अ॒ग्नेᳶ कृत्ति॑काः । शु॒क्रम्प॒रस्ता॒ज्ज्योति॑र॒वस्ता॑त् । प्र॒जाप॑ते रोहि॒णी । आप॑ᳶ प॒रस्ता॒दोष॑धयो॒ऽवस्ता॑त् । सोम॑स्येन्व॒का वित॑तानि । प॒रस्ता॒द्वय॑न्तो॒ऽवस्ता॑त् । रु॒द्रस्य॑ बा॒हू । मृ॒ग॒यव॑ᳶ प॒रस्ता॑द्विक्षा॒रो॑ऽवस्ता॑त् । आदि॑त्यै॒ पुन॑र्वसू । वात॑ᳶ प॒रस्ता॑दा॒र्द्रम॒वस्ता॑त् ॥ 1 ॥

बृह॒स्पते॑स्ति॒ष्यः॑ । जुह्व॑तᳶ प॒रस्ता॒द्यज॑माना अ॒वस्ता॑त् । स॒र्पाणा॑माश्रे॒षाः । अ॒भ्या॒गच्छ॑न्तᳶ प॒रस्ता॑दभ्या॒नृत्य॑न्तो॒ऽवस्ता॑त् । पि॒तृ॒णाम्म॒घाः । रु॒दन्त॑ᳶ प॒रस्ता॑दपभ्रँ॒शो॑ऽवस्ता॑त् । अ॒र्य॒म्णᳶ पूर्वे॒ फल्गु॑नी । जा॒या प॒रस्ता॑दृष॒भो॑ऽवस्ता॑त् । भग॒स्योत्त॑रे । व॒ह॒तव॑ᳶप॒रस्ता॒द्वह॑माना अ॒वस्ता॑त् ॥ 2 ॥

दे॒वस्य॑ सवि॒तुर् हस्तः॑ । प्र॒स॒वᳶ प॒रस्ता॑त्स॒निर॒वस्ता॑त् । इन्द्र॑स्य चि॒त्रा । ऋ॒तम्प॒रस्ता॑त्स॒त्यम॒वस्ता॑त् । वा॒योर्निष्ट्या॑ व्र॒ततिः॑ । प॒रस्ता॒दसि॑द्धिर॒वस्ता॑त् । इ॒न्द्रा॒ग्नि॒योर्विशा॑खे । यु॒गानि॑ प॒रस्ता॑त्कृ॒षमा॑णा अ॒वस्ता॑त् । मि॒त्रस्या॑नूरा॒धाः । अ॒भ्या॒रोह॑त्प॒रस्ता॑द॒भ्यारू॑ढम॒वस्ता॑त् ॥3 ॥

इन्द्र॑स्य रोहि॒णी । शृ॒णत्प॒रस्ता॑त्प्रतिशृ॒णद॒वस्ता॑त् । निर्ऋ॑त्यै मूल॒वर्ह॑णी । प्र॒ति॒भ॒ञ्जन्त॑ᳶ प॒रस्ता॑त्प्रतिशृ॒णन्तो॒ऽवस्ता॑त् । अ॒पाम्पूर्वा॑ अषा॒ढाः । वर्च॑ᳶ प॒रस्ता॒त्समि॑तिर॒वस्ता॑त् । विश्वे॑षान्दे॒वाना॒मुत्त॑राः । अ॒भि॒जय॑त्प॒रस्ता॑द॒भिजि॑तम॒वस्ता॑त् । विष्णो॑श्श्रो॒णा पृ॒च्छमा॑नाः । प॒रस्ता॒त्पन्था॑ अ॒वस्ता॑त् ॥ 4 ॥

वसू॑नाँ॒ श्रवि॑ष्ठाः । भू॒तम्प॒रस्ता॒द्भूति॑र॒वस्ता॑त् । इन्द्र॑स्य श॒तभि॑षक् । वि॒श्वव्य॑चाᳶप॒रस्ता॑द्वि॒श्वक्षि॑तिर॒वस्ता॑त् । अ॒जस्यैक॑पद॒ᳶपूर्वे॑ प्रोष्ठप॒दाः । वै॒श्वा॒न॒रम्प॒रस्ता॑द्वैश्वावस॒वम॒वस्ता॑त् । अहे॑र्बु॒ध्निय॒स्योत्त॑रे । अ॒भि॒षि॒ञ्चन्त॑ᳶ प॒रस्ता॑दभिषु॒ण्वन्तो॒ऽवस्ता॑त् । पू॒ष्णो रे॒वती॑ । गाव॑ᳶप॒रस्ता॑द्व॒त्सा अ॒वस्ता॑त् । अ॒श्विनो॑रश्व॒युजौ॑ । ग्राम॑ᳶ प॒रस्ता॒त्सेना॒ऽवस्ता॑त् । य॒मस्या॑प॒भर॑णीः । अ॒प॒कर्ष॑न्तᳶ प॒रस्ता॑दप॒वह॑न्तो॒ऽवस्ता॑त् । पू॒र्णा प॒श्चाद्यत्ते॑ दे॒वा अद॑धुः ॥ 5 ॥

आ॒र्द्रम॒वस्ता॒द्वह॑माना अ॒वस्ता॑द॒भ्यारू॑ढम॒वस्ता॒त्पन्था॑ अ॒वस्ता॑द्व॒त्सा अ॒वस्ता॒त्पञ्च॑ च ॥ 1 ॥

यत्पुण्य॒न्नक्ष॑त्रम् । तद्बट्कु॑र्वीतोपव्यु॒षम् । य॒दा वै सूर्य॑ उ॒देति॑ । अथ॒ नक्ष॑त्र॒न्नैति॑ । याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त् । यत्र॑ जघ॒न्य॑म्पश्ये॑त् । ताव॑ति कुर्वीत यत्का॒री स्यात् । पु॒ण्या॒ह ए॒व कु॑रुते । ए॒वँ ह॒ वै य॒ज्ञेषु॑ञ्च श॒तद्यु॑म्नञ्च मा॒त्स्यो नि॑रवसाय॒याञ्च॑कार ॥ 6 ॥

यो वै न॑क्ष॒त्रिय॑म्प्र॒जाप॑तिव्ँ॒वेद॑ । उ॒भयो॑रेनल्लोँ॒कयो॑र्विदुः । हस्त॑ ए॒वास्य॒ हस्तः॑ । चि॒त्रा शिरः॑ । निष्ट्या॒ हृद॑यम् । ऊ॒रू विशा॑खे । प्र॒ति॒ष्ठाऽनू॑रा॒धाः । ए॒ष वै न॑क्ष॒त्रिय॑ᳶ प्र॒जाप॑तिः । य ए॒वव्वेँद॑ । उ॒भयो॑रेनल्लोँ॒कयो॑र्विदुः ॥ 7॥

