ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । किञ्चतु॑र्होतृणाञ्चतुर्होतृ॒त्वमिति॑ । यदे॒वैषु च॑तु॒र्धा होता॑रः । तेन॒ चतु॑र्होतारः । तस्मा॒च्चतु॑र्होतार उच्यन्ते । तच्चतु॑र्होतृणाञ्चतुर्होतृ॒त्वम् । सोमो॒ वै चतु॑र्होता । अ॒ग्निᳶ पञ्च॑होता । धा॒ता षड्ढो॑ता । इन्द्र॑स्स॒प्तहो॑ता ॥1॥

प्र॒जाप॑ति॒र्दश॑होता । य ए॒वञ्चतु॑र्होतृणा॒मृद्धिव्ँ॒वेद॑ । ऋ॒ध्नोत्ये॒व । य ए॑षामे॒वम्ब॒न्धुताव्ँ॒वेद॑ । बन्धु॑मान्भवति । य ए॑षामे॒वङ्कॢप्तिव्ँ॒वेद॑ । कल्प॑तेऽस्मै । य ए॑षामे॒वमा॒यत॑नव्ँ॒वेद॑ । आ॒यत॑नवान्भवति । य ए॑षामे॒वम्प्र॑ति॒ष्ठाव्वेँद॑ ॥2॥

प्रत्ये॒व ति॑ष्ठति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । दश॑होता॒ चतु॑र्होता । पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता । अथ॒ कस्मा॒च्चतु॑र्होतार उच्यन्त॒ इति॑ । इन्द्रो॒ वै चतु॑र्होता । इन्द्र॒ᳶ खलु॒ वै श्रेष्ठो॑ दे॒वता॑नामुप॒देश॑नात् । य ए॒वमिन्द्र॒॒ श्रेष्ठ॑न्दे॒वता॑नामुप॒देश॑ना॒द्वेद॑ । वसि॑ष्ठस्समा॒नाना॑म्भवति । तस्मा॒च्छ्रेष्ठ॑मा॒यन्त॑म्प्रथ॒मेनै॒वानु॑बुध्यन्ते । अ॒यमाग॑न् । अ॒यमवा॑सा॒दिति॑ । की॒र्तिर॑स्य॒ पूर्वाऽऽग॑च्छति ज॒नता॑माय॒तः । अथो॑ एनम्प्रथ॒मेनै॒वानु॑बुध्यन्ते । अ॒यमाग॑न् । अ॒यमवा॑सा॒दिति॑ ॥3॥

स॒प्तहो॑ता प्रति॒ष्ठाव्वेँद॑ बुध्यन्ते॒ षट्च॑ ॥ 1 ॥

दक्षि॑णाम्प्रतिग्रही॒ष्यन्त्स॒प्तद॑श॒कृत्वोऽपा॑न्यात् । आ॒त्मान॑मे॒व समि॑न्धे । तेज॑से वी॒र्या॑य । अथो॑ प्र॒जाप॑तिरे॒वैना॑म्भू॒त्वा प्रति॑गृह्णाति । आ॒त्मनोऽना॑र्त्यै । यद्ये॑न॒मार्त्वि॑ज्याद्वृ॒तँ सन्त॑न्नि॒र्हरे॑रन् । आग्नी॑ध्रे जुहुया॒द्दश॑होतारम् । च॒तु॒र्गृ॒ही॒तेनाज्ये॑न । पु॒रस्ता॑त्प्र॒त्यङ्तिष्ठ॑न् । प्र॒ति॒लो॒मव्विँ॒ग्राह॑म् ॥4॥

प्रा॒णाने॒वास्योप॑ दासयति । यद्ये॑न॒म्पुन॑रुप॒शिक्षे॑युः । आग्नी॑ध्र ए॒व जु॑हुया॒द्दश॑होतारम् । च॒तु॒र्गृ॒ही॒तेनाज्ये॑न । प॒श्चात्प्राङासी॑नः । अ॒नु॒लो॒ममवि॑ग्राहम् । प्रा॒णाने॒वास्मै॑ कल्पयति । प्राय॑श्चित्ती॒ वाग्घोतेत्यृ॑तुमु॒खऋ॑तुमुखे जुहोति । ऋ॒तूने॒वास्मै॑ कल्पयति । कल्प॑न्तेऽस्मा ऋ॒तवः॑ ॥5॥

कॢ॒प्ता अ॑स्मा ऋ॒तव॒ आय॑न्ति । षड्ढो॑ता॒ वै भू॒त्वा प्र॒जाप॑तिरि॒दँ सर्व॑मसृजत । स मनो॑ऽसृजत । मन॒सोऽधि॑ गाय॒त्रीम॑सृजत । तद्गा॑य॒त्रीय्यँश॑ आर्च्छत् । तामाऽल॑भत । गा॒य॒त्रि॒या अधि॒ छन्दाँ॑स्यसृजत । छन्दो॒भ्योऽधि॒ साम॑ । तत्साम॒ यश॑ आर्च्छत् । तदाऽल॑भत ॥6॥

