अथैकत्रिंशोऽनुवाकः।
गायत्रीदेव्या विसर्जनादूर्ध्वं तत्त्वानुस्मरणभूतस्य ब्रह्मण उपस्थानमन्त्रमाह– ओमन्तश्चरति॑ भूते॒षु गुहायां वि॑श्वमूर्तिषु। त्वं यज्ञस्त्वं विष्णुस्त्वं वषट्कारस्त्वं रुद्रस्त्वं ब्रह्मा त्वं॑ प्रजा॒पतिः, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनि- षदिद्येकत्रिंशोऽनुवाकः॥ ३१॥
विश्वमूर्तिषु देवमनुष्यगन्धर्वादिनानाशरीरयुक्तेषु भूतेषु प्राणिषु गुहायां बुद्धावन्तर्मध्य ओं प्रणवप्रतिपाद्यः परमात्मा चरति वर्तते। हे परमात्मन्यो यज्ञो ज्योतिष्टोमादिः स त्वमेव। यश्च विष्णुर्जगत्पालको योऽपि वषट्कारो हविष्प्रदानमन्त्रो यश्च रुद्रः संहर्ता यश्च ब्रह्मा जगत्स्रष्टा यश्च प्रजापतिर्दक्षादिः प्रजापालकः स सर्वोऽपि त्वमेव॥
इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञक्यामुपनिषद्येकत्रिंशोऽनुवाकः॥ ३१॥