्रामा॒ बल॑मिन्द्रि॒यम् ॥65॥
वरु॑णः क्ष॒त्रमि॑न्द्रि॒यम् । भगे॑न सवि॒ता श्रिय॑म् । सु॒त्रामा॒ यश॑सा॒ बल॑म् । दधा॑ना य॒ज्ञमा॑शत । अश्वि॑ना॒ गोभि॑रिन्द्रि॒यम् । अश्वे॑भिर्वी॒र्य॑म्बल॑म् । ह॒विषेन्द्रँ॒ सर॑स्वती । यज॑मानमवर्धयन् । ता नास॑त्या सु॒पेश॑सा । हिर॑ण्यवर्तनी॒ नरा॑ । सर॑स्वती ह॒विष्म॑ती । इन्द्र॒ कर्म॑सु नोऽवत । ता भि॒षजा॑ सु॒कर्म॑णा । सा सु॒दुघा॒ सर॑स्वती । स वृ॑त्र॒हा श॒तक्र॑तुः । इन्द्रा॑य दधुरिन्द्रि॒यम् ॥66॥
उ॒भा सर॑स्वती॒ बल॑मिन्द्रि॒यन्नरा॒ षट्च॑ ॥ 13 ॥
दे॒वम्ब॒र्हिस्स॑रस्वती । सु॒दे॒वमिन्द्रे॑ अ॒श्विना॑ । तेजो॒ न चक्षु॑र॒क्ष्योः । ब॒र्हिषा॑ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वीर्द्वारो॑ अ॒श्विना॑ । भि॒षजेन्द्रे॒ सर॑स्वती । प्रा॒णन्न वी॒र्य॑न्न॒सि । द्वारो॑ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥67॥
दे॒वी उ॒षासा॑व॒श्विना॑ । भि॒षजेन्द्रे॒ सर॑स्वती । बल॒न्न वाच॑मा॒स्ये॑ । उ॒षाभ्या॑न्दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वी जोष्ट्री॑ अ॒श्विना॑ । सु॒त्रामेन्द्रे॒ सर॑स्वती । श्रोत्र॒न्न कर्ण॑यो॒र्यशः॑ । जोष्ट्री॑भ्यान्दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥68॥
दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे॑ । पय॒सेन्द्रँ॒ सर॑स्वत्य॒श्विना॑ भि॒षजा॑वत । शु॒क्रन्न ज्योति॒स्स्तन॑यो॒राहु॑ती धत्त इन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वा दे॒वाना॑म्भि॒षजा॑ । होता॑रा॒विन्द्र॑म॒श्विना॑ । व॒ष॒ट्का॒रैस्सर॑स्वती । त्विषि॒न्न हृद॑ये म॒तिम् । होतृ॑भ्यान्दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥69॥
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः । सर॑स्वत्य॒श्विना॒ भार॒तीडा॑ । शूष॒न्न मध्ये॒ नाभ्या॑म् । इन्द्रा॑य दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒व इन्द्रो॒ नरा॒शँसः॑ । त्रि॒व॒रू॒थस्सर॑स्वत्या॒ऽश्विभ्या॑मीयते॒ रथः॑ । रेतो॒ न रू॒पम॒मृत॑ञ्ज॒नित्र॑म् । इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥70॥
दे॒व इन्द्रो॒ वन॒स्पतिः॑ । हिर॑ण्यपर्णो अ॒श्विभ्या॑म् । सर॑स्वत्यास्सुपिप्प॒लः । इन्द्रा॑य पच्यते॒ मधु॑ । ओजो॒ न जू॒तिमृ॑ष॒भो न भाम॑म् । वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वम्ब॒र्हिर्वारि॑तीनाम् । अ॒ध्व॒रे स्ती॒र्णम॒श्विभ्या॑म् । ऊर्ण॑म्रदा॒स्सर॑स्वत्याः ॥71॥
