जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒णे । इ॒मन्नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् । विश्वा॑ अग्नेऽभि॒युजो॑ वि॒हत्य॑ । श॒त्रू॒य॒तामा भ॑रा॒ भोज॑नानि । अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय । तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु । सञ्जा॑स्प॒त्यँ सु॒यम॒मा कृ॑णुष्व । श॒त्रू॒य॒ताम॒भि ति॑ष्ठा॒ महाँ॑ सि । अग्ने॒ यो नो॒ऽभितो॒ जनः॑ । वृको॒ वारो॒ जिघाँ॑सति ॥1॥
ताँस्त्वव्वृँ॑त्रहञ्जहि । वस्व॒स्मभ्य॒माभ॑र । अग्ने॒ यो नो॑ऽभि॒दास॑ति । स॒मा॒नो यश्च॒ निष्ट्यः॑ । इ॒ध्मस्ये॑व प्र॒क्षाय॑तः । मा तस्योच्छे॑षि॒ किञ्च॒न । त्वमि॑न्द्राभि॒भूर॑सि । दे॒वो विज्ञा॑तवीर्यः । वृ॒त्र॒हा पु॑रु॒चेत॑नः । अप॒ प्राच॑ इन्द्र॒ विश्वाँ॑ अ॒मित्रा॑न् ॥2॥
अपापा॑चो अभिभूते नुदस्व । अपोदी॑चो॒ अप॑शूराध॒रा च॑ ऊ॒रौ । यथा॒ तव॒ शर्म॒न्मदे॑म । तमिन्द्रव्ँ॑वाजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑ वृष॒भो भु॑वत् । यु॒जे रथ॑ङ्ग॒वेष॑णँ॒ हरि॑भ्याम् । उप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः । विबा॑धिष्टा॒स्य रोद॑सी महि॒त्वा । इन्द्रो॑ वृ॒त्राण्य॑प्र॒तीज॑घ॒न्वान् ॥3॥
ह॒व्य॒वाह॑मभिमाति॒षाह॑म् । र॒क्षो॒हण॒म्पृत॑नासु जि॒ष्णुम् । ज्योति॑ष्मन्त॒न्दीद्य॑त॒म्पुर॑न्धिम् । अ॒ग्नि स्वि॑ष्ट॒कृत॒मा हु॑वेम । स्वि॑ष्टमग्ने अ॒भि तत्पृ॑णाहि । विश्वा॑ देव॒ पृत॑ना अ॒भिष्य । उ॒रुन्न॒ᳶ पन्था॑म्प्रदि॒शन्विभा॑हि । ज्योति॑ष्मद्धेह्य॒जर॑न्न॒ आयुः॑ । त्वाम॑ग्ने ह॒विष्म॑न्तः । दे॒वम्मर्ता॑स ईडते ॥4॥
मन्ये॑ त्वा जा॒तवे॑दसम् । स ह॒व्या व॑क्ष्यानु॒षक् । विश्वा॑नि नो दु॒र्गहा॑ जातवेदः । सिन्धु॒न्न ना॒वा दु॑रि॒ताऽति॑पर्षि । अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नः । अ॒स्माक॑म्बोध्यवि॒ता त॒नूना॑म् । पू॒षा गा अन्वे॑तु नः । पू॒षा र॑क्ष॒त्वर्व॑तः । पू॒षा वाजँ॑ सनोतु नः । पू॒षेमा आशा॒ अनु॑वेद॒ सर्वाः॑ ॥5॥
सो अ॒स्माँ अभ॑यतमेन नेषत् । स्व॒स्ति॒दा अघृ॑णि॒स्सर्व॑वीरः । अप्र॑युच्छन्पु॒र ए॑तु॒ प्रजा॒नन् । त्वम॑ग्ने स॒प्रथा॑ असि । जुष्टो॒ होता॒ वरे॑ण्यः । त्वया॑ य॒ज्ञव्विँत॑न्वते । अ॒ग्नी रक्षाँ॑सि सेधति । शु॒क्रशो॑चि॒रम॑र्त्यः । शुचि॑ᳶ पाव॒क ईड्यः॑ । अग्ने॒ रक्षा॑ णो॒ अँह॑सः ॥ 6॥
प्रति॑ ष्म देव॒ रीष॑तः । तपि॑ष्ठैर॒जरो॑ दह । अग्ने॒ हँसि॒ न्य॑त्रिण॑म् । दीद्य॒न्मर्त्ये॒ष्वा । स्वे क्षये॑ शुचिव्रत । आ वा॑त वाहि भेष॒जम् । वि वा॑त वाहि॒ यद्रपः॑ । त्वँ हि वि॒श्वभे॑षजः । दे॒वाना॑न्दू॒त ईय॑से । द्वावि॒मौ वातौ॑ वातः ॥7॥
आ सिन्धो॒रा प॑रा॒वतः॑ । दक्ष॑म्मे अ॒न्य आ॒वातु॑ । परा॒न्यो वा॑तु॒ यद्रपः॑ । यद॒दो वा॑त ते गृ॒हे । अ॒मृत॑स्य नि॒धिर्हि॒तः । ततो॑ नो देहि जी॒वसे॑ । ततो॑ नो धेहि भेष॒जम् । ततो॑ नो॒ मह॒ आव॑ह । वात॒ आवा॑तु भेष॒जम् । श॒म्भूर्म॑यो॒भूर्नो॑ हृ॒दे ॥8॥
प्र ण॒ आयूँ॑षि तारिषत् । त्वम॑ग्ने अ॒यासि॑ । अ॒या सन्मन॑सा हि॒तः । अ॒या सन् ह॒व्यमू॑हिषे । अ॒या नो॑ धेहि भेष॒जम् । इ॒ष्टो अ॒ग्निराहु॑तः । स्वाहा॑कृतᳶ पिपर्तु नः । स्व॒गा दे॒वेभ्य॑ इ॒दन्नमः॑ । कामो॑ भू॒तस्य॒ भव्य॑स्य । स॒म्राडेको॒ विरा॑जति ॥9॥
स इ॒दम्प्रति॑ पप्रथे । ऋ॒तूनुत्सृ॑जते व॒शी । काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेत॑ᳶ प्रथ॒मय्यँदासी॑त् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा । त्वया॑ मन्यो स॒रथ॑मारु॒जन्तः॑ । हर्ष॑माणासो धृष॒ता म॑रुत्वः । ति॒ग्मेष॑व॒ आयु॑धा सँ॒शिशा॑नाः । उप॒प्रय॑न्ति॒ नरो॑ अ॒ग्निरू॑पाः ॥10॥
म॒न्युर्भगो॑ म॒न्युरे॒वास॑ दे॒वः । म॒न्युर्होता॒ वरु॑णो वि॒श्ववे॑दाः । म॒न्युव्विँश॑ ईडते देव॒यन्तीः॑ । पा॒हि नो॑ मन्यो॒ तप॑सा॒ श्रमे॑ण । त्वम॑ग्ने व्रत॒भृच्छुचिः॑ । दे॒वाँ आसा॑दया इ॒ह । अग्ने॑ ह॒व्याय॒ वोढ॑वे । व्र॒तानुबिभ्र॑द्व्रत॒पा अदा॑भ्यः । यजा॑ नो दे॒वाँ अ॒जर॑स्सु॒वीरः॑ । दध॒द्रत्ना॑नि सुविदा॒नो अ॑ग्ने । गो॒पा॒य नो॑ जी॒वसे॑ जातवेदः ॥11॥
जिघाँ॑सत्य॒मित्रा॑ञ्जघ॒न्वानी॑डते॒ सर्वा॒ अँह॑सो वातो हृ॒दे रा॑जत्य॒ग्निरू॑पास्सुविदा॒नो अ॑ग्न॒ एक॑ञ्च ॥ 1 ॥
