वरु॑णस्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्वीँ॒र्य॑म्परा॑ऽपतत् । तत्सँ॒सृद्भि॒रनु॒ सम॑सर्पत् । तत्सँ॒सृपाँ॑ सँसृ॒त्त्वम् । अ॒ग्निना॑ दे॒वेन॑ प्रथ॒मेऽह॒न्ननु॒ प्रायु॑ङ्क्त । सर॑स्वत्या वा॒चा द्वि॒तीये॑ । स॒वि॒त्रा प्र॑स॒वेन॑ तृ॒तीये॑ । पू॒ष्णा प॒शुभि॑श्चतु॒र्थे । बृह॒स्पति॑ना॒ ब्रह्म॑णा पञ्च॒मे । इन्द्रे॑ण दे॒वेन॑ ष॒ष्ठे । वरु॑णेन॒ स्वया॑ दे॒वत॑या सप्त॒मे ॥1॥
सोमे॑न॒ राज्ञा॑ऽष्ट॒मे । त्वष्ट्रा॑ रू॒पेण॑ नव॒मे । विष्णु॑ना य॒ज्ञेना॑प्नोत् । यत्सँ॒सृपो॒ भव॑न्ति । इ॒न्द्रि॒यमे॒व तद्वी॒र्यय्ँ॑यज॑मान आप्नोति । पूर्वा॑पूर्वा॒ वेदि॑र्भवति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै । पु॒रस्ता॑दुप॒सदाँ॑ सौ॒म्येन॒ प्रच॑रति । सोमो॒ वै रे॑तो॒धाः । रेत॑ ए॒व तद्द॑धाति । अ॒न्त॒रा त्वा॒ष्ट्रेण॑ । रेत॑ ए॒व हि॒तन्त्वष्टा॑ रू॒पाणि॒ विक॑रोति । उ॒परि॑ष्टाद्वैष्ण॒वेन॑ । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञ ए॒वान्त॒तᳶ प्रति॑ तिष्ठति ॥2॥
स॒प्त॒मे द॑धाति॒ पञ्च॑ च ॥ 1 ॥
जा॒मि वा ए॒तत्कु॑र्वन्ति । यत्स॒द्यो दी॒क्षय॑न्ति स॒द्यस्सोम॑ङ्क्री॒णन्ति॑ । पु॒ण्ड॒रि॒स्र॒जाम्प्रय॑च्छ॒त्यजा॑मित्वाय । अङ्गि॑रसस्सुव॒र्गल्लोँ॒कय्यँन्तः॑ । अ॒प्सु दी॑क्षात॒पसी॒ प्रावे॑शयन् । तत्पु॒ण्डरी॑कमभवत् । यत्पु॑ण्डरिस्र॒जाम्प्र॒यच्छ॑ति । सा॒क्षादे॒व दी॑क्षात॒पसी॒ अव॑रुन्धे । द॒शभि॑र्वत्सत॒रैस्सोम॑ङ्क्रीणाति । दशा॑क्षरा वि॒राट् ॥3॥
अन्नव्ँ॑वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । मु॒ष्क॒रा भ॑वन्ति सेन्द्र॒त्वाय॑ । द॒श॒पेयो॑ भवति । अ॒न्नाद्य॒स्याव॑रुद्ध्यै । श॒तम्ब्रा॑ह्म॒णाᳶ पि॑बन्ति । श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । स॒प्त॒द॒श स्तो॒त्रम्भ॑वति । स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ॥4॥
प्र॒जाप॑ते॒राप्त्यै॑ । प्रा॒का॒शाव॑ध्व॒र्यवे॑ ददाति । प्र॒का॒शमे॒वैन॑ङ्गमयति । स्रज॑मुद्गा॒त्रे । व्ये॑वास्मै॑ वासयति । रु॒क्मँ होत्रे॑ । आ॒दि॒त्यमे॒वास्मा॒ उन्न॑यति । अश्व॑म्प्रस्तोतृप्रतिह॒र्तृभ्या॑म् । प्रा॒जा॒प॒त्यो वा अश्वः॑ । प्र॒जाप॑ते॒राप्त्यै॑ ॥5॥
