अथ षट्चत्वारिंशोऽनुवाकः।
प्राग्वक्त्रप्रतिपादकं मन्त्रमाह________________________ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि।
१ ग. म. ०मो बलाय नमो व०। २ ख. सर्वेभ्यः। झ. सर्वेभ्यः सर्व शर्वे०।
[[755]]
[प्रपा॰ १० अनु॰ ४७–४८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। तन्नो॑ रुद्रः प्रचो॒दया॑त्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि षट्चत्वारिंशोऽनुवाकः॥ ४६॥
प्राग्वक्त्रेदेवस्तत्पुरुषनामकः। द्वितीयार्थे चतुर्थी। तत्पुरुषं देवं विद्महे गुरुशास्त्रमुखाज्जानीमः। ज्ञात्वा च महादेवाय तं महादेवं धीमहि ध्यायेम। तत्तस्मात्कारणाद्रुद्रो देवो नोऽस्मान्प्रचोदयाज्ज्ञानध्यानार्थं प्रेरयतु॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि षट्चत्वारिंशोऽनुवाकः॥ ४६॥