उ॒भये॒ वा ए॒ते प्र॒जाप॑ते॒रध्य॑सृज्यन्त । दे॒वाश्चासु॑राश्च । तान्न व्य॑जानात् । इ॒मे॑ऽन्य इ॒मे॑ऽन्य इति॑ । स दे॒वानँ॒शून॑करोत् । तान॒भ्य॑षुणोत् । तान्प॒वित्रे॑णापुनात् । तान्प॒रस्ता॑त्प॒वित्र॑स्य॒ व्य॑गृह्णात् । ते ग्रहा॑ अभवन् । तद्ग्रहा॑णाङ्ग्रह॒त्वम् ॥1॥
दे॒वता॒ वा ए॒ता यज॑मानस्य गृ॒हे गृ॑ह्यन्ते । यद्ग्रहाः॑ । वि॒दुरे॑नन्दे॒वाः । यस्यै॒वव्ँवि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते॑ । ए॒षा वै सोम॒स्याहु॑तिः । यदु॑पाँ॒शुः । सोमे॑न दे॒वाँस्त॑र्पया॒णीति॒ खलु॒ वै सोमे॑न यजते । यदु॑पाँ॒शुञ्जु॒होति॑ । सोमे॑नै॒व तद्दे॒वाँस्त॑र्पयति । यद्ग्रहा॑ञ्जु॒होति॑ ॥2॥
दे॒वा ए॒व तद्दे॒वान्ग॑च्छन्ति । यच्च॑म॒साञ्जु॒होति॑ । तेनै॒वानु॑रूपेण॒ यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति । किन्न्वे॑तदग्र॑ आसी॒दित्या॑हुः । यत्पात्रा॒णीति॑ । इ॒यव्ँवा ए॒तदग्र॑ आसीत् । मृ॒न्मया॑नि॒ वा ए॒तान्या॑सन् । तैर्दे॒वा न व्या॒वृत॑मगच्छन् । त ए॒तानि॑ दारु॒मया॑णि॒ पात्रा॑ण्यपश्यन् । तान्य॑कुर्वत ॥3॥
तैर्वै ते व्या॒वृत॑मगच्छन् । यद्दा॑रु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति । व्या॒वृत॑मे॒व तैर्यज॑मानो गच्छति । यानि॑ दारु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति । अ॒मुमे॒व तैर्लो॒कम॒भिज॑यति । यानि॑ मृ॒न्मया॑नि । इ॒ममे॒व तैर्लो॒कम॒भिज॑यति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । काश्चत॑स्रस्स्था॒लीर्वा॑य॒व्या॑स्सोम॒ग्रह॑णी॒रिति॑ । दे॒वा वै पृश्ञि॑मदुह्रन्न् ॥4॥
तस्या॑ ए॒ते स्तना॑ आसन् । इ॒यव्ँ वै पृश्ञिः॑ । तामा॑दि॒त्या आ॑दित्यस्था॒ल्या चतु॑ष्पदᳶ प॒शून॑दुह्रन् । यदा॑दित्यस्था॒ली भव॑ति । चतु॑ष्पद ए॒व तया॑ प॒शून् यज॑मान इ॒मान्दु॑हे । तामिन्द्र॑ उक्थ्यस्था॒ल्येन्द्रि॒यम॑दुहत् । यदु॑क्थ्यस्था॒ली भव॑ति । इ॒न्द्रि॒यमे॒व तया॒ यज॑मान इ॒मान्दु॑हे । ताव्ँविश्वे॑ दे॒वा आ॑ग्रयणस्था॒ल्योर्ज॑मदुह्रन् । यदा॑ग्रयणस्था॒ली भव॑ति ॥5॥
ऊर्ज॑मे॒व तया॒ यज॑मान इ॒मान्दु॑हे । ताम्म॑नु॒ष्या॑ ध्रुवस्था॒ल्याऽऽयु॑रदुह्रन् । यद्ध्रु॑वस्था॒ली भव॑ति । आयु॑रे॒व तया॒ यज॑मान इ॒मान्दु॑हे । स्था॒ल्या गृ॒ह्णाति॑ । वा॒य॒व्ये॑न जुहोति । तस्मा॑द॒न्येन॒ पात्रे॑ण प॒शून्दु॒हन्ति॑ । अ॒न्येन॒ प्रति॑गृह्णन्ति । अथो॑ व्या॒वृत॑मे॒व तद्यज॑मानो गच्छति ॥6॥
ग्र॒ह॒त्वं ग्रहा॑ञ्जु॒होत्य॑कुर्वतादुह्रन्नाग्रयणस्था॒ली भव॑ति॒ नव॑ च ॥ 1 ॥
यु॒वँ सु॒राम॑मश्विना । नमु॑चावासु॒रे सचा॑ । वि॒पि॒पा॒ना शु॑भस्पती । इन्द्र॒ङ्कर्म॑स्वावतम् । पु॒त्त्रमि॑व पि॒तरा॑व॒श्विनो॒भा । इन्द्राव॑त॒ङ्कर्म॑णा दँ॒सना॑भिः । यत्सु॒रामव्ँ॒व्यपि॑ब॒श्शची॑भिः । सर॑स्वती त्वा मघवन्नभीष्णात् । अहा॑व्यग्ने ह॒विरा॒स्ये॑ते । स्रु॒चीव॑ घृ॒तञ्च॒मू इ॑व॒ सोमः॑ ॥7॥
वा॒ज॒सनिँ॑ र॒यिम॒स्मे सु॒वीर॑म् । प्र॒श॒स्तन्धे॑हि य॒शस॑म्बृ॒हन्त॑म् । यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणः॑ । व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः । की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ । हृ॒दा म॒तिञ्ज॑नय॒ चारु॑म॒ग्नये॑ । नाना॒ हि वा॑न्दे॒वहि॑तँ॒ सदो॑ मि॒तम् । मा सँसृ॑क्षाथाम्पर॒मे व्यो॑मन् । सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः । मा मा॑ हिँसी॒स्स्वाय्ँयोनि॑मावि॒शन्न् ॥8॥
यदत्र॑ शि॒ष्टँ र॒सिन॑स्सु॒तस्य॑ । यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः । अ॒हन्तद॑स्य॒ मन॑सा शि॒वेन॑ । सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि । द्वे स्रु॒ती अ॑शृणवम्पितृ॒णाम् । अ॒हन्दे॒वाना॑मु॒त मर्त्या॑नाम् । ताभ्या॑मि॒दव्ँविश्व॒म्भुव॑नँ॒ समे॑ति । अ॒न्त॒रा पूर्व॒मप॑रञ्च के॒तुम् । यस्ते॑ देव वरुण गाय॒त्रछ॑न्दा॒ᳶ पाशः॑ । तन्त॑ ए॒तेनाव॑यजे ॥9॥
