अनु॑मत्यै पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पति । ये प्र॒त्यञ्च॒श्शम्या॑या अव॒शीय॑न्ते । तन्नै॑र्ऋ॒तमेक॑कपालम् । इ॒यव्वाँ अनु॑मतिः । इ॒यन्निर्ऋ॑तिः । नै॒र्ऋ॒तेन॒ पूर्वे॑ण॒ प्रच॑रति । पा॒प्मान॑मे॒व निर्ऋ॑ति॒म्पूर्वा॑न्नि॒रव॑दयते । एक॑कपालो भवति । ए॒क॒धैव निर्ऋ॑तिन्नि॒रव॑दयते । यदहु॑त्वा॒ गार्ह॑पत्य ई॒युः ॥1॥

रु॒द्रो भू॒त्वाऽग्निर॑नू॒त्थाय॑ । अ॒ध्व॒र्युञ्च॒ यज॑मानञ्च हन्यात् । वीहि॒ स्वाहाऽऽहु॑तिञ्जुषा॒ण इत्या॑ह । आहु॑त्यै॒वैनँ॑ शमयति । नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानः । ए॒को॒ल्मु॒केन॑ यन्ति । तद्धि निर्ऋ॑त्यै भाग॒धेय॑म् । इ॒मान्दिशय्ँ॑यन्ति । ए॒षा वै निर्ऋ॑त्यै॒ दिक् । स्वाया॑मे॒व दि॒शि निर्ऋ॑तिन्नि॒रव॑दयते ॥2॥

स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा॑ । ए॒तद्वै निर्ऋ॑त्या आ॒यत॑नम् । स्व ए॒वायत॑ने॒ निर्ऋ॑तिन्नि॒रव॑दयते । ए॒ष ते॑ निर्ऋते भा॒ग इत्या॑ह । निर्दि॑शत्ये॒वैना॑म् । भूते॑ ह॒विष्म॑त्य॒सीत्या॑ह । भूति॑मे॒वोपाव॑र्तते । मु॒ञ्चेममँह॑स॒ इत्या॑ह । अँह॑स ए॒वैन॑म्मुञ्चति । अ॒ङ्गु॒ष्ठाभ्या॑ञ्जुहोति ॥3 ॥

अ॒न्त॒त ए॒व निर्ऋ॑तिन्नि॒रव॑दयते । कृ॒ष्णव्वाँस॑ᳶ कृ॒ष्णतू॑ष॒न्दक्षि॑णा । ए॒तद्वै निर्ऋ॑त्यै रू॒पम् । रू॒पेणै॒व निर्ऋ॑तिन्नि॒रव॑दयते । अप्र॑तीक्ष॒माय॑न्ति । निर्ऋ॑त्या अ॒न्तर्हि॑त्यै । स्वाहा॒ नमो॒ य इ॒दञ्च॒कारेति॒ पुन॒रेत्य॒ गार्ह॑पत्ये जुहोति । आहु॑त्यै॒व न॑म॒स्यन्तो॒ गार्ह॑पत्यमु॒पाव॑र्तन्ते । आ॒नु॒म॒तेन॒ प्रच॑रति । इ॒यव्वाँ अनु॑मतिः ॥4॥

इ॒यमे॒वास्मै॑ रा॒ज्यमनु॑ मन्यते । धे॒नुर्दक्षि॑णा । इ॒मामे॒व धे॒नुङ्कु॑रुते । आ॒दि॒त्यञ्च॒रुन्निर्व॑पति । उ॒भयी॑ष्वे॒व प्र॒जास्व॒भिषि॑च्यते । दैवी॑षु च॒ मानु॑षीषु च । वरो॒ दक्षि॑णा । वरो॒ हि रा॒ज्यँ समृ॑द्ध्यै । आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपाल॒न्निर्व॑पति । अ॒ग्निस्सर्वा॑ दे॒वताः॑ ॥5॥

विष्णु॑र्य॒ज्ञः । दे॒वता॑श्चै॒व य॒ज्ञञ्चाव॑ रुन्धे । वा॒म॒नो व॒ही दक्षि॑णा । यद्व॒ही । तेना॑ग्ने॒यः । यद्वा॑म॒नः । तेन॑ वैष्ण॒वस्समृ॑द्ध्यै । अ॒ग्नी॒षो॒मीय॒मेका॑दशकपाल॒न्निर्व॑पति । अ॒ग्नीषोमा॑भ्याव्ँ॒वा इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॑ । यद॑ग्नीषो॒मीय॒मेका॑दशकपालन्नि॒र्वप॑ति ॥6॥

वार्त्र॑घ्नमे॒व विजि॑त्यै । हिर॑ण्य॒न्दक्षि॑णा॒ समृ॑द्ध्यै । इन्द्रो॑ वृ॒त्रँ ह॒त्वा । दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्या॑र्ध्यत । स ए॒तमै॑न्द्रा॒ग्नमेका॑दशकपालमपश्यत् । तन्निर॑वपत् । तेन॒ वै स दे॒वता॑श्चेन्द्रि॒यञ्चावा॑रुन्ध । यदै॑न्द्रा॒ग्नमेका॑दशकपालन्नि॒र्वप॑ति । दे॒वता॑श्चै॒व तेने॑न्द्रि॒यञ्च॒ यज॑मा॒नोऽव॑रुन्धे । ऋ॒ष॒भो व॒ही दक्षि॑णा ॥7॥

यद्व॒ही । तेना॑ग्ने॒यः । यदृ॑ष॒भः । तेनै॒न्द्रस्समृ॑द्ध्यै । आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति । ऐ॒न्द्रन्दधि॑ । यदा॑ग्ने॒यो भव॑ति । अ॒ग्निर्वै य॑ज्ञमु॒खम् । य॒ज्ञ॒मु॒खमे॒वर्द्धि॑म्पु॒रस्ता॑द्धत्ते । यदै॒न्द्रन्दधि॑ ॥8॥

इ॒न्द्रि॒यमे॒वाव॑रुन्धे । ऋ॒ष॒भो व॒ही दक्षि॑णा । यद्व॒ही । तेना॑ग्ने॒यः । यदृ॑ष॒भः । तेनै॒न्द्रस्समृ॑द्ध्यै । याव॑ती॒र्वै प्र॒जा ओष॑धीना॒महु॑ताना॒माश्ञ॑न् । ताᳶ परा॑ऽभवन् । आ॒ग्र॒य॒णम्भ॑वति हु॒ताद्या॑य । यज॑मान॒स्याप॑राभावाय ॥9॥

दे॒वा वा ओष॑धीष्वा॒जिम॑युः । ता इ॑न्द्रा॒ग्नी उद॑जयताम् । तावे॒तमै॑न्द्रा॒ग्नन्द्वाद॑शकपाल॒न्निर॑वृणाताम् । यदै॑न्द्रा॒ग्नो भव॒त्युज्जि॑त्यै । द्वाद॑शकपालो भवति । द्वाद॑श॒ मासा॑स्सव्वँत्स॒रः । सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे । वै॒श्व॒दे॒वश्च॒रुर्भ॑वति । वै॒श्व॒दे॒वव्वाँ अन्न॑म् । अन्न॑मे॒वास्मै॑ स्वदयति ॥10॥

