अथ चतुःषष्टितमोऽनुवाकः।
संन्यासस्यैव ब्रह्मज्ञानं प्रत्यन्तरङ्गसाधनत्वाज्जिज्ञासोः संन्यास एव युक्तो न तु कर्मानुष्ठानमित्युक्तम्। तर्हि निष्पन्ने तत्त्वसाक्षात्कारे कर्माण्यनुष्ठीयन्तामित्येतां शङ्कां निवारयितुमत्र तत्त्वज्ञानिव्यवहाराणां लौकिकानां सर्वेषां यागरूपत्वमुच्यते। न हि यागस्य यागाधिकारशङ्काऽस्ति। अतोऽस्मिन्ननुवाके पूर्वभागेन(ण) योगिनोऽवयवा यज्ञाङ्गद्रव्यत्वेनाऽऽम्नायन्ते—- तस्यै॒वं वि॒दुषो॑ य॒ज्ञस्या॒ऽऽत्मा यज॑मानः श्र॒द्धा पत्नी॒ शरी॑- रमि॒ध्ममुरो॒ वेदि॒र्लोमा॑नि ब॒र्हिर्वे॒दः शिखा॒ हृद॑यं॒ यूपः॒ पाम॒ आज्यं॑ म॒न्युः प॒शुस्तपोऽग्निर्दमः॑ शमयि॒ता दक्षि॑णा॒ वाग्घोता॑ प्रा॒णा उ॑द्गा॒ता चक्षु॑रध्व॒र्युर्मनो॒ ब्रह्मा॒ श्रोत्र॑म॒ग्नीत्, इति।
तस्य पूर्वोक्तस्य संन्यासिन एवं विदुषः पूर्वोक्तप्रकारेण ब्रह्मणो महत्त्वं साक्षात्कृतवतो जीवन्मुक्तस्य संबन्धी यो यज्ञोऽस्ति तस्य यज्ञस्य देहेन्द्रियादिसीक्षी य आत्मा स एव यजमानसदृशः, तस्य स्मामित्वात्। या तु तदन्तःकरणे श्रुद्धारूपा चित्तवृत्तिः सा पत्नी। यच्च शरीरं तदिध्मम्। एवमुरआद्यवयवानां वेद्यादिरूपत्वोपचारो योजनीयः। यस्तु दमाख्यः शमयिता सर्वेन्द्रियोपशमकारी चित्तवृत्तिविशेषः, तस्य दक्षिणारूपत्वमुन्नेयम्। वादादीनां होत्राद्यृत्विग्रूपत्वमुन्नेयम्।
अथास्यानुवाकस्य द्वितीयभागेन योगिव्यवहारस्य ज्योतिष्टोमायवक्रियारूपत्वं दर्शयति— याव॒द्ध्रिय॑ते॒ सा दी॒क्षा यदश्ना॑ति॒ तद्धवि॒र्यत्पिब॑ति॒ तद॑स्य सोमपा॒नं यद्रम॑ते॒ तदु॑प॒सदो॒ यत्सं॒चर॑त्यु॒त्तिष्ठ॑ते च॒ स प्र॑व॒र्ग्यो यन्मुखं॒ तदा॑हव॒नीयो॒ या व्याहृ॑तिराहु॒ति- र्यद॑स्य वि॒ज्ञानं॒ तज्जु॒होति॒ यत्सा॒यं प्रा॒तर॑त्ति॒ तत्स॒मिधं॒ यत्प्रा॒तर्म॒ध्यंदि॑न ँ सा॒यं च॒ तामि॒ सव॑नानि॒, इति। यावन्तं कालं भोजनमकृत्वा ध्रियते विदुषा धार्यते सा धृतिर्दीक्षाख्यसंस्काररूपा। एवं भोजनादौ हविरादुरूपत्वमुन्नेयम्।
१ ग. झ. ०मुत्तरत्राप्यव०। २ ग. ०यः। दमस्तु दमाख्यस्तु श०। झ. ०यः। दमस्तु श०। ३ ग. सा वृत्तिर्दी०।
[[780]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ ६४] अथास्यानुवाकस्य तृतीयभागेन जीवन्मुक्तस्य संबन्धिनां कालविशेषाणां नानामिधयागरूपत्वामाह— ये अ॑होरा॒त्रे ते द॑र्शपूर्णमासौ ये॑ऽर्धमा॒साश्च॒ मासा॑श्च॒ ते चा॑तुर्मा॒- स्यानि॒ य ऋ॒तव॒स्ते पशुब॒न्धा ये सं॑वत्स॒राश्च॑ परिवत्स॒राश्च॒ तेऽर्ग॒णाः स॑र्ववेद॒सं वा ए॒तत्स॒त्रं यन्मर॑णं॒ तद॑व॒भृथः॑, इति। संवत्सराश्च परिवत्सराश्च चकाराभ्यामिदावत्सरानुवत्सरेद्वत्सराः समुच्चीयन्ते । प्रभवादिषु ष्टिसंवत्सरेष्वेकैकं पञ्चकं युगशब्दाभिधेयं तस्मिंश्च युगे पञ्चापि क्रमेण संवत्सरपरिवत्सरेदावत्सरानुवत्सरेद्वत्सरसंज्ञका द्रष्टव्याः । तथाच कालनिर्णये संग्रहकारेणोदाहृतम्— “चान्द्राणां प्रभवादीनां पञ्चते पञ्चके युगे। संपरीदान्विदित्यतच्छब्दपूर्वास्तु वत्सराः " इति॥ आहर्गणा द्विरात्रत्रिरात्रादयः। सर्ववेदसं सर्वस्वदक्षिणाकम्। अत्रैतच्छब्देन प्रकृताहोरात्रादिपरिवत्सरान्तसर्वकालसमष्ठ्युपलक्षितं योगिन आयुर्विवक्ष्यते। यदायुस्तत्सर्वस्वदक्षिणोपेतं सत्रमित्यर्थः।
अस्यानुवाकस्य चतुर्थभागेन सर्वयज्ञात्मकं योगिन उपासीनस्य क्रममुक्तिलक्षणं फलमाह– ए॒तद्वै ज॑रामर्यमग्निहो॒त्र ँ स॒त्रं य ए॒वं वि॒द्वानु॑द॒ग- य॑ने प्र॒मीय॑ते दे॒वाना॑मे॒व म॑हि॒मानं॑ ग॒त्वाऽऽदि॒- त्यस्य॒ सायु॑ज्यं गच्छ॒त्यथ॒ यो द॑क्षि॒णे प्र॒मीय॑ते पितृ॒णामे॒व म॑हि॒मानं॑ ग॒त्वा च॒न्द्रम॑सः॒ सायु॑ज्यं गच्छत्ये॒तौ वै सू॑र्याचन्द्र॒मसो॑र्महि॒मानौ॑ ब्राह्म॒णो वि॒द्वान॒भिज॑यति॒ तस्मा॑द्ब्र॒ह्मणो॑ महि॒मान॑माप्नोति॒ तस्मा॑द्ब्र॒ह्मणो॑ महि॒मान॑मित्युप॒निषत्, इति॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि चतुःषष्टितमोऽनुवाकः॥ ६४॥ जरामरणावधिकं यद्योगिचरितमस्ति तदेतद्वेदोक्ताग्निहोत्रादिसंवत्सर- सत्रान्तकर्मस्व-
१ ख. ग. ०र्वद०। २ ग. ०स्य कर्ममु०। ३ ग. झ. ०युज्य ँ सलोकतामाप्नोत्ये०। ४ ग. जननम०।
[[781]]
[प्रपा॰ १० अनु॰ ६४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। रूपमित्येवं यः पुमान्विद्वानुपासीन उत्तरायणे म्रियते, स उपासको देवाना- मिन्द्रादीनां महिमानमैश्वर्यं प्राप्य तदूर्ध्वमादित्यस्य सायुज्यं सहवासं तादात्म्यं वा भावानातारतम्येन प्राप्नोति। अथ पूर्वोक्तवैलक्षण्येन य उपासको दक्षिणायने म्रियते स उपासकः पितृणामग्निष्वात्तादीनामैश्वर्यं प्राप्य चन्द्रमसः सायुज्यं पूर्ववत्प्राप्नोति। य एवमेतौ सूर्याचन्द्रमसोर्महिमानावनुभवन्ब्राह्मणस्त(णः स त)त्र सगुणब्रह्मरूपं हिरण्यगर्भं विद्वांस्तल्लोकवासिनामुपदेशिनामुपासीनोऽभिजयति हिण्यगर्भसाक्षात्काररूपं प्राप्नोति। तस्मात्साक्षाकारात्तल्लोकवासिदेहपातादूर्ध्व हिरण्यगर्भलोकं गत्वा तत्र ब्रह्मणो हिरण्यगर्भस्य महिमानमैश्वर्यं प्राप्नोति। तत्रोत्पन्नब्रह्मतत्त्वसाक्षा त्कारस्तस्माज्ज्ञानाद्ब्रह्मलोकविनाशादूर्ध्वं सत्यज्ञानादिलक्षणस्य ब्रह्मणो महिमानं महत्वं च प्राप्नोति। इत्युपनिषदितिवाक्येन यथोक्तविद्यायास्तत्प्रतिपादकग्रन्थस्य चोपसंहारः क्रियते।