साम्नोऽधि॒ यजूँ॑ष्यसृजत । यजु॒र्भ्योऽधि॒ विष्णु॑म् । तद्विष्णुय्ँ॒यश॑ आर्च्छत् । तमाऽल॑भत । विष्णो॒रध्योष॑धीरसृजत । ओष॑धी॒भ्योऽधि॒ सोम॑म् । तत्सोमय्ँ॒यश॑ आर्च्छत् । तमाऽल॑भत । सोमा॒दधि॑ प॒शून॑सृजत । प॒शुभ्योऽधीन्द्र॑म् ॥7॥

तदिन्द्रय्ँ॒यश॑ आर्च्छत् । तदे॑न॒न्नाति॒ प्राच्य॑वत । इन्द्र॑ इव यश॒स्वी भ॑वति । य ए॒वव्वेँद॑ । नैनय्ँ॒यशोऽति॒प्रच्य॑वते । यद्वा इ॒दङ्किञ्च॑ । तत्सर्व॑मुत्ता॒न ए॒वाङ्गी॑र॒सᳶ प्रत्य॑गृह्णात् । तदे॑न॒म्प्रति॑गृहीत॒न्नाहि॑नत् । यत्किञ्च॑ प्रतिगृह्णी॒यात् । तत्सर्व॑मुत्ता॒नस्त्वा॑ङ्गीर॒सᳶ प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात् । इ॒यव्वाँ उ॑त्ता॒न आ॑ङ्गीर॒सः । अ॒नयै॒वैन॒त्प्रति॑गृह्णाति । नैनँ॑ हिनस्ति । ब॒र्हिषा॒ प्रती॑या॒द्गाव्वाँऽश्वव्ँ॑वा । ए॒तद्वै प॑शू॒नाम्प्रि॒यन्धाम॑ । प्रि॒येणै॒वैन॒न्धाम्ना॒ प्रत्ये॑ति ॥8॥

वि॒ग्राह॑मृ॒तव॒स्तदाऽल॑भ॒तेन्द्र॑ङ्गृह्णीया॒त्षट्च॑ ॥ 2 ॥

यो वा अवि॑द्वान्निव॒र्तय॑ते । विशी॑र्षा॒ सपा॑प्मा॒ऽमुष्मिल्ँ॑ लो॒के भ॑वति । अथ॒ यो वि॒द्वान्नि॑व॒र्तय॑ते । सशी॑र्षा॒ विपा॑प्मा॒ऽमुष्मिल्ँ॑ लो॒के भ॑वति । दे॒वता॒ वै स॒प्त पुष्टि॑कामा॒ न्य॑वर्तयन्त । अ॒ग्निश्च॑ पृथि॒वी च॑ । वा॒युश्चा॒न्तरि॑क्षञ्च । आ॒दि॒त्यश्च॒ द्यौश्च॑ च॒न्द्रमाः॑ । अ॒ग्निर्न्य॑वर्तयत । स सा॑ह॒स्रम॑पुष्यत् ॥9॥

पृ॒थि॒वी न्य॑वर्तयत । सौष॑धीभि॒र्वन॒स्पति॑भिरपुष्यत् । वा॒युर्न्य॑वर्तयत । स मरी॑चीभिरपुष्यत् । अ॒न्तरि॑क्ष॒न्न्य॑वर्तयत । तद्वयो॑भिरपुष्यत् । आ॒दि॒त्यो न्य॑वर्तयत । स र॒श्मिभि॑रपुष्यत् । द्यौर्न्य॑वर्तयत । सा नक्ष॑त्रैरपुष्यत् । च॒न्द्रमा॒ न्य॑वर्तयत । सौ॑ऽहोरा॒त्रैर॑र्धमा॒सैर्मासै॑र्ऋ॒तुभि॑स्सव्वँत्स॒रेणा॑पुष्यत् । तान्पोषा॑न्पुष्यति । याँस्तेऽपु॑ष्यन् । य ए॒वव्विँ॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च ॥10॥

अ॒पु॒ष्य॒न्नक्ष॑त्त्रैरपुष्य॒त्पञ्च॑ च ॥ 3 ॥

तस्य॒ वा अ॒ग्नेर्हिर॑ण्यम्प्रतिजग्र॒हुषः॑ । अ॒र्धमि॑न्द्रि॒यस्यापा॑क्रामत् । तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै सो॑ऽर्धमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । अ॒र्धमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वान् हिर॑ण्यम्प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । अ॒र्धम॑स्येन्द्रि॒यस्याप॑क्रामति । तस्य॒ वै सोम॑स्य॒ वास॑ᳶ प्रतिजग्र॒हुषः॑ । तृती॑यमिन्द्रि॒यस्यापा॑क्रामत् ॥11॥

तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स तृती॑यमिन्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । तृती॑यमिन्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वान् वास॑ᳶ प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । तृती॑यमस्येन्द्रि॒यस्याप॑क्रामति । तस्य॒ वै रु॒द्रस्य॒ गाम्प्र॑तिजग्र॒हुषः॑ । च॒तु॒र्थमि॑न्द्रि॒यस्यापा॑क्रामत् । तामे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स च॑तु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ॥12॥

