दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् । ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ । अ॒ग्नीषोम॑योस्तेज॒स्विनी॑स्त॒नूस्सन्न्य॑दधत । इ॒दमु॑ नो भविष्यति । यदि॑ नो जे॒ष्यन्तीति॑ । तेना॒ग्नीषोमा॒वपा॑क्रामताम् । ते दे॒वा वि॒जित्य॑ । अ॒ग्नीषोमा॒वन्वै॑च्छन् । ते॑ऽग्निमन्व॑विन्दन्नृ॒तुषूत्स॑न्नम् । तस्य॒ विभ॑क्तीभिस्तेज॒स्विनी॑स्त॒नूरवा॑रुन्धत ॥1॥
ते सोम॒मन्व॑विन्दन् । तम॑घ्नन् । तस्य॑ यथाऽभि॒ज्ञाय॑न्त॒नूर्व्य॑गृह्णत । ते ग्रहा॑ अभवन् । तद्ग्रहा॑णाङ्ग्रह॒त्वम् । यस्यै॒वव्ँवि॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते॑ । तस्य॒ त्वे॑व गृ॑ही॒ताः । नाना॑ऽऽग्नेयम्पुनरा॒धेये॑ कुर्यात् । यदना॑ग्नेयम्पुनरा॒धेये॑ कु॒र्यात् । व्यृ॑द्धमे॒व तत् ॥2॥
अना॑ग्नेयव्ँ॒वा ए॒तत्क्रि॑यते । यत्स॒मिध॒स्तनू॒नपा॑तमि॒डो ब॒र्हिर्य॑जति । उ॒भावा॑ग्ने॒यावाज्य॑भागौ स्याताम् । अना॑ज्यभागौ भवत॒ इत्या॑हुः । यदु॒भावा॑ग्ने॒याव॒न्वञ्चा॒विति॑ । अ॒ग्नये॒ पव॑माना॒योत्त॑रस्स्यात् । यत्पव॑मानाय । तेनाज्य॑भागः । तेन॑ सौ॒म्यः । बुध॑न्वत्याग्ने॒यस्याज्य॑भागस्य पुरोऽनुवा॒क्या॑ भवति ॥3॥
यथा॑ सु॒प्तम्बो॒धय॑ति । ता॒दृगे॒व तत् । अ॒ग्निन्य॑क्ताᳶ पत्नीसय्ँया॒जाना॒मृच॑स्स्युः । तेना॑ग्ने॒यँ सर्व॑म्भवति । ए॒क॒धा ते॑ज॒स्विनी॑न्दे॒वता॒मुपै॒तीत्या॑हुः । सैन॑मीश्व॒रा प्र॒दह॒ इति॑ । नेति॑ ब्रूयात् । प्र॒जन॑नव्ँ॒ वा अ॒ग्निः । प्र॒जन॑नमे॒वोपै॒तीति॑ । कृ॒तय॑जु॒स्सम्भृ॑तसम्भार॒ इत्या॑हुः ॥4॥
न स॒म्भृत्या॑स्सम्भा॒राः । न यजु॑ᳶ का॒र्य॑मिति॑ । अथो॒ खलु॑ । स॒म्भृत्या॑ ए॒व स॑म्भा॒राः । का॒र्यय्ँ॑यजुः॑ । पु॒न॒रा॒धेय॑स्य॒ समृ॑द्ध्यै । तेनो॑पाँ॒शु प्रच॑रति । एष्य॑ इव॒ वा ए॒षः । यत्पु॑नरा॒धेयः॑ । यथो॑पाँ॒शु न॒ष्टमि॒च्छति॑ ॥5॥
ता॒दृगे॒व तत् । उ॒च्चैस्स्वि॑ष्ट॒कृत॒मुत्सृ॑जति । यथा॑ न॒ष्टव्ँवि॒त्त्वा प्राहा॒यमिति॑ । ता॒दृगे॒व तत् । ए॒क॒धा ते॑ज॒स्विनी॑न्दे॒वता॒मुपै॒तीत्या॑हुः । सैन॑मीश्व॒रा प्र॒दह॒ इति॑ । तत्तथा॒ नोपै॑ति । प्र॒या॒जा॒नू॒या॒जेष्वे॒व विभ॑क्तीᳶ कुर्यात् । य॒था॒पू॒र्वमाज्य॑भागौ॒ स्याता॑म् । ए॒वम्प॑त्नीसय्ँया॒जाः ॥6॥
तद्वै॑श्वान॒रव॑त्प्र॒जन॑नवत्तर॒मुपै॒तीति॑ । तदा॑हुः । व्यृ॑द्धव्ँ॒वा ए॒तत् । अना॑ग्नेयव्ँ॒वा ए॒तत्क्रि॑यत॒ इति॑ । नेति॑ ब्रूयात् । अ॒ग्निम्प्र॑थ॒मव्ँविभ॑क्तीनाय्ँयजति । अ॒ग्निमु॑त्त॒मम्प॑त्नीसय्ँया॒जाना॑म् । तेना॑ग्ने॒यम् । तेन॒ समृ॑द्धङ्क्रियत॒ इति॑ ॥7॥
अ॒रु॒न्ध॒तै॒व तद्भ॑वति॒ संभृ॑तसंभार॒ इत्या॑हुरि॒च्छति॑ पत्नीसंया॒जा नव॑ च ॥ 1 ॥
दे॒वा वै यथा॒दर्शय्ँ॑ य॒ज्ञानाह॑रन्त । यो॑ऽग्निष्टो॒मम् । य उ॒क्थ्य॑म् । यो॑ऽतिरा॒त्रम् । ते स॒हैव सर्वे॑ वाज॒पेय॑मपश्यन् । ते । अ॒न्यो॑ऽन्यस्मै॒ नाति॑ष्ठन्त । अ॒हम॒नेन॑ यजा॒ इति॑ । ते॑ऽब्रुवन् । आ॒जिम॒स्य धा॑वा॒मेति॑ ॥8॥
तस्मि॑न्ना॒जिम॑धावन् । तम्बृह॒स्पति॒रुद॑जयत् । तेना॑यजत । स स्वारा॑ज्यमगच्छत् । तमिन्द्रो॑ऽब्रवीत् । माम॒नेन॑ याज॒येति॑ । तेनेन्द्र॑मयाजयत् । सोऽग्र॑न्दे॒वता॑ना॒म्पर्यै॑त् । अग॑च्छ॒त्स्वारा॑ज्यम् । अति॑ष्ठन्तास्मै॒ ज्यैष्ठ्या॑य ॥9॥
य ए॒वव्ँवि॒द्वान् वा॑ज॒पेये॑न॒ यज॑ते । गच्छ॑ति॒ स्वारा॑ज्यम् । अग्रँ॑ समा॒नाना॒म्पर्ये॑ति । तिष्ठ॑न्तेऽस्मै॒ ज्यैष्ठ्या॑य । स वा ए॒ष ब्रा॑ह्म॒णस्य॑ चै॒व रा॑ज॒न्य॑स्य च य॒ज्ञः । तव्ँवा ए॒तव्ँवा॑ज॒पेय॒ इत्या॑हुः । वा॒जाप्यो॒ वा ए॒षः । वाज॒॒ ह्ये॑तेन॑ दे॒वा ऐप्स॑न् । सोमो॒ वै वा॑ज॒पेयः॑ । यो वै सोमव्ँ॑वाज॒पेयव्ँ॒वेद॑ ॥10॥
