उ॒द्ध॒न्यमा॑नम॒स्या अ॑मे॒ध्यम् । अप॑ पा॒प्मानय्ँ॒यज॑मानस्य हन्तु । शि॒वा न॑स्सन्तु प्र॒दिश॒श्चत॑स्रः । शन्नो॑ मा॒ता पृ॑थि॒वी तोक॑साता । शन्नो॑ दे॒वीर॒भिष्ट॑ये । आपो॑ भवन्तु पी॒तये॑ । शय्ँयोर॒भि स्र॑वन्तु नः । वै॒श्वा॒न॒रस्य॑ रू॒पम् । पृ॒थि॒व्याम्प॑रि॒स्रसा॑ । स्यो॒नमा वि॑शन्तु नः ॥1॥

यदि॒दन्दि॒वो यद॒दᳶ पृ॑थि॒व्याः । स॒ञ्ज॒ज्ञा॒ने रोद॑सी सम्बभू॒वतुः॑ । ऊषा॑न्कृ॒ष्णम॑वतु कृ॒ष्णमूषाः॑ । इ॒होभयो॑र्य॒ज्ञिय॒माग॑मिष्ठाः । ऊ॒तीᳶ कु॑र्वा॒णो यत्पृ॑थि॒वीमच॑रः । गु॒हा॒कार॑माखुरू॒पम्प्र॒तीत्य॑ । तत्ते॒ न्य॑क्तमि॒ह स॒म्भर॑न्तः । श॒तञ्जी॑वेम श॒रद॒स्सवी॑राः । ऊर्ज॑म्पृथि॒व्या रस॑मा॒भर॑न्तः । श॒तञ्जी॑वेम श॒रद॑ᳶ पुरू॒चीः ॥2॥

व॒म्रीभि॒रनु॑वित्त॒ङ्गुहा॑सु । श्रोत्र॑न्त उ॒र्व्यब॑धिरा भवामः । प्र॒जाप॑तिसृष्टानाम्प्र॒जाना॑म् । क्षु॒धोऽप॑हत्यै सुवि॒तन्नो॑ अस्तु । उप॒ प्रभि॑न्न॒मिष॒मूर्ज॑म्प्र॒जाभ्यः॑ । सूद॑ङ्गृ॒हेभ्यो॒ रस॒माभ॑रामि । यस्य॑ रू॒पम्बिभ्र॑दि॒मामवि॑न्दत् । गुहा॒ प्रवि॑ष्टाँ सरि॒रस्य॒ मध्ये॑ । तस्ये॒दव्ँविह॑तमा॒भर॑न्तः । अछ॑म्बट्कारम॒स्याव्ँवि॑धेम ॥3॥

यत्प॒र्यप॑श्यत्सरि॒रस्य॒ मध्ये॑ । उ॒र्वीमप॑श्य॒ज्जग॑तᳶ प्रति॒ष्ठाम् । तत्पुष्क॑रस्या॒यत॑ना॒द्धि जा॒तम् । प॒र्णम्पृ॑थि॒व्याᳶ प्रथ॑नँ हरामि । याभि॒रदृँ॑ह॒ज्जग॑तᳶ प्रति॒ष्ठाम् । उ॒र्वीमि॒माव्ँवि॑श्वज॒नस्य॑ भ॒र्त्रीम् । ता न॑श्शि॒वाश्शर्क॑रास्सन्तु॒ सर्वाः॑ । अ॒ग्ने रेत॑श्च॒न्द्रँ हिर॑ण्यम् । अ॒द्भ्यस्सम्भू॑तम॒मृत॑म्प्र॒जासु॑ । तत्स॒म्भर॑न्नुत्तर॒तो नि॒धाय॑ ॥4॥

अ॒ति॒प्र॒यच्छ॒न्दुरि॑तिन्तरेयम् । अश्वो॑ रू॒पङ्कृ॒त्वा यद॑श्व॒त्थेऽति॑ष्ठः । सव्ँ॒व॒त्स॒रन्दे॒वेभ्यो॑ नि॒लाय॑ । तत्ते॒ न्य॑क्तमि॒ह स॒म्भर॑न्तः । श॒तञ्जी॑वेम श॒रद॒स्सवी॑राः । ऊ॒र्जᳶ पृ॑थि॒व्या अध्युत्थि॑तोऽसि । वन॑स्पते श॒तव॑ल्‌शो॒ विरो॑ह । त्वया॑ व॒यमिष॒मूर्ज॒म्मद॑न्तः । रा॒यस्पोषे॑ण॒ समि॒षा म॑देम । गा॒य॒त्रि॒या ह्रि॒यमा॑णस्य॒ यत्ते॑ ॥5॥

प॒र्णमप॑तत्तृ॒तीय॑स्यै दि॒वोऽधि॑ । सो॑ऽयम्प॒र्णस्सो॑मप॒र्णाद्धि जा॒तः । ततो॑ हरामि सोमपी॒थस्याव॑रुद्ध्यै । दे॒वाना॑म्ब्रह्मवा॒दव्ँवद॑ताय्ँ॒यत् । उ॒पाशृ॑णोस्सु॒श्रवा॒ वै श्रु॒तो॑ऽसि । ततो॒ मामावि॑शतु ब्रह्मवर्च॒सम् । तत्स॒म्भर॒॒ स्तदव॑रुन्धीय सा॒क्षात् । यया॑ ते सृ॒ष्टस्या॒ग्नेः । हे॒तिमश॑मयत्प्र॒जाप॑तिः । तामि॒मामप्र॑दाहाय ॥6॥