स्यो॒नमि॑न्द्र ते॒ सदः॑ । ई॒शायै॑ म॒न्युँ राजा॑नम्ब॒र्हिषा॑ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् । दे॒वान् य॑क्षद्यथाय॒थम् । होता॑रा॒विन्द्र॑म॒श्विना॑ । वा॒चा वाचँ॒ सर॑स्वतीम् । अ॒ग्निँ सोम॑ स्विष्ट॒कृत् । स्वि॑ष्ट॒ इन्द्र॑स्सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षक् । इ॒ष्टो दे॒वो वन॒स्पतिः॑ । स्वि॑ष्टा दे॒वा आ॑ज्य॒पाः । इ॒ष्टो अ॒ग्निर॒ग्निना॑ । होता॑ हो॒त्रे स्वि॑ष्ट॒कृत् । यशो॒ न दध॑दिन्द्रि॒यम् । ऊर्ज॒मप॑चिति स्व॒धाम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥72॥
द्वारो॑ दधुरिन्द्रि॒यव्वँ॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ जोष्ट्री॑भ्यान्दधुरिन्द्रि॒यव्वँ॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ होतृ॑भ्यान्दधुरिन्द्रि॒यव्वँ॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यजे॑न्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ सर॑स्वत्या॒ वन॒स्पति॒ष्षट्च॑ ॥ 14 ॥ (दे॒वं ब॒र्हिर्दे॒वीर्द्वारो॑ दे॒वी उ॒षासा॑व॒श्विना॑ दे॒वी जोष्ट्री॑ दे॒वी ऊ॒र्जाहु॑ती दे॒वा दे॒वानां॑ भि॒षजा॑ वषट्का॒रैर्दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्दे॒व इन्द्रो॒ नरा॒शँसो॑ दे॒व इन्द्रो॒ वन॒स्पति॑र्दे॒वं ब॒र्हिर्वारि॑तीनान्दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृद्दे॒वान् । स॒मिधा॒ऽग्निन्दे॒वं ब॒र्हिस्सर॑स्वत्य॒श्विना॒ सर्व॑ वियन्तु । द्वार॑स्ति॒स्रस्सर्व॑वियन्तु । अ॒ज इन्द्र॒मोजो॒ऽग्निं पर॒स्सर॑स्वतीम् । नक्तं॒ पूर्व॒स्सर॑स्वति । अ॒न्यत्र॒ सर॑स्वती । भि॒षक्पूर्व॑न्दुह इन्द्रि॒यम् । अ॒न्यत्र॑ दधुरिन्द्रि॒यम् । सौ॒त्रा॒म॒ण्याँ सु॑तासु॒ती । अ॒ञ्जन्त्य॒यय्यँज॑मानः ॥ )
अ॒ग्निम॒द्य होता॑रमवृणीत । अ॒यँ सु॑तासु॒ती यज॑मानः । पच॑न्प॒क्तीः । पच॑न्पुरो॒डाशा॑न् । गृ॒ह्णन्ग्रहा॑न् । ब॒ध्नन्न॒श्विभ्या॒ञ्छागँ॒ सर॑स्वत्या॒ इन्द्रा॑य । ब॒ध्नन्त्सर॑स्वत्यै मे॒षमिन्द्रा॑या॒श्विभ्या॑म् । ब॒ध्नन्निन्द्रा॑यर्ष॒भम॒श्विभ्याँ॒ सर॑स्वत्यै । सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवत् । अ॒श्विभ्या॒ञ्छागे॑न॒ सर॑स्वत्या॒ इन्द्रा॑य ॥73॥
