अथ द्विषष्टितमोऽनुवाकः।
ज्ञानप्रतिबन्धकमहापातकोपपातकपरिहारेण ज्ञानयोग्यतालक्षणां शुद्धिमुक्त्वा योग्यस्य पुरुषस्यापेक्षितेषु ज्ञानसाधनेषु संन्यासास्य निरतिशयोत्कर्षं वक्तुं सत्यादीन्येकादशोत्कृष्टसाधनानि प्रतियोगित्वेन वक्तव्यानि। तत्र प्रथमं साधनमुपन्यस्यति— स॒त्यं परं॒ पर॑ ँ स॒त्य ँ स॒त्येन॒ न सु॑व॒र्गाल्लो॒काच्च्य॑वन्ते
- अनिश्चितस्वरकम्।
१ ग. झ. प्राप्त्यर्थं शु०। २ ग. ०त्यज म०। ३ ख. ग. ०तस्य।
[[764]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ ६२] क॒दाच॒न स॒ता ँ हि स॒त्यं तस्मा॑त्स॒त्ये र॑मन्ते॒—, इति।
यद्वस्तु प्रमाणेन यथा दृष्टं तस्य तथैवाभिवदनं सत्यं तच्च परं ब्रह्म सत्यमबाध्यं तद्वद्यथार्थवचनमपि वाधरहितमिति व्यावहारिकबाधराहित्येनोत्कर्षं विवक्षित्वा दृष्टान्तेन परं सत्यमित्युक्तम्। सत्येन यावज्जीवं यथार्थकथनेन स्वर्गलोकात्कदाचिदपि न प्रच्यवन्ते। अनृतवादिनस्तु केनचित्पुण्येन स्वर्गं प्राप्याप्यनृतवदनदोषेण कर्मफलं संपूर्णतयाऽननुभूयैव स्वर्गात्प्रच्यवन्ते। किंच हि यस्मात्कारणात्सतां सन्मार्गवर्तिनामृष्यादीनां संबन्धि यथार्थवादित्वं तस्मात्कारणात्सतामिदमिति व्युत्पत्तिमाश्रित्य सत्यवादित्वमेव परमं मोक्षसाधनमिति केचिन्महान्तो वदन्तस्तस्मिन्नेव सत्ये रमन्ते क्रीडन्ति। एकं मतमुक्त्वा द्वितीयं मतमाह— तप॒ इति॒ तपो॒ नानश॑ना॒त्परं॒ यद्धि परं॒ तप॒स्तद्दु र्ध॑र्ष॒ तद्दुरा॑धर्षं॒ तस्मा॒त्तप॑सि रमन्ते॒—, इति॥
तपः परं मोक्षसाधनमिति केषांचिन्मतम्। तीर्थयात्राजपहोमादीनि यद्यपि बहूनि तपांसि सन्ति तथाऽपि तेषु सर्वेष्वनशनादुपवासैकभक्तादिरूपादशनवर्जनात्परमुत्कृष्टं तपो नास्ति। यध्द्यनशनरूपं कृच्छ्रचान्द्रायणादिकं परं तपोऽस्ति तद्दुर्धर्षम धींषतुं सोढुमशक्तम्। अत एवाऽऽ समान्तात्सर्वेषां प्राणिनां तत्तपो दुर्धर्षं दुःशकमित्यनुभूयते। तस्मात्कारणात्केचन श्रद्धालवः कृच्छ्रचान्द्रायणादिके तपसि रमन्ते। तृतीयं मतमाह- द॒म इति॒ निय॑तं ब्रहमचा॒रिण॒स्तस्मा॒दृमे॑ रमन्ते॒ - ,इति । वाक्चक्षुरादीन्द्रियाणां बाह्यानां निषिद्धेभ्यो विषयेभ्यो निवृत्तिर्दमः, स एवोत्तमो मोक्षहेतुरिति मन्यमाना नैष्ठिकब्रह्मचारिणो नियतं सर्वदा वदन्ति । तस्मादृमे रमन्ते ।
चतुर्थं मतमाह– शम॒ इत्यर॑ण्ये मु॒नय॒स्तस्मा॒च्छमे॑ रमन्ते________________________, इति। अन्तःकरणस्य क्रोधादिदोषराहित्यं शमः, स एवोत्तमो मोक्षहेतुरित्यरण्ये वर्तमाना मुनयो वानप्रस्था मन्यन्ते। तस्मात्ते शमे रमन्ते।
- अत्र सकलादर्शपुस्तकेष्वनशनमित्येव पाठः। + मन्यमाना इत्यधिकम्। यद्वा मन्यमाना इति परित्यज्य वदन्तीत्यस्य स्थाने मन्यन्त इति पाठ्यम्।
