प्रा॒णो र॑क्षति॒ विश्व॒मेज॑त् । इर्यो॑ भू॒त्वा ब॑हु॒धा ब॒हूनि॑ । स इत्सर्व॒व्व्याँ॑नशे । यो दे॒वो दे॒वेषु॑ वि॒भूर॒न्तः । आवृ॑दू॒दात्क्षेत्रिय॑ध्व॒गद्वृषा॑ । तमित्प्रा॒णम्मन॒सोप॑ शिक्षत । अग्र॑न्दे॒वाना॑मि॒दम॑त्तु नो ह॒विः । मन॑स॒श्चित्ते॒दम् । भू॒तम्भव्य॑ञ्च गुप्यते । तद्धि दे॒वेष्व॑ग्रि॒यम् ॥1॥

आ न॑ एतु पुरश्च॒रम् । स॒ह दे॒वैरि॒मँ हव॑म् । मन॒श्श्रेय॑सिश्रेयसि । कर्म॑न्य॒ज्ञप॑ति॒न्दध॑त् । जु॒षता॑म्मे॒ वागि॒दँ ह॒विः । वि॒राड्दे॒वी पु॒रोहि॑ता । ह॒व्य॒वा़डन॑पायिनी । यया॑ रू॒पाणि॑ बहु॒धा वद॑न्ति । पेशाँ॑सि दे॒वाᳶ प॑र॒मे ज॒नित्रे॑ । सा नो॑ वि॒राडन॑पस्फुरन्ती ॥2॥

वाग्दे॒वी जु॑षतामि॒दँ ह॒विः । चक्षु॑र्दे॒वाना॒ञ्ज्योति॑र॒मृते॒ न्य॑क्तम् । अ॒स्य वि॒ज्ञाना॑य बहु॒धा निधी॑यते । तस्य॑ सु॒म्नम॑शीमहि । मा नो॑ हासीद्विचक्ष॒णम् । आयु॒रिन्न॒ᳶ प्रती॑र्यताम् । अन॑न्धा॒श्चक्षु॑षा व॒यम् । जी॒वा ज्योति॑रशीमहि । सुव॒र्ज्योति॑रु॒तामृत॑म् । श्रोत्रे॑ण भ॒द्रमु॒त शृ॑ण्वन्ति स॒त्यम् । श्रोत्रे॑ण॒ वाच॑म्बहु॒धोद्यमा॑नाम् । श्रोत्रे॑ण॒ मोद॑श्च॒ मह॑श्च श्रूयते । श्रोत्रे॑ण॒ सर्वा॒ दिश॒ आ शृ॑णोमि । येन॒ प्राच्या॑ उ॒त द॑क्षि॒णा । प्र॒तीच्यै॑ दि॒शश्शृ॒ण्वन्त्यु॑त्त॒रात् । तदिच्छ्रोत्र॑म्बहु॒धोद्यमा॑नम् । अ॒रान्न ने॒मिᳶ परि॒ सर्व॑म्बभूव ॥3॥

अ॒ग्रि॒यमन॑पस्फुरन्ती स॒त्यँ स॒प्त च॑ ॥ 1 ॥

उ॒देहि॑ वाजि॒न्यो अ॑स्य॒प्स्व॑न्तः । इ॒दँ रा॒ष्ट्रमा वि॑श सू॒नृता॑वत् । यो रोहि॑तो॒ विश्व॑मि॒दञ्ज॒जान॑ । स नो॑ रा॒ष्ट्रेषु॒ सुधि॑तान्दधातु । रोहँ॑रोहँ॒ रोहि॑त॒ आरु॑रोह । प्र॒जाभि॒र्वृद्धि॑ञ्ज॒नुषा॑मु॒पस्थ॑म् । ताभि॒स्सँर॑ब्धो अविद॒त्षडु॒र्वीः । गा॒तुम्प्र॒पश्य॑न्नि॒ह रा॒ष्ट्रमाऽहाः॑ । आऽहा॑र्षीद्रा॒ष्ट्रमि॒ह रोहि॑तः । मृधो॒ व्या॑स्थ॒दभ॑यन्नो अस्तु ॥4॥

अ॒स्मभ्य॑न्द्यावापृथिवी॒ शक्व॑रीभिः । रा॒ष्ट्रन्दु॑हाथामि॒ह रे॒वती॑भिः । विम॑मर्श॒ रोहि॑तो वि॒श्वरू॑पः । स॒मा॒च॒क्रा॒णᳶ प्र॒रुहो॒ रुह॑श्च । दिव॑ङ्ग॒त्वाय॑ मह॒ता म॑हि॒म्ना । वि नो॑ रा॒ष्ट्रमु॑नत्तु॒ पय॑सा॒ स्वेन॑ । यास्ते॒ विश॒स्तप॑सा सम्बभू॒वुः । गा॒य॒त्रव्वँ॒त्समनु॒ तास्त॒ आऽगुः॑ । तास्त्वा वि॑शन्तु॒ मह॑सा॒ स्वेन॑ । सम्मा॑ता पु॒त्रो अ॒भ्ये॑तु॒ रोहि॑तः ॥5॥

