अथ त्रिंशोऽनुवाकः।
जपादूर्ध्वं गायत्रीदेवताया विसर्जनमन्त्रमाह— उ॒त्तमे॑ शिख॑रे +दे॒वी॒ भू॒भ्यां पर्वत॒मूर्ध॑नि। ब्रा॒ह्मणे॑भ्योऽभ्य॑नुज्ञा॒ता॒ ग॒च्छ दे॑वि य॒थासु॑खम्, इति।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि त्रिंशोऽनुवाकः॥ ३०॥
- एतदग्रे ग. झ. पुस्तकयोः ’ ॐ तत्सत्यम् ’ इत्यधिकम्। + एतत्पदमनिश्चि-तस्वरकम्।
१ झ. ०त्पुरो नमः।
[[746]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ ३१–३२]
सायण-टीका
भूम्याम् अवस्थितो यः पर्वतो मेरु-नामस्
तस्य मूर्धन्य् उपरिभागे यद् उत्तमं शिखरम् अस्ति
तस्मिन्न् इयं गायत्री देवी तिष्ठति।
तस्मात् कारणाद् धे देवि
ब्राह्मणेभ्यस् त्वद् उपासकेभ्यस् त्वद्-अनुग्रहेण परितुष्टेभ्यो ऽनुज्ञानम् अभिव्याप्य
यथा-सुखं स्वकीय-सुखम् अनतिक्रम्य स्व-स्थाने तस्मिन्न् उत्तम-शिखरे गच्छ॥
इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां त्रिंशोऽनुवाकः॥ ३०॥