अ॒स्मिश्चा॒मुष्मि॑श्च । याङ्का॒मये॑त दुहि॒तर॑म्प्रि॒या स्या॒दिति॑ । तान्निष्ट्या॑यान्दद्यात् । प्रि॒यैव भ॑वति । नेव॒ तु पुन॒रा ग॑च्छति । अ॒भि॒जिन्नाम॒ नक्ष॑त्रम् । उ॒परि॑ष्टादषा॒ढाना॑म् । अ॒वस्ता॑च्छ्रो॒णायै॑ । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन् । ते दे॒वास्तस्मि॒न्नक्ष॑त्रे॒ऽभ्य॑जयन्न् ॥ 8 ॥

यद॒भ्यज॑यन् । तद॑भि॒जितो॑ऽभिजि॒त्त्वम् । यङ्का॒मये॑तानपज॒य्यञ्ज॑ये॒दिति॑ । तमे॒तस्मि॒न्नक्ष॑त्रे यातयेत् । अ॒न॒प॒ज॒य्यमे॒व ज॑यति । पा॒पप॑राजितमिव॒ तु । प्र॒जाप॑तिᳶ प॒शून॑सृजत । ते नक्ष॑त्त्रन्नक्षत्त्र॒मुपा॑तिष्ठन्त । ते स॒माव॑न्त ए॒वाभ॑वन् । ते रे॒वती॒मुपा॑तिष्ठन्त ॥ 9 ॥

ते रे॒वत्या॒म्प्राभ॑वन् । तस्मा॑द्रे॒वत्या॑म्पशू॒नाङ्कु॑र्वीत । यत्किञ्चा॑र्वा॒चीनँ॒ सोमा॑त् । प्रैव भ॑वन्ति । स॒लि॒लव्वाँ इ॒दम॑न्त॒रासी॑त् । यदत॑रन् । तत्तार॑काणान्तारक॒त्वम् । यो वा इ॒ह यज॑ते । अ॒मुँ स लो॒कन्न॑क्षते । तन्नक्ष॑त्राणान्नक्षत्र॒त्वम् ॥ 10 ॥

दे॒व॒गृ॒हा वै नक्ष॑त्राणि । य ए॒वव्वेँद॑ । गृ॒ह्ये॑व भ॑वति । यानि॒ वा इ॒मानि॑ पृथि॒व्याश्चि॒त्राणि॑ । तानि॒ नक्ष॑त्राणि । तस्मा॑दश्ली॒लना॑म श्चि॒त्रे । नाव॑स्ये॒न्न य॑जेत । यथा॑ पापा॒हे कु॑रु॒ते । ता॒दृगे॒व तत् । दे॒व॒न॒क्ष॒त्राणि॒ वा अ॒न्यानि॑ ॥ 11 ॥

य॒म॒न॒क्ष॒त्राण्य॒न्यानि॑ । कृत्ति॑काᳶ प्रथ॒मम् । विशा॑खे उत्त॒मम् । तानि॑ देवनक्ष॒त्राणि॑ । अ॒नू॒रा॒धाᳶ प्र॑थ॒मम् । अ॒प॒भर॑णीरुत्त॒मम् । तानि॑ यमनक्ष॒त्राणि॑ । यानि॑ देवनक्ष॒त्राणि॑ । तानि॒ दक्षि॑णेन॒ परि॑यन्ति । यानि॑ यमनक्ष॒त्राणि॑ ॥ 12 ॥

तान्युत्त॑रेण । अन्वे॑षामरा॒त्स्मेति॑ । तद॑नूरा॒धाः । ज्ये॒ष्ठमे॑षामवधि॒ष्मेति॑ । तज्ज्ये॑ष्ठ॒घ्नी । मूल॑मेषावृक्षा॒मेति॑ । तन्मू॑ल॒वर्ह॑णी । यन्नास॑हन्त । तद॑षा॒ढाः । यदश्लो॑णत् ॥ 13 ॥

तच्छ्रो॒णा । यदशृ॑णोत् । तच्छ्रवि॑ष्ठाः । यच्छ॒तमभि॑षज्यन् । तच्छ॒तभि॑षक् । प्रो॒ष्ठ॒प॒देषूद॑यच्छन्त । रे॒वत्या॑मरवन्त । अ॒श्व॒युजो॑रयुञ्जत । अ॒प॒भर॑णी॒ष्वपा॑वहन् । तानि॒ वा ए॒तानि॑ यमनक्ष॒त्राणि॑ । यान्ये॒व दे॑वनक्ष॒त्राणि॑ । तेषु॑ कुर्वीत यत्का॒री स्यात् । पु॒ण्या॒ह ए॒व कु॑रुते ॥ 14 ॥

च॒का॒रै॒वव्वेँदो॒भयो॑रेनल्लोँ॒कयो॑र्विदुरजयन्रे॒वती॒मुपा॑तिष्ठन्त नक्षत्र॒त्वम॒न्यानि॒ यानि॑ यमनक्ष॒त्राण्यश्लो॑णद्यमनक्ष॒त्राणि॒ त्रीणि॑ च ॥ 2 ॥

दे॒वस्य॑ सवि॒तुᳶ प्रा॒तᳶ प्र॑स॒वᳶ प्रा॒णः । वरु॑णस्य सा॒यमा॑स॒वो॑ऽपा॒नः । यत्प्र॑ती॒चीन॑म्प्रात॒स्तना॑त् । प्रा॒चीनँ॑ सङ्ग॒वात् । ततो॑ दे॒वा अ॑ग्निष्टो॒मन्निर॑मिमत । तत्तदात्त॑वीर्यन्निर्मा॒र्गः । मि॒त्रस्य॑ सङ्ग॒वः । तत्पुण्य॑न्तेज॒स्व्यहः॑ । तस्मा॒त्तर्हि॑ प॒शव॑स्स॒माय॑न्ति । यत्प्र॑ती॒चीनँ॑ सङ्ग॒वात् ॥ 15 ॥

प्रा॒चीन॑म्म॒ध्यन्दि॑नात् । ततो॑ दे॒वा उ॒क्थ्य॑न्निर॑मिमत । तत्तदात्त॑वीर्यन्निर्मा॒र्गः । बृह॒स्पते॑र्म॒ध्यन्दि॑नः । तत्पुण्य॑न्तेज॒स्व्यहः॑ । तस्मा॒त्तर्हि॒ तेक्ष्णि॑ष्ठन्तपति । यत्प्र॑ती॒चीन॑म्म॒ध्यन्दि॑नात् । प्रा॒चीन॑मपरा॒ह्णात् । ततो॑ दे॒वाष्षो॑ड॒शिन॒न्निर॑मिमत । तत्तदात्त॑वीर्यन्निर्मा॒र्गः ॥ 16 ॥