यस्ते॑ देव वरुण त्रि॒ष्टुप्छ॑न्दा॒ᳶ पाशः॑ । तन्त॑ ए॒तेनाव॑यजे । यस्ते॑ देव वरुण॒ जग॑तीछन्दा॒ᳶ पाशः॑ । तन्त॑ ए॒तेनाव॑यजे । सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते । यो राजा॒ सन्रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते । दे॒व॒सु॒वामे॒तानि॑ ह॒वीँषि॑ भवन्ति । ए॒ताव॑न्तो॒ वै दे॒वानाँ॑ स॒वाः । त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति । त ए॑न॒म्पुन॑स्सुवन्ते रा॒ज्याय॑ । दे॒व॒सू राजा॑ भवति ॥10॥
सोम॑ आवि॒शन् य॑जे रा॒ज्यायैकं॑ च ॥ 2 ॥
उद॑स्थाद्दे॒व्यदि॑तिर्विश्वरू॒पी । आयु॑र्य॒ज्ञप॑तावधात् । इन्द्रा॑य कृण्व॒ती भा॒गम् । मि॒त्राय॒ वरु॑णाय च । इ॒यव्ँ वा अ॑ग्निहो॒त्री । इ॒यव्ँवा ए॒तस्य॒ निषी॑दति । यस्या॑ग्निहो॒त्री नि॒षीद॑ति । तामुत्था॑पयेत् । उद॑स्थाद्दे॒व्यदि॑ति॒रिति॑ । इ॒यव्ँ वै दे॒व्यदि॑तिः ॥11॥
इ॒मामे॒वास्मा॒ उत्था॑पयति । आयु॑र्य॒ज्ञप॑तावधा॒दित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । इन्द्रा॑य कृण्व॒ती भा॒गम्मि॒त्राय॒ वरु॑णाय॒ चेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । अव॑र्तिव्ँ॒वा ए॒षैतस्य॑ पा॒प्मान॑म्प्रति॒ख्याय॒ निषी॑दति । यस्या॑ग्निहो॒त्र्युप॑सृष्टा नि॒षीद॑ति । तान्दु॒ग्ध्वा ब्रा॑ह्म॒णाय॑ दद्यात् । यस्यान्न॒न्नाद्यात् । अव॑र्तिमे॒वास्मि॑न्पा॒प्मान॒म्प्रति॑मुञ्चति ॥12॥
दु॒ग्ध्वा द॑दाति । न ह्यदृ॑ष्टा॒ दक्षि॑णा दी॒यते॑ । पृ॒थि॒वीव्ँवा ए॒तस्य॒ पय॒ᳶ प्रवि॑शति । यस्या॑ग्निहो॒त्रन्दु॒ह्यमा॑न॒॒ स्कन्द॑ति । यद॒द्य दु॒ग्धम्पृ॑थि॒वीमस॑क्त । यदोष॑धीर॒प्यस॑र॒द्यदापः॑ । पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ । पयो॑ व॒त्सेषु॒ पयो॑ अस्तु॒ तन्मयीत्या॑ह । पय॑ ए॒वात्मन्गृ॒हेषु॑ प॒शुषु॑ धत्ते । अ॒प उप॑सृजति ॥13॥
अ॒द्भिरे॒वैन॑दाप्नोति । यो वै य॒ज्ञस्यार्ते॒ नाना॑र्तँ सँसृ॒जति॑ । उ॒भे वै ते तर्ह्यार्च्छ॑तः । आर्च्छ॑ति॒ खलु॒ वा ए॒तद॑ग्निहो॒त्रम् । यद्दु॒ह्यमा॑न॒॒ स्कन्द॑ति । यद॑भिदु॒ह्यात् । आर्ते॒ नाना॑र्तय्ँ य॒ज्ञस्य॒ सँसृ॑जेत् । तदे॒व या॒दृक्की॒दृक्च॑ होत॒व्य॑म् । अथा॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् । अना॑र्तेनै॒वार्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति ॥14॥
यद्युद्द्रु॑तस्य॒ स्कन्दे॑त् । यत्ततोऽहु॑त्वा॒ पुन॑रे॒यात् । य॒ज्ञव्ँविच्छि॑न्द्यात् । यत्र॒ स्कन्दे॑त् । तन्नि॒षद्य॒ पुन॑र्गृह्णीयात् । यत्रै॒व स्कन्द॑ति । तत॑ ए॒वैन॒त्पुन॑र्गृह्णाति । तदे॒व या॒दृक्की॒दृक्च॑ होत॒व्य॑म् । अथा॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् । अना॑र्तेनै॒वार्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति ॥15॥
वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते । यस्या॑ग्निहो॒त्रे॑ऽधिश्रि॑ते॒ श्वाऽन्त॒रा धाव॑ति । रु॒द्रᳶ खलु॒ वा ए॒षः । यद॒ग्निः । यद्गाम॑न्वत्या व॒र्तये॑त् । रु॒द्राय॑ प॒शूनपि॑ दध्यात् । अ॒प॒शुर्यज॑मानस्स्यात् । यद॒पो॑ऽन्वतिषि॒ञ्चेत् । अ॒ना॒द्यम॒ग्नेरापः॑ । अ॒ना॒द्यमा॑भ्या॒मपि॑ दध्यात् । गार्ह॑पत्या॒द्भस्मा॒दाय॑ । इ॒दव्ँविष्णु॒र्विच॑क्रम॒ इति॑ वैष्ण॒व्यर्चाऽऽह॑व॒नीया॑द्ध्वँ॒सय॒न्नुद्र॑वेत् । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञेनै॒व य॒ज्ञँ सन्त॑नोति । भस्म॑ना प॒दमपि॑ वपति॒ शान्त्यै॑ ॥ 16॥
वै दे॒व्यदि॑तिर्मुञ्चति सृजति करोति करोत्याभ्या॒मपि॑ दध्या॒त् पञ्च॑ च ॥ 3 ॥
नि वा ए॒तस्या॑हव॒नीयो॒ गार्ह॑पत्यङ्कामयते । निगार्ह॑पत्य आहव॒नीय॑म् । यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभिनि॒म्रोच॑ति । द॒र्भेण॒ हिर॑ण्यम्प्र॒बद्ध्य॑ पु॒रस्ता॑द्धरेत् । अथा॒ग्निम् । अथा॑ग्निहो॒त्रम् । यद्धिर॑ण्यम्पु॒रस्ता॒द्धर॑ति । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒वैन॒म्पश्य॒न्नुद्ध॑रति । यद॒ग्निम्पूर्वँ॒ हर॒त्यथा॑ग्निहो॒त्रम् ॥17॥