च॒तु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वान्गाम्प्र॑तिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । च॒तु॒र्थम॑स्येन्द्रि॒यस्याप॑क्रामति । तस्य॒ वै वरु॑ण॒स्याश्व॑म्प्रतिजग्र॒हुषः॑ । प॒ञ्च॒ममि॑न्द्रि॒यस्यापा॑क्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स प॑ञ्च॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । प॒ञ्च॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वानश्व॑म्प्रतिगृ॒ह्णाति॑ ॥13॥

अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । प॒ञ्च॒मम॑स्येन्द्रि॒यस्याप॑क्रामति । तस्य॒ वै प्र॒जाप॑ते॒ᳶ पुरु॑षम्प्रतिजग्र॒हुषः॑ । ष॒ष्ठमि॑न्द्रि॒यस्यापा॑क्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स ष॒ष्ठमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । ष॒ष्ठमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वान्पुरु॑षम्प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । ष॒ष्ठम॑स्येन्द्रि॒यस्याप॑क्रामति ॥14॥

तस्य॒ वै मनो॒स्तल्प॑म्प्रतिजग्र॒हुषः॑ । स॒प्त॒ममि॑न्द्रि॒यस्यापा॑क्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स स॑प्त॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । स॒प्त॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वाँस्तल्प॑म्प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । स॒प्त॒मम॑स्येन्द्रि॒यस्याप॑क्रामति । तस्य॒ वा उ॑त्ता॒नस्या॑ङ्गीर॒सस्याप्रा॑णत्प्रतिजग्र॒हुषः॑ । अ॒ष्ट॒ममि॑न्द्रि॒यस्यापा॑क्रामत् ॥15 ॥

तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै सो॑ऽष्ट॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । अ॒ष्ट॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्विँ॒द्वानप्रा॑णत्प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । अ॒ष्ट॒मम॑स्येन्द्रि॒यस्याप॑क्रामति । यद्वा इ॒दङ्किञ्च॑ । तत्सर्व॑मुत्ता॒न ए॒वाङ्गी॑र॒सᳶ प्रत्य॑गृह्णात् । तदे॑न॒म्प्रति॑गृहीत॒न्नाहि॑नत् । यत्किञ्च॑ प्रतिगृह्णी॒यात् । तत्सर्व॑मुत्ता॒नस्त्वा॑ङ्गीर॒सᳶ प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात् । इ॒यव्वाँ उ॑त्ता॒न आ॑ङ्गीर॒सः । अ॒नयै॒वैन॒त्प्रति॑गृह्णाति । नैनँ॑ हिनस्ति ॥16॥

तृती॑यमिन्द्रि॒यस्यापा॑क्रामच्चतु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॒त्ताश्वं॑ प्रतिगृ॒ह्णाति॑ ष॒ष्ठम॑स्येन्द्रि॒यस्याप॑क्रामत्यष्ट॒ममि॑न्द्रि॒यस्यापा॑क्रामत्प्रतिगृह्णी॒याच्च॒त्वारि॑ च ॥ 4 ॥ (तस्य॒ वा अ॒ग्नेर्हिर॑ण्यँ॒ सोम॑स्य॒ वास॒स्तदे॒तेन॑ रु॒द्रस्य॒ गान्तामे॒तेन॒ वरु॑ण॒स्याश्वं॑ प्र॒जाप॑ते॒ᳶ पुरु॑षं॒ मनो॒स्तल्प॒न्तमे॒तेनो॑त्ता॒नस्य॒ तदे॒तेनाप्रा॑ण॒द्यद्वै । अ॒र्धं तृती॑यमष्ट॒मं तच्च॑तु॒र्थं तां प॑ञ्च॒मँ ष॒ष्ठँ स॑प्त॒मन्तम् । तदे॒तेन॒ द्वे तामे॒तेनैकं॒ तमे॒तेन॒ त्रीणि॒ तदे॒तेनैक॑म् ॥ )

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यद्दश॑होतारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । केन॑ प्र॒जा अ॑सृज॒न्तेति॑ । प्र॒जाप॑तिना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । तेन॑ प्र॒जा अ॑सृजन्त । यच्चतु॑र्होतारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । केनौष॑धीरसृज॒न्तेति॑ । सोमे॑न॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् ॥17॥

तेनौष॑धीरसृजन्त । यत्पञ्च॑होतारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । केनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त । केनै॑षाम्प॒शून॑वृञ्ज॒तेति॑ । अ॒ग्निना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । तेनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त । तेनै॑षाम्प॒शून॑वृञ्जत । यत्षड्ढो॑तारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् ॥18॥

केन॒र्तून॑कल्पय॒न्तेति॑ । धा॒त्रा वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । तेन॒र्तून॑कल्पयन्त । यत्स॒प्तहो॑तारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । केन॒ सुव॑रायन् । केने॒माल्लोँ॒कान्त्सम॑तन्व॒न्निति॑ । अ॒र्य॒म्णा वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । तेन॒ सुव॑रायन् । तेने॒माल्लोँ॒कान्त्सम॑तन्व॒न्निति॑ ॥19॥

