३२

अथ द्वात्रिंशोऽनुवाकः।


अथ भोजनादावपां प्राशने मन्त्रमाह— अ॒मृ॒तो॒प॒स्तर॑णमसि, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिष द्वात्रिंशोऽनुवाकः॥ ३२॥

[[747]]

[प्रपा॰ १० अनु॰ ३३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। पीयमान हे जाल त्वमृतं विनाशरहितं प्राणदेवताया उपस्तरणमसि। यथा शयानस्य पुंसो मच्चकस्योपरितनं पटादिकमुपस्तीर्यते तद्वत्प्राणदेवताया इदमुपस्तरणम्। तथा च वाजसनेयिनः प्राणविद्यायां प्राणदेवताया जलवस्त्रत्वमामन्ति—“तस्मादशिष्यन्नाचाभेदशित्वाऽऽचामेदेतमेव तदन्नमनग्नं कुरुते " इति॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि द्वात्रिंशोऽनुवाकः॥ ३२॥