द्वाद॑श पष्ठौ॒हीर्ब्र॒ह्मणे॑ । आयु॑रे॒वाव॑रुन्धे । व॒शाम्मै॑त्रावरु॒णाय॑ । रा॒ष्ट्रमे॒व व॒श्य॑कः । ऋ॒ष॒भम्ब्रा॑ह्मणाच्छँ॒सिने॑ । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः । वास॑सी नेष्टापो॒तृभ्या॑म् । प॒वित्रे॑ ए॒वास्यै॒ते । स्थूरि॑ यवाचि॒तम॑च्छावा॒काय॑ । अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते ॥6॥
अ॒न॒ड्वाह॑म॒ग्नीधे॑ । वह्नि॒र्वा अ॑न॒ड्वान् । वह्नि॑र॒ग्नीत् । वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे । इन्द्र॑स्य सुषुवा॒णस्य॑ त्रे॒धेन्द्रि॒यव्वीँ॒र्य॑म्परा॑ऽपतत् । भृगु॒स्तृती॑यमभवत् । श्रा॒य॒न्तीय॒न्तृती॑यम् । सर॑स्वती॒ तृती॑यम् । भा॒र्ग॒वो होता॑ भवति । श्रा॒य॒न्तीय॑म्ब्रह्मसा॒मम्भ॑वति । वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम् । सा॒र॒स्व॒तीर॒पो गृ॑ह्णाति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै । श्रा॒य॒न्तीय॑म्ब्रह्मसा॒मम्भ॑वति । इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्य॑ श्रयति । वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम् । इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्यव्ँ॑वारयति ॥7॥
वि॒राट्प्र॒जाप॑ति॒रश्व॑ᳶ प्र॒जाप॑ते॒राप्त्यै॑ यजते ब्रह्मसा॒मं भ॑वति स॒प्त च॑ ॥ 2 ॥
ई॒श्व॒रो वा ए॒ष दिशोऽनून्म॑दितोः । यन्दिशोऽनु॑ व्यास्था॒पय॑न्ति । दि॒शामवे॑ष्टयो भवन्ति । दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒त्यनु॑न्मादाय । पञ्च॑ दे॒वता॑ यजति । पञ्च॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑ तिष्ठति । ह॒विषो॑हविष इ॒ष्ट्वा बा॑र्हस्प॒त्यम॒भिघा॑रयति । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै बृह॒स्पतिः॑ । यज॑मानमे॒व तेज॑सा॒ सम॑र्धयति ॥8॥
आ॒दि॒त्याम्म॒ल्हाङ्ग॒र्भिणी॒मा ल॑भते । मा॒रु॒तीम्पृश्ञि॑म्पष्ठौ॒हीम् । विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति । आ॒दि॒त्यया॒ पूर्व॑या॒ प्रच॑रति । मा॒रु॒त्योत्त॑रया । रा॒ष्ट्र ए॒व विश॒मनु॑बध्नाति । उ॒च्चैरा॑दि॒त्याया॒ आश्रा॑वयति । उ॒पाँ॒शु मा॑रु॒त्यै । तस्मा॑द्रा॒ष्ट्रव्विँश॒मति॑वदति । ग॒र्भिण्या॑दि॒त्या भ॑वति ॥9॥
