ए॒तद्ब्रा॑ह्मणान्ये॒व पञ्च॑ ह॒वीँषि॑ । अथेन्द्रा॑य॒ शुना॒सीरा॑य पुरो॒डाश॒न्द्वाद॑शकपाल॒न्निर्व॑पति । सव्ँ॒व॒त्स॒रो वा इन्द्रा॒शुना॒सीरः॑ । सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे । वा॒य॒व्य॑म्पयो॑ भवति । वा॒युर्वै वृष्ट्यै॑ प्रदापयि॒ता । स ए॒वास्मै॒ वृष्टि॒म्प्रदा॑पयति । सौ॒र्य॑ एक॑कपालो भवति । सूर्ये॑ण॒ वा अ॒मुष्मिल्ँ॑ लो॒के वृष्टि॑र्धृ॒ता । स ए॒वास्मै॒ वृष्टि॒न्निय॑च्छति ॥1॥

द्वा॒द॒श॒ग॒वँ सीर॒न्दक्षि॑णा॒ समृ॑द्ध्यै । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन् । ते दे॒वा अ॒ग्निम॑ब्रुवन् । त्वया॑ वी॒रेणासु॑रान॒भिभ॑वा॒मेति॑ । सो॑ऽब्रवीत् । त्रे॒धाऽहमा॒त्मानव्ँ॒विक॑रिष्य॒ इति॑ । स त्रे॒धाऽऽत्मान॒व्व्यँ॑कुरुत । अ॒ग्निन्तृती॑यम् । रु॒द्रन्तृती॑यम् । वरु॑ण॒न्तृती॑यम् ॥2॥

सो॑ऽब्रवीत् । क इ॒दन्तु॒रीय॒मिति॑ । अ॒हमितीन्द्रो॑ऽब्रवीत् । सन्तु सृ॑जावहा॒ इति॑ । तौ सम॑सृजेताम् । स इन्द्र॑स्तु॒रीय॑मभवत् । यदिन्द्र॑स्तु॒रीय॒मभ॑वत् । तदि॑न्द्रतुरी॒यस्ये॑न्द्रतुरीय॒त्वम् । ततो॒ वै दे॒वा व्य॑जयन्त । यदि॑न्द्रतुरी॒यन्नि॑रु॒प्यते॒ विजि॑त्यै ॥3॥

व॒हिनी॑ धे॒नुर्दक्षि॑णा । यद्व॒हिनी॑ । तेना॑ग्ने॒यी । यद्गौः । तेन॑ रौ॒द्री । यद्धे॒नुः । तेनै॒न्द्री । यत्स्त्री स॒ती दा॒न्ता । तेन॑ वारु॒णी समृ॑द्ध्यै । प्र॒जाप॑तिर्य॒ज्ञम॑सृजत ॥4॥

तँ सृ॒ष्टँ रक्षाँ॑स्यजिघाँसन् । स ए॒ताᳶ प्र॒जाप॑तिरा॒त्मनो॑ दे॒वता॒ निर॑मिमीत । ताभि॒र्वै स दि॒ग्भ्यो रक्षाँ॑सि॒ प्राणु॑दत । यत्प॑ञ्चाव॒त्तीय॑ञ्जु॒होति॑ । दि॒ग्भ्य ए॒व तद्यज॑मानो॒ रक्षाँ॑सि॒ प्रणु॑दते । समू॑ढँ॒ रक्ष॒स्सन्द॑ग्धँ॒ रक्ष॒ इत्या॑ह । रक्षाँ॑स्ये॒व सन्द॑हति । अ॒ग्नये॑ रक्षो॒घ्ने स्वाहेत्या॑ह । दे॒वता॑भ्य ए॒व वि॑जिग्या॒नाभ्यो॑ भाग॒धेय॑ङ्करोति । प्र॒ष्टि॒वा॒ही रथो॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥5॥

इन्द्रो॑ वृ॒त्रँ ह॒त्वा । असु॑रान्परा॒भाव्य॑ । नमु॑चिमासु॒रन्नाल॑भत । तँ श॒च्या॑ऽगृह्णात् । तौ सम॑लभेताम् । सो॑ऽस्माद॒भिशु॑नतरोऽभवत् । सो॑ऽब्रवीत् । स॒न्धाँ सन्द॑धावहै । अथ॒ त्वाऽव॑स्रक्ष्यामि । न मा॒ शुष्के॑ण॒ नार्द्रेण॑ हनः ॥6॥

न दिवा॒ न नक्त॒मिति॑ । स ए॒तम॒पाम्फेन॑मसिञ्चत् । न वा ए॒ष शुष्को॒ नार्द्रो व्यु॑ष्टाऽऽसीत् । अनु॑दित॒स्सूर्यः॑ । न वा ए॒तद्दिवा॒ न नक्त॑म् । तस्यै॒तस्मिल्ँ॑ लो॒के । अ॒पाम्फेने॑न॒ शिर॒ उद॑वर्तयत् । तदे॑न॒मन्व॑वर्तत । मित्र॑द्रु॒गिति॑ ॥7॥

स ए॒तान॑पामा॒र्गान॑जनयत् । तान॑जुहोत् । तैर्वै स रक्षाँ॒स्यपा॑हत । यद॑पामार्गहो॒मो भव॑ति । रक्ष॑सा॒मप॑हत्यै । ए॒को॒ल्मु॒केन॑ यन्ति । तद्धि रक्ष॑साम्भाग॒धेय॑म् । इ॒मान्दिशय्ँ॑यन्ति । ए॒षा वै रक्ष॑सा॒न्दिक् । स्वाया॑मे॒व दि॒शि रक्षाँ॑सि हन्ति ॥8॥

स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा॑ । ए॒तद्वै रक्ष॑सामा॒यत॑नम् । स्व ए॒वायत॑ने॒ रक्षाँ॑सि हन्ति । प॒र्ण॒मये॑न स्रु॒वेण॑ जुहोति । ब्रह्म॒ वै प॒र्णः । ब्रह्म॑णै॒व रक्षाँ॑सि हन्ति । दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्या॑ह । स॒वि॒तृप्र॑सूत ए॒व रक्षाँ॑सि हन्ति । ह॒तँ रक्षोऽव॑धिष्म॒ रक्ष॒ इत्या॑ह । रक्ष॑साँ॒ स्तृत्यै॑ । यद्वस्ते॒ तद्दक्षि॑णा नि॒रव॑त्यै । अप्र॑तीक्ष॒माय॑न्ति । रक्ष॑साम॒न्तर्हि॑त्यै ॥9॥