श॒मीँ शान्त्यै॑ हराम्य॒हम् । यत्ते॑ सृ॒ष्टस्य॑ य॒तः । विक॑ङ्कत॒म्भा आ॑र्च्छज्जातवेदः । तया॑ भा॒सा सम्मि॑तः । उ॒रुन्नो॑ लो॒कमनु॒ प्रभा॑हि । यत्ते॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दञ्जातवेदः । म॒रुतो॒ऽद्भिस्त॑मयि॒त्वा । ए॒तत्ते॒ तद॑श॒नेस्सम्भ॑रामि । सात्मा॑ अग्ने॒ सहृ॑दयो भवे॒ह । चित्रि॑यादश्व॒त्थात्सम्भृ॑ता बृह॒त्यः॑ ॥7॥

शरी॑रम॒भि सस्कृ॑तास्स्थ । प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑ताः । ति॒स्रस्त्रि॒वृद्भि॑र्मिथु॒नाᳶ प्रजा॑त्यै । अ॒श्व॒त्थाद्ध॑व्यवा॒हाद्धि जा॒ताम् । अ॒ग्नेस्त॒नूय्ँ य॒ज्ञियाँ॒ सम्भ॑रामि । शा॒न्तयो॑निँ शमीग॒र्भम् । अ॒ग्नये॒ प्रज॑नयि॒तवे॑ । यो अ॑श्व॒त्थश्श॑मीग॒र्भः । आ॒रु॒रोह॒ त्वे सचा॑ । तन्ते॑ हरामि॒ ब्रह्म॑णा ॥8॥

य॒ज्ञियैः॑ के॒तुभि॑स्स॒ह । यन्त्वा॑ स॒मभ॑रञ्जातवेदः । य॒था॒श॒री॒रम्भू॒तेषु॒ न्य॑क्तम् । स सम्भृ॑तस्सीद शि॒वᳶ प्र॒जाभ्यः॑ । उ॒रुन्नो॑ लो॒कमनु॑नेषि वि॒द्वान् । प्रवे॒धसे॑ क॒वये॒ मेध्या॑य । वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे॑ । यतो॑ भ॒यमभ॑य॒न्तन्नो॑ अस्तु । अव॑ दे॒वान् य॑जे॒हेड्या॑न् । स॒मिधा॒ऽग्निन्दु॑वस्यत ॥9॥

घृ॒तैर्बो॑धय॒ताति॑थिम् । आऽस्मि॑न् ह॒व्या जु॑होतन । उप॑ त्वाऽग्ने ह॒विष्म॑तीः । घृ॒ताची॑र्यन्तु हर्यत । जु॒षस्व॑ स॒मिधो॒ मम॑ । तन्त्वा॑ स॒मिद्भि॑रङ्गिरः । घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य । स॒मि॒ध्यमा॑नᳶ प्रथ॒मो नु धर्मः॑ । सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः ॥10॥

शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः । सु॒य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् । घृ॒तप्र॑तीको घृ॒तयो॑निर॒ग्निः । घृ॒तैस्समि॑द्धो घृ॒तम॒स्यान्न॑म् । घृ॒त॒प्रुष॑स्त्वा स॒रितो॑ वहन्ति । घृ॒तम्पिब॑न्त्सु॒यजा॑ यक्षि दे॒वान् । आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णः । घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तम्पी॒त्वा मधु॒ चारु॒ गव्य॑म् । पि॒तेव॑ पु॒त्रम॒भिर॑क्षतादि॒मम् ॥11॥

त्वाम॑ग्ने समिधा॒नय्ँय॑विष्ठ । दे॒वा दू॒तञ्च॑क्रिरे हव्य॒वाह॑म् । उ॒रु॒ज्रय॑सङ्घृ॒तयो॑नि॒माहु॑तम् । त्वे॒षञ्चक्षु॑र्दधिरे चोद॒यन्व॑ति । त्वाम॑ग्ने प्र॒दिव॒ आहु॑तङ्घृ॒तेन॑ । सु॒म्ना॒यव॑स्सुष॒मिधा॒ समी॑धिरे । स वा॑वृधा॒न ओष॑धीभिरुक्षि॒तः । उ॒रु ज्रयाँ॑सि॒ पार्थि॑वा॒ विति॑ष्ठसे । घृ॒तप्र॑तीकव्ँव ऋ॒तस्य॑ धूर्॒षद॑म् । अ॒ग्निम्मि॒त्रन्न स॑मिधा॒न ऋ॑ञ्जते ॥12॥

इन्धा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑त् । शु॒क्रव॑र्णा॒मुदु॑ नो यँसते॒ धिय॑म् । प्र॒जा अ॑ग्ने॒ सव्ँवा॑सय । आशा॑श्च प॒शुभि॑स्स॒ह । रा॒ष्ट्राण्य॑स्मा॒ आधे॑हि । यान्यास॑न्त्सवि॒तुस्स॒वे । म॒ही वि॒श्पत्नी॒ सद॑ने ऋ॒तस्य॑ । अ॒र्वाची॒ एत॑न्धरुणे रयी॒णाम् । अ॒न्तर्व॑त्नी॒ जन्य॑ञ्जा॒तवे॑दसम् । अ॒ध्व॒राणा॑ञ्जनयथᳶ पुरो॒गाम् ॥13॥