१ ख. ०ष्टिका ब्र०।
[[765]]
[प्रपा॰ १० अनु॰ ६२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। पञ्चमं मतमाह— दा॒नमिति॒ सर्वा॑णि भू॒तानि॑ प्र॒श ँस॑न्ति दा॒नान्नातिदु॒ष्करं॒ तस्मा॑द्दा॒ने र॑मन्ते________________________,इति। गोहिरण्यादीनां स्वकीयानां शास्त्रोक्तवर्त्मना स्व(स्व)त्वपरित्यागपुरःसरं परस्वत्वापादनं दानं तदेवोत्तमं मोक्षसाधनं मत्वा सर्वे प्राणिनः प्रशंसन्ति। दानादतिशयितं दुष्करं नास्ति। धनरक्षणार्थं प्राणानपि परित्यजतां पुरुषाणामुपलम्भात्। तस्माद्गोभूम्यादिदाने रमन्ते।
षष्ठं मतमाह— ध॒र्म इति॒ धर्मेण॒ सर्वमि॒दं परिगृ॑हीतं ध॒र्मा- न्नाति॑दु॒श्चरं॒ तस्मा॑ध्द॒र्मे र॑मन्ते________________________, इति। स्मृतिपुराणप्रतिपाद्यौ वापीकूपतडागादिनिर्माणरूपोऽत्र धर्मो विवक्षितः। स एवोत्तमो मोक्षहेतुरिति राजामात्यादयः प्रभवो मन्यन्ते। तडागादिरूपेण धर्मेण सर्वमिदं जगत्परिगृहीतम्। *सर्वेऽपि मनुष्यपश्वादयः स्नानपानादिना तुष्यन्ति। तादृशाद्धर्मादन्यदतिदुश्चरं नास्ति। तस्मात्कारणाद्धर्मे रमन्ते प्रभवः।
सप्तमं मतमाह________________________ प्र॒जन॒ इति॒ भूया॑ ँस॒स्तस्मा॒द्भूयु॑ष्ठाः प्रजा॑यन्ते॒ तस्मा॒द्भूयि॑ष्ठाः प्र॒जन॑ने रमन्ते॒________________________, इति॥ प्रजनः पुत्राद्युत्पादनं तस्यैवोत्तमसाधनत्वं भूयांसोऽतिबहवः प्राणिनो मन्यन्ते। धनिकैर्दरिद्रैः शिष्टैर्नष्टैः पण्डितैश्च सर्वैरपि पुत्रोत्पादनायातियेन *प्रयत्यमानत्वात्। तस्मादेकैकस्य पुरुषस्य भूयिष्ठा द्वित्राः पञ्चषा इत्येवं बहवोऽपत्यमानत्वात्। तस्मादेकैकस्य पुरुषस्य भूयिष्ठा द्वित्राः पञ्चषा इत्येवं बहवोऽपत्यविशेषा उत्पद्यन्ते। तस्मात्कारणाद्भूयिष्ठा अतिबहवः प्राणिनः प्रजोत्पादने रमन्ते।
अष्टमं मतमाह— अग्नय॒ इत्या॑ह॒ तस्मा॑द॒ग्नय॒ आधा॑तव्याः—, इति॥
*अस्य यत इत्यादिः। + मोक्षं प्रतीत्यार्थिकः शेषः। * प्रयात्यमानत्वादिति पाठ्यम्। ह्रस्वपाठस्तु प्रामादिकः वाक्यस्यासाधुत्वापत्तेः। धनिकादीनां सर्वेषामित्यार्थिकोऽध्याहारः। तथा च येऽन्यान्प्रयोजयन्ति ते स्वयं कुर्वन्तीति किमु वक्तव्यम्। तेषां च पुत्राद्युत्पादनस्य मुख्यसाधनत्वग्रहाभावे स्वयं तद्यत्नं न कुर्युः परैश्च तं न कारयेयुः। तस्मात्पूर्वोक्तो ग्रहोऽस्त्येव तेषामित्याशयः। प्रयत्नस्याऽऽदृतत्वादिति वा पाठः कल्पनीयः। धनिकादिपदेषु षट्सु षष्ठ्यन्ततां प्रकल्प्य ख. पुस्तकस्थः प्रयतमानत्वादिति शोधितपाठ एव वा स्वीकार्यः।
१ ग. ०स्वत्वोपा(त्पा)द०। २ ख. ०यत्न(त)मा०। ३ ग. ०ष्ठा भूरिशो द्वि०। झ. ०ष्ठा भूरिशः प०।