य॒च्छ॒ति॒ वरु॑ण॒न्तृती॑य॒व्विँजि॑त्या असृजत॒ समृ॑द्ध्यै हनो॒ मित्र॑द्रु॒गिति॑ हन्ति॒ स्तृत्यै॒ त्रीणि॑ च ॥ 1 ॥

धा॒त्रे पु॑रो॒डाश॒न्द्वाद॑शकपाल॒न्निर्व॑पति । सव्ँ॒व॒त्स॒रो वै धा॒ता । सव्ँ॒व॒त्स॒रेणै॒वास्मै॑ प्र॒जाᳶ प्रज॑नयति । अन्वे॒वास्मा॒ अनु॑मतिर्मन्यते । रा॒ते रा॒का । प्र सि॑नीवा॒ली ज॑नयति । प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाच॑न्दधाति । मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै । आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपाल॒न्निर्व॑पति । ऐ॒न्द्रा॒वै॒ष्ण॒वमेका॑दशकपालम् ॥ 10॥

वै॒ष्ण॒वन्त्रि॑कपा॒लम् । वी॒र्यव्ँ॑ वा अ॒ग्निः । वी॒र्य॑मिन्द्रः॑ । वी॒र्यव्ँ॑विष्णुः॑ । प्र॒जा ए॒व प्रजा॑ता वी॒र्ये॑ प्रति॑ष्ठापयति । तस्मा॑त्प्र॒जा वी॒र्या॑वतीः । वा॒म॒न ऋ॑ष॒भो व॒ही दक्षि॑णा । यद्व॒ही । तेना॑ग्ने॒यः । यदृ॑ष॒भः ॥11॥

तेनै॒न्द्रः । यद्वा॑म॒नः । तेन॑ वैष्ण॒वस्समृ॑द्ध्यै । अ॒ग्नी॒षो॒मीय॒मेका॑दशकपाल॒न्निर्व॑पति । इ॒न्द्रा॒सो॒मीय॒मेका॑दशकपालम् । सौ॒म्यञ्च॒रुम् । सोमो॒ वै रे॑तो॒धाः । अ॒ग्निᳶ प्र॒जाना॑म्प्रजनयि॒ता । वृ॒द्धाना॒मिन्द्र॑ᳶ प्रदापयि॒ता । सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ॥12॥

अ॒ग्निᳶ प्र॒जाम्प्रज॑नयति । वृ॒द्धामिन्द्र॒ᳶ प्रय॑च्छति । ब॒भ्रुर्दक्षि॑णा॒ समृ॑द्ध्यै । सो॒मा॒पौ॒ष्णञ्च॒रुन्निर्व॑पति । ऐ॒न्द्रा॒पौ॒ष्णञ्च॒रुम् । सोमो॒ वै रे॑तो॒धाः । पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता । वृ॒द्धाना॒मिन्द्र॑ᳶ प्रदापयि॒ता । सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति । पू॒षा प॒शून्प्रज॑नयति ॥13॥

वृ॒द्धानिन्द्र॒ᳶ प्रय॑च्छति । पौ॒ष्णश्च॒रुर्भ॑वति । इ॒यव्वैँ पू॒षा । अ॒स्यामे॒व प्रति॑तिष्ठति । श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै । ब॒हु वै पुरु॑षोऽमे॒ध्यमुप॑ गच्छति । वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पति । सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः । सव्ँ॒वत्स॒रेणै॒वैन॑ स्वदयति । हिर॑ण्य॒न्दक्षि॑णा ॥14॥

प॒वित्रव्ँ॒ वै हिर॑ण्यम् । पु॒नात्ये॒वैन॑म् । ब॒हु वै रा॑ज॒न्योऽनृ॑तङ्करोति । उप॑ जा॒म्यै हर॑ते । जि॒नाति॑ ब्राह्म॒णम् । वद॒त्यनृ॑तम् । अनृ॑ते॒ खलु॒ वै क्रि॒यमा॑णे॒ वरु॑णो गृह्णाति । वा॒रु॒णय्यँ॑व॒मय॑ञ्च॒रुन्निर्व॑पति । व॒रु॒ण॒पा॒शादे॒वैन॑म्मुञ्चति । अश्वो॒ दक्षि॑णा । वा॒रु॒णो हि दे॒वत॒याऽश्व॒स्समृ॑द्ध्यै ॥15॥

ऐ॒न्द्रा॒वै॒ष्ण॒वमेका॑दशकपाल॒य्यँदृ॑ष॒भो दधा॑ति पू॒षा प॒शून्प्रज॑नयति॒ हिर॑ण्य॒न्दक्षि॑णा॒ दक्षि॒णैक॑ञ्च ॥ 2 ॥

र॒त्निना॑मे॒तानि॑ ह॒वीँषि॑ भवन्ति । ए॒ते वै रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ए॒ते॑ऽपादा॒तारः॑ । य ए॒व रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ये॑ऽपादा॒तारः॑ । त ए॒वास्मै॑ रा॒ष्ट्रम्प्रय॑च्छन्ति । रा॒ष्ट्रमे॒व भ॑वति । यत्स॑मा॒हृत्य॑ नि॒र्वपे॑त् । अर॑त्निनस्स्युः । य॒था॒य॒थन्निर्व॑पति रत्नि॒त्वाय॑ ॥16॥

यत्स॒द्यो नि॒र्वपे॑त् । याव॑ती॒मेके॑न ह॒विषा॒ऽऽशिष॑मवरु॒न्धे । ताव॑ती॒मव॑रुन्धीत । अ॒न्व॒हन्निर्व॑पति । भूय॑सीमे॒वाशिष॒मव॑रुन्धे । भूय॑सो यज्ञक्र॒तूनुपै॑ति । बा॒र्ह॒स्प॒त्यञ्च॒रुन्निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे । मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सश्य॑ति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्त्रम॒न्वार॑म्भयति । शि॒ति॒पृ॒ष्ठो दक्षि॑णा॒ समृ॑द्ध्यै ॥17॥

ऐ॒न्द्रमेका॑दशकपालँ राज॒न्य॑स्य गृ॒हे । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । ऋ॒ष॒भो दक्षि॑णा॒ समृ॑द्ध्यै । आ॒दि॒त्यञ्च॒रुम्महि॑ष्यै गृ॒हे । इ॒यव्वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । धे॒नुर्दक्षि॑णा॒ समृ॑द्ध्यै । भगा॑य च॒रुव्वाँ॒वाता॑यै गृ॒हे । भग॑मे॒वास्मि॑न्दधाति । विचि॑त्तगर्भा पष्ठौ॒ही दक्षि॑णा॒ समृ॑द्ध्यै ॥ 18॥