भा॒ग॒धेये॑नै॒वैन॒म्प्रण॑यति । ब्रा॒ह्म॒ण आ॑र्षे॒य उद्ध॑रेत् । ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः॑ । सर्वा॑भिरे॒वैन॑न्दे॒वता॑भि॒रुद्ध॑रति । अ॒ग्नि॒हो॒त्रमु॑प॒साद्यातमि॑तोरासीत । व्र॒तमे॒व ह॒तमनु॑म्रियते । अन्तव्ँ॒वा ए॒ष आ॒त्मनो॑ गच्छति । यस्ताम्य॑ति । अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निमनु॑द्धृ॒तँ॒ सूर्यो॒ऽभिनि॒म्रोच॑ति ॥18॥
पुन॑स्स॒मन्य॑ जुहोति । अन्ते॑नै॒वान्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति । वरु॑णो॒ वा ए॒तस्य॑ य॒ज्ञङ्गृ॑ह्णाति । यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभिनि॒म्रोच॑ति । वा॒रु॒णञ्च॒रुन्निर्व॑पेत् । तेनै॒व य॒ज्ञन्निष्क्री॑णीते । नि वा ए॒तस्या॑हव॒नीयो॒ गार्ह॑पत्यङ्कामयते । नि गार्ह॑पत्य आहव॒नीय॑म् । यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभ्यु॑देति॑ । च॒तु॒र्गृ॒ही॒तमाज्य॑म्पु॒रस्ता॑द्धरेत् ॥19॥
अथा॒ग्निम् । अथा॑ग्निहो॒त्रम् । यदाज्य॑म्पु॒रस्ता॒द्धर॑ति । ए॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॑ । यदाज्य॑म् । प्रि॒येणै॒वैन॒न्धाम्ना॒ सम॑र्धयति । यद॒ग्निम्पूर्वँ॒ हर॒त्यथा॑ग्निहो॒त्रम् । भा॒ग॒धेये॑नै॒वैन॒म्प्रण॑यति । ब्रा॒ह्म॒ण आ॑र्षे॒य उद्ध॑रेत् । ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः॑ ॥20॥
सर्वा॑भिरे॒वैन॑न्दे॒वता॑भि॒रुद्ध॑रति । परा॑ची॒ वा ए॒तस्मै॑ व्यु॒च्छन्ती॒ व्यु॑च्छति । यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभ्यु॑देति॑ । उ॒षाᳶ के॒तुना॑ जुषताम् । य॒ज्ञन्दे॒वेभि॑रिन्वि॒तम् । दे॒वेभ्यो॒ मधु॑मत्तम॒॒ स्वाहेति॑ प्र॒त्यङ्नि॒षद्याज्ये॑न जुहुयात् । प्र॒तीची॑मे॒वास्मै॒ विवा॑सयति । अ॒ग्नि॒हो॒त्रमु॑प॒साद्यातमि॑तोरासीत । व्र॒तमे॒व ह॒तमनु॑ म्रियते । अन्तव्ँ॒वा ए॒ष आ॒त्मनो॑ गच्छति ॥21॥
यस्ताम्य॑ति । अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभ्यु॑देति॑ । पुन॑स्स॒मन्य॑ जुहोति । अन्ते॑नै॒वान्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति । मि॒त्रो वा ए॒तस्य॑ य॒ज्ञङ्गृ॑ह्णाति । यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभ्यु॑देति॑ । मै॒त्रञ्च॒रुन्निर्व॑पेत् । तेनै॒व य॒ज्ञन्निष्क्री॑णीते । यस्या॑हव॒नीयेऽनु॑द्वाते॒ गार्ह॑पत्य उ॒द्वाये॑त् ॥22॥
यदा॑हव॒नीय॒मनु॑द्वाप्य॒ गार्ह॑पत्य॒म्मन्थे॑त् । विच्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यद्वै य॒ज्ञस्य॑ वास्त॒व्य॑ङ्क्रि॒यते॑ । तदनु॑ रु॒द्रोऽव॑चरति । यत्पूर्व॑मन्वव॒स्येत् । वा॒स्त॒व्य॑म॒ग्निमुपा॑सीत । रु॒द्रो॑ऽस्य प॒शून्घातु॑कस्स्यात् । आ॒ह॒व॒नीय॑मु॒द्वाप्य॑ । गार्ह॑पत्यम्मन्थेत् ॥23॥
इ॒तᳶ प्र॑थ॒मञ्ज॑ज्ञे अ॒ग्निः । स्वाद्योने॒रधि॑ जा॒तवे॑दाः । स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या । दे॒वेभ्यो॑ ह॒व्यव्ँव॑हतु प्रजा॒नन्निति॑ । छन्दो॑भिरे॒वैन॒॒ स्वाद्योने॒ᳶ प्रज॑नयति । गार्ह॑पत्यम्मन्थति । गार्ह॑पत्यव्ँ॒ वा अन्वाहि॑ताग्नेᳶ प॒शव॒ उप॑ तिष्ठन्ते । स यदु॒द्वाय॑ति । तदनु॑ प॒शवोऽप॑ क्रामन्ति । इ॒षे र॒य्यै र॑मस्व ॥24॥
सह॑से द्यु॒म्नाय॑ । ऊ॒र्जेऽपत्या॒येत्या॑ह । प॒शवो॒ वै र॒यिः । प॒शूने॒वास्मै॑ रमयति । सा॒र॒स्व॒तौ त्वोत्सौ॒ समि॑न्धाता॒मित्या॑ह । ऋ॒क्सा॒मे वै सा॑रस्व॒तावुत्सौ॑ । ऋ॒क्सा॒माभ्या॑मे॒वैनँ॒ समि॑न्धे । स॒म्राड॑सि वि॒राड॒सीत्या॑ह । र॒थ॒न्त॒रव्ँ वै स॒म्राट् । बृ॒हद्वि॒राट् ॥25॥
