अथ षट्त्रिंशोऽनुवाकः।
भुक्तस्यानुमन्त्रणे मन्त्रमाह— श्र॒द्धायां॑ प्रा॒णे निवि॑श्या॒मृत॑ ँ हु॒तम्। प्रा॒णमन्ने॑नाऽऽ- प्यायस्व। अ॒पा॒ने निवि॑श्या॒मृत॑ ँ हु॒तम्। अ॒पा॒नमन्ने॑- नाऽऽप्यायस्व। व्या॒ने निवि॑श्या॒मृत॑ ँ हु॒तम्। व्या॒न- मन्ने॑नाऽऽप्यायस्व। उ॒दा॒ने निवि॑श्या॒मृत॑ ँ हु॒तम्। उ॒दा॒- नमन्ने॑नाऽऽप्यायस्व। स॒मा॒ने निवि॑श्या॒मृत॑ ँ हु॒तम्। स॒मा॒नमन्ने॑नाऽऽप्यायस्व। ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिष षट्त्रिंशोऽनुवाकः॥ ३६॥
वैदिके कर्मणि विश्वासातिशयः श्रद्धा, तस्यां सत्यां प्राणवायौ निविश्याऽऽदरातिशयं कृत्वाऽमृतमविनश्वरं स्वादुभूतमिदं हविर्मया हुतम्। हे प्राणाभिमानिदेव हुतेनान्नेनाऽऽप्यायस्व वर्धयस्व। स्पष्टमन्यत्॥
इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि षट्त्रिंशोऽनुवाकः।। ३६॥
अथ सप्तत्रिंशोऽनुवाकः।
अनुमन्त्रणादूर्ध्वं हृदयाभिमर्शने मन्त्रमाह________________________ प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा– न्तकः। तेनान्नेना॑ऽऽप्याय॒स्व, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिष सप्तत्रिंशोऽनुवाकः॥ ३७॥
हे त्द्ददयवर्तिन्नहंकार त्वं वायुरूपाणामिन्द्रियरूपाणां च प्राणानां ग्रन्थिरसि परस्परमविश्लेषाय ग्रथनहेतुरसि। तादृशस्त्वं रुद्रस्त्वदभिमानिदेवतारूपोऽन्तको
[[750]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ ३८–३९] दुःखस्य विनाशको भूत्वा मा मां विश मच्छरीरे प्रविष्टो भव। तेन मद्भुक्तेना न्नेनाऽऽप्यायस्व मामभिवर्धय॥
इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि सप्तत्रिंशोऽनुवाकः।। ३७॥
अथाष्टात्रिंशोऽनुवाकः।
क्षुधादिजनितचित्तविक्षेपशान्तेरूर्ध्वं भोक्तुर्जीवस्य परमेश्वररूपत्वानुसंधाने हेतुभूतं मन्त्रं दर्शयति________________________ अङ्गुष्ठामात्रः पुरुषोऽङ्गुष्ठं च॑ समा॒श्रितः। ईशः सर्वस्य जगतः प्रभुः प्रीणातु॑ विश्व॒भुक्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्य- ष्टात्रिंशोऽनुवाकः॥ ३८॥ त्द्ददयमध्यगत आकाशः स्वाङ्गुष्ठपरिमितः। तत्र वर्तमाना बुद्धिरपि तावती। तयाऽवच्छिन्नो जीवरूपः पुरुषोऽप्यङ्गुष्ठमात्रः। स च स्वकीयया ज्ञान- क्रियाशक्त्याऽङ्गुष्ठं समाश्रितः। चकारान्मस्तकं चाऽऽश्रितः। आपादम- स्तकव्यापीत्यर्थः। स चोपाधिसंबन्धमन्तरेण स्वकीयेन वास्तवेन रूपेण सर्वस्य जगत ईशो नियन्ता। अत एव विश्वभुक्सर्वं जगद्भुङ्क्ते। तादृशः स प्रभुरीश्वरः प्रीणातु, अनेन भोजनेन प्रीतो भवतु॥
इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषद्यष्टात्रिंशोऽनुवाकः।। ३८॥