आरो॑हतन्द॒शतँ॒ शक्व॑री॒र्मम॑ । ऋ॒तेना॑ग्न॒ आयु॑षा॒ वर्च॑सा स॒ह । ज्योग्जीव॑न्त॒ उत्त॑रामुत्तराँ॒ समा॑म् । दर्श॑म॒हम्पू॒र्णमा॑सय्ँ य॒ज्ञय्ँयथा॒ यजै॑ । ऋत्वि॑यवती स्थो अ॒ग्निरे॑तसौ । गर्भ॑न्दधाथा॒न्ते वा॑म॒हन्द॑दे । तत्स॒त्यय्ँयद्वी॒रम्बि॑भृथः । वी॒रञ्ज॑नयि॒ष्यथः॑ । ते मत्प्रा॒तᳶ प्रज॑निष्येथे । ते मा॒ प्रजा॑ते॒ प्रज॑नयि॒ष्यथः॑ ॥14॥

प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ सुव॒र्गे लो॒के । अनृ॑तात्स॒त्यमुपै॑मि । मा॒नु॒षाद्देव्य॒मुपै॑मि । दैवीव्ँ॒वाचय्ँ॑यच्छामि । शल्कै॑र॒ग्निमि॑न्धा॒नः । उ॒भौ लो॒कौ स॑नेम॒हम् । उ॒भयो॑र्लो॒कयो॑र्ऋ॒ध्वा । अति॑ मृ॒त्युन्त॑राम्य॒हम् । जात॑वेदो॒ भुव॑नस्य॒ रेतः॑ । इ॒ह सि॑ञ्च॒ तप॑सो॒ यज्ज॑नि॒ष्यते॑ ॥15॥

अ॒ग्निम॑श्व॒त्थादधि॑ हव्य॒वाह॑म् । श॒मी॒ग॒र्भाज्ज॒नय॒न्यो म॑यो॒भूः । अ॒यन्ते॒ योनि॑र्ऋ॒त्वियः॑ । यतो॑ जा॒तो अरो॑चथाः । तञ्जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्धया र॒यिम् । अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑ । येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अदा॑दि॒दय्ँय॒मो॑ऽव॒सान॑म्पृथि॒व्याः । अक्र॑न्नि॒मम्पि॒तरो॑ लो॒कम॑स्मै ॥16॥

अ॒ग्नेर्भस्मा॑स्य॒ग्नेᳶ पुरी॑षमसि । सं॒ज्ञान॑मसि काम॒धर॑णम् । मयि॑ ते काम॒धर॑णम्भूयात् । सव्ँव॑स्सृजामि॒ हृद॑यानि । सँसृ॑ष्ट॒म्मनो॑ अस्तु वः । संँसृ॑ष्टᳶ प्रा॒णो अ॑स्तु वः । सय्ँया व॑ᳶ प्रि॒यास्त॒नुवः॑ । सम्प्रि॒या हृद॑यानि वः । आ॒त्मा वो॑ अस्तु॒ सम्प्रि॑यः । सम्प्रि॑यास्त॒नुवो॒ मम॑ ॥17 ॥

कल्पे॑ता॒न्द्यावा॑पृथि॒वी । कल्प॑न्ता॒माप॒ ओष॑धीः । कल्प॑न्ताम॒ग्नय॒ᳶ पृथ॑क् । मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः । ये॑ऽग्नय॒स्सम॑नसः । अ॒न्त॒रा द्यावा॑पृथि॒वी । वास॑न्तिकावृ॒तू अ॒भि कल्प॑मानाः । इन्द्र॑मिव दे॒वा अ॒भिसव्ँवि॑शन्तु । दि॒वस्त्वा॑ वी॒र्ये॑ण । पृ॒थि॒व्यै म॑हि॒म्ना ॥18॥

अ॒न्तरि॑क्षस्य॒ पोषे॑ण । स॒र्वप॑शु॒माद॑धे । अजी॑जनन्न॒मृत॒म्मर्त्या॑सः । अ॒स्रे॒माण॑न्त॒रणिव्ँ॑वी॒डुज॑म्भम् । दश॒ स्वसा॑रो अ॒ग्रुव॑स्समी॒चीः । पुमाँ॑सञ्जा॒तम॒भि सँर॑भन्ताम् । प्र॒जाप॑तेस्त्वा प्रा॒णेनाभि॒ प्राणि॑मि । पू॒ष्णᳶ पोषे॑ण॒ मह्य॑म् । दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय । श॒तँ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से ॥19॥

जी॒वात्वै पुण्या॑य । अ॒हन्त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि । ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्रᳶ पि॒त्रे लो॑क॒कृज्जा॑तवेदः । प्रा॒णे त्वा॒ऽमृत॒माद॑धामि । अ॒न्ना॒दम॒न्नाद्या॑य । गो॒प्तार॒ङ्गुप्त्यै॑ । सु॒गा॒र्ह॒प॒त्यो वि॒दह॒न्नरा॑तीः । उ॒षस॒श्श्रेय॑सीश्श्रेयसी॒र्दध॑त् ॥20॥

