३७

अथैकोनचत्वारिंशोऽनुवाकः।


जीवात्मन ईश्वरेणाभेदज्ञानं यदस्ति तस्य ज्ञानस्य नैरन्तर्येण साधनं मेधाधीनमतो मेधाभिमानिदेवतां प्रार्थयितुमेकामृचमाह— मे॒धा दे॒वी जु॒षमा॑णा न॒ आगा॑द्वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्यमा॑ना । त्वया॒ जुष्टा॑ जु॒षमा॑णा दु॒रु-


१ ग. ०धानहेतु म०। २ ग. झ. प्रीणाति। ३ ग. प्रसन्नो।

[[751]]

[प्रपा॰ १० अनु॰ ४०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। क्तान्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑, इति।

ग्रन्थतदर्थयोर्धारणशक्तिर्मेधा, तदभिमानिनी देवी जुषमाणा प्रीयमाणा सती नोऽस्मान्प्रत्यागादाच्छतु। कीदृशी देवी। विश्वमञ्चतीति विश्वाची सर्वावगाहनक्षमेत्यर्थः। अत एव भद्रा कल्याणी। सुमनस्यमाना शोभनं मनोऽस्मदनुग्राहकमिच्छन्ती । हे देवी त्वया जुष्टाऽनुगृहीता वयं दुरुक्ताञ्जुषमाणाः पुरुषार्थानुपयोगिनो वेदबाह्याञ्शब्दान्सेवमाना वेदैकनिष्ठाः सुविराः शोभनपुत्रशिष्यादिरूपा विदथे यज्ञेऽनुष्ठिते सति शुद्धान्तःकरणा भूत्वा बृहद्वदेम परब्रह्मतत्त्वं कथयाम।

तत्रैव द्वितीयामृचमाह— त्वया॒ जुष्ट॑ ऋ॒षिर्भ॑वति देवि॒ त्वया॒ ब्रह्मा॑ऽऽग॒- तश्री॑रु॒त त्वया॑। त्वया॒ जुष्ट॑श्चि॒त्रं वि॑न्दते वसु॒ नो॑ जुषस्व॒ द्रवि॑णेन मेधए, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्येकोन- चत्वारिंशोऽनुवाकः॥ ३९॥

हे देवि मेधाख्ये त्वया जुष्टः सेवितोऽनुगृहीतः पुरुष ऋषिरतीन्द्रियदर्शी भवति । तथा त्वया जुष्टः पुरुषो ब्रह्मा हिरण्यगर्भो भवति। उतापि च त्वया जुष्टः पुरुष आगतश्रीः प्राप्तसंपद्भवति। अत एव त्वया जुष्टः पुरुषश्चित्रं गवाश्वभूहिरण्यधान्यादिकं विविधं वसु धनं विन्दते लभते। हे मेधे देवि सा तादृशी त्वं नोऽस्मान्द्रविणेन धनेन जुषस्व सेवस्वानुगृहाणेत्यर्थः॥ इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषद्येकोनचत्वारिंशोऽनुवाकः।। ३९॥