नै॒र्ऋ॒तञ्च॒रुम्प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानाव्ँ॑व्रीही॒णान्न॒खनि॑र्भिन्नम् । पा॒प्मान॑मे॒व निर्ऋ॑तिन्नि॒रव॑दयते । कृ॒ष्णा कू॒टा दक्षि॑णा॒ समृ॑द्ध्यै । आ॒ग्ने॒यम॒ष्टाक॑पालँ सेना॒न्यो॑ गृ॒हे । सेना॑मे॒वास्य॒ सश्य॑ति । हिर॑ण्य॒न्दक्षि॑णा॒ समृ॑द्ध्यै । वा॒रु॒णन्दश॑कपालँ सू॒तस्य॑ गृ॒हे । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे । म॒हानि॑रष्टो॒ दक्षि॑णा॒ समृ॑द्ध्यै । मा॒रु॒तँ स॒प्तक॑पालङ्ग्राम॒ण्यो॑ गृ॒हे ॥19॥

अन्नव्ँ॒ वै म॒रुतः॑ । अन्न॑मे॒वाव॑रुन्धे । पृश्ञि॒र्दक्षि॑णा॒ समृ॑द्ध्यै । सा॒वि॒त्रन्द्वाद॑शकपालङ्क्ष॒त्तुर्गृ॒हे प्रसू॑त्यै । उ॒प॒ध्व॒स्तो दक्षि॑णा॒ समृ॑द्ध्यै । आ॒श्वि॒नन्द्वि॑कपा॒लँ स॑ङ्ग्रही॒तुर्गृ॒हे । अ॒श्विनौ॒ वै दे॒वाना॑म्भि॒षजौ॑ । ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति । स॒वा॒त्यौ॑ दक्षि॑णा॒ समृ॑द्ध्यै । पौ॒ष्णञ्च॒रुम्भा॑गदु॒घस्य॑ गृ॒हे ॥20॥

अन्नव्ँ॒ वै पू॒षा । अन्न॑मे॒वाव॑रुन्धे । श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै । रौ॒द्रङ्गा॑वीधु॒कञ्च॒रुम॑क्षावा॒पस्य॑ गृ॒हे । अ॒न्त॒त ए॒व रु॒द्रन्नि॒रव॑दयते । श॒बल॒ उद्वा॑रो॒ दक्षि॑णा॒ समृ॑द्ध्यै । द्वाद॑शै॒तानि॑ ह॒वीँषि॑ भवन्ति । द्वाद॑श॒ मासा॑स्सव्वँत्स॒रः । सव्ँ॒व॒त्स॒रेणै॒वास्मै॑ रा॒ष्ट्रमव॑रुन्धे । रा॒ष्ट्रमे॒व भ॑वति ॥21॥

यन्न प्र॑तिनि॒र्वपे॑त् । र॒त्निन॑ आ॒शिषोऽव॑रुन्धीरन् । प्रति॒निर्व॑पति । इन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालम् । इन्द्रा॑याँहो॒मुचे॑ । आ॒शिष॑ ए॒वाव॑रुन्धे । अ॒यन्नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रव्वँ॑ध्या॒दित्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । मै॒त्रा॒बा॒र्ह॒स्प॒त्यम्भ॑वति । श्वे॒तायै॑ श्वे॒तव॑त्सायै दु॒ग्धे ॥22॥

बा॒र्ह॒स्प॒त्ये मै॒त्रमपि॑दधाति । ब्रह्म॑ चै॒वास्मै॑ क्ष॒त्रञ्च॑ स॒मीची॑ दधाति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्रम्प्रति॑ष्ठापयति । बा॒र्ह॒स्प॒त्येन॒ पूर्वे॑ण॒ प्रच॑रति । मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सश्य॑ति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्रम॒न्वार॑म्भयति । स्व॒य॒ङ्कृ॒ता वेदि॑र्भवति । स्व॒य॒न्दि॒नम्ब॒र्हिः । स्व॒य॒ङ्कृ॒त इ॒ध्मः । अन॑भिजितस्या॒भिजि॑त्यै । तस्मा॒द्राज्ञा॒मर॑ण्यम॒भिजि॑तम् । सैव श्वे॒ता श्वे॒तव॑त्सा॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥23॥

र॒त्नि॒त्वाय॒ समृ॑द्ध्यै पष्ठौ॒ही दक्षि॑णा॒ समृ॑द्ध्यै ग्राम॒ण्यो॑ गृ॒हे भा॑गदु॒घस्य॑ गृ॒हे भ॑वति दु॒ग्धे॑ऽभिजि॑त्यै॒ द्वे च॑ ॥ 3 ॥

दे॒व॒सु॒वामे॒तानि॑ ह॒वीँषि॑ भवन्ति । ए॒ताव॑न्तो॒ वै दे॒वानाँ॑ स॒वाः । त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति । त ए॑नँ सुवन्ते । अ॒ग्निरे॒वैन॑ङ्गृ॒हप॑तीनाँ सुवते । सोमो॒ वन॒स्पती॑नाम् । रु॒द्रᳶ प॑शू॒नाम् । बृह॒स्पति॑र्वा॒चाम् । इन्द्रो॑ ज्ये॒ष्ठाना॑म् । मि॒त्रस्स॒त्याना॑म् ॥24॥

वरु॑णो॒ धर्म॑पतीनाम् । ए॒तदे॒व सर्व॑म्भवति । स॒वि॒ता त्वा॑ प्रस॒वानाँ॑ सुवता॒मिति॒ हस्त॑ङ्गृह्णाति॒ प्रसू॑त्यै । ये दे॑वा देव॒स्सुव॒स्स्थेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । म॒ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माक॑म्ब्राह्म॒णानाँ॒ राजेत्या॑ह । तस्मा॒त्सोम॑राजानो ब्राह्म॒णाः । प्रति॒ त्यन्नाम॑ रा॒ज्यम॑धा॒यीत्या॑ह ॥25॥

रा॒ज्यमे॒वास्मि॒न्प्रति॑दधाति । स्वान्त॒नुवव्ँ॒वरु॑णो अशिश्रे॒दित्या॑ह । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे । शुचे॑र्मि॒त्रस्य॒ व्रत्या॑ अभू॒मेत्या॑ह । शुचि॑मे॒वैन॒व्व्रँत्य॑ङ्करोति । अम॑न्महि मह॒त ऋ॒तस्य॒ नामेत्या॑ह । म॒नु॒त ए॒वैन॑म् । सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न्नित्या॑ह । सर्व॑व्रातमे॒वैन॑ङ्करोति । वि मि॒त्र एवै॒ररा॑तिमतारी॒दित्या॑ह ॥26॥