अग्ने॑ स॒पत्नाँ॑ अप॒ बाध॑मानः । रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ धेहि । इ॒मा उ॒ मामुप॑तिष्ठन्तु॒ रायः॑ । आ॒भिᳶ प्र॒जाभि॑रि॒ह सव्ँव॑सेय । इ॒हो इडा॑ तिष्ठतु विश्वरू॒पी । मध्ये॒ वसो॑र्दीदिहि जातवेदः । ओज॑से॒ बला॑य॒ त्वोद्य॑च्छे । वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से । स॒प॒त्न॒तूर॑सि वृत्र॒तूः । यस्ते॑ दे॒वेषु॑ महि॒मा सु॑व॒र्गः ॥21॥

यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः । पुष्टि॒र्या ते॑ मनु॒ष्ये॑षु पप्र॒थे । तया॑ नो अग्ने जु॒षमा॑ण॒ एहि॑ । दि॒वᳶ पृ॑थि॒व्याᳶ पर्य॒न्तरि॑क्षात् । वाता॑त्प॒शुभ्यो॒ अध्योष॑धीभ्यः । यत्र॑यत्र जातवेदस्सम्ब॒भूथ॑ । ततो॑ नो अग्ने जु॒षमा॑ण॒ एहि॑ । प्राची॒मनु॑ प्र॒दिश॒म्प्रेहि॑ वि॒द्वान् । अ॒ग्नेर॑ग्ने पु॒रोअ॑ग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि ॥22॥

ऊर्ज॑न्नो धेहि द्वि॒पदे॒ चतु॑ष्पदे । अन्व॒ग्निरु॒षसा॒मग्र॑मख्यत् । अन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीन् । अनु॒ द्यावा॑पृथि॒वी आत॑तान । विक्र॑मस्व म॒हाँ अ॑सि । वे॒दि॒षन्मानु॑षेभ्यः । त्रि॒षु लो॒केषु॑ जागृहि । यदि॒दन्दि॒वो यद॒दᳶ पृ॑थि॒व्याः । सव्ँ॒वि॒दा॒ने रोद॑सी सम्बभू॒वतुः॑ ॥23॥

तयोः॑ पृ॒ष्ठे सी॑दतु जा॒तवे॑दाः । श॒म्भूᳶ प्र॒जाभ्य॑स्त॒नुवे॑ स्यो॒नः । प्रा॒णन्त्वा॒ऽमृत॒ आ द॑धामि । अ॒न्ना॒दम॒न्नाद्या॑य । गो॒प्तार॒ङ्गुप्त्यै॑ । यत्ते॑ शुक्र शु॒क्रव्ँवर्च॑श्शु॒क्रा त॒नूः । शु॒क्रञ्ज्योति॒रज॑स्रम् । तेन॑ मे दीदिहि॒ तेन॒ त्वाऽऽद॑धे । अ॒ग्निना॑ऽग्ने॒ ब्रह्म॑णा । आ॒न॒शे व्या॑नशे॒ सर्व॒मायु॒र्व्या॑नशे ॥ 24॥

नर्य॑ प्र॒जाम्मे॑ गोपाय । अ॒मृ॒त॒त्वाय॑ जी॒वसे॑ । जा॒ताञ्ज॑नि॒ष्यमा॑णाञ्च । अ॒मृते॑ स॒त्ये प्रति॑ष्ठिताम् । अथ॑र्व पि॒तुम्मे॑ गोपाय । रस॒मन्न॑मि॒हायु॑षे । अद॑ब्धा॒योऽशी॑ततनो । अवि॑षन्नᳶ पि॒तुङ्कृ॑णु । शँस्य॑ प॒शून्मे॑ गोपाय । द्वि॒पादो॒ ये चतु॑ष्पदः ॥25॥

अ॒ष्टाश॑फाश्च॒ य इ॒हाग्ने॑ । ये चैक॑शफा आशु॒गाः । सप्र॑थ स॒भाम्मे॑ गोपाय । ये च॒ सभ्या॑स्सभा॒सदः॑ । तानि॑न्द्रि॒याव॑तᳶ कुरु । सर्व॒मायु॒रुपा॑सताम् । अहे॑ बुध्निय॒ मन्त्र॑म्मे गोपाय । यमृष॑यस्त्रैवि॒दा वि॒दुः । ऋच॒स्सामा॑नि॒ यजूँ॑षि । सा हि श्रीर॒मृता॑ स॒ताम् ॥26॥

चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः॑ । घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये॑ । म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय । मह्य॑न्धुक्ष्व॒ यज॑मानाय॒ कामा॑न् । इ॒हैव सन्तत्र॑ स॒तो वो॑ अग्नयः । प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि । ति॒रो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् । ज्योति॑षा वो वैश्वान॒रेणोप॑तिष्ठे । प॒ञ्च॒धाऽग्नीन्व्य॑क्रामत् । वि॒राट्त्सृ॒ष्टा प्र॒जाप॑तेः । ऊ॒र्ध्वाऽऽरो॑हद्रोहि॒णी । योनि॑र॒ग्नेᳶ प्रति॑ष्ठितिः ॥27॥