इ॒न्द्रि॒यव्वैँ गर्भः॑ । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः । अ॒ग॒र्भा मा॑रु॒ती । विड्वै म॒रुतः॑ । विश॑मे॒व निरि॑न्द्रियामकः । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन् । ते दे॒वा अ॒श्विनो॑ᳶ पू॒षन्वा॒चस्स॒त्यँ स॑न्नि॒धाय॑ । अनृ॑ते॒नासु॑रान॒भ्य॑भवन् । ते॑ऽश्विभ्या॑म्पू॒ष्णे पु॑रो॒डाश॒न्द्वाद॑शकपाल॒न्निर॑वपन् । ततो॒ वै ते वा॒चस्स॒त्यमवा॑रुन्धत ॥10॥
यद॒श्विभ्या॑म्पू॒ष्णे पु॑रो॒डाश॒न्द्वाद॑शकपालन्नि॒र्वप॑ति । अनृ॑तेनै॒व भ्रातृ॑व्यानभि॒भूय॑ । वा॒चस्स॒त्यमव॑रुन्धे । सर॑स्वते सत्य॒वाचे॑ च॒रुम् । पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भिगृ॑णाति । स॒वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाश॒न्द्वाद॑शकपाल॒म्प्रसू॑त्यै । दू॒तान्प्रहि॑णोति । आ॒विद॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैन॑ङ्गमयन्ति । अथो॑ दू॒तेभ्य॑ ए॒व न छि॑द्यते । ति॒सृ॒ध॒न्वँ शु॑ष्कदृ॒तिर्दक्षि॑णा॒ समृ॑द्ध्यै ॥11॥
अ॒र्ध॒य॒ति॒ भ॒व॒त्य॒रु॒न्ध॒त॒ ग॒म॒य॒न्ति॒ द्वे च॑ ॥ 3 ॥
आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति । तस्मा॒च्छिशि॑रे कुरुपञ्चा॒लाᳶ प्राञ्चो॑ यान्ति । सौ॒म्यञ्च॒रुम् । तस्मा॑द्वस॒न्तव्व्यँ॑व॒साया॑दयन्ति । सा॒वि॒त्रन्द्वाद॑शकपालम् । तस्मा॑त्पु॒रस्ता॒द्यवा॑नाँ सवि॒त्रा विरु॑न्धते । बा॒र्ह॒स्प॒त्यञ्च॒रुम् । स॒वि॒त्रैव वि॒रुध्य॑ । ब्रह्म॑णा॒ यवा॒नाद॑धते । त्वा॒ष्ट्रम॒ष्टाक॑पालम् ॥12॥
रू॒पाण्ये॒व तेन॑ कुर्वते । वै॒श्वा॒न॒रन्द्वाद॑शकपालम् । तस्मा॑ज्जघ॒न्ये॑ नैदा॑घे प्र॒त्यञ्च॑ᳶ कुरुपञ्चा॒ला या॑न्ति । सा॒र॒स्व॒तञ्च॒रुन्निर्व॑पति । तस्मा॑त्प्रा॒वृषि॒ सर्वा॒ वाचो॑ वदन्ति । पौ॒ष्णेन॒ व्यव॑स्यन्ति । मै॒त्रेण॑ कृषन्ते । वा॒रु॒णेन॒ विधृ॑ता आसते । क्षै॒त्र॒प॒त्येन॑ पाचयन्ते । आ॒दि॒त्येनाद॑धते ॥13॥