अरा॑तिमै॒वैन॑न्तारयति । असू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेनेत्या॑ह । स्व॒दय॑त्ये॒वैन॑म् । व्यु॑ त्रि॒तो ज॑रि॒माण॑न्न आन॒डित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । द्वाभ्याव्ँ॒विमृ॑ष्टे । द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै । अ॒ग्नी॒षो॒मीय॑स्य॒ चैका॑दशकपालस्य देवसु॒वाञ्च॑ ह॒विषा॑म॒ग्नये॑ स्विष्ट॒कृते॑ स॒मव॑द्यति । दे॒वता॑भिरे॒वैन॑मुभ॒यत॒ᳶ परि॑गृह्णाति । वि॒ष्णु॒क्र॒मान्क्र॑मते । विष्णु॑रे॒व भू॒त्वेमाल्लोँ॒कान॒भिज॑यति ॥27॥

स॒त्याना॑मधा॒यीत्या॑हातारी॒दित्या॑ह क्रमत॒ एक॑ञ्च ॥ 4 ॥

अ॒र्थेत॒स्स्थेति॑ जुहोति । आहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णाति । अथो॑ ह॒विष्कृ॑तानामे॒वाभिघृ॑तानाङ्गृह्णाति । वह॑न्तीनाङ्गृह्णाति । ए॒ता वा अ॒पाँ रा॒ष्ट्रम् । रा॒ष्ट्रमे॒वास्मै॑ गृह्णाति । अथो॒ श्रिय॑मे॒वैन॑म॒भिव॑हन्ति । अ॒पाम्पति॑र॒सीत्या॑ह । मि॒थु॒नमे॒वाकः॑ । वृषा॑ऽस्यू॒र्मिरित्या॑ह ॥28॥

ऊ॒र्मि॒मन्त॑मे॒वैन॑ङ्करोति । वृ॒ष॒से॒नो॑ऽसीत्या॑ह । सेना॑मे॒वास्य॒ सश्य॑ति । व्र॒ज॒क्षित॒स्स्थेत्या॑ह । ए॒ता वा अ॒पाव्विँशः॑ । विश॑मे॒वास्मै॒ पर्यू॑हति । म॒रुता॒मोज॒स्स्थेत्या॑ह । अन्नव्ँ॒ वै म॒रुतः॑ । अन्न॑मे॒वाव॑रुन्धे । सूर्य॑वर्चस॒स्स्थेत्या॑ह ॥29॥

रा॒ष्ट्रमे॒व व॑र्च॒स्व्य॑कः । सूर्य॑त्वचस॒स्स्थेत्या॑ह । स॒त्यव्वाँ ए॒तत् । यद्वर्ष॑ति । अनृ॑तय्ँ॒यदा॒तप॑ति॒ वर्ष॑ति । स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे । नैनँ॑ सत्यानृ॒ते उ॑दि॒ते हि॑स्तः । य ए॒वव्वेँद॑ । मान्दा॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व ब्र॑ह्मवर्च॒स्य॑कः ॥30॥

वाशा॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व व॒श्य॑कः । शक्व॑री॒स्स्थेत्या॑ह । प॒शवो॒ वै शक्व॑रीः । प॒शूने॒वाव॑रुन्धे । वि॒श्व॒भृत॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व प॑य॒स्व्य॑कः । ज॒न॒भृत॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः । अ॒ग्नेस्ते॑ज॒स्या॑स्स्थेत्या॑ह ॥31 ॥

रा॒ष्ट्रमे॒व ते॑ज॒स्व्य॑कः । अ॒पामोष॑धीनाँ॒ रस॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व म॑ध॒व्य॑मकः । सा॒र॒स्व॒तङ्ग्रह॑ङ्गृह्णाति । ए॒षा वा अ॒पाम्पृ॒ष्ठम् । यत्सर॑स्वती । पृ॒ष्ठमे॒वैनँ॑ समा॒नाना॑ङ्करोति । षो॒ड॒शभि॑र्गृह्णाति । षोड॑शकलो॒ वै पुरु॑षः । यावा॑ने॒व पुरु॑षः । तस्मि॑न्वी॒र्य॑न्दधाति । षो॒ड॒शभि॑र्जु॒होति॑ षोड॒शभि॑र्गृह्णाति । द्वात्रिँ॑श॒त्सम्प॑द्यन्ते । द्वात्रिँ॑शदक्षराऽनु॒ष्टुक् । वाग॑नु॒ष्टुप्सर्वा॑णि॒ छन्दाँ॑सि । वा॒चैवैनँ॒ सर्वे॑भि॒श्छन्दो॑भिर॒भिषि॑ञ्चति ॥32॥

ऊ॒र्मिरित्या॑ह॒ सूर्य॑वर्चस॒स्स्थेत्या॑ह ब्रह्मवर्च॒स्य॑कस्तेज॒स्या॑स्स्थेत्या॑है॒व पुरु॑ष॒ष्षट् च॑ ॥ 5 ॥

देवी॑राप॒स्सम्मधु॑मती॒र्मधु॑मतीभिस्सृज्यध्व॒मित्या॑ह । ब्रह्म॑णै॒वैना॒स्सँ सृ॑जति । अना॑धृष्टास्सीद॒तेत्या॑ह । ब्रह्म॑णै॒वैना॑स्सादयति । अ॒न्त॒रा होतु॑श्च॒ धिष्णि॑यम्ब्राह्मणाच्छँ॒सिन॑श्च सादयति । आ॒ग्ने॒यो वै होता॑ । ऐ॒न्द्रो ब्रा॑ह्मणाच्छँ॒सी । तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ रा॒ष्ट्रम्परि॑गृह्णाति । हिर॑ण्ये॒नोत्पु॑नाति । आहु॑त्यै॒ हि प॒वित्रा॑भ्यामुत्पु॒नन्ति॒ व्यावृ॑त्त्यै ॥33॥

श॒तमा॑नम्भवति । श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । अनि॑भृष्टम॒सीत्या॑ह । अनि॑भृष्ट॒॒ ह्ये॑तत् । वा॒चो बन्धु॒रित्या॑ह । वा॒चो ह्ये॑ष बन्धुः॑ । त॒पो॒जा इत्या॑ह । त॒पो॒जा ह्ये॑तत् । सोम॑स्य दा॒त्रम॒सीत्या॑ह ॥34॥