ए॒ते वै दे॒वा गृ॒हप॑तयः । तान् य ए॒वव्विँ॒द्वान् । अप्य॒न्यस्य॑ गार्हप॒ते दीक्ष॑ते । अ॒वा॒न्त॒रमे॒व स॒त्रिणा॑मृध्नोति । यो वा अ॑र्य॒मणव्ँ॒वेद॑ । दान॑कामा अस्मै प्र॒जा भ॑वन्ति । य॒ज्ञो वा अ॑र्य॒मा । आर्या॑वस॒तिरिति॒ वै तमा॑हु॒र्यम्प्र॒शँस॑न्ति । आर्या॑वस॒तिर्भ॑वति । य ए॒वव्वेँद॑ ॥20॥

यद्वा इ॒दङ्किञ्च॑ । तत्सर्व॒ञ्चतु॑र्होतारः । चतु॑र्होतृ॒भ्योऽधि॑ य॒ज्ञो निर्मि॑तः । स य ए॒वव्विँ॒द्वान्‌ वि॒वदे॑त । अ॒हमे॒व भूयो॑ वेद । यश्चतु॑र्होतॄ॒न् वेदेति॑ । स ह्ये॑व भूयो॒ वेद॑ । यश्चतु॑र्होतॄ॒न् वेद॑ । यो वै चतु॑र्होतृणाँ॒ होतॄ॒न् वेद॑ । सर्वा॑सु प्र॒जास्वन्न॑मत्ति ॥21॥

सर्वा॒ दिशो॒ऽभिज॑यति । प्र॒जाप॑ति॒र्वै दश॑होतृणाँ॒ होता॑ । सोम॒श्चतु॑र्होतृणाँ॒ होता॑ । अ॒ग्निᳶ पञ्च॑होतृणाँ॒ होता॑ । धा॒ता षड्ढो॑तृणाँ॒ होता॑ । अ॒र्य॒मा स॒प्तहो॑तृणाँ॒ होता॑ । ए॒ते वै चतु॑र्होतृणाँ॒ होता॑रः । तान् य ए॒वव्वेँद॑ । सर्वा॑सु प्र॒जास्वन्न॑मत्ति । सर्वा॒ दिशो॒ऽभिज॑यति ॥22॥

आ॒र्ध्नु॒व॒न्ना॒र्ध्नु॒व॒न्नित्ये॒वव्वेँदा॑त्ति सर्वा॒ दिशो॒ऽभि ज॑यति ॥ 5 ॥ (वै तेन॑ स॒त्रङ्केन॑ ॥ )

प्र॒जाप॑तिᳶ प्र॒जास्सृ॒ष्ट्वा व्य॑स्रँसत । स हृद॑यम्भू॒तो॑ऽशयत् । आत्म॒न् हा ३ इत्यह्व॑यत् । आप॒ᳶ प्रत्य॑शृण्वन् । ता अ॑ग्निहो॒त्रेणै॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त । ताᳶ कुसि॑न्ध॒मुपौ॑हन् । तस्मा॑दग्निहो॒त्रस्य॑ यज्ञक्र॒तोः । एक॑ ऋ॒त्विक् । च॒तु॒ष्कृत्वोऽह्व॑यत् । अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमाः॑ ॥23॥

ते प्रत्य॑शृण्वन् । ते द॑र्शपूर्णमा॒साभ्या॑मे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त । त उपौ॑हश्च॒त्वार्यङ्गा॑नि । तस्मा॑द्दर्शपूर्णमा॒सयो॑र्यज्ञक्र॒तोः । च॒त्वार॑ ऋ॒त्विजः॑ । प॒ञ्च॒कृत्वोऽह्व॑यत् । प॒शव॒ᳶ प्रत्य॑शृण्वन् । ते चा॑तुर्मा॒स्यैरे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त । त उपौ॑हल्ँ॒लोम॑ छ॒वीम्माँ॒समस्थि॑ म॒ज्जान॑म् । तस्मा॑च्चातुर्मा॒स्याना॑य्यँज्ञक्र॒तोः ॥ 24 ॥

पञ्च॒र्त्विजः॑ । ष॒ट्कृत्वोऽह्व॑यत् । ऋ॒तव॒ᳶ प्रत्य॑शृण्वन् । ते प॑शुब॒न्धेनै॒व य॑ज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त । त उपौ॑ह॒न्त्स्तना॑वा॒ण्डौ शि॒श्ञमवा॑ञ्चम्प्रा॒णम् । तस्मा॑त्पशुब॒न्धस्य॑ यज्ञक्र॒तोः । षडृ॒त्विजः॑ । स॒प्त॒कृत्वोऽह्व॑यत् । होत्रा॒ᳶ प्रत्य॑शृण्वन् । तास्सौ॒म्येनै॒वाध्व॒रेण॑ यज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त ॥25॥