वा॒ज्ये॑वैन॑म्पी॒त्वा भ॑वति । आऽस्य॑ वा॒जी जा॑यते । अन्नव्ँ॒ वै वा॑ज॒पेयः॑ । य ए॒वव्ँ वेद॑ । अत्यन्न॑म् । आऽस्या॑न्ना॒दो जा॑यते । ब्रह्म॒ वै वा॑ज॒पेयः॑ । य ए॒वव्ँ वेद॑ । अत्ति॒ ब्रह्म॒णाऽन्न॑म् । आऽस्य॑ ब्र॒ह्मा जा॑यते ॥11॥
वाग्वै वाज॑स्य प्रस॒वः । य ए॒वव्ँ वेद॑ । क॒रोति॑ वा॒चा वी॒र्य॑म् । ऐनव्ँ॑वा॒चा ग॑च्छति । अपि॑वतीव्ँ॒वाचव्ँ॑वदति । प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् । स आ॒त्मन्वा॑ज॒पेय॑मधत्त । तन्दे॒वा अ॑ब्रुवन् । ए॒ष वाव य॒ज्ञः । यद्वा॑ज॒पेयः॑ ॥12॥
अप्ये॒व नोऽत्रा॒स्त्विति॑ । तेभ्य॑ ए॒ता उज्जि॑ती॒ᳶ प्राय॑च्छत् । ता वा ए॒ता उज्जि॑तयो॒ व्याख्या॑यन्ते । य॒ज्ञस्य॑ सर्व॒त्वाय॑ । दे॒वता॑ना॒मनि॑र्भागाय । दे॒वा वै ब्रह्म॑ण॒श्चान्न॑स्य च॒ शम॑ल॒मपा॑घ्नन् । यद्ब्रह्म॑ण॒श्शम॑ल॒मासी॑त् । सा गाथा॑ नाराश॒॒स्य॑भवत् । यदन्न॑स्य । सा सुरा॑ ॥13॥
तस्मा॒द्गाय॑तश्च म॒त्तस्य॑ च॒ न प्र॑ति॒गृह्य॑म् । यत्प्र॑तिगृह्णी॒यात् । शम॑ल॒म्प्रति॑गृह्णीयात् । सर्वा॒ वा ए॒तस्य॒ वाचोऽव॑रुद्धाः । यो वा॑जपेयया॒जी । या पृ॑थि॒व्याय्ँयाऽग्नौ या र॑थन्त॒रे । याऽन्तरि॑क्षे॒ या वा॒यौ या वा॑मदे॒व्ये । या दि॒वि याऽऽदि॒त्ये या बृ॑ह॒ति । याऽप्सु यौष॑धीषु॒ या वन॒स्पति॑षु । तस्मा॑द्वाजपेयया॒ज्यार्त्वि॑जीनः । सर्वा॒ ह्य॑स्य॒ वाचोऽव॑रुद्धाः ॥14॥
धा॒वा॒मेति॒ ज्यैष्ठ्या॑य॒ वेद॑ ब्र॒ह्मा जा॑यते वाज॒पेय॒स्सुराऽऽर्त्वि॑जीन॒ एकं॑ च ॥ 2 ॥
दे॒वा वै यद॒न्यैर्ग्रहै॑र्य॒ज्ञस्य॒ नावारु॑न्धत । तद॑तिग्रा॒ह्यै॑रति॒गृह्यावा॑रुन्धत । तद॑तिग्र॒ह्या॑णामतिग्राह्य॒त्वम् । यद॑तिग्रा॒ह्या॑ गृ॒ह्यन्ते॑ । यदे॒वान्यैर्ग्रहै॑र्य॒ज्ञस्य॒ नाव॑रु॒न्धे । तदे॒व तैर॑ति॒गृह्याव॑रुन्धे । पञ्च॑ गृह्यन्ते । पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तमा॒प्त्वाऽव॑रुन्धे ॥15॥
सर्व॑ ऐ॒न्द्रा भ॑वन्ति । ए॒क॒धैव यज॑मान इन्द्रि॒यन्द॑धति । स॒प्तद॑श प्राजाप॒त्या ग्रहा॑ गृह्यन्ते । स॒प्त॒द॒शᳶ प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै॑ । एक॑य॒र्चा गृ॑ह्णाति । ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति । सो॒म॒ग्र॒हाँश्च॑ सुराग्र॒हाँश्च॑ गृह्णाति । ए॒तद्वै दे॒वाना॑म्पर॒ममन्न॑म् । यत्सोमः॑ ॥16॥
ए॒तन्म॑नु॒ष्या॑णाम् । यत्सुरा॑ । प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑रम॒न्नाद्य॒मव॑रुन्धे । सो॒म॒ग्र॒हान्गृ॑ह्णाति । ब्रह्म॑णो॒ वा ए॒तत्तेजः॑ । यत्सोमः॑ । ब्रह्म॑ण ए॒व तेज॑सा॒ तेजो॒ यज॑माने दधाति । सु॒रा॒ग्र॒हान्गृ॑ह्णाति । अन्न॑स्य॒ वा ए॒तच्छम॑लम् । यत्सुरा॑ ॥17॥
अन्न॑स्यै॒व शम॑लेन॒ शम॑लय्ँ॒यज॑माना॒दप॑हन्ति । सो॒म॒ग्र॒हाँश्च॑ सुराग्र॒हाँश्च॑ गृह्णाति । पुमा॒न्वै सोमः॑ । स्त्री सुरा॑ । तन्मि॑थु॒नम् । मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय । आ॒त्मान॑मे॒व सो॑मग्र॒हैस्स्पृ॑णोति । जा॒याँ सु॑राग्र॒हैः । तस्मा॑द्वाजपेयया॒ज्य॑मुष्मिल्ँ॑ लो॒के स्त्रियँ॒ सम्भ॑वति । वा॒ज॒पेया॑भिजित॒॒ ह्य॑स्य ॥18॥