ताभ्या॑मे॒वैनँ॒ समि॑न्धे । वज्रो॒ वै च॒क्रम् । वज्रो॒ वा ए॒तस्य॑ य॒ज्ञव्ँविच्छि॑नत्ति । यस्यानो॑ वा॒ रथो॑ वाऽन्त॒राऽग्नी याति॑ । आ॒ह॒व॒नीय॑मु॒द्वाप्य॑ । गार्ह॑पत्या॒दुद्ध॑रेत् । यद॑ग्ने॒ पूर्व॒म्प्रभृ॑तम्प॒दँ हि ते॑ । सूर्य॑स्य र॒श्मीनन्वा॑त॒तान॑ । तत्र॑ रयि॒ष्ठामनु॒ सम्भ॑रै॒तम् । सन्न॑स्सृज सुम॒त्या वाज॑व॒त्येति॑ ॥26॥
पूर्वे॑णै॒वास्य॑ य॒ज्ञेन॑ य॒ज्ञमनु॒ सन्त॑नोति । त्वम॑ग्ने स॒प्रथा॑ अ॒सीत्या॑ह । अ॒ग्निस्सर्वा॑ दे॒वताः॑ । दे॒वता॑भिरे॒व य॒ज्ञँ सन्त॑नोति । अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् । अ॒ग्निमे॒व प॑थि॒कृत॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति । स ए॒वैनय्ँ॑ य॒ज्ञिय॒म्पन्था॒मपि॑नयति । अ॒न॒ड्वान्दक्षि॑णा । व॒ही ह्ये॑ष समृ॑द्ध्यै ॥27॥
हर॒त्यथा॑ग्निहो॒त्रं नि॒म्रोच॑ति हरेद्दे॒वता॑ गच्छत्यु॒द्वाये॑न्मन्थेद्रमस्व बृ॒हद्वि॒राडिति॒ नव॑ च ॥ 4 ॥ (नि वै पूर्वं॒ त्रीणि॑ नि॒म्रोच॑ति द॒र्भेण॒ यद्धिर॑ण्यमग्निहो॒त्रं पुन॒र्वरु॑णो वारु॒णं नि वा ए॒तस्या॒भ्यु॑देति॑ चतुर्गृही॒तमाज्यं॒ यदाज्यं॒ परा॑च्यु॒षाᳶ पुन॑र्मि॒त्रो मै॒त्रं यस्या॑हव॒नीयेऽनु॑द्वाते॒ गाऱ्ह॑पत्यो॒ यद्वै म॑न्थे॒दुद्ध॑रेत् ॥ )
यस्य॑ प्रातस्सव॒ने सोमो॑ऽति॒रिच्य॑ते । माध्य॑न्दिनँ॒ सव॑नङ्का॒मय॑मानो॒ऽभ्यति॑रिच्यते । गौर्ध॑यति म॒रुता॒मिति॒ धय॑द्वतीषु कुर्वन्ति । हि॒नस्ति॒ वै स॒न्ध्यधी॑तम् । स॒न्धीव॒ खलु॒ वा ए॒तत् । यत्सव॑नस्याति॒रिच्य॑ते । यद्धय॑द्वतीषु कु॒र्वन्ति॑ । स॒न्धेश्शान्त्यै॑ । गा॒य॒त्रँ साम॑ भवति पञ्चद॒शस्स्तोमः॑ । तेनै॒व प्रा॑तस्सव॒नान्नय॑न्ति ॥28॥
म॒रुत्व॑तीषु कुर्वन्ति । तेनै॒व माध्य॑न्दिना॒त्सव॑ना॒न्नय॑न्ति । होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑ शँसति । म॒ध्य॒त ए॒व य॒ज्ञँ स॒माद॑धाति । यस्य॒ माध्य॑न्दिने॒ सव॑ने॒ सोमो॑ऽति॒रिच्य॑ते । आ॒दि॒त्यन्तृ॑तीयसव॒नङ्का॒मय॑मानो॒ऽभ्यति॑रिच्यते । गौ॒रि॒वी॒तँ साम॑ भवति । अति॑रिक्तव्ँ॒ वै गौ॑रिवी॒तम् । अति॑रिक्तय्ँ॒यत्सव॑नस्याति॒रिच्य॑ते ॥29॥
अति॑रिक्तस्य॒ शान्त्यै॑ । बण्म॒हाँ अ॑सि सू॒र्येति॑ कुर्वन्ति । यस्यै॒वादि॒त्यस्य॒ सव॑नस्य॒ कामे॑नाति॒रिच्य॑ते । तेनै॒वैन॒ङ्कामे॑न॒ सम॑र्धयन्ति । गौ॒रि॒वी॒तँ साम॑ भवति । तेनै॒व माध्य॑न्दिना॒त्सव॑ना॒न्नय॑न्ति । स॒प्त॒द॒शस्स्तोमः॑ । तेनै॒व तृ॑तीयसव॒नान्नय॑न्ति । होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑ शँसति ॥30॥
म॒ध्य॒त ए॒व य॒ज्ञँ स॒माद॑धाति । यस्य॑ तृतीयसव॒ने सोमो॑ऽति॒रिच्ये॑त । उ॒क्थ्य॑ङ्कुर्वीत । यस्यो॒क्थ्ये॑ऽति॒रिच्ये॑त । अ॒ति॒रा॒त्रङ्कु॑र्वीत । यस्या॑तिरा॒त्रे॑ऽति॒रिच्य॑ते । तत्त्वै दु॑ष्प्रज्ञा॒नम् । यज॑मानव्ँ॒वा ए॒तत्प॒शव॑ आ॒साह्य॑यन्ति । बृ॒हत्साम॑ भवति । बृ॒हद्वा इ॒माल्लोँ॒कान्दा॑धार । बार्ह॑ताᳶ प॒शवः॑ । बृ॒ह॒तैवास्मै॑ प॒शून्दा॑धार । शि॒पि॒वि॒ष्टव॑तीषु कुर्वन्ति । शि॒पि॒वि॒ष्टो वै दे॒वाना॑म्पु॒ष्टम् । पुष्ट्यै॒वैनँ॒ सम॑र्धयन्ति । होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑शँसति । म॒ध्य॒त ए॒व य॒ज्ञँ स॒माद॑धाति ॥31॥
य॒न्ति॒ सव॑नस्याति॒रिच्य॑ते शँसति दाधारा॒ष्टौ च॑ ॥ 5 ॥
एकै॑को॒ वै ज॒नता॑या॒मिन्द्रः॑ । एकव्ँ॒वा ए॒ताविन्द्र॑म॒भि सँसु॑नुतः । यौ द्वौ सँ॑ सुनु॒तः । प्र॒जाप॑ति॒र्वा ए॒ष विता॑यते । यद्य॒ज्ञः । तस्य॒ ग्रावा॑णो॒ दन्ताः॑ । अ॒न्य॒त॒रव्ँवा ए॒ते सँ॑सुन्व॒तोर्निर्ब॑प्सति । पूर्वे॑णोप॒सृत्या॑ दे॒वता॒ इत्या॑हुः । पू॒र्वो॒प॒सृ॒तस्य॒ वै श्रेया॑न्भवति । एति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै ॥32॥
म॒रुत्व॑तीᳶ प्रति॒पदः॑ । म॒रुतो॒ वै दे॒वाना॒मप॑राजितमा॒यत॑नम् । दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने यतते । उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः । इ॒यव्ँ वाव र॑थन्त॒रम् । अ॒सौ बृ॒हत् । आ॒भ्यामे॒वैन॑म॒न्तरे॑ति । वा॒चश्च॒ मन॑सश्च । प्रा॒णाच्चा॑पा॒नाच्च॑ । दि॒वश्च॑ पृथि॒व्याश्च॑ ॥33॥