चक्षु॑षो हेते॒ मन॑सो हेते । वाचो॑ हेते॒ ब्रह्म॑णो हेते । यो मा॑ऽघा॒युर॑भि॒दास॑ति । तम॑ग्ने मे॒न्या मे॒निङ्कृ॑णु । यो मा॒ चक्षु॑षा॒ यो मन॑सा । यो वा॒चा ब्रह्म॑णाऽघा॒युर॑भि॒दास॑ति । तया॑ऽग्ने॒ त्वम्मे॒न्या । अ॒मुम॑मे॒निङ्कृ॑णु । यत्किञ्चा॒सौ मन॑सा॒ यच्च॑ वा॒चा । य॒ज्ञैर्जु॒होति॒ यजु॑षा ह॒विर्भिः॑ ॥12॥
तन्मृ॒त्युर्निर्ऋ॑त्या सव्विँदा॒नः । पु॒रादि॒ष्टादाहु॑तीरस्य हन्तु । या॒तु॒धाना॒ निर्ऋ॑ति॒रादु॒रक्षः॑ । ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम् । इन्द्रे॑षिता॒ आज्य॑मस्य मथ्नन्तु । मा तत्समृ॑द्धि॒ यद॒सौ क॒रोति॑ । हन्मि॑ ते॒ऽहङ्कृ॒तँ ह॒विः । यो मे॑ घो॒रमची॑कृतः । अपा॑ञ्चौ त उ॒भौ बा॒हू । अप॑नह्याम्या॒स्य॑म् ॥13॥
अप॑नह्यामि ते बा॒हू । अप॑नह्याम्या॒स्य॑म् । अ॒ग्नेर्दे॒वस्य॒ ब्रह्म॑णा । सर्व॑न्तेऽवधिषङ्कृ॒तम् । पु॒राऽमुष्य॑ वषट्का॒रात् । य॒ज्ञन्दे॒वेषु॑ नस्कृधि । स्वि॑ष्टम॒स्माक॑म्भूयात् । माऽस्मान्प्राप॒न्नरा॑तयः । अन्ति॑ दू॒रे स॒तो अ॑ग्ने । भ्रातृ॑व्यस्याभि॒दास॑तः ॥14॥
व॒ष॒ट्का॒रेण॒ वज्रे॑ण । कृ॒त्याँ ह॑न्मि कृ॒ताम॒हम् । यो मा॒ नक्त॒न्दिवा॑ सा॒यम् । प्रा॒तश्चाह्नो॑ नि॒पीय॑ति । अ॒द्या तमि॑न्द्र॒ वज्रे॑ण । भातृ॑व्यम्पादयामसि । इन्द्र॑स्य गृ॒हो॑ऽसि॒ तन्त्वा॑ । प्रप॑द्ये॒ सगु॒स्साश्वः॑ । स॒ह यन्मे॒ अस्ति॒ तेन॑ । ईडे॑ अ॒ग्निव्विँ॑प॒श्चित॑म् ॥15॥
गि॒रा य॒ज्ञस्य॒ साध॑नम् । श्रु॒ष्टी॒वान॑न्धि॒तावा॑नम् । अग्ने॑ श॒केम॑ ते व॒यम् । यम॑न्दे॒वस्य॑ वा॒जिनः॑ । अति॒ द्वेषाँ॑सि तरेम । अव॑तम्मा॒ सम॑नसौ॒ समो॑कसौ । सचे॑तसौ॒ सरे॑तसौ । उ॒भौ माम॑वतञ्जातवेदसौ । शि॒वौ भ॑वतम॒द्य नः॑ । स्व॒यङ्कृ॑ण्वा॒नस्सु॒गमप्र॑यावम् ॥16॥
ति॒ग्मशृ॑ङ्गो वृष॒भश्शोशु॑चानः । प्र॒त्नँ स॒धस्थ॒मनु॒पश्य॑मानः । आ तन्तु॑म॒ग्निर्दि॒व्यन्त॑तान । त्वन्न॒स्तन्तु॑रु॒त सेतु॑रग्ने । त्वम्पन्था॑ भवसि देव॒यानः॑ । त्वया॑ऽग्ने पृ॒ष्ठव्वँ॒यमारु॑हेम । अथा॑ दे॒वैस्स॑ध॒माद॑म्मदेम । उदु॑त्त॒मम्मु॑मुग्धि नः । वि पाश॑म्मध्य॒मञ्चृ॑त । अवा॑ध॒मानि॑ जी॒वसे॑ ॥ 17॥
व॒यँ सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तो अशीमहि । इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी॑ । उदँशे॑न पति॒विद्ये॑ जिगाय । त्रिँ॒शद॑स्या ज॒घनय्ँ॒योज॑नानि । उ॒पस्थ॒ इन्द्र॒॒ स्थवि॑रम्बिभर्ति । सेना॑ ह॒ नाम॑ पृथि॒वी ध॑नञ्ज॒या । वि॒श्वव्य॑चा॒ अदि॑ति॒स्सूर्य॑त्वक् । इ॒न्द्रा॒णी दे॒वी प्रा॒सहा॒ ददा॑ना ॥18॥
सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु । आत्वा॑ऽहार्षम॒न्तर॑भूः । ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु । मा त्वद्रा॒ष्ट्रमधि॑भ्रशत् । ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी । ध्रु॒वव्विँश्व॑मि॒दञ्जग॑त् । ध्रु॒वा ह॒ पर्व॑ता इ॒मे । ध्रु॒वो राजा॑ वि॒शाम॒यम् । इ॒हैवैधि॒ मा व्य॑थिष्ठाः ॥19॥
पर्व॑त इ॒वावि॑चाचलिः । इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठ । इ॒ह रा॒ष्ट्रमु॑ धारय । अ॒भिति॑ष्ठ पृतन्य॒तः । अध॑रे सन्तु॒ शत्र॑वः । इन्द्र॑ इव वृत्र॒हा ति॑ष्ठ । अ॒पः क्षेत्रा॑णि स॒ञ्जय॑न् । इन्द्र॑ एणमदीधरत् । ध्रु॒वन्ध्रु॒वेण॑ ह॒विषा॑ । तस्मै॑ दे॒वा अधि॑ब्रवन् । अ॒यञ्च॒ ब्रह्म॑ण॒स्पतिः॑ ॥20॥
ह॒विर्भि॑रा॒स्य॑मभि॒ दास॑तो विप॒श्चित॒मप्र॑यावञ्जी॒वसे॒ ददा॑ना व्यथिष्ठा ब्रव॒न्नेक॑ञ्च ॥ 2 ॥
जुष्टी॑ नरो॒ ब्रह्म॑णा वᳶ पितृ॒णाम् । अक्ष॑मव्यय॒न्न किला॑रिषाथ । यच्छक्व॑रीषु बृह॒ता रवे॑ण । इन्द्रे॒ शुष्म॒मद॑धाथा वसिष्ठाः । पा॒व॒का न॒स्सर॑स्वती । वाजे॑भिर्वा॒जिनी॑वती । य॒ज्ञव्वँ॑ष्टु धि॒या व॑सुः । सर॑स्वत्य॒भिनो॑नेषि॒ वस्यः॑ । मा प॑स्फरी॒ᳶ पय॑सा॒ मा न॒ आध॑क् । जु॒षस्व॑ नस्स॒ख्या॑ वे॒श्या॑ च ॥21॥
मा त्वक्षेत्रा॒ण्यर॑णानि गन्म । वृ॒ञ्जे ह॒विर्नम॑सा ब॒र्हिर॒ग्नौ । अया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः । अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्याः । अश्रा॑यि य॒ज्ञस्सूर्ये॒ न चक्षुः॑ । इ॒हार्वाञ्च॒मति॑ ह्वये । इन्द्र॒ञ्जैत्रा॑य॒ जेत॑वे । अ॒स्माक॑मस्तु॒ केव॑लः । अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे । यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः ॥22॥