पूर्वे॑ सोमग्र॒हा गृ॑ह्यन्ते । अप॑रे सुराग्र॒हाः । पु॒रो॒ऽक्षँ सो॑मग्र॒हान्त्सा॑दयति । प॒श्चा॒द॒क्षँ सु॑राग्र॒हान् । पा॒प॒व॒स्य॒सस्य॒ विधृ॑त्यै । ए॒ष वै यज॑मानः । यत्सोमः॑ । अन्नँ॒ सुरा॑ । सो॒म॒ग्र॒हाँश्च॑ सुराग्र॒हाँश्च॒ व्यति॑षजति । अ॒न्नाद्ये॑नै॒वैनव्ँ॒व्यति॑षजति ॥19॥
स॒म्पृच॑स्स्थ॒ सम्मा॑ भ॒द्रेण॑ पृ॒ङ्क्तेत्या॑ह । अन्नव्ँ॒ वै भ॒द्रम् । अ॒न्नाद्ये॑नै॒वैनँ॒ सँसृ॑जति । अन्न॑स्य॒ वा ए॒तच्छम॑लम् । यत्सुरा॑ । पा॒प्मेव॒ खलु॒ वै शम॑लम् । पा॒प्मना॒ वा ए॑नमे॒तच्छम॑लेन॒ व्यति॑षजति । यत्सो॑मग्र॒हाँश्च॑ सुराग्र॒हाँश्च॑ व्यति॒षज॑ति । वि॒पृच॑स्स्थ॒ वि मा॑ पा॒प्मना॑ पृ॒ङ्क्तेत्या॑ह । पा॒प्मनै॒वैनँ॒ शम॑लेन॒ व्याव॑र्तयति ॥20॥
तस्मा॑द्वाजपेयया॒जी पू॒तो मेध्यो॑ दक्षि॒ण्यः॑ । प्राङुद्द्र॑वति सोमग्र॒हैः । अ॒मुमे॒व तैर्लो॒कम॒भिज॑यति । प्र॒त्यङ्क्सु॑राग्र॒हैः । इ॒ममे॒व तैर्लो॒कम॒भिज॑यति । प्रति॑ष्ठन्ति सोमग्र॒हैः । याव॑दे॒व स॒त्यम् । तेन॑ सूयते । वा॒ज॒सृद्भ्य॑स्सुराग्र॒हान् ह॑रन्ति । अनृ॑तेनै॒व विशँ॒ सँसृ॑जति । हि॒र॒ण्य॒पा॒त्रम्मधो॑ᳶपू॒र्णन्द॑दाति । म॒ध॒व्यो॑ऽसा॒नीति॑ । ए॒क॒धा ब्र॒ह्मण॒ उप॑ हरति । ए॒क॒धैव यज॑मान॒ आयु॒स्तेजो॑ दधाति ॥21॥
आ॒प्त्वाऽव॑रुन्धे॒ सोम॒श्शम॑लं॒ यत्सुरा॒ ह्य॑स्यैनं॒ व्यति॑षजति॒ व्याव॑र्तयति सृजति च॒त्वारि॑ च ॥ 3 ॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । नाग्नि॑ष्टो॒मो नोक्थ्यः॑ । न षो॑ड॒शी नाति॑रा॒त्रः । अथ॒ कस्मा॑द्वाज॒पेये॒ सर्वे॑ यज्ञक्र॒तवोऽव॑रुध्यन्त॒ इति॑ । प॒शुभि॒रिति॑ ब्रूयात् । आ॒ग्ने॒यम्प॒शुमाल॑भते । अ॒ग्नि॒ष्टो॒ममे॒व तेनाव॑रुन्धे । ऐ॒न्द्रा॒ग्नेनो॒क्थ्य॑म् । ऐ॒न्द्रेण॑ षोड॒शिन॑स्स्तो॒त्रम् । सा॒र॒स्व॒त्याऽति॑रा॒त्रम् ॥ 22॥
मा॒रु॒त्या बृ॑ह॒तस्स्तो॒त्रम् । ए॒ताव॑न्तो॒ वै य॑ज्ञक्र॒तवः॑ । तान्प॒शुभि॑रे॒वाव॑रुन्धे । आ॒त्मान॑मे॒व स्पृ॑णोत्यग्निष्टो॒मेन॑ । प्रा॒णा॒पा॒नावु॒क्थ्ये॑न । वी॒र्यँ॑ षोड॒शिन॑स्स्तो॒त्रेण॑ । वाच॑मतिरा॒त्रेण॑ । प्र॒जाम्बृ॑ह॒तस्स्तो॒त्रेण॑ । इ॒ममे॒व लो॒कम॒भिज॑यत्यग्निष्टो॒मेन॑ । अ॒न्तरि॑क्षमु॒क्थ्ये॑न ॥23॥
सु॒व॒र्गल्ँ लो॒कँ षो॑ड॒शिन॑स्स्तो॒त्रेण॑ । दे॒व॒याना॑ने॒व प॒थ आरो॑हत्यतिरा॒त्रेण॑ । नाकँ॑ रोहति बृह॒तस्स्तो॒त्रेण॑ । तेज॑ ए॒वात्मन्ध॑त्त आग्ने॒येन॑ प॒शुना॑ । ओजो॒ बल॑मैन्द्रा॒ग्नेन॑ । इ॒न्द्रि॒यमै॒न्द्रेण॑ । वाचँ॑ सारस्व॒त्या । उ॒भावे॒व दे॑वलो॒कञ्च॑ मनुष्यलो॒कञ्चा॒भिज॑यति मारु॒त्या व॒शया॑ । स॒प्तद॑श प्राजाप॒त्यान्प॒शूनाल॑भते । स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ॥24॥
प्र॒जाप॑ते॒राप्त्यै॑ । श्या॒मा एक॑रूपा भवन्ति । ए॒वमि॑व॒ हि प्र॒जाप॑ति॒स्समृ॑द्ध्यै । तान्पर्य॑ग्निकृता॒नुत्सृ॑जति । म॒रुतो॑ य॒ज्ञम॑जिघाँसन्प्र॒जाप॑तेः । तेभ्य॑ ए॒ताम्मा॑रु॒तीव्ँव॒शामाल॑भत । तयै॒वैना॑नशमयत् । मा॒रु॒त्या प्र॒चर्य॑ । ए॒तान्त्संज्ञ॑पयेत् । म॒रुत॑ ए॒व श॑मयि॒त्वा ॥25॥
ए॒तैᳶ प्रच॑रति । य॒ज्ञस्याघा॑ताय । ए॒क॒धा व॒पा जु॑होति । ए॒क॒दे॒व॒त्या॑ हि । ए॒ते । अथो॑ एक॒धैव यज॑माने वी॒र्य॑न्दधाति । नै॒वा॒रेण॑ स॒प्तद॑शशरावेणै॒तर्हि॒ प्रच॑रति । ए॒तत्पु॑रोडाशा॒ ह्ये॑ते । अथो॑ पशू॒नामे॒व छि॒द्रमपि॑दधाति । सा॒र॒स्व॒त्योत्त॒मया॒ प्रच॑रति । वाग्वै सर॑स्वती । तस्मा॑त्प्रा॒णानाव्ँ॒वागु॑त्त॒मा । अथो॑ प्र॒जाप॑तावे॒व य॒ज्ञम्प्रति॑ष्ठापयति । प्र॒जाप॑ति॒र् हि वाक् । अप॑न्नदती भवति । तस्मा॑न्मनु॒ष्या॑स्सर्वाव्ँ॒वाचव्ँ॑वदन्ति ॥26॥