प्र॒थ॒म॒जो व॒त्सो दक्षि॑णा॒ समृ॑द्ध्यै । सौ॒म्य श्या॑मा॒कञ्च॒रुन्निर्व॑पति । सोमो॒ वा अ॑कृष्टप॒च्यस्य॒ राजा॑ । अ॒कृ॒ष्ट॒प॒च्यमे॒वास्मै॑ स्वदयति । वासो॒ दक्षि॑णा । सौ॒म्यँ हि दे॒वत॑या॒ वास॒स्समृ॑द्ध्यै । सर॑स्वत्यै च॒रुन्निर्व॑पति । सर॑स्वते च॒रुम् । मि॒थु॒नमे॒वाव॑ रुन्धे । मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै । एति॒ वा ए॒ष य॑ज्ञमु॒खादृध्याः॑ । यो॑ऽग्नेर्दे॒वता॑या॒ एति॑ । अ॒ष्टावे॒तानि॑ ह॒वीँषि॑ भवन्ति । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रो॑ऽग्निः । तेनै॒व य॑ज्ञमु॒खादृध्या॑ अ॒ग्नेर्दे॒वता॑यै॒ नैति॑ ॥11॥

ई॒युर्नि॒रव॑दयतेऽङ्गु॒ष्ठाभ्या॑ञ्जुहो॒त्यनु॑मतिर्दे॒वता॑ नि॒र्वप॑ति व॒ही दक्षि॑णा॒ यदै॒न्द्रन्दध्यप॑राभावाय स्वदयति॒ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै॒ षट्च॑ ॥ 1 ॥

वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत । तास्सृ॒ष्टा न प्राजा॑यन्त । सो॑ऽग्निर॑कामयत । अ॒हमि॒माᳶ प्रज॑नयेय॒मिति॑ । स प्र॒जाप॑तये॒ शुच॑मदधात् । सो॑ऽशोचत्प्र॒जामि॒च्छमा॑नः । तस्मा॒द्यञ्च॑ प्र॒जा भु॒नक्ति॒ यञ्च॒ न । तावु॒भौ शो॑चतᳶ प्र॒जामि॒च्छमा॑नौ । तास्व॒ग्निमप्य॑सृजत् । ता अ॒ग्निरध्यै॑त् ॥12॥

सोमो॒ रेतो॑ऽदधात् । स॒वि॒ता प्राज॑नयत् । सर॑स्वती॒ वाच॑मदधात् । पू॒षाऽपो॑षयत् । ते वा ए॒ते त्रिस्सव्ँ॑वत्स॒रस्य॒ प्रयु॑ज्यन्ते । ये दे॒वाᳶ पुष्टि॑पतयः । सव्ँ॒व॒त्स॒रो वै प्र॒जाप॑तिः । सव्ँ॒व॒त्स॒रेणै॒वास्मै॑ प्र॒जाᳶ प्राज॑नयत् । ताᳶ प्र॒जा जा॒ता म॒रुतो॑ऽघ्नन् । अ॒स्मानपि॒ न प्रायु॑क्ष॒तेति॑ ॥13॥

स ए॒तम्प्र॒जाप॑तिर्मारु॒तँ स॒प्तक॑पालमपश्यत् । तन्निर॑वपत् । ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत । यन्मा॑रु॒तो नि॑रु॒प्यते॑ । य॒ज्ञस्य॒ कॢप्त्यै॑ । प्र॒जाना॒मघा॑ताय । स॒प्तक॑पालो भवति । स॒प्तग॑णा॒ वै म॒रुतः॑ । ग॒ण॒श ए॒वास्मै॒ विश॑ङ्कल्पयति । स प्र॒जाप॑तिरशोचत् ॥14॥

याᳶ पूर्वा॑ᳶ प्र॒जा असृ॑क्षि । म॒रुत॒स्ता अ॑वधिषुः । क॒थमप॑रास्सृजे॒येति॑ । तस्य॒ शुष्म॑ आ॒ण्डम्भू॒तन्निर॑वर्तत । तद्व्युद॑हरत् । तद॑पोषयत् । तत्प्राजा॑यत । आ॒ण्डस्य॒ वा ए॒तद्रू॒पम् । यदा॒मिक्षा॑ । यद्व्यु॒द्धर॑ति ॥15॥

प्र॒जा ए॒व तद्यज॑मानᳶ पोषयति । वै॒श्व॒दे॒व्या॑मिक्षा॑ भवति । वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः । प्र॒जा ए॒वास्मै॒ प्रज॑नयति । वाजि॑न॒मान॑यति । प्र॒जास्वे॒व प्रजा॑तासु॒ रेतो॑ दधाति । द्या॒वा॒पृ॒थि॒व्य॑ एक॑कपालो भवति । प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑मुभ॒यत॒ᳶ परि॑गृह्णाति । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन् । सो॑ऽग्निर॑ब्रवीत् ॥16॥

मामग्रे॑ यजत । मया॒ मुखे॒नासु॑राञ्जेष्य॒थेति॑ । मान्द्वि॒तीय॒मिति॒ सोमो॑ऽब्रवीत् । मया॒ राज्ञा॑ जेष्य॒थेति॑ । मान्तृ॒तीय॒मिति॑ सवि॒ता । मया॒ प्रसू॑ता जेष्य॒थेति॑ । माञ्च॑तु॒र्थीमिति॒ सर॑स्वती । इ॒न्द्रि॒यव्वोँ॒ऽहन्धा॑स्या॒मीति॑ । माम्प॑ञ्च॒ममिति॑ पू॒षा । मया॑ प्रति॒ष्ठया॑ जेष्य॒थेति॑ ॥17॥

ते॑ऽग्निना॒ मुखे॒नासु॑रानजयन् । सोमे॑न॒ राज्ञा॑ । स॒वि॒त्रा प्रसू॑ताः । सर॑स्वतीन्द्रि॒यम॑दधात् । पू॒षा प्र॑ति॒ष्ठाऽऽसी॑त् । ततो॒ वै दे॒वा व्य॑जयन्त । यदे॒तानि॑ ह॒वीँषि॑ निरु॒प्यन्ते॒ विजि॑त्यै । नोत्त॑रवे॒दिमुप॑वपति । प॒शवो॒ वा उ॑त्तरवे॒दिः । अजा॑ता इव॒ ह्ये॑तर्हि॑ प॒शवः॑ ॥18॥

ऐ॒दित्य॑शोचद्व्यु॒द्धर॑त्यब्रवीत्प्रति॒ष्ठया॑ जेष्य॒थेत्ये॒तऱ्हि॑ प॒शवः॑ ॥ 2 ॥

त्रि॒वृद्ब॒र्हिर्भ॑वति । मा॒ता पि॒ता पु॒त्रः । तदे॒व तन्मि॑थु॒नम् । उल्ब॒ङ्गर्भो॑ ज॒रायु॑ । तदे॒व तन्मि॑थु॒नम् । त्रे॒धा ब॒र्हिस्सन्न॑द्धम्भवति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति । ए॒क॒धा पुन॒स्सन्न॑द्धम्भवति । एक॑ इव॒ ह्य॑यल्लोँ॒कः ॥19॥

