अङ्गि॑रसो॒ वै स॒त्त्रमा॑सत । तेषा॒म्पृश्ञि॑र्घर्म॒धुगा॑सीत् । सर्जी॒षेणा॑जीवत् । ते॑ऽब्रुवन् । कस्मै॒ नु स॒त्रमा॑स्महे । ये॑ऽस्या ओष॑धी॒र्न ज॒नया॑म॒ इति॑ । ते दि॒वो वृष्टि॑मसृजन्त । याव॑न्तस्स्तो॒का अ॒वाप॑द्यन्त । ताव॑ती॒रोष॑धयोऽजायन्त । ता जा॒ताᳶ पि॒तरो॑ वि॒षेणा॑लिम्पन्न् ॥1॥
तासा॑ञ्ज॒ग्ध्वा रुप्य॒न्त्यैत् । ते॑ऽब्रुवन् । क इ॒दमि॒त्थम॑क॒रिति॑ । व॒यम्भा॑ग॒धेय॑मि॒च्छमा॑ना॒ इति॑ पि॒तरो॑ऽब्रुवन् । किव्वोँ॑ भाग॒धेय॒मिति॑ । अ॒ग्नि॒हो॒त्र ए॒व नोऽप्य॒स्त्वित्य॑ब्रुवन् । तेभ्य॑ ए॒तद्भा॑ग॒धेय॒म्प्राय॑च्छन् । यद्धु॒त्वा नि॒मार्ष्टि॑ । ततो॒ वै त ओष॑धीरस्वदयन् । य ए॒वव्वेँद॑ ॥2॥
स्वद॑न्तेऽस्मा॒ ओष॑धयः । ते व॒त्समु॒पावा॑सृजन् । इ॒दन्नो॑ ह॒व्यम्प्रदा॑प॒येति॑ । सो॑ऽब्रवी॒द्वरव्ँ॑वृणै । दश॑ मा॒ रात्री॑र्जा॒तन्न दो॑हन् । आ॒स॒ङ्ग॒वम्मा॒त्रा स॒ह च॑रा॒णीति॑ । तस्मा॑द्व॒त्सञ्जा॒तन्दश॒ रात्री॒र्न दु॑हन्ति । आ॒स॒ङ्ग॒वम्मा॒त्रा स॒ह च॑रति । वारे॑वृत॒॒ ह्य॑स्य । तस्मा॑द्व॒त्सँ सँ॑सृष्टध॒यँ रु॒द्रो घातु॑कः । अति॒ हि स॒न्धान्धय॑ति ॥3॥
अ॒लि॒म्प॒न्वेद॒ घातु॑क॒ एक॑ञ्च ॥ 1 ॥
प्र॒जाप॑तिर॒ग्निम॑सृजत । तम्प्र॒जा अन्व॑सृज्यन्त । तम॑भा॒ग उपा॑स्त । सो॑ऽस्य प्र॒जाभि॒रपा॑क्रामत् । तम॑व॒रुरु॑त्समा॒नोऽन्वै॑त् । तम॑व॒रुध॒न्नाश॑क्नोत् । स तपो॑ऽतप्यत । सो॑ऽग्निरुपा॑रम॒ताता॑पि॒ वै स्य प्र॒जाप॑ति॒रिति॑ । स र॒राटा॒दुद॑मृष्ट ॥4॥
तद्घृ॒तम॑भवत् । तस्मा॒द्यस्य॑ दक्षिण॒तᳶ केशा॒ उन्मृ॑ष्टाः । ताञ्ज्ये॑ष्ठल॒क्ष्मी प्रा॑जाप॒त्येत्या॑हुः । यद्र॒राटा॑दु॒दमृ॑ष्ट । तस्मा॑द्र॒राटे॒ केशा॒ न स॑न्ति । तद॒ग्नौ प्रागृ॑ह्णात् । तद्व्य॑चिकित्सत् । जु॒हवा॒नी३ मा हौ॒षा ३ मिति॑ । तद्वि॑चिकि॒त्सायै॒ जन्म॑ । य ए॒वव्विँ॒द्वान् वि॑चि॒कित्स॑ति ॥5॥
वसी॑य ए॒व चे॑तयते । तव्वाँग॒भ्य॑वदज्जु॒हुधीति॑ । सो॑ऽब्रवीत् । कस्त्वम॒सीति॑ । स्वैव ते॒ वागित्य॑ब्रवीत् । सो॑ऽजुहो॒त्स्वाहेति॑ । तत्स्वा॑हाका॒रस्य॒ जन्म॑ । य ए॒व स्वा॑हाका॒रस्य॒ जन्म॒ वेद॑ । क॒रोति॑ स्वाहाका॒रेण॑ वी॒र्य॑म् । यस्यै॒वव्ँवि॒दुष॑स्स्वाहाका॒रेण॒ जुह्व॑ति ॥6॥
भोगा॑यै॒वास्य॑ हु॒तम्भ॑वति । तस्या॒ आहु॑त्यै॒ पुरु॑षमसृजत । द्वि॒तीय॑मजुहोत् । सोऽश्व॑मसृजत । तृ॒तीय॑मजुहोत् । स गाम॑सृजत । च॒तु॒र्थम॑जुहोत् । सोऽवि॑मसृजत । प॒ञ्च॒मम॑जुहोत् । सो॑ऽजाम॑सृजत ॥7॥
सो॑ऽग्निर॑बिभेत् । आहु॑तीभि॒र्वै मा॑ऽऽप्नो॒तीति॑ । स प्र॒जाप॑ति॒म्पुन॒ᳶ प्रावि॑शत् । तम्प्र॒जाप॑तिरब्रवीत् । जाय॒स्वेति॑ । सो॑ऽब्रवीत् । किम्भा॑ग॒धेय॑म॒भिज॑निष्य॒ इति॑ । तुभ्य॑मे॒वेदँ हू॑याता॒ इत्य॑ब्रवीत् । स ए॒तद्भा॑ग॒धेय॑म॒भ्य॑जायत । यद॑ग्निहो॒त्रम् ॥8॥
तस्मा॑दग्निहो॒त्रमु॑च्यते । तद्धू॒यमा॑नमादि॒त्यो॑ऽब्रवीत् । मा हौ॑षीः । उ॒भयो॒र्वै ना॑वे॒तदिति॑ । सो॑ऽग्निर॑ब्रवीत् । क॒थन्नौ॑ होष्य॒न्तीति॑ । सा॒यमे॒व तुभ्य॑ञ्जु॒हुव॑न् । प्रा॒तर्मह्य॒मित्य॑ब्रवीत् । तस्मा॑द॒ग्नये॑ सा॒यँ हू॑यते । सूर्या॑य प्रा॒तः ॥9॥