अ॒ति॒रा॒त्रम॒न्तरि॑क्षमु॒क्थ्ये॑न प्र॒जाप॑तिश्शमयि॒त्वोत्त॒मया॒ प्रच॑रति॒ षट् च॑ ॥ 4 ॥
सा॒वि॒त्रञ्जु॑होति॒ कर्म॑णᳶकर्मणᳶ पु॒रस्ता॑त् । कस्तद्वे॒देत्या॑हुः । यद्वा॑ज॒पेय॑स्य॒ पूर्वय्ँ॒यदप॑र॒मिति॑ । स॒वि॒तृप्र॑सूत ए॒व य॑थापू॒र्वङ्कर्मा॑णि करोति । सव॑नेसवने जुहोति । आ॒क्रम॑णमे॒व तत्सेतुय्ँ॒यज॑मानᳶ कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति न॒ इत्या॑ह । वाग्वै दे॒वाना॑म्पु॒राऽन्न॑मासीत् । वाच॑मे॒वास्मा॒ अन्न॑ स्वदयति ॥27॥
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै । वाज॑स्य॒ नु प्र॑स॒वे मा॒तर॑म्म॒हीमित्या॑ह । यच्चै॒वेयम् । यच्चा॒स्यामधि॑ । तदे॒वाव॑रुन्धे । अथो॒ तस्मि॑न्ने॒वोभये॒ऽभिषि॑च्यते । अ॒प्स्व॑न्तर॒मृत॑म॒प्सु भे॑ष॒जमित्यश्वा॑न्पल्पूलयति । अ॒प्सु वा अश्व॑स्य॒ तृती॑य॒म्प्रवि॑ष्टम् । तद॑नु॒वेन॒न्वव॑प्लवते । यद॒प्सु प॑ल्पू॒लय॑ति ॥28॥
यदे॒वास्या॒प्सु प्रवि॑ष्टम् । तदे॒वाव॑रुन्धे । ब॒हु वा अश्वो॑ऽमे॒ध्यमुप॑गच्छति । यद॒प्सु प॑ल्पू॒लय॑ति । मेध्या॑ने॒वैना॑न्करोति । वा॒युर्वा॑ त्वा॒ मनु॑र्वा॒ त्वेत्या॑ह । ए॒ता वा ए॒तन्दे॒वता॒ अग्रे॒ अश्व॑मयुञ्जन् । ताभि॑रे॒वैना॑न् युनक्ति । स॒वस्योज्जि॑त्यै । यजु॑षा युनक्ति॒ व्यावृ॑त्त्यै ॥29॥
अपा॑न्नपादाशुहेम॒न्निति॒ सम्मा॑र्ष्टि । मेध्या॑ने॒वैना॑न्करोति । अथो॒ स्तौत्ये॒वैना॑ना॒जिँ स॑रिष्य॒तः । वि॒ष्णु॒क्र॒मान्क्र॑मते । विष्णु॑रे॒व भू॒त्वेमाल्लोँ॒कान॒भिज॑यति । वै॒श्व॒दे॒वो वै रथः॑ । अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथय्ँ॒यावित्या॑ह । या ए॒व दे॒वता॒ रथे॒ प्रवि॑ष्टाः । ताभ्य॑ ए॒व नम॑स्करोति । आ॒त्मनोऽना॑र्त्यै । अश॑मरथम्भावुकोऽस्य॒ रथो॑ भवति । य ए॒वव्ँ वेद॑ ॥30॥
स्व॒द॒य॒ति॒ प॒ल्पू॒लय॑ति॒ व्यावृ॑त्त्या॒ अना॑र्त्यै॒ द्वे च॑ ॥ 5 ॥
दे॒वस्या॒हँ स॑वि॒तुᳶ प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाज॑ञ्जेष॒मित्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वाज॒मुज्ज॑यति । दे॒वस्या॒हँ स॑वि॒तुᳶ प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर्षि॑ष्ठ॒न्नाकँ॑ रुहेय॒मित्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वर्षि॑ष्ठ॒न्नाकँ॑ रोहति । चात्वा॑ले रथच॒क्रन्निमि॑तँ रोहति । अतो॒ वा अङ्गि॑रस उत्त॒मास्सु॑व॒र्गल्ँ लो॒कमा॑यन् । सा॒क्षादे॒व यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति । आवे॑ष्टयति । वज्रो॒ वै रथः॑ । वज्रे॑णै॒व दिशो॒ऽभिज॑यति ॥31॥
वा॒जिनाँ॒ साम॑ गायते । अन्नव्ँ॒ वै वाजः॑ । अन्न॑मे॒वाव॑रुन्धे । वा॒चो वर्ष्म॑ दे॒वेभ्योऽपा॑क्रामत् । तद्वन॒स्पती॒न्प्रावि॑शत् । सैषा वाग्वन॒स्पति॑षु वदति । या दु॑न्दु॒भौ । तस्मा॑द्दुन्दु॒भिस्सर्वा॒ वाचोऽति॑वदति । दु॒न्दु॒भीन्त्स॒माघ्न॑न्ति । प॒र॒मा वा ए॒षा वाक् ॥32॥
या दु॑न्दु॒भौ । प॒र॒मयै॒व वा॒चाऽव॑राव्ँ॒वाच॒म॑वरुन्धे । अथो॑ वा॒च ए॒व वर्ष्म॒ यज॑मा॒नोऽव॑रुन्धे । इन्द्रा॑य॒ वाचव्ँ॑वद॒तेन्द्रव्ँ॒वाज॑ञ्जापय॒तेन्द्रो॒ वाज॑मजयि॒दित्या॑ह । ए॒ष वा ए॒तर्हीन्द्रः॑ । यो यज॑ते । यज॑मान ए॒व वाज॒मुज्ज॑यति । स॒प्तद॑श प्रव्या॒धाना॒जिन्धा॑वन्ति । स॒प्त॒द॒श स्तो॒त्रम्भ॑वति । स॒प्तद॑शसप्तदश दीयन्ते ॥33॥