सर॑स्वत्यै मे॒षेणेन्द्रा॑या॒श्विभ्या॑म् । इन्द्रा॑यर्ष॒भेणा॒श्विभ्याँ॒ सर॑स्वत्यै । अक्ष॒॒ स्तान्मे॑द॒स्तᳶ प्रति॑पच॒ताग्र॑भीषुः । अवी॑वृधन्त॒ ग्रहैः॑ । अपा॑ताम॒श्विना॒ सर॑स्व॒तीन्द्र॑स्सु॒त्रामा॑ वृत्र॒हा । सोमा॑न्त्सु॒राम्णः॑ । उपो॑ उक्थाम॒दाश्श्रौ॒द्विमदा॑ अदन् । अवी॑वृधन्ताङ्गू॒षैः । त्वाम॒द्यर्ष॑ आर्षेयर्षीणान्नपादवृणीत । अ॒यँ सु॑तासु॒ती यज॑मानः । ब॒हुभ्य॒ आ सङ्ग॑तेभ्यः । ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑क्ष्यत॒ इति॑ । ता या दे॒वा दे॑व॒दाना॒न्यदुः॑ । तान्य॑स्मा॒ आ च॒ शास्व॑ । आ च॑ गुरस्व । इ॒षि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः । सू॒क्त॒वा॒काय॑ सू॒क्ता ब्रू॑हि ॥74 ॥
इन्द्रा॑य॒ यज॑मानस्स॒प्त च॑ ॥ 15 ॥
उ॒शन्त॑स्त्वा हवामह॒ आ नो॑ अग्ने सुके॒तुना॑ । त्वँ सो॑म म॒हे भग॒न्त्वँ सो॑म॒ प्रचि॑कितो मनी॒षा । त्वया॒ हि न॑ᳶ पि॒तर॑स्सोम॒ पूर्वे॒ त्वँ सो॑म पि॒तृभि॑स्सव्विँदा॒नः । बर्हि॑षदᳶ पितर॒ आऽहम्पि॒तॄन् । उप॑हूताᳶ पि॒तरोऽग्नि॑ष्वात्ताᳶ पितरः । अ॒ग्नि॒ष्वा॒त्तानृ॑तु॒मतो॑ हवामहे । नरा॒शँसे॑ सोमपी॒थय्यँ आ॒शुः । ते नो॒ अर्व॑न्तस्सु॒हवा॑ भवन्तु । शन्नो॑ भवन्तु द्वि॒पदे॒ शञ्चतु॑ष्पदे । ये अ॑ग्निष्वा॒त्ता येऽन॑ग्निष्वात्ताः ॥75॥
अँ॒हो॒मुच॑ᳶ पि॒तर॑स्सो॒म्यासः॑ । परेऽव॑रे॒ऽमृता॑सो॒ भव॑न्तः । अधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् । वा॒न्या॑यै दु॒ग्धे जु॒षमा॑णाᳶ कर॒म्भम् । उ॒दीरा॑णा॒ अव॑रे॒ परे॑ च । अ॒ग्नि॒ष्वा॒त्ता ऋ॒तुभि॑स्सव्विँदा॒नाः । इन्द्र॑वन्तो ह॒विरि॒दञ्जु॑षन्ताम् । यद॑ग्ने कव्यवाहन॒ त्वम॑ग्न ईडि॒तो जा॑तवेदः । मात॑ली क॒व्यैः । ये ता॑तृ॒पुर्दे॑व॒त्रा जेह॑मानाः । हो॒त्रा॒वृध॒स्स्तोम॑तष्टासो अ॒र्कैः । आऽग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ् । स॒त्यैᳶ क॒व्यैᳶ पि॒तृभि॑र्घर्म॒सद्भिः॑ । ह॒व्य॒वाह॑म॒जर॑म्पुरुप्रि॒यम् । अ॒ग्निङ्घृ॒तेन॑ ह॒विषा॑ सप॒र्यन् । उपा॑सदङ्कव्य॒वाह॑म्पितृ॒णाम् । स न॑ᳶ प्र॒जाव्वीँ॒रव॑तीँ॒ समृ॑ण्वतु ॥76॥
अन॑ग्निष्वात्ता॒ जेह॑मानास्स॒प्त च॑ ॥ 16 ॥
होता॑ यक्षदि॒डस्प॒दे । स॒मि॒धा॒नम्म॒हद्यशः॑ । सुष॑मिद्धव्ँ॒वरे॑ण्यम् । अ॒ग्निमिन्द्रव्ँ॑वयो॒धस॑म् । गा॒य॒त्रीञ्छन्द॑ इन्द्रि॒यम् । त्र्यवि॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒च्छुचि॑व्रतम् । तनू॒नपा॑तमु॒द्भिद॑म् । यङ्गर्भ॒मदि॑तिर्द॒धे ॥77॥