आ॒ग्ने॒यी वै रात्रिः॑ । ऐ॒न्द्रमहः॑ । यदनु॑दिते॒ सूर्ये॑ प्रा॒तर्जु॑हु॒यात् । उ॒भय॑मे॒वाग्ने॒य स्या॑त् । उदि॑ते॒ सूर्ये॑ प्रा॒तर्जु॑होति । तथा॒ग्नये॑ सा॒यँ हू॑यते । सूर्या॑य प्रा॒तः । रात्रिव्ँ॒ वा अनु॑ प्र॒जाᳶ प्रजा॑यन्ते । अह्ना॒ प्रति॑तिष्ठन्ति । यत्सा॒यञ्जु॒होति॑ ॥10॥
प्रैव तेन॑ जायते । उदि॑ते॒ सूर्ये॑ प्रा॒तर्जु॑होति । प्रत्ये॒व तेन॑ तिष्ठति । प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑ । स ए॒तद॑ग्निहो॒त्रम्मि॑थु॒नम॑पश्यत् । तदुदि॑ते॒ सूर्ये॑ऽजुहोत् । यजु॑षा॒ऽन्यत् । तू॒ष्णीम॒न्यत् । ततो॒ वै स प्राजा॑यत । यस्यै॒वव्विँ॒दुष॒ उदि॑ते॒ सूर्ये॑ऽग्निहो॒त्रञ्जुह्व॑ति ॥11॥
प्रैव जा॑यते । अथो॒ यथा॒ दिवा॑ प्रजा॒नन्नेति॑ । ता॒दृगे॒व तत् । अथो॒ खल्वा॑हुः । यस्य॒ वै द्वौ पुण्यौ॑ गृ॒हे वस॑तः । यस्तयो॑र॒न्यँ रा॒धय॑त्य॒न्यन्न । उ॒भौ वाव स तावृ॑च्छ॒तीति॑ । अ॒ग्निव्वाँवादि॒त्यस्सा॒यम्प्रवि॑शति । तस्मा॑द॒ग्निर्दू॒रान्नक्त॑न्ददृशे । उ॒भे हि तेज॑सी स॒म्पद्ये॑ते ॥12॥
उ॒द्यन्तव्ँ॒वावादि॒त्यम॒ग्निरनु॑स॒मारो॑हति । तस्मा॑द्धू॒म ए॒वाग्नेर्दिवा॑ ददृशे । यद॒ग्नये॑ सा॒यञ्जु॑हु॒यात् । आ सूर्या॑य वृश्च्येत । यत्सूर्या॑य प्रा॒तर्जु॑हु॒यात् । आऽग्नये॑ वृश्च्येत । दे॒वता॑भ्यस्स॒मद॑न्दध्यात् । अ॒ग्निर्ज्योति॒र्ज्योति॒स्सूर्य॒स्स्वाहेत्ये॒व सा॒यँ हो॑त॒व्य॑म् । सूर्यो॒ ज्योति॒र्ज्योति॑र॒ग्निस्स्वाहेति॑ प्रा॒तः । तथो॒भाभ्याँ॑ सा॒यँ हू॑यते ॥13॥
उ॒भाभ्या॑म्प्रा॒तः । न दे॒वता॑भ्यस्स॒मद॑न्दधाति । अ॒ग्निर्ज्योति॒रित्या॑ह । अ॒ग्निर्वै रे॑तो॒धाः । प्र॒जा ज्योति॒रित्या॑ह । प्र॒जा ए॒वास्मै॒ प्रज॑नयति । सूर्यो॒ ज्योति॒रित्या॑ह । प्र॒जास्वे॒व प्रजा॑तासु॒ रेतो॑ दधाति । ज्योति॑र॒ग्निस्स्वाहेत्या॑ह । प्र॒जा ए॒व प्रजा॑ता अ॒स्याम्प्रति॑ष्ठापयति ॥14॥
तू॒ष्णीमुत्त॑रा॒माहु॑तिञ्जुहोति । मि॒थु॒न॒त्वाय॒ प्रजा॑त्यै । यदुदि॑ते॒ सूर्ये॑ प्रा॒तर्जु॑हु॒यात् । यथाऽति॑थये॒ प्रद्रु॑ताय शू॒न्याया॑वस॒थाया॑हा॒र्यँ॑ हर॑न्ति । ता॒दृगे॒व तत् । क्वाह॒ तत॒स्तद्भव॒तीत्या॑हुः । यत्स न वेद॑ । यस्मै॒ तद्धर॒न्तीति॑ । तस्मा॒द्यदौ॑ष॒सञ्जु॒होति॑ । तदे॒व स॑म्प्र॒ति । अथो॒ यथा॒ प्रार्थ॑मौष॒सम्प॑रि॒वेवे॑ष्टि । ता॒दृगे॒व तत् ॥15॥
अ॒मृ॒ष्ट॒ वि॒चि॒कित्स॑ति॒ जुह्व॑त्य॒जाम॑सृजताग्निहो॒त्रँ सूर्या॑य प्रा॒तर्जु॒होति॒ जुह्व॑ति सं॒पद्ये॑ते हूयते स्थापयति संप्र॒ति द्वे च॑ ॥ 2 ॥
रु॒द्रो वा ए॒षः । यद॒ग्निः । पत्नी॑ स्था॒ली । यन्मध्ये॒ऽग्नेर॑धि॒श्रये॑त् । रु॒द्राय॒ पत्नी॒मपि॑दध्यात् । प्र॒मायु॑का स्यात् । उदी॒चोऽङ्गा॑रान्नि॒रूह्याधि॑ श्रयति । पत्नि॑यै गोपी॒थाय॑ । व्य॑न्तान्करोति । तथा॒ पत्न्यप्र॑मायुका भवति ॥16॥