अ॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑तिष्ठति । प्र॒सुवो॑ भवन्ति । प्र॒थ॒म॒जामे॒व पुष्टि॒मव॑रुन्धे । प्र॒थ॒म॒जो व॒त्सो दक्षि॑णा॒ समृ॑द्ध्यै । पृ॒ष॒दा॒ज्यङ्गृ॑ह्णाति । प॒शवो॒ वै पृ॑षदा॒ज्यम् । प॒शूने॒वाव॑रुन्धे । प॒ञ्च॒गृ॒ही॒तम्भ॑वति । पाङ्क्ता॒ हि प॒शवः॑ । ब॒हु॒रू॒पम्भ॑वति ॥20॥

ब॒हु॒रू॒पा हि प॒शव॒स्समृ॑द्ध्यै । अ॒ग्निम्म॑न्थन्ति । अ॒ग्निमु॑खा॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत । यद॒ग्निम्मन्थ॑न्ति । अ॒ग्निमु॑खा ए॒व तत्प्र॒जा यज॑मानस्सृजते । नव॑ प्रया॒जा इ॑ज्यन्ते । नवा॑नूया॒जाः । अ॒ष्टौ ह॒वीँषि॑ । द्वावा॑घा॒रौ । द्वावाज्य॑भागौ ॥21॥

त्रिँ॒शत्सम्प॑द्यन्ते । त्रिँ॒शद॑क्षरा वि॒राट् । अन्नव्ँ॑वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । यज॑मानो॒ वा एक॑कपालः । तेज॒ आज्य॑म् । यदेक॑कपाल॒ आज्य॑मा॒नय॑ति । यज॑मानमे॒व तेज॑सा॒ सम॑र्धयति । यज॑मानो॒ वा एक॑कपालः । प॒शव॒ आज्य॑म् ॥22॥

यदेक॑कपाल॒ आज्य॑मा॒नय॑ति । यज॑मानमे॒व प॒शुभि॒स्सम॑र्धयति । यदल्प॑मा॒नये॑त् । अल्पा॑ एनम्प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठेरन् । यद्ब॒ह्वा॑नये॑त् । ब॒हव॑ एनम्प॒शवोऽभु॑ञ्जन्त॒ उप॑तिष्ठेरन् । ब॒ह्वा॑नीया॒विᳶ पृ॑ष्ठङ्कुर्यात् । ब॒हव॑ ए॒वैन॑म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठन्ते । यज॑मानो॒ वा एक॑कपालः । यदेक॑कपालस्याव॒द्येत् ॥23॥

यज॑मान॒स्याव॑द्येत् । उद्वा॒ माद्ये॒द्यज॑मानः । प्र वा॑ मीयेत । स॒कृदे॒व हो॑त॒व्यः॑ । स॒कृदि॑व॒ हि सु॑व॒र्गो लो॒कः । हु॒त्वाऽभिजु॑होति । यज॑मानमे॒व सु॑व॒र्गल्लोँ॒कङ्ग॑मयि॒त्वा । तेज॑सा॒ सम॑र्धयति । यज॑मानो॒ वा एक॑कपालः । सु॒व॒र्गो लो॒क आ॑हव॒नीयः॑ ॥24॥

यदेक॑कपालमाहव॒नीये॑ जु॒होति॑ । यज॑मानमे॒व सु॑व॒र्गल्लोँ॒कङ्ग॑मयति । यद्धस्ते॑न जुहु॒यात् । सु॒व॒र्गाल्लो॒काद्यज॑मान॒मव॑विध्येत् । स्रु॒चा जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । यत्प्राङ्पद्ये॑त । दे॒व॒लो॒कम॒भिज॑येत् । यद्द॑क्षि॒णा पि॑तृलो॒कम् । यत्प्र॒त्यक् ॥25॥

रक्षाँ॑सि य॒ज्ञँ ह॑न्युः । यदुदङ्ङ्॑ । म॒नु॒ष्य॒लो॒कम॒भिज॑येत् । प्रति॑ष्ठितो होत॒व्यः॑ । एक॑कपालव्ँ॒ वै प्र॑ति॒तिष्ठ॑न्त॒न्द्यावा॑पृथि॒वी अनु॒ प्रति॑तिष्ठतः । द्यावा॑पृथि॒वी ऋ॒तवः॑ । ऋ॒तून् य॒ज्ञः । य॒ज्ञय्यँज॑मानः । यज॑मानम्प्र॒जाः । तस्मा॒त्प्रति॑ष्ठितो होत॒व्यः॑ ॥26॥

वा॒जिनो॑ यजति । अ॒ग्निर्वा॒युस्सूर्यः॑ । ते वै वा॒जिनः॑ । ताने॒व तद्य॑जति । अथो॒ खल्वा॑हुः । छन्दाँ॑सि॒ वै वा॒जिन॒ इति॑ । तान्ये॒व तद्य॑जति । ऋ॒क्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ॑ । तयो॑ᳶ परि॒धय॑ आ॒धान॑म् । वाजि॑नम्भाग॒धेय॑म् ॥27॥

यदप्र॑हृत्य परि॒धीञ्जु॑हु॒यात् । अ॒न्तरा॑धानाभ्याङ्घा॒सम्प्रय॑च्छेत् । प्र॒हृत्य॑ परि॒धीञ्जु॑होति । निरा॑धानाभ्यामे॒व घा॒सम्प्रय॑च्छति । ब॒र्हिषि॑ विषि॒ञ्चन्वाजि॑न॒मान॑यति । प्र॒जा वै ब॒र्हिः । रेतो॒ वाजि॑नम् । प्र॒जास्वे॒व रेतो॑ दधाति । स॒मु॒प॒हूय॑ भक्षयन्ति । ए॒तत्सो॑मपीथा॒ ह्ये॑ते । अथो॑ आ॒त्मन्ने॒व रेतो॑ दधते । यज॑मान उत्त॒मो भ॑क्षयति । प॒शवो॒ वै वाजि॑नम् । यज॑मान ए॒व प॒शून्प्रति॑ष्ठापयन्ति ॥28॥

लो॒को ब॑हुरू॒पं भ॑व॒त्याज्य॑भागौ प॒शव॒ आज्य॑मव॒द्येदा॑हव॒नीय॑ᳶ प्र॒त्यक्तस्मा॒त्प्रति॑ष्ठितो होत॒व्यो॑ भाग॒धेय॑मे॒ते च॒त्वारि॑ च ॥ 3 ॥

प्र॒जाप॑तिस्सवि॒ता भू॒त्वा प्र॒जा अ॑सृजत । ता ए॑न॒मत्य॑मन्यन्त । ता अ॑स्मा॒दपा॑क्रामन् । ता वरु॑णो भू॒त्वा प्र॒जा वरु॑णेनाग्राहयत् । ताᳶ प्र॒जा वरु॑णगृहीताः । प्र॒जाप॑ति॒म्पुन॒रुपा॑धावन्ना॒थमि॒च्छमा॑नाः । स ए॒तान्प्र॒जाप॑तिर्वरुणप्रघा॒सान॑पश्यत् । तान्निर॑वपत् । तैर्वै स प्र॒जा व॑रुणपा॒शाद॑मुञ्चत् । यद्व॑रुणप्रघा॒सा नि॑रु॒प्यन्ते॑ ॥29॥