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः । प्र॒जा॑पते॒राप्त्यै॑ । अर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह । अ॒ग्निर्वा अर्वा॑ । वा॒युस्सप्तिः॑ । आ॒दि॒त्यो वा॒जी । ए॒ताभि॑रे॒वास्मै॑ दे॒वता॑भिर्देवर॒थय्ँयु॑नक्ति । प्र॒ष्टि॒वा॒हिनय्ँ॑युनक्ति । प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः । दे॒व॒र॒थमे॒वास्मै॑ युनक्ति ॥34॥
वाजि॑नो॒ वाज॑न्धावत॒ काष्ठा॑ङ्गच्छ॒तेत्या॑ह । सु॒व॒र्गो वै लो॒कᳶ काष्ठा॑ । सु॒व॒र्गमे॒व लो॒कय्ँय॑न्ति । सु॒व॒र्गव्ँवा ए॒ते लो॒कय्ँय॑न्ति । य आ॒जिन्धाव॑न्ति । प्राञ्चो॑ धावन्ति । प्राङि॑व॒ हि सु॑व॒र्गो लो॒कः । च॒त॒सृभि॒रनु॑ मन्त्रयते । च॒त्वारि॒ छन्दाँ॑सि । छन्दो॑भिरे॒वैना॑न्त्सुव॒र्गल्ँ लो॒कङ्ग॑मयति ॥35॥
प्र वा ए॒ते॑ऽस्माल्लो॒काच्च्य॑वन्ते । य आ॒जिन्धाव॑न्ति । उद॑ञ्च॒ आव॑र्तन्ते । अ॒स्मादे॒व तेन॑ लो॒कान्नय॑न्ति । र॒थ॒वि॒मो॒च॒नीय॑ञ्जुहोति॒ प्रति॑ष्ठित्त्यै । आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दित्या॑ह । अन्नव्ँ॒ वै वाजः॑ । अन्न॑मे॒वाव॑रुन्धे । य॒था॒लो॒कव्ँवा ए॒त उज्ज॑यन्ति । य आ॒जिन्धाव॑न्ति ॥36॥
कृ॒ष्णल॑ङ्कृष्णलव्ँवाज॒सृद्भ्य॒ᳶ प्रय॑च्छति । यमे॒व ते वाजल्ँ॑ लो॒कमु॒ज्जय॑न्ति । तम्प॑रि॒क्रीयाव॑रुन्धे । ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति । ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति । दे॒वा वा ओष॑धीष्वा॒जिम॑युः । ता बृह॒स्पति॒रुद॑जयत् । स नी॒वारा॒न्निर॑वृणीत । तन्नी॒वारा॑णान्नीवार॒त्वम् । नै॒वा॒रश्च॒रुर्भ॑वति ॥37 ॥
ए॒तद्वै दे॒वाना॑म्पर॒ममन्न॑म् । यन्नी॒वाराः॑ । प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑रम॒न्नाद्य॒मव॑रुन्धे । स॒प्तद॑शशरावो भवति । स॒प्त॒द॒शᳶ प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्ये॑ । क्षी॒रे भ॑वति । रुच॑मे॒वास्मि॑न्दधाति । स॒र्पिष्वा॑न्भवति मेध्य॒त्वाय॑ । बा॒र्ह॒स्प॒त्यो वा ए॒ष दे॒वत॑या ॥38॥
यो वा॑ज॒पेये॑न॒ यज॑ते । बा॒र्ह॒स्प॒त्य ए॒ष च॒रुः । अश्वा॑न्त्सरिष्य॒तस्स॒स्रुष॒श्चाव॑ घ्रापयति । यमे॒व ते वाजल्ँ॑ लो॒कमु॒ज्जय॑न्ति । तमे॒वाव॑रुन्धे । अजी॑जिपत वनस्पतय॒ इन्द्रव्ँ॒वाजव्ँ॒विमु॑च्यध्व॒मिति॑ दुन्दु॒भीन् विमु॑ञ्चति । यमे॒व ते वाजल्ँ॑ लो॒कमि॑न्द्रि॒यन्दु॑न्दु॒भय॑ उ॒ज्जय॑न्ति । तमे॒वाव॑रुन्धे ॥39॥
अ॒भिज॑यति॒ वा ए॒षा वाग्दी॑यन्तेऽस्मै युनक्ति गमयति॒ य आ॒जिं धाव॑न्ति भवति दे॒वत॑या॒ऽष्टौ च॑ ॥ 6 ॥
ता॒र्प्यय्ँयज॑मान॒म्परि॑धापयति । य॒ज्ञो वै ता॒र्प्यम् । य॒ज्ञेनै॒वैनँ॒ सम॑र्धयति । द॒र्भ॒मय॒म्परि॑धापयति । प॒वित्रव्ँ॒ वै द॒र्भाः । पु॒नात्ये॒वैन॑म् । वाजव्ँ॒वा ए॒षोऽव॑रुरुत्सते । यो वा॑ज॒पये॑न॒ यज॑ते । ओष॑धय॒ᳶ खलु॒ वै वाजः॑ । यद्द॑र्भ॒मय॑म्परिधा॒पय॑ति ॥40॥
वाज॒स्याव॑रुद्ध्यै । जाय॒ एहि॒ सुवो॒ रोहा॒वेत्या॑ह । पत्नि॑या ए॒वैष य॒ज्ञस्या॑न्वार॒म्भोऽन॑वच्छित्त्यै । स॒प्तद॑शारत्नि॒र्यूपो॑ भवति । स॒प्त॒द॒शᳶ प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै॑ । तू॒प॒रश्चतु॑रश्रिर्भवति । गौ॒धू॒मञ्च॒षाल॑म् । न वा ए॒ते व्री॒हयो॒ न यवाः॑ । यद्गो॒धूमाः॑ ॥41॥
ए॒वमि॑व॒ हि प्र॒जाप॑ति॒स्समृ॑द्ध्यै । अथो॑ अ॒मुमे॒वास्मै॑ लो॒कमन्न॑वन्तङ्करोति । वासो॑भिर्वेष्टयति । ए॒ष वै यज॑मानः । यद्यूपः॑ । स॒र्व॒दे॒व॒त्यव्ँ॑वासः॑ । सर्वा॑भिरे॒वैन॑न्दे॒वता॑भि॒स्सम॑र्धयति । अथो॑ आ॒क्रम॑णमे॒व तत्सेतुय्ँ॒यज॑मानᳶ कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । द्वाद॑श वाजप्रस॒वीया॑नि जुहोति ॥42॥