वि॒श॒न्तु॒ नः॒ पु॒रू॒चीर्वि॑धेम नि॒धाय॒ यत्तेऽप्र॑दाहाय बृह॒त्यो॑ ब्रह्म॑णा दुवस्यत वि॒श्ववा॑र इ॒ममृ॑ञ्जते पुरो॒गां प्रज॑नयि॒ष्यथो॑ जनि॒ष्यते॑ऽस्मै॒ मम॑ महि॒म्ना वर्च॑से॒ दध॑त्सुव॒र्गो भा॑हि संबभू॒वतु॒रायु॒र्व्या॑नशे॒ चतु॑ष्सदस्स॒तां प्र॒जाप॑ते॒र्द्वे च॑ ॥ 1 ॥

नवै॒तान्यहा॑नि भवन्ति । नव॒ वै सु॑व॒र्गा लो॒काः । यदे॒तान्यहा॑न्युप॒यन्ति॑ । न॒वस्वे॒व तत्सु॑व॒र्गेषु॑ लो॒केषु॑ स॒त्रिण॑ᳶ प्रति॒तिष्ठ॑न्तो यन्ति । अ॒ग्नि॒ष्टो॒माᳶ पर॑स्सामानᳶ का॒र्या॑ इत्या॑हुः । अ॒ग्नि॒ष्टो॒मस॑म्मितस्सुव॒र्गो लो॒क इति॑ । द्वाद॑शाग्निष्टो॒मस्य॑ स्तो॒त्राणि॑ । द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः । तत्तन्न सूर्क्ष्य॑म् । उ॒क्थ्या॑ ए॒व स॑प्तद॒शाᳶ पर॑स्सामानᳶ का॒र्याः॑ ॥28॥

प॒शवो॒ वा उ॒क्थानि॑ । प॒शू॒नामव॑रुद्ध्यै । वि॒श्व॒जि॒द॒भि॒जिता॑वग्निष्टो॒मौ । उ॒क्थ्या॑स्सप्तद॒शाᳶ पर॑स्समानः । ते सस्तु॑ता वि॒राज॑म॒भिसम्प॑द्यन्ते । द्वे चर्चा॒वति॑रिच्येते । एक॑या॒ गौरति॑रिक्तः । एक॒याऽऽयु॑रू॒नः । सु॒व॒र्गो वै लो॒को ज्योतिः॑ । ऊर्ग्वि॒राट् ॥29॥

सु॒व॒र्गमे॒व तेन॑ लो॒कम॒भिज॑यन्ति । यत्परँ॒ राथ॑न्तरम् । तत्प्र॑थ॒मेऽह॑न्का॒र्य॑म् । बृ॒हद्द्वि॒तीये॑ । वै॒रू॒पन्तृ॒तीये॑ । वै॒रा॒जञ्च॑तु॒र्थे । शा॒क्व॒रम्प॑ञ्च॒मे । रै॒व॒तँ ष॒ष्ठे । तदु॑ पृ॒ष्ठेभ्यो॒ नय॑न्ति । स॒न्तन॑य ए॒ते ग्रहा॑ गृह्यन्ते ॥30॥

अ॒ति॒ग्रा॒ह्या॑ᳶ पर॑स्सामसु । इ॒माने॒वैतैर्लो॒कान्त्सन्त॑न्वन्ति । मि॒थु॒ना ए॒ते ग्रहा॑ गृह्यन्ते । अ॒ति॒ग्रा॒ह्या॑ᳶ पर॑स्सामसु । मि॒थु॒नमे॒व तैर्यज॑माना॒ अव॑रुन्धते । बृ॒हत्पृ॒ष्ठम्भ॑वति । बृ॒हद्वै सु॑व॒र्गो लो॒कः । बृ॒ह॒तैव सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति । त्र॒य॒स्त्रिँ॒शिनाम॒ साम॑ । माध्य॑न्दिने॒ पव॑माने भवति ॥31॥

त्रय॑स्त्रिँश॒द्वै दे॒वताः॑ । दे॒वता॑ ए॒वाव॑रुन्धते । ये वा इ॒तᳶ परा॑ञ्चँ सव्ँवत्स॒रमु॑प॒यन्ति॑ । न है॑न॒न्ते स्व॒स्ति सम॑श्ञुवते । अथ॒ ये॑ऽमुतो॒ऽर्वाञ्च॑मुप॒यन्ति॑ । ते है॑न स्व॒स्ति सम॑श्ञुवते । ए॒तद्वा अ॒मुतो॒ऽर्वाञ्च॒मुप॑यन्ति । यदे॒वम् । यो ह॒ खलु॒ वाव प्र॒जाप॑तिः । स उ॑वे॒वेन्द्रः॑ । तदु॑ दे॒वेभ्यो॒ नय॑न्ति ॥32॥

का॒र्या॑ वि॒राड्गृ॑ह्यन्ते॒ पव॑माने भव॒तीन्द्र॒ एकं॑ च ॥ 2 ॥

सन्त॑ति॒र्वा ए॒ते ग्रहाः॑ । यत्पर॑स्सामानः । वि॒षू॒वान्दि॑वाकी॒र्त्य॑म् । यथा॒ शाला॑यै॒ पक्ष॑सी । ए॒वँ सव्ँ॑वत्स॒रस्य॒ पक्ष॑सी । यदे॒तेन गृ॒ह्येर॑न् । विषू॑ची सव्ँवत्स॒रस्य॒ पक्ष॑सी॒ व्यव॑स्रँसेयाताम् । आर्ति॒मार्च्छे॑युः । यदे॒ते गृ॒ह्यन्ते॑ । यथा॒ शाला॑यै॒ प॑क्षसी मध्य॒मव्ँवँ॒शम॒भिस॑मा॒यच्छ॑ति ॥33॥