शुचि॒मिन्द्रव्ँ॑वयो॒धस॑म् । उ॒ष्णिह॒ञ्छन्द॑ इन्द्रि॒यम् । दि॒त्य॒वाह॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षदी॒डेन्य॑म् । ई॒डि॒तव्वृँ॑त्र॒हन्त॑मम् । इडा॑भि॒रीड्यँ॒ सहः॑ । सोम॒मिन्द्रव्ँ॑वयो॒धस॑म् । अ॒नु॒ष्टुभ॒ञ्छन्द॑ इन्द्रि॒यम् । त्रि॒व॒त्सङ्गाव्वँयो॒ दध॑त् ॥78॥
वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षत्सुबर्हि॒षद॑म् । पू॒ष॒ण्वन्त॒मम॑र्त्यम् । सीद॑न्तम्ब॒र्हिषि॑ प्रि॒ये । अ॒मृतेन्द्रव्ँ॑वयो॒धस॑म् । बृ॒ह॒तीञ्छन्द॑ इन्द्रि॒यम् । पञ्चा॑वि॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒द्व्यच॑स्वतीः । सु॒प्रा॒य॒णा ऋ॑ता॒वृधः॑ ॥79॥
द्वारो॑ दे॒वीर्हि॑र॒ण्ययीः॑ । ब्र॒ह्माण॒ इन्द्रव्ँ॑वयो॒धस॑म् । प॒ङ्क्तिञ्छन्द॑ इ॒हेन्द्रि॒यम् । तु॒र्य॒वाह॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षत्सु॒पेश॑से । सु॒शि॒ल्पे बृ॑ह॒ती उ॒भे । नक्तो॒षासा॒ न द॑र्श॒ते । विश्व॒मिन्द्रव्ँ॑वयो॒धस॑म् । त्रि॒ष्टुभ॒ञ्छन्द॑ इन्द्रि॒यम् ॥80॥
प॒ष्ठ॒वाह॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्प्रचे॑तसा । दे॒वाना॑मुत्त॒मय्यँशः॑ । होता॑रा॒ दैव्या॑ क॒वी । स॒युजेन्द्रव्ँ॑वयो॒धस॑म् । जग॑ती॒ञ्छन्द॑ इ॒हेन्द्रि॒यम् । अ॒न॒ड्वाह॒ङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्पेश॑स्वतीः ॥81॥
ति॒स्रो दे॒वीर्हि॑र॒ण्ययीः॑ । भार॑तीर्बृह॒तीर्म॒हीः । पति॒मिन्द्रव्ँ॑वयो॒धस॑म् । वि॒राज॒ञ्छन्द॑ इ॒हेन्द्रि॒यम् । धे॒नुङ्गान्न वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षत्सु॒रेत॑सम् । त्वष्टा॑रम्पुष्टि॒वर्ध॑नम् । रू॒पाणि॒ बिभ्र॑त॒म्पृथ॑क् । पुष्टि॒मिन्द्रव्ँ॑वयो॒धस॑म् ॥82॥
द्वि॒पद॒ञ्छन्द॑ इ॒हेन्द्रि॒यम् । उ॒क्षाण॒ङ्गान्न वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षच्छ॒तक्र॑तुम् । हिर॑ण्यपर्णमु॒क्थिन॑म् । र॒श॒नाम्बिभ्र॑तव्वँ॒शिम् । भग॒मिन्द्रव्ँ॑वयो॒धस॑म् । क॒कुभ॒ञ्छन्द॑ इ॒हेन्द्रि॒यम् । व॒शाव्वेँ॒हत॒ङ्गान्न वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्स्वाहा॑कृतीः । अ॒ग्निङ्गृ॒हप॑ति॒म्पृथ॑क् । वरु॑णम्भेष॒जङ्क॒विम् । क्ष॒त्रमिन्द्रव्ँ॑वयो॒धस॑म् । अति॑च्छन्दस॒ञ्छन्द॑ इन्द्रि॒यम् । बृ॒हदृ॑ष॒भङ्गाव्वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥83॥
