४९

अथैकपञ्चाशत्तमोऽनुवाकः।


ब्रह्मज्ञानप्रतिबन्धकानि यानि महापातकानि तन्निवृत्तये जप्यास्त्रिसुप- र्णमन्त्रास्त्रयोऽभिहिताः। तत्र ब्राह्मणजातिमात्रवधो ब्रह्महत्या पञ्चसु महापातकेषु मध्ये प्रबलं महापातकम्। ततोऽप्यधिकं भ्रूणहननम्। तस्मादप्यदिकं वीरहननम्। ईदृशानामपि निवर्तको यावज्जीवं त्रिसुपर्णजपस्तत्रार्वाचीनानां सुरापानादिपातकानां निवर्तक इति किमु वक्तव्यम्। इत्थं प्रतिबन्धनिवृत्त्युपायमुक्त्वा ज्ञानयोग्यतायै स्वावयवशुद्ध्यर्थ होमार्थानेकादश मन्त्रानेकादशस्वनुवाकेषु क्रमेण विवक्षुराद्यं मन्त्रमाह— प्राणापानव्यानोदानसमाना मे॑ शुध्य॒न्तां॒ ज्योति॑-


१ झ. ०वृत्त्यपेक्षया त्रिसु०।

[[759]]

[प्रपा॰ १० अनु॰ ५२–५३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनि- षद्येकपञ्चशत्तमोऽनुवाकः॥ ५१॥ प्राणादयः पञ्च वायवः प्रसिद्धाः। ते सर्वेऽप्यनेनाऽऽज्यहोमेन शुद्धा भवतु। ततोऽहं विपाप्मा प्रतिबन्धकोपपातकरहितो विरजाः पापकारभूतरजोगुणेनापि रहितः सन्यज्ज्योतिर्जगत्कारणं परं ब्रह्म तद्वस्तु भूयासं तदर्थमिदमाज्यं स्वाहुतमस्तु॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषद्येकपञ्चशत्तमोऽनुवाकः॥ ५१॥