यू॒यमु॑ग्रा मरुतᳶ पृश्ञिमातरः । इन्द्रे॑ण स॒युजा॒ प्रमृ॑णीथ॒ शत्रू॑न् । आ वो॒ रोहि॑तो अशृणोदभिद्यवः । त्रिस॑प्तासो मरुतस्स्वादुसम्मुदः । रोहि॑तो॒ द्यावा॑पृथि॒वी ज॑जान । तस्मि॒॒स्तन्तु॑म्परमे॒ष्ठी त॑तान । तस्मि॑ञ्छिश्रिये अ॒ज एक॑पात् । अदृँ॑ह॒द्द्यावा॑पृथि॒वी बले॑न । रोहि॑तो॒ द्यावा॑पृथि॒वी अ॑दृँहत् । तेन॒ सुव॑स्स्तभि॒तन्तेन॒ नाकः॑ ॥6॥

सो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॑ । तेन॑ दे॒वास्सुव॒रन्व॑विन्दन् । सु॒शेव॑न्त्वा भा॒नवो॑ दीदि॒वाँस॑म् । सम॑ग्रासो जु॒ह्वो॑ जातवेदः । उ॒क्षन्ति॑ त्वा वा॒जिन॒मा घृ॒तेन॑ । सँस॑मग्ने युवसे॒ भोज॑नानि । अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय । तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु । सञ्जा॑स्प॒त्यँ सु॒यम॒मा कृ॑णुष्व । श॒त्रू॒य॒ताम॒भि ति॑ष्ठा॒ महाँ॑सि ॥7॥

अ॒स्त्वे॒तु॒ रोहि॑तो॒ नाको॒ महाँ॑सि ॥ 2 ॥

पुन॑र्न॒ इन्द्रो॑ म॒घवा॑ ददातु । धना॑नि श॒क्रो धन्य॑स्सु॒राधाः॑ । अ॒र्वा॒चीन॑ङ्कृणुताय्याँचि॒तो मनः॑ । श्रु॒ष्टी नो॑ अ॒स्य ह॒विषो॑ जुषा॒णः । यानि॑ नोऽजि॒नन्धना॑नि । ज॒हर्थ॑ शूर म॒न्युना॑ । इन्द्रानु॑विन्द न॒स्तानि॑ । अ॒नेन॑ ह॒विषा॒ पुनः॑ । इन्द्र॒ आशा॑भ्य॒ᳶ परि॑ । सर्वा॒भ्योऽभ॑यङ्करत् ॥8॥

जेता॒ शत्रू॒न्विच॑र्षणिः । आकू॑त्यै त्वा॒ कामा॑य त्वा स॒मृधे॑ त्वा । पु॒रो द॑धे अमृत॒त्वाय॑ जी॒वसे॑ । आकू॑तिम॒स्याव॑से । काम॑मस्य॒ समृ॑द्ध्यै । इन्द्र॑स्य युञ्जते॒ धियः॑ । आकू॑तिन्दे॒वीम्मन॑सᳶ पु॒रो द॑धे । य॒ज्ञस्य॑ मा॒ता सु॒हवा॑ मे अस्तु । यदि॒च्छामि॒ मन॑सा॒ सका॑मः । वि॒देय॑मेन॒द्धृद॑ये॒ निवि॑ष्टम् ॥9॥

सेद॒ग्निर॒ग्नीँरत्ये॑त्य॒न्यान् । यत्र॑ वा॒जी तन॑यो वी॒डुपा॑णिः । स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ । आशा॑नान्त्वाऽऽशापा॒लेभ्यः॑ । च॒तुर्भ्यो॑ अ॒मृते॑भ्यः । इ॒दम्भू॒तस्याध्य॑क्षेभ्यः । वि॒धेम॑ ह॒विषा॑ व॒यम् । विश्वा॒ आशा॒ मधु॑ना॒ सँ सृ॑जामि । अ॒न॒मी॒वा आप॒ ओष॑धयो भवन्तु । अ॒यय्यँज॑मानो॒ मृधो॒ व्य॑स्यताम् ॥10॥

अगृ॑भीताᳶ प॒शव॑स्सन्तु॒ सर्वे॑ । अ॒ग्निस्सोमो॒ वरु॑णो मि॒त्र इन्द्रः॑ । बृह॒स्पति॑स्सवि॒ता यस्स॑ह॒स्री । पू॒षा नो॒ गोभि॒रव॑सा॒ सर॑स्वती । त्वष्टा॑ रू॒पाणि॒ सम॑नक्तु य॒ज्ञैः । त्वष्टा॑ रू॒पाणि॒ दध॑ती॒ सर॑स्वती । पू॒षा भगँ॑ सवि॒ता नो॑ ददातु । बृह॒स्पति॒र्दद॒दिन्द्र॑स्स॒हस्र॑म् । मि॒त्रो दा॒ता वरु॑ण॒स्सोमो॑ अ॒ग्निः ॥11॥