प्र॒जाना॒मव॑रुणग्राहाय । तासा॒न्दक्षि॑णो बा॒हुर्न्य॑क्न॒ आसी॑त् । स॒व्यᳶ प्रसृ॑तः । स ए॒तान्द्वि॒तीया॑न्दक्षिण॒तो वेदि॒मुद॑हन् । ततो॒ वै स प्र॒जाना॒न्दक्षि॑णम्बा॒हुम्प्रासा॑रयत् । यद्द्वि॒तीया॑न्दक्षिण॒तो वेदि॑मु॒द्धन्ति॑ । प्र॒जाना॑मे॒व तद्यज॑मानो॒ दक्षि॑णम्बा॒हुम्प्रसा॑रयति । तस्मा॑च्चातुर्मास्यया॒ज्य॑मुष्मिल्ँ॑ लो॒क उ॑भ॒याबा॑हुः । य॒ज्ञाभि॑जित॒॒ ह्य॑स्य । पृ॒थ॒मा॒त्राद्वैदी॒ अस॑म्भिन्ने भवतः ॥30॥

तस्मा॑त्पृथमा॒त्रव्व्यँँसौ॑ । उत्त॑रस्याव्ँ॒वेद्या॑मुत्तरवे॒दिमुप॑ वपति । प॒शवो॒ वा उ॑त्तरवे॒दिः । प॒शूने॒वाव॑रुन्धे । अथो॑ यज्ञप॒रुषोऽन॑न्तरित्यै । ए॒तद्ब्रा॑ह्मणान्ये॒व पञ्च॑ ह॒वीँषि॑ । अथै॒ष ऐ॑न्द्रा॒ग्नो भ॑वति । प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वाना॑म् । यदि॑न्द्रा॒ग्नी । यदै॑न्द्रा॒ग्नो भव॑ति ॥31॥

प्रा॒णा॒पा॒नावे॒वाव॑ रुन्धे । ओजो॒ बलव्ँ॒वा ए॒तौ दै॒वाना॑म् । यदि॑न्द्रा॒ग्नी । यदै॑न्द्रा॒ग्नो भव॑ति । ओजो॒ बल॑मे॒वाव॑रुन्धे । मा॒रु॒त्या॑मिक्षा॑ भवति । वा॒रु॒ण्या॑मिक्षा॑ । मे॒षी च॑ मे॒षश्च॑ भवतः । मि॒थु॒ना ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति । लो॒म॒शौ भ॑वतो मेध्य॒त्वाय॑ ॥32॥

श॒मी॒प॒र्णान्युप॑ वपति । घा॒समे॒वाभ्या॒मपि॑ यच्छति । प्र॒जाप॑तिम॒न्नाद्य॒न्नोपा॑नमत् । स ए॒तेन॑ श॒तेध्मे॑न ह॒विषा॒ऽन्नाद्य॒मवा॑रुन्ध । यत्प॑रश्श॒तानि॑ शमीप॒र्णानि॒ भव॑न्ति । अ॒न्नाद्य॒स्याव॑रुद्ध्यै । सौ॒म्यानि॒ वै क॒रीरा॑णि । सौ॒म्या खलु॒ वा आहु॑तिर्दि॒वो वृष्टि॑ञ्च्यावयति । यत्क॒रीरा॑णि॒ भव॑न्ति । सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑रुन्धे । का॒य एक॑कपालो भवति । प्र॒जाना॑ङ्क॒न्त्वाय॑ । प्र॒ति॒पू॒रु॒षङ्क॑रम्भपा॒त्राणि॑ भवन्ति । जा॒ता ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति । एक॒मति॑रिक्तम् । ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति ॥33॥

नि॒रु॒प्यन्ते॑ भवतो॒ भव॑ति मेध्य॒त्वाय॑ रुन्धे॒ षट्च॑ ॥ 4 ॥

उत्त॑रस्याव्ँ॒वेद्या॑म॒न्यानि॑ ह॒वीँषि॑ सादयति । दक्षि॑णायाम्मारु॒तीम् । अ॒प॒धु॒रमे॒वैना॑ युनक्ति । अथो॒ ओज॑ ए॒वासा॒मव॑ हरति । तस्मा॒द्ब्रह्म॑णश्च क्ष॒त्राच्च॒ विशो॑ऽन्यतोऽपक्र॒मिणीः॑ । मा॒रु॒त्या पूर्व॑या॒ प्रच॑रति । अनृ॑तमे॒वाव॑ यजते । वा॒रु॒ण्योत्त॑रया । अ॒न्त॒त ए॒व वरु॑ण॒मव॑ यजते । यदे॒वाध्व॒र्युᳶ क॒रोति॑ ॥34॥

तत्प्र॑तिप्रस्था॒ता क॑रोति । तस्मा॒द्यच्छ्रेया॑न्क॒रोति॑ । तत्पापी॑यान्करोति । पत्नी॑व्वाँचयति । मेध्या॑मे॒वैना॑ङ्करोति । अथो॒ तप॑ ए॒वैना॒मुप॑ नयति । यज्जा॒रँ सन्त॒न्न प्र॑ब्रू॒यात् । प्रि॒यं ज्ञा॒तिँ रु॑न्ध्यात् । अ॒सौ मे॑ जा॒र इति॒ निर्दि॑शेत् । नि॒र्दिश्यै॒वैनव्ँ॑वरुणपा॒शेन॑ ग्राहयति ॥35॥

प्र॒घा॒स्या॑न् हवामह॒ इति॒ पत्नी॑मु॒दान॑यति । अह्व॑तै॒वैना॑म् । यत्पत्नी॑ पुरोनुवा॒क्या॑मनुब्रू॒यात् । निर्वी॑र्यो॒ यज॑मानस्स्यात् । यज॑मा॒नोऽन्वा॑ह । आ॒त्मन्ने॒व वी॒र्य॑न्धत्ते । उ॒भौ या॒ज्याँ॑ सवीर्य॒त्वाय॑ । यद्ग्रामे॒ यदर॑ण्य॒ इत्या॑ह । य॒थो॒दि॒तमे॒व वरु॑ण॒मव॑यजते । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वा आ॑हव॒नीयः॑ ॥36॥

भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑ दक्षि॑णः । यदा॑हव॒नीये॑ जुहु॒यात् । यज॑मानव्वँरुणपा॒शेन॑ ग्राहयेत् । दक्षि॑णे॒ऽग्नौ जु॑होति । भ्रातृ॑व्यमे॒व व॑रुणपा॒शेन॑ ग्राहयति । शूर्पे॑ण जुहोति । अन्य॑मे॒व वरु॑ण॒मव॑ यजते । शी॒र्षन्न॑धि नि॒धाय॑ जुहोति । शी॒र्ष॒त ए॒व वरु॑ण॒मव॑ यजते । प्र॒त्यङ्तिष्ठ॑ञ्जुहोति ॥37॥

प्र॒त्यङ्ङे॒व व॑रुणपा॒शान्निर्मु॑च्यते । अक्र॒न्कर्म॑ कर्म॒कृत॒ इत्या॑ह । दे॒वानृ॒णन्नि॑रव॒दाय॑ । अ॒नृ॒णा गृ॒हानुप॒ प्रेतेति॒ वावैतदा॑ह । वरु॑णगृहीतव्ँ॒वा ए॒तद्य॒ज्ञस्य॑ । यद्यजु॑षा गृही॒तस्या॑ति॒रिच्य॑ते । तुषा॑श्च निष्का॒सश्च॑ । तुषै॑श्च निष्का॒सेन॑ चावभृ॒थमवै॑ति । वरु॑णगृहीतेनै॒व वरु॑ण॒मव॑यजते । अ॒पो॑ऽवभृ॒थमवै॑ति ॥38॥

