अथ त्रयोस्त्रिंशोऽनुवाकः।
जलप्राशनादूर्ध्वं प्राणाहुतिमन्त्रान्दर्शयति________________________ प्रा॒णे निविष्टो॒ऽमृतं॑ जुहोमि। प्रा॒णाय॒ स्वाहा॑। अ॒पा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि। अ॒पा॒नाय॒ स्वाहा॑। व्या॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि। व्या॒नाय॒ स्वाहा॑। उ॒दा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि। उ॒दा॒नाय॒ स्वाहा॑। स॒मा॒ने निवि॑ष्टो॒ऽमृतं॑ जिहोमि। स॒मा॒नाय॒ स्वाहा॑। ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑, इति॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिष त्रयोस्त्रिंशोऽनुवाकः॥ ३३॥ पञ्चसु शरीरगतवायुभेदेषु मध्ये प्रथमे प्राणनामके वायौ निविष्ट आदरयुक्तोऽहममृतं स्वादुभूतमिदं हविर्जुहोमि प्रक्षिपामि। तच्च प्राणदेवतायै स्वाहा स्वाहुतमस्तु। एवमपादिषु योज्यम्। एताभिः पञ्चभिराहुतिभिरमृतत्वाय मोक्षाय मे मदीय आत्मा जीवो ब्रह्मणि परमात्मनि एकी भवत्विति शेषः॥
इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि त्रयोस्त्रिंशोऽनुवाकः॥ ३३॥
१ झ. ०या ब्रह्मणस्तत्त्वमा०। २ ख. ०तद०। ३ ख. कुर्वन्ति।
[[748]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ ३४–३५]