मा॒सिमा॑स्ये॒तानि॑ ह॒वीँषि॑ नि॒रुप्या॒णीत्या॑हुः । तेनै॒वर्तून्प्रयु॑ङ्क्त॒ इति॑ । अथो॒ खल्वा॑हुः । कस्सव्ँ॑वत्स॒रञ्जी॑विष्य॒तीति॑ । षडे॒व पू॑र्वे॒द्युर्नि॒रुप्या॑णि । षडु॑त्तरे॒द्युः । तेनै॒वर्तून्प्रयु॑ङ्क्ते । दक्षि॑णो रथवाहनवा॒हᳶ पूर्वे॑षा॒न्दक्षि॑णा । उत्त॑र॒ उत्त॑रेषाम् । सव्ँ॒व॒त्स॒रस्यै॒वान्तौ॑ युनक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥14॥
त्वा॒ष्ट्रम॒ष्टाक॑पालन्दधते युन॒क्त्येक॑ञ्च ॥ 4 ॥
इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्वीँ॒र्य॑म्परा॑ऽपतत् । स यत्प्र॑थ॒मन्नि॒रष्ठी॑वत् । तत्क्व॑लमभवत् । यद्द्वि॒तीय॑म् । तद्बद॑रम् । यत्तृ॒तीय॑म् । तत्क॒र्कन्धु॑ । यन्न॒स्तः । स सिँ॒हः । यदक्ष्योः॑ ॥15॥
स शा॑र्दू॒लः । यत्कर्ण॑योः । स वृकः॑ । य ऊ॒र्ध्वः । स सोमः॑ । याऽवा॑ची । सा सुरा॑ । त्र॒यास्सक्त॑वो भवन्ति । इ॒न्द्रि॒यस्याव॑रुद्ध्यै । त्र॒याणि॒ लोमा॑नि ॥16॥
त्विषि॑मे॒वाव॑रुन्धे । त्रयो॒ ग्रहाः॑ । वी॒र्य॑मे॒वाव॑रुन्धे । नाम्ना॑ दश॒मी । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । प्रा॒णा इ॑न्द्रि॒यव्वीँ॒र्य॑म् । प्रा॒णाने॒वेन्द्रि॒यव्वीँ॒र्यय्ँ॑यज॑मान आ॒त्मन्ध॑त्ते । सीसे॑न क्ली॒बाच्छष्पा॑णि क्रीणाति । न वा ए॒तदयो॒ न हिर॑ण्यम् ॥17॥
यत्सीस॑म् । न स्त्री न पुमा॑न् । यत्क्ली॒बः । न सोमो॒ न सुरा॑ । यत्सौ॑त्राम॒णी समृ॑द्ध्यै । स्वा॒द्वीन्त्वा॑ स्वा॒दुनेत्या॑ह । सोम॑मे॒वैना॑ङ्करोति । सोमो॑ऽस्य॒श्विभ्या॑म्पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्य॒स्वेत्या॑ह । ए॒ताभ्यो॒ ह्ये॑षा दे॒वता॑भ्य॒ᳶ पच्य॑ते । ति॒स्रस्सँसृ॑ष्टा वसति ॥18॥
ति॒स्रो हि रात्री॑ᳶ क्री॒तस्सोमो॒ वस॑ति । पु॒नातु॑ ते परि॒स्रुत॒मिति॒ यजु॑षा पुनाति॒ व्यावृ॑त्त्यै । प॒वित्रे॑ण पुनाति । प॒वित्रे॑ण॒ हि सोम॑म्पु॒नन्ति॑ । वारे॑ण॒ शश्व॑ता॒ तनेत्या॑ह । वारे॑ण॒ हि सोम॑म्पु॒नन्ति॑ । वा॒युᳶ पू॒तᳶ प॒वित्रे॒णेति॒ नैतया॑ पुनीयात् । व्यृ॑द्धा॒ ह्ये॑षा । अ॒ति॒प॒वि॒तस्यै॒तया॑ पुनीयात् । कु॒विद॒ङ्गेत्यनि॑रुक्तया प्राजाप॒त्यया॑ गृह्णाति ॥19॥
