२७

अथ सप्तविंशोऽनुवाकः।


गायत्र्या आवाहनादूर्ध्वं प्राणायामार्थं मन्त्रमाह– ओं भूः। ओं भुवः। ओ ँ सुवः। ओं महः। ओं जनः। ओं तपः। ओ ँ स॒त्यम्। ओं तत्स॑वि॒तुर्वरेण्यं॒


१ ख. झ. ०यत्री छ०। २ ख. झ. मातेदं। ३ ख. झ. मे। ४ झ. ०ष्टप्र०।

[[744]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ २८] भर्गो॑ दे॒वस्य॑ धीमहि। धीयो॒ यो नः॑ प्रचो॒दया॑त्। ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि सप्तविंशोऽनुवाकः॥ २७॥

भूरादयः सत्यान्ता लोकप्रतिपादिकाः सप्त व्याहृतयः। तेषां च लोकनां प्रणवप्रतिपाद्यब्रह्मस्वरूपत्वविवक्षया प्रत्येकं प्रणवोच्चारण्। सत्सवितुरित्यादिको गायत्री मन्त्रः। तत्प्रतिपाद्यस्य ब्रह्मत्वविवक्षया तदादौ प्रणवोच्चरणम्। मन्त्रस्य चायमर्थ: — सवितुः प्रेरकस्यान्तर्यामिणो देवस्य वरेण्यं वरणीयं श्रेष्ठं तद्भर्गस्तेजो धीमहि ध्यायेम। यः सविता परमेश्वरो नोऽस्मदीया धियो बुद्धिवृत्तीः प्रचोदयात्प्रकर्षेण तत्त्वबोधे प्रेरयतु। यच्च ज्योतिरादित्यादिकमस्ति। योऽपि रसो मधुराम्लादिः षड्विधोऽस्ति। यदपि अमृतं देवैः पातव्यमस्ति। तत्सर्वमों प्रणवप्रतिपाद्यं ब्रह्म। किं च भूर्भुवः सुवरित्यभिहिता ये त्रयो लोकाः सन्ति तेऽप्यों प्रणवप्रतिपाद्यं ब्रह्म। अस्य च मन्त्रस्य प्राणायामाङ्गात्वममृतनादोपनिषदि प्रतिपाद्यते– “सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह। त्रिः पठेदायतप्राणः प्राणायामः स उच्यते” इति॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि सप्तविंशोऽनुवाकः॥ २६॥