ता उपौ॑हन्त्स॒प्त शी॑र्ष॒ण्या॑न्प्रा॒णान् । तस्मा॑त्सौ॒म्यस्या॑ध्व॒रस्य॑ यज्ञक्र॒तोः । स॒प्त होत्रा॒ᳶ प्राची॒र्वष॑ट्कुर्वन्ति । द॒श॒कृत्वोऽह्व॑यत् । तप॒ᳶ प्रत्य॑शृणोत् । तत्कर्म॑णै॒व सव्ँ॑वत्स॒रेण॒ सर्वै॑र्यज्ञक्र॒तुभि॒रुप॑ प॒र्याव॑र्तत । तत्सर्व॑मा॒त्मान॒मप॑रिवर्ग॒मुपौ॑हत् । तस्मा॑त्सव्वँत्स॒रे सर्वे॑ यज्ञक्र॒तवोऽव॑रुध्यन्ते । तस्मा॒द्दश॑होता॒ चतु॑र्होता । पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता । एक॑होत्रे ब॒लिँ ह॑रन्ति । हर॑न्त्यस्मै प्र॒जा ब॒लिम् । ऐन॒मप्र॑तिख्यातङ्गच्छति । य ए॒वव्वेँद॑ ॥ 26 ॥

च॒न्द्रमा॑श्चातुर्मा॒स्याना॑य्यँज्ञक्र॒तोर॑ध्व॒रेण॑ यज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त स॒प्तहो॑ता च॒त्वारि॑ च ॥ 6 ॥

प्र॒जाप॑ति॒ᳶ पुरु॑षमसृजत । सो॑ऽग्निर॑ब्रवीत् । ममा॒यमन्न॑म॒स्त्विति॑ । सो॑ऽबिभेत् । सर्वव्ँ॒ वै मा॒ऽयम्प्र ध॑क्ष्य॒तीति॑ । स ए॒ताँश्चतु॑र्होतॄनात्म॒स्पर॑णानपश्यत् । तान॑जुहोत् । तैर्वै स आ॒त्मान॑मस्पृणोत् । यद॑ग्निहो॒त्रञ्जु॒होति॑ । एक॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोत्यग्निहो॒त्रम् ॥27॥

कुसि॑न्धञ्चा॒त्मन॑स्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सा॑युज्यङ्गच्छति । च॒तुरुन्न॑यति । चतु॑र्होतारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोति दर्शपूर्णमा॒सौ । च॒त्वारि॑ चा॒त्मनोऽङ्गा॑नि स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति । च॒तुरुन्न॑यति । स॒मित्प॑ञ्च॒मी । पञ्च॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोति चातुर्मा॒स्यानि॑ । लोम॑ छ॒वीम्माँ॒समस्थि॑ म॒ज्जान॑म् ॥28॥

तानि॑ चा॒त्मन॑स्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति । च॒तुरुन्न॑यति । द्विर्जु॑होति । षड्ढो॑तारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोति पशुब॒न्धम् । स्तना॑वा॒ण्डौ शि॒श्ञमवा॑ञ्चम्प्रा॒णम् । तानि॑ चा॒त्मन॑स्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति । च॒तुरुन्न॑यति । द्विर्जु॑होति ॥29॥

स॒मित्स॑प्त॒मी । स॒प्तहो॑तारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोति सौ॒म्यम॑ध्व॒रम् । स॒प्त चा॒त्मन॑श्शीर्ष॒ण्या॑न्प्रा॒णान्त्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति । च॒तुरुन्न॑यति । द्विर्जु॒होति॑ । द्विर्निमा॑र्ष्टि । द्विᳶ प्राश्ञा॑ति । दश॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोति सव्वँत्स॒रम् । सर्व॑ञ्चा॒त्मान॒मप॑रिवर्ग स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति ॥30॥

अ॒ग्नि॒हो॒त्रं म॒ज्जान॒न्द्विर्जु॑हो॒त्यप॑रिवर्ग स्पृ॒णोत्येक॑ञ्च ॥ 7 ॥

प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॑ । स तपो॑ऽतप्यत । सो॑ऽन्तर्वा॑नभवत् । स हरि॑तश्श्या॒वो॑ऽभवत् । तस्मा॒त्स्त्र्य॑न्तर्व॑त्नी । हरि॑णी स॒ती श्या॒वा भ॑वति । स वि॒जाय॑मानो॒ गर्भे॑णाताम्यत् । स ता॒न्तᳶ कृ॒ष्णश्श्या॒वो॑ऽभवत् । तस्मा॑त्ता॒न्तᳶ कृ॒ष्णश्श्या॒वो भ॑वति । तस्यासु॑रे॒वाजी॑वत् ॥31॥

तेनासु॒नाऽसु॑रानसृजत । तदसु॑राणामसुर॒त्वम् । य ए॒वमसु॑राणामसुर॒त्वव्वेँद॑ । असु॑माने॒व भ॑वति । नैन॒मसु॑र्जहाति । सोऽसु॑रान्त्सृ॒ष्ट्वा पि॒तेवा॑मन्यत । तदनु॑ पि॒तॄन॑सृजत । तत्पि॑तृ॒णाम्पि॑तृ॒त्वम् । य ए॒वम्पि॑तृ॒णाम्पि॑तृ॒त्वव्वेँद॑ । पि॒तेवै॒व स्वाना॑म्भवति ॥ 32॥