अनि॑रुक्तᳶ प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै॑ । एक॑य॒र्चा गृ॑ह्णाति । ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति । आ॒श्वि॒नन्धू॒म्रमाल॑भते । अ॒श्विनौ॒ वै दे॒वाना॑म्भि॒षजौ॑ । ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति । सा॒र॒स्व॒तम्मे॒षम् । वाग्वै सर॑स्वती । वा॒चैवैन॑म्भिषज्यति । ऐ॒न्द्रमृ॑ष॒भँ से॑न्द्र॒त्वाय॑ ॥20॥
अक्ष्यो॒र्लोमा॑नि॒ हिर॑ण्यव्वँसति गृह्णाति भिषज्य॒त्येक॑ञ्च ॥ 5 ॥
यत्त्रि॒षु यूपे॑ष्वा॒लभे॑त । ब॒हि॒र्धाऽस्मा॑दिन्द्रि॒यव्वीँ॒र्य॑न्दध्यात् । भ्रातृ॑व्यमस्मै जनयेत् । ए॒क॒यू॒प आल॑भते । ए॒क॒धैवास्मि॑न्निन्द्रि॒यव्वीँ॒र्य॑न्दधाति । नास्मै॒ भ्रातृ॑व्यञ्जनयति । नैतेषा॑म्पशू॒नाम्पु॑रो॒डाशा॑ भवन्ति । ग्रह॑पुरोडाशा॒ ह्ये॑ते । यु॒वँ सु॒राम॑मश्वि॒नेति॑ सर्वदेव॒त्ये॑ याज्यानुवा॒क्ये॑ भवतः । सर्वा॑ ए॒व दे॒वता॑ᳶ प्रीणाति ॥21॥
ब्रा॒ह्म॒णम्परि॑क्रीणीयादु॒च्छेष॑णस्य पा॒तार॑म् । ब्रा॒ह्म॒णो ह्याहु॑त्या उ॒च्छेष॑णस्य पा॒ता । यदि॑ ब्राह्म॒णन्न वि॒न्देत् । व॒ल्मी॒क॒व॒पाया॒मव॑नयेत् । सैव तत॒ᳶ प्राय॑श्चित्तिः । यद्वै सौ॑त्राम॒ण्यै व्यृ॑द्धम् । तद॑स्यै॒ समृ॑द्धम् । ना॒ना॒दे॒व॒त्या॑ᳶ प॒शव॑श्च पुरो॒डाशा॑श्च भवन्ति॒ समृ॑द्ध्यै । ऐ॒न्द्रᳶ प॑शू॒नामु॑त्त॒मो भ॑वति । ऐ॒न्द्रᳶ पु॑रो॒डाशा॑नाम्प्रथ॒मः ॥22॥
इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति । पु॒रस्ता॑दनूया॒जाना॑म्पुरो॒डाशै॒ᳶ प्रच॑रति । प॒शवो॒ वै पु॑रो॒डाशाः॑ । प॒शूने॒वाव॑रुन्धे । ऐ॒न्द्रमेका॑दशकपाल॒न्निर्व॑पति । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । सा॒वि॒त्रन्द्वाद॑शकपाल॒म्प्रसू॑त्यै । वा॒रु॒णन्दश॑कपालम् । अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते । वड॑बा॒ दक्षि॑णा ॥23॥
