२९

अथैकोनत्रिंशोऽनुवाकः।


पुनरिप विकल्पितं मन्त्रान्तरमाह— ओं॑ तद्ब्र॒ह्म। ओं॑ तद्वा॒युः। ओं॑ तदा॒त्मा*। ओं॑ तत्सर्व॑म्। ओं॑ तत्पुरो॒र्नमः, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिष- द्येकोनत्रिंशोऽनुवाकः॥ २९॥ ओं प्रणनप्रतिपाद्यं तत्सर्ववेदान्तप्रसिद्धं ब्रह्म तत्त्वम्। तथा वायुः सूत्रात्मरूपो हिरण्यगर्भ ओं तत्प्रणनप्रतिपाद्यं वेदान्दप्रसिद्धं ब्रह्मैव। तथैवाऽऽत्मा जीवोऽपि। ओं तदिति पूर्ववत्। सर्वं जगदों तदिति पूर्ववत्। पुरः पुराणि स्थूलसूक्ष्मकारणशरीराणि। ओं तदिति पूर्ववत्। तादृशाय ब्रह्मणे नमोऽस्तु। प्राणायामे शक्तितारतम्यमनुसृत्य विकल्पितं मन्त्रत्रयमुक्तम्॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषद्येकोनत्रिंशोऽनुवाकः॥ २९॥