घ॒र्मो वा ए॒षोऽशा॑न्तः । अह॑रह॒ᳶ प्रवृ॑ज्यते । यद॑ग्निहो॒त्रम् । प्रति॑षिञ्चेत्प॒शुका॑मस्य । शा॒न्तमि॑व॒ हि प॑श॒व्य॑म् । न प्रति॑षिञ्चेद्ब्रह्मवर्च॒सका॑मस्य । समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् । अथो॒ खलु॑ । प्र॒ति॒षिच्य॑मे॒व । यत्प्र॑तिषि॒ञ्चति॑ ॥17॥
तत्प॑श॒व्य॑म् । यज्जु॒होति॑ । तद्ब्र॑ह्मवर्च॒सि । उ॒भय॑मे॒वाकः॑ । प्रच्यु॑तव्ँ॒वा ए॒तद॒स्माल्लो॒कात् । अग॑तन्देवलो॒कम् । यच्छृ॒तँ ह॒विरन॑भिघारितम् । अ॒भिद्यो॑तयति । अ॒भ्ये॑वैन॑द्घारयति । अथो॑ देव॒त्रैवैन॑द्गमयति ॥18॥
पर्य॑ग्नि करोति । रक्ष॑सा॒मप॑हत्यै । त्रिᳶ पर्य॑ग्नि करोति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ । यत्प्रा॒चीन॑मुद्वा॒सये॑त् । यज॑मानँ शु॒चाऽर्प॑येत् । यद्द॑क्षि॒णा । पि॒तृ॒दे॒व॒त्य॑ स्यात् । यत्प्र॒त्यक् ॥19॥
पत्नीँ॑ शु॒चाऽर्प॑येत् । उ॒दी॒चीन॒मुद्वा॑सयति । ए॒षा वै दे॑वमनु॒ष्याणाँ॑ शा॒न्ता दिक् । तामे॒वैन॒दनूद्वा॑सयति॒ शान्त्यै॑ । वर्त्म॑ करोति । य॒ज्ञस्य॒ सन्त॑त्यै । निष्ट॑पति । उपै॒व तत्स्तृ॑णाति । च॒तुरुन्न॑यति । चतु॑ष्पादᳶ प॒शवः॑ ॥20॥
प॒शूने॒वाव॑रुन्धे । सर्वा॑न्पू॒र्णानुन्न॑यति । सर्वे॒ हि पुण्या॑ रा॒द्धाः । अ॒नूच॒ उन्न॑यति । प्र॒जाया॑ अनूचीन॒त्वाय॑ । अ॒नूच्ये॒वास्य॑ प्र॒जाऽर्धु॑का भवति । सम्मृ॑शति॒ व्यावृ॑त्त्यै । नाहो॑ष्य॒न्नुप॑सादयेत् । यदहो॑ष्यन्नुपसा॒दये॑त् । यथा॒ऽन्यस्मा॑ उपनि॒धाय॑ ॥21॥
अ॒न्यस्मै॑ प्र॒यच्छ॑ति । ता॒दृगे॒व तत् । आऽस्मै॑ वृश्च्येत । यदे॒व गार्ह॑पत्येऽधि॒श्रय॑ति । तेन॒ गार्ह॑पत्यम्प्रीणाति । अ॒ग्निर॑बिभेत् । आहु॑तयो॒ माऽत्ये॑ष्य॒न्तीति॑ । स ए॒ताँ स॒मिध॑मपश्यत् । तामाऽध॑त्त । ततो॒ वा अ॒ग्नावाहु॑तयोऽध्रियन्त ॥22॥
यदे॑नँ स॒मय॑च्छत् । तत्स॒मिध॑स्समि॒त्त्वम् । स॒मिध॒माद॑धाति । समे॒वैनय्ँ॑यच्छति । आहु॑तीना॒न्धृत्यै॑ । अथो॑ अग्निहो॒त्रमे॒वेध्मव॑त्करोति । आहु॑तीना॒म्प्रति॑ष्ठित्यै । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यदेकाँ॑ स॒मिध॑मा॒धाय॒ द्वे आहु॑ती जु॒होति॑ । अथ॒ कस्याँ॑ स॒मिधि॑ द्वि॒तीया॒माहु॑तिञ्जुहो॒तीति॑ ॥23॥
यद्द्वे स॒मिधा॑वाद॒ध्यात् । भ्रातृ॑व्यमस्मै जनयेत् । एकाँ॑ स॒मिध॑मा॒धाय॑ । यजु॑षा॒ऽन्यामाहु॑तिञ्जुहोति । उ॒भे ए॒व स॒मिद्व॑ती॒ आहु॑ती जुहोति । नास्मै॒ भ्रातृ॑व्यञ्जनयति । आदी॑प्तायाञ्जुहोति । समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् । अथो॒ यथाऽति॑थि॒ञ्ज्योति॑ष्कृ॒त्वा प॑रि॒वेवे॑ष्टि । ता॒दृगे॒व तत् । च॒तुरुन्न॑यति । द्विर्जु॑होति । तस्मा॑द्द्वि॒पाच्चतु॑ष्पादमत्ति । अथो॑ द्वि॒पद्ये॒व चतु॑ष्पद॒ᳶ प्रति॑ष्ठापयति ॥24॥
भ॒व॒ति॒ प्र॒ति॒षि॒ञ्चति॑ गमयति प्र॒त्यक्प॒शव॑ उपनि॒धाया॑ध्रिय॒न्तेति॒ तच्च॒त्वारि॑ च ॥ 3 ॥
उ॒त्त॒राव॑तीव्ँ॒ वै दे॒वा आहु॑ति॒मजु॑हवुः । अवा॑ची॒मसु॑राः । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः । यङ्का॒मये॑त॒ वसी॑यान्त्स्या॒दिति॑ । कनी॑य॒स्तस्य॒ पूर्वँ॑ हु॒त्वा । उत्त॑र॒म्भूयो॑ जुहुयात् । ए॒षा वा उ॑त्त॒राव॒त्याहु॑तिः । तान्दे॒वा अ॑जुहवुः । तत॒स्ते॑ऽभवन्न् ॥25॥