ए॒वँ सव्ँ॑वत्स॒रस्य॒ पक्ष॑सी दिवाकी॒र्त्य॑म॒भिसन्त॑न्वन्ति । नार्ति॒मार्च्छ॑न्ति । ए॒क॒विँ॒शमह॑र्भवति । शु॒क्राग्रा॒ ग्रहा॑ गृह्यन्ते । प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ । सौ॒र्य॑ ए॒तदह॑ᳶ प॒शुराल॑भ्यते । सौ॒र्यो॑ऽतिग्रा॒ह्यो॑ गृह्यते । अह॑रे॒व रू॒पेण॒ सम॑र्धयन्ति । अथो॒ अह्न॑ ए॒वैष ब॒लिर्ह्रि॑यते । स॒प्तैतदह॑रतिग्रा॒ह्या॑ गृह्यन्ते ॥34॥

स॒प्त वै शी॑र्ष॒ण्या॑ᳶ प्रा॒णाः । अ॒सावा॑दि॒त्यश्शिर॑ᳶ प्र॒जाना॑म् । शी॒र्षन्ने॒व प्र॒जाना॑म्प्रा॒णान्द॑धाति । तस्मा॑त्स॒प्त शी॒र्षन्प्रा॒णाः । इन्द्रो॑ वृ॒त्रँ ह॒त्वा । असु॑रान्परा॒भाव्य॑ । स इ॒माल्लोँ॒कान॒भ्य॑जयत् । तस्या॒सौ लो॒कोऽन॑भिजित आसीत् । तव्ँवि॒श्वक॑र्मा भू॒त्वाऽभ्य॑जयत् । यद्वै॑श्वकर्म॒णो गृ॒ह्यते॑ ॥35॥

सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । प्र वा ए॒ते॑ऽस्माल्लो॒काच्च्य॑वन्ते । ये वै॑श्वकर्म॒णङ्गृ॒ह्णते॑ । आ॒दि॒त्यश्श्वो गृ॑ह्यते । इ॒यव्ँ वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति । अ॒न्यो॑न्यो गृह्येते । विश्वा॑न्ये॒वान्येन॒ कर्मा॑णि कुर्वा॒णा य॑न्ति । अ॒स्याम॒न्येन॒ प्रति॑तिष्ठन्ति । तावाऽप॑रा॒र्धात्सव्ँ॑वत्स॒रस्या॒न्यो॑न्यो गृह्येते । तावु॒भौ स॒ह म॑हाव्र॒ते गृ॑ह्येते । य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वा । उ॒भयो॑र्लो॒कयो॒ᳶ प्रति॑तिष्ठन्ति । अ॒र्क्य॑मु॒क्थम्भ॑वति । अ॒न्नाद्य॒स्याव॑रुध्यै ॥ 36॥

स॒मा॒यच्छ॑त्यतिग्रा॒ह्या॑ गृह्यन्ते गृ॒ह्यते॑ संवत्स॒रस्या॒न्यो॑न्यो गृह्येते॒ पञ्च॑ च ॥ 3 ॥

ए॒क॒विँ॒श ए॒ष भ॑वति । ए॒तेन॒ वै दे॒वा ए॑कविँ॒शेन॑ । आ॒दि॒त्यमि॒त उ॑त्त॒मँ सु॑व॒र्गल्ँ लो॒कमारो॑हयन् । स वा ए॒ष इ॒त ए॑कविँ॒शः । तस्य॒ दशा॒वस्ता॒दहा॑नि । दश॑ प॒रस्ता॑त् । स वा ए॒ष वि॒राज्यु॑भ॒यत॒ᳶ प्रति॑ष्ठितः । वि॒राजि॒ हि वा ए॒ष उ॑भ॒यत॒ᳶ प्रति॑ष्ठितः । तस्मा॑दन्त॒रेमौ लो॒कौ यन् । सर्वे॑षु सुव॒र्गेषु॑ लो॒केष्व॑भि॒तप॑न्नेति ॥37॥

दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । परा॑चोऽतिपा॒दाद॑बिभयुः । तञ्छन्दो॑भिरदृँह॒न्धृत्यै॑ । दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । अवा॑चोऽवपा॒दाद॑बिभयुः । तम्प॒ञ्चभी॑ र॒श्मिभि॒रुद॑वयन् । तस्मा॑देकविँ॒शेऽह॒न्पञ्च॑ दिवाकी॒र्त्या॑नि क्रियन्ते । र॒श्मयो॒ वै दि॑वाकी॒र्त्या॑नि । ये गा॑य॒त्रे । ते गा॑य॒त्रीषूत्त॑रयो॒ᳶ पव॑मानयोः ॥38॥