द॒धे दध॑दृता॒वृध॑ इन्द्रि॒यं पेश॑स्वतीर्वयो॒धसं॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ स॒प्त च॑ ॥ 17 ॥ (इ॒डस्प॒दे॑ऽग्निङ्गा॑य॒त्रीन्त्र्यवि॑म् । शुचि॑व्रतँ॒ शुचि॑मु॒ष्णिह॑न्दित्य॒वाह॑म् । ई॒डेन्यँ॒ सोम॑मनु॒ष्टुभ॑न्त्रिव॒त्सम् । सु॒ब॒र्हि॒षद॑म॒मृतेन्द्रं॑ बृह॒तीं पञ्चा॑विम् । व्यच॑स्वतीस्सुप्राय॒णा द्वारो॑ ब्र॒ह्माण॑ᳶ प॒ङ्क्तिमि॒ह तु॑र्य॒वाह॑म् । सु॒पेश॑से॒ विश्व॒मिन्द्र॑न्त्रि॒ष्टुभं॑ पष्ठ॒वाह॑म् । प्रचे॑तसा स॒युजेन्द्र॒ञ्जग॑तीमि॒हान॒ड्वाह॑म् । पेश॑स्वतीस्ति॒स्रᳶ पतिव्ँ॑वि॒राज॑मि॒ह धे॒नुन्न । सु॒रेत॑स॒न्त्वष्टा॑रं॒ पुष्टि॒मिन्द्र॑न्द्वि॒पद॑मि॒होक्षाण॒न्न । श॒तक्र॑तुं॒ भग॒मिन्द्र॑ङ्क॒कुभ॑मि॒ह व॒शान्न । स्वाहा॑कृतीः क्ष॒त्रमति॑च्छन्दसं बृ॒हदृ॑ष॒भङ्गाव्वँयो॒ दध॑दिन्द्रि॒यमृषि॑ वसु॒ नव॑ द॒शेहे॑न्द्रि॒यमष्ट॑ नव दश॒ गान्न वयो॒ दध॑दि॒डस्प॒दे सर्व॑ वेतु ॥ )
समि॑द्धो अ॒ग्निस्स॒मिधा॑ । सुष॑मिद्धो॒ वरे॑ण्यः । गा॒य॒त्री छन्द॑ इन्द्रि॒यम् । त्र्यवि॒र्गौर्वयो॑ दधुः । तनू॒नपा॒च्छुचि॑व्रतः । त॒नू॒पाच्च॒ सर॑स्वती । उ॒ष्णिक्छन्द॑ इन्द्रि॒यम् । दि॒त्य॒वाड्गौर्वयो॑ दधुः । इडा॑भिर॒ग्निरीड्यः॑ । सोमो॑ दे॒वो अम॑र्त्यः ॥84॥
अ॒नु॒ष्टुप्छन्द॑ इन्द्रि॒यम् । त्रि॒व॒त्सो गौर्वयो॑ दधुः । सु॒ब॒र्हिर॒ग्निᳶ पू॑ष॒ण्वान् । स्ती॒र्णब॑र्हि॒रम॑र्त्यः । बृ॒ह॒ती छन्द॑ इन्द्रि॒यम् । पञ्चा॑वि॒र्गौर्वयो॑ दधुः । दुरो॑ दे॒वीर्दिशो॑ म॒हीः । ब्र॒ह्मा दे॒वो बृह॒स्पतिः॑ । प॒ङ्क्तिश्छन्द॑ इ॒हेन्द्रि॒यम् । तु॒र्य॒वाड्गौर्वयो॑ दधुः ॥85॥
उ॒षे य॒ह्वी सु॒पेश॑सा । विश्वे॑ दे॒वा अम॑र्त्याः । त्रि॒ष्टुप्छन्द॑ इन्द्रि॒यम् । प॒ष्ठ॒वाद्गौर्वयो॑ दधुः । दैव्या॑ होतारा भिषजा । इन्द्रे॑ण स॒युजा॑ यु॒जा । जग॑ती॒ छन्द॑ इ॒हेन्द्रि॒यम् । अ॒न॒ड्वान्गौर्वयो॑ दधुः । ति॒स्र इडा॒ सर॑स्वती । भार॑ती म॒रुतो॒ विशः॑ ॥86॥
वि॒राट्छन्द॑ इ॒हेन्द्रि॒यम् । धे॒नुर्गौर्न वयो॑ दधुः । त्वष्टा॑ तु॒रीपो॒ अद्भु॑तः । इ॒न्द्रा॒ग्नी पु॑ष्टि॒वर्ध॑ना । द्वि॒पाच्छन्द॑ इ॒हेन्द्रि॒यम् । उ॒क्षा गौर्न वयो॑ दधुः । श॒मि॒ता नो॒ वन॒स्पतिः॑ । स॒वि॒ता प्र॑सु॒वन्भग॑म् । क॒कुच्छन्द॑ इ॒हेन्द्रि॒यम् । व॒शा वे॒हद्गौर्न वयो॑ दधुः । स्वाहा॑ य॒ज्ञव्वँरु॑णः । सु॒क्ष॒त्रो भे॑ष॒जङ्क॑रत् । अति॑च्छन्दा॒श्छन्द॑ इन्द्रि॒यम् । बृ॒हदृ॑ष॒भो गौर्वयो॑ दधुः ॥ 87॥
अम॑र्त्यस्तुर्य॒वाड्गौर्वयो॑ दधु॒र्विशो॑ व॒शा वे॒हद्गौर्न वयो॑ दधुश्च॒त्वारि॑ च ॥ 18 ॥
व॒स॒न्तेन॒र्तुना॑ दे॒वाः । वस॑वस्त्रि॒वृता॑ स्तु॒तम् । र॒थ॒न्त॒रेण॒ तेज॑सा । ह॒विरिन्द्रे॒ वयो॑ दधुः । ग्री॒ष्मेण॑ दे॒वा ऋ॒तुना॑ । रु॒द्राᳶ प॑ञ्चद॒शे स्तु॒तम् । बृ॒ह॒ता यश॑सा॒ बल॑म् । ह॒विरिन्द्रे॒ वयो॑ दधुः । व॒र्षाभि॑र्ऋ॒तुना॑ऽऽदि॒त्याः । स्तोमे॑ सप्तद॒शे स्तु॒तम् ॥88॥