यस्यै॒वञ्जुह्व॑ति । भव॑त्ये॒व । यङ्का॒मये॑त॒ पापी॑यान्त्स्या॒दिति॑ । भूय॒स्तस्य॒ पूर्वँ॑ हु॒त्वा । उत्त॑र॒ङ्कनी॑यो जुहुयात् । ए॒षा वा अवा॒च्याहु॑तिः । तामसु॑रा अजुहवुः । तत॒स्ते परा॑ऽभवन् । यस्यै॒वञ्जुह्व॑ति । परै॒व भ॑वति ॥26॥
हु॒त्वोप॑सादय॒त्यजा॑मित्वाय । अथो॒ व्यावृ॑त्त्यै । गार्ह॑पत्य॒म्प्रती॑क्षते । अन॑नुध्यायिनमे॒वैन॑ङ्करोति । अ॒ग्नि॒हो॒त्रस्य॒ वै स्था॒णुर॑स्ति । तय्यँ ऋ॒च्छेत् । य॒ज्ञ॒स्था॒णुमृ॑च्छेत् । ए॒ष वा अ॑ग्निहो॒त्रस्य॑ स्था॒णुः । यत्पूर्वाऽऽहु॑तिः । ताय्यँदुत्त॑रया॒ऽभिजु॑हु॒यात् ॥27॥
य॒ज्ञ॒स्था॒णुमृ॑च्छेत् । अ॒ति॒हाय॒ पूर्वा॒माहु॑तिञ्जुहोति । य॒ज्ञ॒स्था॒णुमे॒व परि॑वृणक्ति । अथो॒ भ्रातृ॑व्यमे॒वाप्त्वाऽति॑क्रामति । अ॒वा॒चीनँ॑ सा॒यमुप॑मार्ष्टि । रेत॑ ए॒व तद्द॑धाति । ऊ॒र्ध्वम्प्रा॒तः । प्रज॑नयत्ये॒व तत् । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । च॒तुरुन्न॑यति ॥28॥
द्विर्जु॑होति । अथ॒ क्व॑ द्वे आहु॑ती भवत॒ इति॑ । अ॒ग्नौ वै॑श्वान॒र इति॑ ब्रूयात् । ए॒ष वा अ॒ग्निर्वै॑श्वान॒रः । यद्ब्रा॑ह्म॒णः । हु॒त्वा द्विᳶ प्राश्ञा॑ति । अ॒ग्नावे॒व वै॑श्वान॒रे द्वे आहु॑ती जुहोति । द्विर्जु॒होति॑ । द्विर्निमा॑र्ष्टि । द्विᳶ प्राश्ञा॑ति ॥29॥
षट्त्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कि॒न्दे॒व॒त्य॑मग्निहो॒त्रमिति॑ । वै॒श्व॒दे॒वमिति॑ ब्रूयात् । यद्यजु॑षा जु॒होति॑ । तदै॑न्द्रा॒ग्नम् । यत्तू॒ष्णीम् । तत्प्रा॑जाप॒त्यम् ॥30॥
यन्नि॒मार्ष्टि॑ । तदोष॑धीनाम् । यद्द्वि॒तीय॑म् । तत्पि॑तृ॒णाम् । यत्प्राश्ञा॑ति । तद्गर्भा॑णाम् । तस्मा॒द्गर्भा॒ अन॑श्ञन्तो वर्धन्ते । यदा॒चाम॑ति । तन्म॑नु॒ष्या॑णाम् । उद॑ङ्पर्या॒वृत्याचा॑मति ॥31॥
आ॒त्मनो॑ गोपी॒थाय॑ । निर्णे॑नेक्ति॒ शुद्ध्यै॑ । निष्ट॑पति स्व॒गाकृ॑त्यै । उद्दि॑शति । स॒प्त॒र्षीने॒व प्री॑णाति । द॒क्षि॒णा प॒र्याव॑र्तते । स्वमे॒व वी॒र्य॑मनु॑प॒र्याव॑र्तते । तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्तरः । अथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑प॒र्याव॑र्तते । हु॒त्वोप॒समि॑न्धे ॥32॥
ब्र॒ह्म॒व॒र्च॒सस्य॒ समि॑द्ध्यै । न ब॒र्हिरनु॒ प्रह॑रेत् । अस॑स्थितो॒ वा ए॒ष य॒ज्ञः । यद॑ग्निहो॒त्रम् । यद॑नुप्र॒हरे॑त् । य॒ज्ञव्विँच्छि॑न्द्यात् । तस्मा॒न्नानु॑ प्र॒हृत्य॑म् । य॒ज्ञस्य॒ सन्त॑त्यै । अ॒पो निन॑यति । अ॒व॒भृ॒थस्यै॒व रू॒पम॑कः ॥33॥
अ॒भ॒व॒न्भ॒व॒ति॒ जु॒हु॒यान्न॑यति मार्ष्टि॒ द्विᳶप्राश्ञा॑ति प्राजाप॒त्यमाचा॑मतीन्धेऽकः ॥ 4 ॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । अ॒ग्नि॒हो॒त्रप्रा॑यणा य॒ज्ञाः । किम्प्रा॑यणमग्निहो॒त्रमिति॑ । व॒त्सो वा अ॑ग्निहो॒त्रस्य॒ प्राय॑णम् । अ॒ग्नि॒हो॒त्रय्यँ॒ज्ञाना॑म् । तस्य॑ पृथि॒वी सदः॑ । अ॒न्तरि॑क्ष॒माग्नी॑द्ध्रम् । द्यौर्ह॑वि॒र्धान॑म् । दि॒व्या आप॒ᳶ प्रोक्ष॑णयः । ओष॑धयो ब॒र्हिः ॥34॥