भग॑स्यापरा॒ह्णः । तत्पुण्य॑न्तेज॒स्व्यहः॑ । तस्मा॑दपरा॒ह्णे कु॑मा॒र्यो॑ भग॑मि॒च्छमा॑नाश्चरन्ति । यत्प्र॑ती॒चीन॑मपरा॒ह्णात् । प्रा॒चीनँ॑ सा॒यात् । ततो॑ दे॒वा अ॑तिरा॒त्रन्निर॑मिमत । तत्तदात्त॑वीर्यन्निर्मा॒र्गः । वरु॑णस्य सा॒यम् । तत्पुण्य॑न्तेज॒स्व्यहः॑ । तस्मा॒त्तर्हि॒ नानृ॑तव्वँदेत् ॥ 17 ॥

ब्रा॒ह्म॒णो वा अ॑ष्टाविँ॒शो नक्ष॑त्राणाम् । स॒मा॒नस्याह्न॒ᳶ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राणि । च॒त्वार्य॑श्ली॒लानि॑ । तानि॒ नव॑ । यच्च॑ प॒रस्ता॒न्नक्ष॑त्राणाय्ँ॒यच्चा॒वस्ता॑त् । तान्येका॑दश । ब्रा॒ह्म॒णो द्वा॑द॒शः । य ए॒वव्विँ॒द्वान्त्सव्ँ॑वत्स॒रव्व्रँ॒तञ्चर॑ति । सव्ँ॒व॒त्स॒रेणै॒वास्य॑ व्र॒तङ्गु॒प्तम्भ॑वति । स॒मा॒नस्याह्न॒ᳶ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राणि । च॒त्वार्य॑श्ली॒लानि॑ । तानि॒ नव॑ । आ॒ग्ने॒यी रात्रिः॑ । ऐ॒न्द्रमहः॑ । तान्येका॑दश । आ॒दि॒त्यो द्वा॑द॒शः । य ए॒वव्विँ॒द्वान्त्सव्ँ॑वत्स॒रव्व्रँ॒तञ्चर॑ति । सव्ँ॒व॒त्स॒रेणै॒वास्य॑ व्र॒तङ्गु॒प्तम्भ॑वति ॥ 18 ॥

स॒ङ्ग॒वात्षो॑ड॒शिन॒न्निर॑मिमत॒ तत्तदात्त॑वीर्यन्निर्मा॒र्गो व॑देद्भवति समा॒नस्याह्न॒ᳶ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राण्य॒ष्टौ च॑ ॥ 3 ॥

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कति॒ पात्रा॑णि य॒ज्ञव्ँव॑ह॒न्तीति॑ । त्रयो॑द॒शेति॑ ब्रूयात् । स यद्ब्रू॒यात् । कस्तानि॒ निर॑मिमी॒तेति॑ । प्र॒जाप॑ति॒रिति॑ ब्रूयात् । स यद्ब्रू॒यात् । कुत॒स्तानि॒ निर॑मिमी॒तेति॑ । आ॒त्मन॒ इति॑ । प्रा॒णा॒पा॒नाभ्या॑मे॒वोपाँ॑श्वन्तर्या॒मौ निर॑मिमीत ॥ 19 ॥

व्या॒नादु॑पाँशु॒सव॑नम् । वा॒च ऐ॑न्द्रवाय॒वम् । द॒क्ष॒क्र॒तुभ्या॑म्मैत्रावरु॒णम् । श्रोत्रा॑दाश्वि॒नम् । चक्षु॑षश्शु॒क्राम॒न्थिनौ॑ । आ॒त्मन॑ आग्रय॒णम् । अङ्गे॑भ्य उ॒क्थ्य॑म् । आयु॑षो ध्रु॒वम् । प्र॒ति॒ष्ठाया॑ ऋतुपा॒त्रे । य॒ज्ञव्ँ वाव तम्प्र॒जाप॑ति॒र्निर॑मिमीत । स निर्मि॑तो॒ नाद्ध्रि॑यत॒ सम॑व्लीयत । स ए॒तान्प्र॒जाप॑तिरपिवा॒पान॑पश्यत् । तान्निर॑वपत् । तैर्वै स य॒ज्ञमप्य॑वपत् । यद॑पिवा॒पा भव॑न्ति । य॒ज्ञस्य॒ धृत्या॒ अस॑व्व्लँयाय ॥ 20 ॥

उ॒पाँ॒श्व॒न्त॒र्या॒मौ निर॑मिमीतामिमीत॒ षट्च॑ ॥ 4 ॥

ऋ॒तमे॒व प॑रमे॒ष्ठि । ऋ॒तन्नात्ये॑ति॒ किञ्च॒न । ऋ॒ते स॑मु॒द्र आहि॑तः । ऋ॒ते भूमि॑रि॒य श्रि॒ता । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । तप॒ आक्रा॑न्तमु॒ष्णिहा॑ । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना॑स्य॒ नि व॑र्तये । स॒त्येन॒ परि॑ वर्तये । तप॑सा॒ऽस्यानु॑ वर्तये । शि॒वेना॒स्योप॑ वर्तये । श॒ग्मेना॑स्या॒भि व॑र्तये । तदृ॒तन्तत्स॒त्यम् । तद्व्र॒तन्तच्छ॑केयम् । तेन॑ शकेय॒न्तेन॑ राध्यासम् ॥ 21 ॥

यद्घ॒र्मᳶ प॒र्यव॑र्तयत् । अन्ता॑न्पृथि॒व्या दि॒वः । अ॒ग्निरीशा॑न॒ ओज॑सा । वरु॑णो धी॒तिभि॑स्स॒ह । इन्द्रो॑ म॒रुद्भि॒स्सखि॑भिस्स॒ह । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । तप॒ आक्रा॑न्तमु॒ष्णिहा॑ । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना॑स्य॒ नि व॑र्तये । स॒त्येन॒ परि॑ वर्तये । तप॑सा॒ऽस्यानु॑ वर्तये । शि॒वेना॒स्योप॑ वर्तये । श॒ग्मेना॑स्या॒भि व॑र्तये । तदृ॒तन्तत्स॒त्यम् । तद्व्र॒तन्तच्छ॑केयम् । तेन॑ शकेय॒न्तेन॑ राध्यासम् ॥ 22 ॥