क॒र॒न्निवि॑ष्टमस्यता॒न्नव॑ च ॥ 3 ॥

आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्त॑म् । नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के । उ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे । तमापृ॑णा वसुपते॒ वसू॑नाम् । इ॒मङ्काम॑म्मन्दया॒ गोभि॒रश्वैः॑ । च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च । सु॒व॒र्यवो॑ म॒तिभि॒स्तुभ्यव्ँ॒विप्राः॑ । इन्द्रा॑य॒ वाह॑ᳶ कुशि॒कासो॑ अक्रन् । इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्रवो॑चम् । यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री ॥12॥

अह॒न्नहि॒मन्व॒पस्त॑तर्द । प्रव॒क्षणा॑ अभिन॒त्पर्व॑तानाम् । अह॒न्नहि॒म्पर्व॑ते शिश्रिया॒णम् । त्वष्टा॑ऽस्मै॒ वज्र॑ स्व॒र्य॑न्ततक्ष । वा॒श्रा इ॑व धे॒नव॒स्स्यन्द॑मानाः । अञ्ज॑स्समु॒द्रमव॑ जग्मु॒रापः॑ । वृ॒षा॒यमा॑णोऽवृणीत॒ सोम॑म् । त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ । आ साय॑कम्म॒घवा॑ दत्त॒ वज्र॑म् । अह॑न्नेनम्प्रथम॒जा मही॑नाम् ॥13॥

यदिन्द्राह॑न्प्रथम॒जा मही॑नाम् । आन्मा॒यिना॒ममि॑ना॒ᳶ प्रोत मा॒याः । आत्सूर्य॑ञ्ज॒नय॒न्द्यामु॒षास॑म् । ता॒दीक्ना॒ शत्रू॒न्न किला॑विवित्से । अह॑न्वृ॒त्रव्वृँ॑त्र॒तर॒व्व्यँँस॑म् । इन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ । स्कन्धाँ॑सीव॒ कुलि॑शेना॒विवृ॑क्णा । अहि॑श्शयत उप॒पृक्पृ॑थि॒व्याम् । अ॒यो॒ध्येव दु॒र्मद॒ आ हि जु॒ह्वे । म॒हा॒वी॒रन्तु॑विबा॒धमृ॑जी॒षम् ॥14॥

नाता॑रीरस्य॒ समृ॑तिव्ँव॒धाना॑म् । सँ रु॒जानाः॑ पिपिष॒ इन्द्र॑शत्रुः । विश्वो॒ विहा॑या अर॒तिः । वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे । त॒रणि॒र्न शि॑श्रथत् । श्र॒व॒स्य॑या॒ न शि॑श्रथत् । विश्व॑स्मा॒ इदि॑षुध्य॒से । दे॒व॒त्रा ह॒व्यमूहि॑षे । विश्व॑स्मा॒ इत्सु॒कृते॒ वार॑मृण्वति । अ॒ग्निर्द्वारा॒ व्यृ॑ण्वति ॥15॥

उदु॒ज्जिहा॑नो अ॒भि काम॑मी॒रय॑न् । प्र॒पृ॒ञ्चन्विश्वा॒ भुव॑नानि पू॒र्वथा॑ । आ के॒तुना॒ सुष॑मिद्धो॒ यजि॑ष्ठः । काम॑न्नो अग्ने अ॒भिह॑र्य दि॒ग्भ्यः । जु॒षा॒णो ह॒व्यम॒मृते॑षु दू॒ढ्यः॑ । आ नो॑ र॒यिम्ब॑हु॒लाङ्गोम॑ती॒मिष॑म् । निधे॑हि॒ यक्ष॑द॒मृते॑षु॒ भूष॑न् । अश्वि॑ना य॒ज्ञमाग॑तम् । दा॒शुष॒ᳶ पुरु॑दँससा । पू॒षा र॑क्षतु नो र॒यिम् ॥16॥

इ॒मय्यँ॒ज्ञम॒श्विना॑ व॒र्धय॑न्ता । इ॒मौ र॒यिय्यँज॑मानाय धत्तम् । इ॒मौ प॒शून्र॑क्षताव्विँ॒श्वतो॑ नः । पू॒षा न॑ᳶ पातु॒ सद॒मप्र॑यच्छन् । प्रते॑ म॒हे स॑रस्वति । सुभ॑गे॒ वाजि॑नीवति । स॒त्य॒वाचे॑ भरे म॒तिम् । इ॒दन्नो॑ ह॒व्यङ्घृ॒तव॑त्सरस्वति । स॒त्य॒वाचे॒ प्रभ॑रेमा ह॒वीँषि॑ । इ॒मानि॑ ते दुरि॒ता सौभ॑गानि । तेभि॑र्व॒यँ सु॒भगा॑सस्स्याम ॥17॥