वन॒स्पत॑य इ॒ध्मः । दिश॑ᳶ परि॒धयः॑ । आ॒दि॒त्यो यूपः॑ । यज॑मानᳶ प॒शुः । स॒मु॒द्रो॑ऽवभृ॒थः । सव्ँ॒व॒त्स॒रस्स्व॑गाका॒रः । तस्मा॒दाहि॑ताग्ने॒स्सर्व॑मे॒व ब॑र्हि॒ष्य॑न्द॒त्तम्भ॑वति । यत्सा॒यञ्जु॒होति॑ । रात्रि॑मे॒व तेन॑ दक्षि॒ण्या॑ङ्कुरुते । यत्प्रा॒तः ॥35॥
अह॑रे॒व तेन॑ दक्षि॒ण्य॑ङ्कुरुते । यत्ततो॒ ददा॑ति । सा दक्षि॑णा । याव॑न्तो॒ वै दे॒वा अहु॑त॒माद॑न् । ते परा॑ऽभवन् । त ए॒तद॑ग्निहो॒त्रँ सर्व॑स्यै॒व स॑मव॒दाया॑जुहवुः । तस्मा॑दाहुः । अ॒ग्नि॒हो॒त्रव्वैँ दे॒वा गृ॒हाणा॒न्निष्कृ॑तिमपश्य॒न्निति॑ । यत्सा॒यञ्जु॒होति॑ । रात्रि॑या ए॒व तद्धु॒ताद्या॑य ॥36॥
यज॑मान॒स्याप॑राभावाय । यत्प्रा॒तः । अह्न॑ ए॒व तद्धु॒ताद्या॑य । यज॑मान॒स्याप॑राभावाय । यत्ततो॒ऽश्ञाति॑ । हु॒तमे॒व तत् । द्वयो॒ᳶ पय॑सा जुहुयात्प॒शुका॑मस्य । ए॒तद्वा अ॑ग्निहो॒त्रम्मि॑थु॒नम् । य ए॒वव्वेँद॑ । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ॥37॥
इ॒मामे॒व पूर्व॑या दु॒हे । अ॒मूमुत्त॑रया । अ॒धि॒श्रित्योत्त॑र॒मान॑यति । योना॑वे॒व तद्रेत॑स्सिञ्चति प्र॒जन॑ने । आज्ये॑न जुहुया॒त्तेज॑स्कामस्य । तेजो॒ वा आज्य॑म् । ते॒ज॒स्व्ये॑व भ॑वति । पय॑सा प॒शुका॑मस्य । ए॒तद्वै प॑शू॒नाँ रू॒पम् । रू॒पेणै॒वास्मै॑ प॒शूनव॑रुन्धे ॥38॥
प॒शु॒माने॒व भ॑वति । द॒ध्नेन्द्रि॒यका॑मस्य । इ॒न्द्रि॒यव्वैँ दधि॑ । इ॒न्द्रि॒या॒व्ये॑व भ॑वति । य॒वा॒ग्वा॑ ग्राम॑कामस्यौष॒धा वै म॑नु॒ष्याः॑ । भा॒ग॒धेये॑नै॒वास्मै॑ सजा॒तानव॑रुन्धे । ग्रा॒म्ये॑व भ॑वति । अय॑ज्ञो॒ वा ए॒षः । यो॑ऽसा॒मा ॥ 39॥
च॒तुरुन्न॑यति । चतु॑रक्षरँ रथन्त॒रम् । र॒थ॒न्त॒रस्यै॒ष वर्णः॑ । उ॒परी॑व हरति । अ॒न्तरि॑क्षव्वाँमदे॒व्यम् । वा॒म॒दे॒व्यस्यै॒ष वर्णः॑ । द्विर्जु॑होति । द्व्य॑क्षरम्बृ॒हत् । बृ॒ह॒त ए॒ष वर्णः॑ । अ॒ग्नि॒हो॒त्रमे॒व तत्साम॑न्वत्करोति ॥ 40॥
यो वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॒ वेद॑ । उपै॑नमुप॒सदो॑ नमन्ति । वि॒न्दत॑ उपस॒त्तार॑म् । उ॒न्नीयोप॑सादयति । पृ॒थि॒वीमे॒व प्री॑णाति । हो॒ष्यन्नुप॑सादयति । अ॒न्तरि॑क्षमे॒व प्री॑णाति । हु॒त्वोप॑सादयति । दिव॑मे॒व प्री॑णाति । ए॒ता वा अ॑ग्निहो॒त्रस्यो॑प॒सदः॑ ॥41॥
य ए॒वव्वेँद॑ । उपै॑नमुप॒सदो॑ नमन्ति । वि॒न्दत॑ उपस॒त्तार॑म् । यो वा अ॑ग्निहो॒त्रस्याश्रा॑वितम्प्र॒त्याश्रा॑वितँ॒ होता॑रम्ब्र॒ह्माणव्ँ॑वषट्का॒रव्वेँद॑ । तस्य॒ त्वे॑व हु॒तम् । प्रा॒णो वा अ॑ग्निहो॒त्रस्याश्रा॑वितम् । अ॒पा॒नᳶ प्र॒त्याश्रा॑वितम् । मनो॒ होता॑ । चक्षु॑र्ब्र॒ह्मा । नि॒मे॒षो व॑षट्का॒रः ॥42॥
य ए॒वव्वेँद॑ । तस्य॒ त्वे॑व हु॒तम् । सा॒यय्ँ॒यावा॑नश्च॒ वै दे॒वाᳶ प्रा॑त॒र्यावा॑णश्चाग्निहो॒त्रिणो॑ गृ॒हमाग॑च्छन्ति । तान् यन्न त॒र्पये॑त् । प्र॒जया॑ऽस्य प॒शुभि॒र्विति॑ष्ठेरन् । यत्त॒र्पये॑त् । तृ॒प्ता ए॑नम्प्र॒जया॑ प॒शुभि॑स्तर्पयेयुः । स॒जूर्दे॒वैस्सा॒यय्याँव॑भि॒रिति॑ सा॒यँ सम्मृ॑शति । स॒जूर्दे॒वैᳶ प्रा॒तर्याव॑भि॒रिति॑ प्रा॒तः । ये चै॒व दे॒वास्सा॑यय्ँ॒यावा॑नो॒ ये च॑ प्रात॒र्यावा॑णः ॥43॥
