अथ पञ्चचत्वारिंशोऽनुवाकः।
दक्षिणवक्त्रप्रतिपादकं मन्त्रमाह— अ॒घोरे॑भ्योऽथ॒ घोरे॑भ्यो॒ घोर॒घोर॑तरेभ्यः। सर्व॑तः शर्व॒ सर्वेभ्यो॒ नम॑स्ते अल्तु रु॒द्ररू॑पेभ्यः, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि पञ्चचत्वारिंशोऽनुवाकः॥ ४५॥ अघोरनामको दक्षिणवक्त्ररूपो देवस्तस्य विग्रहा अघोराः सात्त्विकत्वेन शान्ताः। अन्ये तु घोरा राजसत्वेनोग्राः। अपरे तु तामसत्वेन घोरतराः। हे शर्व परमेश्वर ते त्वदीयेभ्यः पूर्वोक्तेभ्यस्त्रिविधेभ्यः सर्वेभ्यो रुद्ररूपेभ्यः सर्वतः सर्वेषु देशेषु सर्वेषु च कालेषु नमोऽस्तु॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि पञ्चचत्वारिंशोऽनुवाकः॥ ४५॥