यन्त्य॑स्य पि॒तरो॒ हव॑म् । स पि॒तॄन्त्सृ॒ष्ट्वाऽऽम॑नस्यत् । तदनु॑ मनु॒ष्या॑नसृजत । तन्म॑नु॒ष्या॑णाम्मनुष्य॒त्वम् । य ए॒वम्म॑नु॒ष्या॑णाम्मनुष्य॒त्वव्वेँद॑ । म॒न॒स्व्ये॑व भ॑वति । नैन॒म्मनु॑र्जहाति । तस्मै॑ मनु॒ष्या॑न्त्ससृजा॒नाय॑ । दिवा॑ देव॒त्राऽभ॑वत् । तदनु॑ दे॒वान॑सृजत । तद्दे॒वाना॑न्देव॒त्वम् । य ए॒वन्दे॒वाना॑न्देव॒त्वव्वेँद॑ । दिवा॑ है॒वास्य॑ देव॒त्रा भ॑वति । तानि॒ वा ए॒तानि॑ च॒त्वार्यम्भाँ॑सि । दे॒वा म॑नु॒ष्या॑ᳶ पि॒तरोऽसु॑राः । तेषु॒ सर्वे॒ष्वम्भो॒ नभ॑ इव भवति । य ए॒वव्वेँद॑ ॥33॥

अ॒जी॒व॒त्स्वानां॑ भवति दे॒वान॑सृजत स॒प्त च॑ ॥ 8 ॥

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यो वा इ॒मव्विँ॒द्यात् । यतो॒ऽयम्पव॑ते । यद॑भि॒ पव॑ते । यद॑भिस॒म्पव॑ते । सर्व॒मायु॑रियात् । न पु॒राऽऽयु॑ष॒ᳶ प्रमी॑येत । प॒शु॒मान्त्स्या॑त् । वि॒न्देत॑ प्र॒जाम् । यो वा इ॒मव्वेँद॑ ॥34॥

यतो॒ऽयम्पव॑ते । यद॑भि॒पव॑ते । यद॑भिस॒म्पव॑ते । सर्व॒मायु॑रेति । न पु॒राऽऽयु॑ष॒ᳶ प्रमी॑यते । प॒शु॒मान्भ॑वति । वि॒न्दते॑ प्र॒जाम् । अ॒द्भ्यᳶ प॑वते । अ॒पो॑ऽभिप॑वते । अ॒पो॑ऽभिसम्प॑वते ॥35॥

अ॒स्याᳶ प॑वते । इ॒माम॒भिप॑वते । इ॒माम॒भिसम्प॑वते । अ॒ग्नेᳶ प॑वते । अ॒ग्निम॒भिप॑वते । अ॒ग्निम॒भिसम्प॑वते । अ॒न्तरि॑क्षात्पवते । अ॒न्तरि॑क्षम॒भिप॑वते । अ॒न्तरि॑क्षम॒भिसम्प॑वते । आ॒दि॒त्यात्प॑वते ॥36॥

आ॒दि॒त्यम॒भिप॑वते । आ॒दि॒त्यम॒भिसम्प॑वते । द्योᳶ प॑वते । दिव॑म॒भिप॑वते । दिव॑म॒भिसम्प॑वते । दि॒ग्भ्यᳶ प॑वते । दिशो॒ऽभिप॑वते । दिशो॒ऽभिसम्प॑वते । स यत्पु॒रस्ता॒द्वाति॑ । प्रा॒ण ए॒व भू॒त्वा पु॒रस्ता॑द्वाति ॥ 37॥

तस्मा॑त्पु॒रस्ता॒द्वान्त॑म् । सर्वा॑ प्र॒जाᳶ प्रति॑नन्दन्ति । प्रा॒णो हि प्रि॒यᳶ प्र॒जाना॑म् । प्रा॒ण इ॑व प्रि॒यᳶ प्र॒जाना॑म्भवति । य ए॒वव्वेँद॑ । स वा ए॒ष प्रा॒ण ए॒व । अथ॒ यद्द॑क्षिण॒तो वाति॑ । मा॒त॒रिश्वै॒व भू॒त्वा द॑क्षिण॒तो वा॑ति । तस्मा॑द्दक्षिण॒तो वान्तव्ँ॑वि॒द्यात् । सर्वा॒ दिश॒ आवा॑ति ॥38॥

सर्वा॒ दिशोऽनु॒विवा॑ति । सर्वा॒ दिशोऽनु॒सव्वाँ॒तीति॑ । स वा ए॒ष मा॑त॒रिश्वै॒व । अथ॒ यत्प॒श्चाद्वाति॑ । पव॑मान ए॒व भू॒त्वा प॒श्चाद्वा॑ति । पू॒तम॑स्मा॒ आह॑रन्ति । पू॒तमुप॑हरन्ति । पू॒तम॑श्ञाति । य ए॒वव्वेँद॑ । स वा ए॒ष पव॑मान ए॒व ॥39॥