इ॒मन्नो॑ य॒ज्ञव्विँ॑ह॒वे जु॑षस्व । अ॒स्य कु॑र्मो हरिवो मे॒दिन॑न्त्वा । अस॑म्मृष्टो जायसे मातृ॒वोश्शुचिः॑ । म॒न्द्रᳶ क॒विरुद॑तिष्ठो॒ विव॑स्वतः । घृ॒तेन॑ त्वाऽवर्धयन्नग्न आहुत । धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः । अ॒ग्निरग्रे॑ प्रथ॒मो दे॒वता॑नाम् । सय्याँ॑तानामुत्त॒मो विष्णु॑रासीत् । यज॑मानाय परि॒गृह्य॑ दे॒वान् । दी॒क्षये॒दँ ह॒विरा ग॑च्छतन्नः ॥23॥
अ॒ग्निश्च॑ विष्णो॒ तप॑ उत्त॒मम्म॒हः । दी॒क्षा॒पा॒लेभ्यो॒ऽवन॑तँ॒ हि श॑क्रा । विश्वै॑र्दे॒वैर्य॒ज्ञियै॑स्सव्विँदा॒नौ । दी॒क्षाम॒स्मै यज॑मानाय धत्तम् । प्र तद्विष्णु॑स्स्तवते वी॒र्या॑य । मृ॒गो न भी॒मᳶ कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ । नूमर्तो॑ दयते सनि॒ष्यन् यः । विष्ण॑व उरुगा॒याय॒ दाश॑त् ॥24॥
प्र यस्स॒त्राचा॒ मन॑सा॒ यजा॑तै । ए॒ताव॑न्त॒न्नर्य॑मा॒ विवा॑सात् । विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् । क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् । ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः । उ॒रु॒क्षि॒तिँ सु॒जनि॑मा चकार । त्रिर्दे॒वᳶ पृ॑थि॒वीमे॒ष ए॒ताम् । विच॑क्रमे श॒तर्च॑सम्महि॒त्वा । प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान् । त्वे॒ष ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥25॥
होता॑रञ्चि॒त्रर॑थमध्व॒रस्य॑ । य॒ज्ञस्य॑यज्ञस्य के॒तुँ रुश॑न्तम् । प्रत्य॑र्धिन्दे॒वस्य॑देवस्य म॒ह्ना । श्रि॒या त्व॑ग्निमति॑थि॒ञ्जना॑नाम् । आ नो॒ विश्वा॑भिरू॒तिभि॑स्स॒जोषाः॑ । ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि । वरी॑वृज॒त्स्थवि॑रेभिस्सुशिप्र । अ॒स्मे दध॒द्वृष॑णँ॒ शुष्म॑मिन्द्र । इन्द्र॑स्सुव॒र्षा ज॒नय॒न्नहा॑नि । जि॒गायो॒शिग्भि॒ᳶ पृत॑ना अभि॒श्रीः ॥26॥
प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॑म् । अवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य । अश्वि॑ना॒वव॑से॒ निह्व॑ये वाम् । आ नू॒नय्याँ॑तँ सुकृ॒ताय॑ विप्रा । प्रा॒त॒र्यु॒क्तेन॑ सु॒वृता॒ रथे॑न । उ॒पाग॑च्छत॒मव॒साग॑तन्नः । अ॒वि॒ष्टन्धी॒ष्वश्वि॑ना न आ॒सु । प्र॒जाव॒द्रेतो॒ अह्र॑यन्नो अस्तु । आवा॑न्तो॒के तन॑ये॒ तूतु॑जानाः । सु॒रत्ना॑सो दे॒ववी॑तिङ्गमेम ॥27॥
त्वँ सो॑म॒ क्रतु॑भिस्सु॒क्रतु॑र्भूः । त्वदन्दक्षै॑स्सु॒दक्षो॑ वि॒श्ववे॑दाः । त्वव्वृँषा॑ वृष॒त्वेभि॑र्महि॒त्वा । द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चक्षाः॑ । अषा॑ढय्युँ॒त्सु पृत॑नासु॒ पप्रि॑म् । सु॒व॒र्षाम॒प्स्वाव्वृँ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जाँ सु॑क्षि॒तिँ सु॒श्रव॑सम् । जय॑न्त॒न्त्वामनु॑मदेम सोम । भवा॑ मि॒त्रो न शेव्यो॑ घृ॒तासु॑तिः । विभू॑तद्युम्न एव॒ या उ॑ स॒प्रथाः॑ ॥28॥
अधा॑ ते विष्णो वि॒दुषा॑ चि॒दृध्यः॑ । स्तोमो॑ य॒ज्ञस्य॒ राध्यो॑ ह॒विष्म॑तः । यᳶ पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे । सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति । यो जा॒तम॒स्य म॑ह॒तो म॒हि ब्रवा॑त् । सेदु॒ श्रवो॑भिर्यु॒ज्य॑ञ्चिद॒भ्य॑सत् । तमु॑ स्तोतारᳶ पू॒र्व्यय्यँथा॑ वि॒द ऋ॒तस्य॑ । गर्भँ॑ ह॒विषा॑ पिपर्तन । आऽस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन । बृ॒हत्ते॑ विष्णो सुम॒तिम्भ॑जामहे ॥29॥
इ॒मा धा॒ना घृ॑त॒स्नुवः॑ । हरी॑ इ॒होप॑वक्षतः । इन्द्रँ॑ सु॒खत॑मे॒ रथे॑ । ए॒ष ब्र॒ह्मा प्रते॑म॒हे । वि॒दथे॑ शँसिषँ॒ हरी॑ । य ऋ॒त्विय॒ᳶ प्रते॑ वन्वे । व॒नुषो॑ हर्य॒तम्मद॑म् । इन्द्रो॒ नाम॑ घृ॒तन्नयः । हरि॑भि॒श्चारु॒ सेच॑ते । श्रु॒तो ग॒ण आ त्वा॑ विशन्तु ॥30॥
हरि॑वर्पस॒ङ्गिरः॑ । आच॑र्षणि॒प्रा वृ॑ष॒भो जना॑नाम् । राजा॑ कृष्टी॒नाम्पु॑रुहू॒त इन्द्रः॑ । स्तु॒तश्र॑व॒स्यन्नव॒सोप॑म॒द्रिक् । यु॒क्त्वा हरी॒ वृष॒णाया॑ह्य॒र्वाङ् । प्र यत्सिन्ध॑वᳶ प्रस॒वय्यँदाय॑न् । आप॑स्समु॒द्रँ र॒थ्ये॑व जग्मुः । अत॑श्चि॒दिन्द्र॒स्सद॑सो॒ वरी॑यान् । यदीँ॒ सोम॑ᳶ पृ॒णति॑ दु॒ग्धो अँ॒शुः । ह्वया॑मसि॒ त्वेन्द्र॑ या॒ह्य॑र्वाङ् ॥31॥
