३९

अथैकचत्वारिंशोऽनुवाकः।


मेधाप्रदं मन्त्रान्तरं दर्शयति________________________ अ॒प्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यन्मनः॑। दैवी॑ मे॒धा *मनुष्यजा सा मां॑ मे॒धा सु॒रभि॑र्जषताम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्ये- कचत्वारिंशोऽनुवाकः॥ ४१॥ अप्सरासु देवस्त्रीषु या मेधा प्रसिद्धा वर्तते गन्धर्वेषु च देवगायकेषु यन्मनो मेधात्मकमस्ति दैवी हिरण्यगर्भादिदेवेषु स्थिता या मेधा विद्यते मनुष्यजा मनुष्येषु वेदशास्त्रवित्सु या मेधाऽस्ति सा सर्वा सुरभिः शोभनगन्धा सर्वकामदुघा वा भूत्वा मां जुषतां सेवताम्॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषद्येकचत्वारिंशोऽनुवाकः॥ ४१॥