अ॒प्सु वै वरु॑णः । सा॒क्षादे॒व वरु॑ण॒मव॑यजते । प्रति॑युतो॒ वरु॑णस्य॒ पाश॒ इत्या॑ह । व॒रु॒ण॒पा॒शादे॒व निर्मु॑च्यते । अप्र॑तीक्ष॒माय॑न्ति । वरु॑णस्या॒न्तर्हि॑त्यै । एधो॑ऽष्येधिषी॒महीत्या॑ह । स॒मिधै॒वाग्निन्न॑म॒स्यन्त॑ उ॒पाय॑न्ति । तेजो॑ऽसि॒ तेजो॒ मयि॑ धे॒हीत्या॑ह । तेज॑ ए॒वात्मन्ध॑त्ते ॥39 ॥

क॒रोति॑ ग्राहयत्याहव॒नीय॒स्तिष्ठ॑ञ्जुहोत्य॒पो॑ऽवभृ॒थमवै॑ति धत्ते ॥ 5 ॥

दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन् । सो॑ऽग्निर॑ब्रवीत् । ममे॒यमनी॑कवती त॒नूः । ताम्प्री॑णीत । अथासु॑रान॒भिभ॑विष्य॒थेति॑ । ते दे॒वा अ॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपन् । सो॑ऽग्निरनी॑कवा॒न्त्स्वेन॑ भाग॒धेये॑न प्री॒तः । च॒तु॒र्धाऽनी॑कान्यजनयत । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः ॥40॥

यद॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पालन्नि॒र्वप॑ति । अ॒ग्निमे॒वानी॑कवन्त॒॒ स्वेन॑ भाग॒धेये॑न प्रीणाति । सो॑ऽग्निरनी॑कवा॒न्त्स्वेन॑ भाग॒धेये॑न प्री॒तः । च॒तु॒र्धाऽनी॑कानि जनयते । अ॒सौ वा आ॑दि॒त्यो॑ऽग्निरनी॑कवान् । तस्य॑ र॒श्मयोऽनी॑कानि । सा॒कँ सूर्ये॑णोद्य॒ता निर्व॑पति । सा॒क्षादे॒वास्मा॒ अनी॑कानि जनयति । तेऽसु॑रा॒ᳶ परा॑जिता॒ यन्तः॑ । द्यावा॑पृथि॒वी उपा॑श्रयन्न् ॥41॥

ते दे॒वा म॒रुद्भ्य॑स्सान्तप॒नेभ्य॑श्च॒रुन्निर॑वपन् । यन्म॒रुद्भ्य॑स्सान्तप॒नेभ्य॑श्च॒रुन्नि॒र्वप॑ति । द्यावा॑पृथि॒वीभ्या॑मे॒व तदु॑भ॒यतो॒ यज॑मानो॒ भ्रातृ॑व्या॒न्त्सन्त॑पति । म॒ध्यन्दि॑ने॒ निर्व॑पति । तर्हि॒ हि तेक्ष्णि॑ष्ठ॒न्तप॑ति । च॒रुर्भ॑वति । स॒र्वत॑ ए॒वैना॒न्त्सन्त॑पति । ते दे॒वाश्श्वो॑विज॒यिन॒स्सन्तः॑ । सर्वा॑सान्दु॒ग्धे गृ॑हमे॒धीय॑ञ्च॒रुन्निर॑वपन्न् ॥42॥

आशि॑ता ए॒वाद्योप॑वसाम । कस्य॒ वाऽहे॒दम् । कस्य॑ वा॒ श्वो भ॑वि॒तेति॑ । स शृ॒तो॑ऽभवत् । तस्याहु॑तस्य॒ नाश्ञ॑न् । न हि दे॒वा अहु॑तस्या॒श्ञन्ति॑ । ते॑ऽब्रुवन् । कस्मा॑ इ॒मँ हो॑ष्याम॒ इति॑ । म॒रुद्भ्यो॑ गृहमे॒धिभ्य॒ इत्य॑ब्रुवन् । तम्म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ऽजुहवुः ॥43॥

ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः । यस्यै॒वव्विँ॒दुषो॑ म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ गृ॒हे जुह्व॑ति । भव॑त्या॒त्मना॑ । परा॑ऽस्य॒ भ्रातृ॑व्यो भवति । यद्वै य॒ज्ञस्य॑ पाक॒त्रा क्रि॒यते॑ । प॒श॒व्य॑न्तत् । पा॒क॒त्रा वा ए॒तत्क्रि॑यते । यन्नेध्माब॒र्हिर्भव॑ति । न सा॑मिधे॒नीर॒न्वाह॑ ॥44॥

न प्र॑या॒जा इ॒ज्यन्ते॑ । नानू॑या॒जाः । य ए॒वव्वेँद॑ । प॒शु॒मान्भ॑वति । आज्य॑भागौ यजति । य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति । म॒रुतो॑ गृहमे॒धिनो॑ यजति । भा॒ग॒धेये॑नै॒वैना॒न्त्सम॑र्धयति । अ॒ग्नि स्वि॑ष्ट॒कृतय्ँ॑यजति॒ प्रति॑ष्ठित्यै । इडा॑न्तो भवति । प॒शवो॒ वा इडा॑ । प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑तिष्ठति ॥45॥

असु॑रा अश्रयन्गृहमे॒धीय॑ञ्च॒रुन्निर॑वपन्नजुहवुर॒न्वाहेडा॑न्तो भवति॒ द्वे च॑ ॥ 6 ॥

यत्पत्नी॑ गृहमे॒धीय॑स्याश्ञी॒यात् । गृ॒ह॒मे॒ध्ये॑व स्या॑त् । वि त्व॑स्य य॒ज्ञ ऋ॑ध्येत । यन्नाश्ञी॒यात् । अगृ॑हमेधी स्यात् । नास्य॑ य॒ज्ञो व्यृ॑द्ध्येत । प्रति॑वेशम्पचेयुः । तस्या॑श्ञीयात् । गृ॒ह॒मे॒ध्ये॑व भ॑वति । नास्य॑ य॒ज्ञो व्यृ॑द्ध्यते ॥46॥

ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वा । आशि॑ता अभवन् । आञ्ज॑ता॒भ्य॑ञ्जत । अनु॑ व॒त्सान॑वासयन् । तेभ्योऽसु॑राः॒ क्षुध॒म्प्राहि॑ण्वन् । सा दे॒वेषु॑ लो॒कमवि॑त्वा । असु॑रा॒न्पुन॑रगच्छत् । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । आशि॑ता भवन्ति । आञ्ज॑ते॒ऽभ्य॑ञ्जते ॥47॥

अनु॑ व॒त्सान् वा॑सयन्ति । भ्रातृ॑व्यायै॒व तद्यज॑मानः॒ क्षुध॒म्प्रहि॑णोति । ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्का॒सन्न्य॑दधुः । अ॒स्माने॒व श्व इन्द्रो॒ निहि॑तभाग उपावर्ति॒तेति॑ । तानिन्द्रो॒ निहि॑तभाग उ॒पाव॑र्तत । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्का॒सन्निद॑ध्यात् । इन्द्र॑ ए॒वैन॒न्निहि॑तभाग उ॒पाव॑र्तते । गार्ह॑पत्ये जुहोति ॥48॥

