५९

अथैकोनषष्टितमोऽनुवाकः।


नवमं मन्त्रमाह— क॒षो॑त्काय॒ स्वाहा॑, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्येकोन- षष्टितमोऽनुवाकः॥ ५९॥

कष शिष करण इति धातुः। कष्यते क्रियत इति कषो नामरूपकर्मात्मकः कार्यप्रपञ्चः, तस्मिन्नुत्कस्तत्क(स्तं क)र्तुमुत्सुकः कषोत्कः परमेश्वरः, तादृशाय सृष्ट्यभिमुखाय परमेश्वराय स्वाहा स्वाहुतमिदमस्तु॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषद्येकोनषष्टितमोऽनुवाकः॥ ५९॥