[[766]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ ६२] अग्नयो गार्हपत्यादय उत्तमा मुक्तिहेतव इति कश्चिद्वेदार्थपर आह। तस्माद्गृहस्थैरग्नय आधातव्या भवन्ति।
नवमं मतमाह— अग्निहो॒त्रमित्या॑ह तस्मा॑दग्निहो॒त्रे र॑मन्ते________________________, इति॥ आहितेष्वग्निषु सायं प्रातश्चानुष्ठेयो होमोऽग्निहोत्रं तदुत्तमं मोक्षसाधनमित्यपरः कश्चिद्वेदार्थपर आह। तस्मात्केचितग्निहोत्रे रमन्ते। दशमं मतमाह— य॒ज्ञ इति॑ य॒ज्ञेन॒ हि दे॒वा दिवं॑ ग॒तास्तस्मा॑द्य॒ज्ञे र॑मन्ते—,इति। दर्शपूर्णंमासज्योतिष्टोमादिको यज्ञ उत्तमो मोक्षहेतुरित्यपरे वेदार्थपरा मन्यन्ते। यस्मादिदानीं वर्तमाना देवाः पूर्वानुष्ठितेन यज्ञेन दिवं गताः स्वर्गलोकं प्राप्ताः, तस्मात्कारणात्केचन वेदिका विद्वांसो यज्ञे रमन्ते।
एकादशं मतमाह— मान॒समिति॑ वि॒द्वा ँस॒स्तस्मा॑द्विद्वा ँस॑ ए॒व मा॑न॒से र॑मन्ते________________________, इति मनसैव निप्पाद्यमुपासनं मनसं तदेवोत्तमं साधनमिति विद्वांसः सगुणब्रह्मविदो मन्यन्ते। तस्मात्कारणात्केचन विद्वांसो वेदगतोपास्तिभागतात्पर्यविदो मानस एवोपासने रमन्ते। द्वादशं मतमाह— न्या॒स इति॑ ब्र॒ह्मा ब्र॒ह्मा हि प॒रः परो॑ हि ब्र॒ह्मा तानि॒ वा ए॒तान्यव॑राणि॒ तपा॑ ँ सि न्या॒स ए॒वात्य॑रेचय॒त्–, इति॥
पूर्वकाण्डोक्तानामग्निहोत्रादिकर्मणामारुणिजाबालाद्युपनिषदुक्तप्रकारेण परित्यागो न्यासः, स एवोत्तमो मोक्षहेतुरिति ब्रह्मा हिरण्यगर्भो मन्यते। स च ब्रह्मा परो हि परमात्मरूपो हि। नतु पूर्वोक्तमतानुसारिण इव जीवः। यद्यप्यसौ हिरण्यगर्भो देहधारी तथाऽपि परो हि परमात्मैव ब्रह्मा हिरण्यगर्भ इति वक्तुं शक्यते, तच्छिष्यत्वेन तत्समानज्ञानत्वात्। अत एव श्वेताश्वतरा आम-नन्ति—“यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै " इति। यानि पूर्वोक्तसत्यादीनि मानसान्तानि तान्येतानि तपांसि भवन्त्येव तथाऽपि संन्यासमपेक्ष्यावराणि निकृष्टानि।
१ ग. ०र्शपौर्ण०। २ ग. झ. ०गर्भोपा०। ३ ख. परा ँसि।
[[767]]
[प्रपा॰ १० अनु॰ ६२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। संन्यास एक एव तानि सर्वाण्यत्यरेचयत्, अतिक्रान्तवान्। उत्तमत्वतारतम्यं तत्र विश्रान्तमित्यर्थः।
उत्तमुत्तमसाधनमुपसंहरति________________________ य ए॒वं वेदे॑त्युप॒निषत्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि द्विषष्टितमोऽनुवाकः॥ ६२॥ यः पुमानेवमुक्तप्रकारेण संन्यासस्यान्येभ्यः सर्वेभ्यः साधनेभ्य उत्तमत्वं वेद तस्य विदुष इत्युक्ता विद्योपनिषद्रहस्यभूता भवति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि द्विषष्टितमोऽनुवाकः॥ ६२॥