सर्व॑स्माद्वि॒त्ताद्वेद्या॑त् । अ॒भि॒व॒र्तो ब्र॑ह्मसा॒मम्भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्यै । अ॒भि॒जिद्भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । वि॒श्व॒जिद्भ॑वति । विश्व॑स्य॒ जित्यै॑ । यस्य॒ भूयाँ॑सो यज्ञक्र॒तव॒ इत्या॑हुः । स दे॒वता॑ वृङ्क्त॒ इति॑ । यद्य॑ग्निष्टो॒मस्सोम॑ᳶ प॒रस्ता॒त्स्यात् ॥34॥
उ॒क्थ्य॑ङ्कुर्वीत । यद्यु॒क्थ्य॑स्स्यात् । अ॒ति॒रा॒त्रङ्कु॑र्वीत । य॒ज्ञ॒क्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते । यो वै छन्दो॑भिरभि॒भव॑ति । स सँ॑सुन्व॒तोर॒भिभ॑वति । सव्ँ॒वे॒शाय॑ त्वोपवे॒शाय॒ त्वेत्या॑ह । छन्दाँ॑सि॒ वै सव्ँ॑वे॒श उ॑पवे॒शः । छन्दो॑भिरे॒वास्य॒ छन्दाँ॑स्य॒भिभ॑वति । इ॒ष्टर्गो॒ वा ऋ॒त्विजा॑मध्व॒र्युः ॥35 ॥
इ॒ष्टर्ग॒ᳶ खलु॒ वै पूर्वो॒ऽर्ष्टुः क्षी॑यते । प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒मित्या॑ह । प्रा॒णा॒पा॒नयो॑रे॒व श्र॑यते । प्राणा॑पानौ॒ मा मा॑हासिष्ट॒मित्या॑ह । नैन॑म्पु॒राऽऽयु॑षᳶ प्राणापा॒नौ ज॑हितः । आर्तिव्ँ॒वा ए॒ते निय॑न्ति । येषा॑न्दीक्षि॒ताना॑म्प्र॒मीय॑ते । तय्ँयद॑व॒वर्जे॑युः । क्रू॒र॒कृता॑मिवैषाल्ँ लो॒कस्स्या॑त् । आह॑र द॒हेति॑ ब्रूयात् ॥36॥
तन्द॑क्षिण॒तो वेद्यै॑ नि॒धाय॑ । स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॑युः । इ॒यव्ँ वै सर्प॑तो॒ राज्ञी॑ । अ॒स्या ए॒वैन॒म्परि॑ददति । व्यृ॑द्ध॒न्तदित्या॑हुः । यत्स्तु॒तमन॑नुशस्त॒मिति॑ । होता॑ प्रथ॒मᳶ प्रा॑चीनावी॒ती मा॑र्जा॒लीय॒म्परी॑यात् । या॒मीर॑नुब्रु॒वन् । स॒र्प॒रा॒ज्ञीना॑ङ्कीर्तयेत् । उ॒भयो॑रे॒वैनल्ँ॑ लो॒कयो॒ᳶ परि॑ददति ॥37॥
अथो॑ धु॒वन्त्ये॒वैन॑म् । अथो॒ न्ये॑वास्मै॑ ह्नुवते । त्रिᳶ परि॑यन्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॑ धुवते । त्रिᳶ पुन॒ᳶपरि॑यन्ति । षट्त्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैन॑न्धुवते । अग्न॒ आयूँ॑षि पवस॒ इति॑ प्रति॒पद॑ङ्कुर्वीरन् । र॒थ॒न्त॒रसा॑मैषाँ॒ सोम॑स्स्यात् । आयु॑रे॒वात्मन्द॑धते । अथो॑ पा॒प्मान॑मे॒व वि॒जह॑तो यन्ति ॥38॥
अ॒भिजि॑त्यै पृथि॒व्याश्च॒ स्याद॑ध्व॒र्युर्ब्रू॑याल्लो॒कयो॒ᳶ परि॑ददति कुर्वीर॒॒स्त्रीणि॑ च ॥ 6 ॥
अ॒सु॒र्यव्ँ॑वा ए॒तस्मा॒द्वर्ण॑ङ्कृ॒त्वा । प॒शवो॑ वी॒र्य॑मप॑ क्रामन्ति । यस्य॒ यूपो॑ वि॒रोह॑ति । त्वा॒ष्ट्रम्ब॑हुरू॒पमाल॑भेत । त्वष्टा॒ वै रू॒पाणा॑मीशे । य ए॒व रू॒पाणा॒मीशे॑ । सो॑ऽस्मिन्प॒शून्वी॒र्यय्ँ॑यच्छति । नास्मा॑त्प॒शवो॑ वी॒र्य॑मप॑ क्रामन्ति । आर्तिव्ँ॒वा ए॒ते निय॑न्ति । येषा॑न्दीक्षि॒ताना॑म॒ग्निरु॒द्वाय॑ति ॥ 39॥
यदा॑हव॒नीय॑ उ॒द्वाये॑त् । यत्तम्मन्थे॑त् । विच्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यदा॑हव॒नीय॑ उ॒द्वाये॑त् । आग्नी॑द्ध्रा॒दुद्ध॑रेत् । यदाग्नी॑द्ध्र उ॒द्वाये॑त् । गार्ह॑पत्या॒दुद्ध॑रेत् । यद्गार्ह॑पत्य उ॒द्वाये॑त् । अत॑ ए॒व पुन॑र्मन्थेत् ॥40॥
अत्र॒ वाव स निल॑यते । यत्र॒ खलु॒ वै निली॑नमुत्त॒मम्पश्य॑न्ति । तदे॑नमिच्छन्ति । यस्मा॒द्दारो॑रु॒द्वाये॑त् । तस्या॒रणी॑ कुर्यात् । क्रु॒मु॒कमपि॑ कुर्यात् । ए॒षा वा अ॒ग्नेᳶ प्रि॒या त॒नूः । यत्क्रु॑मु॒कः । प्रि॒ययै॒वैन॑न्त॒नुवा॒ सम॑र्धयति । गार्ह॑पत्यम्मन्थति ॥ 41 ॥
गार्ह॑पत्यो॒ वा अ॒ग्नेर्योनिः॑ । स्वादे॒वैनय्ँ॒योने॑र्जनयति । नास्मै॒ भ्रातृ॑व्यञ्जनयति । यस्य॒ सोम॑ उप॒दस्ये॑त् । सु॒वर्णँ॒ हिर॑ण्यन्द्वे॒धा वि॒च्छिद्य॑ । ऋ॒जी॒षे॑ऽन्यदा॑धूनु॒यात् । जु॒हु॒याद॒न्यत् । सोम॑मे॒वाभि॑षु॒णोति॑ । सोम॑ञ्जुहोति । सोम॑स्य॒ वा अ॑भिषू॒यमा॑णस्य प्रि॒या त॒नूरुद॑क्रामत् ॥ 42॥
