अथैकोनपञ्चाशत्तमोऽनुवाकः।
द्वितीय त्रिसुपर्णमन्त्रमाह________________________ ब्रह्म॑ मे॒धया॑। मधु॑ मे॒धया॑। ब्रह्म॑मे॒व मधु॑ मेधया॑। अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावीः॒ सौभ॑गम्। परा॑ दु॒ष्ष्वप्नि॑य ँ सुव। विश्वा॑नि देव सविकर्दुरि॒तानि॒ परा॑ सुव। यद्भ॒द्रं आसु॑व। मधु॒ वाता॑ ऋतायते॒ मधु॑ क्षरन्ति॒ सिन्ध॑वः। माध्वी॑र्नः स॒न्त्वोष॑धीः। मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ ँ रजः॑। मधु॒ द्यौर॑स्तु नः पि॒ता। मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑मा ँ अस्तु॒ सूर्यः॑। माध्वी॒र्गावो॑ भवन्तु नः, इति॥ यद्ब्रह्म जगत्कारणं सर्ववेदान्तवेद्यं तन्मेधया गुरूपदिष्टमहावाक्यतदर्थधारणशक्त्या लभ्यतामिति शेषः। मध्वित्यादि पूर्ववत्। अद्या नो देवेत्या कमृक्पञ्चकमणोरणीयानित्यनुवाके व्याख्यातम्।
अस्य त्रिसुपर्णमन्त्रस्य महिमानं दर्शयति________________________ य इ॒मं त्रिसु॑पर्ण॒या॑चितं ब्राह्म॒णाय॑ दद्यात्। भ्रू॒ण॒ह॒त्यां वा ए॒ते घ्न॑न्ति। ये ब्रा॑ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति। ते सोमं॒ प्राप्नु॑वन्ति। आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति। ओम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्येकोन- पञ्चाशत्तमोऽनुवाकः॥ ४९॥ ब्राह्मणगर्भस्य राजगर्भस्य वा वधो भ्रूणहत्या। अन्यत्पूर्ववत्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषद्येकोनपञ्चाशत्तमोऽनुवाकः॥ ४९॥