म॒हादि॑वाकीर्त्यँ॒ होतु॑ᳶ पृ॒ष्ठम् । वि॒क॒र्णम्ब्र॑ह्मसा॒मम् । भा॒सो॑ऽग्निष्टो॒मः । अथै॒तानि॒ परा॑णि । परै॒र्वै दे॒वा आ॑दि॒त्यँ सु॑व॒र्गल्ँ लो॒कम॑पारयन् । यदपा॑रयन् । तत्परा॑णाम्पर॒त्वम् । पा॒रय॑न्त्येन॒म्परा॑णि । य ए॒वव्ँ वेद॑ । अथै॒तानि॒ स्परा॑णि । स्परै॒र्वै दे॒वा आ॑दि॒त्यँ सु॑व॒र्गल्ँ लो॒कम॑स्पारयन् । यदस्पा॑रयन् । तत्स्परा॑णाँ स्पर॒त्वम् । स्पा॒रय॑न्त्यैन॒॒ स्परा॑णि । य ए॒वव्ँ वेद॑ ॥39॥

ए॒ति॒ पव॑मानयो॒स्स्परा॑णि॒ पञ्च॑ च ॥ 4 ॥

अप्र॑तिष्ठाव्ँ॒वा ए॒ते ग॑च्छन्ति । येषाँ॑ सव्ँवत्स॒रेऽना॒प्तेऽथ॑ । ए॒का॒द॒शिन्या॒प्यते॑ । वै॒ष्ण॒वव्ँवा॑म॒नमाल॑भन्ते । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञमे॒वाल॑भन्ते॒ प्रति॑ष्ठित्यै । ऐ॒न्द्रा॒ग्नमाल॑भन्ते । इ॒न्द्रा॒ग्नी वै दे॒वाना॒मया॑तयामानौ । ये ए॒व दे॒वते॒ अया॑तयाम्नी । ते ए॒वाल॑भन्ते ॥ 40॥

वै॒श्व॒दे॒वमाल॑भन्ते । दे॒वता॑ ए॒वाव॑रुन्धते । द्या॒वा॒पृ॒थिव्या॑न्धे॒नुमाल॑भन्ते । द्यावा॑पृथि॒व्योरे॒व प्रति॑तिष्ठन्ति । वा॒य॒व्यव्ँ॑व॒त्समाल॑भन्ते । वा॒युरे॒वैभ्यो॑ यथाऽऽयत॒नाद्दे॒वता॒ अव॑रुन्धे । आ॒दि॒त्यामविव्ँ॑व॒शामाल॑भन्ते । इ॒यव्ँ वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति । मै॒त्रा॒व॒रु॒णीमाल॑भन्ते ॥41॥

मि॒त्रेणै॒व य॒ज्ञस्य॒ स्वि॑ष्टँ शमयन्ति । वरु॑णेन॒ दुरि॑ष्टम् । प्रा॒जा॒प॒त्यन्तू॑प॒रम्म॑हाव्र॒त आल॑भन्ते । प्रा॒जा॒प॒त्यो॑ऽतिग्रा॒ह्यो॑ गृह्यते । अह॑रे॒व रू॒पेण॒ सम॑र्धयन्ति । अथो॒ अह्न॑ ए॒वैष ब॒लिर्ह्रि॑यते । आ॒ग्ने॒यमा ल॑भन्ते॒ प्रति॒ प्रज्ञा॑त्यै । अ॒ज॒पे॒त्वान् वा ए॒ते पूर्वै॒र्मासै॒रव॑रुन्धते । यदे॒ते ग॒व्याᳶ प॒शव॑ आल॒भ्यन्ते॑ । उ॒भये॑षाम्पशू॒नामव॑रुद्ध्यै ॥42॥

यदति॑रिक्तामेकाद॒शिनी॑मा॒लभे॑रन् । अप्रि॑य॒म्भ्रातृ॑व्यम॒भ्यति॑रिच्येत । यद्द्वौद्वौ॑ प॒शू स॒मस्ये॑युः । कनी॑य॒ आयु॑ᳶ कुर्वीरन् । यदे॒ते ब्राह्म॑णवन्तᳶ प॒शव॑ आल॒भ्यन्ते॑ । नाप्रि॑य॒म्भ्रातृ॑व्यम॒भ्य॑ति॒रिच्य॑ते । न कनी॑य॒ आयु॑ᳶ कुर्वते ॥43॥

ते ए॒वाल॑भन्ते मैत्रावरु॒णीमाल॑भ॒न्तेऽव॑रुद्ध्यै स॒प्त च॑ ॥ 5 ॥

प्र॒जाप॑तिᳶ प्र॒जास्सृ॒ष्ट्वा वृ॒त्तो॑ऽशयत् । तन्दे॒वा भू॒तानाँ॒ रस॒न्तेज॑स्स॒म्भृत्य॑ । तेनै॑नमभिषज्यन् । म॒हान॑वव॒र्तीति॑ । तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒हद्व्र॒तमिति॑ । तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒ह॒तो व्र॒तमिति॑ । तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् । प॒ञ्च॒विँ॒शस्स्तोमो॑ भवति ॥ 44॥

चतु॑र्विँशत्यर्धमासस्सव्ँवत्स॒रः । यद्वा ए॒तस्मि॑न्त्सव्ँवत्स॒रेऽधि॒प्राजा॑यत । तदन्न॑म्पञ्चविँ॒शम॑भवत् । म॒ध्य॒तᳶ क्रि॑यते । म॒ध्य॒तो ह्यन्न॑मशि॒तन्धि॒नोति॑ । अथो॑ मध्य॒त ए॒व प्र॒जाना॒मूर्ग्धी॑यते । अथ॒ यद्वा इ॒दम॑न्त॒तᳶ क्रि॒यते॑ । तस्मा॑दुद॒न्ते प्र॒जास्समे॑धन्ते । अ॒न्त॒तᳶ क्रि॑यते प्र॒जन॑नायै॒व । त्रि॒वृच्छिरो॑ भवति ॥45॥