अथ मीमांसा। तृतीयाध्यायस्य तृतीयापादे चिन्तितम्— “पुंविद्यैका विभिन्ना वा तैत्तिरीयकताण्डिनोः। मरणावभृथत्वादिसाम्यादेकेति गम्याते॥ बहूनां रूपभेदेन किंचित्साम्यस्य बाधनात्। न विद्यैक्यं तैतिरीये ब्रह्मविद्याप्रशंसनात्॥
अस्ति तैत्तिरीये पुरुषविद्या—“तस्यैवं विदुषो यज्ञस्याऽऽत्मा यजमानः " इति। तथा ताण्डिनां शाखायामपि श्रूयते—“पुरुषो वाव यज्ञः " इति। सेयमेकैव पुरुषविद्या। यन्मरणं तदवभृथो मरणमेवावभृथ इत्युभयत्र समानधर्मश्रवणात्प्रातःसवनादीनां च समानत्वादिति प्राप्ते ब्रूमः। वेद्यस्वरूपस्य भूयान्भेद उपलभ्यते। तथाहि—विदुषो यो यज्ञस्तस्य यज्ञस्याऽऽत्मेति तैत्तिरीयके व्यधिकरणे षष्ठ्यौ। अन्यथाऽऽत्मा यजमान इति व्याघातात्। विद्वानेव यज्ञः स एव यजमान इति कथं न व्याहन्येत। ताण्डिनां तु पुरुषयज्ञयोः सामानाधिकरण्यं श्रुतमित्येको रूपभेदः। अत्मयजमानादिकं च सर्व(म)त्र श्रुतं ताण्डिशाखायां नोपलभ्यते। यत्तु ताण्डिनामुपलभ्यते त्रेधा विभक्तस्याऽऽयुषः सवनत्रयत्वमित्यादि न तात्किंचिदपि तैत्तिरीयके पश्यामः। अतो मरणावभृथत्वाद्यल्पसाम्यबाधाद्विद्ययोर्भेद उचितः। अपि च न तैत्तिरीयाणामुपासनमिदं किं तर्हि ब्रह्मविद्याप्रशंसा। तस्यैवं विदुष इति ब्रह्मविदोऽनु क-
१ ग. झ. ०पासकानमि०। २ ख. झ. ०लोके ग०। ३ झ. ०त्तब्रह्मवि०। ४ ग. झ. ०सायां तृ०। ५ ग. झ. ०म्—-” इयं विद्यैका भि०। ६ ग. झ. ०देऽपि किं०। ७ ख. झ. ०ण्डिशा०। ८ ङ. ०ति। एवमे०। ९ ख. ग. भूयानभे०। १० झ. द ०एवोचि०। ११ ख. ०नुत्कर्ष०। झ. ०नुक्रमाणा०।
[[782]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ ६४] र्षणात्। तस्मान्न विद्यैक्यशङ्कायामप्यवकाशोऽस्ति “। क्रममुक्तिस्त(त्स्व)स्मिन्ननुवाके तत्त्वज्ञानिसेवानिमित्ताऽभिहितेत्यशेषमतिमङ्गलम्।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि चतुःषष्टितमोऽनुवाकः॥ ६४॥ स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। सह वी॑र्यं॑ करवा- वहै। ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑। हरिः॑ ॐ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमः प्रपाठकः समाप्तः॥ १०॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्॥ पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥ १॥ इति श्रीमद्राजाधिराजपरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कणभूपालसाम्राज्यधुरं- धरेण श्रीमत्सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये दशमः प्रपाठकः समाप्तः॥ १०॥ समाप्तमिदं कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्यम्।
१ झ. ०द्यैक्याश०। २ ग. झ. ०स्ति। एतस्मि०।