यो अ॒स्याᳶ पृ॑थि॒व्यास्त्व॒चि । नि॒व॒र्तय॒त्योष॑धीः । अ॒ग्निरीशा॑न॒ ओज॑सा । वरु॑णो धी॒तिभि॑स्स॒ह । इन्द्रो॑ म॒रुद्भि॒स्सखि॑भिस्स॒ह । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । तप॒ आक्रा॑न्तमु॒ष्णिहा॑ । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना॑स्य॒ नि व॑र्तये । स॒त्येन॒ परि॑ वर्तये । तप॑सा॒ऽस्यानु॑ वर्तये । शि॒वेना॒स्योप॑ वर्तये । श॒ग्मेना॑स्या॒भि व॑र्तये । तदृ॒तन्तत्स॒त्यम् । तद्व्र॒तन्तच्छ॑केयम् । तेन॑ शकेय॒न्तेन॑ राध्यासम् ॥ 23 ॥

एक॒म्मास॒मुद॑सृजत् । प॒र॒मे॒ष्ठी प्र॒जाभ्यः॑ । तेना॑भ्यो॒ मह॒ आव॑हत् । अ॒मृत॒म्मर्त्या॑भ्यः । प्र॒जामनु॒ प्र जा॑यसे । तदु॑ ते मर्त्या॒मृत॑म् । येन॒ मासा॑ अर्धमा॒साः । ऋ॒तव॑ᳶ परिवत्स॒राः । येन॒ ते ते॑ प्रजापते । ई॒जा॒नस्य॒ न्यव॑र्तयन् । तेना॒हम॒स्य ब्रह्म॑णा । निव॑र्तयामि जी॒वसे॑ । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । तप॒ आक्रा॑न्तमु॒ष्णिहा॑ । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना॑स्य॒ नि व॑र्तये । स॒त्येन॒ परि॑ वर्तये । तप॑सा॒ऽस्यानु॑ वर्तये । शि॒वेना॒स्योप॑ वर्तये । श॒ग्मेना॑स्या॒भि व॑र्तये । तदृ॒तन्तत्स॒त्यम् । तद्व्र॒तन्तच्छ॑केयम् । तेन॑ शकेय॒न्तेन॑ राध्यासम् ॥ 24 ॥

(परि॑वर्तये स॒हाभिव॑र्तय उ॒ष्णिहा॑ राध्यास॒न्न्यव॑र्तय॒न्नुप॑वर्तये च॒त्वारि॑ च) । ऋ॒तमे॒व षोड॑श । यद्घ॒र्मो यो अ॒स्याः सप्तद॑शसप्तदश । एकं॒ मासं॒ चतु॑र्विँशतिः ॥ 5 ॥

दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत । तदसु॑रा अकुर्वत । तेऽसु॑रा ऊ॒र्ध्वम्पृ॒ष्ठेभ्यो॒ नाप॑श्यन् । ते केशा॒नग्रे॑ऽवपन्त । अथ॒ श्मश्रू॑णि । अथो॑पप॒क्षौ । तत॒स्तेऽवा॑ञ्च आयन् । परा॑ऽभवन् । यस्यै॒वव्वँप॑न्ति । अवा॑ङेति ॥25॥

अथो॒ परै॒व भ॑वति । अथ॑ दे॒वा ऊ॒र्ध्वम्पृ॒ष्ठेभ्यो॑ऽपश्यन् । त उ॑पप॒क्षावग्रे॑ऽवपन्त । अथ॒ श्मश्रू॑णि । अथ॒ केशा॑न् । तत॒स्ते॑ऽभवन् । सु॒व॒र्गल्लोँ॒कमा॑यन् । यस्यै॒वव्वँप॑न्ति । भव॑त्या॒त्मना॑ । अथो॑ सुव॒र्गल्लोँ॒कमे॑ति ॥ 26 ॥

अथै॒तन्मनु॑र्व॒प्त्रे मि॑थु॒नम॑पश्यत् । स श्मश्रू॒ण्यग्रे॑ऽवपत । अथो॑पप॒क्षौ । अथ॒ केशा॑न् । ततो॒ वै स प्राजा॑यत प्र॒जया॑ प॒शुभिः॑ । यस्यै॒वव्वँप॑न्ति । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन् । ते सव्ँ॑वत्स॒रे व्याय॑च्छन्त । तान्दे॒वाश्चा॑तुर्मा॒स्यैरे॒वाभि प्रायु॑ञ्जत ॥ 27 ॥

वै॒श्व॒दे॒वेन॑ च॒तुरो॑ मा॒सो॑ऽवृञ्ज॒तेन्द्र॑राजानः । ताञ्छी॒र्षन्नि चाव॑र्तयन्त॒ परि॑ च । व॒रु॒ण॒प्र॒घा॒सैश्च॒तुरो॑ मा॒सो॑ऽवृञ्जत॒ वरु॑णराजानः । ताञ्छी॒र्षन्नि चाव॑र्तयन्त॒ परि॑ च । सा॒क॒मे॒धैश्च॒तुरो॑ मा॒सो॑ऽवृञ्जत॒ सोम॑राजानः । ताञ्छी॒र्षन्नि चाव॑र्तयन्त॒ परि॑ च । या सव्ँ॑वत्स॒र उ॑पजी॒वाऽऽसी॑त् । तामे॑षामवृञ्जत । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः ॥ 28 ॥

य ए॒वव्विँ॒द्वाँश्चा॑तुर्मा॒स्यैर्यज॑ते । भ्रातृ॑व्यस्यै॒व मा॒सो वृ॒क्त्वा । शी॒र्षन्नि च॑ व॒र्तय॑ते॒ परि॑ च । यैषा सव्ँ॑वत्स॒र उ॑पजी॒वा । वृ॒ङ्क्ते ताम्भ्रातृ॑व्यस्य । क्षु॒धाऽस्य॒ भ्रातृ॑व्य॒ᳶ परा॑ भवति । लो॒हि॒ता॒य॒सेन॒ नि व॑र्तयते । यद्वा इ॒माम॒ग्निर्ऋ॒तावाग॑ते निव॒र्तय॑ति । ए॒तदे॒वैनाँ॑ रू॒पङ्कृ॒त्वा निव॑र्तयति । सा तत॒श्श्वश्वो॒ भूय॑सी॒ भव॑न्त्येति ॥ 29 ॥

प्र जा॑यते । य ए॒वव्विँ॒द्वाल्लोँ॑हिताय॒सेन॑ निव॒र्तय॑ते । ए॒तदे॒व रू॒पङ्कृ॒त्वा नि व॑र्तयते । स तत॒श्श्वश्वो॒ भूया॒न्भव॑न्नेति । प्रैव जा॑यते । त्रे॒ण्या श॑ल॒ल्या नि व॑र्तयेत । त्रीणि॑त्रीणि॒ वै दे॒वाना॑मृ॒द्धानि॑ । त्रीणि॒ छन्दाँ॑सि । त्रीणि॒ सव॑नानि । त्रय॑ इ॒मे लो॒काः ॥ 30 ॥