तत्सु॒वर्णँ॒ हिर॑ण्यमभवत् । यत्सु॒वर्णँ॒ हिर॑ण्यङ्कु॒र्वन्ति॑ । प्रि॒ययै॒वैन॑न्त॒नुवा॒ सम॑र्धयन्ति । यस्याक्री॑तँ॒ सोम॑मप॒हरे॑युः । क्री॒णी॒यादे॒व । सैव तत॒ᳶ प्राय॑श्चित्तिः । यस्य॑ क्री॒तम॑प॒हरे॑युः । आ॒दा॒राँश्च॑ फाल्गु॒नानि॑ चा॒भिषु॑णुयात् । गा॒य॒त्री यँ सोम॒माह॑रत् । तस्य॒ योऽँ॑शुᳶ प॒राऽप॑तत् ॥43॥
त आ॑दा॒रा अ॑भवन् । इन्द्रो॑ वृ॒त्रम॑हन् । तस्य॑ व॒ल्कᳶ परा॑ऽपतत् । तानि॑ फाल्गु॒नान्य॑भवन् । प॒शवो॒ वै फा॑ल्गु॒नानि॑ । प॒शव॒स्सोमो॒ राजा॑ । यदा॑दा॒राँश्च॑ फाल्गु॒नानि॑ चाभिषु॒णोति॑ । सोम॑मे॒व राजा॑नम॒भिषु॑णोति । शृ॒तेन॑ प्रातस्सव॒ने श्री॑णीयात् । द॒ध्ना म॒ध्यन्दि॑ने ॥44॥
नी॒त॒मि॒श्रेण॑ तृतीयसव॒ने । अ॒ग्नि॒ष्टो॒मस्सोम॑स्स्याद्रथन्त॒रसा॑मा । य ए॒वर्त्विजो॑ वृ॒तास्स्युः । त ए॑नय्याँजयेयुः । एका॒ङ्गान्दक्षि॑णान्दद्या॒त्तेभ्य॑ ए॒व । पुन॒स्सोम॑ङ्क्रीणीयात् । य॒ज्ञेनै॒व तद्य॒ज्ञमि॑च्छति । सैव तत॒ᳶ प्राय॑श्चित्तिः । सर्वा॑भ्यो॒ वा ए॒ष दे॒वता॑भ्य॒स्सर्वे॑भ्यᳶ पृ॒ष्ठेभ्य॑ आ॒त्मान॒मागु॑रते । यस्स॒त्त्राया॑गु॒रते॑ । ए॒तावा॒न्खलु॒ वै पुरु॑षः । याव॑दस्य वि॒त्तम् । स॒र्व॒वे॒द॒सेन॑ यजेत । सर्व॑पृष्ठोऽस्य॒ सोम॑स्स्यात् । सर्वा॑भ्य ए॒व दे॒वता॑भ्य॒स्सर्वे॑भ्यᳶ पृ॒ष्ठेभ्य॑ आ॒त्मान॒न्निष्क्री॑णीते ॥ 45 ॥
उ॒द्वाय॑ति मन्थेन्मन्थत्यक्रामत्प॒राऽप॑तन्म॒ध्यन्दि॑न आगु॒रते॒ पञ्च॑ च ॥ 7 ॥
पव॑मान॒स्सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्षणिः । यᳶ पोता॒ स पु॑नातु मा । पु॒नन्तु॑ मा देवज॒नाः । पु॒नन्तु॒ मन॑वो धि॒या । पु॒नन्तु॒ विश्व॑ आ॒यवः॑ । जात॑वेदᳶ प॒वित्र॑वत् । प॒वित्रे॑ण पुनाहि मा । शु॒क्रेण॑ देव॒ दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतूँ॒ रनु॑ ॥46॥
यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । अग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनीमहे । उ॒भाभ्या॑न्देव सवितः । प॒वित्रे॑ण स॒वेन॑ च । इ॒दम्ब्रह्म॑ पुनीमहे । वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॑त् । यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः । तया॒ मद॑न्तस्सध॒माद्ये॑षु । व॒य स्या॑म॒ पत॑यो रयी॒णाम् ॥47॥
वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु । वात॑ᳶ प्रा॒णेने॑षि॒रो म॑यो॒भूः । द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः । ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् । बृ॒हद्भि॑स्सवित॒स्तृभिः॑ । वर्षि॑ष्ठैर्देव॒ मन्म॑भिः । अग्ने॒ दक्षै॑ᳶ पुनाहि मा । येन॑ दे॒वा अपु॑नत । येनापो॑ दि॒व्यङ्कशः॑ । तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥48॥
इ॒दम्ब्रह्म॑ पुनीमहे । यᳶ पा॑वमा॒नीर॒ध्येति॑ । ऋषि॑भि॒स्सम्भृ॑तँ॒ रस॑म् । सर्वँ॒ स पू॒तम॑श्ञाति । स्व॒दि॒तम्मा॑त॒रिश्व॑ना । पा॒व॒मा॒नीर्यो अ॒ध्येति॑ । ऋषि॑भि॒स्सम्भृ॑तँ॒ रस॑म् । तस्मै॒ सर॑स्वती दुहे । क्षी॒रँ स॒र्पिर्मधू॑द॒कम् । पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः ॥49॥
सु॒दुघा॒ हि पय॑स्वतीः । ऋषि॑भि॒स्सम्भृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतँ॑ हि॒तम् । पा॒व॒मा॒नीर्दि॑शन्तु नः । इ॒मल्लोँ॒कमथो॑ अ॒मुम् । कामा॒न्त्सम॑र्धयन्तु नः । दे॒वीर्दे॒वैस्स॒माभृ॑ताः । पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः । सु॒दुघा॒ हि घृ॑त॒श्चुतः॑ । ऋषि॑भि॒स्सम्भृ॑तो॒ रसः॑ ॥50॥
ब्रा॒ह्म॒णेष्व॒मृतँ॑ हि॒तम् । येन॑ दे॒वाᳶ प॒वित्रे॑ण । आ॒त्मान॑म्पु॒नते॒ सदा॑ । तेन॑ स॒हस्र॑धारेण । पा॒व॒मा॒न्यᳶ पु॑नन्तु मा । प्रा॒जा॒प॒त्यम्प॒वित्र॑म् । श॒तोद्या॑मँ हिर॒ण्मय॑म् । तेन॑ ब्रह्म॒विदो॑ व॒यम् । पू॒तम्ब्रह्म॑ पुनीमहे । इन्द्र॑स्सुनी॒ती स॒ह मा॑ पुनातु । सोम॑स्स्व॒स्त्या वरु॑णस्स॒मीच्या॑ । य॒मो राजा॑ प्रमृ॒णाभि॑ᳶ पुनातु मा । जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु ॥51॥