उ॒त वा ए॒षाऽश्वँ॑ सू॒ते । उ॒ताऽश्व॑त॒रम् । उ॒त सोम॑ उ॒त सुरा॑ । यत्सौ॑त्राम॒णी समृ॑द्ध्यै । बा॒र्ह॒स्प॒त्यम्प॒शुञ्च॑तु॒र्थम॑तिपवि॒तस्याल॑भते । ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पतिः॑ । ब्रह्म॑णै॒व य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑वपति । पु॒रो॒डाश॑वाने॒ष प॒शुर्भ॑वति । न ह्ये॑तस्य॒ ग्रह॑ङ्गृ॒ह्णन्ति॑ । सोम॑प्रतीकाᳶ पितरस्तृप्णु॒तेति॑ शतातृ॒ण्णायाँ॑ स॒मव॑नयति ॥24॥
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । दक्षि॑णे॒ऽग्नौ जु॑होति । पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै । हिर॑ण्यमन्त॒रा धा॑रयति । पू॒तामे॒वैना॑ञ्जुहोति । श॒तमा॑नम्भवति । श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । यत्रै॒व श॑तातृ॒ण्णान्धा॒रय॑ति ॥25॥
तन्निद॑धाति॒ प्रति॑ष्ठित्यै । पि॒तॄन् वा ए॒तस्ये॑न्द्रि॒यव्वीँ॒र्य॑ङ्गच्छति । यँ सोमो॑ऽति॒पव॑ते । पि॒तृ॒णाय्याँ॑ज्यानुवा॒क्या॑भि॒रुप॑तिष्ठते । यदे॒वास्य॑ पि॒तॄनि॑न्द्रि॒यव्वीँ॒र्य॑ङ्गच्छ॑ति । तदे॒वाव॑रुन्धे । ति॒सृभि॒रुप॑तिष्ठते । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति । अथो॒ त्रीणि॒ वै य॒ज्ञस्ये॑न्द्रि॒याणि॑ । अ॒ध्व॒र्युर् होता॑ ब्र॒ह्मा । त उप॑तिष्ठन्ते । यान्ये॒व य॒ज्ञस्ये॑न्द्रि॒याणि॑ । तैरे॒वास्मै॑ भेष॒जङ्क॑रोति ॥26॥
प्री॒णा॒ति॒ प्र॒थ॒मो दक्षि॑णा स॒मव॑नयति धा॒रय॑तीन्द्रि॒याणि॑ च॒त्वारि॑ च ॥ 6 ॥
अ॒ग्नि॒ष्टो॒ममग्र॒ आह॑रति । य॒ज्ञ॒मु॒खव्वाँ अ॑ग्निष्टो॒मः । य॒ज्ञ॒मु॒खमे॒वारभ्य॑ स॒वमाक्र॑मते । अथै॒षो॑ऽभिषेच॒नीय॑श्चतुस्त्रिँ॒शप॑वमानो भवति । त्रय॑स्त्रिँश॒द्वै दे॒वताः॑ । ता ए॒वाप्नो॑ति । प्र॒जाप॑तिश्चतुस्त्रिँ॒शः । तमे॒वाप्नो॑ति । सँ॒श॒र ए॒ष स्तोमा॑ना॒मय॑थापूर्वम् । यद्विष॑मा॒स्स्तोमाः॑ ॥27॥
ए॒तावा॒न् वै य॒ज्ञः । यावा॒न्पव॑मानाः । अ॒न्त॒श्श्लेष॑ण॒न्त्वा अ॒न्यत् । यत्स॒माᳶ पव॑मानाः । तेनाऽसँ॑शरः । तेन॑ यथापू॒र्वम् । आ॒त्मनै॒वाग्नि॑ष्टो॒मेन॒र्ध्नोति॑ । आ॒त्मना॒ पुण्यो॑ भवति । प्र॒जा वा उ॒क्थानि॑ । प॒शव॑ उ॒क्थानि॑ । यदु॒क्थ्यो॑ भव॒त्यनु॒ सन्त॑त्त्यै ॥28॥
स्तोमा॑ᳶ प॒शव॑ उ॒क्थान्येक॑ञ्च ॥ 7 ॥