ऋ॒ध्यामे॒व तद्वी॒र्य॑ ए॒षु लो॒केषु॒ प्रति॑ तिष्ठति । यच्चा॑तुर्मास्यया॒ज्या॑त्मनो॒ नाव॒द्येत् । दे॒वेभ्य॒ आवृ॑श्च्येत । च॒तृ॒षुच॑तृषु॒ मासे॑षु॒ नि व॑र्तयेत । प॒रोक्ष॑मे॒व तद्दे॒वेभ्य॑ आ॒त्मनोऽव॑द्य॒त्यना॑व्रस्काय । दे॒वानाव्ँ॒वा ए॒ष आनी॑तः । यश्चा॑तुर्मास्यया॒जी । य ए॒वव्विँ॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च । दे॒वता॑ ए॒वाप्ये॑ति । नास्य॑ रु॒द्रᳶ प्र॒जाम्प॒शून॒भि म॑न्यते ॥ 31 ॥

ए॒त्ये॒त्य॒यु॒ञ्ज॒तासु॑रा एति लो॒का म॑न्यते ॥ 6 ॥

आयु॑षᳶ प्रा॒णँ सन्त॑नु । प्रा॒णाद॑पा॒नँ सन्त॑नु । अ॒पा॒नाद्व्या॒नँ सन्त॑नु । व्या॒नाच्चक्षु॒स्सन्त॑नु । चक्षु॑ष॒श्श्रोत्रँ॒ सन्त॑नु । श्रोत्रा॒न्मन॒स्सन्त॑नु । मन॑सो॒ वाचँ॒ सन्त॑नु । वा॒च आ॒त्मानँ॒ सन्त॑नु । आ॒त्मन॑ᳶपृथि॒वीँ सन्त॑नु । पृ॒थि॒व्या अ॒न्तरि॑क्षँ॒ सन्त॑नु । अ॒न्तरि॑क्षा॒द्दिव॒ ँ॒सन्त॑नु । दिव॒स्सुव॒स्सन्त॑नु ॥ 32 ॥

अ॒न्तरि॑क्षँ॒ सन्त॑नु॒ द्वे च॑ ॥ 7 ॥

इन्द्रो॑ दधी॒चो अ॒स्थभिः॑ । वृ॒त्राण्यप्र॑तिष्कुतः । ज॒घान॑ नव॒तीर्नव॑ । इ॒च्छन्नश्व॑स्य॒ यच्छिरः॑ । पर्व॑ते॒ष्वप॑श्रितम् । तद्वि॑दच्छर्य॒णाव॑ति । अत्राह॒ गोरम॑न्वत । नाम॒ त्वष्टु॑रपी॒च्य॑म् । इ॒त्था च॒न्द्रम॑सो गृ॒हे । इन्द्र॒मिद्गा॒थिनो॑ बृ॒हत् ॥ 33 ॥

इन्द्र॑म॒र्केभि॑र॒र्किणः॑ । इन्द्रव्ँ॒वाणी॑रनूषत । इन्द्र॒ इद्धर्यो॒स्सचा॑ । सम्मि॑श्ल॒ आव॑चो॒ युजा॑ । इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ । इन्द्रो॑ दी॒र्घाय॒ चक्ष॑से । आ सूर्यँ॑ रोहयद्दि॒वि । वि गोभि॒रद्रि॑मैरयत् । इन्द्र॒ वाजे॑षु नो अव । स॒हस्र॑प्रधनेषु च ॥ 34 ॥

उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ । तमिन्द्रव्ँ॑वाजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑ वृष॒भो भु॑वत् । इन्द्र॒स्स दाम॑ने कृ॒तः । ओजि॑ष्ठ॒स्स बले॑ हि॒तः । द्यु॒म्नी श्लो॒की स सौ॒म्यः॑ । गि॒रा वज्रो॒ न सम्भृ॑तः । सब॑लो॒ अन॑पच्युतः । व॒व॒क्षुरु॒ग्रो अस्तृ॑तः ॥ 35 ॥

बृ॒हच्चास्तृ॑तः ॥ 8 ॥

दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन् । स प्र॒जाप॑ति॒रिन्द्र॑ञ्ज्ये॒ष्ठम्पु॒त्रमप॒ न्य॑धत्त । नेदे॑न॒मसु॑रा॒ बली॑याँसोऽहन॒न्निति॑ । प्र॒ह्रादो॑ ह॒ वै का॑याध॒वः । वि॒रोच॑न॒॒ स्वम्पु॒त्रमप॒ न्य॑धत्त । नेदे॑नन्दे॒वा अ॑हन॒न्निति॑ । ते दे॒वाᳶ प्र॒जाप॑तिमुपस॒मेत्यो॑चुः । नारा॒जक॑स्य यु॒द्धम॑स्ति । इन्द्र॒मन्वि॑च्छा॒मेति॑ । तय्यँ॑ज्ञक्र॒तुभि॒रन्वै॑च्छन्न् ॥ 36 ॥

तय्यँ॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दन् । तमिष्टि॑भि॒रन्वै॑च्छन् । तमिष्टि॑भि॒रन्व॑विन्दन् । तदिष्टी॑नामिष्टि॒त्वम् । एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य॒ इत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । तस्मा॑ ए॒तमा॑ग्नावैष्ण॒वमेका॑दशकपालन्दीक्ष॒णीय॒न्निर॑वपन् । तद॑प॒द्रुत्या॑तन्वत । तान्प॑त्नीसय्याँ॒जान्त॒ उपा॑नयन्न् ॥ 37 ॥

ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन् । ते प्रा॑य॒णीय॑म॒भि स॒मारो॑हन् । तद॑प॒द्रुत्या॑तन्वत । ताञ्छ॒य्य्वँ॑न्त॒ उपा॑नयन् । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन् । त आ॑ति॒थ्यम॒भि स॒मारो॑हन् । तद॑प॒द्रुत्या॑तन्वत । तानिडा॑न्त॒ उपा॑नयन् । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन् । तस्मा॑दे॒ता ए॒तद॑न्ता॒ इष्ट॑य॒स्सन्ति॑ष्ठन्ते ॥ 38 ॥

ए॒वँ हि दे॒वा अकु॑र्वत । इति॑ दे॒वा अ॑कुर्वत । इत्यु॒ वै म॑नु॒ष्याः॑ कुर्वते । ते दे॒वा ऊ॑चुः । यद्वा इ॒दमु॒च्चैर्य॒ज्ञेन॒ चरा॑म । तन्नोऽसु॑राᳶ पा॒प्माऽनु॑विन्दन्ति । उ॒पाँ॒शू॑प॒सदा॑ चराम । तथा॒ नोऽसु॑राᳶ पा॒प्मा नानु॑वेत्स्य॒न्तीति॑ । त उ॑पाँ॒शू॑प॒सद॑मतन्वत । ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ ॥ 39 ॥