अर॑न्ते॒ सोम॑स्त॒नुवे॑ भवाति । शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॑ । प्रास्माँ अ॑व॒ पृत॑नासु॒ प्रयु॒त्सु । इन्द्रा॑य॒ सोमा॑ᳶ प्र॒दिवो॒ विदा॑नाः । ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः । प्र॒य॒म्यमा॑णा॒न्प्रति॒ षू गृ॑भाय । इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ । अहे॑डमान॒ उप॑याहि य॒ज्ञम् । तुभ्य॑म्पवन्त॒ इन्द॑वस्सु॒तासः॑ । गावो॒ न व॑ज्रिन्त्स्व॒मोको॒ अच्छ॑ ॥32॥
इन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया॑नाम् । या ते॑ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा । यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् । तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्थात् । सन्ते॒ वज्रो॑ वर्ततामिन्द्र ग॒व्युः । प्रा॒त॒र्युजा॒ वि बो॑धय । अश्वि॑ना॒वेह ग॑च्छतम् । अ॒स्य सोम॑स्य पी॒तये॑ । प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वम् । पु॒रा गृध्रा॒दर॑रुषᳶ पिबाथः । प्रा॒तर्हि य॒ज्ञम॒श्विना॒ दधा॑ते । प्रशँ॑सन्ति क॒वय॑ᳶ पूर्व॒भाजः॑ । प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत । न सा॒यम॑स्ति देव॒या अजु॑ष्टम् । उ॒तान्यो अ॒स्मद्य॑जते॒ विचा॑यः । पूर्व॑ᳶपूर्वो॒ यज॑मानो॒ वनी॑यान् ॥33॥
चा॒श्व॒जिद्यो ग॑च्छतन्नो॒ दाश॒न्नामा॑भि॒श्रीर्ग॑मेम स॒प्रथा॑ भजामहे विशन्तु या॒ह्य॑र्वाङच्छ॑ पिबाथ॒ष्षट्च॑ ॥ 3 ॥
न॒क्त॒ञ्जा॒ताऽस्यो॑षधे । रामे॒ कृष्णे॒ असि॑क्नि च । इ॒दँ र॑जनि रजय । कि॒लास॑म्पलि॒तञ्च॒ यत् । कि॒लास॑ञ्च पलि॒तञ्च॑ । निरि॒तो ना॑शया॒ पृष॑त् । आ न॒स्स्वो अ॑श्ञुताव्ँ॒वर्णः॑ । परा॑ श्वे॒तानि॑ पातय । असि॑तन्ते नि॒लय॑नम् । आ॒स्थान॒मसि॑त॒न्तव॑ ॥34॥
असि॑क्नियस्योषधे । निरि॒तो ना॑शया॒ पृष॑त् । अ॒स्थि॒जस्य॑ कि॒लास॑स्य । त॒नू॒जस्य॑ च॒ यत्त्व॒चि । कृ॒त्यया॑ कृ॒तस्य॒ ब्रह्म॑णा । लक्ष्म॑ श्वे॒तम॑नीनशम् । सरू॑पा॒ नाम॑ ते मा॒ता । सरू॑पो॒ नाम॑ ते पि॒ता । सरू॑पाऽस्योषधे॒ सा । सरू॑पमि॒दङ्कृ॑धि ॥35॥
शु॒नँ हु॑वेम म॒घवा॑न॒मिन्द्र॑म् । अ॒स्मिन्भरे॒ नृत॑मव्ँ॒वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॑ । घ्नन्त॑व्वृँ॒त्राणि॑ स॒ञ्जित॒न्धना॑नाम् । धू॒नु॒थ द्याम्पर्व॑तान्दा॒शुषे॒ वसु॑ । नि वो॒ वना॑ जिहते॒ याम॑ नो भि॒या । को॒पय॑थ पृथि॒वीम्पृ॑श्ञिमातरः । यु॒धे यदु॑ग्रा॒ᳶ पृष॑ती॒रयु॑ग्ध्वम् । प्रवे॑पयन्ति॒ पर्व॑तान् । विवि॑ञ्चन्ति॒ वन॒स्पती॑न् ॥36॥
प्रोवा॑रत मरुतो दु॒र्मदा॑ इव । देवा॑स॒स्सर्व॑या वि॒शा । पु॒रु॒त्रा हि स॒दृङ्ङसि॑ । विशो॒ विश्वा॒ अनु॑ प्र॒भु । स॒मत्सु॑ त्वा हवामहे । स॒मत्स्व॒ग्निमव॑से । वा॒ज॒यन्तो॑ हवामहे । वाजे॑षु चि॒त्ररा॑धसम् । सङ्ग॑च्छध्वँ॒ सव्वँ॑दध्वम् । सव्वोँ॒ मनाँ॑सि जानताम् ॥37॥
दे॒वा भा॒गय्यँथा॒ पूर्वे॑ । स॒ञ्जा॒ना॒ना उ॒पास॑त । स॒मा॒नो मन्त्र॒स्समि॑तिस्समा॒नी । स॒मा॒नम्मन॑स्स॒ह चि॒त्तमे॑षाम् । स॒मा॒नङ्केतो॑ अ॒भि सँर॑भध्वम् । सं॒ज्ञाने॑न वो ह॒विषा॑ यजामः । स॒मा॒नी व॒ आकू॑तिः । स॒मा॒ना हृद॑यानि वः । स॒मा॒नम॑स्तु वो॒ मनः॑ । यथा॑ व॒स्सुस॒हास॑ति ॥38॥
सं॒ज्ञान॑न्न॒स्स्वैः । सं॒ज्ञान॒मर॑णैः । सं॒ज्ञान॑मश्विना यु॒वम् । इ॒हास्मासु॒ निय॑च्छतम् । सं॒ज्ञान॑म्मे॒ बृह॒स्पतिः॑ । सं॒ज्ञानँ॑ सवि॒ता क॑रत् । सं॒ज्ञान॑मश्विना यु॒वम् । इ॒ह मह्य॒न्नि य॑च्छतम् । उप॑ च्छा॒यामि॑व॒ घृणेः॑ । अग॑न्म॒ शर्म॑ ते व॒यम् ॥39॥
अग्ने॒ हिर॑ण्यसन्दृशः । अद॑ब्धेभिस्सवितᳶ पा॒युभि॒ष्ट्वम् । शि॒वेभि॑र॒द्य परि॑पाहि नो॒ गय॑म् । हिर॑ण्यजिह्वस्सुवि॒ताय॒ नव्य॑से । रक्षा॒ माकि॑र्नो अ॒घशँ॑स ईशत । मदे॑मदे॒ हि नो॑ द॒दुः । यू॒था गवा॑मृजु॒क्रतुः॑ । सङ्गृ॑भाय पु॒रूश॒ता । उ॒भ॒या ह॒स्त्या वसु॑ । शि॒शी॒हि रा॒य आभ॑र ॥ 40॥
शिप्रि॑न्वाजानाम्पते । शची॑व॒स्तव॑ दँ॒सना॑ । आ तू न॑ इन्द्र भाजय । गोष्वश्वे॑षु शु॒भ्रुषु॑ । स॒हस्रे॑षु तुवीमघ । यद्दे॑वा देव॒हेड॑नम् । देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒स्तस्मा॑न्मा यू॒यम् । ऋ॒तस्य॒र्तेन॑ मुञ्चत । ऋ॒तस्य॒र्तेना॑दित्याः ॥41॥
