अथ सप्तचत्वारिंशोऽनुवाकः।
ऊर्ध्ववक्त्रप्रतिपादकं मन्त्रमाह— ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्र- ह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि सप्तचत्वारिंशोऽनुवाकः॥ ४७॥
योऽयमूर्ध्ववक्त्रो देवः सोऽयं सर्वविद्यानां वेदशास्त्रादीनां चतुःषष्टिक-लाविद्यानामीशानो नियामकः। तथा सर्वभूतानामखिलप्राणिनामीश्वरो नियामकः। ब्रह्माधिपतिर्वेदस्याधिकत्वेन पालकः। तथा ब्रह्मणो हिरण्यगर्भस्याधिपतिः, तादृशो यो ब्रह्माऽस्ति प्रवृद्धः परमात्मा सोऽयं मे ममानुग्रहाय शिवः शान्तोऽस्तु। सदाशिवों स एव सदाशिव ओमहं भवामि॥
इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि सप्तचत्वारिंशोऽनुवाकः॥ ४७॥