स्रु॒वेणा॑घा॒रमा॒घार्य॑ । ति॒स्रᳶ परा॑ची॒राहु॑तीर् हु॒त्वा । स्रु॒वेणो॑प॒सद॑ञ्जुह॒वाञ्च॑क्रुः । उ॒ग्रव्वँचो॒ अपा॑वधीन्त्वे॒षव्वँचो॒ अपा॑वधीँ॒स्वाहेति॑ । अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रव्वँचः॑ । एन॑श्च॒ वैर॑हत्यञ्च त्वे॒षव्वँचः॑ । ए॒तँ ह॒ वाव तच्च॑तुर्धाविहि॒तम्पा॒प्मान॑न्दे॒वा अप॑जघ्निरे । तथो॑ ए॒वैतदे॑वव्ँ॒विद्यज॑मानः । ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ । स्रु॒वेणा॑घा॒रमा॒घार्य॑ ॥ 40 ॥

ति॒स्रᳶ परा॑ची॒राहु॑तीर्हु॒त्वा । स्रु॒वेणो॑प॒सद॑ञ्जुहोति । उ॒ग्रव्वँचो॒ अपा॑वधीन्त्वे॒षव्वँचो॒ अपा॑वधीँ॒ स्वाहेति॑ । अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रव्वँचः॑ । एन॑श्च॒ वैर॑हत्यञ्च त्वे॒षव्वँचः॑ । ए॒तमे॒व तच्च॑तुर्धाविहि॒तम्पा॒प्मानय्ँ॒यज॑मा॒नोऽप॑ हते । ते॑ऽभि॒नीयै॒वाह॑ᳶ प॒शुमाऽल॑भन्त । अह्न॑ ए॒व तद्दे॒वा अव॑र्तिम्पा॒प्मान॑म्मृ॒त्युमप॑जघ्निरे । तेना॑भि॒नीये॑व॒ रात्रे॒ᳶ प्राच॑रन् । रात्रि॑या ए॒व तद्दे॒वा अव॑र्तिम्पा॒प्मान॑म्मृ॒त्युमप॑जघ्निरे ॥ 41 ॥

तस्मा॑दभि॒नीयै॒वाह॑ᳶ प॒शुमा ल॑भेत । अह्न॑ ए॒व तद्यज॑मा॒नोऽव॑र्तिम्पा॒प्मान॒म्भ्रातृ॑व्या॒नप॑ नुदते । तेना॑भि॒नीये॑व॒ रात्रे॒ᳶ प्रच॑रेत् । रात्रि॑या ए॒व तद्यज॑मा॒नोऽव॑र्तिम्पा॒प्मान॒म्भ्रातृ॑व्या॒नप॑ नुदते । स ए॒ष उ॑पवस॒थीयेऽह॑न्द्विदेव॒त्य॑ᳶ प॒शुरा ल॑भ्यते । द्व॒यव्वाँ अ॒स्मिल्लोँ॒के यज॑मानः । अस्थि॑ च माँ॒सञ्च॑ । अस्थि॑ चै॒व तेन॑ माँ॒सञ्च॒ यज॑मान॒स्सस्कु॑रुते । ता वा ए॒ताᳶ पञ्च॑ दे॒वताः॑ । अ॒ग्नीषोमा॑व॒ग्निर्मि॒त्रावरु॑णौ ॥ 42 ॥

प॒ञ्च॒प॒ञ्ची वै यज॑मानः । त्वङ्माँ॒स स्नावाऽस्थि॑ म॒ज्जा । ए॒तमे॒व तत्प॑ञ्चधाविहि॒तमा॒त्मानव्ँ॑वरुणपा॒शान्मु॑ञ्चति । भे॒ष॒जता॑यै निर्वरुण॒त्वाय॑ । तँ स॒प्तभि॒श्छन्दो॑भिᳶ प्रा॒तर॑ह्वयन् । तस्मा॑त्स॒प्त च॑तुरुत्त॒राणि॒ छन्दाँ॑सि प्रातरनुवा॒केऽनू॑च्यन्ते । तमे॒तयो॑पस॒मेत्योपा॑सीदन् । उपा॑स्मै गायता नर॒ इति॑ । तस्मा॑दे॒तया॑ बहिष्पवमा॒न उ॑प॒सद्यः॑ ॥ 43 ॥

ऐ॒च्छ॒न्न॒न॒य॒॒स्ति॒ष्ठ॒न्ते॒ऽनूच्या॒नूच्य॑ स्रु॒वेणा॑घा॒रमा॒घार्य॒ रात्रि॑या ए॒व तद्दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जिघ्निरे मि॒त्रावरु॑णौ॒ नव॑ च ॥ 9 ॥ (दे॒वा यज॑मानो दे॒वा दे॒वा यज॑मानो॒ यज॑मानोऽलभन्त॒ प्राच॑रल्लँभेत॒ प्रच॑रे॒दाल॑भ॒न्ताल॑भेत मृ॒त्युमप॑जघ्निरे॒ भ्रातृ॑व्यान् ॥ )

स स॑मु॒द्र उ॑त्तर॒तᳶ प्राज्व॑लद्भूम्य॒न्तेन॑ । ए॒ष वाव स स॑मु॒द्रः । यच्चात्वा॑लः । ए॒ष उ॑वे॒व स भू॑म्य॒न्तः । यद्वे॑द्य॒न्तः । तदे॒तत्त्रि॑श॒लन्त्रि॑पूरु॒षम् । तस्मा॒त्तन्त्रि॑वित॒स्तङ्ख॑नन्ति । स सु॑वर्णरज॒ताभ्या॑ङ्कु॒शीभ्या॒म्परि॑गृहीत आसीत् । तय्यँद॒स्या अध्य॒जन॑यन् । तस्मा॑दादि॒त्यः ॥ 44 ॥

अथ॒ यत्सु॑वर्णरज॒ताभ्या॑ङ्कु॒शीभ्या॒म्परि॑गृहीत॒ आसी॑त् । साऽस्य॑ कौशि॒कता॑ । तन्त्रि॒वृता॒ऽभि प्रास्तु॑वत । तन्त्रि॒वृताऽद॑दत । तन्त्रि॒वृताऽह॑रन् । याव॑ती त्रि॒वृतो॒ मात्रा॑ । तम्प॑ञ्चद॒शेना॒भि प्रास्तु॑वत । तम्प॑ञ्चद॒शेनाद॑दत । तम्प॑ञ्चद॒शेनाह॑रन् । याव॑ती पञ्चद॒शस्य॒ मात्रा॑ ॥ 45 ॥