अथ॒ यदु॑त्तर॒तो वाति॑ । स॒वि॒तैव भू॒त्त्वोत्त॑र॒तो वा॑ति । स॒वि॒तेव॒ स्वाना॑म्भवति । य ए॒वव्वेँद॑ । स वा ए॒ष स॑वि॒तैव । ते य ए॑नम्पु॒रस्ता॑दा॒यन्त॑मुप॒वद॑न्ति । य ए॒वास्य॑ पु॒रस्ता॑त्पा॒प्मानः॑ । ताँस्तेऽप॑घ्नन्ति । पु॒रस्ता॒दित॑रान्पा॒प्मन॑स्सचन्ते । अथ॒ य ए॑नन्दक्षिण॒त आ॒यन्त॑मुप॒वद॑न्ति ॥40॥

य ए॒वास्य॑ दक्षिण॒तᳶ पा॒प्मानः॑ । ताँस्तेऽप॑घ्नन्ति । द॒क्षि॒ण॒त इत॑रान्पा॒प्मन॑स्सचन्ते । अथ॒ य ए॑नम्प॒श्चादा॒यन्त॑मुप॒वद॑न्ति । य ए॒वास्य॑ प॒श्चात्पा॒प्मानः॑ । ताँस्तेऽप॑घ्नन्ति । प॒श्चादित॑रान्पा॒प्मन॑स्सचन्ते । अथ॒ य ए॑नमुत्तर॒त आ॒यन्त॑मुप॒वद॑न्ति । य ए॒वास्यो॑त्तर॒तᳶ पा॒प्मानः॑ । ताँस्तेऽप॑घ्नन्ति ॥41॥

उ॒त्त॒र॒त इत॑रान्पा॒प्मन॑स्सचन्ते । तस्मा॑दे॒वव्विँ॒द्वान् । वीव॑ नृत्येत् । प्रेव॑ चलेत् । व्यस्ये॑वा॒क्ष्यौ भा॑षेत । म॒ण्टये॑दिव । क्रा॒थये॑दिव । शृ॒ङ्गा॒येते॑व । उ॒त मोप॑वदेयुः । उ॒त मे॑ पा॒प्मान॒मप॑हन्यु॒रिति॑ । स यान्दिशँ॑ स॒निमे॒ष्यन्त्स्यात् । य॒दा तान्दिशव्ँ॒वातो॑ वा॒यात् । अथ॒ प्रवे॒यात् । प्र वा॑ धावयेत् । सा॒तमे॒व र॑दि॒तव्व्यूँ॑ढङ्ग॒न्धम॒भिप्रच्य॑वते । आऽस्य॒ तञ्ज॑नप॒दम्पूर्वा॑ की॒र्तिर्ग॑च्छति । दान॑कामा अस्मै प्र॒जा भ॑वन्ति । य ए॒वव्वेँद॑ ॥42॥

वेद॒ सं प॑वत आदि॒त्यात्प॑वते वा॒त्या वा॑त्ये॒ष पव॑मान ए॒व द॑क्षिण॒त आ॒यन्त॑मुप॒ वद॑न्त्युत्तर॒तᳶ पा॒प्मान॒स्ताँ स्तेप॑ घ्न॒न्तीत्य॒ष्टौ च॑ ॥ 9 ॥

प्र॒जाप॑ति॒स्सोमँ॒ राजा॑नमसृजत । तन्त्रयो॒ वेदा॒ अन्व॑सृज्यन्त । तान् हस्ते॑ऽकुरुत । अथ॒ ह सीता॑ सावि॒त्री । सोमँ॒ राजा॑नञ्चकमे । श्र॒द्धामु॒ स च॑कमे । साऽऽह॑ पि॒तर॑म्प्र॒जाप॑ति॒मुप॑ससार । तँ हो॑वाच । नम॑स्ते अस्तु भगवः । उप॑ त्वाऽयानि ॥43॥

प्र त्वा॑ पद्ये । सोमव्ँ॒ वै राजा॑नङ्कामये । श्र॒द्धामु॒ स का॑मयत॒ इति॑ । तस्या॑ उ॒ ह स्था॑ग॒रम॑लङ्का॒रङ्क॑ल्पयि॒त्वा । दश॑होतारम्पु॒रस्ता॑द्व्या॒ख्याय॑ । चतु॑र्होतारन्दक्षिण॒तः । पञ्च॑होतारम्प॒श्चात् । षड्ढो॑तारमुत्तर॒तः । स॒प्तहो॑तारमु॒परि॑ष्टात् । स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॑ ॥44॥

आऽस्यार्धव्वव्ँ॑राज । ताँ हो॒दीक्ष्यो॑वाच । उप॒ मा व॑र्त॒स्वेति॑ । तँ हो॑वाच । भोग॒न्तु म॒ आच॑क्ष्व । ए॒तन्म॒ आच॑क्ष्व । यत्ते॑ पा॒णाविति॑ । तस्या॑ उ॒ ह त्रीन् वेदा॒न्प्रद॑दौ । तस्मा॒दुह॒ स्त्रियो॒ भोग॒मैव हा॑रयन्ते । स यᳶ का॒मये॑त प्रि॒यस्स्या॒मिति॑ ॥45॥