भा॒ग॒धेये॑नै॒वैनँ॒ सम॑र्धयति । ऋ॒ष॒भमाह्व॑यति । व॒ष॒ट्का॒र ए॒वास्य॒ सः । अथो॑ इन्द्रि॒यमे॒व तद्वी॒र्यय्ँ॑यज॑मानो॒ भ्रातृव्य॑स्य वृङ्क्ते । इन्द्रो॑ वृ॒त्रँ ह॒त्वा । परा॑म्परा॒वत॑मगच्छत् । अपा॑राध॒मिति॒ मन्य॑मानः । सो॑ऽब्रवीत् । क इ॒दव्वे॑दिँष्य॒तीति॑ । ते॑ऽब्रुवन्म॒रुतो॒ वर॑व्वृँणामहै ॥49॥

अथ॑ व॒यव्वेँ॑दाम । अ॒स्मभ्य॑मे॒व प्र॑थ॒मँ ह॒विर्निरु॑प्याता॒ इति॑ । त ए॑न॒मध्य॑क्रीडन् । तत्क्री॒डिना॑ङ्क्रीडि॒त्वम् । यन्म॒रुद्भ्य॑ᳶ क्री॒डिभ्य॑ᳶ प्रथ॒मँ ह॒विर्नि॑रु॒प्यते॒ विजि॑त्यै । सा॒कँ सूर्ये॑णोद्य॒ता निर्व॑पति । ए॒तस्मि॒न्वै लो॒क इन्द्रो॑ वृ॒त्रम॑ह॒न्त्समृ॑द्ध्यै । ए॒तद्ब्रा॑ह्मणान्ये॒व पञ्च॑ ह॒वीँषि॑ । ए॒तद्ब्रा॑ह्मण ऐन्द्रा॒ग्नः । अथै॒ष ऐ॒न्द्रश्च॒रुर्भ॑वति ॥50॥

उ॒द्धारव्वाँ ए॒तमिन्द्र॒ उद॑हरत । वृ॒त्रँ ह॒त्वा । अ॒न्यासु॑ दे॒वता॒स्वधि॑ । यदे॒ष ऐ॒न्द्रश्च॒रुर्भव॑ति । उ॒द्धा॒रमे॒व तय्यँज॑मान॒ उद्ध॑रते । अ॒न्यासु॑ प्र॒जास्वधि॑ । वै॒श्व॒क॒र्म॒ण एक॑कपालो भवति । विश्वा॑न्ये॒व तेन॒ कर्मा॑णि॒ यज॑मा॒नोऽव॑रुन्धे ॥51॥

ऋ॒द्ध्य॒ते॒ऽभ्य॑ञ्जते जुहोति वृणामहै भवत्य॒ष्टौ च॑ ॥ 7 ॥

वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत । ता व॑रुणप्रघा॒सैर्व॑रुणपा॒शाद॑मुञ्चत् । सा॒क॒मे॒धैᳶ प्रत्य॑स्थापयत् । त्र्य॑म्बकै रु॒द्रन्नि॒रवा॑दयत । पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गल्लोँ॒कम॑गमयत् । यद्वै॑श्वदे॒वेन॒ यज॑ते । प्र॒जा ए॒व तद्यज॑मानस्सृजते । ता व॑रुणप्रघा॒सैर्व॑रुणपा॒शान्मु॑ञ्चति । सा॒क॒मे॒धैᳶ प्रति॑ष्ठापयति । त्र्य॑म्बकै रु॒द्रन्नि॒रव॑दयते ॥52॥

पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गल्लोँ॒कङ्ग॑मयति । द॒क्षि॒ण॒तᳶ प्रा॑चीनावी॒ती निर्व॑पति । द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् । अना॑दृत्य॒ तत् । उ॒त्त॒र॒त ए॒वोप॒वीय॒ निर्व॑पेत् । उ॒भये॒ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते॑ । अथो॒ यदे॒व द॑क्षिणा॒र्धे॑ऽधि॒श्रय॑ति । तेन॑ दक्षि॒णावृ॑त् । सोमा॑य पितृ॒मते॑ पुरो॒डाशँ॒ षट्क॑पाल॒न्निर्व॑पति । सव्ँ॒व॒त्स॒रो वै सोम॑ᳶ पितृ॒मान् ॥53॥

सव्ँ॒व॒त्स॒रमे॒व प्री॑णाति । पि॒तृभ्यो॑ बर्हि॒षद्भ्यो॑ धा॒नाः । मासा॒ वै पि॒तरो॑ बर्हि॒षदः॑ । मासा॑ने॒व प्री॑णाति । यस्मि॒न्वा ऋ॒तौ पुरु॑षᳶ प्र॒मीय॑ते । सो॑ऽस्या॒मुष्मिल्ँ॑ लो॒के भ॑वति । ब॒हु॒रू॒पा धा॒ना भ॑वन्ति । अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै । पि॒तृभ्यो॑ऽग्निष्वा॒त्तेभ्यो॑ म॒न्थम् । अ॒र्ध॒मा॒सा वै पि॒तरो॑ऽग्निष्वा॒त्ताः ॥54॥

अ॒र्ध॒मा॒साने॒व प्री॑णाति । अ॒भि॒वा॒न्या॑यै दु॒ग्धे भ॑वति । सा हि पि॑तृदेव॒त्य॑न्दु॒हे । यत्पू॒र्णम् । तन्म॑नु॒ष्या॑णाम् । उ॒प॒र्य॒र्धो दे॒वाना॑म् । अ॒र्धᳶ पि॑तृ॒णाम् । अ॒र्ध उप॑मन्थति । अ॒र्धो हि पि॑तृ॒णाम् । एक॒योप॑मन्थति ॥55॥

एका॒ हि पि॑तृ॒णाम् । द॒क्षि॒णोप॑मन्थति । द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् । अना॑र॒भ्योप॑मन्थति । तद्धि पि॒तॄन्गच्छ॑ति । इ॒मान्दिशव्ँ॒वेदि॒मुद्ध॑न्ति । उ॒भये॒ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते॑ । चतु॑स्स्रक्तिर्भवति । सर्वा॒ ह्यनु॒ दिश॑ᳶ पि॒तरः॑ । अखा॑ता भवति ॥56॥

खा॒ता हि दे॒वाना॑म् । म॒ध्य॒तो॑ऽग्निराधी॑यते । अ॒न्त॒तो हि दे॒वाना॑माधी॒यते॑ । वर्षी॑यानि॒ध्म इ॒ध्माद्भ॑वति॒ व्यावृ॑त्त्यै । परि॑श्रयति । अ॒न्तर्हि॑तो॒ हि पि॑तृलो॒को म॑नुष्यलो॒कात् । यत्परु॑षि दि॒नम् । तद्दे॒वाना॑म् । यद॑न्त॒रा । तन्म॑नु॒ष्या॑णाम् ॥57॥

यत्समू॑लम् । तत्पि॑तृ॒णाम् । समू॑लम्ब॒र्हिर्भ॑वति॒ व्यावृ॑त्त्यै । द॒क्षि॒णा स्तृ॑णाति । द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् । त्रिᳶ पर्ये॑ति । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति । त्रिᳶ पुन॒ᳶ पर्ये॑ति । षट्त्सम्प॑द्यन्ते ॥ 58॥

षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । यत्प्र॑स्त॒रय्यँजु॑षा गृह्णी॒यात् । प्र॒मायु॑को॒ यज॑मानस्स्यात् । यन्न गृ॑ह्णी॒यात् । अ॒ना॒य॒त॒नस्स्या॑त् । तू॒ष्णीमे॒व न्य॑स्येत् । न प्र॒मायु॑को॒ भव॑ति । नाना॑यत॒नः । यत्त्रीन्प॑रि॒धीन्प॑रिद॒ध्यात् ॥59॥

मृ॒त्युना॒ यज॑मान॒म्परि॑गृह्णीयात् । यन्न प॑रिद॒ध्यात् । रक्षाँ॑सि य॒ज्ञँ ह॑न्युः । द्वौ प॑रि॒धी परि॑दधाति । रक्ष॑सा॒मप॑हत्यै । अथो॑ मृ॒त्योरे॒व यज॑मान॒मुत्सृ॑जति । यत्त्रीणि॑ त्रीणि ह॒वीँष्यु॑दा॒हरे॑युः । त्रय॑स्त्रय एषाँ सा॒कम्प्रमी॑येरन् । एकै॑कमनू॒चीना॑न्यु॒दाह॑रन्ति । एकै॑क ए॒वैषा॑म॒न्वञ्च॒ᳶ प्रमी॑यते । क॒शिपु॑ कशिप॒व्या॑य । उ॒प॒बर्ह॑णमुपबर्ह॒ण्या॑य । आञ्ज॑नमाञ्ज॒न्या॑य । अ॒भ्यञ्ज॑नमभ्यञ्ज॒न्या॑य । य॒था॒भा॒गमे॒वैना॑न्प्रीणाति ॥ 60॥

नि॒रव॑दयते पितृ॒मान॑ग्निष्वा॒त्ता एक॒योप॑ मन्थ॒त्यखा॑ता भवति मनु॒ष्या॑णां पद्यन्ते परिद॒ध्यान्मी॑यते॒ पञ्च॑ च ॥ 8 ॥

अ॒ग्नये॑ दे॒वेभ्य॑ᳶ पि॒तृभ्य॑स्समि॒ध्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह । उ॒भये॒ हि दै॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते॑ । एका॒मन्वा॑ह । एका॒ हि पि॑तृ॒णाम् । त्रिरन्वा॑ह । त्रिर्हि दे॒वाना॑म् । आ॒घा॒रावाघा॑रयति । य॒ज्ञ॒प॒रुषो॒रन॑न्तरित्यै । नार्षे॒यव्वृँ॑णीते । न होता॑रम् ॥61॥

यदा॑र्षे॒यव्ँवृ॑णी॒त । यद्धोता॑रम् । प्र॒मायु॑को॒ यज॑मानस्स्यात् । प्र॒मायु॑को॒ होता॑ । तस्मा॒न्न वृ॑णीते । यज॑मानस्य॒ होतु॑र्गोपी॒थाय॑ । अप॑ बर्हिषᳶ प्रया॒जान् य॑जति । प्र॒जा वै ब॒र्हिः । प्र॒जा ए॒व मृ॒त्योरुत्सृ॑जति । आज्य॑भागौ यजति ॥62॥

य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति । प्रा॒ची॒ना॒वी॒ती सोमय्ँ॑यजति । पि॒तृ॒दे॒व॒त्या॑ हि । ए॒षाऽऽहु॑तिः । पञ्च॒कृत्वोऽव॑द्यति । पञ्च॒ ह्ये॑ता दे॒वताः॑ । द्वे पु॑रोऽनुवा॒क्ये॑ । या॒ज्या॑ दे॒वता॑ वषट्का॒रः । ता ए॒व प्री॑णाति । सन्त॑त॒मव॑द्यति ॥63॥

ऋ॒तू॒नाँ सन्त॑त्यै । प्रैवैभ्य॒ᳶ पूर्व॑या पुरोऽनुवा॒क्य॑याऽऽह । प्रण॑यति द्वि॒तीय॑या । ग॒मय॑ति या॒ज्य॑या । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । अह्न॑ ए॒वैना॒न्पूर्व॑या पुरोऽनुवा॒क्य॑या॒ऽत्यान॑यति । रात्रि॑यै द्वि॒तीय॑या । ऐवैना॑न्या॒ज्य॑या गमयति । द॒क्षि॒ण॒तो॑ऽव॒दाय॑ । उद॒ङ्ङति॑क्रामति॒ व्यावृ॑त्त्यै ॥64॥

आ स्व॒धेत्याश्रा॑वयति । अस्तु॑ स्व॒धेति॑ प्र॒त्याश्रा॑वयति । स्व॒धा नम॒ इति॒ वष॑ट्करोति । स्व॒धा॒का॒रो हि पि॑तृ॒णाम् । सोम॒मग्रे॑ यजति । सोम॑प्रयाजा॒ हि पि॒तरः॑ । सोम॑म्पितृ॒मन्तय्ँ॑यजति । सव्ँ॒व॒त्स॒रो वै सोम॑ᳶ पितृ॒मान् । सव्ँ॒व॒त्स॒रमे॒व तद्य॑जति । पि॒तॄन्ब॑र्हि॒षदो॑ यजति ॥65॥

ये वै यज्वा॑नः । ते पि॒तरो॑ बर्हि॒षदः॑ । ताने॒व तद्य॑जति । पि॒तॄन॑ग्निष्वा॒त्तान् य॑जति । ये वा अय॑ज्वानो गृहमे॒धिनः॑ । ते पि॒तरो॑ऽग्निष्वा॒त्ताः । ताने॒व तद्य॑जति । अ॒ग्निङ्क॑व्य॒वाह॑नय्यँजति । य ए॒व पि॑तृ॒णाम॒ग्निः । तमे॒व तद्य॑जति ॥66॥

अथो॒ यथा॒ऽग्नि स्वि॑ष्ट॒कृतय्ँ॒यज॑ति । ता॒दृगे॒व तत् । ए॒तत्ते॑ तत॒ ये च॒ त्वामन्विति॑ ति॒सृषु॑ स्र॒क्तीषु॒ निद॑धाति । तस्मा॒दा तृ॒तीया॒त्पुरु॑षा॒न्नाम॒ न गृ॑ह्णन्ति । ए॒ताव॑न्तो॒ हीज्यन्ते॑ । अत्र॑ पितरो यथाभा॒गम्म॑न्दध्व॒मित्या॑ह । ह्लीका॒ हि पि॒तरः॑ । उद॑ञ्चो॒ निष्क्रा॑मन्ति । ए॒षा वै म॑नु॒ष्या॑णा॒न्दिक् । स्वामे॒व तद्दिश॒मनु॒ निष्क्रा॑मन्ति ॥67॥

आ॒ह॒व॒नीय॒मुप॑तिष्ठन्ते । न्ये॑वास्मै॒ तद्ध्नु॑वते । यत्स॒त्या॑हव॒नीये॑ । अथा॒न्यत्र॒ चर॑न्ति । आतमि॑तो॒रुप॑तिष्ठन्ते । अ॒ग्निमे॒वोप॑द्र॒ष्टार॑ङ्कृ॒त्वा । पि॒तॄन्नि॒रव॑दयन्ते । अन्तव्ँ॒वा ए॒ते प्रा॒णाना॑ङ्गच्छन्ति । य आतमि॑तोरुप॒तिष्ठ॑न्ते । सु॒स॒न्दृश॑न्त्वा व॒यमित्या॑ह ॥68॥