यज॑त्रा मु॒ञ्चते॒ह मा॑ । य॒ज्ञैर्वो॑ यज्ञवाहसः । आ॒शिक्ष॑न्तो॒ न शे॑किम । मेद॑स्वता॒ यज॑मानाः । स्रु॒चाऽऽज्ये॑न॒ जुह्व॑तः । अ॒का॒मा वो॑ विश्वेदेवाः । शिक्ष॑न्तो॒ नोप॑शेकिम । यदि॒ दिवा॒ यदि॒ नक्त॑म् । एन॑ एन॒स्योक॑रत् । भू॒तम्मा॒ तस्मा॒द्भव्य॑ञ्च ॥42॥
द्रु॒प॒दादि॑व मुञ्चतु । द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः । स्वि॒न्नस्स्ना॒त्वी मला॑दिव । पू॒तम्प॒वित्रे॑णे॒वाज्य॑म् । विश्वे॑ मुञ्चन्तु॒ मैन॑सः । उद्व॒यन्तम॑स॒स्परि॑ । पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वन्दे॑व॒त्रा सूर्य॑म् । अग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ 43॥
तव॑ कृधि॒ वन॒स्पती॑ञ्जानता॒मस॑ति व॒यं भ॑रादित्याश्च॒ नव॑ च ॥ 4 ॥
वृषा॒सो अँ॒शुᳶ प॑वते ह॒विष्मा॒न्त्सोमः॑ । इन्द्र॑स्य भा॒ग ऋ॑त॒युश्श॒तायुः॑ । स मा॒ वृषा॑णव्वृँष॒भङ्कृ॑णोतु । प्रि॒यव्विँ॒शाँ सर्व॑वीरँ सु॒वीर॑म् । कस्य॒ वृषा॑ सु॒ते सचा॑ । नि॒युत्वा॑न्वृष॒भो र॑णत् । वृ॒त्र॒हा सोम॑पीतये । यस्ते॑ शृङ्ग वृषोनपात् । प्रण॑पात्कुण्ड॒पाय्यः॑ । न्य॑स्मिन्दध्र॒ आ मनः॑ ॥44॥
तँ स॒ध्रीची॑रू॒तयो॒ वृष्णि॑यानि । पौँस्या॑नि नि॒युत॑स्सश्चु॒रिन्द्र॑म् । स॒मु॒द्रन्न सिन्ध॑व उ॒क्थशु॑ष्माः । उ॒रु॒व्यच॑स॒ङ्गिर॒ आवि॑शन्ति । इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गाः । अ॒पᳶ प्रैर॑य॒न्त्सग॑रस्य बु॒ध्नात् । यो अक्षे॑णेव च॒क्रिया॒ शची॑भिः । विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् । अक्षो॑दय॒च्छव॑सा॒ क्षाम॑बु॒ध्नम् । वार्णवा॑त॒स्तवि॑षीभि॒रिन्द्रः॑ ॥45॥
दृ॒ढान्यौ॑घ्नादु॒शमा॑न॒ ओजः॑ । अवा॑भिनत्क॒कुभ॒ᳶ पर्व॑तानाम् । आ नो॑ अग्ने सुके॒तुना॑ । र॒यिव्विँ॒श्वायु॑पोषसम् । मा॒र्डी॒कन्धे॑हि जी॒वसे॑ । त्वँ सो॑म म॒हे भग॑म् । त्वय्यूँन॑ ऋताय॒ते । दक्ष॑न्दधासि जी॒वसे॑ । रथय्ँ॑युञ्जते म॒रुत॑श्शु॒भे सु॒गम् । सूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु ॥46॥
रजाँ॑सि चि॒त्रा विच॑रन्ति त॒न्यवः॑ । दि॒वस्स॑म्राजा॒ पय॑सा न उक्षतम् । वाचँ॒ सुमि॑त्रावरुणा॒विरा॑वतीम् । प॒र्जन्य॑श्चि॒त्राव्वँ॑दति॒ त्विषी॑मतीम् । अ॒भ्रा व॑सत मरुतस्सुमा॒यया॑ । द्याव्वँ॑र्षयतमरु॒णाम॑रे॒पस॑म् । अयु॑क्त स॒प्त शु॒न्ध्युवः॑ । सूरो॒ रथ॑स्य न॒प्त्रियः॑ । ताभि॑र्याति॒ स्वयु॑क्तिभिः । वहि॑ष्ठेभिर्वि॒हर॑न् यासि॒ तन्तु॑म् ॥47॥
अ॒व॒व्यय॒न्नसि॑तन्देव॒ वस्वः॑ । दवि॑ध्वतो र॒श्मय॒स्सूर्य॑स्य । चर्मे॒वावा॑धु॒स्तमो॑ अ॒प्स्व॑न्तः । प॒र्जन्या॑य॒ प्र गा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे॑ । स नो॑ य॒वस॑मिच्छतु । अच्छा॑ वद त॒वस॑ङ्गी॒र्भिरा॒भिः । स्तु॒हि प॒र्जन्य॒न्नम॒साऽऽवि॑वास । कनि॑क्रदद्वृष॒भो जी॒रदा॑नुः । रेतो॑ दधा॒त्वोष॑धीषु॒ गर्भ॑म् ॥48॥
यो गर्भ॒मोष॑धीनाम् । गवा॑ङ्कृ॒णोत्यर्व॑ताम् । प॒र्जन्य॑ᳶ पुरु॒षीणा॑म् । तस्मा॒ इदा॒स्ये॑ ह॒विः । जू॒होता॒ मधु॑मत्तमम् । इडा॑न्नस्सय्ँ॒यत॑ङ्करत् । ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामित् । शुचि॑ङ्घृ॒तेन॒ शुच॑यस्सप॒र्यन् । नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि । असू॑दयन्त त॒नुव॒स्सुजा॑ताः ॥49॥
इन्द्र॑श्च नश्शुनासीरौ । इ॒मय्यँ॒ज्ञम्मि॑मिक्षतम् । गर्भ॑न्धत्त स्व॒स्तये॑ । ययो॑रि॒दव्विँश्व॒म्भुव॑नमा वि॒वेश॑ । ययो॑रान॒न्दो निहि॑तो॒ मह॑श्च । शुना॑सीरावृ॒तुभि॑स्सव्विँदा॒नौ । इन्द्र॑वन्तौ ह॒विरि॒दञ्जु॑षेथाम् । आ घा॒ ये अ॒ग्निमि॑न्ध॒ते । स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा॑ । अग्न॒ इन्द्र॑श्च मे॒दिना॑ । ह॒थो वृ॒त्राण्य॑प्र॒ति । यु॒वँ हि वृ॑त्र॒हन्त॑मा । याभ्याँ॒ सुव॒रज॑य॒न्नग्र॑ ए॒व । यावा॑तस्थ॒तुर्भुव॑नस्य॒ मध्ये॑ । प्रच॑र्ष॒णी वृ॑षणा॒ वज्र॑बाहू । अ॒ग्नी इन्द्रा॑वृत्र॒हणा॑ हुवे वाम् ॥50॥
मन॒ इन्द्रो॒ गवि॑ष्टिषु॒ तन्तु॒ङ्गर्भँ॒ सुजा॑ता॒स्सखा॑ स॒प्त च॑ ॥ 5 ॥