वै॒रू॒पेण॑ वि॒शौज॑सा । ह॒विरिन्द्रे॒ वयो॑ दधुः । शा॒र॒देन॒र्तुना॑ दे॒वाः । ए॒क॒विँ॒श ऋ॒भव॑स्स्तु॒तम् । वै॒रा॒जेन॑ श्रि॒या श्रिय॑म् । ह॒विरिन्द्रे॒ वयो॑ दधुः । हे॒म॒न्तेन॒र्तुना॑ दे॒वाः । म॒रुत॑स्त्रिण॒वे स्तु॒तम् । बले॑न॒ शक्व॑री॒स्सहः॑ । ह॒विरिन्द्रे॒ वयो॑ दधुः । शै॒शि॒रेण॒र्तुना॑ दे॒वाः । त्र॒य॒स्त्रिँ॒शे॑ऽमृत॑ स्तु॒तम् । स॒त्येन॑ रे॒वतीः॑ क्ष॒त्रम् । ह॒विरिन्द्रे॒ वयो॑ दधुः ॥ 89॥
स्तोमे॑ सप्तद॒शे स्तु॒तँ सहो॑ ह॒विरिन्द्रे॒ वयो॑ दधुश्च॒त्वारि॑ च ॥ 19 ॥ (व॒स॒न्तेन॑ ग्री॒ष्मेण॑ व॒र्षाभि॑श्शार॒देन॑ हेम॒न्तेन॑ शैशि॒रेण॒ षट् ॥ )
दे॒वम्ब॒र्हिरिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वन्दे॒वम॑वर्धयत् । गा॒य॒त्रि॒या छन्द॑सेन्द्रि॒यम् । तेज॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वीर्द्वारो॑ दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वीर्दे॒वम॑वर्धयन् । उ॒ष्णिहा॒ छन्द॑सेन्द्रि॒यम् । प्रा॒णमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥90॥
दे॒वी दे॒वव्वँ॑यो॒धस॑म् । उ॒षे इन्द्र॑मवर्धताम् । अ॒नु॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् । वाच॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ । दे॒वी जोष्ट्री॑ दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वी दे॒वम॑वर्धताम् । बृ॒ह॒त्या छन्द॑सेन्द्रि॒यम् । श्रोत्र॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ॥91॥
दे॒वी ऊ॒र्जाहु॑ती दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वी दे॒वम॑वर्धताम् । प॒ङ्क्त्या छन्द॑सेन्द्रि॒यम् । शु॒क्रमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ । दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वा दे॒वम॑वर्धताम् । त्रि॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् । त्विषि॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ॥92॥
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्व॑यो॒धस॑म् । पति॒मिन्द्र॑मवर्धयन् । जग॑त्या॒ छन्द॑सेन्द्रि॒यम् । बल॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒व॒ने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वो नरा॒शँसो॑ दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वो दे॒वम॑वर्धयत् । वि॒राजा॒ छन्द॑सेन्द्रि॒यम् । रेत॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥93॥