व॒ज्र्यही॑नामृजी॒षं व्यृ॑ण्वति रक्षतु नो र॒यिँ सौभ॑गा॒न्येक॑ञ्च ॥ 4 ॥

य॒ज्ञो रा॒यो य॒ज्ञ ई॑शे॒ वसू॑नाम् । य॒ज्ञस्स॒स्याना॑मु॒त सु॑क्षिती॒नाम् । य॒ज्ञ इ॒ष्टᳶ पू॒र्वचि॑त्तिन्दधातु । य॒ज्ञो ब्र॑ह्म॒ण्वाँ अप्ये॑तु दे॒वान् । अ॒यय्यँ॒ज्ञो व॑र्धता॒ङ्गोभि॒रश्वैः॑ । इ॒यव्वेँदि॑स्स्वप॒त्या सु॒वीरा॑ । इ॒दम्ब॒र्हिरति॑ ब॒र्हीँष्य॒न्या । इ॒मय्यँ॒ज्ञव्विँश्वे॑ अवन्तु दे॒वाः । भग॑ ए॒व भग॑वाँ अस्तु देवाः । तेन॑ व॒यम्भग॑वन्तस्स्याम ॥18॥

तन्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि । स नो॑ भग पुरए॒ता भ॑वे॒ह । भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः । भगे॒मान्धिय॒मुद॑व॒ दद॑न्नः । भग॒ प्र णो॑ जनय॒ गोभि॒रश्वैः॑ । भग॒ प्र नृभि॑र्नृ॒वन्त॑स्स्याम । शश्व॑ती॒स्समा॒ उप॑यन्ति लो॒काः । शश्व॑ती॒स्समा॒ उप॑य॒न्त्यापः॑ । इ॒ष्टम्पू॒र्तँ शश्व॑तीनाँ॒ समा॑नाँ शाश्व॒तेन॑ । ह॒विषे॒ष्ट्वाऽन॒न्तल्लोँ॒कम्पर॒मारु॑रोह ॥19॥

इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑त् । सा रू॒पाणि॑ कुरुते॒ पञ्च॑ दे॒वी । द्वे स्वसा॑रौ वयत॒स्तन्त्र॑मे॒तत् । स॒ना॒तनव्ँ॒वित॑तँ॒ षण्म॑यूखम् । अवा॒न्याँस्तन्तू॑न्कि॒रतो॑ ध॒त्तो अ॒न्यान् । नाव॑पृ॒ज्याते॒ न ग॑माते॒ अन्त॑म् । आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य । वृष्टिय्ँ॒ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । अ॒यय्योँ अ॒ग्निर्म॑रुत॒स्समि॑द्धः । ए॒तञ्जु॑षध्वङ्कवयो युवानः ॥20॥

धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्णुवो॑जसः । मृ॒गा न भी॒मास्त॑वि॒षेभि॑रू॒र्मिभिः॑ । अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणः॑ । भ्रुमि॒न्धम॑न्त॒ उप॒ गा अ॑वृण्वत । वि च॑क्रमे॒ त्रिर्दे॒वः । आ वे॒धस॒न्नील॑पृष्ठम्बृ॒हन्त॑म् । बृह॒स्पतिँ॒ सद॑ने सादयध्वम् । सा॒दद्यो॑नि॒न्दम॒ आ दी॑दि॒वाँस॑म् । हिर॑ण्यवर्णमरु॒षँ स॑पेम । स हि शुचि॑श्श॒तप॑त्र॒स्स शु॒न्ध्यूः ॥21॥

हिर॑ण्यवाशीरिषि॒रस्सु॑व॒र्षाः । बृह॒स्पति॒स्स स्वा॑वे॒श ऋ॒ष्वाः । पू॒रू सखि॑भ्य आसु॒तिङ्क॑रिष्ठः । पूष॒॒ स्तव॑ व्र॒ते व॒यम् । न रि॑ष्येम क॒दाच॒न । स्तो॒तार॑स्त इ॒ह स्म॑सि । यास्ते॑ पूष॒न्ना वो॑ अ॒न्तस्स॑मु॒द्रे । हि॒र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति । याभि॑र्यासि दू॒त्याँ सूर्य॑स्य । कामे॑न कृ॒तश्रव॑ इ॒च्छमा॑नः ॥22॥

अर॑ण्या॒न्यर॑ण्यान्य॒सौ । या प्रेव॒ नश्य॑सि । क॒था ग्राम॒न्न पृ॑च्छसि । न त्वा॒भीरि॑व विन्दती ३ । वृ॒षा॒र॒वाय॒ वद॑ते । यदु॒पाव॑तिचिच्चि॒कः । आ॒घा॒टीभि॑रिव धा॒वय॑न् । अ॒र॒ण्या॒निर्म॑हीयते । उ॒त गाव॑ इवादन् । उ॒तो वेश्मे॑व दृश्यते ॥23॥