अनु॑ रयी॒णां ब्रह्म॑णा स्व॒स्त्यय॑नीस्सु॒दुघा॒ हि घृ॑त॒श्चुत॒ ऋषि॑भि॒स्सम्भृ॑तो॒ रस॑ᳶ पुनातु॒ त्रीणि॑ च ॥ 8 ॥
प्र॒जा वै स॒त्रमा॑सत॒ तप॒स्तप्य॑माना॒ अजु॑ह्वतीः । दे॒वा अ॑पश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धाम् । तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेना॑र्धमा॒स ऊर्ज॒मवा॑रुन्धत । तस्मा॑दर्धमा॒से दे॒वा इ॑ज्यन्ते । पि॒तरो॑ऽपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धाम् । तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेन॑ मा॒स्यूर्ज॒मवा॑रुन्धत । तस्मा॑न्मा॒सि पि॒तृभ्य॑ᳶ क्रियते । म॒नु॒ष्या॑ अपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धाम् ॥52॥
तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेन॑ द्व॒यीमूर्ज॒मवा॑रुन्धत । तस्मा॒द्द्विरह्नो॑ मनु॒ष्ये॑भ्य॒ उप॑ह्रियते । प्रा॒तश्च॑ सा॒यञ्च॑ । प॒शवो॑ऽपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धाम् । तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेन॑ त्र॒यीमूर्ज॒मवा॑रुन्धत । तस्मा॒त्त्रिरह्न॑ᳶ प॒शव॒ᳶ प्रेर॑ते । प्रा॒तस्स॑ङ्ग॒वे सा॒यम् । असु॑रा अपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धाम् ॥53॥
तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेन॑ सवँत्स॒र ऊर्ज॒मवा॑रुन्धत । ते दे॒वा अ॑मन्यन्त । अ॒मी वा इ॒दम॑भूवन् । यद्व॒य स्म इति॑ । त ए॒तानि॑ चातुर्मा॒स्यान्य॑पश्यन् । तानि॒ निर॑वपन् । तैरे॒वैषा॒न्तामूर्ज॑मवृञ्जत । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः ॥54॥
यद्यज॑ते । यामे॒व दे॒वा ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे । यत्पि॒तृभ्य॑ᳶ क॒रोति॑ । यामे॒व पि॒तर॒ ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे । यदा॑वस॒थेऽन्नँ॒ हर॑न्ति । यामे॒व म॑नु॒ष्या॑ ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे । यद्दक्षि॑णा॒न्ददा॑ति ॥55॥
यामे॒व प॒शव॒ ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे । यच्चा॑तुर्मा॒स्यैर्यज॑ते । यामे॒वासु॑रा॒ ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे । भव॑त्या॒त्मना॑ । परा॑स्य॒ भ्रातृ॑व्यो भवति । वि॒राजो॒ वा ए॒षा विक्रा॑न्तिः । यच्चा॑तुर्मा॒स्यानि॑ । वै॒श्व॒दे॒वेना॒स्मिल्लोँ॒के प्रत्य॑तिष्ठत् । व॒रु॒ण॒प्र॒घा॒सैर॒न्तरि॑क्षे । सा॒क॒मे॒धैर॒मुष्मिल्ँ॑ लो॒के । ए॒ष ह॒ त्वावैतत्सर्व॑म्भवति । य ए॒वव्विँ॒द्वाँश्चा॑तुर्मा॒स्यैर्यज॑ते ॥56॥
म॒नु॒ष्या॑ अपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धामसु॑रा अपश्यञ्चम॒सङ्घृ॒तस्य॑ पू॒र्ण स्व॒धामसु॑रा॒ ददा॑त्यतिष्ठच्च॒त्वारि॑ च ॥ 9 ॥
अ॒ग्निर्वाव सव्ँ॑वत्स॒रः । आ॒दि॒त्यᳶ प॑रिवत्स॒रः । च॒न्द्रमा॑ इदावत्स॒रः । वा॒युर॑नुवत्स॒रः । यद्वै॑श्वदे॒वेन॒ यज॑ते । अ॒ग्निमे॒व तत्सव्ँ॑वत्स॒रमा॑प्नोति । तस्मा॑द्वैश्वदे॒वेन॒ यज॑मानः । सव्ँ॒व॒त्स॒रीणाँ॑ स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत । यद्व॑रुणप्रघा॒सैर्यज॑ते । आ॒दि॒त्यमे॒व तत्प॑रिवत्स॒रमा॑प्नोति ॥57॥
तस्मा॑द्वरुणप्रघा॒सैर्यज॑मानः । प॒रि॒व॒त्स॒रीणाँ॑ स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत । यत्सा॑कमे॒धैर्यज॑ते । च॒न्द्रम॑समे॒व तदि॑दावत्स॒रमा॑प्नोति । तस्मा॑त्साकमे॒धैर्यज॑मानः । इ॒दा॒व॒त्स॒रीणाँ॑ स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत । यत्पि॑तृय॒ज्ञेन॒ यज॑ते । दे॒वाने॒व तद॒न्वव॑स्यति । अथ॒वा अ॑स्य वा॒युश्चा॑नुवत्स॒रश्चाप्री॑ता॒वुच्छि॑ष्येते । यच्छु॑नासी॒रीये॑ण॒ यज॑ते ॥58 ॥