ताने॒वोभयाँ॑ स्तर्पयति । त ए॑नन्तृ॒प्ताᳶ प्र॒जया॑ प॒शुभि॑स्तर्पयन्ति । अ॒रु॒णो ह॑ स्मा॒हौप॑वेशिः । अ॒ग्नि॒हो॒त्र ए॒वाहँ सा॒यम्प्रा॑त॒र्वज्र॒म्भ्रातृ॑व्येभ्य॒ᳶ प्रह॑रामि । तस्मा॒न्मत्पापी॑याँसो॒ भ्रातृ॑व्या॒ इति॑ । च॒तुरुन्न॑यति । द्विर्जु॑होति । स॒मित्स॑प्त॒मी । स॒प्तप॑दा॒ शक्व॑री । शा॒क्व॒रो वज्रः॑ । अ॒ग्नि॒हो॒त्र ए॒व तत्सा॒यम्प्रा॑त॒र्वज्रय्ँ॒यज॑मानो॒ भ्रातृ॑व्याय॒ प्रह॑रति । भव॑त्या॒त्मना॑ । परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ॥44॥
ब॒र्हिᳶ प्रा॒तऱ्हु॒ताद्या॑य जायते रुन्धेऽसा॒मा क॑रोत्ये॒ता वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॑ वषट्का॒रश्च॑ प्रात॒र्यावा॑णो॒ वज्र॒स्त्रीणि॑ च ॥ 5 ॥
प्र॒जाप॑तिरकामयतात्म॒न्वन्मे॑ जाये॒तेति॑ । सो॑ऽजुहोत् । तस्मा॑त्म॒न्वद॑जायत । अ॒ग्निर्वा॒युरा॑दि॒त्यः । ते॑ऽब्रुवन् । प्र॒जाप॑तिरहौषीदात्म॒न्वन्मे॑ जाये॒तेति॑ । तस्य॑ व॒यम॑जनिष्महि । जाय॑तान्न आत्म॒न्वदिति॒ ते॑ऽजुहवुः । प्रा॒णाना॑म॒ग्निः । त॒नुवै॑ वा॒युः ॥45 ॥
चक्षु॑ष आदि॒त्यः । तेषाँ॑ हु॒ताद॑जायत॒ गौरे॒व । तस्यै॒ पय॑सि॒ व्याय॑च्छन्त । मम॑ हु॒ताद॑जनि॒ ममेति॑ । ते प्र॒जाप॑तिम्प्र॒श्ञमा॑यन् । स आ॑दि॒त्यो॑ऽग्निम॑ब्रवीत् । य॒त॒रो नौ॒ जया॑त् । तन्नौ॑ स॒हास॒दिति॑ । कस्यै कोऽहौ॑षी॒दिति॑ प्र॒जाप॑तिरब्रवी॒त्कस्यै क॒ इति॑ । प्रा॒णाना॑म॒हमित्य॒ग्निः ॥ 46॥
त॒नुवा॑ अ॒हमिति॑ वा॒युः । चक्षु॑षो॒ऽहमित्या॑दि॒त्यः । य ए॒व प्रा॒णाना॒महौ॑षीत् । तस्य॑ हु॒ताद॑ज॒नीति॑ । अ॒ग्नेर्हु॒ताद॑ज॒नीति॑ । तद॑ग्निहो॒त्रस्या॑ग्निहोत्र॒त्वम् । गौर्वा अ॑ग्निहो॒त्रम् । य ए॒वव्वेँद॒ गौर॑ग्निहो॒त्रमिति॑ । प्रा॒णा॒पा॒नाभ्या॑मे॒वाग्निँ सम॑र्धयति । अव्य॑र्धुकᳶ प्राणापा॒नाभ्या॑म्भवति ॥47॥
य ए॒वव्वेँद॑ । तौ वा॒युर॑ब्रवीत् । अनु॒ मा भ॑जत॒मिति॑ । यदे॒व गार्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रवा॑न् । तेन॒ त्वाम्प्री॑णा॒नित्य॑ब्रूताम् । तस्मा॒द्यद्गार्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रव॑ति । वा॒युमे॒व तेन॑ प्रीणाति । प्र॒जाप॑तिर्दे॒वता॑स्सृ॒जमा॑नः । अ॒ग्निमे॒व दे॒वता॑नाम्प्रथ॒मम॑सृजत । सो॑ऽन्यदा॑ल॒म्भ्य॑मवि॑त्वा ॥48॥
प्र॒जाप॑तिम॒भिप॒र्याव॑र्तत । स मृ॒त्योर॑बिभेत् । सो॑ऽमुमा॑दि॒त्यमा॒त्मनो॒ निर॑मिमीत । तँ हु॒त्वा परा॑ङ्प॒र्याव॑र्तत । ततो॒ वै स मृ॒त्युमपा॑जयत् । अप॑ मृ॒त्युञ्ज॑यति । य ए॒वव्वेँद॑ । तस्मा॒द्यस्यै॒वव्विँ॒दुषः॑ । उ॒तैका॒हमु॒त द्व्य॒हन्न जुह्व॑ति । हु॒तमे॒वास्य॑ भवति । अ॒सौ ह्या॑दि॒त्यो॑ऽग्निहो॒त्रम् ॥49 ॥
त॒नुवै॑ वा॒युर॒ग्निर्भ॑व॒त्यवि॑त्वा भव॒त्येक॑ञ्च ॥ 6 ॥