उ॒तो अ॑रण्या॒निस्सा॒यम् । श॒क॒टीरि॑व सर्जति । गाम॒ङ्गैष॒ आह्व॑यति । दार्व॒ङ्गैष॒ उपा॑वधीत् । वस॑न्नरण्या॒न्याँ सा॒यम् । अक्रु॑क्ष॒दिति॑ मन्यते । न वा अ॑रण्या॒निर्ह॑न्ति । अ॒न्यश्चेन्नाभि॒गच्छ॑ति । स्वा॒दोᳶ फल॑स्य ज॒ग्ध्वा । यत्र॒ काम॒न्निप॑द्यते । आञ्ज॑नगन्धीँ सुर॒भीम् । ब॒ह्व॒न्नामकृ॑षीवलाम् । प्राहम्मृ॒गाणा॑म्मा॒तर॑म् । अ॒र॒ण्या॒नीम॑शँसिषम् ॥ 24॥

स्या॒म॒ रु॒रो॒ह॒ यु॒वा॒न॒श्शु॒न्ध्यूरि॒च्छमा॑नो दृश्यते॒ निप॑द्यते च॒त्वारि॑ च ॥ 5 ॥

वार्त्र॑हत्याय॒ शव॑से । पृ॒त॒ना॒साह्या॑य च । इन्द्र॒ त्वा व॑र्तयामसि । सु॒ब्रह्मा॑णव्ँवी॒रव॑न्तम्बृ॒हन्त॑म् । उ॒रुङ्ग॑भी॒रम्पृ॒थुबु॑ध्नमिन्द्र । श्रु॒तर्षि॑मु॒ग्रम॑भिमाति॒षाह॑म् । अ॒स्मभ्य॑ञ्चि॒त्रव्ँवृष॑णँ र॒यिन्दाः॑ । क्षे॒त्रि॒यै त्वा॒ निर्ऋ॑त्यै त्वा । द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् । अ॒ना॒गस॒म्ब्रह्म॑णे त्वा करोमि ॥25॥

शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । शन्ते॑ अ॒ग्निस्स॒हाद्भिर॑स्तु । शन्द्यावा॑पृथि॒वी स॒हौष॑धीभिः । शम॒न्तरि॑क्षँ स॒ह वाते॑न ते । शन्ते॒ चत॑स्रᳶ प्र॒दिशो॑ भवन्तु । या दैवी॒श्चत॑स्रᳶ प्र॒दिशः॑ । वात॑पत्नीर॒भि सूर्यो॑ विच॒ष्टे । तासा॑न्त्वा ज॒रस॒ आद॑धामि । प्र यक्ष्म॑ एतु॒ निर्ऋ॑तिम्परा॒चैः । अमो॑चि॒ यक्ष्मा॑द्दुरि॒तादव॑र्त्यै ॥26॥

द्रु॒हᳶ पाशा॒न्निर्ऋ॑त्यै॒ चोद॑मोचि । अहा॒ अव॑र्ति॒मवि॑दत्स्यो॒नम् । अप्य॑भूद्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के । सूर्य॑मृ॒तन्तम॑सो॒ ग्राह्या॒ यत् । दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न्व्ये॑नसः । ए॒वम॒हमि॒मङ्क्षे॑त्रि॒याज्जा॑मिशँ॒सात् । द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् । बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वः॑ । दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य । ध॒त्तँ र॒यि स्तु॑व॒ते की॒रये॑चित् ॥27॥

यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः । दे॒वा॒युध॒मिन्द्र॒मा जोहु॑वानाः । वि॒श्वा॒वृध॑म॒भि ये रक्ष॑माणाः । येन॑ ह॒ता दी॒र्घमध्वा॑न॒माय॑न् । अ॒न॒न्तमर्थ॒मनि॑वर्त्स्यमानाः । यत्ते॑ सुजाते हि॒मव॑त्सु भेष॒जम् । म॒यो॒भूश्शन्त॑मा॒ यद्धृ॒दोसि॑ । ततो॑ नो देहि सीबले । अ॒दो गि॒रिभ्यो॒ अधि॒ यत्प्र॒धाव॑सि । सँ॒शोभ॑माना क॒न्ये॑व शुभ्रे ॥28॥

