६०

अथ षष्टितमोऽनुवाकः।


दशमं मन्त्रमाह– उत्तिष्ठ पुरुष हरित लोहित पिङ्गलाक्षि देहि देहि ददापयिता मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि षष्टितमोऽनुवाकः॥ ६०॥


१ ग. ०त पिङ्गललोहिताक्षि।

[[763]]

[प्रपा॰ १० अनु॰ ६१–६२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। विविष्टिशब्दाभिधेयं यद्ब्रह्म तदेव कारणोपाधिकं कषोत्कशब्दाभिधेयम्। पुनरपिवह्निशरीरोपाधिविशिष्टमत्र पुरुषशब्दाभिधेयम्। तत्र पूर्वाभ्यां मन्त्राभ्यां निरुपाधिकं कारणोपाधिकं तद्ब्रह्म प्रार्थ्य शुद्धिहेतुत्वेनात्र सर्वकर्मनिष्पादकवह्निशरीरोपाधिकं प्रार्थ्यते। षुरुष पुरि वह्रिशरीरे शयान हे परमात्मान्नुत्तिष्ठौदासीन्यं परित्यज्य मदनुग्रहार्थमुद्युक्तो भव। संबुद्ध्यन्तपुरुषशब्दस्यैव हरितादीनि त्रीणि पदानि विशेषणानि। हे हरित प्रतिबन्धकहरणकुशल हे लोहित रक्तवर्ण हे पिङ्गलाक्षि पिङ्गलनयन देहि देहि पुनः पुनः शुद्धिं मे प्रयच्छ। ददापयिताऽऽचार्यमुखात्तत्त्वज्ञानस्यातिशयेन दापयिता भवेति शेषः। तस्य दापयितव्यस्य ज्ञानस्योत्पत्तये मे मदीयाश्चित्तवृत्तयः शुध्यन्ताम्। ज्योतिरित्यादि पूर्ववत्॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषद षष्टितमोऽनुवाकः॥ ६०॥