तँ स॑प्तद॒शेना॒भि प्रास्तु॑वत । तँ स॑प्तद॒शेनाद॑दत । तँ स॑प्तद॒शेनाह॑रन् । याव॑ती सप्तद॒शस्य॒ मात्रा॑ । तस्य॑ सप्तद॒शेन॑ ह्रि॒यमा॑णस्य॒ तेजो॒ हरो॑ऽपतत् । तमे॑कविँ॒शेना॒भि प्रास्तु॑वत । तमे॑कविँ॒शेनाद॑दत । तमे॑कविँ॒शेनाह॑रन् । याव॑त्येकविँ॒शस्य॒ मात्रा॑ । ते यत्त्रि॒वृता॑ स्तु॒वते॑ ॥ 46 ॥

त्रि॒वृतै॒व तद्यज॑मान॒माद॑दते । तन्त्रि॒वृतै॒व ह॑रन्ति । याव॑ती त्रि॒वृतो॒ मात्रा॑ । अ॒ग्निर्वै त्रि॒वृत् । याव॒द्वा अ॒ग्नेर्दह॑तो धू॒म उ॒देत्यानु॒ व्येति॑ । ताव॑ती त्रि॒वृतो॒ मात्रा॑ । अ॒ग्नेरे॒वैन॒न्तत् । मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ्गमयन्ति । अथ॒ यत्प॑ञ्चद॒शेन॑ स्तु॒वते॑ । प॒ञ्च॒द॒शेनै॒व तद्यज॑मान॒माद॑दते ॥ 47 ॥

तम्प॑ञ्चद॒शेनै॒व ह॑रन्ति । याव॑ती पञ्चद॒शस्य॒ मात्रा॑ । च॒न्द्रमा॒ वै प॑ञ्चद॒शः । ए॒ष हि प॑ञ्चद॒श्याम॑पक्षी॒यते॑ । प॒ञ्च॒द॒श्यामा॑पू॒र्यते॑ । च॒न्द्रम॑स ए॒वैन॒न्तत् । मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ्गमयन्ति । अथ॒ यत्स॑प्तद॒शेन॑ स्तु॒वते॑ । स॒प्त॒द॒शेनै॒व तद्यज॑मान॒माद॑दते । तँ स॑प्तद॒शेनै॒व ह॑रन्ति ॥ 48 ॥

याव॑ती सप्तद॒शस्य॒ मात्रा॑ । प्र॒जाप॑ति॒र्वै स॑प्तद॒शः । प्र॒जाप॑तेरे॒वैन॒न्तत् । मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ्गमयन्ति । अथ॒ यदे॑कविँ॒शेन॑ स्तु॒वते॑ । ए॒क॒विँ॒शेनै॒व तद्यज॑मान॒माद॑दते । तमे॑कविँ॒शेनै॒व ह॑रन्ति । याव॑त्येकविँ॒शस्य॒ मात्रा॑ । अ॒सौ वा आ॑दि॒त्य ए॑कविँ॒शः । आ॒दि॒त्यस्यै॒वैन॒न्तत् ॥ 49 ॥

मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ्गमयन्ति । ते कु॒श्यौ॑ । व्य॑घ्नन् । ते अ॑होरा॒त्रे अ॑भवताम् । अह॑रे॒व सु॒वर्णा॑ऽभवत् । र॒ज॒ता रात्रिः॑ । स यदा॑दि॒त्य उ॒देति॑ । ए॒तामे॒व तत्सु॒वर्णा॑ङ्कु॒शीमनु॒ समे॑ति । अथ॒ यद॑स्त॒मेति॑ । ए॒तामे॒व तद्र॑ज॒ताङ्कु॒शीमनु॒सव्विँ॑शति । प्र॒ह्रादो॑ ह॒ वै का॑याध॒वः । वि॒रोच॑न॒॒ स्वम्पु॒त्रमुदा॑स्यत् । स प्र॑द॒रो॑ऽभवत् । तस्मा॑त्प्रद॒रादु॑द॒कन्नाचा॑मेत् ॥ 50 ॥

आ॒दि॒त्यᳶ प॑ञ्चद॒शस्य॒ मात्रा॑ स्तु॒वते॑ पञ्चद॒शेनै॒व तद्यज॑मान॒माद॑दते सप्तद॒शेनै॒व ह॑रन्त्यादि॒त्यस्यै॒वैनं॒ तद्वि॑शति च॒त्वारि॑ च ॥ 10 ॥

ये वै च॒त्वार॒स्स्तोमाः॑ । कृ॒तन्तत् । अथ॒ ये पञ्च॑ । कलि॒स्सः । तस्मा॒च्चतु॑ष्टोमः । तच्चतु॑ष्टोमस्य चतुष्टोम॒त्वम् । तदा॑हुः । क॒त॒मानि॒ तानि॒ ज्योतीँ॑षि । य ए॒तस्य॒ स्तोमा॒ इति॑ । त्रि॒वृत्प॑ञ्चद॒शस्स॑प्तद॒श ए॑कविँ॒शः ॥ 51 ॥

ए॒तानि॒ वाव तानि॒ ज्योतीँ॑षि । य ए॒तस्य॒ स्तोमाः॑ । सो॑ऽब्रवीत् । स॒प्त॒द॒शेन॑ ह्रि॒यमा॑णो॒ व्य॑लेशिषि । भि॒षज्य॑त॒ मेति॑ । तम॒श्विनौ॑ धा॒नाभि॑रभिषज्यताम् । पू॒षा क॑र॒म्भेण॑ । भार॑ती परिवा॒पेण॑ । मि॒त्रावरु॑णौ पय॒स्य॑या । तदा॑हुः ॥ 52 ॥

यद॒श्विभ्या॑न्धा॒नाः । पू॒ष्णᳶ क॑र॒म्भः । भार॑त्यै परिवा॒पः । मि॒त्रावरु॑णयोᳶ पय॒स्याऽथ॑ । कस्मा॑दे॒तेषाँ॑ ह॒विषा॒मिन्द्र॑मे॒व य॑ज॒न्तीति॑ । ए॒ता ह्ये॑नन्दे॒वता॒ इति॑ ब्रूयात् । ए॒तैर्ह॒विर्भि॒रभि॑षज्य॒॒ स्तस्मा॒दिति॑ । तव्वँस॑वो॒ऽष्टाक॑पालेन प्रातस्सव॒ने॑ऽभिषज्यन् । रु॒द्रा एका॑दशकपालेन॒ माध्य॑न्दिने॒ सव॑ने । विश्वे॑ दे॒वा द्वाद॑शकपालेन तृतीयसव॒ने ॥ 53 ॥