तान्त्वा॒ मुद्ग॑ला ह॒विषा॑ वर्धयन्ति । सा न॑स्सीबले र॒यिमाभा॑जये॒ह । पूर्व॑न्देवा॒ अप॑रेणानु॒पश्य॒ञ्जन्म॑भिः । जन्मा॒न्यव॑रै॒ᳶ परा॑णि । वेदा॑नि देवा अ॒यम॒स्मीति॒ माम् । अ॒हँ हि॒त्वा शरी॑रञ्ज॒रस॑ᳶ प॒रस्ता॑त् । प्रा॒णा॒पा॒नौ चक्षु॒श्श्रोत्र॑म् । वाच॒म्मन॑सि॒ सम्भृ॑ताम् । हि॒त्वा शरी॑रञ्ज॒रस॑ᳶ प॒रस्ता॑त् । आ भूति॒म्भूतिव्ँ॑व॒यम॑श्ञवामहै । इ॒मा ए॒व ता उ॒षसो॒ याᳶ प्र॑थ॒मा व्यौच्छ॑न् । ता दे॒व्य॑ᳶ कुर्वते॒ पञ्च॑रू॒पा । शश्व॑ती॒र्नाव॑पृज्यन्ति । न ग॑म॒न्त्यन्त॑म् ॥29॥

क॒रो॒म्यव॑र्त्यै चिच्छुभ्रेऽश्ञवामहै च॒त्वारि॑ च ॥ 6 ॥

वसू॑ना॒न्त्वाऽधी॑तेन । रु॒द्राणा॑मू॒र्म्या । आ॒दि॒त्याना॒न्तेज॑सा । विश्वे॑षान्दे॒वाना॒ङ्क्रतु॑ना । म॒रुता॒मेम्ना॑ जुहोमि॒ स्वाहा॑ । अ॒भिभू॑तिर॒हमाग॑मम् । इन्द्र॑सखा स्वा॒युधः॑ । आस्वाशा॑सु दु॒ष्षहः॑ । इ॒दव्ँवर्चो॑ अ॒ग्निना॑ द॒त्तमागा॑त् । यशो॒ भर्ग॒स्सह॒ ओजो॒ बल॑ञ्च ॥30॥

दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय । प्रति॑गृभ्णामि मह॒ते वी॒र्या॑य । आयु॑रसि वि॒श्वायु॑रसि । स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि । सर्व॑म्म॒ आयु॑र्भूयात् । सर्व॒मायु॑र्गेषम् । भूर्भुव॒स्सुवः॑ । अ॒ग्निर्धर्मे॑णान्ना॒दः । मृ॒त्युर्धर्मे॒णान्न॑पतिः । ब्रह्म॑ क्ष॒त्र स्वाहा॑ ॥31॥

प्र॒जाप॑तिᳶ प्रणे॒ता । बृह॒स्पति॑ᳶ पुरए॒ता । य॒मᳶ पन्थाः॑ । च॒न्द्रमाः॑ पुनर॒सुस्स्वाहा॑ । अ॒ग्निर॑न्ना॒दोऽन्न॑पतिः । अ॒न्नाद्य॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ । सोमो॒ राजा॒ राज॑पतिः । रा॒ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ । वरु॑णस्स॒म्राट्त्स॒म्राट्प॑तिः । साम्रा॑ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ॥32॥

मि॒त्रः क्ष॒त्रङ्क्ष॒त्रप॑तिः । क्ष॒त्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ । इन्द्रो॒ बल॒म्बल॑पतिः । बल॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ । बृह॒स्पति॒र्ब्रह्म॒ ब्रह्म॑पतिः । ब्रह्मा॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ । स॒वि॒ता रा॒ष्ट्रँ रा॒ष्ट्रप॑तिः । रा॒ष्ट्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ । पू॒षा वि॒शाव्ँविट्प॑तिः । विश॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ । सर॑स्वती॒ पुष्टि॒ᳶ पुष्टि॑पत्नी । पुष्टि॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ । त्वष्टा॑ पशू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृद्रू॒पप॑तिः । रु॒पेणा॒स्मिन् य॒ज्ञे यज॑मानाय प॒शून्द॑दातु॒ स्वाहा॑ ॥33॥

च॒ स्वाहा॒ साम्रा॑ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॒ विश॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ च॒त्वारि॑ च ॥ 7 ॥ (अ॒ग्निस्सोमो॒ वरु॑णो मि॒त्र इन्द्रो॒ बृह॒स्पति॑स्सवि॒ता पू॒षा सर॑स्वती॒ त्वष्टा॒ दश॑ ॥ )

स ई॑म्पाहि॒ य ऋ॑जी॒षी तरु॑त्रः । यश्शिप्र॑वान्वृष॒भो यो म॑ती॒नाम् । यो गो॑त्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः । स इ॑न्द्र चि॒त्राँ अ॒भि तृ॑न्धि॒ वाजा॑न् । आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात् । ओत्त॒राद॑ध॒रागा पु॒रस्ता॑त् । आ वि॒श्वतो॑ अ॒भिसमे॑त्व॒र्वाङ् । इन्द्र॑ द्यु॒म्नँ सुव॑र्वद्धेह्य॒स्मे । प्रोष्व॑स्मै पुरोर॒थम् । इन्द्रा॑य शू॒षम॑र्चत ॥34॥