द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः । सव्ँ॒व॒त्स॒रमे॒व प्री॑णाति । अथो॑ सव्ँवत्स॒रमे॒वास्मा॒ उप॑दधाति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । द॒शभि॒ᳶ कल्पै॑ रोहति । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । प्रा॒णाने॒व य॑थास्था॒नङ्क॑ल्पयि॒त्वा । सु॒व॒र्गल्ँ लो॒कमे॑ति । ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम् ॥43 ॥
याव॑त्प्रा॒णाः । याव॑दे॒वास्यास्ति॑ । तेन॑ स॒ह सु॑व॒र्गल्ँ लो॒कमे॑ति । सुव॑र्दे॒वाँ अ॑ग॒न्मेत्या॑ह । सु॒व॒र्गमे॒व लो॒कमे॑ति । अ॒मृता॑ अभू॒मेत्या॑ह । अ॒मृत॑मिव॒ हि सु॑व॒र्गो लो॒कः । प्र॒जाप॑तेᳶ प्र॒जा अ॑भू॒मेत्या॑ह । प्रा॒जा॒प॒त्यो वा अ॒यल्ँ लो॒कः । अ॒स्मादे॒व तेन॑ लो॒कान्नैति॑ ॥44॥
सम॒हम्प्र॒जया॒ सम्मया॑ प्र॒जेत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । आ॒स॒पु॒टैर्घ्न॑न्ति । अन्नव्ँ॒वा इ॒यम् । अ॒न्नाद्ये॑नै॒वैनँ॒ सम॑र्धयन्ति । ऊषै॑र्घ्नन्ति । ए॒ते हि सा॒क्षादन्न॑म् । यदूषाः॑ । सा॒क्षादे॒वैन॑म॒न्नाद्ये॑न॒ सम॑र्धयन्ति । पु॒रस्ता॑त्प्र॒त्यञ्चं॑ घ्नन्ति ॥45॥
पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते॑ । शी॒र्ष॒तो घ्न॑न्ति । शी॒र्ष॒तो ह्यन्न॑म॒द्यते॑ । दि॒ग्भ्यो घ्न॑न्ति । दि॒ग्भ्य ए॒वास्मा॑ अ॒न्नाद्य॒मव॑रुन्धते । ई॒श्व॒रो वा ए॒ष परा॑ङ्प्र॒दघः॑ । यो यूपँ॒ रोह॑ति । हिर॑ण्यम॒ध्यव॑रोहति । अ॒मृतव्ँ॒ वै हिर॑ण्यम् । अ॒मृतँ॑ सुव॒र्गो लो॒कः ॥46॥
अ॒मृत॑ ए॒व सु॑व॒र्गे लो॒के प्रति॑तिष्ठति । श॒तमा॑नम्भवति । श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति । पुष्ट्यै॒ वा ए॒तद्रू॒पम् । यद॒जा । त्रिस्सव्ँ॑वत्स॒रस्या॒न्यान्प॒शून्परि॒ प्रजा॑यते । ब॒स्ता॒जि॒नम॒ध्यव॑ रोहति । पुष्ट्या॑मे॒व प्र॒जन॑ने॒ प्रति॑तिष्ठति ॥47॥
प॒रि॒धा॒पय॑ति गो॒धूमा॑ जुहोति॒ स्वं नैति॑ प्र॒त्यञ्चं॑ घ्नन्ति लो॒को नव॑ च ॥ 7 ॥
स॒प्तान्न॑हो॒माञ्जु॑होति । स॒प्त वा अन्ना॑नि । याव॑न्त्ये॒वान्ना॑नि । तान्ये॒वाव॑रुन्धे । स॒प्त ग्रा॒म्या ओष॑धयः । स॒प्तार॒ण्याः । उ॒भयी॑षा॒मव॑रुद्ध्यै । अन्न॑स्यान्नस्य जुहोति । अन्न॑स्यान्न॒स्याव॑रुद्ध्यै । यद्वा॑जपेयया॒ज्यन॑वरुद्धस्याश्ञी॒यात् ॥48॥
अव॑रुद्धेन॒ व्यृ॑द्ध्येत । सर्व॑स्य समव॒दाय॑ जुहोति । अन॑वरुद्ध॒स्याव॑रुद्ध्यै । औदु॑म्बरेण स्रु॒वेण॑ जुहोति । ऊर्ग्वा अन्न॑मुदु॒म्बरः॑ । ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै । दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैन॒म्ब्रह्म॑णा दे॒वता॑भिर॒भिषि॑ञ्चति । अन्न॑स्यान्नस्या॒भिषि॑ञ्चति । अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ॥49॥
पु॒रस्ता॑त्प्र॒त्यञ्च॑म॒भिषि॑ञ्चति । पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते॑ । शी॒र्ष॒तो॑ऽभिषि॑ञ्चति । शी॒र्ष॒तो ह्यन्न॑म॒द्यते॑ । आ मुखा॑द॒न्वव॑स्रावयति । मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्य॑न्दधाति । अ॒ग्नेस्त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह । ए॒ष वा अ॒ग्नेस्स॒वः । तेनै॒वैन॑म॒भिषि॑ञ्चति । इन्द्र॑स्य त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह ॥50॥
