४१

अथ त्रिचत्वारिंशोऽनुवाकः।


मेधाविनः पुरुषस्य ज्ञानोत्पादनाय महादेवसंबन्धिषु पञ्चवक्त्रेषु मध्ये पश्चिमवक्त्रप्रतिपादकं मन्त्रमाह— स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमः॑। भ॒वे भ॑वे॒ नाति॑भवे भजस्व॒ माम्। भ॒वोद्भ॑वाय॒ नमः॑, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि त्रिचत्वारिंशोऽनुवाकः॥ ४३॥

सद्योजातनामकं यत्पश्चिमवक्त्रं तद्रूपं परमेश्वरं प्रपद्यामि प्राप्नोमि। तादृशाय सद्योजाताय वै नमोऽस्तु। हे सद्योजात भवे भवे तत्तज्जन्मनिमित्तं मां न भजस्व न प्रेरयेत्यर्थः। किं तर्ह्यतिभवे जन्मातिलङ्घननिमित्तं भजस्व तत्त्वज्ञानाय प्रेरय। भवोद्भवाय भवात्संसारादुद्धर्त्रे सद्योजाताय नमोऽस्तु ॥ इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि त्रिचत्वारिंशोऽनुवाकः॥ ४३॥