अ॒भीके॑ चिदु लोक॒कृत् । स॒ङ्गे स॒मत्सु॑ वृत्र॒हा । अ॒स्माक॑म्बोधि चोदि॒ता । नभ॑न्तामन्य॒केषा॑म् । ज्या॒का अधि॒ धन्व॑सु । इन्द्रव्ँ॑व॒यँ शु॑ना॒सीर॑म् । अ॒स्मिन् य॒ज्ञे ह॑वामहे । आ वाजै॒रुप॑ नो गमत् । इन्द्रा॑य॒ शुना॒सीरा॑य । स्रु॒चा जु॑हुत नो ह॒विः ॥35॥

जु॒षता॒म्प्रति॒ मेधि॑रः । प्र ह॒व्यानि॑ घृ॒तव॑न्त्यस्मै । हर्य॑श्वाय भरता स॒जोषाः॑ । इन्द्र॒र्तुभि॒र्ब्रह्म॑णा वावृधा॒नः । शु॒ना॒सी॒री ह॒विरि॒दञ्जु॑षस्व । वय॑स्सुप॒र्णा उप॑सेदु॒रिन्द्र॑म् । प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑ ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षुः॑ । मु॒मु॒ग्ध्य॑स्मान्नि॒धये॑ऽव ब॒द्धान् । बृ॒हदिन्द्रा॑य गायत ॥36॥

मरु॑तो वृत्र॒हन्त॑मम् । येन॒ ज्योति॒रज॑नयन्नृता॒वृधः॑ । दे॒वन्दे॒वाय॒ जागृ॑वि । कामि॒हैका॒ᳶ क इ॒मे प॑त॒ङ्गाः । मा॒न्था॒लाᳶ कुलि॒परि॑मापतन्ति । अना॑वृतैना॒न्प्रध॑मन्तु दे॒वाः । सौप॑र्ण॒ञ्चक्षु॑स्त॒नुवा॑ विदेय । ए॒वा व॑न्दस्व॒ वरु॑णम्बृ॒हन्त॑म् । न॒म॒स्याधीर॑म॒मृत॑स्य गो॒पाम् । स न॒श्शर्म॑ त्रि॒वरू॑थव्ँ॒वियँ॑सत् ॥37॥

यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः । नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तम् । हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्यपक्षव्ँ॒वरु॑णस्य दू॒तम् । य॒मस्य॒ योनौ॑ शकु॒नम्भु॑र॒ण्युम् । शन्नो॑ दे॒वीर॒भिष्ट॑ये । आपो॑ भवन्तु पी॒तये॑ । शय्योँर॒भिस्र॑वन्तु नः । ईशा॑ना॒ वार्या॑णाम् । क्षय॑न्तीश्चर्षणी॒नाम् ॥38 ॥

अ॒पो या॑चामि भेष॒जम् । अ॒प्सु मे॒ सोमो॑ अब्रवीत् । अ॒न्तर्विश्वा॑नि भेष॒जा । अ॒ग्निञ्च॑ वि॒श्वश॑म्भुवम् । आप॑श्च वि॒श्वभे॑षजीः । यद॒प्सु ते॑ सरस्वति । गोष्वश्वे॑षु॒ यन्मधु॑ । तेन॑ मे वाजिनीवति । मुख॑मङ्ग्धि सरस्वति । या सर॑स्वती वैशम्भ॒ल्या ॥39॥

तस्या॑म्मे रास्व । तस्या॑स्ते भक्षीय । तस्या॑स्ते भूयिष्ठ॒भाजो॑ भूयास्म । अ॒हन्त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि । ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्रᳶ पि॒त्रे लो॑क॒कृज्जा॑तवेदः । इ॒हैव सन्तत्र॒ सन्त॑न्त्वाऽग्ने । प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि । ति॒रो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् ॥40॥

ज्योति॑षा त्वा वैश्वान॒रेणोप॑तिष्ठे । अ॒यन्ते॒ योनि॑र् ऋ॒त्वियः॑ । यतो॑ जा॒तो अरो॑चथाः । तञ्जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्धया र॒यिम् । या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्यारो॑हा॒त्माऽऽत्मान॑म् । अच्छा॒ वसू॑नि कृ॒ण्वन्न॒स्मे नर्या॑ पु॒रूणि॑ । य॒ज्ञो भू॒त्वा य॒ज्ञमासी॑द॒ स्वाय्ँयोनि॑म् । जात॑वेदो॒ भुव॒ आ जाय॑मान॒स्सक्ष॑य॒ एहि॑ । उ॒पाव॑रोह जातवेद॒ᳶ पुन॒स्त्वम् ॥41॥