सोम॑स्य॒ ह्ये॑तद्दा॒त्रम् । शु॒क्रा व॑श्शु॒क्रेणोत्पु॑ना॒मीत्या॑ह । शु॒क्रा ह्यापः॑ । शु॒क्रँ हिर॑ण्यम् । च॒न्द्राश्च॒न्द्रेणेत्या॑ह । च॒न्द्रा ह्यापः॑ । च॒न्द्रँ हिर॑ण्यम् । अ॒मृता॑ अ॒मृते॒नेत्या॑ह । अ॒मृता॒ ह्यापः॑ । अ॒मृतँ॒ हिर॑ण्यम् ॥35 ॥

स्वाहा॑ राज॒सूया॒येत्या॑ह । रा॒ज॒सूया॑य॒ ह्ये॑ना उत्पु॒नाति॑ । स॒ध॒मादो॑ द्यु॒म्निनी॒रूर्ज॑ ए॒ता इति॑ वारु॒ण्यर्चा गृ॑ह्णाति । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे । एक॑या गृह्णाति । ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति । क्ष॒त्त्रस्योल्ब॑मसि क्ष॒त्त्रस्य॒ योनि॑र॒सीति॑ ता॒र्प्यञ्चो॒ष्णीष॑ञ्च॒ प्रय॑च्छति सयोनि॒त्वाय॑ । एक॑शतेन दर्भपुञ्जी॒लैᳶ प॑वयति । श॒तायु॒र्वै पुरु॑षश्श॒तवी॑र्यः । आ॒त्मैक॑श॒तः ॥36॥

यावा॑ने॒व पुरु॑षः । तस्मि॑न्वी॒र्य॑न्दधाति । दध्या॑शयति । इ॒न्द्रि॒यमे॒वाव॑ रुन्धे । उ॒दु॒म्बर॑माशयति । अ॒न्नाद्य॒स्याव॑रुद्ध्यै । शष्पा॑ण्याशयति । सुरा॑बलिमे॒वैन॑ङ्करोति । आ॒विद॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैन॑ङ्गमयन्ति ॥ 37॥

अ॒ग्निरे॒वैन॒ङ्गार्ह॑पत्येनावति । इन्द्र॑ इन्द्रि॒येण॑ । पू॒षा प॒शुभिः॑ । मि॒त्रावरु॑णौ प्राणापा॒नाभ्या॑म् । इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । स दिव॑मलिखत् । सो॑ऽर्य॒म्णᳶ पन्था॑ अभवत् । स आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ द्यावा॑पृथि॒वी उपा॑धावत् । स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्राय॒ वज्र॒म्प्राह॑रत् । आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ यदाह॑ ॥38॥

आ॒भ्यामे॒व प्रसू॑तो॒ यज॑मानो॒ वज्र॒म्भ्रातृ॑व्याय॒ प्रह॑रति । आवि॑न्ना दे॒व्यदि॑तिर्विश्वरू॒पीत्या॑ह । इ॒यव्वैँ दे॒व्यदि॑तिर्विश्वरू॒पी । अ॒स्यामे॒व प्रति॑ तिष्ठति । आवि॑न्नो॒ऽयम॒सावा॑मुष्याय॒णो॑ऽस्याव्विँ॒श्य॑स्मिन्रा॒ष्ट्र इत्या॑ह । वि॒शैवैनँ॑ रा॒ष्ट्रेण॒ सम॑र्धयति । म॒ह॒ते क्ष॒त्त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामा शा॑स्ते । ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माक॑म्ब्राह्म॒णानाँ॒ राजेत्या॑ह । तस्मा॒त्सोम॑राजानो ब्राह्म॒णाः ॥39॥

इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ धनु॒ᳶ प्रय॑च्छति॒ विजि॑त्यै । श॒त्रु॒बाध॑ना॒स्स्थेतीषू॑न् । शत्रू॑ने॒वास्य॑ बाधन्ते । पा॒त मा॑ प्र॒त्यञ्च॑म्पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्च॑म्मा पा॒तेत्या॑ह । ति॒स्रो वै श॑र॒व्याः॑ । प्र॒तीची॑ ति॒रश्च्य॒नूची॑ । ताभ्य॑ ए॒वैन॑म्पान्ति । दि॒ग्भ्यो मा॑ पा॒तेत्या॑ह । दि॒ग्भ्य ए॒वैन॑म्पान्ति । विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑ᳶ पा॒तेत्या॑ह । अप॑रिमितादे॒वैन॑म्पान्ति । हिर॑ण्यवर्णावु॒षसा॑व्विँरो॒क इति॑ त्रि॒ष्टुभा॑ बा॒हू उद्गृ॑ह्णाति । इ॒न्द्रि॒यव्वैँ वी॒र्य॑न्त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व वी॒र्य॑मु॒परि॑ष्टादा॒त्मन्ध॑त्ते ॥ 40 ॥

व्यावृ॑त्त्यै दा॒त्रम॒सीत्या॑हा॒मृतँ॒ हिर॑ण्यमेकश॒तो ग॑मय॒न्त्याह॑ ब्राह्म॒णा ना॒ष्ट्राभ्य॑ᳶ पा॒तेत्या॑ह च॒त्वारि॑ च ॥ 6 ॥

दिशो॒ व्यास्था॑पयति । दि॒शाम॒भिजि॑त्त्यै । यद॑नु प्र॒क्रामे॑त् । अ॒भि दिशो॑ जयेत् । उत्तु मा॑द्येत् । मन॒साऽनु॒ प्रक्रा॑मति । अ॒भि दिशो॑ जयति । नोन्मा॑द्यति । स॒मिध॒मा ति॒ष्ठेत्या॑ह । तेज॑ ए॒वाव॑रुन्धे ॥41॥

उ॒ग्रामा ति॒ष्ठेत्या॑ह । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । वि॒राज॒माति॒ष्ठेत्या॑ह । अ॒न्नाद्य॑मे॒वाव॑रुन्धे । उदी॑ची॒मा ति॒ष्ठेत्या॑ह । प॒शूने॒वाव॑रुन्धे । ऊ॒र्ध्वामाति॒ष्ठेत्या॑ह । सु॒व॒र्गमे॒व लो॒कम॒भिज॑यति । अनूज्जि॑हीते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 42 ॥

मा॒रु॒त ए॒ष भ॑वति । अन्नव्ँ॒ वै म॒रुतः॑ । अन्न॑मे॒वाव॑रुन्धे । एक॑विँशतिकपालो भवति॒ प्रति॑ष्ठित्यै । यो॑ऽरण्येऽनुवा॒क्यो॑ ग॒णः । तम्म॑ध्य॒त उप॑दधाति । ग्रा॒म्यैरे॒व प॒शुभि॑रार॒ण्यान्प॒शून्परि॑ गृह्णाति । तस्मा॑द्ग्रा॒म्यैᳶ प॒शुभि॑रार॒ण्याᳶ प॒शव॒ᳶ परि॑गृहीताः । पृथि॑र्वै॒न्यः । अ॒भ्य॑षिच्यत ॥ 43 ॥