दे॒वो वन॒स्पति॑र्दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वो दे॒वम॑वर्धयत् । द्वि॒पदा॒ छन्द॑सेन्द्रि॒यम् । भग॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वम्ब॒र्हिर्वारि॑तीनान्दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वन्दे॒वम॑वर्धयत् । क॒कुभा॒ छन्द॑सेन्द्रि॒यम् । यश॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृद्दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वो दे॒वम॑वर्धयत् । अति॑च्छन्दसा॒ छन्द॑सेन्द्रि॒यम् । क्ष॒त्रमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥94॥
वि॒य॒न्तु॒ यज॑ वीता॒य्यँज॑ वीता॒य्यँज॑ वेतु॒ यज॑ वेतु॒ यज॒ पञ्च॑ च ॥ 20 ॥ (दे॒वं ब॒र्हिर्गा॑यत्रि॒या तेजः॑ । दे॒वीर्द्वार॑ उ॒ष्णिहा॑ प्रा॒णम् । दे॒वी दे॒वमु॒षे अ॑नु॒ष्टुभा॒ वाच॑म् । दे॒वी जोष्ट्री॑ बृह॒त्या श्रोत्र॑म् । दे॒वी ऊ॒र्जाहु॑ती प॒ङ्क्त्या शु॒क्रम् । दे॒वा दैव्या॒ होता॑रा त्रि॒ष्टुभा॒ त्विषि॑म् । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीᳶ पति॒ञ्जग॑त्या॒ बल॑म् । दे॒वो नरा॒शँसो॑ वि॒राजा॒ रेतः॑ । दे॒वो वन॒स्पति॑र्द्वि॒पदा॒ भग॑म् । दे॒वं ब॒र्हिर्वारि॑तीनाङ्क॒कुभा॒ यशः॑ । दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृदति॑च्छन्दसा क्ष॒त्रम् । वे॒तु॒ वि॒य॒न्तु॒ च॒तुर्वी॑ता॒मेको॑ वियन्तु च॒तुर्वे॑त्ववर्धयदवर्धयश्च॒तुर॑वर्धता॒मेको॑ऽवर्धय श्च॒तुर॑वर्धयत् ॥ )
स्वा॒द्वीन्त्वा॒ सोम॒स्सुरा॑वन्तँ॒ सीसे॑न मि॒त्रो॑ऽसि॒ यद्दे॑वा॒ होता॑ यक्षत्स॒मिधेन्द्रँ॒ समि॑द्ध॒ इन्द्र॒ आच॑र्षणि॒प्रा दे॒वं ब॒र्हिर्होता॑ यक्षत्स॒मिधा॒ऽग्निँ समि॑द्धो अ॒ग्निर॑श्विना॒ऽश्विना॑ ह॒विरि॑न्द्रि॒यन्दे॒वं ब॒र्हिस्सर॑स्वत्य॒ग्निम॒द्योशन्तो॒ होता॑ यक्षदि॒डस्प॒दे समि॑द्धो अ॒ग्निस्स॒मिधा॑ वस॒न्तेन॒र्तुना॑ दे॒वं ब॒र्हिरिन्द्र॑व्वँयो॒धसं॑ विँश॒तिः ॥ 20 ॥ स्वा॒द्वीन्त्वाऽमी॑मदन्त पि॒तर॒स्साम्रा॑ज्याय पू॒तं प॒वित्रे॑णो॒षासा॒नक्ता॒ बद॑रै॒रधा॑तान्दे॒व इन्द्रो॒ वन॒स्पति॑ᳶ पष्ठ॒वाह॒ङ्गान्दे॒वी दे॒वव्वँ॑यो॒धस॒ञ्चतु॑र्नवतिः ॥ 94 ॥ स्वा॒द्वीन्त्वा॑ वेतु॒ यज॑ ॥ हरिः॑ ओम् ॥ श्रीकृष्णार्पणमस्तु ॥ षष्ठ प्रपाठकस्समाप्तः