वा॒युमे॒व तद॑नुवत्स॒रमा॑प्नोति । तस्मा॑च्छुनासी॒रीये॑ण॒ यज॑मानः । अ॒नु॒व॒त्स॒रीणाँ॑ स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत । सव्ँ॒व॒त्स॒रव्वाँ ए॒ष ई॑प्स॒तीत्या॑हुः । यश्चा॑तुर्मा॒स्यैर्यज॑त॒ इति॑ । ए॒ष ह॒ त्वै सव्ँ॑वत्स॒रमा॑प्नोति । य ए॒वव्विँ॒द्वाँश्चा॑तुर्मा॒स्यैर्यज॑ते । विश्वे॑ दे॒वास्सम॑यजन्त । ते॑ऽग्निमे॒वाय॑जन्त । त ए॒तल्लोँ॒कम॑जयन्न् ॥59॥
यस्मि॑न्न॒ग्निः । यद्वै॑श्वदे॒वेन॒ यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑न्न॒ग्निः । अ॒ग्नेरे॒व सायु॑ज्य॒मुपै॑ति । य॒दा वै॑श्वदे॒वेन॒ यज॑ते । अथ॑ सव्वँत्स॒रस्य॑ गृ॒हप॑तिमाप्नोति । य॒दा सव्ँ॑वत्स॒रस्य॑ गृ॒हप॑तिमा॒प्नोति॑ । अथ॑ सहस्रया॒जिन॑माप्नोति । य॒दा स॑हस्रया॒जिन॑मा॒प्नोति॑ ॥60॥
अथ॑ गृहमे॒धिन॑माप्नोति । य॒दा गृ॑हमे॒धिन॑मा॒प्नोति॑ । अथा॒ग्निर्भ॑वति । य॒दाग्निर्भव॑ति । अथ॒ गौर्भ॑वति । ए॒षा वै वै॑श्वदे॒वस्य॒ मात्रा॑ । ए॒तद्वा ए॒तेषा॑मव॒मम् । अतो॑तो॒ वा उत्त॑राणि॒ श्रेयाँ॑सि भवन्ति । यद्विश्वे॑ दे॒वास्स॒मय॑जन्त । तद्वै॑श्वदे॒वस्य॑ वैश्वदेव॒त्वम् ॥ 61 ॥
अथा॑दि॒त्यो वरु॑णँ॒ रा॑जानव्वँरुणप्रघा॒सैर॑यजत । स ए॒तल्लोँ॒कम॑जयत् । यस्मि॑न्नादि॒त्यः । यद्व॑रुणप्रघा॒सैर्यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑न्नादि॒त्यः । आ॒दि॒त्यस्यै॒व सायु॑ज्य॒मुपै॑ति । यदा॑दि॒त्यो वरु॑णँ॒ राजा॑नव्वँरुणप्रघा॒सैरय॑जत । तद्व॑रुणप्रघा॒साना॑व्वँरुणप्रघास॒त्वम् । अथ॒ सोमो॒ राजा॒ छन्दाँ॑सि साकमे॒धैर॑यजत ॥62॥
स ए॒तल्लोँ॒कम॑जयत् । यस्मि॑श्च॒न्द्रमा॑ वि॒भाति॑ । यत्सा॑कमे॒धैर्यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑श्च॒न्द्रमा॑ वि॒भाति॑ । च॒न्द्रम॑स ए॒व सायु॑ज्य॒मुपै॑ति । सोमो॒ वै च॒न्द्रमाः॑ । ए॒ष ह॒ त्वै सा॒क्षात्सोम॑म्भक्षयति । य ए॒वव्विँ॒द्वान्त्सा॑कमे॒धैर्यज॑ते । यत्सोम॑श्च॒ राजा॒ छन्दाँ॑सि च स॒मैध॑न्त ॥63॥
तत्सा॑कमे॒धानाँ॑ साकमेध॒त्वम् । अथ॒र्तव॑ᳶ पि॒तर॑ᳶ प्र॒जाप॑तिम्पि॒तर॑म्पितृय॒ज्ञेना॑यजन्त । त ए॒तल्लोँ॒कम॑जयन् । यस्मि॑न्नृ॒तवः॑ । यत्पि॑तृय॒ज्ञेन॒ यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑न्नृ॒तवः॑ । ऋ॒तू॒नामे॒व सायु॑ज्य॒मुपै॑ति । यदृ॒तव॑ᳶ पि॒तर॑ᳶ प्र॒जाप॑तिम्पि॒तर॑म्पितृय॒ज्ञेनाय॑जन्त । तत्पि॑तृय॒ज्ञस्य॑ पितृयज्ञ॒त्वम् ॥64॥
अथौष॑धय इ॒मन्दे॒वन्त्र्य॑म्बकैरयजन्त॒ प्रथे॑म॒हीति॑ । ततो॒ वै ता अ॑प्रथन्त । य ए॒वव्विँ॒द्वाँ स्त्र्य॑म्बकै॒र्यज॑ते । प्रथ॑ते प्र॒जया॑ प॒शुभिः॑ । अथ॑ वा॒युᳶ प॑रमे॒ष्ठिनँ॑ शुनासी॒रीये॑णायजत । स ए॒तल्लोँ॒कम॑जयत् । यस्मि॑न्वा॒युः । यच्छु॑नासी॒रीये॑ण॒ यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑न्वा॒युः ॥65॥
वा॒योरे॒व सायु॑ज्य॒मुपै॑ति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । प्र चा॑तुर्मास्यया॒जी मी॑य॒ता (३) न प्रमी॑य॒ता (३) इति॑ । जीव॒न्वा ए॒ष ऋ॒तूनप्ये॑ति । यदि॑ व॒सन्ता॑ प्र॒मीय॑ते । व॒स॒न्तो भ॑वति । यदि॑ ग्री॒ष्मे ग्री॒ष्मः । यदि॑ व॒र्षासु॑ व॒र्षाः । यदि॑ श॒रदि॑ श॒रत् । यदि॒ हेम॑न् हेम॒न्तः । ऋ॒तुर्भू॒त्वा सव्ँ॑वत्स॒रमप्ये॑ति । सव्ँ॒व॒त्स॒रᳶ प्र॒जाप॑तिः । प्र॒जाप॑ति॒र्वावैषः ॥66॥
प॒रि॒व॒त्स॒रमा॑प्नोति शुनासी॒रीये॑ण॒ यज॑तेऽजयन्त्सहस्रया॒जिन॑मा॒प्नोति॑ वैश्वदेव॒त्वँ सा॑कमे॒धैर॑यजत स॒मैध॑न्त पितृयज्ञ॒त्वञ्ज॑यति॒ यस्मि॑न्वा॒युऱ्हे॑म॒न्तस्त्रीणि॑ च ॥ 10 ॥
उ॒भये॑ यु॒वँ सु॒राम॒मुद॑स्था॒न्नि वै यस्य॑ प्रातस्सव॒न एकै॑कोऽसु॒र्यं॑ पव॑मानᳶ प्र॒जा वै स॒त्रमा॑सता॒ग्निर्वाव सव्ँ॑वत्स॒रो दश॑ ॥ 10 ॥ उ॒भये॒ वा उद॑स्था॒त्सर्वा॑भिर्मध्य॒तोऽत्र॒ वाव ब्रा॑ह्म॒णेष्वथ॑ गृहमे॒धिनँ॒ षट्त्ष॑ष्टिः ॥ उ॒भये॒ वा वैषः ॥ 66 ॥ हरिः॑ ओम् ॥ श्रीकृष्णार्पणमस्तु । चतुर्थ प्रपाठकस्समाप्तः