उ॒त न॑ᳶ प्रि॒या प्रि॒यासु॑ । स॒प्तस्वसा॒ सुजु॑ष्टा । सर॑स्वती॒ स्तोम्या॑ऽभूत् । इ॒मा जुह्वा॑नायु॒ष्मदा नमो॑भिः । प्रति॒ स्तोमँ॑ सरस्वति जुषस्व । तव॒ शर्म॑न्प्रि॒यत॑मे॒ दधा॑नाः । उप॑स्थेयाम शर॒णन्न वृ॒क्षम् । त्रिणि॑ प॒दा विच॑क्रमे । विष्णु॑र्गो॒पा अदा॑भ्यः । ततो॒ धर्मा॑णि धा॒रय॑न् ॥51॥
तद॑स्य प्रि॒यम॒भि पाथो॑ अश्याम् । नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति । उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था । विष्णो॑ᳶ प॒दे प॑र॒मे मध्व॒ उत्सः॑ । क्र॒त्वा॒दा अ॑स्थु॒ श्रेष्ठः॑ । अ॒द्य त्वा॑ व॒न्वन्त्सु॒रेक्णाः॑ । मर्त॑ आनाश सुवृ॒क्तिम् । इ॒मा ब्र॑ह्म ब्रह्मवाह । प्रि॒या त॒ आ ब॒र्हिस्सी॑द । वी॒हि सू॑र पुरो॒डाश॑म् ॥52॥
उप॑ नस्सू॒नवो॒ गिरः॑ । शृ॒ण्वन्त्व॒मृत॑स्य॒ ये । सु॒मृ॒डी॒का भ॑वन्तु नः । अ॒द्या नो॑ देव सवितः । प्र॒जाव॑त्सावी॒स्सौभ॑गम् । परा॑ दु॒ष्वप्नि॑यँ सुव । विश्वा॑नि देव सवितः । दु॒रि॒तानि॒ परा॑सुव । यद्भ॒द्रन्तन्म॒ आसु॑व । शुचि॑म॒र्कैर्बृह॒स्पति॑म् ॥53॥
अ॒ध्व॒रेषु॑ नमस्यत । अ॒ना॒म्योज॒ आच॑के । या धा॒रय॑न्त दे॒वा सु॒दक्षा॒ दक्ष॑पितारा । अ॒सु॒र्या॑य॒ प्रम॑हसा । स इत्क्षेति॒ सुधि॑त॒ ओक॑सि॒ स्वे । तस्मा॒ इडा॑ पिन्वते विश्व॒दानी॑ । तस्मै॒ विश॑स्स्व॒यमे॒वान॑मन्ति । यस्मि॑न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ । सकू॑तिमिन्द्र॒ सच्यु॑तिम् । सच्यु॑तिञ्ज॒घन॑च्युतिम् ॥54॥
क॒नात्का॒भान्न॒ आभ॑र । प्र॒य॒प्स्यन्नि॑व स॒क्थ्यौ॑ । वि न॑ इन्द्र॒ मृधो॑ जहि । कनी॑खुनदिव सा॒पय॑न् । अ॒भि न॒स्सुष्टु॑तिन्नय । प्र॒जाप॑तिस्स्त्रि॒याय्यँशः॑ । मु॒ष्कयो॑रदधा॒त्सप॑म् । काम॑स्य॒ तृप्ति॑मान॒न्दम् । तस्या॑ग्ने भाजये॒ह मा॑ । मोद॑ᳶ प्रमो॒द आ॑न॒न्दः ॥55॥
मु॒ष्कयो॒र्निहि॑त॒स्सपः॑ । सृ॒त्वेव॒ काम॑स्य तृप्याणि । दक्षि॑णानाम्प्रतिग्र॒हे । मन॑सश्चि॒त्तमाकू॑तिम् । वा॒चस्स॒त्यम॑शीमहि । प॒शू॒नाँ रू॒पमन्न॑स्य । यश॒श्श्रीश्श्र॑यता॒म्मयि॑ । यथा॒ऽहम॒स्या अतृ॑प स्त्रि॒यै पुमा॑न् । यथा॒ स्त्री तृप्य॑ति पुँ॒सि प्रि॒ये प्रि॒या । ए॒वम्भग॑स्य तृप्याणि ॥56॥
य॒ज्ञस्य॒ काम्य॑ᳶ प्रि॒यः । ददा॒मीत्य॒ग्निर्व॑दति । तथेति॑ वा॒युरा॑ह॒ तत् । हन्तेति॑ स॒त्यञ्च॒न्द्रमाः॑ । आ॒दि॒त्यस्स॒त्यमोमिति॑ । आप॒स्तत्स॒त्यमाभ॑रन् । यशो॑ य॒ज्ञस्य॒ दक्षि॑णाम् । अ॒सौ मे॒ काम॒स्समृ॑द्ध्यताम् । न हि स्पश॒मवि॑दन्न॒न्यम॒स्मात् । वै॒श्वा॒न॒रात्पु॑रए॒तार॑म॒ग्नेः ॥57॥
अथे॑ममन्थन्न॒मृत॒ममू॑राः । वै॒श्वा॒न॒रङ्क्षे॑त्र॒जित्या॑य दे॒वाः । येषा॑मि॒मे पूर्वे॒ अर्मा॑स॒ आस॑न् । अ॒यू॒पास्सद्म॒ विभृ॑ता पु॒रूणि॑ । वैश्वा॑नर॒ त्वया॒ ते नु॒त्ताः । पृ॒थि॒वीम॒न्याम॒भित॑स्थु॒र्जना॑सः । पृ॒थि॒वीम्मा॒तर॑म्म॒हीम् । अ॒न्तरि॑क्ष॒मुप॑ब्रुवे । बृ॒ह॒तीमू॒तये॒ दिव॑म् । विश्व॑म्बिभर्ति पृथि॒वी ॥58॥
अ॒न्तरि॑क्षव्ँ॒विप॑प्रथे । दु॒हे द्यौर्बृ॑ह॒ती पयः॑ । न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रः । नैना॑ अमि॒त्रो व्यथि॒राद॑धर्षति । दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च । ज्योगित्ताभि॑स्सचते॒ गोप॑तिस्स॒ह । न ता अर्वा॑ रे॒णुक॑काटो अश्ञुते । न स॑स्कृत॒त्रमुप॑यन्ति॒ ता अ॒भि । उ॒रु॒गा॒यमभ॑य॒न्तस्य॒ ता अनु॑ । गावो॒ मर्त्य॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥59 ॥
रात्री॒ व्य॑ख्यदाय॒ती । पु॒रु॒त्रा दे॒व्य॑क्षभिः॑ । विश्वा॒ अधि॒ श्रियो॑ऽधित । उप॑ ते॒ गा इ॒वाक॑रम् । वृ॒णी॒ष्व दु॑हितर्दिवः । रात्री॒ स्तोम॒न्न जि॒ग्युषी॑ । दे॒वीव्वाँच॑मजनयन्त दे॒वाः । ताव्विँ॒श्वरू॑पाᳶ प॒शवो॑ वदन्ति । सा नो॑ म॒न्द्रेष॒मूर्ज॒न्दुहा॑ना । धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥60॥
यद्वाग्वद॑न्त्यविचेत॒नानि॑ । राष्ट्री॑ दे॒वाना॑न्निष॒साद॑ म॒न्द्रा । चत॑स्र॒ ऊर्ज॑न्दुदुहे॒ पयाँ॑सि । क्व॑ स्विदस्याᳶ पर॒मञ्ज॑गाम । गौ॒री मि॑माय सलि॒लानि॒ तक्ष॑ती । एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ । स॒हस्रा॑क्षरा पर॒मे व्यो॑मन् । तस्याँ॑ समु॒द्रा अधि॒विक्ष॑रन्ति । तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥61॥