प्रा॒णो वै सु॑स॒न्दृक् । प्रा॒णमे॒वात्मन्द॑धते । योजा॒ न्वि॑न्द्र ते॒ हरी॒ इत्या॑ह । प्रा॒णमे॒व पुन॑रयुक्त । अक्ष॒न्नमी॑मदन्त॒ हीति॒ गार्ह॑पत्य॒मुप॑तिष्ठन्ते । अक्ष॒न्नमी॑मद॒न्ताथ॒ त्वोप॑तिष्ठामह॒ इति॒ वावैतदा॑ह । अमी॑मदन्त पि॒तर॑स्सो॒म्या इत्य॒भिप्रप॑द्यन्ते । अमी॑मदन्त पि॒तरोऽथ॑ त्वा॒ऽभिप्रप॑द्यामह॒ इति॒ वावैतदा॑ह । अ॒पᳶ परि॑षिञ्चति । मा॒र्जय॑त्ये॒वैना॑न् ॥69॥

अथो॑ त॒र्पय॑त्ये॒व । तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । य ए॒वव्वेँद॑ । अप॑ बर्हिषावनूया॒जौ य॑जति । प्र॒जा वै ब॒र्हिः । प्र॒जा ए॒व मृ॒त्योरुत्सृ॑जति । च॒तुर॑ᳶ प्रया॒जान् य॑जति । द्वाव॑नूया॒जौ । षट्त्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । न पत्न्यन्वा॑स्ते । न सय्याँ॑जयन्ति । यत्पत्न्य॒न्वासी॑त । यत्सय्ँ॑या॒जये॑युः । प्र॒मायु॑का स्यात् । तस्मा॒न्नान्वा॑स्ते । न सय्याँ॑जयन्ति । पत्नि॑यै गोपी॒थाय॑ ॥70॥

होता॑र॒माज्य॑भागौ यजति॒ सन्त॑त॒मव॑द्यति॒ व्यावृ॑त्त्यै बऱ्हि॒षदो॑ यजति॒ तमे॒व तद्य॑ज॒त्यनु॒ निष्क्रा॑मन्त्याहैनानृ॒तवो॒ नव॑ च ॥ 9 ॥

प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न्निर्व॑पति । जा॒ता ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते । एक॒मति॑रिक्तम् । ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते । एक॑कपाला भवन्ति । ए॒क॒धैव रु॒द्रन्नि॒रव॑दयते । नाभिघा॑रयति । यद॑भिघा॒रये॑त् । अ॒न्त॒र॒व॒चा॒रिणँ॑ रु॒द्रङ्कु॑र्यात् । ए॒को॒ल्मु॒केन॑ यन्ति ॥ 71॥

तद्धि रु॒द्रस्य॑ भाग॒धेय॑म् । इ॒मान्दिशय्ँ॑यन्ति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते । रु॒द्रो वा अ॑प॒शुका॑या॒ आहु॑त्यै॒ नाति॑ष्ठत । अ॒सौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्यन्द्वि॒ष्यात् । यमे॒व द्वेष्टि॑ । तम॑स्मै प॒शुन्निर्दि॑शति । यदि॒ न द्वि॒ष्यात् । आ॒खुस्ते॑ प॒शुरिति॑ ब्रूयात् ॥ 72॥

न ग्रा॒म्यान्प॒शून् हि॒नस्ति॑ । नार॒ण्यान् । च॒तु॒ष्प॒थे जु॑होति । ए॒ष वा अ॑ग्नी॒नाम्पड्बी॑शो॒ नाम॑ । अ॒ग्नि॒वत्ये॒व जु॑होति । म॒ध्य॒मेन॑ प॒र्णेन॑ जुहोति । स्रुग्घ्ये॑षा । अथो॒ खलु॑ । अ॒न्त॒मेनै॒व हो॑त॒व्य॑म् । अ॒न्त॒त ए॒व रु॒द्रन्नि॒रव॑दयते ॥73॥

ए॒ष ते॑ रुद्र भा॒गस्स॒ह स्वस्राऽम्बि॑क॒येत्या॑ह । श॒रद्वा अ॒स्याम्बि॑का॒ स्वसा॑ । तया॒ वा ए॒ष हि॑नस्ति । यँ हि॒नस्ति॑ । तयै॒वैनँ॑ स॒ह श॑मयति । भे॒ष॒जङ्गव॒ इत्या॑ह । याव॑न्त ए॒व ग्रा॒म्याᳶ प॒शवः॑ । तेभ्यो॑ भेष॒जङ्क॑रोति । अवा॑म्ब रु॒द्रम॑दिम॒हीत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते ॥ 74॥

त्र्य॑म्बकय्यँजामह॒ इत्या॑ह । मृ॒त्योर्मु॑क्षीय॒ माऽमृता॒दिति॒ वावैतदा॑ह । उत्कि॑रन्ति । भग॑स्य लीप्सन्ते । मूते॑कृ॒त्वाऽऽस॑जन्ति । यथा॒ जनय्ँ॑य॒ते॑ऽव॒सङ्क॒रोति॑ । ता॒दृगे॒व तत् । ए॒ष ते॑ रुद्र भा॒ग इत्या॑ह नि॒रव॑त्त्यै । अप्र॑तीक्ष॒माय॑न्ति । अ॒पᳶ परि॑षिञ्चति । रु॒द्रस्या॒न्तर्हि॑त्यै । प्र वा ए॒ते॑ऽस्माल्लो॒काच्च्य॑वन्ते । ये त्र्य॑म्बकै॒श्चर॑न्ति । आ॒दि॒त्यञ्च॒रुम्पुन॒रेत्य॒ निर्व॑पति । इ॒यव्वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति ॥75॥

य॒न्ति॒ ब्रू॒या॒न्नि॒रव॑दयते शास्ते सिञ्चति॒ षट्च॑ ॥ 10 ॥

अनु॑मत्यै वैश्वदे॒वेन॒ तास्सृ॒ष्टास्त्रि॒वृत्प्र॒जाप॑तिस्सवि॒तोत्त॑रस्यान्देवासु॒रास्सो॑ऽग्निर्यत्पत्नी॑ वैश्वदे॒वेन॒ ता व॑रुणप्रघा॒सैर॒ग्नये॑ दे॒वेभ्य॑ᳶ प्रतिपूरु॒षन्दश॑ ॥ 10 ॥ अनु॑मत्यै प्रथम॒जो व॒त्सो ब॑हुरू॒पा हि प॒शव॒स्तस्मा॑त्पृथमा॒त्रय्यँद॒ग्नयेऽनी॑कवत उद्धा॒रव्वाँ अ॒ग्नये॑ दे॒वेभ्य॑ᳶ प्रतिपूरु॒षं पञ्च॑सप्ततिः ॥ 75 ॥ अनु॑मत्यै॒ प्रति॑तिष्ठन्ति ॥ हरिः॑ ओम् ॥ श्रीकृष्णार्पणमस्तु । तैत्तिरीयकृष्णयजुर्ब्राह्मणे प्रथमाष्टके षष्ठप्रपाठकस्समाप्तः ।