रौ॒द्रङ्गवि॑ । वा॒य॒व्य॑मुप॑सृष्टम् । आ॒श्वि॒नन्दु॒ह्यमा॑नम् । सौ॒म्यन्दु॒ग्धम् । वा॒रु॒णमधि॑श्रितम् । वै॒श्व॒दे॒वा भि॒न्दवः॑ । पौ॒ष्णमुद॑न्तम् । सा॒र॒स्व॒तव्विँ॒ष्यन्द॑मानम् । मै॒त्रँ शरः॑ । धा॒तुरुद्वा॑सितम् । बृह॒स्पते॒रुन्नी॑तम् । स॒वि॒तुᳶ प्रक्रा॑न्तम् । द्या॒वा॒पृ॒थि॒व्य॑ ह्रि॒यमा॑णम् । ऐ॒न्द्रा॒ग्नमुप॑सन्नम् । अ॒ग्नेᳶ पूर्वाऽऽहु॑तिः । प्र॒जाप॑ते॒रुत्त॑रा । ऐ॒न्द्रँ हु॒तम् ॥50॥
उद्वा॑सितँ स॒प्त च॑ ॥ 7 ॥
द॒क्षि॒ण॒त उप॑सृजति । पि॒तृ॒लो॒कमे॒व तेन॑ जयति । प्राची॒माव॑र्तयति । दे॒व॒लो॒कमे॒व तेन॑ जयति । उदी॑चीमा॒वृत्य॑ दोग्धि । म॒नु॒ष्य॒लो॒कमे॒व तेन॑ जयति । पूर्वौ॑ दुह्याज्ज्ये॒ष्ठस्य॑ ज्यैष्ठिने॒यस्य॑ । यो वा॑ ग॒तश्री॒स्स्यात् । अप॑रौ दुह्यात्कनि॒ष्ठस्य॑ कानिष्ठिने॒यस्य॑ । यो वा॒ बुभू॑षेत् ॥51॥
न सम्मृ॑शति । पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै । वा॒य॒व्यव्ँ॑वा ए॒तदुप॑सृष्टम् । आ॒श्वि॒नन्दु॒ह्यमा॑नम् । मै॒त्रन्दु॒ग्धम् । अ॒र्य॒म्ण उ॑द्वा॒स्यमा॑नम् । त्वा॒ष्ट्रमु॑न्नी॒यमा॑नम् । बृह॒स्पते॒रुन्नी॑तम् । स॒वि॒तुᳶ प्रक्रा॑न्तम् । द्या॒वा॒पृ॒थि॒व्य॑ ह्रि॒यमा॑णम् ॥52॥
ऐ॒न्द्रा॒ग्नमुप॑सादितम् । सर्वा॑भ्यो॒ वा ए॒ष दे॒वता॑भ्यो जुहोति । यो॑ऽग्निहो॒त्रञ्जु॒होति॑ । यथा॒ खलु॒ वै धे॒नुन्ती॒र्थे त॒र्पय॑ति । ए॒वम॑ग्निहो॒त्री यज॑मानन्तर्पयति । तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । प्र सु॑व॒र्गल्लोँ॒कञ्जा॑नाति । पश्य॑ति पु॒त्रम् । पश्य॑ति॒ पौत्त्र॑म् । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते । यस्यै॒वव्विँ॒दुषो॑ऽग्निहो॒त्रञ्जुह्व॑ति । य उ॑ चैनदे॒वव्वेँद॑ ॥53॥
बुभू॑षेद्ध्रि॒यमा॑णञ्जायते॒ द्वे च॑ ॥ 8 ॥
त्रयो॒ वै प्रै॑यमे॒धा आ॑सन् । तेषा॒न्त्रिरेको॑ऽग्निहो॒त्रम॑जुहोत् । द्विरेकः॑ । स॒कृदेकः॑ । तेषाय्ँ॒यस्त्रिरजु॑होत् । स ऋ॒चाऽजु॑होत् । यो द्विः । स यजु॑षा । यस्स॒कृत् । स तू॒ष्णीम् ॥54॥
यश्च॒ यजु॒षाऽजु॑हो॒द्यश्च॑ तू॒ष्णीम् । तावु॒भावा॑र्ध्नुताम् । तस्मा॒द्यजु॒षाऽऽहु॑ति॒ᳶ पूर्वा॑ होत॒व्या॑ । तू॒ष्णीमुत्त॑रा । उ॒भे ए॒वर्धी अव॑रुन्धे । अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निस्स्वाहेति॑ सा॒यञ्जु॑होति । रेत॑ ए॒व तद्द॑धाति । सूर्यो॒ ज्योति॒र्ज्योति॒स्सूर्य॒स्स्वाहेति॑ प्रा॒तः । रेत॑ ए॒व हि॒तम्प्र ज॑नयति । रेतो॒ वा ए॒तस्य॑ हि॒तन्न प्रजा॑यते ॥55॥
यस्या॑ग्निहो॒त्रमहु॑तँ॒ सूर्यो॒ऽभ्यु॑देति॑ । यद्यन्ते॒ स्यात् । उ॒न्नीय॒ प्राङु॒दाद्र॑वेत् । स उ॑प॒साद्यातमि॑तोरासीत । स य॒दा ताम्ये॑त् । अथ॒ भूस्स्वाहेति॑ जुहुयात् । प्र॒जाप॑ति॒र्वै भू॒तः । तमे॒वोपा॑सरत् । स ए॒वैन॒न्तत॒ उन्न॑यति । नार्ति॒मार्च्छ॑ति॒ यज॑मानः ॥56॥
तू॒ष्णीञ्जा॑यते॒ यज॑मानः ॥ 9 ॥