उप॑ त्वा जा॒मयो॒ गिर॒ इति॑ प्रति॒पद्भ॑वति । वाग्वै वा॒युः । वा॒च ए॒वैषो॑ऽभिषे॒कः । सर्वा॑सामे॒व प्र॒जानाँ॑ सूयते । सर्वा॑ एनम्प्र॒जा राजेति॑ वदन्ति । ए॒तमु॒ त्यन्दश॒ क्षिप॒ इत्या॑ह । आ॒दि॒त्या वै प्र॒जाः । प्र॒जाना॑मे॒वैतेन॑ सूयते । यन्ति॒ वा ए॒ते य॑ज्ञमु॒खात् । ये स॑म्भा॒र्या॑ अक्र॑न् ॥29॥
यदाह॒ पव॑स्व वा॒चो अ॑ग्रिय॒ इति॑ । तेनै॒व य॑ज्ञमु॒खान्नय॑न्ति । अ॒नु॒ष्टुक्प्र॑थ॒मा भ॑वति । अ॒नु॒ष्टुगु॑त्त॒मा । वाग्वा अ॑नु॒ष्टुक् । वा॒चैव प्र॒यन्ति॑ । वा॒चोद्य॑न्ति । उद्व॑तीर्भवन्ति । उद्व॒द्वा अ॑नु॒ष्टुभो॑ रू॒पम् । आनु॑ष्टुभो राज॒न्यः॑ ॥30॥
तस्मा॒दुद्व॑तीर्भवन्ति । सौ॒र्य॑नु॒ष्टुगु॑त्त॒मा भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै । यो वै स॒वादेति॑ । नैनँ॑ स॒व उप॑नमति । यस्साम॑भ्य॒ एति॑ । पापी॑यान्त्सुषुवा॒णो भ॑वति । ए॒तानि॒ खलु॒ वै सामा॑नि । यत्पृ॒ष्ठानि॑ । यत्पृ॒ष्ठानि॒ भव॑न्ति ॥31॥
तैरे॒व स॒वान्नैति॑ । यानि॑ देवरा॒जानाँ॒ सामा॑नि । तैर॒मुष्मिल्ँ॑ लो॒क ऋ॑ध्नोति । यानि॑ मनुष्यरा॒जानाँ॒ सामा॑नि । तैर॒स्मिल्लोँ॒क ऋ॑ध्नोति । उ॒भयो॑रे॒व लो॒कयो॑र् ऋध्नोति । दे॒व॒लो॒के च॑ मनुष्यलो॒के च॑ । ए॒क॒विँ॒शो॑ऽभिषेच॒नीय॑स्योत्त॒मो भ॑वति । ए॒क॒विँ॒शᳶ के॑शवप॒नीय॑स्य प्रथ॒मः । स॒प्त॒द॒शो द॑श॒पेयः॑ ॥32॥
विड्वा ए॑कविँ॒शः । रा॒ष्ट्रँ स॑प्तद॒शः । विश॑ ए॒वैतन्म॑ध्य॒तो॑ऽभिषि॑च्यते । तस्मा॒द्वा ए॒ष वि॒शाम्प्रि॒यः । वि॒शो हि म॑ध्य॒तो॑ऽभिषि॒च्यते॑ । यद्वा ए॑नम॒दो दिशोऽनु॑व्यास्था॒पय॑न्ति । तत्सु॑व॒र्गल्लो॒कम॒भ्यारो॑हति । यदि॒मल्लोँ॒कन्न प्र॑त्यव॒रोहे॑त् । अ॒ति॒ज॒नव्वेँ॒यात् । उद्वा॑ माद्येत् । यदे॒ष प्र॑ती॒चीन॑स्स्तोमो॒ भव॑ति । इ॒ममे॒व तेन॑ लो॒कम्प्र॒त्यव॑रोहति । अथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठ॒त्यनु॑न्मादाय ॥33॥
अक्र॑न्राज॒न्यो॑ भव॑न्ति दश॒पेयो॑ माद्ये॒त्त्रीणि॑ च ॥ 8 ॥