इ॒न्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति । बृह॒स्पते॑स्त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह । ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पतिः॑ । ब्रह्म॑णै॒वैन॑म॒भिषि॑ञ्चति । सो॒म॒ग्र॒हाँश्चा॑वदानी॒यानि॑ च॒र्त्विग्भ्य॒ उप॑हरन्ति । अ॒मुमे॒व तैर्लो॒कमन्न॑वन्तङ्करोति । सु॒रा॒ग्र॒हाँश्चा॑नवदानी॒यानि॑ च वाज॒सृद्भ्यः॑ । इ॒ममे॒व तैर्लो॒कमन्न॑वन्तङ्करोति । अथो॑ उ॒भयी॑ष्वे॒वाभिषि॑च्यते । वि॒मा॒थङ्कु॑र्वते वाज॒सृतः॑ ॥51॥
इ॒न्द्रि॒यस्याव॑रुद्ध्यै । अनि॑रुक्ताभिᳶ प्रातस्सव॒ने स्तु॑वते । अनि॑रुक्तᳶ प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै॑ । वाज॑वतीभि॒र्माध्य॑न्दिने । अन्नव्ँ॒ वै वाजः॑ । अन्न॑मे॒वाव॑रुन्धे । शि॒पि॒वि॒ष्टव॑तीभिस्तृतीयसव॒ने । य॒ज्ञो वै विष्णुः॑ । प॒शव॒श्शिपिः॑ । य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति । बृ॒हदन्त्य॑म्भवति । अन्त॑मे॒वैन॑ श्रि॒यै ग॑मयति ॥52॥
अ॒श्नी॒यादन्न॑स्यान्न॒स्याव॑रुद्ध्या॒ इन्द्र॑स्य त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह वाज॒सृत॒श्शिपि॒स्त्रीणि॑ च ॥ 8 ॥
नृ॒षद॒न्त्वेत्या॑ह । प्र॒जा वै नॄन् । प्र॒जाना॑मे॒वैतेन॑ सूयते । द्रु॒षद॒मित्या॑ह । वन॒स्पत॑यो॒ वै द्रु । वन॒स्पती॑नामे॒वैतेन॑ सूयते । भु॒व॒न॒सद॒मित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति । भुव॑नमग॒न्निति॒ वै तमा॑हुः । भुव॑नमे॒वैतेन॑ गच्छति ॥ 53 ॥
अ॒प्सु॒षद॑न्त्वा घृत॒सद॒मित्या॑ह । अ॒पामे॒वैतेन॑ घृ॒तस्य॑ सूयते । व्यो॒म॒सद॒मित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति । व्यो॑माग॒न्निति॒ वै तमा॑हुः । व्यो॑मै॒वैते॑न गच्छति । पृ॒थि॒वि॒षद॑न्त्वाऽन्तरिक्ष॒सद॒मित्या॑ह । ए॒षामे॒वैतेन॑ लो॒कानाँ॑ सूयते । तस्मा॑द्वाजपेयया॒जी न कञ्च॒न प्र॒त्यव॑रोहति । अपी॑व॒ हि दे॒वता॑नाँ सू॒यते॑ ॥ 54 ॥
ना॒क॒सद॒मित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति । नाक॑मग॒न्निति॒ वै तमा॑हुः । नाक॑मे॒वैतेन॑ गच्छति । ये ग्रहा॑ᳶ पञ्चज॒नीना॒ इत्या॑ह । प॒ञ्च॒ज॒नाना॑मे॒वैतेन॑ सूयते । अ॒पाँ रस॒मुद्व॑यस॒मित्या॑ह । अ॒पामे॒वैतेन॒ रस॑स्य सूयते । सूर्य॑रश्मिँ स॒माभृ॑त॒मित्या॑ह सशुक्र॒त्वाय॑ ॥ 55 ॥
ग॒च्छ॒ति॒ सू॒यते॒ नव॑ च ॥ 9 ॥
इन्द्रो॑ वृ॒त्रँ ह॒त्वा । असु॑रान्परा॒भाव्य॑ । सो॑ऽमावा॒स्या॑म्प्रत्याग॑च्छत् । ते पि॒तर॑ᳶ पूर्वे॒द्युराग॑च्छन् । पि॒तॄन् य॒ज्ञो॑ऽगच्छत् । तन्दे॒वाᳶ पुन॑रयाचन्त । तमे॑भ्यो॒ न पुन॑रददुः । ते॑ऽब्रुव॒न्वरव्ँ॑वृणामहै । अथ॑ व॒ᳶ पुन॑र्दास्यामः । अ॒स्मभ्य॑मे॒व पू॑र्वे॒द्युᳶ क्रि॑याता॒ इति॑ ॥ 56 ॥
तमे॑भ्य॒ᳶ पुन॑रददुः । तस्मा॑त्पि॒तृभ्य॑ᳶ पूर्वे॒द्युᳶ क्रि॑यते । यत्पि॒तृभ्य॑ᳶ पूर्वे॒द्युᳶ क॒रोति॑ । पि॒तृभ्य॑ ए॒व तद्य॒ज्ञन्नि॒ष्क्रीय॒ यज॑मान॒ᳶ प्रत॑नुते । सोमा॑य पि॒तृपी॑ताय स्व॒धा नम॒ इत्या॑ह । पि॒तुरे॒वाधि॑ सोमपी॒थमव॑रुन्धे । न हि पि॒ता प्र॒मीय॑माण॒ आहै॒ष सो॑मपी॒थ इति॑ । इ॒न्द्रि॒यव्ँ वै सो॑मपी॒थः । इ॒न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्धे । तेने॑न्द्रि॒येण॑ द्वि॒तीया॑ञ्जा॒याम॒भ्य॑श्ञुते ॥ 57 ॥
ए॒तद्वै ब्राह्म॑णम्पु॒रा वा॑जवश्रव॒सा वि॒दाम॑क्रन् । तस्मा॒त्ते द्वेद्वे॑ जा॒ये अ॒भ्या॑क्षत । य ए॒वव्ँ वेद॑ । अ॒भि द्वि॒तीया॑ञ्जा॒याम॑श्ञुते । अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा नम॒ इत्या॑ह । य ए॒व पि॑तृ॒णाम॒ग्निः । तम्प्री॑णाति । ति॒स्र आहु॑तीर्जुहोति । त्रिर्निद॑धाति । षट्त्सम्प॑द्यन्ते ॥ 58 ॥
षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । तू॒ष्णीम्मेक्ष॑ण॒माद॑धाति । अस्ति॑ वा॒ हि ष॒ष्ठ ऋ॒तुर्न वा॑ । दे॒वान् वै पि॒तॄन्प्री॒तान् । म॒नु॒ष्या॑ᳶ पि॒तरोऽनु॒ प्रपि॑पते । ति॒स्र आहु॑तीर्जुहोति । त्रिर्निद॑धाति । षट्त्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ ॥ 59 ॥
ऋ॒तव॒ᳶ खलु॒ वै दे॒वाᳶ पि॒तरः॑ । ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति । तान्प्री॒तान् । म॒नु॒ष्या॑ᳶ पि॒तरोऽनु॒ प्रपि॑पते । स॒कृ॒दा॒च्छि॒न्नम्ब॒र्हिर्भ॑वति । स॒कृदि॑व॒ हि पि॒तरः॑ । त्रिर्निद॑धाति । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति । परा॒ङाव॑र्तते ॥ 60 ॥
ह्लीका॒ हि पि॒तरः॑ । ओष्मणो॑ व्या॒वृत॒ उपा॑स्ते । ऊ॒ष्मभा॑गा॒ हि पि॒तरः॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । प्राश्या (3) न्न प्राश्या (3) मिति॑ । यत्प्रा॑श्ञी॒यात् । जन्य॒मन्न॑मद्यात् । प्र॒मायु॑कस्स्यात् । यन्न प्रा॑श्ञी॒यात् । अह॑विस्स्यात् ॥ 61 ॥
पि॒तृभ्य॒ आवृ॑श्च्येत । अ॒व॒घ्रेय॑मे॒व । तन्नेव॒ प्राशि॑त॒न्नेवाप्रा॑शितम् । वी॒रव्ँवा॒ वै पि॒तर॑ᳶ प्र॒यन्तो॒ हर॑न्ति । वी॒रव्ँवा॑ ददति । द॒शाञ्छि॑नत्ति । हर॑णभागा॒ हि पि॒तरः॑ । पि॒तॄने॒व नि॒रव॑दयते । उत्त॑र॒ आयु॑षि॒ लोम॑ छिन्दीत । पि॒तृ॒णाँ ह्ये॑तर्हि॒ नेदी॑यः ॥ 62 ॥
नम॑स्करोति । न॒म॒स्का॒रो हि पि॑तृ॒णाम् । नमो॑ वᳶ पितरो॒ रसा॑य । नमो॑ वᳶ पितर॒श्शुष्मा॑य । नमो॑ वᳶ पितरो जी॒वाय॑ । नमो॑ वᳶ पितरस्स्व॒धायै॑ । नमो॑ वᳶ पितरो म॒न्यवे॑ । नमो॑ वᳶ पितरो घो॒राय॑ । पित॑रो॒ नमो॑ वः । य ए॒तस्मिल्ँ॑ लो॒के स्थ ॥ 63 ॥
यु॒ष्माँस्तेऽनु॑ । ये॑ऽस्मिल्लोँ॒के । मान्तेऽनु॑ । य ए॒तस्मिल्ँ॑ लो॒के स्थ । यू॒यन्तेषाव्ँ॒वसि॑ष्ठा भूयास्त । ये॑ऽस्मिल्लोँ॒के । अ॒हन्तेषाव्ँ॒वसि॑ष्ठो भूयास॒मित्या॑ह । वसि॑ष्ठस्समा॒नाना॑म्भवति । य ए॒वव्ँवि॒द्वान्पि॒तृभ्य॑ᳶ क॒रोति॑ । ए॒ष वै म॑नु॒ष्या॑णाय्ँ य॒ज्ञः ॥ 64 ॥
दे॒वानाव्ँ॒वा इत॑रे य॒ज्ञाः । तेन॒ वा ए॒तत्पि॑तृलो॒के च॑रति । यत्पि॒तृभ्य॑ᳶ क॒रोति॑ । स ई॑श्व॒रᳶ प्रमे॑तोः । प्रा॒जा॒प॒त्यय॒र्चा पुन॒रैति॑ । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञेनै॒व स॒ह पुन॒रैति॑ । न प्र॒मायु॑को भवति । पि॒तृ॒लो॒के वा ए॒तद्यज॑मानश्चरति । यत्पि॒तृभ्य॑ᳶ क॒रोति॑ । स ई॑श्व॒र आर्ति॒मार्तोः॑ । प्र॒जाप॑ति॒स्त्वावैन॒न्तत॒ उन्ने॑तुमर्ह॒तीत्या॑हुः । यत्प्रा॑जाप॒त्यय॒र्चा पुन॒रैति॑ । प्र॒जाप॑तिरे॒वैन॒न्तत॒ उन्न॑यति । नार्ति॒मार्च्छ॑ति॒ यज॑मानः ॥ 65 ॥
इत्य॑श्नुते पद्यन्ते पद्यन्ते॒ षड्वा ऋ॒तवो॑ वर्त॒तेऽह॑विस्स्या॒न्नेदी॑य॒स्स्थ य॒ज्ञो यज॑मानश्चरति॒ यत्पि॒तृभ्य॑ᳶ क॒रोति॒ पञ्च॑ च ॥ 10 ॥
दे॒वा॒सु॒रा अ॒ग्नीषोम॑योर्दे॒वा वै यथा॒दर्शं॑ दे॒वा वै यद॒न्यैर्ग्रहै॑र्ब्रह्मवा॒दिनो॒ नाग्नि॑ष्टो॒मो न सा॑वि॒त्रं दे॒वस्या॒हं ता॒र्प्यँ स॒प्तान्न॑हो॒मान्नृ॒षदं॒ त्वेन्द्रो॑ वृ॒त्रँ ह॒त्वा दश॑ ॥ 10॥ दे॒वा॒सु॒रा वा॒ज्ये॑वैनं॒ तस्मा॑द्वाजपेयया॒जी दे॒वस्या॒हं वाज॒स्याव॑रुद्ध्या इन्द्रि॒यमे॒वास्मि॒न् ह्लीका॒ हि पि॒तर॒ᳶ पञ्च॑षष्टिः ॥ 65 ॥ ॥ दे॒वा॒सु॒रा यज॑मानः ॥ हरिः॑ ओम् ॥ श्रीकृष्णार्पणमस्तु । इति तैत्तिरीय ब्राह्मणे प्रथमाष्टके तृतीयप्रपाठकः