यद॒ग्निमु॒द्धर॑ति । वस॑व॒स्तर्ह्य॒ग्निः । तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति । वसु॑ष्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति । निहि॑तो धूपा॒यञ्छे॑ते । रु॒द्रास्तर्ह्य॒ग्निः । तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति । रु॒द्रेष्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति । प्र॒थ॒ममि॒ध्मम॒र्चिरा ल॑भते । आ॒दि॒त्यास्तर्ह्य॒ग्निः ॥57॥
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति । आ॒दि॒त्येष्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति । सर्व॑ ए॒व स॑र्व॒श इ॒ध्म आदी॑प्तो भवति । विश्वे॑ दे॒वास्तर्ह्य॒ग्निः । तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति । विश्वे॑ष्वे॒वास्य॑ दे॒वेष्व॑ग्निहो॒त्रँ हु॒तम्भ॑वति । नि॒त॒राम॒र्चिरु॒पावै॑ति लोहि॒नीके॑व भवति । इन्द्र॒स्तर्ह्य॒ग्निः । तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति । इन्द्र॑ ए॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ॥58 ॥
अङ्गा॑रा भवन्ति । तेभ्योऽङ्गा॑रेभ्यो॒ऽर्चिरुदे॑ति । प्र॒जाप॑ति॒स्तर्ह्य॒ग्निः । तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति । प्र॒जाप॑तावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति । शरोऽङ्गा॑रा॒ अध्यू॑हन्ते । ब्रह्म॒ तर्ह्य॒ग्निः । तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति । ब्रह्म॑न्ने॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति । वसु॑षु रु॒द्रेष्वा॑दि॒त्येषु॒ विश्वे॑षु दे॒वेषु॑ । इन्द्रे॑ प्र॒जाप॑तौ॒ ब्रह्म॑न् । अप॑रिवर्गमे॒वास्यै॒तासु॑ दे॒वता॑सु हु॒तम्भ॑वति । यस्यै॒वव्विँ॒दुषो॑ऽग्निहो॒त्रञ्जुह्व॑ति । य उ॑ चैनदे॒वव्वेँद॑ ॥59॥
आ॒दि॒त्यास्तर्ह्य॒ग्निरिन्द्र॑ ए॒वास्या॑ग्निहो॒त्रँ हु॒तं भ॑वति दे॒वेषु॑ च॒त्वारि॑ च ॥ 10 ॥ (यद॒ग्निन्निहि॑तᳶ प्रथ॒मँ सर्व॑ ए॒व नि॑त॒रामङ्गा॑रा॒श्शरोऽङ्गा॑रा॒ ब्रह्म॒ वसु॑ष्व॒ष्टौ ॥ )
ऋ॒तन्त्वा॑ स॒त्येन॒ परि॑षिञ्चा॒मीति॑ सा॒यम्परि॑षिञ्चति । स॒त्यन्त्व॒र्तेन॒ परि॑षिञ्चा॒मीति॑ प्रा॒तः । अ॒ग्निर्वा ऋ॒तम् । अ॒सावा॑दि॒त्यस्स॒त्यम् । अ॒ग्निमे॒व तदा॑दि॒त्येन॑ सा॒यम्परि॑षिञ्चति । अ॒ग्निना॑ऽऽदि॒त्यम्प्रा॒तस्सः । याव॑दहोरा॒त्रे भव॑तः । ताव॑दस्य लो॒कस्य॑ । नार्ति॒र्न रिष्टिः॑ । नान्तो॒ न प॑र्य॒न्तो॑ऽस्ति । यस्यै॒वव्विँ॒दुषो॑ऽग्निहो॒त्रञ्जुह्व॑ति । य उ॑चैनदे॒वव्वेँद॑ ॥60॥
अ॒स्ति॒ द्वे च॑ ॥ 11 ॥
अङ्गि॑रसᳶ प्र॒जाप॑तिर॒ग्निँ रु॒द्र उ॑त्त॒राव॑तीं ब्रह्मवा॒दिनो॑ऽग्निहो॒त्रप्रा॑यणा य॒ज्ञाᳶ प्र॒जाप॑तिरकामयतात्म॒न्वद्रौ॒द्रङ्गवि॑ दक्षिण॒तस्त्रयो॒ वै यद॒ग्निमृ॒तन्त्वा॑ स॒त्येनैका॑दश ॥ 11 ॥ अङ्गि॑रस॒ᳶ प्रैव तेन॑ प॒शूने॒व यन्नि॒मार्ष्टि॒ यो वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॑ दक्षिण॒तष्ष॒ष्टिः ॥ 60 ॥ अङ्गि॑रसो॒ य उ॑चैनदे॒वव्ँवेद॑ ॥ हरिः॑ ओम् ॥ श्रीकृष्णार्पणमस्तु ॥ । कृष्णयजुर्ब्राह्मणे द्वितीयाष्टके प्रथमप्रपाठकस्समाप्तः ॥