स रा॒ष्ट्रन्नाभ॑वत् । स ए॒तानि॑ पा॒र्थान्य॑पश्यत् । तान्य॑जुहोत् । तैर्वै स रा॒ष्ट्रम॑भवत् । यत्पा॒र्थानि॑ जु॒होति॑ । रा॒ष्ट्रमे॒व भ॑वति । बा॒र्ह॒स्प॒त्यम्पूर्वे॑षामुत्त॒मम्भ॑वति । ऐ॒न्द्रमुत्त॑रेषाम्प्रथ॒मम् । ब्रह्म॑ चै॒वास्मै॑ क्ष॒त्त्रञ्च॑ स॒मीची॑ दधाति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्त्रम्प्रति॑ष्ठापयति ॥44॥

षट्पु॒रस्ता॑दभिषे॒कस्य॑ जुहोति । षडु॒परि॑ष्टात् । द्वाद॑श॒ सम्प॑द्यन्ते । द्वाद॑श॒ मासा॑स्सव्वँत्स॒रः । सव्ँ॒व॒त्स॒रᳶ खलु॒ वै दै॒वाना॒म्पूः । दे॒वाना॑मे॒व पुर॑म्मध्य॒तो व्यव॑सर्पति । तस्य॒ न कुत॑श्च॒नोपा॑व्या॒धो भ॑वति । भू॒ताना॒मवे॑ष्टीर्जुहोति । अत्रा॑त्र॒ वै मृ॒त्युर्जा॑यते । यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते । तत॑ ए॒वैन॒मव॑यजते । तस्मा॑द्राज॒सूये॑नेजा॒नो नाभिच॑रित॒वै । प्र॒त्यगे॑नमभिचा॒रस्स्तृ॑णुते ॥ 45 ॥

रु॒न्धे॒ सम॑ष्ट्या असिच्यत स्थापयति॒ जाय॑ते॒ पञ्च॑ च ॥ 7 ॥

सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूया॒दिति॑ शार्दूलच॒र्मोप॑स्तृणाति । यैव सोमे॒ त्विषिः॑ । या शा॑र्दू॒ले । तामे॒वाव॑रुन्धे । मृ॒त्योर्वा ए॒ष वर्णः॑ । यच्छा॑र्दू॒लः । अ॒मृतँ॒ हिर॑ण्यम् । अ॒मृत॑मसि मृ॒त्योर्मा॑ पा॒हीति॒ हिर॑ण्य॒मुपा॑स्यति । अ॒मृत॑मे॒व मृ॒त्योर॒न्तर्ध॑त्ते । श॒तमा॑नम्भवति ॥46॥

श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । दि॒द्योन्मा॑ पा॒हीत्यु॒परि॑ष्टा॒दधि॒ निद॑धाति । उ॒भ॒यत॑ ए॒वास्मै॒ शर्म॑ दधाति । अवे॑ष्टा दन्द॒शूका॒ इति॑ क्ली॒बँ सीसे॑न विध्यति । द॒न्द॒शूका॑ने॒वाव॑यजते । तस्मा॑त्क्ली॒बन्द॑न्द॒शूका॒ दँशु॑काः । निर॑स्त॒न्नमु॑चे॒श्शिर॒ इति॑ लोहिताय॒सन्निर॑स्यति । पा॒प्मान॑मे॒व नमु॑चिन्नि॒रव॑दयते । प्रा॒णा आ॒त्मन॒ᳶ पूर्वे॑ऽभि॒षिच्या॒ इत्या॑हुः ॥ 47 ॥

सोमो॒ राजा॒ वरु॑णः । दै॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाचँ॑ सुवन्ता॒न्ते ते॑ प्रा॒णँ सु॑वन्ता॒मित्या॑ह । प्रा॒णाने॒वात्मन॒ᳶ पूर्वा॑न॒भिषि॑ञ्चति । यद्ब्रू॒यात् । अ॒ग्नेस्त्वा॒ तेज॑सा॒ऽभिषि॑ञ्चा॒मीति॑ । ते॒ज॒स्व्ये॑व स्या॑त् । दु॒श्चर्मा॒ तु भ॑वेत् । सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चा॒मीत्या॑ह । सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः ॥48॥

स्वयै॒वैन॑न्दे॒वत॑या॒ऽभिषि॑ञ्चति । अ॒ग्नेस्तेज॒सेत्या॑ह । तेज॑ ए॒वास्मि॑न्दधाति । सूर्य॑स्य॒ वर्च॒सेत्या॑ह । वर्च॑ ए॒वास्मि॑न्दधाति । इन्द्र॑स्येन्द्रि॒येणेत्या॑ह । इ॒न्द्रि॒यमे॒वास्मि॑न्दधाति । मि॒त्रावरु॑णयोर्वी॒र्ये॑णेत्या॑ह । वी॒र्य॑मे॒वास्मि॑न्दधाति । म॒रुता॒मोज॒सेत्या॑ह ॥ 49 ॥

ओज॑ ए॒वास्मि॑न्दधाति । क्ष॒त्त्राणा॑ङ्क्ष॒त्त्रप॑तिर॒सीत्या॑ह । क्ष॒त्त्राणा॑मे॒वैन॑ङ्क्ष॒त्त्रप॑तिङ्करोति । अति॑ दि॒वस्पा॒हीत्या॑ह । अत्य॒न्यान्पा॒हीति॒ वावैतदा॑ह । स॒माव॑वृत्रन्नध॒रागुदी॑ची॒रित्या॑ह । रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑कः । उ॒च्छेष॑णेन जुहोति । उ॒च्छेष॑णभागो॒ वै रु॒द्रः । भा॒ग॒धेये॑नै॒व रु॒द्रन्नि॒रव॑दयते ॥ 50 ॥

उद॑ङ्प॒रेत्याग्नी॑द्ध्रे जुहोति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते । रुद्र॒ यत्ते॒ क्रयी॒ पर॒न्नामेत्या॑ह । यद्वा अ॑स्य॒ क्रयी॒ पर॒न्नाम॑ । तेन॒ वा ए॒ष हि॑नस्ति । यँ हि॒नस्ति॑ । तेनै॒वैनँ॑ स॒ह श॑मयति । तस्मै॑ हु॒तम॑सि य॒मेष्ट॑म॒सीत्या॑ह । य॒मादे॒वास्य॑ मृ॒त्युमव॑यजते ॥ 51 ॥

