३८

अथ चत्वारिंशोऽनुवाकः।


मेधाप्रदानिन्द्रादीन्प्रार्थयते________________________ मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती। मे॒धां मे॑ अ॒श्विना॑वु॒भौ दे॒वावाध॑त्तां॒ पुष्क॑रस्रजौ, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि चत्वारिंशोऽनुवाकः॥ ४०॥

[[752]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ ४१–४२] योऽयमिन्द्रो देवो या च सरस्वती देवी यौ च पुष्करस्रजौ पद्ममालायुक्तावुभावश्विनौ देवौ ते सर्वे मे मह्यं मेधां प्रयच्छन्तु॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि चत्वारिंशोऽनुवाकः॥ ४०॥