इ॒यव्वैँ॒ र॑ज॒ता । अ॒सौ हरि॑णी । यद्रु॒क्मौ भव॑तः । आ॒भ्यामे॒वैन॑मुभ॒यत॒ᳶ परि॑ गृह्णाति । वरु॑णस्य॒ वा अ॑भिषि॒च्यमा॑न॒स्यापः॑ । इ॒न्द्रि॒यव्वीँ॒र्य॑न्निर॑घ्नन् । तत्सु॒वर्णँ॒ हिर॑ण्यमभवत् । यद्रु॒क्मम॑न्त॒र्दधा॑ति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय । श॒तमा॑नो भवति श॒तक्ष॑रः । श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । आयु॒र्वै हिर॑ण्यम् । आ॒यु॒ष्या॑ ए॒वैन॑म॒भ्यति॑क्षरन्ति । तेजो॒ वै हिर॑ण्यम् । ते॒ज॒स्या॑ ए॒वैन॑म॒भ्यति॑क्षरन्ति । वर्चो॒ वै हिर॑ण्यम् । व॒र्च॒स्या॑ ए॒वैन॑म॒भ्यति॑ क्षरन्ति ॥34॥
श॒तक्ष॑रो॒ऽष्टौ च॑ ॥ 9 ॥
अप्र॑तिष्ठितो॒ वा ए॒ष इत्या॑हुः । यो रा॑ज॒सूये॑न॒ यज॑त॒ इति॑ । य॒दा वा ए॒ष ए॒तेन॑ द्विरा॒त्रेण॒ यज॑ते । अथ॑ प्रति॒ष्ठा । अथ॑ सव्वँत्स॒रमा॑प्नोति । याव॑न्ति सव्वँत्स॒रस्या॑होरा॒त्राणि॑ । ताव॑तीरे॒तस्य॑ स्तो॒त्रीयाः॑ । अ॒हो॒रा॒त्रेष्वे॒व प्रति॑तिष्ठति । अ॒ग्नि॒ष्टो॒मᳶ पूर्व॒मह॑र्भवति । अ॒ति॒रा॒त्र उत्त॑रम् ॥35॥
नानै॒वाहो॑रा॒त्रयो॒ᳶ प्रति॑तिष्ठति । पौ॒र्ण॒मा॒स्याम्पूर्व॒मह॑र्भवति । व्य॑ष्टकाया॒मुत्त॑रम् । नानै॒वार्ध॑मा॒सयो॒ᳶ प्रति॑तिष्ठति । अ॒मा॒वा॒स्या॑या॒म्पूर्व॒मह॑र्भवति । उद्दृ॑ष्ट॒ उत्त॑रम् । नानै॒व मास॑यो॒ᳶ प्रति॑तिष्ठति । अथो॒ खलु॑ । ये ए॒व स॑मानप॒क्षे पु॑ण्या॒हे स्याता॑म् । तयो॑ᳶ का॒र्य॑म्प्रति॑ष्ठित्यै ॥36॥
अ॒प॒श॒व्यो द्वि॑रा॒त्र इत्या॑हुः । द्वे ह्ये॑ते छन्द॑सी । गा॒य॒त्रञ्च॒ त्रैष्टु॑भञ्च । जग॑तीम॒न्तर्य॑न्ति । न तेन॒ जग॑ती कृ॒तेत्या॑हुः । यदे॑नान्तृतीयसव॒ने कु॒र्वन्तीति॑ । य॒दा वा ए॒षाऽहीन॒स्याह॒र्भज॑ते । सा॒ह्नस्य॑ वा॒ सव॑नम् । अथै॒व जग॑ती कृ॒ता । अथ॑ पश॒व्यः॑ । व्यु॑ष्टि॒र्वा ए॒ष द्वि॑रा॒त्रः । य ए॒वव्विँ॒द्वान्द्वि॑रा॒त्रेण॒ यज॑ते । व्ये॑वास्मा॑ उच्छति । अथो॒ तम॑ ए॒वाप॑हते । अ॒ग्नि॒ष्टो॒मम॑न्त॒त आह॑रति । अ॒ग्निस्सर्वा॑ दे॒वताः॑ । दे॒वता॑स्वे॒व प्रति॑तिष्ठति ॥37॥
उत्त॑रं॒ प्रति॑ष्ठित्यै पश॒व्य॑स्स॒प्त च॑ ॥ 10 ॥
वरु॑णस्य जा॒मि वा ई॑श्व॒र आ॑ग्ने॒यमिन्द्र॑स्य॒ यत्त्रि॒ष्व॑ग्निष्टो॒ममुप॑ त्वे॒यव्ँ वै र॑ज॒ताऽप्र॑तिष्ठितो॒ दश॑ ॥ 10 ॥ वरु॑णस्य॒ यद॒श्विभ्या॒य्यँत्त्रि॒षु तस्मा॒दुद्व॑तीस्स॒प्तत्रिँ॑शत् ॥ 37 ॥ वरु॑णस्य॒ प्रति॑तिष्ठति ॥ हरिः॑ ओम् ॥ श्रीकृष्णार्पणमस्तु ॥ प्रथमाष्टके अष्टमप्रपाठकः, प्रथमाष्टकं च समाप्तम् ॥