८३ अ॒न्तरि॑क्षँ॒ स॒मित्

विश्वास-प्रस्तुतिः

द्यौस्स॒मित् ।

मूलम्

द्यौस्स॒मित् ।

विश्वास-प्रस्तुतिः

तामा॑दि॒त्यस्समि॑न्धे । (83)
साऽऽदि॒त्यँ समि॑न्धे ।

मूलम्

तामा॑दि॒त्यस्समि॑न्धे । (83)
साऽऽदि॒त्यँ समि॑न्धे ।

विश्वास-प्रस्तुतिः

ताम॒हँ समि॑न्धे ।
सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समिन्ताँ॒ स्वाहा॑ ।

मूलम्

ताम॒हँ समि॑न्धे ।
सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समिन्ताँ॒ स्वाहा॑ ।