यव्वाँ का॒मये॑त प्रि॒यस्स्या॒दिति॑ । तस्मा॑ ए॒त स्था॑ग॒रम॑लङ्का॒रङ्क॑ल्पयि॒त्वा । दश॑होतारम्पु॒रस्ता॑द्व्या॒ख्याय॑ । चतु॑र्होतारन्दक्षिण॒तः । पञ्च॑होतारम्प॒श्चात् । षड्ढो॑तारमुत्तर॒तः । स॒प्तहो॑तारमु॒परि॑ष्टात् । स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॑ । आस्यार्धव्व्रँ॑जेत् । प्रि॒यो है॒व भ॑वति ॥46॥

अ॒या॒न्य॒ल॒ङ्कृत्य॑ स्या॒मिति॑ भवति ॥ 10 ॥

ब्रह्मा॑त्म॒न्वद॑सृजत । तद॑कामयत । समा॒त्मना॑ पद्ये॒येति॑ । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ दश॒मँ हू॒तᳶ प्रत्य॑शृणोत् । स दश॑हूतोऽभवत् । दश॑हूतो ह॒ वै नामै॒षः । तव्वाँ ए॒तन्दश॑हूतँ॒ सन्त॑म् । दश॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥47॥

आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ सप्त॒मँ हू॒तᳶ प्रत्य॑शृणोत् । स स॒प्तहू॑तोऽभवत् । स॒प्तहू॑तो ह॒ वै नामै॒षः । तव्वाँ ए॒तँ स॒प्तहू॑तँ॒ सन्त॑म् । स॒प्तहो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ ष॒ष्ठँ हू॒तᳶ प्रत्य॑शृणोत् । स षड्ढू॑तोऽभवत् ॥48॥

षड्ढू॑तो ह॒ वै नामै॒षः । तव्वाँ ए॒तँ षड्ढू॑तँ॒ सन्त॑म् । षड्ढो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ पञ्च॒मँ हू॒तᳶ प्रत्य॑शृणोत् । स पञ्च॑हूतोऽभवत् । पञ्च॑हूतो ह॒ वै नामै॒षः । तव्वाँ ए॒तम्पञ्च॑हूतँ॒ सन्त॑म् । पञ्च॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण ॥49॥

प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ चतु॒र्थँ हू॒तᳶ प्रत्य॑शृणोत् । स चतु॑र्हूतोऽभवत् । चतु॑र्हूतो ह॒ वै नामै॒षः । तव्वाँ ए॒तञ्चतु॑र्हूतँ॒ सन्त॑म् । चतु॑र्हो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । तम॑ब्रवीत् । त्वव्वैँ मे॒ नेदि॑ष्ठँ हू॒तᳶ प्रत्य॑श्रौषीः । त्वयै॑नानाख्या॒तार॒ इति॑ । तस्मा॒न्नु है॑नाँ॒श्चतु॑र्होतार॒ इत्याच॑क्षते । तस्मा॑च्छुश्रू॒षुᳶ पु॒त्राणाँ॒ हृद्य॑तमः । नेदि॑ष्ठो॒ हृद्य॑तमः । नेदि॑ष्ठो॒ ब्रह्म॑णो भवति । य ए॒वव्वेँद॑ ॥50॥

दे॒वाष्षड्ढू॑तोऽभव॒त्पञ्च॑हो॒तेत्याच॑क्षते प॒रोक्षे॑णाश्रौषी॒ष्षट्च॑ ॥ 11 ॥

ब्र॒ह्म॒वा॒दिन॒ᳶ किन्दक्षि॑णा॒य्योँ वा अवि॑द्वा॒न्तस्य॒ वै ब्र॑ह्मवा॒दिनो॒ यद्दश॑होतारᳶ प्र॒जाप॑ति॒र्व्य॑स्रं प्र॒जाप॑ति॒ᳶ पुरु॑षं प्र॒जाप॑तिरकामयत॒ स तप॒स्सो॑ऽन्तर्वा॑न्ब्रह्मवा॒दिनो॒ यो वा इ॒मव्विँ॒द्यात्प्र॒जाप॑ति॒स्सोमँ॒ राजा॑नं॒ ब्रह्मा॑त्म॒न्वदेका॑दश ॥ 11 ॥ ब्र॒ह्म॒वा॒दिन॒स्तस्य॒ वा अ॒ग्नेर्यद्वा इ॒दङ्किञ्च॑ प्र॒जाप॑तिरकामयत॒ य ए॒वास्य॑ दक्षिण॒तᳶ प॑ञ्चा॒शत् ॥ 50 ॥ ब्र॒ह्म॒वा॒दिनो॒ य ए॒वव्वेँद॑ ॥ हरिः॑ ओम् ॥ श्रीकृष्णार्पणमस्तु । तृतीयप्रपाठकस्समाप्तः ।