अथ द्विचत्वारिंशोऽनुवाकः।
पुनरपि मेधार्थं मन्त्रान्तरमाह— आ मां॑ मे॒धा सु॒रभि॑र्वि॒श्वरू॑पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या। ऊर्ज॑स्वती॒ पयसा॒ पिन्व॑माना॒ सा मां॑ मे॒धा सु॒प्रती॑का जुषताम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि द्विचत्वारिंशोऽनुवाकः॥ ४२॥
- एतत्पदमनिश्चितस्वरकम्।
१ ख. झ. दैवीं। २ झ. ०षन्ताम् ३ झ. जुषन्ताम्।
[[753]]
[प्रपा॰ १० अनु॰ ४३–४४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। मेधाशक्तिर्मां प्रत्यागच्छत्विति शेषः। कीदृशी मेधा, सुरभिः शोभनगन्धा कामदुधा वा। विश्वरूपा सकलवेदशास्त्रधारणक्षमत्वेन बहुरूपा। हिरव्यवर्णा देवताशरीरे हिरण्यसमानवर्णोपेता। जगती सर्वत्र वर्तमानत्वेन जगदात्मिका। जगम्या पुरुषार्थकामैर्भृशं गन्तुं योग्या। ऊर्जस्वती बलवती पयसा गोक्षीरादिरसेन पिन्वमानाऽस्मान्प्रीणयन्ती। सा तथाविधगुणयुक्ता मेधा सुप्रतीका सुमुखी भूत्वा मां जुषतां सेवताम्॥
इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि द्विचत्वारिंशोऽनुवाकः॥ ४२॥