स यद॒ष्टाक॑पालान्प्रातस्सव॒ने कु॒र्यात् । एका॑दशकपाला॒न्माध्य॑न्दिने॒ सव॑ने । द्वाद॑शकपालाँस्तृतीयसव॒ने । विलो॑म॒ तद्य॒ज्ञस्य॑ क्रियेत । एका॑दशकपालाने॒व प्रा॑तस्सव॒ने कु॑र्यात् । एका॑दशकपाला॒न्माध्य॑न्दिने॒ सव॑ने । एका॑दशकपालाँस्तृतीयसव॒ने । य॒ज्ञस्य॑ सलोम॒त्वाय॑ । तदा॑हुः । यद्वसू॑नाम्प्रातस्सव॒नम् । रु॒द्राणा॒म्माध्य॑न्दिनँ॒ सव॑नम् । विश्वे॑षान्दे॒वाना॑न्तृतीयसव॒नम् । अथ॒ कस्मा॑दे॒तेषाँ॑ ह॒विषा॒मिन्द्र॑मे॒व य॑ज॒न्तीति॑ । ए॒ता ह्ये॑नन्दे॒वता॒ इति॑ ब्रूयात् । ए॒तैर्ह॒विर्भि॒रभि॑षज्य॒॒ स्तस्मा॒दिति॑ ॥ 54 ॥

ए॒क॒विँ॒श आ॑हुस्तृतीयसव॒ने प्रा॑तस्सव॒नं पञ्च॑ च ॥ 11 ॥

तस्यावा॑चोऽवपा॒दाद॑बिभयुः । तमे॒तेषु॑ स॒प्तसु॒ छन्द॑स्स्वश्रयन् । यदश्र॑यन् । तच्छ्रा॑य॒न्तीय॑स्य श्रायन्तीय॒त्वम् । यदवा॑रयन् । तद्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम् । तस्यावा॑च ए॒वाव॑पा॒दाद॑बिभयुः । तस्मा॑ ए॒तानि॑ स॒प्त च॑तुरुत्त॒राणि॒ छन्दाँ॒स्युपा॑दधुः । तेषा॒मति॒ त्रीण्य॑रिच्यन्त । न त्रीण्युद॑भवन्न् ॥ 55 ॥

स बृ॑ह॒तीमे॒वास्पृ॑शत् । द्वाभ्या॑म॒क्षरा॑भ्याम् । अ॒हो॒रा॒त्राभ्या॑मे॒व । तदा॑हुः । क॒त॒मा सा दे॒वाक्ष॑रा बृह॒ती । यस्या॒न्तत्प्र॒त्यति॑ष्ठत् । द्वाद॑श पौर्णमा॒स्यः॑ । द्वाद॒शाष्ट॑काः । द्वाद॑शामावा॒स्याः॑ । ए॒षा वाव सा दे॒वाक्ष॑रा बृह॒ती ॥ 56 ॥

यस्या॒न्तत्प्र॒त्यति॑ष्ठ॒दिति॑ । यानि॑ च॒ छन्दाँ॑स्य॒त्यरि॑च्यन्त । यानि॑ च॒ नोदभ॑वन् । तानि॒ निर्वी॑र्याणि ही॒नान्य॑मन्यन्त । साऽब्र॑वीद्बृह॒ती । मामे॒व भू॒त्वा । मामुप॒ सश्र॑य॒तेति॑ । च॒तुर्भि॑र॒क्षरै॑रनु॒ष्टुग्बृ॑ह॒तीन्नोद॑भवत् । च॒तुर्भि॑र॒क्षरै॑ᳶ प॒ङ्क्तिर्बृ॑ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तानि॑ च॒त्वार्य॒क्षरा॑ण्यप॒च्छिद्या॑दधात् ॥ 57 ॥

ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् । अ॒ष्टा॒भिर॒क्षरै॑रु॒ष्णिग्बृ॑ह॒तीन्नोद॑भवत् । अ॒ष्टा॒भिर॒क्षरै॑स्त्रि॒ष्टुग्बृ॑ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तान्य॒ष्टाव॒क्षरा॑ण्यप॒च्छिद्या॑दधात् । ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् । द्वा॒द॒शभि॑र॒क्षरै॑र्गाय॒त्री बृ॑ह॒तीन्नोद॑भवत् । द्वा॒द॒शभि॑र॒क्षरै॒र्जग॑ती बृह॒तीमत्य॑रिच्यत । तस्या॑मे॒तानि॒ द्वाद॑शा॒क्षरा॑ण्यप॒च्छिद्या॑दधात् ॥ 58 ॥

ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् । सो॑ऽब्रवीत्प्र॒जाप॑तिः । छन्दाँ॑सि॒ रथो॑ मे भवत । यु॒ष्माभि॑र॒हमे॒तमध्वा॑न॒मनु॒ सञ्च॑रा॒णीति॑ । तस्य॑ गाय॒त्री च॒ जग॑ती च प॒क्षाव॑भवताम् । उ॒ष्णिक्च॑ त्रि॒ष्टुप्च॒ प्रष्ट्यौ॑ । अ॒नु॒ष्टुप्च॑ प॒ङ्क्तिश्च॒ धुर्यौ॑ । बृ॒ह॒त्ये॑वोद्धिर॑भवत् । स ए॒तञ्छ॑न्दोर॒थमा॒स्थाय॑ । ए॒तमध्वा॑न॒मनु॒ सम॑चरत् । ए॒तँ ह॒ वै छ॑न्दोर॒थमा॒स्थाय॑ । ए॒तमध्वा॑न॒मनु॒ सञ्च॑रति । येनै॒ष ए॒तत्स॒ञ्चर॑ति । य ए॒वव्विँ॒द्वान्त्सोमे॑न॒ यज॑ते । य उ॑ चैनमे॒वव्ँवेद॑ ॥ 59 ॥

अ॒भ॒व॒न्वाव सा दे॒वाक्ष॑रा बृह॒त्य॑दधा॒द्द्वाद॑शा॒क्षरा॑ण्यप॒च्छिद्या॑दधादा॒स्थाय॒ षट्च॑ ॥ 12 ॥

अ॒ग्नेᳶ कृत्ति॑का॒ यत्पुण्य॑न्दे॒वस्य॑ सवि॒तुर्ब्र॑ह्मवा॒दिन॒ᳶ कत्यृ॒तमे॒व दे॒वा वा आयु॑षᳶप्रा॒णमिन्द्रो॑ दधी॒चो दे॑वासु॒रास्स प्र॒जाप॑ति॒स्स स॑मु॒द्रो ये वै च॒त्वार॒स्तस्यावा॑चो॒ द्वाद॑श ॥ 12 ॥ अ॒ग्नेᳶ कृत्ति॑का देवगृ॒हा ऋ॒तमे॒वर्ध्यामे॒व ति॒स्रः परा॑ची॒र्ये वै च॒त्वारो॒ नव॑पञ्चा॒शत् ॥ 59 ॥ अ॒ग्नेᳶ कृत्ति॑का॒ य उ॑ चैनमे॒वव्वेँद॑ ॥ हरिः॑ ओम् ॥ श्रीकृष्णार्पणमस्तु ।