दे॒वेभ्यो॑ ह॒व्यव्ँव॑ह नᳶ प्रजा॒नन् । आयु॑ᳶ प्र॒जाँ र॒यिम॒स्मासु॑ धेहि । अज॑स्रो दीदिहि नो दुरो॒णे । तमिन्द्र॑ञ्जोहवीमि म॒घवा॑नमु॒ग्रम् । स॒त्रा दधा॑न॒मप्र॑तिष्कुतँ॒ शवाँ॑सि । मँहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ऽव॒वर्त॑त् । रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री । त्रिक॑द्रुकेषु महि॒षो यवा॑शिरन्तुवि॒शुष्म॑स्तृ॒पत् । सोम॑मपिब॒द्विष्णु॑ना सु॒तय्ँयथाऽव॑शत् । स ई॑म्ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुम् ॥42॥

सैनँ॑ सश्चद्दे॒वन्दे॒वस्स॒त्यमिन्दुँ॑ स॒त्य इन्द्रः॑ । वि॒दद्यती॑ स॒रमा॑ रु॒ग्णमद्रेः॑ । महि॒ पाथ॑ᳶ पू॒र्व्यँ स॒द्ध्रिय॑क्कः । अग्र॑न्नयत्सु॒पद्यक्ष॑राणाम् । अच्छा॒ रव॑म्प्रथ॒मा जा॑न॒तीगा॑त् । वि॒दद्गव्यँ॑ स॒रमा॑ दृ॒ढमू॒र्वम् । येना॒नुक॒म्मानु॑षी॒ भोज॑ते॒ विट् । आ ये विश्वा॑स्स्वप॒त्यानि॑ च॒क्रुः । कृ॒ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् । त्वन्नृभि॑र्नृपते दे॒वहू॑तौ ॥43॥

भूरी॑णि वृ॒त्वा ह॑र्यश्व हँसि । त्वन्निद॑स्यु॒ञ्चुमु॑रिम् । धुनि॒ञ्चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ । ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा । श्रु॒धि ब्रह्म॑ वावृधस्वो॒त गी॒र्भिः । आ॒विस्सुर्य॑ङ्कृणु॒हि पी॒पिही॒षः । ज॒हि शत्रूँ॑ र॒भि गा इ॑न्द्र तृन्धि । अग्ने॒ बाध॑स्व॒ वि मृधो॑ नुदस्व । अपामी॑वा॒ अप॒ रक्षाँ॑सि सेध । अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नः॑ ॥44॥

अ॒पाम्भू॒मान॒मुप॑ नस्सृजे॒ह । यज्ञ॒ प्रति॑तिष्ठ सुम॒तौ सु॒शेवा॒ आ त्वा॑ । वसू॑नि पुरु॒धा वि॑शन्तु । दी॒र्घमायु॒र्यज॑मानाय कृ॒ण्वन् । अधा॒मृते॑न जरि॒तार॑मङ्ग्धि । इन्द्र॑श्शु॒नाव॒द्वित॑नोति॒ सीर॑म् । सव्ँ॒व॒त्स॒रस्य॑ प्रति॒माण॑मे॒तत् । अ॒र्कस्य॒ ज्योति॒स्तदिदा॑स॒ ज्येष्ठ॑म् । सव्ँ॒व॒त्स॒रँ शु॒नव॒त्सीर॑मे॒तत् । इन्द्र॑स्य॒ राध॒ᳶ प्रय॑तम्पु॒रु त्मना॑ । तद॑र्करू॒पव्ँवि॒मिमा॑नमेति । द्वाद॑शारे॒ प्रति॑तिष्ठ॒तीद्वृषा॑ । अ॒श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तः । हवा॑महे॒ त्वोप॑गन्त॒वा उ॑ । आ॒भूष॑न्तस्त्वा सुम॒तौ नवा॑याम् । व॒यमि॑न्द्र त्वा शु॒नँ हु॑वेम ॥45॥

अ॒र्च॒त॒ ह॒विर्गा॑यत यँसच्चऱ्षणी॒नां वै॑शम्भ॒ल्या हा॑सी॒त्त्वमु॒रुं दे॒वहू॑तौ न॒स्त्मना॒ षट्च॑ ॥ 8 ॥

प्रा॒ण उ॒देहि॒ पुन॒रा नो॑ भर य॒ज्ञो रा॒यो वार्त्र॑हत्याय॒ वसू॑नाँ॒ स ईं॑ पाह्य॒ष्टौ ॥ 8 ॥ प्रा॒णो र॑क्ष॒त्यगृ॑भीता धाराव॒रा म॒रुतो॑ दीर्घायु॒त्वाय॒ ज्योति॑षा त्वा॒ पञ्च॑चत्वारिँशत् ॥ 45 ॥ प्रा॒णश्शु॒नँ हु॑वेम । हरिः॑ ओम् ॥ श्रीकृष्णार्पणमस्तु ॥ पञ्चमप्रपाठकस्समाप्तः ॥