४६

अथाष्टचत्वारिंशोऽनुवाकः।


इत्थं तत्त्वज्ञानस्योत्पादकाः पञ्चवक्त्रप्रतिपादाकाः पञ्च ब्रह्ममन्त्रा उक्ताः। अथ ज्ञानप्रतिबन्धकब्रह्महत्यादिपापनिवृत्तिहेतवस्त्रिसुपर्णनामका मन्त्रा वक्तव्याः, तत्र प्रथमं मन्त्रमाह— ब्रह्म॑मेतु॒ माम्। मधु॑मेतु॒ माम्। ब्रह्म॑मेव॒ मधु॑मेतु॒ माम्।


१ झ. ०नो नायको नि०।

[[756]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ ४८] यास्ते॑ सोम प्र॒जा व॒त्सोऽभि॒ सो अ॒हम्। दुष्ष्व॑- प्न॒हन्दुरु॑ष्षह। यास्ते॑ सोम प्रा॒णा ँस्तान्जु॑होमि, इति।

ब्रह्मं परब्रह्मतत्त्वं मामेतु प्राप्नोतु। मधुं परमानन्दलक्षणमाधुर्योपेतं वस्तु मामेतु प्राप्नोतु। न चात्र ब्रह्ममधुशब्दयोरत्यन्तमर्थभेदः, किं तर्हि ब्रह्ममेव मधुं शब्दद्वयप्रतिपाद्यमखण्डैकरसं वस्तु मामेव प्राप्नोतु । हे सोम, उमा ब्रह्मविद्या तया सह वर्तमान परमात्मंस्ते तव याः प्रजा देवमनुष्यादयः सन्ति ता अभिलक्ष्य सो अहं स तादृशस्त्वत्सेवकोऽहं वत्सो बाल एतासां त्वदीयप्रजानां मध्ये बालवदहं त्वदीयकरुणायोग्यः। अतो हे दुष्ष्वप्नहन्संसाररूपस्य दुःस्वप्नस्य घातक परमेश्वर दुरुष्षह दुःखमुत्कर्षेणाभिभव। वर्णविकारश्छान्दसः। हे सोम परमात्मंस्ते त्वदीयाः प्राणवृत्तयो याः सन्ति तान्वृत्तिप्राणांस्त्वयि जुहोमि प्रक्षिपामि मदीयमनोवागादयः प्राणास्त्वया निर्मितत्त्वदीया अतस्त्वय्येवोपसंहरामि विषयेभ्य इन्द्रियाणि निरुध्य त्वदेकचित्तो भवामीत्यर्थः॥ उक्तस्य त्रिसुपर्णमन्त्रस्य माहात्म्यं ब्राह्मणरूपेण वाक्येन दर्शयति— त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात्। ब्र॒ह्म॒ह॒त्यां वा ए॒ते घ्न॑न्ति। ये ब्रा॑ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति। ते सोमं॒ प्राप्नु॑वन्ति। आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति। ओम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्य- ष्टचत्वारिंशोऽनुवाकः॥ ४८॥ विद्यान्तराणि सर्वाणि “नापृष्टः कस्यचिद्ब्रूयात् " इतिशास्त्रमनुसृत्य शिष्येण याच्ञायां कृतायां पश्चादुपदिशन्ति। इमं तु त्रिसुपर्णमन्त्रं शिष्ययाच्ञामन्तरेणैव ब्राह्मणायोपदिशेत्। तेनोपदेशेन ये ब्राह्मणास्त्रिसुपर्णं पठन्ति त्रिसुपर्णमन्त्रं सर्वदा जपन्ति, एते पुरुषा ब्रह्महत्यां विनाशयन्ति। ततस्ते निष्पापाः सन्तः सोमयागं प्राप्नुवन्ति शुद्धां कुर्वन्ति। तस्मादों प्रणवप्रतिपाद्यः परमात्मैव त्रिसुपर्णमन्त्रस्य देवतेत्यर्थः॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषद्यष्टचत्वारिंशोऽनुवाकः॥ ४८॥



१ ख. झ. ब्रह्म। २ ख.झ. मधु। ३ ख. झ. मधु। ४ झ. ततो। ५ झ. ०दीया म०।

[[757]]

[प्रपा॰ १० अनु॰ ४९–५०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।