ततः॑ क्षरत्य॒क्षर॑म् । तद्विश्व॒मुप॑जीवति । इन्द्रा॒सूरा॑ ज॒नय॑न्वि॒श्वक॑र्मा । म॒रुत्वाँ॑ अस्तु ग॒णवा॑न्त्सजा॒तवा॑न् । अ॒स्य स्नु॒षा श्वशु॑रस्य॒ प्रशि॑ष्टिम् । स॒पत्ना॒ वाच॒म्मन॑सा॒ उपा॑सताम् । इन्द्र॒स्सूरो॑ अतर॒द्रजाँ॑सि । स्नु॒षा स॒पत्ना॒ श्वशु॑रो॒ऽयम॑स्तु । अ॒यँ शत्रू॑ञ्जयतु॒ जर्हृ॑षाणः । अ॒यव्वाँज॑ञ्जयतु॒ वाज॑सातौ । अ॒ग्निः क्ष॑त्र॒भृदनि॑भृष्ट॒मोजः॑ । स॒ह॒स्रियो॑ दीप्यता॒मप्र॑युच्छन् । वि॒भ्राज॑मानस्समिधा॒न उ॒ग्रः । आऽन्तरि॑क्षमरुह॒दग॒न्द्याम् ॥62॥
धा॒रय॑न्पुरो॒डाशं॒ बृह॒स्पति॑ञ्ज॒घन॑च्युतिमान॒न्दो भग॑स्य तृप्याण्य॒ग्नेᳶ पृ॑थि॒वी यज्व॑न एतु प्र॒दिश॒श्चत॑स्रो॒ वाज॑सातौ च॒त्वारि॑ च ॥ 6 ॥
वृषा॑ऽस्यँ॒शुर्वृ॑ष॒भाय॑ गृह्यसे । वृषा॒ऽयमु॒ग्रो नृ॒चक्ष॑से । दि॒व्यᳶ क॑र्म॒ण्यो॑ हि॒तो बृ॒हन्नाम॑ । वृ॒ष॒भस्य॒ या क॒कुत् । वि॒षू॒वान् वि॑ष्णो भवतु । अ॒यय्योँ मा॑म॒को वृषा॑ । अथो॒ इन्द्र॑ इव दे॒वेभ्यः॑ । विब्र॑वीतु॒ जने॑भ्यः । आयु॑ष्मन्तव्ँ॒वर्च॑स्वन्तम् । अथो॒ अधि॑पतिव्विँ॒शाम् ॥63॥
अ॒स्याᳶ पृ॑थि॒व्या अध्य॑क्षम् । इ॒ममि॑न्द्र वृष॒भङ्कृ॑णु । यस्सु॒शृङ्ग॑स्सुवृष॒भः । क॒ल्याणो॒ द्रोण॒ आहि॑तः । कार्षी॑वल प्रगाणेन । वृ॒ष॒भेण॑ यजामहे । वृ॒ष॒भेण॒ यज॑मानाः । अक्रू॑रेणेव स॒र्पिषा॑ । मृध॑श्च॒ सर्वा॒ इन्द्रे॑ण । पृत॑नाश्च जयामसि ॥64॥
यस्या॒यमृ॑ष॒भो ह॒विः । इन्द्रा॑य परिणी॒यते॑ । जया॑ति॒ शत्रु॑मा॒यन्त॑म् । अथो॑ हन्ति पृतन्य॒तः । नृ॒णामह॑ प्र॒णीरस॑त् । अग्र॑ उद्भिन्द॒ताम॑सत् । इन्द्र॒ शुष्म॑न्त॒नुवा॒ मेर॑यस्व । नी॒चा विश्वा॑ अ॒भिति॑ष्ठा॒भिमा॑तीः । नि शृ॑णीह्याबा॒धय्योँ॒ नो॒ अस्ति॑ । उ॒रुन्नो॑ लो॒कङ्कृ॑णुहि जीरदानो ॥65॥
प्रेह्य॒भि प्रेहि॒ प्र भ॑रा॒ सह॑स्व । मा विवे॑नो॒ वि शृ॑णुष्वा॒ जने॑षु । उदी॑डि॒तो वृ॑षभ॒ तिष्ठ॒ शुष्मैः॑ । इन्द्र॒ शत्रू॑न्पु॒रो अ॒स्माक॑ युध्य । अग्ने॒ जेता॒ त्वञ्ज॑य । शत्रू॑न्त्सहस॒ ओज॑सा । वि शत्रू॒न्विमृधो॑ नुद । ए॒तन्ते॒ स्तोम॑न्तुविजात॒ विप्रः॑ । रथ॒न्न धीर॒स्स्वपा॑ अतक्षम् । यदीद॑ग्ने॒ प्रति॒त्वन्दे॑व॒ हर्याः॑ ॥66॥
सुव॑र्वतीर॒प ए॑ना जयेम । यो घृ॒तेना॒भिमा॑नितः । इन्द्र॒ जैत्रा॑य जज्ञिषे । स न॒स्सङ्का॑सु पारय । पृ॒त॒ना॒साह्ये॑षु च । इन्द्रो॑ जिगाय पृथि॒वीम् । अ॒न्तरि॑क्षँ॒ सुव॑र्म॒हत् । वृ॒त्र॒हा पु॑रु॒चेत॑नः । इन्द्रो॑ जिगाय॒ सह॑सा॒ सहाँ॑सि । इन्द्रो॑ जिगाय॒ पृत॑नानि॒ विश्वा॑ ॥67॥
इन्द्रो॑ जा॒तो वि पुरो॑ रुरोज । स न॑ᳶ पर॒स्पा वरि॑वᳶ कृणोतु । अ॒यङ्कृ॒त्नुरगृ॑भीतः । वि॒श्व॒जिदु॒द्भिदित्सोमः॑ । ऋषि॒र्विप्र॒ᳶ काव्ये॑न । वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः । सा॒कङ्ग॒न्मन॑सा य॒ज्ञम् । शि॒वो नि॒युद्भि॑श्शि॒वाभिः॑ । वायो॑ शु॒क्रो अ॑यामि ते । मध्वो॒ अग्र॒न्दिवि॑ष्टिषु ॥68॥
आया॑हि॒ सोम॑ पीतये । स्वा॒रु॒हो दे॑व नि॒युत्व॑ता । इ॒ममि॑न्द्र वर्धय क्ष॒त्रिया॑णाम् । अ॒यव्विँ॒शाव्विँ॒श्पति॑रस्तु॒ राजा॑ । अ॒स्मा इ॑न्द्र॒ महि॒ वर्चाँ॑सि धेहि । अ॒व॒र्चस॑ङ्कणुहि॒ शत्रु॑मस्य । इ॒ममाभ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॑ । निर॒मुम्भ॑ज॒ यो॑ऽमित्रो॑ अस्य । वर्ष्म॑न्क्ष॒त्रस्य॑ क॒कुभि॑ श्रयस्व । ततो॑ न उ॒ग्रो विभ॑जा॒ वसू॑नि ॥69॥
अ॒स्मे द्या॑वापृथिवी॒ भूरि॑ वा॒मम् । सन्दु॑हाथाङ्घर्म॒दुघे॑व धे॒नुः । अ॒यँ राजा॑ प्रि॒य इन्द्र॑स्य भूयात् । प्रि॒यो गवा॒मोष॑धीनामु॒तापाम् । यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्र॑म् । येन॒ जया॑सि॒ न परा॒जया॑सै । स त्वा॑ऽकरेकवृष॒भ स्वाना॑म् । अथो॑ राजन्नुत्त॒मम्मा॑न॒वाना॑म् । उत्त॑र॒स्त्वमध॑रे ते स॒पत्नाः॑ । एक॑वृषा॒ इन्द्र॑सखा जिगी॒वान् ॥70॥
विश्वा॒ आशा॒ᳶ पृत॑नास्स॒ञ्जय॒ञ्जय॑न् । अ॒भि ति॑ष्ठ शत्रूय॒तस्स॑हस्व । तुभ्य॑म्भरन्ति क्षि॒तयो॑ यविष्ठ । ब॒लिम॑ग्ने॒ अन्ति॑त॒ ओत दू॒रात् । आ भन्दि॑ष्ठस्य सुम॒तिञ्चि॑किद्धि । बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् । यो दे॒ह्यो अन॑मयद्वध॒स्नैः । यो अर्य॑पत्नीरु॒षस॑श्च॒कार॑ । स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निः । विश॑श्चक्रे बलि॒हृत॒स्सहो॑भिः ॥71॥
