अथाष्टपञ्चाशत्तमोऽनुवाकः।
अष्टमं मन्त्रमाह— विवि॑ट्ट्यै॒ स्वाहा॑, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिष- द्यष्टपञ्चाशमोऽनुवाकः॥ ५८॥ “विष्लृ व्याप्तौ " इति धातोरुत्पन्नोऽयं शब्दः। विशेषेण विष्टिर्व्याप्तिर्यस्य ब्रह्मणस्तद्विविष्टिः। छान्दसः षकारस्य टकारः। तादृशं ब्रह्मोद्दिश्य स्वादुतमिदमस्तु॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषद्यष्टपञ्चाशमोऽनुवाकः॥ ५८॥