अथ पञ्चाशत्तमोऽनुवाकः।
तृतीयं त्रिसुपर्णमन्त्रमाह— ब्रह्म॑ मे॒धवा॑। मधु॑ मे॒धवा॑। ब्रह्म॑मे॒व मधु॑ मे॒धवा॑।
[[758]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ ५१] ब्र॒ह्मा दे॒वानां॑ पद॒वीः क॑वी॒नामृषिर्विप्रा॑णां महि॒षो मृ॒गाणा॑म्। श्ये॒नो गृध्रा॑णा॒ ँ स्वधि॑ति॒र्वना॑ना॒ ँ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न्। ह॒ ँ शः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्। नृ॒षद्व॑र॒सद्द॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृहत्, इति।
मेधवा मेधो यज्ञः सोऽस्यास्तीति मेधवत्। यज्ञदानादिनाध्यविविदिषा- पूर्वकत्वाद्ब्रह्मज्ञानलाभस्य ब्रह्म मेधवदित्युच्यते। अन्यत्पूर्ववत्। “ब्रह्म देवानां” “हंसः शुचिषत् " इत्यादिके द्वे ऋचावणोरणीयानित्यनुवाके व्याख्याते। अस्य त्रिसुपर्णमन्त्रस्य महिमानं दर्शयति— य इ॒दं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात्। वी॒र॒ह॒त्यां वा ए॒ते घ्न॑न्ति। ये ब्रा॑ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति। ते सोमं॒ प्राप्नु॑वन्ति। आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति। ओम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि पञ्चाशत्तमोऽनुवाकः॥ ५०॥
वेदशास्त्रतदनुष्ठानपरो ब्राह्मणोऽभिषिक्तो राजा वा वीरः। अन्यत्पूर्ववत्॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि पञ्चाशत्तमोऽनुवाकः॥ ५०॥