प्र स॒द्यो अ॑ग्ने॒ अत्ये॑ष्य॒न्यान् । आ॒विर्यस्मै॒ चारु॑तरो ब॒भूथ॑ । ई॒डेन्यो॑ वपु॒ष्यो॑ वि॒भावा॑ । प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम् । ब्रह्म॑ज्येष्ठा वी॒र्या॑ सम्भृ॑तानि । ब्रह्माग्रे॒ ज्येष्ठ॒न्दिव॒मात॑तान । ऋ॒तस्य॒ ब्रह्म॑ प्रथ॒मोत ज॑ज्ञे । तेना॑र्हति॒ ब्रह्म॑णा॒ स्पर्धि॑तु॒ङ्कः । ब्रह्म॒ स्रुचो॑ घृ॒तव॑तीः । ब्रह्म॑णा॒ स्वर॑वो मि॒ताः ॥72॥
ब्रह्म॑ य॒ज्ञस्य॒ तन्त॑वः । ऋ॒त्विजो॒ ये ह॑वि॒ष्कृतः॑ । शृङ्गा॑णी॒वेच्छृ॒ङ्गिणाँ॒ सन्द॑दृश्रिरे । च॒षाल॑वन्त॒स्स्वर॑वᳶ पृथि॒व्याम् । ते दे॒वास॒स्स्वर॑वस्तस्थि॒वाँसः॑ । नम॒स्सखि॑भ्यस्स॒न्नान्माऽव॑गात । अ॒भि॒भूर॒ग्निर॑तर॒द्रजाँ॑सि । स्पृधो॑ वि॒हत्य॒ पृत॑ना अभि॒श्रीः । जु॒षा॒णो म॒ आहु॑तिम्मामहिष्ट । ह॒त्वा स॒पत्ना॒न्वरि॑वस्करन्नः । ईशा॑नन्त्वा॒ भुव॑नानामभि॒श्रिय॑म् । स्तौम्य॑ग्न उरु॒कृतँ॑ सु॒वीरम्॑ । ह॒विर्जु॑षा॒णस्स॒पत्नाँ॑ अभि॒भूर॑सि । ज॒हि शत्रूँ॒ रप॒ मृधो॑ नुदस्व ॥ 73॥
वि॒शाञ्ज॑यामसि जीरदानो॒ हर्या॒ विश्वा॒ दिवि॑ष्टिषु॒ वसू॑नि जिगी॒वान्त्सहो॑भिर्मि॒ता न॑श्च॒त्वारि॑ च ॥ 7 ॥
स प्र॑त्न॒वन्नवी॑यसा । अग्ने॑ द्यु॒म्नेन॑ सय्ँ॒यता॑ । बृ॒हत्त॑तन्थ भा॒नुना॑ । नव॒न्नु स्तोम॑म॒ग्नये॑ । दि॒वश्श्ये॒नाय॑ जीजनम् । वसो॑ᳶ कु॒विद्व॒नाति॑ नः । स्वा॒रु॒हा यस्य॒ श्रियो॑ दृ॒शे । र॒यिर्वी॒रव॑तो यथा । अग्रे॑ य॒ज्ञस्य॒ चेत॑तः । अदा॑भ्यᳶ पुरए॒ता ॥74॥
अ॒ग्निर्वि॒शाम्मानु॑षीणाम् । तूर्णी॒ रथ॒स्सदा॒ नवः॑ । नवँ॒ सोमा॑य वा॒जिने॑ । आज्य॒म्पय॑सोऽजनि । जुष्टँ॒ शुचि॑तमव्ँ॒वसु॑ । नवँ॑ सोम जुषस्व नः । पी॒यूष॑स्ये॒ह तृ॑प्णुहि । यस्ते॑ भा॒ग ऋ॒ता व॒यम् । नव॑स्य सोम ते व॒यम् । आ सु॑म॒तिव्वृँ॑णीमहे ॥75॥
स नो॑ रास्व सह॒स्रिणः॑ । नवँ॑ ह॒विर्जु॑षस्व नः । ऋ॒तुभि॑स्सोम॒ भूत॑मम् । तद॒ङ्ग प्रति॑हर्य नः । राज॑न्त्सोम स्व॒स्तये॑ । नव॒॒स्तोम॒न्नवँ॑ ह॒विः । इ॒न्द्रा॒ग्निभ्या॒न्निवे॑दय । तज्जु॑षेताँ॒ सचे॑तसा । शुचि॒न्नु स्तोम॒न्नव॑जातम॒द्य । इन्द्रा॑ग्नी वृत्रहणा जु॒षेथा॑म् ॥76॥
उ॒भा हि वाँ॑ सु॒हवा॒ जोह॑वीमि । ता वाजँ॑ स॒द्य उ॑श॒ते धेष्ठा॑ । अ॒ग्निरिन्द्रो॒ नव॑स्य नः । अ॒स्य ह॒व्यस्य॑ तृप्यताम् । इ॒ह दे॒वौ स॑ह॒स्रिणौ॑ । य॒ज्ञन्न॒ आ हि गच्छ॑ताम् । वसु॑मन्तँ सुव॒र्विद॑म् । अ॒स्य ह॒व्यस्य॑ तृप्यताम् । अ॒ग्निरिन्द्रो॒ नव॑स्य नः । विश्वा॑न्दे॒वाँस्त॑र्पयत ॥77 ॥
ह॒विषो॒ऽस्य नव॑स्य नः । सु॒व॒र्विदो॒ हि ज॑ज्ञि॒रे । एदम्ब॒र्हिस्सु॒ष्टरी॑मा॒ नवे॑न । अ॒यय्यँ॒ज्ञो यज॑मानस्य भा॒गः । अ॒यम्ब॑भूव॒ भुव॑नस्य॒ गर्भः॑ । विश्वे॑ दे॒वा इ॒दम॒द्याग॑मिष्ठाः । इ॒मे नु द्यावा॑पृथि॒वी स॒मीची॑ । त॒न्वा॒ने य॒ज्ञम्पु॑रु॒पेश॑सन्धि॒या । आऽस्मै॑ पृणीता॒म्भुव॑नानि॒ विश्वा॑ । प्र॒जाम्पुष्टि॑म॒मृत॒न्नवे॑न ॥78॥
इ॒मे धे॒नू अ॒मृतय्ँ॒ये दु॒हाते॑ । पय॑स्वत्युत्त॒रामे॑तु॒ पुष्टिः॑ । इ॒मय्यँ॒ज्ञञ्जु॒षमा॑णे॒ नवे॑न । स॒मीची॒ द्यावा॑पृथि॒वी घृ॒ताची॑ । यवि॑ष्ठो हव्य॒वाह॑नः । चि॒त्रभा॑नुर्घु॒तासु॑तिः । नव॑जातो॒ विरो॑चसे । अग्ने॒ तत्ते॑ महित्व॒नम् । त्वम॑ग्ने दे॒वता॑भ्यः । भा॒गे दे॑व॒ न मी॑यसे ॥79॥
स ए॑ना वि॒द्वान् य॑क्ष्यसि । नव॒॒ स्तोम॑ञ्जुषस्व नः । अ॒ग्निᳶ प्र॑थ॒मᳶ प्राश्ञा॑तु । स हि वेद॒ यथा॑ ह॒विः । शि॒वा अ॒स्मभ्य॒मोष॑धीः । कृ॒णोतु॑ वि॒श्वच॑र्षणिः । भ॒द्रान्न॒श्श्रेय॒स्सम॑नैष्ट देवाः । त्वया॑ऽव॒सेन॒ सम॑शीमहि त्वा । स नो॑ मयो॒भूᳶ पि॑तो॒ आवि॑शस्व । शन्तो॒काय॑ त॒नुवे॑ स्यो॒नः । ए॒तमु॒ त्यम्मधु॑ना॒ सय्युँ॑तय्ँ॒यव॑म् । सर॑स्वत्या॒ अधि॑म॒नाव॑चर्कृषुः । इन्द्र॑ आसी॒त्सीर॑पतिश्श॒तक्र॑तुः । की॒नाशा॑ आसन्म॒रुत॑स्सु॒दान॑वः ॥80॥
पु॒र॒ए॒ता वृ॑णीमहे जु॒षेथा॑न्तर्पयता॒मृत॒न्नवे॑न मीयसे स्यो॒नश्च॒त्वारि॑ च ॥ 8 ॥
जुष्ट॒श्चक्षु॑षो॒ जुष्टी॑नरो नक्तञ्जा॒ता वृषा॒स उ॒त नो॒ वृषा॑ऽस्यँ॒शुस्सप्र॑त्न॒वद॒ष्टौ ॥ 8 ॥ जुष्टो॑ म॒न्युर्भगो॒ जुष्टी॑ नरो॒ हरि॑वर्पस॒ङ्गिर॒श्शिप्रि॑न्वाजानामु॒त नः॑ प्रि॒या यद्वाग्वद॑न्ती॒ विश्वा॒ आशा॒ अशी॑तिः ॥ 80 ॥ जुष्ट॑स्सु॒दान॑वः ॥ हरिः॑ ओम् ॥ श्रीकृष्णार्पणमस्तु । चतुर्थप्रपाठकस्समाप्तः ॥