त्रे॒धा॒वि॒हि॒तँ हि शिरः॑ । लोम॑ छ॒वीरस्थि॑ । परा॑चा स्तुवन्ति । तस्मा॒त्तत्स॒दृगे॒व । न मेद्य॒तोऽनु॑ मेद्यति । न कृश्य॒तोऽनु॑ कृश्यति । प॒ञ्च॒द॒शो॑ऽन्यᳶ प॒क्षो भ॑वति । स॒प्त॒द॒शो॑ऽन्यः । तस्मा॒द्वयाँ॑ स्यन्यत॒रम॒र्धम॒भिप॒र्याव॑र्तन्ते । अ॒न्य॒त॒रतो॒ हि तद्गरी॑यᳶ क्रि॒यते॑ ॥46॥

प॒ञ्च॒विँ॒श आ॒त्मा भ॑वति । तस्मा॑न्मध्य॒तᳶ प॒शवो॒ वरि॑ष्ठाः । ए॒क॒विँ॒शम्पुच्छ॑म् । द्वि॒पदा॑सु स्तुवन्ति॒ प्रति॑ष्ठित्यै । सर्वे॑ण स॒ह स्तु॑वन्ति । सर्वे॑ण॒ ह्या॑त्मना॑ऽऽत्म॒न्वी । स॒होत्पत॑न्ति । एकै॑का॒मुच्छिँ॑षन्ति । आ॒त्मन्न् ह्यङ्गा॑नि ब॒द्धानि॑ । न वा ए॒तेन॒ सर्व॒ᳶ पुरु॑षः ॥47॥

यदि॒तइ॑तो॒ लोमा॑नि द॒तो न॒खान् । प॒रि॒माद॑ᳶ क्रियन्ते । तान्ये॒व तेन॒ प्रत्यु॑प्यन्ते । औदु॑म्बर॒स्तल्पो॑ भवति । ऊर्ग्वा अन्न॑मुदु॒म्बरः॑ । ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुध्यै । यस्य॑ तल्प॒सद्य॒मन॑भिजित॒॒ स्यात् । स दे॒वानाँ॒ साम्य॑क्षे । त॒ल्प॒सद्य॑म॒भिज॑या॒नीति॒ तल्प॑मा॒रुह्योद्गा॑येत् । त॒ल्प॒सद्य॑मे॒वाभिज॑यति ॥48॥

यस्य॑ तल्प॒सद्य॑म॒भिजि॑त॒॒ स्यात् । स दे॒वानाँ॒ साम्य॑क्षे । त॒ल्प॒सद्य॒म्मा परा॑जे॒षीति॒ तल्प॑मा॒रुह्योद्गा॑येत् । न त॑ल्प॒सद्य॒म्परा॑जयते । प्ले॒ङ्खे शँ॑सति । महो॒ वै प्ले॒ङ्खः । मह॑स ए॒वान्नाद्य॒स्याव॑रुद्ध्यै । दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् । त आ॑दि॒त्ये व्याय॑च्छन्त । तन्दे॒वास्सम॑जयन्न् ॥49॥

ब्रा॒ह्म॒णश्च॑ शू॒द्रश्च॑ चर्मक॒र्ते व्याय॑च्छेते । दैव्यो॒ वै वर्णो॑ ब्राह्म॒णः । अ॒सु॒र्य॑श्शू॒द्रः । इ॒मे॑ऽरात्सुरि॒मे सु॑भू॒तम॑क्र॒न्नित्य॑न्यत॒रो ब्रू॑यात् । इ॒म उ॑द्वासीका॒रिण॑ इ॒मे दु॑र्भू॒तम॑क्र॒न्नित्य॑न्यत॒रः । यदे॒वैषाँ॑ सुकृ॒तय्ँया राद्धिः॑ । तद॑न्यत॒रो॑ऽभिश्री॑णाति । यदे॒वैषा॑न्दुष्कृ॒तय्ँयाऽरा॑द्धिः । तद॑न्यत॒रोऽप॑हन्ति । ब्रा॒ह्म॒णस्सञ्ज॑यति । अ॒मुमे॒वादि॒त्यम्भ्रातृ॑व्यस्य॒ सव्ँवि॑न्दन्ते ॥50॥

भ॒व॒ति॒ भ॒व॒ति॒ क्रि॒यते॒ पुरु॑षो जयत्यजयञ्जय॒त्येकं॑ च ॥ 6 ॥

उ॒द्ध॒न्यमा॑नं॒ नवै॒तानि॒ सन्त॑तिरेकविँ॒श ए॒षोऽप्र॑तिष्ठां प्र॒जाप॑तिर्वृ॒त्तष्षट् ॥ 6 ॥ उ॒द्ध॒न्यमा॑नँ शो॒चिष्के॒शोऽग्ने॑ स॒पत्ना॑नतिग्रा॒ह्या॑ वैश्वदे॒वमाल॑भन्ते पञ्चा॒शत् ॥ 50 ॥ ॥ उद्ध॒न्यमा॑नँ॒ संवि॑न्दन्ते ॥ हरिः॑ ओम् ॥ प्रथमाष्टके द्वितीयᳶ प्रपाठकस्समाप्तः