प्रजा॑पते॒ न त्वदे॒तान्य॒न्य इति॒ तस्यै॑ गृ॒हे जु॑हुयात् । याङ्का॒मये॑त रा॒ष्ट्रम॑स्यै प्र॒जा स्या॒दिति॑ । रा॒ष्ट्रमे॒वास्यै॑ प्र॒जा भ॑वति । प॒र्ण॒मये॑नाध्व॒र्युर॒भिषि॑ञ्चति । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॒न्त्विषि॑न्दधाति । औदु॑म्बरेण राज॒न्यः॑ । ऊर्ज॑मे॒वास्मि॑न्न॒न्नाद्य॑न्दधाति । आश्व॑त्थेन॒ वैश्यः॑ । विश॑मे॒वास्मि॒न्पुष्टि॑न्दधाति । नैय॑ग्रोधेन॒ जन्यः॑ । मि॒त्राण्ये॒वास्मै॑ कल्पयति । अथो॒ प्रति॑ष्ठित्यै ॥ 52 ॥

भ॒व॒त्या॒हु॒ᳶ पुरु॑ष॒ ओज॒सेत्या॑ह नि॒रव॑दयते यजते॒ जन्यो॒ द्वे च॑ ॥ 8 ॥

इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै । मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोᳶ प्र॒शिषा॑ युन॒ज्मीत्या॑ह । ब्रह्म॑णै॒वैन॑न्दे॒वता॑भ्याय्युँनक्ति । प्र॒ष्टि॒वा॒हिनय्ँ॑युनक्ति । प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः । दे॒व॒र॒थमे॒वास्मै॑ युनक्ति । त्रयोऽश्वा॑ भवन्ति । रथ॑श्चतु॒र्थः । द्वौ स॑व्येष्ठसार॒थी । षट्त्सम्प॑द्यन्ते ॥ 53 ॥

षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैनय्ँ॑युनक्ति । वि॒ष्णु॒क्र॒मान्क्र॑मते । विष्णु॑रे॒व भू॒त्वेमाल्लोँ॒कान॒भिज॑यति । यः क्ष॒त्रिय॒ᳶ प्रति॑हितः । सो॑ऽन्वार॑भते । रा॒ष्ट्रमे॒व भ॑वति । त्रि॒ष्टुभा॒ऽन्वार॑भते । इ॒न्द्रि॒यव्वैँ त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व यज॑माने दधाति ॥ 54 ॥

म॒रुता॑म्प्रस॒वे जे॑ष॒मित्या॑ह । म॒रुद्भि॑रे॒व प्रसू॑त॒ उज्ज॑यति । आ॒प्तम्मन॒ इत्या॑ह । यदे॒व मन॒सैप्सी॑त् । तदा॑पत् । रा॒ज॒न्य॑ञ्जिनाति । अना॑क्रान्त ए॒वाक्र॑मते । वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते । यो रा॑ज॒न्य॑ञ्जि॒नाति॑ । सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑णेत्या॑ह ॥ 55 ॥

इ॒न्द्रि॒यमे॒व वी॒र्य॑मा॒त्मन्ध॑त्ते । प॒शू॒नाम्म॒न्युर॑सि॒ तवे॑व मे म॒न्युर्भू॑या॒दिति॒ वारा॑ही उपा॒नहा॒वुप॑ मुञ्चते । प॒शू॒नाव्वाँ ए॒ष म॒न्युः । यद्व॑रा॒हः । तेनै॒व प॑शू॒नाम्म॒न्युमा॒त्मन्ध॑त्ते । अ॒भि वा इ॒यँ सु॑षुवा॒णङ्का॑मयते । तस्ये॑श्व॒रेन्द्रि॒यव्वीँ॒र्य॑मादा॑तोः । वारा॑ही उपा॒नहा॒वुप॑मुञ्चते । अ॒स्या ए॒वान्तर्ध॑त्ते । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याना॑त्यै ॥ 56 ॥

नमो॑ मा॒त्रे पृ॑थि॒व्या इत्या॒हाहिँ॑सायै । इय॑द॒स्यायु॑र॒स्यायु॑र्मे धे॒हीत्या॑ह । आयु॑रे॒वात्मन्ध॑त्ते । ऊर्ग॒स्यूर्ज॑म्मे धे॒हीत्या॑ह । ऊर्ज॑मे॒वात्मन्ध॑त्ते । युङ्ङ॑सि॒ वर्चो॑सि॒ वर्चो॒ मयि॑ धे॒हीत्या॑ह । वर्च॑ ए॒वात्मन्ध॑त्ते । ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति । ए॒क॒धैव यज॑मान॒ आयु॒रूर्जव्ँ॒वर्चो॑ दधाति । र॒थ॒वि॒मो॒च॒नीया॑ जुहोति॒ प्रति॑ष्ठित्यै ॥ 57 ॥

त्रयोऽश्वा॑ भवन्ति । रथ॑श्चतु॒र्थः । तस्मा॑च्च॒तुर्जु॑होति । यदु॒भौ स॒हाव॒तिष्ठे॑ताम् । स॒मा॒नल्लोँ॒कमि॑याताम् । स॒ह स॑ङ्ग्रही॒त्रा र॑थ॒वाह॑ने॒ रथ॒माद॑धाति । सु॒व॒र्गादे॒वैनल्ँ॑ लो॒काद॒न्तर्द॑धाति । हँ॒सश्शु॑चि॒षदित्याद॑धाति । ब्रह्म॑णै॒वैन॑मुपाव॒हर॑ति । ब्रह्म॒णाऽऽद॑धाति । अति॑च्छन्द॒साऽऽद॑धाति । अति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाँ॑सि । सर्वे॑भिरे॒वैन॒ञ्छन्दो॑भि॒राद॑धाति । वर्ष्म॒ वा ए॒षा छन्द॑साम् । यदति॑च्छन्दाः । यदति॑च्छन्दसा॒ दधा॑ति । वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करोति ॥ 58 ॥

प॒द्य॒न्ते॒ द॒धा॒ति॒ वी॒र्ये॑णेत्या॒हाना॑त्यै॒ प्रति॑ष्ठित्यै॒ ब्रह्म॒णाऽऽद॑धाति स॒प्त च॑ ॥ 9 ॥

मि॒त्रो॑ऽसि॒ वरु॑णो॒ऽसीत्या॑ह । मै॒त्रव्वाँ अहः॑ । वा॒रु॒णी रात्रिः॑ । अ॒हो॒रा॒त्राभ्या॑मे॒वैन॑मु॒पाव॑हरति । मि॒त्रो॑ऽसि॒ वरु॑णो॒ऽसीत्या॑ह । मै॒त्रो वै दक्षि॑णः । वा॒रु॒णस्स॒व्यः । वै॒श्व॒दे॒व्या॑मिक्षा॑ । स्वमे॒वैनौ॑ भाग॒धेय॑मु॒पाव॑हरति । सम॒हव्विँश्वै॑र्दे॒वैरित्या॑ह ॥ 59 ॥

वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः । ता ए॒वाद्या॑ᳶ कुरुते । क्ष॒त्त्रस्य॒ नाभि॑रसि क्ष॒त्त्रस्य॒ योनि॑र॒सीत्य॑धीवा॒समास्तृ॑णाति सयोनि॒त्वाय॑ । स्यो॒नामा सी॑द सु॒षदा॒मा सी॒देत्या॑ह । य॒था॒य॒जुरे॒वैतत् । मा त्वा॑ हिँसी॒न्मा मा॑ हिँसी॒दित्या॒हाहिँ॑सायै । निष॑साद धृ॒तव्र॑तो॒ वरु॑णᳶ प॒स्त्या॑स्वा साम्रा॑ज्याय सु॒क्रतु॒रित्या॑ह । साम्रा॑ज्यमे॒वैनँ॑ सु॒क्रतु॑ङ्करोति । ब्रह्मा(३)न्त्वँ रा॑जन्ब्र॒ह्माऽसि॑ सवि॒ताऽसि॑ स॒त्यस॑व॒ इत्या॑ह । स॒वि॒तार॑मे॒वैनँ॑ स॒त्यस॑वङ्करोति ॥ 60 ॥

ब्रह्मा(३)न्त्वँ रा॑जन्ब्र॒ह्माऽसीन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह । इन्द्र॑मे॒वैनँ॑ स॒त्यौज॑सङ्करोति । ब्रह्मा(३)न्त्वँ रा॑जन्ब्र॒ह्माऽसि॑ मि॒त्रो॑ऽसि सु॒शेव॒ इत्या॑ह । मि॒त्रमे॒वैनँ॑ सु॒शेव॑ङ्करोति । ब्रह्मा(३)न्त्वँ रा॑जन्ब्र॒ह्मासि॒ वरु॑णोऽसि स॒त्यध॒र्मेत्या॑ह । वरु॑णमे॒वैनँ॑ स॒त्यध॑र्माणङ्करोति । स॒वि॒ताऽसि॑ स॒त्यस॑व॒ इत्या॑ह । गा॒य॒त्रीमे॒वैतेना॑भि॒ व्याह॑रति । इन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह । त्रि॒ष्टुभ॑मे॒वैतेना॑भि॒ व्याह॑रति ॥ 61 ॥

मि॒त्रो॑ऽसि सु॒शेव॒ इत्या॑ह । जग॑तीमे॒वैतेना॑भि॒ व्याह॑रति । स॒त्यमे॒ता दे॒वताः॑ । स॒त्यमे॒तानि॒ छन्दाँ॑सि । स॒त्यमे॒वाव॑रुन्धे । वरु॑णोऽसि स॒त्यध॒र्मेत्या॑ह । अ॒नु॒ष्टुभ॑मे॒वैतेना॑भि॒ व्याह॑रति । स॒त्या॒नृ॒ते वा अ॑नु॒ष्टुप् । स॒त्या॒नृ॒ते वरु॑णः । स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे ॥ 62 ॥

नैनँ॑ सत्यानृ॒ते उ॑दि॒ते हि॑स्तः । य ए॒वव्वेँद॑ । इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ स्फ्यम्प्रय॑च्छति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒वास्मा॑ अवरप॒रँ र॑न्धयति । ए॒वँ हि तच्छ्रेयः॑ । यद॑स्मा ए॒ते रध्ये॑युः । दिशो॒ऽभ्य॑यँ राजा॑ऽभू॒दिति॒ पञ्चा॒क्षान्प्रय॑च्छति । ए॒ते वै सर्वेऽयाः॑ । अप॑राजायिनमे॒वैन॑ङ्करोति ॥63॥

ओ॒द॒नमुद्ब्रु॑वते । प॒र॒मे॒ष्ठी वा ए॒षः । यदो॑द॒नः । प॒र॒मामे॒वैन॒॒ श्रिय॑ङ्गमयति । सुश्लो॒काँ (4) सुम॑ङ्ग॒लाँ (4) सत्य॑रा॒जा (३) नित्या॑ह । आ॒शिष॑मे॒वैतामा शा॑स्ते । शौ॒न॒श्शे॒पमाख्या॑पयते । व॒रु॒ण॒पा॒शादे॒वैन॑म्मुञ्चति । प॒र॒श्श॒तम्भ॑वति । श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति । मा॒रु॒तस्य॒ चैक॑विँशतिकपालस्य वैश्वदे॒व्यै चा॒मिक्षा॑या अ॒ग्नये॑ स्विष्ट॒कृते॑ स॒मव॑द्यति । दे॒वता॑भिरे॒वैन॑मुभ॒यत॒ᳶ परि॑ गृह्णाति । अ॒पान्नप्त्रे॒ स्वाहो॒र्जो नप्त्रे॒ स्वाहा॒ऽग्नये॑ गृ॒हप॑तये॒ स्वाहेति॑ ति॒स्र आहु॑तीर्जुहोति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति ॥ 64॥

दे॒वैरित्या॑ह स॒त्यस॑वङ्करोति त्रि॒ष्टुभ॑मे॒वैतेना॑भि॒ व्याह॑रति सत्यानृ॒ते ए॒वाव॑रुन्धे करोति श॒तेन्द्रि॑य॒ष्षट् च॑ ॥ 10 ॥

ए॒तद्ब्रा॑ह्मणानि धा॒त्रे र॒त्निना॑न्देवसु॒वाम॒र्थेतो॒ देवी॒र्दिश॒स्सोम॒स्येन्द्र॑स्य मि॒त्रो दश॑ ॥ 10 ॥ ए॒तद्ब्रा॑ह्मणानि वैष्ण॒वन्त्रि॑कपा॒लमन्न॒व्वैँ पू॒षा वाशा॒स्स्थेत्या॑ह॒ दिशो॒ व्यास्था॑पय॒त्युद॑ङ्प॒रेत्य॒ ब्रह्मा ३ न्त्वँ रा॑ज॒॒श्चतु॑ष्षष्टिः ॥ ए॒तद्ब्रा॑ह्मणानि॒ प्रति॑तिष्ठति ॥ 64 ॥ हरिः॑ ओम् ॥ श्रीकृष्णार्पणमस्तु ॥ सप्तम प्रपाठकस्समाप्तः